Source: TW
TODO: परिष्कार्यम्।
श्री यामुनमुनिस्तुतिः
॥ श्रीमते यामुनमुनये नमः ॥
यदुपज्ञ मशेषवैष्णव श्रीः प्रथिता योगरहस्यविच्च येन ।
शठकोपमुनि विलोकित स्तं
विबुधं नाथमुनिं नमामि नित्यम्
श्रीमन्नाथमुनेर् बुधोत्तममणेर् योगीश्वरस्यात्मजः
श्रीमान् ईश्वर-मुन्य्-अभिख्य उदितस् सद्-धर्म-संरक्षकः । योऽस्मात् संस्तवनाश्रयस्य जनकः श्रीयामुनार्यस्य तं
प्रख्यातात्म-गुणादि-संपदम् अहं श्रीवैष्णवाग्रयं भजे॥ १ ॥
श्रीमद्-रङ्गाधिनेतुर् निरवधिक-दया-पात्र-भूतेश्वराख्यः
प्रादुर्भूतः कुमाराकृतिर् अतिसुकृती विश्वविख्यातकीर्तिः ।
धातावब्दे कुलीरे बुध-दिन-महिते तूत्तराषाढ-तारे राकायां रङ्ग-पुर्यां श्रुति-शिखर-युगोल्लास-कारी तम् ईडे ॥ २ ॥
शुक्ल-पक्ष-चन्द्रवत् प्रवर्धमान-नन्दनं
युक्त-काल-कारित-द्विजार्ह-कर्मशोभिनम् ।
पाठकोक्ति-मात्र-लब्ध–कण्ठ-पाठ-पाठिनं
यामुनं पितामहोक्त-नाम-धारिणं श्रये॥ ३॥
महा-भाष्य-भट्टाभिधानो बुधेन्द्रो
बभौ सर्व-शास्त्रप्-रवक्ता स यस्य ।
तदा ऽनन्य-सामान्य-शास्त्रोपदेष्टा
स्तुवे ऽतः प्रवीणं मुनिं यामुनं तम्॥ ४ ॥
आस्थान्यां चोळ-राजः प्रथित-बुध उवासाक्किय्-आळ्वान्-अभिख्यः
गर्वी चोर्वीबुधेभ्यस् तुदति करम् उपादाय तान् भर्त्सयन् स्म ।
मेधावी यामुनार्यस् स्वगुरुम् अपि तथा पीडितं वीक्ष्य रुष्टः
तस्मै दृप्ताय पद्यं ‘न वयम्’ इति कृतं प्रैषयत् तं नमामि ॥ ६ ॥
आकर्ण्यैतां प्रवृत्तिं निज-परिजनतो ‘मान्य आनीयतां द्राक्
सर्वम् अन्यं मदीयं जयति यदि तदानन्य-साधारणस् स्यात्’ ।
इत्य् उक्त्वान्दोलिकाद्यैर् यम् अ-खिल-बिरुदै राट् समानाययत् यः
आशैलादित्य् अवादीत् रसमयम् अभयः पद्यं ईडे गुरुं तम् ॥७॥
पूर्वं शास्त्रार्थवादात् प्रचलित उभयोर्लोकिके वाक्प्रयोगे माता ते नैव वन्ध्या, मनुजपतिरयं सार्वभौम, स्सतीयम् । ईदृक्प्रश्नत्रयस्य प्रतिवच उचितं यस्य नोचे स विद्वान् यस्मै राज्यार्ध मुर्वीपति रथ च मुदा दत्त सम्भावये तम् ॥ ८ ॥ आयान्तं प्रतिवीक्ष्य चोळमहिषी प्रोचे मुदा यामुनं यं कारुण्यपयोधि मात्मगुणिनं पाण्डित्यकल्पद्रुमम् । , किं मां शास्तु मुपागतोऽसि भगवन्नुञ्जीवये’ त्यब्रवीत् यस्य द्राविडेनामतोऽपि चरितं ख्यातं भजे तं गुरुम् ॥ ९ ॥ राजभोगभोगिंन सभार्यमार्ययामुनं राममिश्र एकदा गुरो र्निदेशतो मुदा । आत्मसाद्विधातु मेत्य नेक्षितुं शशाक यं शाकमेकमीप्सितं ददावलर्कनामकं पाचकस्य कस्यचित्करे विपच्य भोजये- त्यन्वहं तथाशयन्नपीप्सितं यदाप न । जोष मेकवासरं स्थितोऽथ सूद माह यो भो ! अलर्कशाकदं प्रदर्शयेति तं भजे ॥ १० ॥ ॥ ११ ॥ 10 नृपविभवविलोलो राममिश्र विवक्षु समयविपयातं यामुनार्योऽन्वयुक्तः । अतिशय महिमा त्वं कांक्षसे किं ददानी - त्यथ किमपि न चाहं किं तु दित्सुः प्रभो ! ते ॥ १२ ॥ आवन् प्रत्ना मनीषिन् ! निधिमिव भवतः कंचिदर्थं त्वदर्थं श्रुत्वैवोपप्यभिज्ञ स्तदवधि सविध देहि ते मे भवेत् । एवं विज्ञापितो यस्तदनु बहुविध तेन गीतार्थसारं विज्ञायात्यन्तहृष्टोऽभवदुपगमितोपाय आभावये तम् ॥ १३ ॥ गीतार्थं सरहस्य माशु बुबुधे श्रीराम मिश्राश्रयात् साक्षात्कार मनन्यबोधसुलभं मोक्षोपकारं यतः । तस्योपाय मवाप यश्च समये वैराग्यभाग्यो भौ श्रीरङ्गेशनिषेवणैकसुमतिर्भूत्वा तं अन्तर्दधे परमात्मन्यनुरक्तं प्राकृतविषये विरक्तं आत्मज्ञं । परिपक्वचित्तवृत्तिं यामुनयतिचक्रवर्तिनं वन्दे ॥ १४ ॥ ॥ १५ पूर्ण महापूर्ण मुखै स्वशिष्यैः गुणार्णवै ये नियुयोज तूर्णम् । श्रीराममिश्रः कुरुकाधिपालसूरिं रहस्यार्थमिहीत्यये तम् ॥१६॥ श्रीराममिश्रगुरु रात्मान्तकाल मभिवीक्ष्यात्मबोधवशिनं श्रीरङ्ग आव बुधमान्यं स्थिरीकुरु च सद्दर्शनप्रवचने । एवं समीर्य कमलाक्षं विचिन्त्य गुरु मादिश्य यं स्वयमयात् तं यामुनार्य मह मीडे सदावसथ माधूतवादिनिकरम् ॥ १७ ॥ यथा गुरुक्तं कुरुकावलप्पन् वशे स्थितं योगरहस्य माप्तम् 1 य स्तं समाधिस्थ मुपेत्य भीतो विघ्नाच्च तूष्णीं स्थित आश्रये तम् श्रीनाथमुन्यन्वयज सुधीन्द्रः यः कोप्युपायात इहास्ति वेति । श्रुत्वा गिरं यथ विसिष्मयेऽथ ज्ञातं कथं न्वित्यवदत् तमीडे ॥ 11 पद्मासेचनकांबुजाक्षिमधुरा लोकैर्विकृष्टोप्यहो- मा मानन्दिन मप्यपास्य कमलाकान्तोऽन्य मन्वैक्षत | वंश्यो नाथमुने भवेदिति विदन् येनाथ संप्रार्थितः भूयो यस्य समागमाय समयं चाहाश्रये तं गुरुम् ॥ २० ॥ श्रीरङ्गेऽध्ययनोत्सवे शठरिपो स्सूक्तिं सुगीतां बुधैः श्रुत्वानन्तपयोजनाभचरणाम्भोजैकसेवादरः । गत्वाऽनन्तपुरं निजाभिलषित संपूर्य तत्रोषितः स्मृत्वा योगरहस्यवेदनदिनं खिन्न स्तमार्यं भजे ॥ २१ ॥ काञ्चीमण्डलवासिनौ द्विजवरौ श्रीरङ्गमासेदतुः नत्वा यं मुनिंप स्वदेश कुशलोदन्तं प्रसङ्गान्मुदा । श्रीरामानुज वैभवं बहुमुखं चा वेदयामासतुः श्रुत्वैतादृश मिष्टमेव फलित मेने च य स्तं भजे ॥ २२ ॥ शिष्यै स्साकं करिगिरिपते मङ्गळाशासनं यः कृत्वा रामावरजयमिन प्रेक्ष्य दूराच्च तुष्ठः । देवं भूयोप्यनमदभयं प्रार्थयन् स्वष्टसिद्धयै रङ्गास्थाने निजमतपरीरक्षणार्थं भजे तम् श्रीराम मिश्रगुरुराडुपदेशलब्ध- गीतार्थसारसमुदीक्षणतो वितेने । ॥ २३ ॥ गीतार्थसंग्रह समाख्यकृतिं प्रशस्तां य स्तत्वनिश्चयचणः प्रणमाम्यहं तम् ॥ २४ ॥ प्रामाण्यमागमानां प्राज्ञमन्यै र्विलोपितं जगति । प्रामाण्य मागमीयं पुनरप्य स्थापि येन तं वन्दे ॥ २५ ॥ पुरुरुषा पुरुषाः परुषोक्तिभिः पुरुषतत्वविवाद मकुर्वत । पुरुषनिर्णयमाह तदा च यः तमुपयामि गुरुं मुनियामुनम् ॥ २६ ॥ 12 यदा लक्ष्मीतत्वे विविधकथका नैकमतयः मिथो वादोन्मत्ता नयपथविदूरा स्समभवन् । चतुश्श्लोक्या य स्तान् व्यजयत तदा निर्णयगिरा सदा सेवे भक्तया निखिलजननीं तं च यमिनम् ॥ २७ आत्मेश्वराद्ये प्रथिते च सिद्धी संविन्मुखा सिद्धि रितीह तिस्रः । तत्वप्रबोधाय हि यो व्यतानीत् प्रणौमि तं यामुन मद्वितीयम् प्रत्नवाकूप्रयत्नलभ्य मुक्त्ययत्नदायिनं तत्वसार मद्वितीय मत्युदारभावदम् । स्तोत्ररत्ननामधेय मागमोक्तिभक्तिदं य श्वकार यामुनं त माश्रये कवीश्वरम् ॥ २८ ॥ ॥ २९ ॥ स्मारं स्मारं गुरुं स्व प्रथितमतिमता मुत्तमं राममिश्रं श्रीमद्रङ्गाधिनेतु स्सविध उपकृतं सर्वनिर्वाहशक्तम् । श्रीमद्रामानुजं चायतियतितिलकं भावयन् अन्त्यकाले आकुंच्यात्मांगुली यः समदिश दखिलं तं भजे यामुनेयम् ३० श्रीमद्यामुन संयमीन्द्रसुगुणालङ्कार विद्योतिनीं एतां त्रिंशत मादाराद्विरचितां ये कीर्तयन्त्यन्वहम् । गोपालेन गुरुत्तमांत्रिकमलास्वादै कलोलेन ते विद्वांस स्सकलाभिनन्द्यचरिता भान्त्यात्मभाग्याधिकाः ॥ इति विदुषा गोपालार्येण विरचिता श्रीमद्यामुनमुनिस्तुतिः सम्पूर्णा ॥ श्रीमद्यामुनमुनये नमः ॥ ॥ 11 3e : 11