೨೧ रामानुज-पञ्चाशत्

Source: Kn Sa

TODO: परिष्कार्यम्

रामानुज-पञ्चाशत्

श्रीमान् रामानुजाचार्यो विशिष्टाद्वैतदेशिकः ।
वेदान्ता येन संत्राता स्सन्निधत्तां सदा हृदी ॥ १
हारीतकेशवसुधी हृदयाब्जमित्रं लोकैकमित्रमवधारितसर्वशास्त्रम् ।
सद्वंश्यसच्चरितकान्तिमतीतनूजं
रामानुजं गुरुवरं शरणं प्रपद्ये ॥
पिङ्गळाब्दचैत्रशुक्लपञ्चमीयुगार्द्रभे वासरे गुरो श्शुभे हि हारितान्वयेन्दुना । विप्रवर्य केशवाभिधेन सोमयाजिना माद्रिपूर्णसोदरीभुवि प्रसूत माश्रये ॥ शेषावतार इति माधवपञ्चहेति- रूपावतार इति सैन्यते श्च रूपम् । इत्यादरात् यदवतारविदो जगु स्तं रामानुजं यतिपतिं शरणं प्रपद्ये ॥
पद्मासनस्थिति मभीतिकरं श्रितानां तत्त्वं परं समुपदेष्टु मुपात्तमुद्रम् । काषायमण्डिततनुं करधृत्त्रिदण्डं
रामानुजं मुनिवरं शरणं प्रपद्ये ॥
670
मदन्तस्सन्तापं शमयतु गुरु र्यस्य च गिरः त्रयीचूडानिष्यन्मधुररसपीयूषभरिताः । अलङ्कुर्वल्लक्ष्मीरमणहृदयामोदनकराः
पप्रद्ये तं रामानुजयतिमणिं वैष्णवनिधिम् ॥
मनीषा यदीया श्रुतीनां विभूषा विशेषाय काषायवेषो यदीयः । विधूता स्समस्तेषणा येन निन्यं श्रयेऽहं दयाळु मुनिं लक्ष्मणं तम् ॥
पञ्चशाखभासुरत्रिदण्ड उल्लसच्छिखः ब्रह्मसूत्रभूषितः कषायरक्तवस्त्रधृत् । वैष्णवं पदं सुखेन लम्भयन् जनान् स्वयम् विष्टपे य एधते भजामि तं मुनीश्वरम् ॥
वेदान्तसारमतुलं निगमान्तदीपं निर्दोष मद्भुत मनुत्तमभावभूषम् । श्रीभाष्य मन्यनुतनित्यमतीवहृद्यं वैकुण्ठरङ्गशरणागति पूर्वगद्यम् ॥
वेदार्थसँग्रहमथो भगवन्मुखोत्थ- गीतार्थवर्णनपरं परमं च भाष्यम् । चक्रे कृती नव हि ता इति य स्तमाहुः रामानुजं गुरुवरं शरणं प्रपद्ये
‘कप्यास’ मित्यकृतकोक्तिशिरोविराजि- वाक्यस्य यादवगुरूक्त मनर्थमर्थम् ।
१०
+
कापेयपृष्टसद्दशे नयने विभोरि- त्याकर्ण्य य श्शुचमगात्तमहं प्रपद्ये ॥
कप्यासवाक्यसहजार्थविबोधनाय विद्योतमानरसपुष्टिमुदात्तभावम् ।
व्याख्याय तं बुधमनोहरमर्थमाशु
योऽभूत् गुरोरपि गुरु स्तमहं प्रपद्ये ॥
कमिति सलिल मेतत् यः पिबत्यर्यमा सः कपिरिति कथित स्तेनास्यते यत् तदब्जम् । विकसितकमलाभे पद्मनाभस्य नेत्रे भवत इति य ऊचे तं यतीन्द्रं प्रपद्ये ॥
कं प्यासं यस्य तच्चे त्यकथि कमल मित्यर्थमादाय तद्वत् स्यातां नेत्रे यदीये स भवति कमलाक्षा न्न चान्यो मुकुन्दात् । एवं रम्यार्थवत्वे प्यनुचितकथनै र्येन यो निर्जित स्तं योगीशानं प्रपद्ये भगवदुरुकृपापात्ररामानुजार्यम् ॥
काञ्चीमण्डलवल्लभस्य दुहिता सम्पीडिता रक्षसा ब्राह्येनेत्यवगत्य यादवगुरू राज्ञा समाकारितः । गत्वा तेन विलोकिते गुरुरयं नालं मदुत्सारणा-
671
११
१२
१३
१४
ये त्याक्रुश्य तिरश्चकार ‘विबुध!’ त्वं याहि शिष्यस्तु ते । ।
१५
शक्तो मां प्रतिरोद्धुमद्य बुधराट् यो ब्राह्मण स्वत्वतः । त्वं पूर्वं वृषशैलमार्गगजनोच्छिष्टान्नभुक्ते र्ननु । गोधारूपमपास्य विप्रजनुषं प्राप्तोऽसि विद्वानिहे- ’ त्युक्त्वा मूर्ध्नि यदीयपादकमलन्यासाद्धि धन्या कृता ॥
१६
672
यत्पादाम्बुजधारणाच्छिरसि सा राज्ञ स्सुता रक्षसः निर्मुक्ता सुखमेधते स्म महिमा रामानुजार्यस्य च । काञ्जीभूषणहस्तिशैलविलसद्देवाधिराजालये यः कालं श्रितशिष्यबोधनविधौ निन्ये गुरुं तं भजे ॥
य स्साक्षात्कृतकृष्णदर्शितमहानिक्षेपविद्यां हितां संवादाकृतिमात्तगद्यवपुषं सर्वोपभोग्यां मुदा । कृत्वोज्जीवनमात्मनां च विदधे निर्मत्सरो निर्ममः
अपसरति भयं यन्नामसंकीर्तनाद्यैः
१७
तं योगीशमुदात्तभावमनघं भक्त्या भजे लक्ष्मणम् ॥
१८
विलसति परतत्वं यद्वचोभिश्च गूढम् ।
विमततिमिरभानु र्वेदचूडासुधांशुः
विहरतु स यतीन्द्रो मानसाब्जे मदीये ॥
१९
सिद्धान्तार्थप्रवचनपथं याति रामानुजायें
ह्याम्नायानां क्वचिदपि न तु स्वार्थहानेः प्रसक्तिः । प्रत्यक्षादिः प्रभवति निजार्थेषु निर्वैरिचारी स्मारं स्मारं तदुदितगिर स्संश्रये तत्पदाब्जे ॥
काणादै र्भुवि वादिभिर्दुरुदयै श्शाक्यै श्च पाषण्डिभिः निश्शेषं च विलोपित श्श्रुतिगतो धर्मोऽभवत् सर्वतः । तादृग्धर्ममरं त्रिदण्डमहितो योगीन्द्ररूपी हरिः
य संरक्षितवानयं स इतियां कीर्तिं दधौ तं भजे ॥ ।
श्रीरङ्गवासरसिको मुनियामुनार्यः
श्रुत्वा यदीयभगवद्द्रतभक्तिमुख्यान् ।
२०
२१
..-.-..
श्रेष्ठान् गुणान् किमपि कर्तु मियेष यस्मिन् तं सद्गुणार्णव मुदारधियं प्रपद्ये ॥
अयं महात्मा यदि दर्शनेऽस्मिन् प्रवेशित स्य्यात् प्रथितो भविष्यति । इत्यचिवान् यं प्रति यामुनार्यः रामानुजं तं शरणं व्रजामि ॥
शास्त्रान्तराध्ययनकालसमाप्तिमेव श्रीयामुने गुरुवरस्य निरीक्षमाणे । विज्ञाय सन्निहित मात्मविमुक्तिकालं ह्यानाययत् य मनिशं तमहं प्रपद्ये ॥
संप्राप्ते चरमां दशां मुनिवरे श्रीयामुनार्ये तदा तस्याकुञ्चित मंगुलित्रय मथो निर्वर्ण्य तत्कारणम् । ज्ञात्वा योगिकृपावशात्तदखिलं कुर्वेऽहमित्याश्रुते येनैवार्जव माप तत् सपदि तं रामानुजं संश्रये ॥
673
नीत्वा मूकं कदाचित् कमपि निजगृहं बन्धयित्वाऽररं च स्वीयांघ्रिस्पर्शसंज्ञा दिशति यतिपतौ सोऽपि चक्रे तथैव । दृष्ट्वेदं कूरनाथोऽप्यमनुत न कुतोऽवागभूवं किमर्थं शास्त्राभ्यासोऽन्यथा स्यात् मयि गुरुकरुणे त्याश्रये तं मुनीन्द्रम् ॥
सालग्रामनिवासिन स्स्वविषये प्रच्छन्नविद्वेषिणः सन्त्यत्रादरतो न चेति विदितश्शिष्याय योगी तदा । तीर्थे न्यस्य पदौ सदोपविशतादित्याह सोऽप्याचरत् तत्पादाम्बुनिषेवणात् सुचरिता यं चाश्रिता स्तं भजे ॥
२२
२.३
२४
२५
२७HUADMIN
674
भूपो विठ्ठलदेव आत्मतनया दुष्टग्रहोत्पीडिता निर्वासा चरतीति खिन्नहृदय श्श्रुत्वा प्रभावं गुरोः । यस्यानुग्रहतो गतग्रहमतिभ्रान्तिं विलोक्यात्मजां तुष्टाव स्वय मप्यवाप शरणं तं संयमीन्द्रं भजे ॥
भूमिप्राय विष्णुवर्धनेति नाम्नि धारिते गर्विता जिनानुगा ययुर्गुरुं तदोचिरे । भो ! विजित्य नो न किं स्वकीयमेतमीप्ससी- त्याशु तान् स्वसेविनो व्यधात्तमाश्रये मुनिम् ॥
बहुगुणबहुधान्ये भानुखेळाशकाब्दे (१०१२) मकरसितचतुर्दश्यह्नि तारेऽदिते च । यदुगिरिशुभदीपो दर्शनेच्छानुरूपः
नयनगत उपासे यस्य नारायण स्तम् ॥
श्रीपाञ्चरात्रगत सात्वतसंहितोक्त-
संप्रोक्षणं शुभकरं कमलेक्षणाय ।
श्रीरङ्गराजकरनीरजतः प्रहृष्टः
योऽकारयत्तमनिशं शरणं प्रपद्ये ॥
योऽभवत्तदोत्सवार्थबेरशोकभाक्ततः
स्वप्नलब्धतत्प्रवृत्युपार्जितात्मविग्रहः ।
नित्यपक्षमासवत्सरोत्सवोत्सुकाग्रणीः
तानकारयन्मुदा सदा तमाश्रये गुरुम् ॥
डिल्लीनाथ ! तवादरेण मुदितो जानीह मा मर्थिनं
यल्लीलार्थ मुपागतोऽत्र रमते रामप्रियो मत्प्रियः ।
२८
२९
३०
३१
३२
675
अत्रत्येषु विचिन्वतां कतम इत्यावेदिते पश्यतः यस्याङ्के स्वयमागत स्समलसत्तदेवमाभावये ॥
पुलकितनिखिलाङ्ग स्तोषितात्मान्तरङ्गः यतिपति रवदत् त्वं संपदां मे कुमारः ।
३३
क्षितिपति रपि दृष्ट्वा तत् प्रहृष्टः प्रपेदे
शरण मनुपदं तं यामि रामानुजार्यम् ॥
३४
रामप्रियोऽसौ यतिराजपुत्रः
सम्पत्कुमारः पुरुषोत्तमोऽभूत् ।
यद्योगतो भाग्य मियाय शैलः
प्रख्यात इत्याहु रहं तमीडे ॥
आनीयास्थापि सत्यादिह सनकमुखेनेति नारायणाद्रिः दत्तात्रेयेण वेदा इह परिपठिता इत्यसौ वेदशैलः ।
रामः कृष्णोऽर्चत स्स्मेत्यतिशयितयशा यादवाद्रि स्तृतीये भूयस्तुर्ये युगेऽस्मिन् यतिपतिपुनरुज्जीवनाद्योगिशैलः । ।
नारायणो यन्महिमानमादरात्
प्रकाशयत्युत्सवबेर माप्य ।
संपत्कुमारो यतिराजपुत्रा-
भिख्यां यतोऽगाच्च भजे गुरुं तम् ॥
श्री रामानुज ! मत्प्रिय स्त्व मिह ते त्वत्पादसेवाजुषां त्वत्सिद्धान्तजुषां च नान्यंसुलभां सौभाग्यदां सर्वदा । आत्मीयोभयभूतिसंपदमदामित्याह यस्मै मुदा श्रीरङ्गाधिपति स्तमन्वह महं श्रेयोवहं संश्रये ॥
३५
३६
३७
३८
676
प्रयास्यत्यात्मीयै सहयतिपतौ वेंकटगिरिं
पयस्याजीवैका सुकृतपरिपाकादुपगता । दधिद्रव्यार्था यत्पदसलिलपानान्मतिमती
प्रपेदे मोक्षार्थं तमहमनिशं यामि शरणम् ॥
प्रदक्षिणत एव तं सकृदुपेहि रामानुजं त्रिदण्डकरमण्डितो भवति योगिसेव्यो भवान् । इति द्विपगिरीश्वरे वदति यादव स्स्वप्नतः प्रपद्य शुशुभे स यं मुनिवरं भजे तं सदा ॥
वादोऽतिमोदाद्ववृधे यतीन्दोः दयाळुनाम्ना विदुषा तदा यः ।
निरुत्तरो प्युक्तसदुत्तरश्च
जिगाय देवप्रिय माश्रये तम् ॥
संस्तूयतां किमपि चेति “किडांबियाच्चान्”
आज्ञप्त एक मपठत् स्तुतिरत्नपद्यम् ।
रामानुजे सति भवानगतिः कथं स्यात् !
इत्याह यद्विभव मीश मुपाश्रयेऽहम् ॥
असंख्याता जीवाः कथमपि न मां यान्ति पतिताः कथं वा धत्से तान् विशदय वशीकारसरणिम् । इतीशादापृष्टो गतभय उपायोक्ति मनघां न्यवेदीत् यस्तादृक्सरसवचनं तं गुरु मये ॥
श्रीमान् श्रीशठकोपसूरिरपि यं योगीश्वरं भाविनं
निर्दिश्यैव जगौ जगत्यविकला श्री वैष्णवी वर्धताम् ।
३९
४०
४१
४२
४३
677
इत्येवं स्ववचोभरै श्शमधनं तादृग्यशोभासुरं साटोप : कलिरप्यपाकृत यतो रामानुजं तं भजे ॥
कासारारोहणस्थं पिबति च चटको वीरनारायणीये वाराशौ तत् स्थितं चेज्जनपद ममृतं पापयेदन्वहं हि । इत्थं श्रीनाथयोगी यदमितमहिमोत्कर्ष माविश्चकार प्राज्ञम् रामानुजार्यं जनिभयहरणं तं शरण्यं प्रपद्ये ॥ गोष्ठीपूर्णोपदिष्टं मनु मनुनिलयं प्राप्य नारायणीयं गोष्ठ्या मष्टाक्षरं तं श्रुतिशतमधुरं सर्ववेदार्थसारम् । उच्चै रुच्चारयन् यो निजदुरितफलं त्वेकभोग्यं हि तत्स्यात् मोक्षोऽनेकात्मभोग्यो गुरुवरकृपयेत्याह तं संश्रयेऽहम् ॥
सूक्तेरर्थ स्सनिन्द श्शठजित उचितो यामुनार्यादृत चे त्युक्ते मालाधरायै र्भगवति भवदुक्तोऽयमर्थो न युक्तः । देवस्यैवोपकारस्मृतिपर उचितो हीति संदर्भयोग्यं
व्यख्यास्यन् पूर्णमान्योऽभवदतिकुशलस्तं यतीन्द्रं नमामि ॥
पूर्वाचार्यदयैकवेद्यविषयप्रस्तावनायां क्वचित् श्रीमद्यामुनयोगिनां न हि भवेत् प्रायोऽयमत्राशयः । एवं वादिन माह ’ यामुनमुनिं क्वैत्यैक्षथाः ’ स्रग्धरः । स्यादेवं ननु तस्य सद्गुरुमणे रस्म्येकलव्यः प्रियः ॥ भक्तिप्रस्यन्दिनीं तां गिरमभिदधतो वीक्ष्य तेजो विशेषं शेषं काषायवेषं पुरुष मकलुषं मन्यमानोऽवतारं विष्णोर्नत्वा य मन्त र्बहुविध मनुवत् स्वात्मजं कान्तबाहुं
शिष्यं चाकरायत् यत्पदनळिनयुगे तं भजे संयमीन्द्रम् ॥

४४. ४५ ४६ ४७ ४८ ४९ 678 श्रीरङ्गेन्दों शिश्रयं ता मविकलमहितां योगिभोगी वितेने शेषाशेषात्मदोषप्रमुष मगजुषं भूषिताशेषदोषम् । हस्तीशेक्षाविशेषादलभत यतिरावेष मात्तप्रभावं बेरं माहं ददौ यो यदुगिरिकमितु नमि रामानुजं तम् ॥ एतां पञ्चाशतं ये यतिपतिविषयां श्रद्धया सम्पठन्ति सद्वृत्तां सद्गुणाढ्यांमुनिवरकरुणापात्र गोपालगीताम् । तेभ्यो रामानुजार्यो वितरति सुमतिं भक्तिमात्मेप्सितार्थं शुद्धं ज्ञानं स्थिरं सद्यश इह परतश्चात्मविद्याप्रभावसू ॥ ५० ५१ इति सुमनसा गोपालार्येण विरचिता श्रीरामानुजपञ्चाशत् संपूर्णा