Source: Kn Sa TODO: परिष्कार्यम्।
श्री यामुनमुनिस्तुतिः
॥ श्रीमते यामुनमुनये नमः ॥
यदुपज्ञ मशेषवैष्णव श्रीः प्रथिता योगरहस्यविच्च येन ।
शठकोपमुनि विलोकित स्तं
विबुधं नाथमुनिं नमामि नित्यम्
श्रीमन्नाथमुनेर् बुधोत्तममणेर् योगीश्वरस्यात्मजः
श्रीमान् ईश्वर-मुन्य्-अभिख्य उदितस् सद्-धर्म-संरक्षकः । योऽस्मात् संस्तवनाश्रयस्य जनकः श्रीयामुनार्यस्य तं
प्रख्यातात्म-गुणादि-संपदम् अहं श्रीवैष्णवाग्रयं भजे॥ १ ॥
श्रीमद्-रङ्गाधिनेतुर् निरवधिक-दया-पात्र-भूतेश्वराख्यः
प्रादुर्भूतः कुमाराकृतिर् अतिसुकृती विश्वविख्यातकीर्तिः ।
धातावब्दे कुलीरे बुध-दिन-महिते तूत्तराषाढ-तारे राकायां रङ्ग-पुर्यां श्रुति-शिखर-युगोल्लास-कारी तम् ईडे ॥ २ ॥
शुक्ल-पक्ष-चन्द्रवत् प्रवर्धमान-नन्दनं
युक्त-काल-कारित-द्विजार्ह-कर्मशोभिनम् ।
पाठकोक्ति-मात्र-लब्ध–कण्ठ-पाठ-पाठिनं
यामुनं पितामहोक्त-नाम-धारिणं श्रये॥ ३॥
महा-भाष्य-भट्टाभिधानो बुधेन्द्रो
बभौ सर्व-शास्त्रप्-रवक्ता स यस्य ।
तदा ऽनन्य-सामान्य-शास्त्रोपदेष्टा
स्तुवे ऽतः प्रवीणं मुनिं यामुनं तम्॥ ४ ॥
आस्थान्यां चोळ-राजः प्रथित-बुध उवासाक्किय्-आळ्वान्-अभिख्यः
गर्वी चोर्वीबुधेभ्यस् तुदति करम् उपादाय तान् भर्त्सयन् स्म ।
मेधावी यामुनार्यस् स्वगुरुम् अपि तथा पीडितं वीक्ष्य रुष्टः
तस्मै दृप्ताय पद्यं ‘न वयम्’ इति कृतं प्रैषयत् तं नमामि ॥ ६ ॥
आकर्ण्यैतां प्रवृत्तिं निज-परिजनतो ‘मान्य आनीयतां द्राक्
सर्वम् अन्यं मदीयं जयति यदि तदानन्य-साधारणस् स्यात्’ ।
इत्य् उक्त्वान्दोलिकाद्यैर् यम् अ-खिल-बिरुदै राट् समानाययत् यः
आशैलादित्य् अवादीत् रसमयम् अभयः पद्यं ईडे गुरुं तम् ॥७॥
- पूर्वं शास्त्रार्थवादात् प्रचलित उभयोर्लोकिके वाक्प्रयोगे माता ते नैव वन्ध्या, मनुजपतिरयं सार्वभौम, स्सतीयम् । ईदृक्प्रत्रयस्य प्रतिवच उचितं यस्य नोचे स विद्वान् यस्मै राज्यार्ध मुर्वीपति रथ च मुदा दत्ता सम्भावये तम् ॥ आयान्तं प्रतिवीक्ष्य चोळमहिषी प्रोचे मुदा यामुनं यं कारुण्यपयोधि मात्मगुणिनं पाण्डित्यकल्पद्रुमम् । ‘किं मां शास्तु मुपागतोऽसि भगवन्नुज्जीवये’ त्यब्रवीत् यस्य द्राविडनामतोऽपि चरितं ख्यातं भजे तं गुरुम् ॥
- राजभोगभोगिनं सभार्यमार्ययामुनं राममिश्र एकदा गुरो र्निदेशतो मुदा आत्मसाद्विधातु मेत्य नेक्षितुं शशाक यं शाकमेकमीप्सितं ददावलर्कनामकम् ॥
- पाचकस्य कस्यचित्करे विपच्य भोजये- त्यन्वहं तथाशयन्नपीप्सितं यदाप न । जोष मेकवासरं स्थितोऽथ सूद माह यो
- १०
- ९
- ६
- भो ! अलर्कशाकदं प्रदर्शयेति तं भजे ॥
- ११
- PH
- 689
- १२
- १३
- १४
- नृपविभवविलोलो राममिश्रं विवक्षं
- समयविदुपयातं यामुनार्योऽन्वयुङ्क्तः । अतिशयमहिमा त्वं कांक्षसे किं ददानी-
- त्यथ किमपि न चाहं किं तु दित्सुः प्रभो ! ते ॥
- आवन् प्रत्ना मनीषिन् ! निधिमिव भवतः कंचिदर्थे त्वदर्थं श्रुत्वैवोपैष्यभिज्ञ स्तदवधि सविधं देहि ते मेऽभिवेत्त्रे । एवं विज्ञापितो य स्तदनु बहुविधं तेन गीतार्थसारं विज्ञायात्यन्तहृष्टोऽभवदुपगमितोपाय आभावये तम् ॥
- गीतार्थं सरहस्य माशु बुबुधे श्रीराममिश्राश्रयात्.-.- साक्षात्कार मनन्यबोधसुलभं मोक्षोपकारं यतः । तस्योपाय मवाप यश्च समये वैराग्यभाग्यो बभौ श्रीरङ्गेशनिषेवणैकसुमति र्भूत्वा तं अन्तर्दधे ॥
- परमात्मन्यनुरक्तं प्राकृतविषये विरक्तं आत्मज्ञम् । परिपक्वचित्तवृत्तिं यामुनयतिचक्रवर्तिनं वन्दे ॥
- पूर्णं महापूर्ण मुखै स्स्वशिष्यैः गुणार्णवै र्यं नियुयोज तूर्णम् । श्रीराममिश्रः कुरुकाधिपालसूरिं रहस्यार्थमिहीत्यये तम् ॥
- श्रीराममिश्रगुरु रात्मान्तकाल मभिवीक्ष्यात्मबोधवशिनं श्रीरङ्ग आस्व बुधमान्यं स्थिरीकुरु च सद्दर्शनप्रवचने । एवं समीर्य कमलाक्षं विचिन्त्य गुरु मादिश्य यं स्वयमयात् तं यामुनार्य मह मीडे सदावसथ माधूतवादिनिकरम् ॥
- यथा गुरूक्तं कुरुकावलप्पन् वशे स्थितं योगरहस्य मातुम् । य स्तं समाधिस्थ मुपेत्य भीतो विघ्नाच्च तूष्णीं स्थित आश्रये तम् श्रीनाथमुन्यन्वयज स्सुधीन्द्रः यः कोप्युपायात इहास्ति वेति । श्रुत्वा गिरं यश्च विसिष्मयेऽथ ज्ञातं कथं न्वित्यवदत् तमीडे ॥
- १५
- १६
- १७
- י
- १.-….
- 2016
- 690
- A
- पद्मासेचनकांबुजाक्षिमधुरालोकैर्विकृष्टोप्यहो-
- मा मानन्दिन मप्यपास्य कमलाकान्तोऽन्य मन्वैक्षत । वंश्यो नाथमुने र्भवेदिति विदन् येनाथ संप्रार्थितः
- भूयो यस्य समागमाय समयं चाऽहाश्रये तं गुरुम् ॥
- श्रीरङ्गेऽध्ययनोत्सवे शठरिपो स्सूक्तिं सुगीतां बुधैः श्रुत्वानन्तपयोजनाभचरणाम्भोजैकसेवादरः । गत्वाऽनन्तपुरं निजाभिलषितं संपूर्य तत्रोषितः स्मृत्वा योगरहस्यवेदनदिनं खिन्न स्तमार्यं भजे ॥
- काञ्चीमण्डलवासिनौ द्विजवरौ श्रीरङ्गमासेदतुः नत्वा यं मुनिंप स्वदेशकुशलोदन्तं प्रसङ्गान्मुदा । श्रीरामानुज वैभवं बहुमुखं चा वेदयामासतुः श्रुत्वैतादृश मिष्टमेव फलितं मेने च य स्तं भजे ॥
- शिष्यै स्साकं करिगिरिपते मङ्गळाशासनं यः कृत्वा रामावरजयमिनं प्रक्ष्य दूराच्च तुष्टः देवं भूयोप्यनमदभयं प्रार्थयन् स्वेष्टसिद्ध्यै रङ्गास्थाने निजमतपरीरक्षणार्थं भजे तम् ॥
- श्रीराममिश्रगुरुराडुपदेशलब्ध गीतार्थसारसमुदीक्षणतो वितेने । गीतार्थसंग्रहसमाख्यकृतिं प्रशस्तां य स्तत्वनिश्चयचणः प्रणमामाम्यहं तम् ।
- प्रामाण्यमागमानां प्राज्ञमन्यै र्विलोपितं जगति । प्रमाण्य मागमीयं पुनरप्य स्थापि येन तं वन्दे ॥
पुरुरुषा पुरुषाः परुषोक्तिभिः पुरुषतत्वविवाद मकुर्वत । पुरुषनिर्णयमाह तदा च यः तमुपयामि गुरुं मुनिर्यामुनम् ॥ २० २१ २२ २३ २४ 26 २५ २६
691 ई यदा लक्ष्मीतत्वे विविधकथका नैकमतयः मिथो वादोन्मत्ता नयपथविदूरा स्समभवन् । चतुश्लोक्या य स्तान् व्यजयत तदा निर्णयगिरा सदा सेवे भक्त्या निखिलजननीं तं च यमिनम् ॥ आत्मेश्वराद्ये प्रथिते च सिद्धी संविन्मुखा सिद्धि रितीह तिस्रः । तत्वप्रबोधाय हि यो व्यतानीत् प्रणौमि तं यामुन मद्वितीयम् ॥ प्रत्नवाक्प्रयत्नलभ्य मुक्त्ययत्नदायिनं तत्वसार मद्वितीय मत्युदारभावदम् । स्तोत्ररत्ननामधेय मागमोक्तिभक्तिदं य श्वकार यामुनं त माश्रये कवीश्वरम् ॥ स्मारं स्मारं गुरुं स्वं प्रथितमतिमता मुत्तमं राममिश्रं श्रीमद्रङ्गाधिनेतु स्सविध उपकृतं सर्वनिर्वाहशक्तम् । श्रदमद्रामानुजं चायतियतितिलकं भावयन् अन्त्यकाले आकुंच्यात्मांगुली र्यः समदिश दखिलं तं भजे यामुनेयम् ॥ श्रीमद्यामुन संयमीन्द्रगुणालङ्कारविद्योतिनीं एतां त्रिंशत मादाराद्विरचितां ये कीर्तयन्त्यन्वहम् । गोपालेन गुरूत्तमांघ्रिकमलास्वादैकलोलेन ते विद्वांस स्सकलाभिनन्द्यचरिता भान्त्यात्मभाग्याधिकाः ॥ इति विदुषा गोपालार्येण विरचिता श्रीमद्यामुनमुनिस्तुतिः सम्पूर्णा ॥ श्रीमद्यामुनमुनये नमः ॥