श्रीनाथमुनिस्तुतिः

Source: TW

TODO: परिष्कार्यम्।

॥ श्रीः ॥ श्रीनाथमुनिस्तुतिः॥
श्रीमन्नाथमुनये नमः॥

समग्रभक्तियोगाय
ज्ञान-वैराग्य-योगिने ।
नमांसि नाथमुनये
लब्ध-सर्वार्थ-सम्पदे॥

यद्-उपज्ञम् अ-शेष-वैष्णव-श्रीः
प्रथिता योग-रहस्य-विच् च येन । शठ-कोप-मुनिर् विलोकितस् तं
विबुधं नाथमुनिं नमामि नित्यम्॥

यस्मिन्नन्वय ईश्वरो मुनिरिति ख्यातो द्विजन्मोदभूत् पुण्ये श्रीशठमर्पणाभिधकुले तस्य प्रजज्ञे सुतः । ॥२॥ नाम्ना नाथमुनि स्सनाथयति नो योऽद्यापि भाग्याधिकान् तं श्रीवैष्णवतन्त्रदर्शिन महं नौम्यन्वहं योगिनम् भाग्योत्तरे शोभदाख्यवत्सरे श्री वीरनारायणभासुरे पुरे । द्वन्द्वे त्वनूराध उडुन्यहीने 11 3 11 योऽवातरतं प्रणमामि भक्तया राकाधिकः कान्ततनुः स्वकाले चौलादिभिः कर्मभि रात्ततेजाः । सर्वाणि सामान्यविशेषशास्त्रा- ण्यधीत्य रेजे विदुषं भजे तम् 118 11 ॥५॥ 20 तारुण्यपूर्णे वयसि श्रिते यः कारुण्यपूर्णामरविन्दवल्लीम् । आत्मानुरूपां परिणीय यस्यां लेमे सुतं हीश्वरमाश्रये तम् कुर्वन्नात्मज मात्मधर्मनिरतं तत्वोपदेशोत्सुकः स्वाचमृर्ति ममुं समय वरदं श्रीवीरनारायणम् । तत्वं वेदशिरोनिगूढ मनधं यो बोधयन्नन्वहं शिष्येभ्योऽतिमुदा निनाय समयं सर्व त मासेवये अर्चावतारमहिमातिशयानुरूपाः सौलभ्यमुख्यगुणभूषणभासुरा स्ताः । दिव्यस्थलेष्वनुबुभूषुरुदात्तमूर्ती: यः प्रस्थित स्स्वजनयुक्त उपाश्रये तं 11 & 11 ॥ ७ ॥ ॥ ८ ॥ गत्वोदी चीदिशः स्थान्यनुपमसुषुमाबन्धुराण्युत्तमानि स्थानान्यासेव्य सम्यक् भगवत इतराण्यादरान्मोदमानः । भक्तया रूपाण्यपूर्वाण्यखिलजनमनोनेत्रहारीणि वीक्ष्य प्राचीनाचार्य निष्टासरणि मभिनतोऽस्म्यस्मदुत्तारकं तम् ॥। ९ ॥ स्वप्ने चाज्ञापितो य स्सपदि भगवता वीरनारायणेन क्षेत्राधीशानुमत्या पुनरपि महिता माजगामात्मभूमिम् । तत्वोद्रोधेन कालं सकलमपि नयन् पूर्ववत् यस्थित स्तं तत्तत्तीर्थाधिवासप्रमुदितमनसं चिन्तये नाथ मन्तः यात्रार्थिनः कतिचिदाययु रालये ते

॥ 11 १० 8° 11 नारायणस्य सविधे जगु रैशगाधाः । 4 3 आरा’ विति द्रविडसक्तिन वैकयुक्ताः श्रुत्वाद्भुता शडिति ताश्च विवित्सु राह एतादृशीः श्रुतिमनोहरभावबन्धाः गाधासहस्रघटिता इति भान्ति नूनम् । भो वैष्णवाः ! करुणया वदताखिला मे धन्योऽस्म्यतो नु श्रुणवा इति तं नमामि गाधासहस्र मखिलं तु वयं न विद्मः गायेम चेत् दशक मेक मिंद न चान्यत् । नैवास्मदीय पुरवासिषु कोऽपि वेत्ति ग्रन्थोऽपि नेत्यकथि यं प्रति तैः श्रये तम् तीर्थप्रसादे समवाप्य पश्चात् देवाय विज्ञाप्य गतेषु तेषु । एष प्रबन्ध क लमेत मेऽद्ये- त्याशागृहीतो य उपास्महे तम् हृद्या इमा वकुळभूषणयोगिवाचः तज्जन्मदात् कुरुकापुरमेव गत्वा । पृच्छामि तत्र यदि लभ्यत इत्यवेत्य प्रातिष्ठतानुपद माकलये मुनिं तम् शठारिनगरीपतिं वकुलभूषणं चादरात् प्रणम्य सुचिरं स्थित स्तदनु तत्र कंचित् द्विजम् । परांकुशपदाश्रयं समभिवन्द्य तस्मै तदा 11 8 8 11 ॥ १२ ॥ ॥ १३ ॥ 11 28 11 11 84 11 निजागमनकारणं त्वकथयन्मुदा तं भजे ॥ १६ ॥ 4 लुप्ता दिव्य प्रबन्धा वकुलधस्मुनिप्रेष्ठवक्त्राब्जनिर्यत्- वाणीपीयूषधाराधरणिसुरवरा स्वाददूरा बभ्रुवुः । किन्तु ‘श्रीकण्णिनुण्णि’ त्यतिशयमहिता द्व्यष्टपद्यातिहृद्या गीतिः माधुर्यधुर्या मधुरकवि कृता गीयतेऽवत्यविप्रैः ॥ १७ ॥ द्वादशसहस्रवारं गायन् गाथा लभेत संसिद्धिम् शिष्टजनश्रुतिरेषेत्युत्तरवचसा भुमोद तं वन्दे हर्ष प्रकर्षभरितः प्रणमन् द्विज तां अध्यापयाद्य कृपयेति च याचमानः । ॥ १८ ॥ योऽधीतवांश्च मधुरोक्तितती: प्रसन्न - चित्तो बभूव सततं मुनिमानतोऽस्मि ॥ १९ ॥ प्रबन्ध मतिसुन्दरं मधुरसूरिगीतं मुनिः जगावथ शठारि रप्यतनुवाच मूचे मुदा । ’ निवेदय कि मीप्सितं ’ त्विति ततो भवत्सूक्तयः मदीयरसनावशा स्स्युरिति तं ययाचे स्तुवे 11 2° 11 दिव्यप्रबन्ध मखिलं हि चतुस्सहस्र- कल्पं गुणोत्तर मपूर्वरसप्रधानं । अष्टाङ्गयोगविषयं च रहस्य मिष्टं जग्राह योगविधित स्तमुपैमि नाथम् ॥ २१ आचार्या ब्रह्मनन्दिप्रभृतय उदिता आदिकाले युगस्य अय्यन्तानां यथासन् शठमथनमुनिश्चापि यस्यात्मभाग्यात् आचार्योऽभूच्च योगे प्रतनमत विदाचार्यमालाद्यमूर्तिः श्रीमद्रामानुजार्यप्रथितगुरुगुरोः तात मीड्यं नमामि ॥ २ 116 5 रमानियोगात् कुरुकापुरीशः । पदात् परस्मात् अवतीर्य यस्मै ॥ द्वयं तथा योगरहस्यमाह । नाथाय तस्मै मुनये नमोऽस्तु ॥ २३ ॥ कंचित् कालं वसन् य शठरिपुनगरे बोधयन् आत्मतत्वं । तत्रत्येभ्यः पुनश्च स्वनगर मुपयातोऽध्वदिव्यस्थलानि ॥ गत्वा संसेव्य कुर्वन् भगवत उदितं मङ्गलाशासनं च । सत्कालक्षेपसक्तः सुजनपरिणुतः तं प्रपद्ये मुनीन्द्रम् ॥२४॥ कदाचित् आहूय च भागिनेयौ । अध्याप्य यत्ताः शठकोपसूक्तीः ॥ युवां इहाध्यापयतं श्रितेभ्यः । भक्तयेति यस्तं प्रणमामि नाथम् यो दिव्यनादानुगुणानुगीत क्रमेण लोके प्रकटीचकार ॥ ततो जना नादमुनीति नाम्ना । समाह्वयन् तं प्रणमाम्यभीक्ष्णम् गानयोगशास्त्रचातुरी मवेक्ष्य चोळराट् । आह्वयत् तिरश्चकार यो विरक्तिभूमिराट् ॥ विश्वसृट्प्रभृत्यपारभूतय स्तृणीकृताः । येन तं नमामि नाथयोगिनं सदा मुदा ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ शिष्यान् अष्टौ हि शिष्टान् श्रयणगुणयुतान् पुण्डरीकाक्षमुख्यान् । भाग्यात् योगैकलब्धद्रविडनिगमगत्र्येकसाहस्रपद्यैः ॥6 हृद्यैः अध्याप्य धीमान् जगति बुधवरान् यश्च कृत्वा मुमोद । श्रेष्ठ योगकनिष्ठं जगदवनचणं तं मुनिं नौमि नाथम् ॥ २८ ॥ अष्टाङ्गयोगक्रमं आप्रयोगं । शिष्याय तस्मै कुरुकावलाय ॥ उपादिशत् योगरहस्यं उर्व्यां । प्रचारयेत्याह त माश्रयेऽहम् ॥ २९ ॥ आहूयात्मजं ईश्वरं तव सुतो मे पौत्र उत्पत्स्यते । नाम्ना यामुन इत्युपाह्वय च तं तस्मै सरोजेक्षण ! ॥ सर्वान् दार्शनिकान् समाहितमना अर्थान् मुदोपादिशे- त्यादिश्याविशति स्म योग मनधं नाथं मुनिं तं भजे ॥३०॥ मृगविहृतये चोळाधीशे प्रयात्य च काननं । परिजनयुते प्रत्यायाते स्वपत्तनं अध्वनि ॥ मुनिवरसुते तातं प्रत्याहतुः पित! आगताः । गृहमधि धनुष्मन्तौ एकः कपिः तरुणी च नः 4 निशम्यैतां वाचं सपदि हृदि ‘रामः तदनुजः । धराजाता याताः स्युः इह पवमानात्मज इति ॥ ब्रुवाणः तन्मार्गानुगतिहृदयः यः स्वगृहतः । ॥ ३१ ॥ प्रतस्थे भक्तया तं सकलजननाथं मुनिं अये अत्यन्तदूरं अनुधाव्य च यो न लेभे । ॥ ३२ ॥ अन्तर्हितं तं अवलोकितुकाम एव ॥ योगेन भूय अनुभूय तदेकयोगः । भेजे य उत्तमपदं मुनि मांश्रये तं ॥ ३३ ॥ 1 7 श्रीमान् नारायणो नः पतिः अमितदयः तादृशो नैव चान्यः । साक्षात् मोक्षप्रदाता भवति च पुरुषार्थ स्स एवेति बोद्धुम् | बन्धुः दिव्यप्रबन्धः परमपुरुषसंबन्धवान् नान्य आस्ते । इत्यावेद्याधियोगं स्थिति मुपदिशतात् योगतो योगमर्म ॥ ३४ ॥ इत्थं नाथमुनिप्रभावकलितां योगानुबन्धां स्तुतिं । योगादेव सुगीतवान् सुललितां गोपालसूरि मुँदा ॥ एतां ये गुरुभक्तिसक्तमनसः नित्यं पठन्त्यादरात् । ते यान्त्यात्महितैकयोग मचिरात् सर्वार्थदं मङ्गलम् ॥ इति श्री नाथमुनिस्तुतिः सम्पूर्णा ॥ ॥ श्रीमते नाथमुनये नमः ॥ ॥ ३५ ॥