TODO: परिष्कार्यम्
Source: Kn Sa
॥ श्रीः ॥ ॥ श्रीनिवास-प्रपदन-स्तुतिः ॥ कवेरकन्यासुतटेऽतिरम्ये श्रीवेणुगोपालसहाधिवासम् । भक्तानुकम्पार्थकृतावतारं श्री श्रीनिवासं शरणं प्रपद्ये ॥ क्षेत्रे पवित्रे कृतशालिगोत्रे मुदा वसन्तं सकलेष्टदं हरिम् । अपारसंसारसमुद्रसेतुं रमानिवासं शरणं प्रपद्ये ॥ कावेरिकाकूलसुशालिशालिश्रीसोसलेनाम्नि पुरे वसन्तम् । ददानमासेचनकं सुदर्शनं लक्ष्मीनिवासं शरणं वृणेऽहम् ॥ महीसुराराधितपादपद्मं पद्मनिवासं करुणालु मार्तिहम् । अस्मद्गुरूदारपरंपराभि स्संसेवितं तं शरणं व्रजामि ॥ नमस्ते नमस्ते कटिन्यस्तपाणे सदादर्शितात्मीयपादैकपाणे | स्थिरां देहि भक्तिं भवत्पादपद्मे प्रदेहि श्रियं निश्चलां श्रीनिवास ॥ पञ्चपद्यां स्तुतिं भक्तिपद्या माश्रित्य यः पठेत् । गोपालगीतां सततं लभेतात्मेप्सितं फलम् ॥ 679