[[श्री-गोविन्दलीलामृतम् Source: EB]]
[
श्रीगोविन्दलीलामृतम्
श्रीश्रीगौरगदाधरौ विजयेताम्
श्रीश्रीराधागोविन्दौ जयताम्
(१)
प्रथमः सर्गः
श्रीगोविन्दं व्रजानन्द
सन्दोहानन्दमन्दिरम् ।
वन्दे वृन्दावनानन्दं
श्रीराधासङ्गनन्दितम् ॥१॥
श्रीकृष्णचैतन्यचन्द्राय नमः ।
वन्दे वृन्दावनाधीशौ प्रियवर्गसमन्वितौ ।
तल्लीलाकृष्टचित्तेभ्यस्तेभ्यो नमो नमः ॥
नत्वा गुरुं कृष्णदेवं विश्वनाथं नरोत्तमम् ।
लोकनाथं नमस्कृत्य कृष्णचैतन्यमाश्रये ॥
नित्यानन्दं प्रभुं वन्दे अद्वैताचार्यमीश्वरम् ।
गदाधरं प्रणम्याथ गौरभक्तान्नमाम्यहम् ॥
सनातनं नमस्कृत्य श्रीरूपचरणं भजे ।
यदाश्रयादयोग्योऽपि लीलासिन्धौ निमज्जति ॥
श्रीमद्गोविन्दलीलामृतमतुलतमं केशशेषाद्यगम्यं
स्वास्वाद्यं श्रीलवृन्दावनजननिकरैः श्रीलचैतन्यभक्तैः ।
योऽकार्षीत्काव्यमस्मिन्सुचरितममृतं श्रीलचैतन्यविष्णोः
शास्त्रं च श्रीयुतं तं कविनृपतिमहं कृष्णदासाख्यमीडे ॥
गोविन्दलीलामृतनामकस्य
टीका महाकाव्यमणेर्मयास्य ।
आरभ्यते तत्कृपयास्तु पूर्णा
नाम्ना सदानन्दविधायिनीयम् ॥
वैदुष्याः कणिकापि यद्यपि न मे कुर्वे तथापीदृशं
पङ्गुच्चाद्रिविलङ्घनोद्यममिव स्वान्ते महासाहसम् ।
कारुण्येन सुदुर्लभेप्सितततेर्दात्रा निजेनाप्यमूं
श्रीसन्तः पतितैकपावनतमाः संशोधयन्तु ध्रुवम् ॥
अथ ग्रन्थकर्ता आदौ ग्रन्थस्य निर्विघ्नं परिसमाप्त्यर्थं स्वग्रन्थे वर्णितव्यलीलाधिकर्तरि श्रीगोविन्ददेवे नमस्क्रियतेआरूपं मङ्गलमाचरति श्रीगोविन्दमिति । श्रिया शोभया युक्तः । एकान्तधाम यशसः श्रिय ऐश्वर्यस्य इति । त्रैलोक्यलक्ष्म्येकपदं वपुर्दधतिति । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपमित्याद्युक्तेः । श्रिया सम्पत्त्या वा युक्तः । श्रयत इन्दिरा शश्वदत्र हि इत्याद्युक्तेः । चिन्तामणेश्चरणभूषणमङ्गनानामित्याद्युक्तेश्च । श्रिया लक्ष्म्या वक्षःस्थस्वर्णरेखारूपया वा युक्तः, स्वर्णरेखेव ते नाथ वस्तुमिच्छामि वक्षसि इत्याद्युक्तेः । शब्धिर्व्रजसुन्दरीभिर्वा युक्तः । श्रियः कान्ताः कान्तः परमपुरुषः इति ब्रह्मसंहितोक्तेः । एवम्भूतश्चासौ गोविन्दः,
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥
कृष्णस्तमहं वन्दे नमस्करोमि स्तौमि वा । वदि अभिवादनस्तुत्योः । कीदृशं ? व्रजानन्दसन्दोहामन्दमन्दिरम् । व्रजपदेन व्रजभूमेर्व्रजस्थस्थावरजङ्गमानां वानन्दस्य सन्दोहः समूहः सम्यग्दोहः प्रपूरणं वा तस्यामन्दं स पूर्णं मन्दिरमाश्रयम् ।
किं वा, व्रज एवानन्दसन्दोहानन्दमन्दिरं यस्य तम् । कृष्णस्य पूर्णतमता व्यक्ताभूद्गोकुलान्तरे [भ.र.सि. २.१.२२३] इत्युक्तेः ।
पुनः कीदृशं ? वृन्दावनानन्दम् । तत्र श्रीव्रजमण्डलादप्यधिकमानन्दयति इति तम् । ३यद्वा, वृन्दावनस्यानन्दमानन्दरूपम् । यद्वा, वृन्दावनस्यानन्दो यस्मात्तम् । यद्वा, वृन्दावने आनन्दो यस्य तम् ।
लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणुरूपयोः ।
इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ [भ.र.सि. २.१.४३]
चतुर्धा माधुरी तस्य व्रज एव विराजते ॥ [ल.भा. १.५.५२६] इत्युक्तेः ।
अत्र व्रजशब्देन श्लोकार्थसङ्गत्यै श्रीवृन्दावनमेव ज्ञेयम् ।
पुनः कीदृशं ? श्रीराधासङ्गनन्दितम् । तत्र श्रीवृन्दावनमध्ये तु तस्मात्वृन्दावनानन्दातधिकं श्रीराधया सङ्गेन नन्दितं जातानन्दं—राधासङ्गे यदा भाति तदा मदनमोहनः [गो.ली. १३.३२] इत्यस्मिन्ग्रन्थे वक्ष्यमाणाद्युक्तेः । एषां विशेषणत्रयाणामुत्तरोत्तरमाधिक्यं ज्ञेयम् ॥१॥
योऽज्ञानमत्तं भुवनं दयालुर्
उल्लाघयन्नप्यकरोत्प्रमत्तम् ।
स्वप्रेमसम्पत्सुधयाद्भुतेहं
श्रीकृष्णचैतन्यममुं प्रपद्ये ॥२॥
अथ स्ववाञ्छितसिद्ध्यर्थं निजाभीष्टं श्रीकृष्णचैतन्यदेवं स्तौति—योऽज्ञानमत्तमिति । अमुं श्रीकृष्णचैतन्यं प्रपद्ये अहमिति शेषः । अद्भुता ईहा चेष्टा यस्य तम् । अत्र अद्भुतत्वे हेतुः—यः कृपालुः कृपापूर्णः सन्स्वप्रेमसम्पत्सुधया अज्ञानेन मत्तं भुवनमुल्लाघयन्संसाररोगरहितं कुर्वन्नपि प्रमत्तमनवहितमकरोदिति । उल्लाघो निर्गतो गदातित्यमरः ॥२॥
श्रीराधाप्राणबन्धोश्चरणकमलयोः
केशशेषाद्यगम्या
या साध्या प्रेमसेवा व्रजचरितपरैर्
गाढलौल्यैकलभ्या ।
सा स्यात्प्राप्ता यया तां प्रथयितुमधुना
मानसीमस्य सेवां
भाव्यां रागाध्वपान्थैर्व्रजमनु चरितं
नैत्यिकं तस्य नौमि ॥३॥
अथ ग्रन्थकर्ता स्वाभीष्टदेवं संस्तुत्य श्रीराधाकृष्णयोर्नित्यलीलावर्णनग्रन्थमारभमाणः सन्श्रीरूपगोस्वामिकृतसङ्क्षिप्तनित्यलीलास्मरणमङ्गलस्तोत्रमवलम्ब्य स्वग्रन्थादौ तत्प्रथमश्लोकेन श्रीकृष्णस्य व्रजकृतनित्यलीलाचरितं स्तौति—श्रीराधाप्राणबन्धोरिति । श्रीराधा६ प्राणबन्धुः श्रीराधैव प्राणबन्धुर्यस्येति वा, सः श्रीराधाप्राणबन्धुः श्रीकृष्णस्तस्य चरणकमलयोः पादपद्मद्वयस्य या प्रेमसेवा, प्रेमस्वरूपाभिर्नित्यसिद्धाभिः श्रीललिताविशाखादिरूपमञ्जरीरतिमञ्जर्यादिभिस्तत्तद्गणप्रविष्टतत्तदनुगादिभिश्च प्रतिदिनं प्रतिक्षणं समयोचितं प्रेम्णा क्रियमाणसेवा । केशशेषाद्यगम्या को ब्रह्मा ईशो महेशः शेषोऽनन्तः इत्यादिभिः सन्ततं श्रव्णार्चनस्मरणकीर्तनादिभक्तीः कुर्वद्भिरप्यगम्या अज्ञेया । अधिकृतत्वाच्छुद्धमाधुर्योपासकत्वाभावादित्यभिप्रायः, अन्यस्य का वार्तेत्यर्थः । तथापि व्रजचरितपरैः व्रजचरितमेव परं सर्वोत्कृष्टं येषां तैः । व्रजचरितेषु परिअरासक्तैर्वा जनैः साध्या साधयितुं योग्या, तैर्विनान्यैः साधयितुं न युज्यत इति भावः ।
अत्र तु गाढलौल्यैकलभ्या, लोलश्चलसतृष्णयोः आनन्द्लोलस्य भावः लौल्यं, गाढं च तत्लौल्यं चेति गाढलौल्यं, सन्निपातिनां दिव्यपानकेष्विवातिशयतृष्णाचाञ्चल्यं प्रेमसेवायामत्युत्कण्ठया व्यग्रता वा, तत्गाढलौल्यमेवैकं मुख्यं येषां ते । तस्मिन्गाढलौल्ये एका अद्वितीया मुख्याः श्रेष्ठाः अन्या भिन्ना असाधारणा वा केवला विरला वा ते गाढलौल्यैकाः लोलश्चलसतृष्णयोः आनन्द्, तैर्लभ्या लब्धुं योग्या सा प्रेमसेवा यया प्राप्ता स्यात्ताम् । अस्य श्रीकृष्णस्य मानसीं सेवां साधकभक्तैर्मनसा भाविता श्रीगुर्वाज्ञातः गोपिकाकारतन्वा क्रियतेअमाणा सती सा प्रेमसेवा मानसी सेवोच्यते । तां कीदृशीं ? रागाध्वपान्थैः रागमार्गपथिकैर्भाव्यां भावनाविषयां, अधुना प्रथयितुं प्रख्यापयितुं तस्य श्रीकृष्णस्य व्रजमनु व्रजे नैत्यिकं चरितं प्रतिदिनभवं चेष्टितं नौमि स्तौमीत्यर्थः ॥३॥
कुञ्जाद्गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन्गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान्नः ॥४॥
अथाष्टकालनिरूपणपूर्वकमष्टकालकृतं श्रीकृष्णस्य नैत्यिकं चरितं सूत्ररूपेण स्मरणमङ्गलश्लोकेनाह—कुञ्जादिति । तत्राष्टकालाः—
निश्नातः प्रातः पूर्वाह्नो मध्याह्नश्चापराह्नकः ।
सायं प्रदोषो नक्तं चेत्यष्टौ कालाः प्रकीर्तिताः ॥
चत्वारोऽह्नि प्रातराद्या एषां शेषा निशि स्मृताः ।
ऋतुदण्डा अमी किन्तु तृतीयौ मासदण्डके ॥ इति कालनिर्णयः ।
अथ कुञ्जादिति श्लोकार्थः । यः श्रीकृष्णः निशान्ते रात्रिशेषे कुञ्जात्प्रेयसीभिः सह विविधमधुरविलासशय्यादिविशिष्टलताद्यावृतरम्यस्थानात्गोष्ठं नन्दीश्वरीयनिजमन्दिरं प्रविशतीत्येकः कालः । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे इत्यमरः । प्रातःकाले सायंकाले च गोदोहनभोजनाद्यं लीलां कुरुते इति द्वौ । सङ्गवे पूर्वाह्नकाले गाश्चारयन्सखिभिः सह विहरतीत्येकः । मध्याह्ने नक्तं रात्रौ च विपिने रूपतया सह अद्धा साक्षात्विलसतीति द्वौ । अपराह्ने गोष्ठं यातीत्येकः । प्रदोषे रजनीमुखे सुहृदो रमयतीत्येकः । प्रदोषो रजनीमुखमित्यमरः । स श्रीकृष्णो नः अस्मानवताद्रक्षतु इत्याशीर्वादः सूचितः ॥४॥
यत्पीतं श्रुतिवाङ्मनोभिरनिशं तृष्णाप्रदमद्भुतं
संसारामयहार्यपि प्रणयजोन्मादान्ध्यमोहादिकृत।
शश्वच्चर्वितमप्यनल्परसदं देहादिहृत्पुष्टिदं
तज्जीयादमृतस्पृहाहरमिदं गोविन्दलीलामृतम् ॥५॥
अथास्य ग्रन्थस्य नामकथनपूर्वकमद्भुतत्वमाह—संसारेति धिष्ठातृ तदिदं गोविन्दलीलामृतं श्रीगोविन्दस्य लीलैवामृतं स्वनामसिद्धमहाकाव्यरूपं जीयात्सर्वोत्कर्षेण वर्तताम् । किंभूतं ? अद्भुतम् । अद्भुतत्वमाह—संसाररूपस्यामयस्य रोगस्य हार्यपि हरणशीलं भूत्वापि प्रणयजान्कृष्णप्रेमोभवानुन्मादान्ध्यमोहादीन्रोगस्य धर्मान्करोतीत्यद्भुतत्वम् ।
पुनस्तदाह—शश्वच्चर्वितमपीक्षुदण्डादिवन्नाल्परसदं, नाप्यरसदं, किं तु दास्यसख्यवात्सल्यमधुराद्यनल्परसदमिति । किं वा, चर्वितमपि सकृद्चर्वितमपि शश्वत्पुनः पुनर्बहु प्रेमरसदमिति चाद्भुतत्वम् । सकृदिति पदमपिशब्दोह्यं चर्वणमत्र पठनरूपास्वादः । श्रुत्यादिभिः पीतं देहादिहृत्पुष्टिदमपि सदा तृष्णाप्रदम् । किं वा, श्रुत्यादिपीतं सत्सदा तृष्णाप्रदमपि देहादिहृत्पुष्टिदम् । लोके देहादि पुष्टिदं वस्तु सदा तृष्णाप्रदं न भवति, सदा तृष्णाप्रदं वस्तु देहादिपुष्टिदं न भवति । अतोऽद्भुतत्वम् । पानमत्रासक्तिपूर्वकश्रवणादिकमस्यैकस्यापि वस्तुनो चर्वितत्वं, पेयं च नित्यत्वरूपं घनीभूतत्वाद्द्रवीभूतत्वाच्चेतीदमप्यद्भुतत्वम् ।
पुनस्तत्स्वयममृतं भूत्वा अमृते देवैः पीयमानपीयूषे मुक्तैः प्राप्यमाणे मोक्षे च या स्पृहा तं हरति निवारयतीति तत। इत्यद्भुतत्वं च यदिति सर्वत्र विशेषणे योज्यम् ॥५॥
अपटुरतितटस्थस्तुच्छबुद्ध्यामपात्रः
पुरुरसकलनेच्छुः कृष्णलीलामृताब्धेः ।
निरवधि हि तदन्तः क्रीडतां वैष्णवानां
किमु न हि भविताहं हास्यहेतुर्गरीयान॥६॥
अथ सर्वोत्तमोऽपि तृणादपि सुनीचेति स्वाभाविकगुणं दैन्यं प्रकाश्य कृष्णलीलामृतमय्या अपि स्ववाचः सार्थंअतां सद्भ्यः प्रार्थयते अपटुरिति द्वाभ्याम् । अहं कृष्णलीलामृताब्धेः पुरुरसस्य कलनेच्छुः समग्ररसस्य कलने ग्रहणे वर्णने इच्छावान्सन्, तस्य कृष्णलीलामृताब्धेरन्तर्मध्ये हि निश्चितं निरवधि सन्तताशयं क्रीडतां वैष्णवानां गरीयानुत्कृष्टो हास्यहेतुर्न हि भविता किमु भवितैव ? भवितेति कर्त्रर्थं तृणाशीलार्थतृणापि वा वाक्यसमाप्तिः । यथा महानाटके श्रीसीतां प्रति रावणः—भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना [ह.ना. १०.१२] इति । श्रीविदग्धमाधवे च—विधात्री सिद्धार्थान्हरिगुणमयी वः कृतिरियं [वि.मा. १.६] इति । अर्थान्न भविष्यामि किमु भविष्याम्येव ।
अहं कीदृशः ? अपटुरेतल्लीलामृतवर्णनेऽनिपुणः । तटस्थः प्राकृतः । तुच्छबुद्ध्यामपात्रः तुच्छबुद्ध्या हेतुना अपक्वपात्रः । तुच्छबुद्धिश्चासावामपात्रश्चेति वा । न ह्यपक्वपात्रेणामृताहरणं सिध्यति ।
परमभागवतस्यैवं दैन्यं ज्ञात्वा वागधिष्ठात्री सरस्वती स्वापराधभयातसहमाना तैः पदैः तं प्रस्तौति, यथा—अश्रुतचरादद्भुतलीलाश्रवणेन प्रेमानन्दहास्यहेतुर्भविता, यतोऽपटुः लीलावर्णने न पटुर्यस्मात। अतितटस्थः अतिशयेन कृष्णलीलामृताब्धितटे स्थितः । तुच्छबुद्ध्यामपात्रस्तुच्छपात्रं यस्मात्कृष्णलीलामृतग्रहणे ह्युत्तमपात्र इत्यर्थः । पत्रपात्रपवित्रसूत्रच्छत्राः पंसि चेति लिङ्गानुशासनम् ॥६॥
श्रीरूपसन्नटविकाशितकृष्णलीला
लास्यामृताप्लुतधियां व्रजवैष्णवानाम् ।
हासप्रकाशनकरी प्रमदप्रदा वाङ्
मन्दस्य मे भवतु भण्डतरस्य यद्वत॥७॥
विदग्धमाधवललितमाधवनाटकादिकर्ताश्रीरूपगोस्वाम्येव सन्नटस्तेन विकाशितकृष्णलीलैव लास्यामृतम् । तत्राप्लुता मग्ना धीर्येषां तेषां व्रजस्थवैष्णवानां मन्दस्य मूर्खस्य मे मम वाखास्यप्रकाशिनी हास्यानन्दप्रदा भवत्वित्यर्थः । यथा भण्डतरस्य अतिभण्डस्य वाक्प्राकृतजनानां हास्यकरी प्रमदप्रदा च भवति, तथा ।
सरस्वतीपक्षे मन्दशब्दो भण्डतरशब्दस्य विशेषणम् । मन्दस्य भण्डतरस्येत्यर्थः । तथा च नाट्ये भण्डोऽप्यङ्गी श्रीरूपकृतश्रीराधाकृष्णवर्णननाट्यशास्त्रे भण्डः असंलग्नहासजनकवाक्प्रयोगी कोऽपि न स्थितः, अहमेवाधना जातः । तथापि तदङ्गत्वान्ममेदं वचनमपि ग्राह्यमेवेति स्वस्य तत्सङ्गित्वं ज्ञापितं सख्यरसे श्रीमधुमङ्गल इवेति ॥७॥
तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन्प्रतीत्यादि सदुक्तिनोदितः ।
मन्दोऽपि गोविन्दविलासवर्णने
मन्दां गिरं स्वां विदधे सदादृताम् ॥८॥
ननु मन्दः कथं भगवल्लीलावर्णने प्रवृत्तोऽसीति चेत्, तत्राह—तद्वागिति श्रीभागवते—
तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भा.पु. १.५.११] इति ।
सतां व्यासशुकादीनामुक्त्व्या वाक्येन नोदितः प्रेरितः सन्नुद प्रेरणे मन्दोऽप्यहं कृष्णलीलावर्णनैर्मन्दामपि स्वीयां गिरं सद्भिरादृतां विदधे करोमि विध्यास्यामीति भविष्यदर्थेऽत्युत्साहेन विदधे इति लट॥८॥
मदास्यमरुसञ्चारखिन्नां गां गोकुलोन्मुखीम् ।
सन्तः पुष्णन्त्विमां स्निग्धाः कर्णकासारसन्निधौ ॥९॥
मन्ममास्यं दुःखमेव मरुर्निर्जला भूमिस्तत्र सञ्चारेण भ्रमणेन खिन्नां खेदयुक्तां गां, गौर्वाणी, श्लेषेण सैव पशुस्ताम् । कीदृशीं ? गोकुलोन्मुखीं गोकुलं श्रीवृन्दावनं तदेव, गोकुलं गोगणः सतृणजलभूमिसञ्चारी, तत्र सञ्चरितुं श्रीवृन्दावनचरितवर्णनमेव तत्र सञ्चरणं तत्कर्तुमुन्मुखीम् । अतः सन्तो महान्तः स्निग्धाः स्नेहवन्तः सन्तः कर्णरूपसरोवरनिकटे इमां गां पुष्णन्तु । कासारः सरी सर इत्यमरः । सरोवरो यथा सतृणजलादिना गाः पुष्णाति, तथा सादरश्रवणेन वाणीं सार्थयन्तामित्यर्थः ॥९॥
रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी
पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्खटीगीःसशङ्कौ
राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि ॥१०॥
इदानीं तन्नैत्यिकचरितरूपलीलां निशान्ताद्यष्टसु कालेषु विभाज्य स्मरणमङ्गलश्लोकैः संक्षिप्य वर्णयिष्यमाणः सन्नादौ निशान्तकाललीलां तच्छ्लोकेन संक्षिपति—रात्र्यन्त इति । श्रीराधाकृष्णौ स्मरामीति । कीदृशौ ? रात्र्यन्ते रात्र्यन्तकाले त्रस्तया वृन्दया वृन्दादेव्या दिवसे जाते सति, निगूढा श्रीराधाकृष्णयोः शृङ्गारलीला अन्यैरेव ज्ञाता भविष्यतीति भीतया ईरितानां प्रेरितानां बहूनां वीणां पक्षिणां रवैः शब्दैः सखिभिः सह बोधितौ । पुनः कीदृशौ ? हृद्यैर्वचनचातुर्येण श्रुतिरम्यत्वेन च प्रियैः अहृद्यैर्वियोगहेतुतया अप्रियैश्च शारीणां शुकानां च पद्यैः श्लोकैः सुखशयनादुत्थितौ । परस्परं दृष्टौ हृष्टौ सखीभिर्दृष्टौ वा । तदात्वोदितया तत्कालोत्पन्नया रत्या ललितौ मनोहारी । तत्कालं तु तदात्वं स्यादित्यमरः । तत्र स्थित्वा पुनर्विलासे सतृष्णौ च । कक्खट्या कक्खटीनामवानर्या गीर्भिः सशङ्कौ भूत्वा ततो गत्वा निजनिजधाम्नि स्वस्वगृहे आप्ततल्पौ स्वतल्पे शायितावित्यर्थः ॥१० ॥
निशावसानं समवेक्ष्य वृन्दा
वृन्दं द्विजानां निजशासनस्थम् ।
नियोजयामास सराधिकस्य
प्रबोधनार्थं मधुसूदनस्य ॥११॥
अथ लीलां विस्तारयति निशावसानमित्यादिदिभिः । निशावसानं रात्रिशेषं दृष्ट्वा राधया सह कृष्णस्य प्रबोधनार्थं वृन्दा देवी निजाज्ञावर्तिपक्षिणां वृन्दं नियोजयामास ॥११॥
आसन्यदर्थं प्रथमं द्विजेन्द्राः
सेवा समुत्कण्ठधियोऽपि मूकाः ।
वृन्दानिदेशं तमवाप्य हर्षात्
क्रीडानिकुञ्जं परितश्चुकूजुः ॥१२॥
द्विजेन्द्राः पक्षिश्रेष्ठाः यदर्थं वृन्दानिदेशार्थं प्रथमं मूकाः शब्दरहिता आसन। एवं वृन्दानिदेशं प्राप्य क्रीडानिकुञ्जस्य चतुर्दिक्षु चुकूजुः शब्दं चक्रुः ॥१२॥
द्राक्षासु सार्यः करकेषु कीराः
जगुः पिकीभिश्च पिका रसाले ।
पीलौ कपोताः प्रियके मयूराः
लतासु भृङ्गा भुवि ताम्रचूडाः ॥१३॥
द्राक्षासु सार्यः जगुः । करकेषु दाडिमेषु कीराः, रसाले आम्रवृक्षे पिकीभिः सह पिकाः कोकिलाः । भुवि पृथिव्यां ताम्रचूडाः कुक्कुटाः । पिलौ वृक्षविशेषे कपोताः पारावताः घूकाः । प्रियके कदम्बे मयूराः । लतासु माधवीमालत्यादिषु भृङ्गाः । पूर्वं जातावेकवचनत्वेऽपि लतासु इति बाहुल्याद्बहुवचनम् ॥१३॥
तथालिवृन्दं मकरन्दलुब्धं
रतीशितुर्मङ्गलकम्बुतुल्यम् ।
प्रफुल्लवल्लीचयमञ्जुकुञ्जे
जुगुञ्ज तल्पीकृतकञ्जपुञ्जे ॥१४॥
रतीशितुः कामस्य मङ्गलशङ्खतुल्यमलिवृन्दं भ्रमरसमूहो जुगुञ्ज । कुत्र ? प्रफुल्लवल्लीसमूहेन मनोज्ञकुञ्जे । कीदृशे ? तल्पीकृतं कञ्जस्य पद्मस्य पुञ्जं यत्र तस्मिन॥१४॥
झङ्कृतिमङ्गीकुरुते रतिमङ्गलझल्लरीव गोविन्दम् ।
बोधयितुं मधुमत्ता मधुपीततिरुद्भटानन्दा ॥१५॥
पिकश्रेणी मनोजस्य वीणेव व्यक्तपञ्चमम् ।
आललाप स्वरं तारं कुहूरिति मुहुर्मुहुः ॥१६॥
पिकश्रेणी कामस्य वीणेव व्यक्तपञ्चमं पञ्चमव्यञ्जककण्ठस्वरं कुहूरिति तारं स्वरमुच्चस्वरमाललाप ।
निषादर्षभगान्धारषड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ट्थोत्थिताः स्वराः ॥ इति ।
तारोऽत्युच्चैरित्यमरः ॥१६॥
रतिमधुरविपञ्ची नादभङ्गीं दधाना
मदनमदविकूजत्कान्तपार्श्वे निषण्णा ।
मृदुलमुकुलजालास्वादविस्पष्टकण्ठी
कलयति च रसाले काकलीं कोकिलाली ॥१७॥
कोकिलाली सहकारे रसाले इति च पाठः । आम्रवृक्षे काकलीं मधुरास्फुटसूक्ष्मध्वनिं कलयति करोति ।
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।
कलौ मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ इत्यमरः ।
कलिहलिधातू कामधेनुवत्सर्वार्थादौ । कीदृशी ? रत्या मधुरविपञ्ची तस्य नादभङ्गीं दधाना । वीणा तु वल्लकी विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी इत्यमरः । मदनमदेन विकूजतः कान्तस्य पार्श्वे निषण्णा स्थिता । आम्रस्य मुकुलास्वादं विना कोकिलस्य स्पष्टः कण्ठध्वनिर्न भवतीति प्रसिद्धम् ॥१७॥
विद्राव्य गोपीधृतिधर्मचर्या
लज्जामृगीर्मानवृकेष्वमर्षी ।
कपोतघुत्कारमिषेण शङ्के
गर्ज्जत्ययं कामतरक्षुराजः ॥१८॥
काम एव तरक्षुर्मृगभक्षकः । गोप्जिज्ञास्धृतिश्च धर्मचर्या च धर्मविषयिका चेष्टा च लज्जा च एता एव मृग्यस्ता विद्राव्य दूरीकृता मानरूपवृकेष्व्व्याघ्रविशेषेषु अमर्षी क्रोधाविष्टः सन्कपोतस्य घुत्कारश्छलेन गर्जति । तरक्षुस्तु मृगादनः इत्यमरः ॥१८॥
राधाधैर्यधराधरोद्धृतिविधौ केऽन्ये समर्था विना
कृष्णं कृष्णसुमत्तकुञ्जरवशीकारेऽप्यलं शृङ्खलाः ।
अन्याः काः वृषभानुजामिह विना धन्यामतीवादृताः
केकाः किं समुदीरयन्ति शिखिनस्तौ बोधयन्तः प्रगे ॥१९॥
प्रगे निशावशेषे तौ राधाकृष्णौ बोध्यन्तिअः । शिखिनो मयूराः केकाः शब्दं समुदीरयन्ति कुर्वन्ति । केका वाणी मयूरस्य इत्यमरः । इत्यत्रार्थान्तरन्यासेनाह—राधायाः धैर्यरूपपर्वतस्योद्धृतिविधौ कृष्णं विनान्ये के जनाः केऽन्ये समर्थाः ? न केऽपीत्यर्थे के । कृष्णरूपमत्तहस्तिनो वशीकारे धन्यां वृषभानुजां विना अतीवादृता अन्याः काः स्त्रियः ? आदृता इति पाठे आदृताः सर्वजनैः । केकावाणीः आदृताः शिखिनः इति वा । कृष्णं विनान्यः कः ? वृषभानुजां विनान्या का ? इतीव किं समुदीरयन्ती, अन्यथा कर्माभावः स्यात। शृङ्खला निगडाः न कोऽपीत्यर्थे काः । शृङ्खले अन्दुको निगडोऽस्त्री स्यादित्यमरः॥१९॥
ह्रस्वदीर्घप्लुतैर्युक्तं कुकूकूकू इति स्वरम् ।
कुक्कुटोऽप्यपठत्प्रातर्वेदाभ्यासी बटुर्यथा ॥२०॥
बटुर्ब्राह्मणबालको वेदाभ्यासपरः । ह्रस्वादिस्वरैर्यथा पठति तथा । अत्र प्रथमकुशब्दो ह्रस्वो, द्वितीयः कूशब्दो दीर्घः, तृतीयः कूशब्दः प्लुतः । इत्युदाहृतोदात्तानुदात्तस्वरिताख्यं स्वरं कुक्कुटोऽपि प्रातरपठत॥२०॥
अथ पक्षिणां कलकलैः प्रबोधितावपि
तौ मिथोऽविदितजागरौ तदा ।
निविडोपगूहनविभङ्गकातरौ
कपटेन मीलितदृशावतिष्ठताम् ॥२१॥
पक्षिणां कलकलैः शब्दैः प्रबोधितौ निद्रारहितौ प्रबोधितावपि तदा मिथः परस्परं निविडोपगूहनस्य दृढालिङ्गनस्य भङ्गेन कातरौ तौ राधाकृष्णौ कपट्तेन मीलितदृशौ मुद्रितनेत्रौ अतिष्ठताम् ॥२१॥
अथ तौ स्फुरत्कनकपिञ्जर
स्थिता वृषभानुजातिदयिता सुपण्डिता ।
अवदन्निशानिखिलकेलिसाक्षिणी
गृहसारिकाप्युषसि मञ्जुभाषिणी ॥२२॥
अथानन्तरमुषसि उषःकाले तौ राधाकृष्णौ । मञ्जुभाषिणी नाम्नी गृहसारिकाप्यवदत। कीदृशी ? स्फुरत्कनकपिञ्जरे स्थिता राधिकातिप्रिया । अतः निशि रात्रौ निखिलायाः लीलायाः साक्षिणी ज्ञात्री ॥२२॥
गोकुलबन्धो! जय रससिन्धो!
जागृहि तल्पं त्यज शशिकल्पम् ।
प्रीत्यनुकूलां श्रीतभुजमूलां
बोधय कान्तां रतिभरतान्ताम् ॥२३॥
शशिकल्पं चन्द्रतुल्यम् । शय्यां त्यजेत्यत्र शीतलांशे चोपमा प्रीत्यनुकूलं श्रीतभुजमूलां रत्यतिशयेन क्षीणां च कान्तां राधां बोधय ॥२३॥
उदयं प्रजवादयमेत्यरुणस्
तरुणीनिचये सहजाकरुणः ।
निभृतं निलयं व्रजनाथ ततस्
त्वरितोऽट कलिन्दसुतातटतः ॥२४॥
हे व्रजनाथ ! अरुणः प्रजवात्प्रकर्षेण वेगेन उदयमेति तत्तस्मात्यमुनातटात्निलयं स्वगृहमट गच्छ । स्वोदयस्य प्रियवियोगदातृत्वेन तरुणीषु सहजाकरुणः ॥२४॥
कमलमुखि विलासायासगाढालसाङ्गी
स्वपिषि सखि निशान्ते यत्तवायं न दोषः ।
दिगियमरुणितैन्द्री किन्तु पश्याविरासीत्
तव सुखमसहिष्णुः साध्वि चन्द्रासखीव ॥२५॥
तव सुखमसहिष्णुश्चन्द्रावल्याः सखी तव सुखं दृष्ट्वा यथा अरुणवर्णा सती आविर्भवति, तथा इयमैन्द्री दिगरुणवर्णा भूत्वा आविरासीत। अतस्तवाधुना शयने दोष उत्थानमेवोचितमिति भावः ॥२५॥
याता रजनी प्रातर्जातं
सौरं मण्डलमुदयं प्राप्तम् ।
सम्प्रति शीतलपल्लवशयने
रुचिमपनय सखि पङ्कजनयने ॥२६॥
पूर्वश्लोकोक्तं व्यक्तमाह—यातेति । रजनी गता प्रातरासीत्सूर्यमण्डलमुदयं प्राप्तम् । शीतलशय्यायां रुचिमपनय दूरीकुरु ॥२६॥
कृष्णानुरागगरिमाथ विचक्षणाख्यः
कीरोऽतिधीरमतिरुद्भटवाग्वरिष्ठः ।
दीप्तप्रसन्नमधुराक्षरसङ्घहृद्यां
पद्यावलीं पठति माधवबोधदक्षाम् ॥२७॥
अथ कृष्णानुरागस्य गरिमा गौरवं यस्य सः । किं वा, कृष्णानुरागगरिमा यत्र सः । अतोऽतिधीरा मतिर्यस्य सः । उद्भटवाचा वरिष्ठश्च विचक्षणाख्यः कीरः पद्यावलीं पठति । कीदृशीं ? दीप्तः प्रसन्नः प्रसादगुणयुक्तश्च (वर्णान्तरैरनाश्लिष्टैश्च) मधुराक्षरसङ्घस्तेन हृद्याम् । पुनः माधवस्य बोधविषये दक्षाम् ॥२७॥
जय जय गोकुलमङ्गलकन्द !
व्रजयुवतीततिभृङ्ग्यरविन्द !
प्रतिपदवर्धितनन्दानन्द !
श्रीगोविन्दाच्युत ! नतशन्द ! ॥२८॥
हे गोकुलस्य मङ्गलानां शुभानां कन्द मूलं ! तेषां वृष्टिवद्वितरणान्मेघ वा । हे व्रजयुवतीसमूहरूपभ्रमरीणां महोत्पल ! प्रतिक्षणं वर्धितो नन्दस्यानन्दो येन हे तादृश ! नतानां शं सुखं ददंसीति हे नतशन्द ! त्वं जय जय सर्वोत्कर्षेण वर्तस्वेत्यादरे वीप्सा ॥२८॥
प्रभातमायातमशेषघोष
तृषार्तनेत्रभ्रमरारविन्द !
गरिष्ठभूयिष्ठविशिष्टनिष्ठं
गोष्ठं प्रतिष्ठस्व दविष्टमिष्टम् ॥२९॥
हे अशेषघोषस्य घोष आभीरपल्ली व्रजः समस्ततद्वासिनामित्यर्थः । तृषार्तनेत्ररूपभ्रमराणामरविन्द ! श्रीकृष्ण ! प्रभातमायातम्, अतो गोष्ठं प्रतिष्ठस्व गच्छ । कीदृशं गोष्ठं ? गरिष्ठानं गुरुतराणां भूयिष्ठेषु बहुषु ये ये विशिष्टा उत्तमाः, तेषां निष्ठा स्थितिर्यत्र । दविष्टं दूरतरं, इष्टं प्रियं च । अतः शीघ्रमवश्यगन्तव्यम् । अत एवात्र विलम्बे सति गुरुजनाग्रे तव लज्जा भविष्यत्येवेति भावः ॥२९॥
सरसिजनयनेनं व्यक्तरागातिरक्तं
दिगियमुदयमैन्द्री पश्य वीक्ष्यारुरुक्षुम् ।
घनघुसृणविलिप्तेवोढरक्ताम्बरासीद्
इह निभृतनिकुञ्जे कृष्ण निद्रां जहीहि ॥३०॥
हे सरसिजनयन कृष्ण ! अतिरक्तमतिरागिणमिनं सूर्यमुदयं गिरिमारुरुक्षुं वीक्ष्य इयमैन्द्री दिक्घनकेशरलिप्तोढरक्ताम्बरा नायिकेव व्यक्तरागासीत्, यथा नायिका इनं प्रभुं पतिमागच्छन्तं दृष्ट्वा एवं विशिष्टा भवति, तथा इयमपि घनैः सान्द्रैः घूसृणैरिव घुसृआनिररुणकिरणैर्विलिप्ता सती ऊढं स्वीकृतं परिहितं तैररुणकिरणै रक्तमम्बरमाकाशमेव रक्ताम्बरं रक्तवस्त्रं यया सासीदित्यर्थः । सत्यं न चेत्त्वं पश्य, तत्तस्मात्निद्रां जहीहि । सरसिजनयनेति सम्बोधने अस्मिन्नरुनोदयकाले सरसिजानि विकसन्ति, तव नयने मुद्रिते स्त इति नोचितमिति सूचितम् ॥३०॥
विधुना सहिता सवितुश्चकिता
रजनी वनिता चलिता त्वरिता ।
अनया समया प्रियया त्वरया
सहितः सरितस्तटतोऽट ततः ॥३१॥
सवितुः सूर्याच्चकिता भीता विधुना सहिता रजनी वनिता त्वरिता चलिता गता । ततस्त्वमपि अनया समया तुल्यया प्रियया अवक्रस्वभावया वा प्रियया राधया सहितस्त्वरया शीघ्रं यमुनातटादट गच्छ ॥३१॥
एकं प्राच्यामरुणकिरणपाटलायां विधत्ते
चक्षुः कान्ते त्वरितमपरं दूरगे चक्रवाकी ।
शङ्काक्रान्तास्तरुकुहरगा मूकतां यान्ति घूकाः
शङ्के भास्वानुदयमुदगात्कृष्ण निद्रां जहीहि ॥३२॥
हे कृष्ण ! भास्वान्सूर्यः उदयं पर्वतमुदगातिति शङ्के । शङ्काहेतुमाह—रात्रौ प्रियविरहिणी चक्रवाकी एवं चक्षुररुणकिरणेन आ ईषत्पाटलवर्णायां प्राच्यामपरं चक्षुर्दूरगे कान्ते चक्रवाकी निधत्ते । घूकाः उलूकाः दिवान्धाः काकादिभ्यः शङ्काक्रान्ताः सन्तस्तरूणां कुहुरगाः भूत्वा मूकतां यान्ति । अतस्त्वं निद्रां जहीहि ॥३२॥
वृन्दावक्त्रादधिगतविद्या
सारी हारीकृतबहुपद्या ।
राधास्नेहोच्चयमधुमत्ता
तस्या निद्रापनयनयत्ता ॥३३॥
कलवाक्सूक्ष्मधी नाम्नी प्रेमोत्फुल्लतनूरुहा ।
स्वरसज्ञा रङ्गभूमौ ततो वाणीमनर्तयत॥३४॥
ततः शुकबोधानन्तरं, कला मधुरा वाक्यस्याः सा सूक्ष्मधीनाम्नी सारी प्रेमोत्फुल्लतनुरुहा सती स्वस्या रसज्ञा जिह्वैव रङ्गभूमिस्तत्र वाणीमनर्तयत। कीदृशी ? वृन्दावक्त्रादधिगता पठिता विद्या यया सा । हारीकृतानि हारवत्कण्ठे कृतानि बहूनि पद्यानि श्लोकाः यया सा । राधा५ स्नेहोच्चयः स्नेहसमूहस्तद्रूपमधुना मत्ता, ततस्तस्या राधा६ निद्रापनयने निद्रादूरीकरणे यत्ता यत्नवती सावधानी वा ॥३३३४॥
व्रजन्ति सर्वतो जना न यावदध्वनि व्रजे ।
व्रजेन्द्रनन्दनप्रिये व्रजाशु तावदालयम् ॥३५॥
हे राधे ! व्रजे यावत्सर्वतोऽध्वनि मार्गे जना न व्रजन्ति, तावदाशु शीघ्रमालयं व्रज गच्छ ॥३५॥
सुमुखि ततस्त्वरितमितस्
त्यज शयनं व्रज भवनम् ।
उदयधरं सरति परं
त्वरितगतिर्दिवसपतिः ॥३६॥
हे सुमुखि ! दिवसपतिः सूर्यः उदयपर्वतं त्वरितगतिः सन्सरति गच्छति । सूर्ये तमारूढे सर्वत्रोज्ज्वले सति तव गमनं दुःसाध्यं भविष्यतीति । ततः शयनं त्यज, इतः कुञ्जाद्भवनं व्रज ॥३६॥
निद्रां जहीहि विजहीहि निकुञ्जशय्यां
वासं प्रयाहि सखि नालसतां प्रयाहि ।
कान्तं च बोधय न बोधय लोकलज्जां
कालोचितां हि कृतिनः कृतिमुन्नयन्ति ॥३७॥
हे सखि राधे ! निद्रां जहीहीति त्यज । कान्तं च बोधय जागरय । निकुञ्जशय्यां त्यज । अलसतामालस्यं न प्राप्नुहि । वासं गृहं याहि । लोकलज्जां न बोधय न प्रकाशय । हि यतः कृतिनः कुशलाः कालोचितां कृतिं चेष्टां कुर्वन्ति ॥३७॥
कृष्णोऽप्यनिद्रः प्रिययोपगूढः
कान्ताप्यनिद्राप्यमुनोपगूढा ।
तल्पात्प्रभाताकुलमप्यनल्पान्
नोत्थातुमेतन्मिथुनं शशाक ॥३८॥
श्रीकृष्णोऽनिद्रो निद्रारहितोऽपि प्रिययोपगूढ आलिङ्गितः । कान्ताप्यनिद्राप्यमुना प्रियेण आलिङ्गितान्ते । अतः प्रभातेन हेतुना आकुलमपि व्यग्रचित्तमपि मिथुनं तल्पादुत्थातुं न शशाक । कीदृशात्? अनल्पात्, क्रीडासुखैर्महतः ॥३८॥
कृष्णस्य जानूपरियन्त्रितसन्नितम्बा
वक्षःस्थले धृतकुचा वदनेऽर्पितास्या ।
कण्ठे निवेशितभुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनागपि लब्धबोधा ॥३९॥
कान्ता श्रीराधा लब्धबोधापि मनागल्पमपि नीङ्गति न चलति । इगि गत्यर्थः । हि यतः । श्रीकृष्णस्य जानूभ्यां परियन्त्रितौ सन्नितम्बौ यस्याः । वक्षःस्थलेऽर्पितौ कुचौ यया । वदनेऽर्पितमास्यं यया । कण्ठे निवेशितौ भुजौ यया । अस्य श्रीकृष्णस्य भुज एवोपधानं यस्याः सा ॥३९॥
गोष्ठायनत्वरितधीः शयनात्समुत्कोऽप्य्
उत्थातुमेकमपि रिङ्गयति स्वमङ्गम् ।
राधाङ्गगाढपरिरम्भणरङ्गभङ्ग
शङ्काविशृङ्खलमना न मनाक्प्रियोऽपि ॥४०॥
प्रियः श्रीकृष्णोऽपि गोष्ठायने गोष्ठगमने त्वरिता बुद्धिर्यस्य स एवम्भूतः सन्शयनादुत्थातुमुत्सुकोऽपि एकमपि अङ्गमपि न रिङ्गयति न चालयति । कीदृशः ? राधाङ्गस्य गाढपरिरम्भणे यो रङ्गस्तस्य भङ्गे या शङ्का तया विशृङ्खलमना व्याकुलमनाः ॥४०॥
श्रीकृष्णलीलारचनासुदक्षस्
तत्प्रेमजानन्दविफुल्लपक्षः ।
दक्षाख्य आह श्रितकुञ्जकक्षः
शुकः समध्यापितकीरलक्षः ॥४१॥
सारी प्रोबोधान्तरमप्येवमुक्तप्रकारं श्रीराधाकृष्णयोः परस्परासक्तत्वादनुत्थानं दृष्ट्वा दक्षाख्यः शुक आह । कीदृशः ? समध्यापितं पाठितं कीराणां लक्षः लक्षसङ्ख्या येन । श्रितः कुञ्जस्य कक्षः प्रदेशो येन सः । अत एव श्रीकृष्णलीलारचनायां सुनिपुणः । तस्य श्रीकृष्णस्य प्रेमजानन्देन विशेषेण फुल्लौ पक्षौ यस्य सः ॥४१॥
श्रान्त्योऽरण्यभ्रमणभरतः सुष्ठु निद्राति वत्सस्
तस्मादुच्चैर्न दधिमथनं दासिकाः संविधेयम् ।
नेत्थं यावद्गृहमधि जनन्यालपन्त्युत्थिता ते
तावत्तूर्णं प्रविश निभृतं कृष्ण शय्यानिकेतम् ॥४२॥
वत्सः पुत्रोऽरण्यभ्रमणातिशयेन श्रान्तः सन्सुष्ठु निद्राति शेते । तस्मात्हे दासिकाः ! उच्चैर्दधिमन्थनं युष्माभिर्न विधेयम् । एवमालपन्ती वदन्ती सती गृहमधि गृहते तव जननी श्रीयशोदा यावदुत्थिता नास्ति, तावत्हे श्रीकृष्ण ! त्वं शय्यानिकेतं निभृतं यथा स्यात्तथा तूर्णं प्रविश । प्रेम्णः प्राबल्याद्न्निद्राभङ्गे सत्येवं रुदन्त्युत्तिष्ठतीति भावः ॥४२॥
कालिन्द्याद्यास्तव सुरभयः स्तब्धकर्णोर्ध्ववक्त्रा
हम्बारावैरुषसि तृषितान्नाह्वयन्त्यः स्ववत्सान।
युष्मन्मार्गे निहितनयनास्त्वन्मुखालोकनोत्काः
सीदन्त्यूधोभरजनितया पीडयेति प्रतीहि ॥४३॥
तव कालिन्द्याद्याः सुरभयो धेनवस्त्वन्मुखालोकनोत्कण्ठिताः । सत्यो युष्मन्मार्गे नियुक्तनेत्राः, स्तब्धा उच्चीभूताः स्थिराः कर्णा ऊर्ध्वं वक्त्राणि च यासां तथाभूता धीर्भूत्वा उषसि हम्बारावैस्तृषितान्स्ववत्सानाह्वयन्त्यः । किं वा, तृषितांस्तान्हम्बारावैराह्वयन्त्यः सत्यः ऊधसां स्तनानां भयो भारस्तज्जनितया पीडया सीदन्तीति प्रतीहि ॥४३॥
समाप्य वैभातिककृत्यमुत्का
सा पौर्णमासी सह ते जनन्या ।
द्रष्टुं भवन्तं प्रविशेन्न यावच्
छय्यालयं तावदुपैहि तूर्णम् ॥४४॥
भवन्तं द्रष्टुमुत्का उत्सुका पौर्णमासी वैभातिककृत्यं प्रातःकृत्यं समाप्य ते जनन्या सह ते शय्यालयं यावन्न प्रविशेत्, तावत्तूर्णं शय्यागृहमुपैहि याहि ॥४४॥
अथ कीरगिरा गोष्ठगमने सत्वरो हरिः ।
उत्तस्थौ निभृतं स्वाङ्गान्यपकृष्य प्रियाङ्गतः ॥४५॥
न व्याख्यातम् ।
पूर्वं प्रबुद्धा अथ तद्वयस्या
निकुञ्जजालाध्वसमर्पितास्याः ।
वृन्दासमेता ददृशुर्मृदूनि
तयोः प्रभातोद्गतचेष्टितानि ॥४६॥
तद्वयस्या ललितादयः । तयो राधाकृष्णयोर्मृदूनि प्रभातोद्गतचेष्टितानि ददृशुः ॥४६॥
राधिकारतिभरैरथोद्धता स्वप्रियं प्रियकतः कलापिनी ।
सुन्दरीति विदिता विसृज्य तर्ह्याजगाम रतिमन्दिराङ्गनम् ॥४७॥
अथ सुन्दरीति नाम्ना विदिता कलापिनी मयूरी प्रियकतः कदम्बात्स्वप्रियं मयूरं विसृज्य रतिमन्दिराङ्गनमाजगाम । कीदृशीं ? श्रीराधायाः रत्यतिशयैरुद्धता । श्लोकजातिश्च रथोद्धता ॥४७॥
ततः कदम्बादवरुह्य तूर्णम्
उन्मण्डलीकृत्य कलापवृन्दम् ।
पुरो नरीनर्ति मुदा परीतो
नाम्ना हरेस्ताण्डविकः कलापी ॥४८॥
यथा पूर्वश्लोके राधिका रतिभरैरुद्धता मयूरी, तथात्र कृष्णरतिभरैरुद्धतो नाम्ना ताण्डविकः कलापी मयूरः कलापवृन्दं पुच्छसमूहमुन्मण्डलीकृत्य हर्षेण व्याप्तः सन्पुरो नरीनर्ति, पुनः पुनरतिशयं वा नृत्यति ॥४८॥
सपदि हरिणी रङ्गिण्याख्या विहाय निजप्रियं
मुदितहृदया कुञ्जद्वारं रसालतलात्तदा ।
द्रुततरगतिर्गत्वा प्रेम्ना विलोलविलोचनं
विनिहितवती वक्त्राम्भोजे स्वजीवितनाथयोः ॥४९॥
रसालतलादाम्रवृक्षमूलात्रङ्गिण्याख्या हरिणी कुञ्जद्वारं गत्वा राधाकृष्णयोर्मुखाम्भोजे स्वलोलनेत्रं प्रेम्णार्पितवती तस्थौ ॥४९॥
ययौ निकुञ्जं स हरेः कुरङ्गः
कृष्णानने प्रेरितदृक्तरङ्गः ।
नाम्ना सुरङ्गः कृतकृष्णरङ्गस्
तदाम्रमूलादलसावशाङ्गः ॥५०॥
सुरङ्गनाम्ना कुरङ्गः कृष्णानने दत्तनेत्रः सन्निकुञ्जं ययौ ॥५०॥
उत्थायेशः सन्निविष्टोऽथ तल्पे
व्याजान्निद्राशालिनीं मीलिताक्षीम् ।
दोर्भ्यां कान्तां स्वाङ्कमानीय तान्तां
पश्यत्यस्या माधुरीं साधुरीति ॥५१॥
अथ ईशः श्रीकृष्णः साधुरीति यथा स्यात्तथा तल्पे सन्निविष्टः सन्व्याजात्निद्राशालिनीं तान्तां क्षीणां कान्तां स्वाङ्कमानीय अस्या माधुरीं पश्यति । अस्त्यर्थे शालिम् ॥५१॥
घूर्णायमानेक्षणखञ्जरीटं
ललाटलोलालकभृङ्गजालम् ।
मुखं प्रभाताब्जनिभं प्रियायाः
पपौ दृशेषत्स्मितमच्युतोऽसौ ॥५२॥
अच्युतः प्रियाया मुखमीषत्स्मितं यथा स्यात्तथा पपौ । कीदृशं ? प्रभाताब्जनिभं प्रभातपद्मं यथा नवफुल्लत्वात भृङ्गैरभुक्तत्वान्मधुपूर्णं तथा । माधुरीपूर्णं साम्ये विशेषणद्वयमाह—घूर्णायेति । घूर्णायमानेक्षणे नेत्रे एव खञ्जरीटौ खञ्जनौ ताविव यत्र तत। ललाटे लोलालका एव भ्रमरसमूहो यत्र तन्मुखम् ॥५२॥
संश्लिष्टसर्वाङ्गुलिबाहुयुग्मम्
उन्मथ्य देहं परिमोटयन्तीम् ।
उद्बुद्धजृम्भास्फुटदन्तकान्तिम्
आलोक्य कान्तां मुमुदे मुकुन्दः ॥५३॥
संश्लिष्टाः परस्परमिलिताः सर्वा अङ्गुलयो यत्र तथाभूतं बाहुयुग्ममुन्मथ्य । उत्थाप्येति वा पाठः । देहं परिमोटयन्तीं कान्तामालोक्य मुकुन्दो मुमुदे । कीदृशीं ? उद्बुद्धया जृम्भया « हाइ » इत्याख्यया स्फुटा व्यक्ता दन्तानां कान्तिर्यस्यास्ताम् ॥५३॥
स्वीयाङ्कोत्तानसुप्तामुषसि मृदु मृषा रोदनेषत्स्मितास्याम्
अर्धोन्मुक्ताग्रकेशां विमृदितकुसुमस्रग्धरां छिन्नहाराम् ।
उन्मील्योन्मील्य घूर्णालसनयनयुगं स्वाननालोकनोत्कां
कान्तां तां केलितान्तां मुदमतुलतमामाप पश्यन्व्रजेन्दुः ॥५४॥
व्रजेन्दुः तां कान्तां पश्यनतुलतमां मुदमाप । कीदृशीं ? केलौ तान्तां ग्लानामुत्फुल्लां वा बाह्ये ग्लानामन्तरे फुल्लामित्यर्थः । तनुग्लानौ तनुविस्तारे । स्वीये अङ्के क्रोडे उत्तानमूर्ध्वमुखं यथा स्यात्तथा सुप्ताम् । मृदु कोमलं च तत्मृषा रोदनेन मिथ्यारोदनेन सह ईषत्स्मितं चेति तदास्ये यस्यास्ताम् । अर्धोन्मुक्तमग्रभागो यस्माद्तथाभूताः केशा वेणीकृतकेशा यस्यास्ताम् । विशेषेण मृदितां मर्दितां कुसुमानां स्रजं मालां धरयति इति ताम् । छिन्नो हारो मुक्तामाला अन्यरत्नहारो वा यस्यास्ताम् । घूर्णया अलसं नयनयुगमुन्मील्योन्मील्य स्वस्य कृष्णस्य मुखावलोकने उत्कामुत्कण्ठिताम् ॥५४॥
हेमाब्जाङ्ग्याः प्रबलसुरतायासजातालसायाः
कान्तस्याङ्के निहितवपुषः स्निग्धतापिञ्छकान्तेः ।
सम्पाकम्पा नवजलधरे स्थास्नुतां चेदधास्यत्
श्रीराधायाः स्फुटमिह तदा साम्यकक्षामवाप्स्यत॥५५॥
इह जगति चेद्यदि सम्पा विद्युतकम्पा सती नवजलधरे स्थास्नुतां स्थैर्यमधास्यत्, तदा इह जगति श्रीराधायाः साम्यकक्षां तुल्यतामवाप्स्यत। कीदृश्याः ? स्निग्धो यः तापिञ्छस्तमालवृक्षस्तत्तुल्या कान्तिर्यस्माद्तस्माद्कान्तस्याङ्के निहितवपुषः । कृष्णाङ्गे निहितवपुषस्त्वे हेतुमाह— प्रबलसुरतात्य आयासस्तेन जातमालसमलसभावो यस्यास्तस्याः । अत्र भावेन गाढालसाया इति पाठे तेन गाढं यथा स्यात्तथालसायाः ॥५५॥
स्फुरन्मकरकुण्डलं मधुरमन्दहासोदयं
मदालसविलोचनं कमलगन्धिलोलालकम् ।
मुखं स्वदशनक्षताञ्जनमलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनरभूद्विलासोत्सुका ॥५६॥
कमलेक्षणा हरेर्मुखं वीक्ष्य पुनर्विलासोत्सुका अभूत। मुखं कीदृशं ? स्वस्या दशनैर्दंशैर्दन्तानां वा क्षतं यत्र तथाभूतश्चासावञ्जनेन तेन कृतात। स्वस्याः नेत्रचुम्बनात्संलग्नाञ्जनेन मलीमसो मलिनाश्चेति तादृशो ओष्ठो यत्र तत। मलीमसं तु मलिनमित्यमरः । अन्यत्स्फुटार्थम् ॥५६॥
परस्परालोकनजातलज्जा
निवृत्तचञ्चद्दरकुञ्चिताक्षम् ।
ईषत्स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्ततृष्णः पुनरास कृष्णः ॥५७॥
श्रीकृष्णः प्रियाया मुखं वीक्ष्य पुनः रतिविषयकोद्दीप्ततृष्णः आस । परस्परालोकनेन जाता या लज्जा तया निवृत्ते चञ्चती चञ्चले दरमीषत्कुञ्चिते अक्षिणी यत्र तत॥५७॥
वामेन चाधःशिर उन्नमय्य
करेण तस्याश्चिबुकं परेण ।
विभुग्नकण्ठः स्मितशोभिगण्डं
मुखं प्रियायाः स मुहुश्चुचुम्ब ॥५८॥
स कृष्णः विशेषेण नम्रतया सह भुग्नो वक्रः कण्ठो यस्य सः । भुजकौटिल्ये विशेषोऽत्र नम्रता । तथाभूतः सन्प्रियाया अधःशिरः शिरोऽधः वामेन करेण उन्नमय्योत्थाप्य, परेण दक्षिणेन करेण चिबुकमुन्नमय्य स्मितेन शोभिनौ गण्डौ यत्र तन्मुखं मुहुश्चुचुम्ब ॥५८॥
कान्ताधरस्पर्शसुखाब्धिमग्ना
करं धुनानादरकुञ्चिताक्षी ।
मा मेति मन्दाक्षरसन्नकण्ठी
सखी दृशां सा मुदमाततान ॥५९॥
वामाभावेन निषधवाचकमामेति मन्दाक्षरेण सन्नकण्ठी सा सखी दृशां मुदमाततान । अन्यत्स्पष्टम् ॥५९॥
अथास्या वयस्याः प्रमोदात्स्मितास्याः
सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः ।
सशङ्काः समन्तात्प्रभाताद्दुरन्तात्
प्रविष्टा निकुञ्जं सशब्दालिपुञ्जम् ॥६०॥
अथास्या राधाया वयस्याः सख्यः दुरन्तात्प्रभातात्दुरन्तमतिप्प्रकाशात्भयदं प्रभातं दृष्ट्वा सशङ्का अपि (ल्यब्लोपे पञ्चमी) राधायाः कृष्णेन सह विलासात्प्रमोदात्स्मितास्याः । तां राधां सखीत्वात्हसन्त्यः सत्यो मिथः परस्परं त्वमग्रेसरः त्वमग्रेसरः इति तन्निकटं प्रेरयन्त्यः सत्यो निकुञ्जं प्रविष्टा बभूवुरिति शेषः ॥६०॥
अभिलक्ष्य सखीर्विहसद्वदनाः
सविधोपगता विचलन्नयनाः ।
दयिताय मुदं द्विगुणां ददती
दयितोरुयुगादुदतिष्ठदियम् ॥६१॥
इयं श्रीराधा सखीरभिलक्ष्य दृष्ट्वा । कीदृशीः ? विहसन्ति वदनानि यासां ताः । विहसन्ताश्च ता वदन्तीति वदनाश्चेति, कर्तर्थेऽनः सविधं निकटमुपागताः । विचलन्ति माधुरीदर्शनाय स्फुरन्ति नयनानि यासां ताः । दयितस्य ऊरुयुगातुदतिष्ठत। किं कुर्वती ? दयिताय तस्मै शयनाद्द्विगुणां मुदं ददती सती । दयिताय दयितोरुयुगादिति विभक्त्यर्थभेदादत्र पुनरुक्तिर्न ॥६१॥
त्वरोत्थिता सम्भ्रमसङ्गृहीत
पीतोत्तरीयेण वपुः पिधाय ।
पार्श्वे प्रियस्योपविवेश राधा
सलज्जमासां मुखमीक्ष्यमाणा ॥६२॥
राधा त्वरोत्थिता सती सम्भ्रमेण वेगेन सम्यग्गृहीतेन कृष्णस्य पीतोत्तरीयेण स्ववपुराच्छाद्य सलज्जं यथा स्यात्तथा सखीनां मुखं पश्यन्ती सती तस्य प्रियस्य पार्श्वे उपविवेश ॥६२॥
मिथोदशनविक्षताधरपुटौ विलासालसौ
नखाङ्कितकलेवरौ गलितपत्रलेखाश्रियौ ।
श्लथाम्बरसुकुन्तलौ त्रुटितहारपुष्पस्रजौ
मुहुर्मुमुदिरे पुरः समभिलक्ष्य ताः स्वप्रियौ ॥६३॥
ताः सख्यः स्वप्रियौ सम्यक्दृष्ट्वा मुमुदिरे । कीदृशौ ? मिथो रदनैर्दन्तैर्विशेषेण क्षताधरपुटौ ययोस्तौ । विलासादलसौ । नखैरङ्किते कलेवरे ययोस्तौ । श्लथाम्बरे सुष्ठु कुन्तलाश्च ययोस्तौ । त्रुटिता हारा मुक्तामणिमालाः पुष्पस्रजश्च ययोस्तौ ॥६३॥
मध्येऽच्युताङ्गघनकुङ्कुमपङ्कदिग्धं
राधाङ्घ्रियावकविचित्रितपार्श्वयुग्मम् ।
सिन्दूरचन्दनकणाञ्जनबिन्दुचित्रं
तल्पं तयोर्दिशति केलिविशेषमाभ्यः ॥६४॥
आभ्यः सखीभ्यः तल्पं शय्यां तयोः केलिविशेषं दिशति कथयति । तल्पं कीदृशं ? मध्ये इत्यादि विशेषणत्रयं विशिष्टम् ॥६४॥
प्रम्लिष्टपुष्पोच्चयसन्निवेशां
ताम्बूलरागाञ्जनचित्रिताङ्गीम् ।
व्यक्तीभवत्कान्तविलासचिह्नां
शय्यामपश्यन्स्वसखीमिवाल्यः ॥६५॥
आल्यः सख्यः स्वसखीं राधामिव शय्यामपश्यन। शय्याराधयोः साम्यमाह—प्रम्लिष्टेत्यादिविशेषणत्रयेण प्रमर्दितपुष्पसमूहस्य सन्निवेशः स्थितिर्यत्र ताम् ॥६५॥
प्रमिताक्षराञ्चितपरिहासततिं
गदितुं हरेश्चलरदच्छदनम् ।
सुतनोश्च नम्रमभितस्त्रपया
वदनाम्बुजं पपुरमूः स्वदृशा ॥६६॥
अमूः सख्यः स्वदृशा हरेः प्रमिताक्षराञ्चिनीमल्पाक्षरयुक्तां परिहासततिं वक्तुं चलरदच्छदनं चञ्चलौष्ठाधरम् । औष्ठाधरौ तु रदनच्छदौ दशनवाससी इत्यमरः । सुतनोः राधायास्त्रपया नम्रं वदनाम्बुजं पपुः । पपुरिति माधुर्यवदनयोरभेदात॥६६॥
वक्षः स्वं दर्शयंस्ताभ्यो
दृग्भङ्ग्योवाच ता हरिः ।
दिदृक्षुः स्वप्रियावक्त्र
भावशावल्यमाधुरीम् ॥६७॥
स्वप्रियावक्त्रस्य भावानां शावल्येन मिलनेन या माधुरी तां दिदृक्षुर्हरिस्ताभ्यो दृग्भङ्ग्या स्वं वक्षः दर्शयन्नुवाच ॥६७॥
विधुं प्रयस्यन्तमवेक्ष्य
कान्तं विश्लेषभीतोषसि पश्यताल्यः ।
दिदृक्षयेवाम्बरचित्रपट्यां
राधेन्दुलेखाशतमालिलेख ॥६८॥
उषसि प्रातःकाले विधुं कान्तं प्रयस्यन्तमवेक्ष्य विश्लेषभीता राधानाम्नी तारा राधा विशाखा इत्यमरः । कान्तं दिदृक्षया इवाम्बररूपचित्रपटे इन्दुलेखाशतमालिलेख इत्युक्त्वा श्लेषेण राधाकृतानि स्ववक्षःस्थलचिह्नान्यदर्शयत। मेघान्तरिततेजःपुञ्जं गगने इन्दुलेखेव ॥६८॥
इति निगदति कृष्णे वीक्ष्य साऽग्रे वयस्याः
प्रहसितवदनास्ताः सङ्कुचल्लोलनेत्रा ।
विकसदमलगण्डं दोलितारेचितभ्रूः
प्रियमनृजुकटाक्षैः पश्यति स्म घ्नतीव ॥६९॥
ताः प्रहसितवदना वयस्या अग्रे वीक्ष्य विकसदमलगण्डं यथा स्यात्तथा दोलितारेचितभ्रूर्दोलिते चालिते आ सम्यक्रेचिते क्षिप्ते च भ्रूवौ यया सा । सङ्कुचन्ती लोले नेत्रे यस्याः सा । प्रियं घ्नतीव वक्रकटाक्षैः पश्यति स्म ॥६९॥
हेलोल्लासा दरमुकुलिता बाष्पसान्द्रारुणान्ता
लज्जाशङ्काचपलचकिता भङ्गुरेर्ष्याभरेण ।
स्मेरस्मेराद्दयितवदनालोकनोत्फुल्लतारा
राधादृष्टिर्दयितनयनानन्दमुच्चैर्व्यतानीत॥७०॥
राधादृष्टिः कृष्णनयनानन्दमुच्चैर्व्यतानीत। कीदृशी दृष्टिः ? हेलोल्लासा हेलया शृङ्गारभावजया क्रियया उल्लासो यत्र सा । दरमीषन्मुकुलिता मुद्रिता । बाष्पेण नेत्रजलेन सान्द्रा पूर्णा । अरुणोऽन्तो यस्याः सा । लज्जया शङ्कया च चपला चञ्चला चासौ चकिता आश्चर्यवती चेत्सा । ईर्ष्याभरेण भङ्गुरा स्मेरस्मेरा अत्युल्लासाद्धेतोः कृष्णमुखावलोकने विषये उत्फुल्ला तारा यत्र ॥७०॥
इत्थं मिथः प्रेमसुखाब्धिमग्नयोः
प्रगेतनीं विभ्रममाधुरीं तयोः ।
निपीय सख्यः प्रमदोन्मदास्तदा
तदात्वयोग्याचरणं विसस्मरुः ॥७१॥
तदा इत्थमनेन प्रकारेण तयोः प्रगेतनीं रात्रिशेषोत्पन्नां विभ्रममाधुरीं निपीय आनन्दोन्मत्ताः सख्यः तदात्वयोग्यं तत्कालयोग्यमाचरणं स्वस्वगृहगमनं विसस्मरुः ॥७१॥
विलोक्य लीलामृतसिन्धुमग्नौ
तौ ताः सखीश्च प्रणयोन्मदान्धाः ।
वृन्दा प्रभातोदयजातशङ्का
निजेङ्गितज्ञां निदिदेश शारीम् ॥७२॥
वृन्दा तौ राधाकृष्णौ लीलासमुद्रमग्नौ ताः सखीश्च प्रणयोन्मदान्धा वीक्ष्य निजेङ्गितज्ञां शारीं निदिदेश ॥७२॥
गुरुलज्जाभर्तृभीतिलोकहासनिवारिका ।
शुभाख्या सारिका प्राह राधिका बोधसाधिका ॥७३॥
राधिकाया बोधसाधिका शुभाख्या सारिका प्राह ॥७३॥
आगन्ता ग्राहयित्वा तव पतिरधुना गोष्ठतः क्षीरभारान्
उत्तिष्ठोत्तिष्ठ राधे तदिह कुरु गृहे मङ्गलां वास्तुपूजाम् ।
इत्थं यावद्धवाम्बा तव न हि शयनादुत्थिता वावदन्ती
तावच्छय्यानिकेतं व्रज सखि निभृतं कुञ्जतः कञ्जनेत्रे ॥७४॥
गुरुलज्जाभर्तृभीतिनिवारणमाह—हे सखि राधे ! तव धवस्य स्वामिनः अम्बा माता जटिला तस्या वाक्यमाह—हे राधे ! तव पतिः क्षीरभारान्ग्राहयित्वा गोष्ठादधुना आगन्ता आगमिष्यति, तत्तस्मात्त्वमुत्तिष्ठोत्तिष्ठ, गृहे मङ्गलां वास्तुपूजां कुरु । इत्थं वावदन्ती अतिशयेन पुनः पुनर्वा वदन्ती सती यावच्छयनान्न हि उत्थितास्तीति शेषः । हे कञ्जनेत्रे ! तावन्निभृतं यथा स्यात्तथा कुञ्जतः शय्यानिकेतं व्रज ॥७४॥
तारापतिना सह सखि तारा
निखिलनिशाकृतविविधविहाराः ।
लीनाः सम्प्रत्यम्बरपटले
त्वमपि च कुञ्जाद्गृहमय सरले ॥७५॥
हे सखि ! तारापतिना चन्द्रेण सह तारा । कीदृश्यः ? निखिलनिशायां कृता विविधविहारा याभिस्ताः । अम्बरपटले आकाशे सम्प्रति लीनाः । त्वमपि कुञ्जाद्गृहमय गच्छ । अयमुदयति इत्यादिवत्परस्मैपदं महाकविप्रयोगात॥७५॥
चन्द्रवर्त्मकपिशं रविकिरणैः
राजवर्त्ममिलितं जन निचयैः ।
कुञ्जवर्त्मकुतुकं त्यज सरले
घोषवर्त्मगमनं हितमधुना ॥७६॥
रविकिरणैश्चन्द्रस्य वर्त्म कपिशं पीतवर्णमभूदिति जनसमूहै राजवर्त्ममिलितं कुञ्जवर्त्मनि कुतुकं कौतूहलं त्यज । अतः गोष्ठगमनं तव हितम् ॥७६॥
शङ्कापङ्काकलितहृदया शङ्कतेऽस्या धवाम्बा
छिद्रान्वेषी पतिरतिकटुः सार्थनामाभिमन्युः ।
रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा
प्रातर्जातं तदपि सरलां कृष्ण नैनां जहासि ॥७७॥
हे कृष्ण ! प्रातर्जातं तदपि सरलामेनां न जहासि । सरला भवति शुद्धप्रेमवती । अत्र हेतुमाह—अस्या धवाम्बा श्वश्रूः शङ्कारूपपङ्केनाकलितं व्याप्तं हृदयं यस्याः सा शङ्कते सार्थनामा पतिरभिमन्युः । अभि सर्वतोभावेन मन्युः क्रोधरूपः । अतिकटुः क्रोधस्य कटुत्वं स्वरूपमेवं पुनश्छिद्रान्वेषी । सा प्रसिद्धा मन्दा ननन्दा रुष्टा सत्यभीक्ष्णं परिवदति कलङ्कं करोति ॥७७॥
शारीवचोमन्दरशैलपात
सङ्क्षुब्धहृद्दुग्धपयोधिरेषा ।
अथोद्भ्रमन्नेत्रनवीनमीना
वियोगदीना शयनादुदस्थात॥७८॥
अथ शारीवाक्यरूपमन्दरशैलस्य पातेन सङ्क्षुब्धो हृदयरूपदुग्धसमुद्रो यस्याः सा । अत उद्भ्रमन्तौ नेत्ररूपनवीनमीनौ बालकमत्स्यौ यस्याः सा । एवंभूता सती एषा राधा वियोगदीना कृष्णसङ्गविच्छेदे आर्तापि शयनादुदस्थादुत्थितवती ॥७८॥
कृष्णोऽपि कान्तं वृषभानुजायाः
पश्यन्मुखं भीतविलोलनेत्रम् ।
नीलं सुचीनं दयितानिचोलं
गृह्णन्स्वतल्पात्त्वरयोदतिष्ठत॥७९॥
कृष्णोऽपि राधायाः कान्तं कमनीयं मुखं पश्यन। दयितायास्तस्या नीलं सुचीनमतिसूक्ष्मं निचोलं वस्त्रं गृह्णनुदतिष्ठदुत्थितवान॥७९॥
परिवर्तितसंव्यानौ मिथस्तावथ शङ्कितौ ।
परस्परकरालम्बौ निरगातां निकुञ्जतः ॥८०॥
अथ तौ राधाकृष्णौ शङ्कितौ सन्तौ मिथः परस्परं करालम्बौ भूत्वा निकुञ्जान्निरगाताम् । कीदृशौ ? परिवर्तितसंव्याने उत्तरीयवस्त्रे ययोस्तौ ॥८०॥
राधापाणिं सव्येऽसव्ये पाणौ बिभ्रद्वेणुं कृष्णः ।
रेजे कुञ्जान्निर्यन्यद्वद्विद्युन्मालाश्लिष्टाम्भोदः ॥८१॥
सव्ये वामे पाणौ राधापाणिं, असव्ये दक्षिणे पाणौ वेणुं बिभ्रत्कृष्णः कुञ्जान्निर्यन्निर्गच्छन्विद्युन्मालालिङ्गितमेघवद्रेजे ॥८१॥
हैमं भृङ्गारमेका व्यजनमथ परा स्वर्णदण्डं दधाना
काप्यादर्शं सुदर्शं घुसृणमलयजामत्रमन्या विचित्रम् ।
काचित्ताम्बूलपात्रं मणिचितमपरा शारिकां पञ्जरस्थाम्
इत्थं सख्यः कियत्यः प्रमुदितहृदया निर्ययुः कुञ्जगेहात॥८२॥
एका सखी हैमं सौवर्णं भृङ्गारं झारीं जलपात्रविशेषं, अपरा अन्याः स्वर्णनिर्मितो दण्डो यस्य तत्व्यजनं, कापि सुष्ठु दर्शो दर्शनं यत्र तमादर्शं दर्पणं, अन्या विचित्रं कुङ्कुमचन्दनानाममत्रं पात्रम् । काचिन्मणियुक्तं ताम्बूलपात्रं, अपरा पिञ्जरस्थां शारिकां दधाना । इत्थं कियत्यः सख्यः कुञ्जगृहान्निर्ययुः । कीदृश्यः ? प्रमुदितं प्रकर्षेण हृषितं हृदयं यासां ताः ॥८२॥
माहेन्द्रकान्तच्छदनं सकाञ्चनं
दान्तं ससिन्दूरसमुद्गकं परा ।
आपन्नसत्त्वा कुचकुट्मलोपमं
कुञ्जाद्गृहीत्वा निरगान्मृदुस्मिता ॥८३॥
इन्द्रनीलमणेश्छदनमाच्छादनं यत्र सकाञ्चनं स्वर्णसहितं दान्तहस्तिदन्तजातं ससिन्दूरसमुद्गकं सिन्दूरसहितं तदाधारसम्पुटम् । कीदृशं सम्पुटं? आपन्नसत्त्वायाः सगर्भायाः स्त्रियः कुचकुट्मलोपमम् । कुचकुट्मलस्येत्यत्र कुचस्य सगौरशुक्लत्वात्स्वर्णदान्तसम्पुटेन स्तनोपरि कालिम्नः । इन्द्रनीलमणिकृतच्छदनेन च सादृश्यम् । स्त्रीणां गर्भे जाते सति कुचयोः सशुक्लगौरत्वं, तदुपरि नीलस्याधिक्यं च भवति इति ज्ञेयम् । आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिनी इत्यमरः ॥८३॥
आश्लेषसञ्छिन्नगुणात्परिच्युतं
हाराल्लसन्मौक्तिकसञ्चयं मुदा ।
विचित्य काचित्स्वपटाञ्चले दृढं
निबध्नती कुञ्जगृहात्विनिर्ययौ ॥८४॥
आलिङ्गनेन संछिन्नसूत्रात्हारात्परिच्युतं लसन्मौक्तिकसमूहं विचित्य ॥८४॥
ताडङ्ककेलिविभ्रष्टं तल्पादादाय सत्वरा ।
निर्गत्य स्वेश्वरीकर्णे युयोज रतिमञ्जरी ॥८५॥
ताडङ्कं कर्णभूषणम् ॥८५॥
तल्पप्रान्तादुपादाय कञ्चुलीं रूपमञ्जरी ।
प्रियनर्मसखी सख्यै निर्गत्य निभृतं ददौ ॥८६॥
प्रियनर्मसखी रूपमञ्जरी सख्यै राधा४ ॥८६॥
पतद्ग्रहमुपादाय दासिका गुणमञ्जरी ।
ताम्बूलं चर्वितं ताभ्यो वितरन्ती बहिर्ययौ ॥८७॥
गुणमञ्जरी पतद्ग्रहं ताम्बूलचर्विताधारपात्रम् ॥८७॥
मञ्जुलाली तयोरङ्गाच्च्युतमाल्यानुलेपनम् ।
तल्पादादाय सर्वाभ्यः प्रयच्छन्ती विनिर्गता ॥८८॥
मञ्जुलाली तयो राधाकृष्णयोरङ्गात॥८८॥
विलोक्याग्रे मेघाम्बरवृतशरीरं प्रियतमं
वयस्यां तां पीताम्बरपरिवृताङ्गीं प्रमुदिताम् ।
हसन्त्यस्ताः सख्यः करपिहित मुख्यः प्रतिदिशं
दिशन्त्यश्चान्योन्यं कुटिलचलदृग्भिर्मुमुदिरे ॥८९॥
नीलवस्त्र्रावृतं कृष्णं, पीतवस्त्रावृतां राधां विलोक्य अन्योन्यं चपलदृग्भिर्दिशन्त्यः सख्यो मुमुदिरे ॥८९॥
समीक्ष्य तासां परिहासभङ्गीम्
अन्योन्यवक्त्रार्पितफुल्लनेत्रौ ।
समुच्छलत्प्रेमसुखाब्धिमग्नौ
चित्रार्पिताङ्गाविव तावभूताम् ॥९०॥
तौ राधाकृष्णौ । तासां सखीनाम् । परिहासभङ्गीं दृष्ट्वा अन्योन्यं वक्त्रे अर्पिते फुल्लनेत्रे याभ्यां तौ । समुच्छलत्प्रेमसुखाब्धौ मग्नौ सन्तौ चित्रे चित्रपटे अर्पिते लिखितेऽङ्गेऽङ्गाङ्गिनोरभेदान्मूर्ती ययोस्ताविवाभूताम् । ययोरिति सम्बन्धोऽत्र स्थानदेश इति यौ अर्थात्तौ एव चित्रपटे लिखिताविवाभूतामिति ज्ञेयम् ॥९०॥
घनश्यामं चीनं वसनमभिलीनं प्रियतनौ
क्षमा नासीत्कान्ता स्वमपि परिचेतुं घनरुचौ ।
स्वमज्ञासीत्स्फीतं हरिरपि न पीतं प्रियतमा
तनौ लीनं कनकरुचि कम्बाविव पयः ॥९१॥
कान्ता श्रीराधा घनरुचौ प्रियस्य तनौ अतिनीलं चीनं सूक्ष्मं घनश्यामं स्वमपि वसनं परिचेतुं क्षमा समर्था नासीत। हरिरपि कनकस्य रुगिव रुक्कान्तिर्यस्यास्तस्यां प्रियतमातनौ लीनं युक्तं स्फीतं प्रकाशितं चीनं सूक्ष्मं स्वमपि पीतं वस्त्रं नाज्ञासीत। कस्मिन्किमिव ? कम्बौ शङ्खे पयः दुग्धमिव शङ्खदुग्धयोर्वर्णसाम्यादिव तयोः वर्णवस्त्रयोः साम्यादज्ञानम् ॥९१॥
तयोर्लीलासुधापानप्रत्यूहामर्षसङ्कुला ।
निन्दन्त्यरुणमुद्यन्तमथाह ललिता सखीम् ॥९२॥
लीलासुधापानस्य प्रत्यूहेन विरोधेनामर्षः क्रोधस्तेन सङ्कुला ललिता उद्यन्तमरुणं निन्दन्त्याह । विघ्नोऽन्तराय इत्यमरः ॥९२॥
उषसि वरवधूनां पश्य राधेऽरुणोऽयं
रमणसहितलीलाभङ्गतः पापरुग्भिः ।
गलितपदयुगोऽप्यद्यापि तन्नो जहाति
ध्रुवमिति वचनं यद्दुस्त्यजः स्वस्वभावः ॥९३॥
अयमरुणः, उषसि वरवधूनां रमणसहितलीलाभङ्गतः पापं तस्मात्रुग्भिः कुष्ठरोगैर्गलितपदयुगोऽप्यद्यापि तत्तत्लीलाभङ्गं न जहातीति हेतोः स्वस्वभावो दुस्त्यज इति वचनं ध्रुवं सत्यम् ॥९३॥
अरुणारुणे निदधती ततोऽम्बरे
रतिकेलिभङ्गजरुषाऽरुणां दृशम् ।
ललितोपहासजनितस्मितानना
वृषभानुजाह मृदु मञ्जुभाषिणी ॥९४॥
ततोऽरुणेनारुणवर्णे अम्बरे गगने रतिकेलिभङ्गजरुषाऽरुणां दृशं निदधती । ललितोपहासेन जनितस्मितमाननमस्याः सा मञ्जुभाषिणी ह ॥९४॥
अनूरुरप्यस्तमयन्क्षणार्धान्
नभो विलङ्घ्योदयमेति सोऽयम् ।
चेत्सोरुमेनं स विधिर्व्यधास्यद्
वार्तापि रात्रेर्न तदाभविष्यत॥९५॥
सोऽयमरुणः, अनूरुरूरुरहितोऽपि अस्तमयन्क्षणार्धात्क्षणार्धकालमभिव्याप्य आकाशमुल्लङ्घ्य उदयमेति । अद्यापि अरुणः षष्टिघटिकानन्तरं पुनरुदयति, तदपि क्षणार्धकथनं तस्या अनुरागबाहुल्यात। विधिश्चेद्यदि एनमरुणं सोरुं व्यधास्यत्, तदा रात्रेर्वार्तापि नाभविष्यत। अनेन विधातुः शोभनसृष्टिकर्तृत्वं वरस्त्रीणां भाग्यवत्त्वं च ध्वनितम् ॥९५॥
मनोरमां वीक्ष्य विभातलक्ष्मीं
निपीय तस्या वचनासवं च ।
मुदोन्मदो विस्मृतगोष्ठयानः
प्राणेश्वरीं तामवदन्मुकुन्दः ॥९६॥
विभातलक्ष्मीं प्रातःशोभां वीक्ष्य राधाया वचनामृतं च पीत्वा हर्षेणोन्मदः सन्विस्मृतगोष्ठगमनो मुकुन्दस्तां राधामवदत॥९६॥
इनं प्रभातोपगतं समीक्ष्य
कान्तेव कान्तान्तरभुक्तकान्तम् ।
पश्यान्यदिक्सङ्गकषायिताङ्गं
प्राचीयमीर्ष्यारुणितेव जाता ॥९७॥
इनं सूर्यं प्रभाते उप समीपे प्राप्तं वीक्ष्येयं प्राची दिकीर्ष्यया एवारुणिता जाता । कीदृशं ? अन्या दिशः सङ्गेन कषायितमङ्गं यस्य तम् । कं केव ? कान्तान्तरभुक्तं कान्तमन्यनायिकान्तरभुक्तं कान्तं वीक्ष्य कान्तेव ॥९७॥
पश्योन्मत्ते द्विजेशोऽप्यखिलजनतमःस्तोमहन्तापि शान्तः
कान्तोऽयं ते समन्तात्सपदि निपतितो वारुणीं सन्निषेव्य ।
इत्थं स्वीयेन सङ्गप्रमुदितनलिनीहाससञ्जातलज्जा
शङ्के वक्त्रं पिधत्ते ह्युषसि कुमुदिनि सङ्कुचद्भिर्दलैः स्वैः ॥९८॥
हे उन्मत्ते ! कुमुदिनि ! त्वं पश्य ते कान्तो द्विजेशश्चन्द्रः स एव द्विजेशो ब्राह्मणश्रेष्ठोऽपि अखिलजनानां तमांस्यन्धकारा एव तमांसि पापानि तेषां समूहस्य हन्तापि शान्तः शीतलः स एव शान्तः शान्तिगुणयुक्तोऽपि भूत्वा वारुणीदिगेव वारुणा मदिरा तां सन्निषेव्य । अत्र सेवा गमनं सैव पानं तत्कृत्वा सपदि निपतितस्ते जातिभ्रष्टोऽभूदिति शेषः । इत्थं स्वीयेन स्वस्य कान्तस्य सूर्यस्य सङ्गेन प्रमुदितायाः नलिन्याः हासेन सञ्जातलज्जा कुमुदिनी उषसि सङ्कुचद्भिः स्वैर्दलैर्वक्त्रं पिधत्ते इत्यहं शङ्के ॥९८॥
दृष्ट्वा तमः क्षयममी विधुनान्यपुष्टा
नक्तं तमश्चयनिभाश्चकिताः प्रभाते ।
मित्रं तदाश्रयतया तमसा चरन्तीं
ग्रस्तं कुहूरिति कुहूं स्वगिराह्वयन्ति ॥९९॥
अमी तमश्चयनिभा अन्धकारसमूहवर्णा अन्यपुष्टाः कोकिला नक्तं रात्रौ विधुना कर्त्रा तमःक्षयमन्धकारनाशं दृष्ट्वा चकिताः । तमस्तुल्यानामस्माकमपि क्षयः स्यादिति भीताः सन्तः प्रभाते कुहूरिति स्वगिरा कुह्वा सम्बोधनरूपया स्ववाण्या कुहूममावस्यामाह्वयन्ति । कीदृशीं ? तमसा राहुणा कर्त्रा तदाश्रयतया ज्योतिःशास्त्रे चन्द्रस्यामा कला अमावस्यायां सूर्ये तिष्ठतीति हेतोस्तस्य चन्द्रस्याश्रयतया ग्रस्तं मित्रं सूर्यं चरन्तीं गच्छन्तीं प्राप्नुवन्तीं कुह्वागमने सति तया प्राप्ते गृहीते चन्द्रयुक्तसूर्ये आगच्छति सति । तयोर्ग्रासिनि राहौ आगत्य तौ ग्रसति सति अन्धकाराणामस्माकमपि रक्षा भविष्यति इति भावः । तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तद इति । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूरिति चामरः ॥९९॥
वसन्तकान्तसंसर्गजातानन्दभराटवी ।
कपोतीघूत्कृतिमिषात्शीत्करोतीव सोन्मदा ॥१००॥
वसन्ते कान्तस्य संसर्गेण जात आनन्दातिशयो यस्याः सा अटवी सोन्मदेन कपोतीघूत्कृतिमिषात्शीत्करोति । उत्कृष्टो यो मदो मदनमदस्तेन सहिता, अर्थान्नायिका यथा कान्तसंसर्गजातानन्दभरा सती शीत्करोति, तथा । शीत्कारस्तु कान्तसंसर्गसमये पीडाजन्यसुखकृतशब्दविशेषः ॥१००॥
पश्यानुसरति चञ्चलभृङ्गः
कैरविणीकुलकेलिपिशङ्गः ।
नलिनीकोषे निशि कृतसङ्गां
भृङ्गीं शशिमुखि कृतनतिभङ्गाम् ॥१०१॥
कैरविणीकुलेषु केलिना पिशङ्गस्तत्परागैः पीतवर्णः चञ्चलभृङ्गः मधुपानार्थं नलिनीकोषे स्थितां भृङ्गीं रात्रौ पद्मस्य मुद्रितत्वे तत्र कृतसङ्गामिदानीं तु कृतो नतिभङ्गी यया तामनुसरति पश्य ॥१०१॥
कान्तमायान्तमाशङ्क्यारुणाशुद्विगुणारुणम् ।
कोकी कोकनदं चञ्च्वा चुम्बत्यानन्दविह्वला ॥१०२॥
कोकी चक्रवाकी अरुणकिरणेन द्विगुणारुणं कोकनदं रक्तोत्पलमायान्तमागतं कान्तमाशङ्क्य चुम्बति ॥१०२॥
कलस्वनाख्यः कलकण्ठि हंसः
समीक्ष्य नौ सन्मदफुल्लपक्षः ।
रिरंसुमप्येष विसृज्य हंसीं
तटं तटिन्याः पुरतः समेति ॥१०३॥
हे कलकण्ठि ! एष कलस्वननामा हंसः नौ आवां समीक्ष्य रिरंसुं रमणेच्छुमपि हंसीं विसृज्य तटिन्या यमुनायास्तटं पुरतोऽग्रे समेति सम्यखृष्टः समागच्छति ॥१०३॥
स्वसहचरविसृष्टं स्वामिभुक्तं मृणालं
मदकलकलकण्ठी बिभ्रती पश्य चञ्च्वा ।
रमणमनु समेति त्वन्मुखाब्जार्पिताक्षी
सरसिजमुखि नाम्ना तुण्डिकेरी मराली ॥१०४॥
हे सरसिजमुखि ! मदकला मदोत्कटा कलो मधुरास्फुटध्वनिः कण्ठे यस्याः सा । तुण्डिकेरी नाम्नी हंसी स्वसहचरेण हंसेन विसृष्टं त्यक्तं स्वामिभुक्तमर्धभुक्तं मृणालं चञ्च्वा बिभ्रती त्वन्मुखाब्जेऽर्पितेऽक्षिणी यया स्थित्भावा सती रमणमनु रमणस्य पश्चात्समेति सम्यक्चलति पश्य । मदोत्कटो मदकल इति ध्वनौ तु मधुरास्फुटे कल इत्यमरः ॥१०४॥
मलयशिखरचारी पङ्कजामोदधारी
व्रततिनटकुमारी लास्यशिक्षाधिकारी ।
वहति जलविहारी वायुरायासदारी
सरमणवरनारी स्वेदजालापहारी ॥१०५॥
वायुर्वहति । वायुः कीदृशः ? मलयशिखरचारीत्यादि विशेषणद्वयेन सुगन्धः । व्रततिर्लतैव नटकुमारी, तस्या लास्यशिक्षायामधिकारीत्यनेन मन्दः । जलविहारीत्यनेन शीतलः । अत आयासं दारयितुं शीलं यस्य सः । रमणयोः स्वेदसमूहहारी ॥१०५॥
इतीशयोः सुमधुरवाग्विलासयोः
समीक्ष्य तां स्वभवनयानविस्मृतिम् ।
सखीश्च ताः स्मितरुचिरा मुदोन्मदा
वनेश्वरी दिवसभियास सोन्मनाः ॥१०६॥
सा वनेश्वरी वृन्दा ईशयोस्तां स्वभवनगमनविस्मृतिं मदोन्मदाः सखीश्च समीक्ष्य उन्मना आस ॥१०६॥
अथ वृन्देङ्गिताभिज्ञा समयज्ञा तरुस्थिता ।
पद्यमुद्द्योतयामास कक्खटी वृद्धमर्कटी ॥१०७॥
वृन्देङ्गितज्ञा कक्खटी नाम्नी वृद्धमर्कटी वानरी सद्यः पपाठ ॥१०७॥
रक्ताम्बरा सतां वन्द्या प्रातःसन्ध्या तपस्विनी ।
ऊर्ध्वप्रसर्पदर्कांशुर्जटिलेयमुपस्थिता ॥१०८॥
इयं प्रातःसन्ध्यैव तपस्विनी सोपस्थिता । कीदृशी ? रक्ताम्बरा किरणै रक्ताकाशमेव रक्तवस्त्रं यस्याः । ऊर्ध्वं प्रसर्पन्तोऽर्कांशव एव जटास्तद्युक्तामूर्ध्वे प्रसर्पन्नर्कांशुर्यस्याः सा चासावियं जटिला । कीदृशी रक्ताम्बरा ? रक्तं गैरिकरञ्जितमम्बरं वस्त्रं स्नात्वा परिधानार्थं स्कन्धे स्थितं यस्याः । सतां गोपानां वन्द्या प्राचीनतरत्वात्जातिश्रेष्ठत्वाच्च विरोधभयेन वा । यद्वा, असतां कलहरचकानां वन्द्या कलहशिक्षागुरुत्वात। पुनः कीदृशी ? प्रातःसन्ध्यायां यमुनायां स्नात्वा जपादि तपस्कारिणी ॥१०८॥
अथ जटिलाया अतिकुटिलायाः
श्रवणसशङ्कौ श्रितभयपङ्कौ ।
वरतनुकृष्णावतिरतितृष्णाव्
अपि निरितस्तौ व्रजपुरशस्तौ ॥१०९॥
अथ व्रजपुरस्य शस्तौ मङ्गलरूपौ तौ वरतनुकृष्णौ कुटिलायाः कौटिल्यवत्याः जटिलायाः जटिलेति नामश्रवणमात्रेण सशङ्कौ श्रितभयपङ्कौ शन्तौ निरितः निर्गच्छतः ॥१०९॥
भ्रंश्यद्दुकूलचिकुरस्रजमुन्नयन्तौ
भीतौ पृथग्गहनवर्त्मनि चापयान्तौ ।
तौ वीक्ष्य भीतितरलौ जटिलेति नाम्ना
सख्यस्ततस्तत इतश्चकिता निरीयुः ॥११०॥
जटिलेति नाम्ना भीतितरलौ भूत्वा भ्रंश्यन्तीः दुकूलचिकुरस्रजौ वस्त्रकेशमाला उन्नयन्तौ ऊर्ध्वं नयन्तौ पृथग्भूत्वा गहनवर्त्मनि वनमार्गे गूढमार्गे चापयान्तौ पलायन्तौ च तौ राधाकृष्णौ वीक्ष्य सख्यस्ततस्ततः स्थानातितस्ततो निरीयुः निर्जग्मुरपालयन। निनिल्युरिति पाठे ततोऽन्यत्र लीना बभूवुः ॥११०॥
वामे चन्द्रावलि परिजनान्घोषवृद्धान्पुरस्तत्
कृष्णः पश्चात्कुटिलजटिलामागतां मन्यमानः ।
यान्तीं कान्तां सभयचटुलां दक्षिणे द्रष्टुम्
उत्कश्चञ्चद्ग्रीवं दिशि दिशि दृशौ प्रेरयन्गोष्ठमायात॥१११॥
वामे पुरस्तादग्रे पश्चात्बन्धुपरिजनादीन्मन्यमानः कृष्णः दक्षिणे पथि कान्तां द्रष्टुमुत्कः चञ्चत्ग्रीवं यथा स्यात्तथा दिशि दिशि दिशि दृशौ प्रेरयन्गोष्ठमायात॥१११॥
अनुगता जटिलेत्यभिशङ्किनी
गुरुनितम्बकुचोद्वहनाकुला ।
द्रुतविलम्बितवल्गु ययौ व्रजं
करधृताम्बरकेशचयेश्वरी ॥११२॥
ईश्वरी श्रीराधापृष्ठदेशागता जटिलेति मन्यमाना सती गुरुनितम्बादि वहनेनाकुला कराभ्यां धृतमम्बरं केशसमूहश्च यया सा । गन्तुमुद्यमेन द्रुतगुरुनितम्बादि वहनादसामर्थ्याद्विलम्बितं ताभ्यां वस्तु मनोरमं यथा स्यात्तथा व्रजं ययौ ॥११२॥
भयानुरागोच्चयधूम्रलोलदृक्
तिरस्करिण्या पिहिते मनोरथे ।
निजे निवेश्यैव हि रूपमञ्जरी
गृहं निनीषुः पथि तां तदन्वयात॥११३॥
रूपमञ्जरी तां राधां गृहं निनीषुः सती निजे मनोरथे मन एव रथस्तस्मिन्निवेश्यैव पथि तदन्वयात्तस्या राधाया अनु पश्चादयातगच्छत। कीदृशे पथि ? भयानुरागयोरतिशयेन धूम्रलोलदृगेव तिरस्करिणी काण्डपटस्तया । हि निश्चितम् । पिहिते आच्छादिते इत्यनेन तस्यां सा सावधानमना भूत्वा तां निनीषुः सती, तस्या मार्गस्य पार्श्वद्वये दृक्पातं कुर्वती तस्याः पश्चादगादित्यर्थः ॥११३॥
इतस्ततः क्षिप्तचलेक्षणाशुगैर्
भीर्दुःस्थहृद्वृत्तिचयैर्भटैरिव ।
अग्रेसरैस्तां रतिमञ्जरी च सा
निवारयन्त्यन्यजनांस्तदान्वयात॥११४॥
इतस्ततः क्षिप्तानि चलेक्षणान्येवाशुगा बाणा यैस्तैरग्रेसरैर्भटैरिव भिया दुःस्थैः हृद्वृत्तिचयैरन्यजनान्निवारयन्ति सती सा रतिमञ्जरी च तां राधां तदान्वयात। चतुर्दिक्षु सभयं मनोवृत्तयो यत्र यत्र पतन्ति, तत्र तत्र दृक्पातं कुर्वती पश्चात्ययाविति भावः ॥११४॥
चकितचकितं विन्यस्यन्तौ पदानि निजाङ्गने
गुरुजनगृहद्वारि न्यस्तातिलोलविलोचनौ ।
निभृतनिभृतं वेश्म स्वं स्वं प्रविश्य
विसाध्वसावपि सुषुपतुः स्वे स्वे तल्पेऽलसाकुलमानसौ ॥११५॥
विसाध्वसावपि राधाकृष्णौ चकितचकितं यथा स्यात्तथा निजाङ्गने पदानि विन्यस्यन्तौ गुरुजनानां गृहद्वारि न्यस्तेऽतिलोले विशिष्टलोचने ययोस्तौ, स्वं स्वं वेश्म प्रविश्य स्वे स्वे तल्पे सुषुपतुः । तत्र हेतुमाह—अलसाकुलमानसौ जागरेणालसं विच्छेदेनाकुलं मानसं ययोः ॥११५॥
निर्वर्त्य विभ्रमभरं समये स्वधाम्नि
सुप्तेऽच्युते प्रतिलये श्रुतयो यथेशम् ।
लीलाविताननिपुणाः सगुणाः समीयुः
सख्योऽप्यलक्ष्यगतयः सदनं यथास्वम् ॥११६॥
अलक्ष्यगतयः श्रुतयो यथेशं सृष्ट्यादिकर्तारं पुरुषं समीयुः, तथा सख्योऽप्यलक्ष्यगतयः सदनं समीयुः । कदा ? विभ्रमभरं विलासं निर्वर्त्य समाप्य समये प्रतिलये स्वधाम्नि अच्युते ईशे श्रीकृष्णे च सुप्ते सति । ईशपक्षे जगत्पालनादिविलासातिशयं समाप्य समये प्रलयादिसमये, तत्रापि प्रतिलये प्रतिप्रलये स्वधाम्नि अनन्तशय्यायाम् । कृष्णपक्षे कुञ्जविलासातिशयं समाप्य समये प्रातःकाले, प्रतिप्रलये प्रतिदिवसमेव गुर्वादिभीत्यालये, स्वधाम्नि नन्दालये । श्रीपक्षे लीलायाः सृष्ट्यादिलीलायाः विताने विस्तार्य कथने निपुणाः सुगुणाः सत्वरजस्तमोमय्यः । त्रैगुण्या विषया वेदाः इत्यादेः । यद्वा, भगवतो गुणमय्यः । सखीपक्षे कुञ्जादिलीलाविस्तारे निपुणाः, सगुणाः सौन्दर्यवैदग्ध्यादिगुणयुक्ताः ॥११६॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टवरजे गोविन्दलीलामृते
सर्गः कुञ्जनिशान्तकेलिरचनं नामायमादिर्गतः ॥ओ॥
गोविन्दलीलामृतनाम्नि काव्ये कुञ्जे निशायाः अन्ते यत्केलिरचनं तन्नामायमादिसर्गः गतः । कीदृशे ? श्रीचैतन्यपदारविन्दस्य मधुपो यो रूपगोस्वामी तस्य सेवायाः फले सेवाजन्ये । श्रीरघुनाथदासगोस्वामिना दिष्टे प्रेरिते । श्रीजीवगोस्वामिनः सङ्गादुद्गते उद्बुद्धे । श्रीरघुनाथभट्टगोस्वामिनो वरेण जाते । मत्प्रभोः प्रभुणा श्रीविश्वनाथचक्रवर्तिठक्कुरेण स्वकृतभावनामृताखकाव्ये तथा तेनैव स्वकृतस्तवमालाख्यग्रन्थमध्ये, सङ्कल्पद्रुमे च, एवमन्यैरपि महानुभावैर्महद्भिर्स्वस्वकृतगीतपद्यादौ च वर्णिताया एतद्ग्रन्थोक्तलीलारसपरिपाट्या यन्न्यूनाधिक्यं श्रूयते, तत्सर्वं दिवसभेदादिति ज्ञेयम् ॥११७॥
॥ इति श्रीगोविन्दलीलामृते सदानन्दविधायिन्यां टीकायां प्रथमसर्गः ॥
.
.
(२)
द्वितीयः सर्गः
राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे
तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं
सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये ॥१॥
अथ प्रातःकाललीलां वर्णयितुमादौ स्मरणमङ्गलश्लोकेन सङ्क्षिपति राधां स्नातविभूषितामिति । तां राधां तं कृष्णं चाश्रये । कीदृशीं ? प्रगे प्रातःकाले स्नाता चैषा विभूषिता च ताम् । व्रजपया यशोदया आहूतां सखीभिः तस्याः यशोदायाः गृहे सखीभिः सह विहिता कृता अन्नपाकरचना यया तां कृष्णभुक्तावशेषाशस्य भोजनं यस्यास्ताम् । कृष्णं कीदृशं ? बुद्धं जागरितं प्राप्तधेनुगृहं निर्व्यूढं वृत्तं समाप्तं गोदोहनम् । ततः सुष्ठु स्नातं सहचरैः सह कृतभोजनमित्यर्थः ॥१॥
अथ प्रभाते कृतनित्यकृत्या
प्रीत्याच्युतस्यातिविहस्तचित्ता ।
प्रेमेन्दुपूर्णा किल पौर्णमासी
तूर्णं व्रजेन्द्रालयमाससाद ॥२॥
प्रेमेन्दुना पूर्णा पौर्णमासी नाम्नी योगमाया व्रजेन्द्रालयमाससाद । अच्युतस्य प्रीत्यातिविहस्तमतिव्यग्रं चित्तं यस्याः सा ॥२॥
मन्थानोद्धृतगव्यबिन्दुनिकरैर्व्याकीर्णरम्याङ्गनं
प्रेमस्निग्धजनान्वितं बहुविधै रत्नैर्विचित्रान्तरम् ।
क्षीरोर्म्युच्छलितं मुदा हि विलसच्छय्या प्रसुप्ताच्युतं
श्वेतद्वीपमिवालयं व्रजपतेर्वीक्ष्यास सानन्दिता ॥३॥
श्वेतद्वीपमिव व्रजपतेरालयं वीक्ष्य सा पूर्वाणांई आनन्दिता आस बभूव । श्वेतद्वीपं कीदृशं ? क्षीरसमुद्रमथने मन्थानोद्धृतदुग्धबिन्दुसमूहैर्व्याकीर्णं व्याप्तं रम्यं मनोहरमङ्गनं तटभूमिर्यस्य तम् । एतत्तु अत्र दधिमथनोद्धृतदधिबिन्दुनिकरैर्व्याकीर्णं व्याप्तं रम्यमङ्गनं यत्र तम् । प्रेमस्निग्धजनैरन्वितमिति बहुविधै रत्नैर्विचित्रान्तरमित्युभयत्र साम्यं क्षीरसमुद्रस्य ऊर्मिभिरुच्छलितम् । दुग्धस्य पाकजन्योर्मिभिरुच्छलितमेतं मुदा हर्षेण अहिरनन्तः स एव विलसत्शय्या तस्यां सुप्तोऽच्युतो नारायणो यत्र तं हि निश्चितं मुदा विलसच्छय्यायां सुप्तोऽच्युतः श्रीकृष्णो यत्र तमेतम् ॥३॥
तामागतामभिप्रेक्ष्य साक्षादिव तपःश्रियम् ।
व्रजराज्ञी पराभिज्ञा स्थितिज्ञाभ्युद्ययौ मुदा ॥४॥
परा चैषा अभिज्ञा च व्रजराज्ञी आगतां तां पूर्वाणांईमभ्युद्ययौ ॥४॥
एहि भो भगवति व्रजवन्द्ये
स्वागतासि भवतीं प्रणमामि ।
इत्युदीर्य सविधे प्रणमन्तीं
सा मुकुन्द जननीं परिरेभे ॥५॥
हे व्रजवन्द्ये ! भवतीं प्रणमामीत्युक्त्वा समीपे प्रणमन्ती सा परिरेभे ॥५॥
आशीर्भिरभिनन्द्यामूं गोविन्ददर्शनोत्सुक ।
पप्रच्छ कुशलं चास्याः सधवात्मजगोततेः ॥६॥
अमूं यशोदामाशीर्भिरभिनन्द्य सपतिपुत्रगोततेः । पत्यादिभिः सहास्याः कुशलं पप्रच्छ ॥६॥
निवेद्य कुशलं चास्यै तयोत्कण्ठितया सह ।
उत्का शय्यागृहं सूनोः प्रविवेश व्रजेश्वरी ॥७॥
उत्का उत्कण्ठिता व्रजेश्वरी तया सह सूनोः शय्यागृहं प्रविवेश ॥७॥
तावद्गोभटभद्रसेनसुबलश्रीस्तोककृष्णार्जुन
श्रीदामोज्ज्वलदामकिङ्किणिसुदामाद्याः सखायो गृहात।
आगत्य त्वरिता मुदाभिमिलिताः श्रीसीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्टगोष्ठमय भो इत्याह्वयन्तः स्थिताः ॥८॥
श्रीसीरिणा बलदेवेन सह गोभटादयः सखायो गृहादागत्य प्राङ्गणेऽतिमुदा मिलिताः सन्तः । भो कृष्ण ! निजेष्टं गोष्ठमय गच्छ इत्याह्वयन्तः स्थिताः ॥८॥
ही ही प्रभातं किमु भो वयस्या
अद्यापि निद्राति कथं सखा नः ।
तद्बोधयाम्येनमितीरयन्स्व
तल्पादुदस्थान्मधुमङ्गलोऽपि ॥९॥
हीहीति हास्यजन्यशब्दः । प्रभातं भो वयस्याः ! अद्यापि नोऽस्माकं सखा निद्राति तदेनं बोधयामि ॥९॥
समुत्तिष्ठ वयस्येति जल्पंस्तल्पालयं हरेः ।
निद्रालसस्खलद्यानः प्राविशन्मधुमङ्गलः ॥१०॥
निद्रालसेन स्खलद्यानं गमनं यस्य स मधुमङ्गलः ॥१०॥
तद्वाग्विगतनिद्रोऽयमुत्तिष्ठासुरपीश्वरः ।
उत्थातुमीश्वरो नासीद्घूर्णापूर्णेक्षणः क्षणम् ॥११॥
ईश्वरः श्रीकृष्णः उत्तिष्ठासुरुत्थातुमिच्छुरपि क्षणमुत्थातुमीश्वरो समर्थो नासीत॥११॥
सुक्षीररत्नाकरमन्दिरान्तर्
अनन्तरत्नोज्ज्वलतल्पमध्ये ।
सुप्तं हरिं बोधयितुं प्रवृत्ता
माता श्रुतिर्वा प्रलयावसाने ॥१२॥
प्रलयस्यावसाने सुक्षीररत्नाकरमन्दिरान्तः सुन्दरं च तत्क्षीरसमुद्ररूपमन्दिरं चेति तस्यान्तर्मध्ये । अनन्तरत्नोज्ज्वलतल्पमध्ये एव रत्नैः फणरत्नैरुज्ज्वलं तल्पं चेति तस्य मध्ये सुप्तं हरिं नारायणं बोधयितुं श्रुतिर्यथा प्रवृत्ता भवति, तथा निद्रा अवसाने । सुष्ठु क्षीराणां रत्नानां चाकरश्च तन्मन्दिरं चेति तस्यान्तर्मध्ये अनन्तरत्नैरुज्ज्वलं च तत्तल्पं चेति तस्य मध्ये सुप्तं श्रीकृष्णं बोधयितुं माता प्रवृत्ताभूत॥१२॥
पर्यङ्के न्यस्य सव्यं तदुपरि निहितस्वाङ्गभाराथ पाणिं
कृष्णस्याङ्गं स्पृशन्तीतरकरकमलेनेषदाभुग्नमध्या ।
सिञ्चन्त्यानन्दबाष्पैः स्नुतकुचपयसां धारया चास्य तल्पं
वत्सोत्तिष्ठाशु निद्रां त्यज मुखकमलं दर्शयेत्याह माता ॥१३॥
अथ प्रवेशानन्तरं माता सव्यं वामं पाणिं पर्यङ्के न्यस्य तदुपरि पर्यङ्काङ्कितवामहस्तोपरि निहितः स्वाङ्गभारो यया सा । इतरकरकमलेन दक्षिणकरेण कृष्णस्याङ्गं स्पृशन्ती आनन्दाश्रुभिः स्तन्ददुग्धधारया च तल्पं सिञ्चन्ती आह वत्सेत्यादि ॥१३॥
सुचिरमपि सवत्सास्त्वामनालोकयन्त्यो
न खलु सुरभयस्ता यद्यपि प्रस्नुवन्ति ।
तदपि तव पितागाद्गोष्ठमेकः स निद्रा
सुखशमनभयात्ते त्वामसम्बोध्य वत्स ॥१४॥
ताः सुरभयः सवत्सा अपि सुचिरमपि त्वामदृष्ट्वा यद्यपि न प्रस्नुवन्ति, तदपि तव पिता ते निद्रासुखस्य शमनभयात्भङ्गभयात्त्वामसम्बोध्य स एको गोष्ठमगात। अत उत्तिष्ठेति परेणान्वयः ॥१४॥
उत्तिष्ठ कुर्यां मुखमार्जनं ते
बलस्य वासः किमिह त्वदङ्गे ।
इति ब्रुवानाऽपनिनाय नीलं
वासस्तदङ्गादवदच्च सार्याम् ॥१५॥
सा यशोदा । हे वत्स ! उत्तिष्ठ ते मुखमार्जनमहं कुर्याम् । इह समये त्वदङ्गे बलदेवस्य वासः किं ? केन प्रकारेण इत्युक्त्वा इह तदङ्गान्नीलं वासः सम्भ्रमादानीतं राधिकोत्तरीयमपनिनाय दूरीचकार पूर्व्णीमवदच्च ॥१५॥
अयि भगवति पश्याचोटितं मेऽस्य सूनोः
कमलमृदुलमङ्गं मल्ललीलासु लोलैः ।
खरनखरशिखाभिर्धातुरागातिचित्रं
चपलशिशुसमूहैर्हा हता किं करोमि ॥१६॥
प्रियसम्बोधने अयि । अस्य मे सूनोः कमलादपि मृदुलं धातुरागैर्गैरिकादिभिरतिचित्रम् । मनोहरमङ्गं मल्ललीलासु लोलैः सतृष्णैश्चपलैश्चञ्चलैः शिशुसमूहैः खरनखरशिखाभिराचोटितं पण्डितं हा हताहं किं करोमि ? अत्र यावकसिन्दूरादिषु धातुरागज्ञानम् । नायिकाकृतनखक्षतादिषु शिशुकृतनखक्षतादिज्ञानं च तस्या वात्सल्याज्जातम् ॥१६॥
स्नेहभरैः स्वजनन्याश्चित्रपदामपि वाणीम् ।
तामवधार्य मुरारिर्ह्रीचकितेक्षण आसीत॥१७॥
स्नेहातिशयैः स्वमातुरित्यनेन प्रकारेण चित्रपदां वाणीं श्रुत्वा मुरारिर्ह्रिया लज्जया चकितेक्षणोऽभूत॥१७॥
कृष्णं सशङ्कमाशङ्क्य परिहासपटुर्बटुः ।
स्नेहक्लिन्नान्तरामम्बामवदन्मधुमङ्गलः ॥१८॥
बटुर्ब्राह्मणबालको मधुमङ्गलः ॥१८॥
सत्यमम्ब वयस्याली वारितापि मयाऽनिशम् ।
रेमेऽनेनातिलुब्धेन कुञ्जेषु केलिचञ्चलाः ॥१९॥
केलिचञ्चला वयस्याली मया वारिताप्यनेनातिलुब्धेन रेमे । वयस्यालीशब्देन सखिश्रेणी श्लेषेण सखीश्रेणी च । इत्युक्ते नायिकाभी रमणं न ज्ञातं वात्सल्यवशात्सखिभिः क्रीडनमेव तया ज्ञातम् ॥१९॥
अथ प्रकाशीकृतबाल्यविभ्रमो
यत्नात्समुन्मील्य विलोचनं मुहुः ।
पश्यन्पुरं स्वां जननीं हरिः पुनर्
न्यमीलयत्सस्मितवक्त्रपङ्कजः ॥२०॥
अथ श्रीकृष्णः प्रकाशीकृतबाल्यविभ्रमः सन्यत्नात्विलोचनं मुहुः समुन्मीय जननीं पश्यन्हास्यमुखः पुनर्न्यमीलयत॥२०॥
आकर्ण्य वाचं व्रजराजपत्न्याः
समीक्ष्य कृष्णस्य च बाल्यचेष्टाम् ।
भावान्तराच्छादकरीं जनन्यास्
तं पौर्णमासी स्मितपूर्वमाह ॥२१॥
पौर्णमासी जनन्या भावान्तरस्य वात्सल्येतरस्य भावस्याच्छादनकरीं वाणीं तं कृष्णमाह ॥२१॥
सखीनां सन्दोहैर्निरवधि महाकेलिततिभिः
परिश्रान्तस्त्वं यत्स्वपिषि सुमते योग्यमिह तत।
अनालोक्य त्वां भो तृषितमपि नो तर्णककुलं
धयत्यूधः किन्तु व्रजकुलपते जागृहि ततः ॥२२॥
सखीनामित्यत्र सखानां प्रेयसीनां समूहैः महाकेलिततिभिः, हे सुमते ! तत्स्वपनं योग्यं किन्तु त्वामदृष्ट्वा तृषितमपि तर्णककुलं वत्सकुलमूधः दुग्धं नो धयति न पिबति । धेट्पाने ॥२२॥
उत्तिष्ठ गोष्ठेश्वरनन्दनारात्
पश्याग्रजोऽयं सह ते वयस्यैः ।
गोष्ठं प्रतिष्ठासुरपि प्रतीक्ष्य
त्वामङ्गने तिष्ठति तर्णकैश्च ॥२३॥
ते अग्रजोऽयं वयस्यैस्तर्णकैश्च सह गोष्ठगमनेच्छुरपि त्वां प्रतीक्ष्याङ्गने तिष्ठति पश्य । अत आरात्शीघ्रमुत्तिष्ठ ॥२३॥
समुष्टिपाणिद्वयमुन्नमय्य
विमोटयन्सोऽथ रसालसाङ्गम् ।
जृम्भाविसर्पद्दशनांशुजालस्
तमालनीलः शयनादुदस्थात॥२४॥
स तमालनीलः कृष्णः । आदौ समुष्टिपाणिद्वयमूर्ध्वं कृत्वा रसालसाङ्गं विमोटयन्शयनादुदस्थात॥२४॥
खट्टैकदेशे त्वथ सन्निविष्टो
विन्यस्तपादाब्जयुगः पृथिव्याम् ।
नमाम्यहं त्वां भगवत्ययीति
जगाद जृम्भोद्गमगद्गदं सः ॥२५॥
स खट्टैकदेशस्थः । हे भगवति ! त्वामहं नमामीति जगाद ॥२५॥
विस्रस्तमस्याञ्जनपुञ्जमञ्जुं
गलत्प्रसूनं मृदुकेशपाशम् ।
विपक्त्रिमस्नेहभराकुलेयम्
उद्यम्य चूडां जननी बबन्ध ॥२६॥
विस्रस्तमस्याञ्जनपुञ्जमञ्जुं गलत्प्रसूनं मृदुकेशपाशम् । विपक्त्रिमस्नेहभराकुलेयमुद्यम्य चूडां जननी बबन्ध ॥२६॥
पूरस्थजाम्बूनदझर्झरीतः
पानीयमानीय करेण माता ।
प्रक्षाल्य सूनोरमृजन्मुदास्यं
घूर्णालसाक्षं स्वपटाञ्चलेन ॥२७॥
माता पानीयं जलं पूरस्थस्वर्णझर्झरीत आनीय सूनोर्घूर्णालसाक्षमास्यं प्रक्षाल्य स्वस्य पटाञ्चलेनामृजत॥२७॥
सव्येन पाणिं मधुमङ्गलस्य
करेण वंशीमितरेण बिभ्रत।
मात्रार्यया चानुगतोऽथ कृष्णः
शय्यालयात्प्राङ्गणमाससाद ॥२८॥
वामेन करेण मधुमङ्गलस्य पाणिं बिभ्रत। दक्षिणेन वंशीं बिभ्रत। मात्रा आर्यया पूर्व्साक्षाया चानुगतः प्राङ्गणमाजगाम ॥२८॥
एके करावस्य परे पटान्तम्
अङ्गानि चान्ये युगपत्स्पृशन्तः ।
प्रेम्ना समुत्काः परितः सखायः
प्रोत्फुल्लनेत्राः परिवव्रुरेनम् ॥२९॥
एके सखाय अस्य करौ परे पटान्तमन्येऽङ्गानि युगपदेकदा स्पृशन्तः एनं परिवव्रुः । अनेन शोभा विशेषः सख्यरसस्वरूपश्च ध्वनितः ॥२९॥
भो वत्स गोष्ठं व्रज पाययित्वा
तांस्तर्णकान्स्वाः सुरभीश्च दुग्ध्वा ।
त्वं प्रातराशाय पुनर्निकेतं
तूर्णं समेहीति तमाह माता ॥३०॥
माता आह—गोष्ठं गोस्थानं व्रज, तान्वत्सान्पाययित्वा स्वाः सुरभीश्च दुग्ध्वा प्रातर्भोजनाय गृहं तूर्णं समेहि ॥३०॥
अथ तैः सहितः स तया प्रहितः
स्वगवां त्वरितः सदनं चलितः ।
अवदत्स बटुः परिहासपटुः
पथि तं गगने घटयन्नयने ॥३१॥
तया यशोदया प्रहितः स्वस्वगवां सदनं चलितः । पथि तं बटुरवदत॥३१॥
वयस्य पश्याम्बरदीर्घिकायां
प्रसारयन्तं करजालमालाः ।
आदित्यकैवर्तमवेक्ष्य भीतास्
तारासफर्यः परितो निलिल्युः ॥३२॥
आदित्यः सूर्य एव कैवर्तः मत्स्यधर्ता तम् । कराः किरणा एव जालमालास्ता अम्बररूपदीर्घिकायां प्रसारयन्तमवेक्ष्य तारा एव सफर्यः मत्स्यविशेषा भीताः सत्यः निलिल्युः । हे वयस्य ! इति जानीहि ॥३२॥
मृगतृष्णाकरं प्रेक्ष्य प्रोद्यदर्कमृगादनम् ।
मृगाङ्कः स्वमृगं त्रातुं विशत्यस्तगिरेर्गुहाम् ॥३३॥
मृगाङ्कश्चन्द्रः । प्रोद्यदर्कः सूर्य एव मृगादनो मृगभक्षकः, तं प्रेक्ष्य । कीदृशं ? मृगतृष्णाकरं मृगेषु या तृष्णा, तस्या आकरं खनिम् । किं वा, मृगेषु तृष्णां करोतीति तम् ॥३३॥
विसृष्टतारादिविभूषणेयं
कालक्रमान्निःसरदिन्दुगर्भा ।
कपोतघूत्कारमिषाद्द्युयोषा
श्रमेण पश्योषसि कुन्थतीव ॥३४॥
विसृष्टं तारादिभूषणं यया सेयं द्युयोषा आकाशस्त्री कालक्रमान्निःसरदिन्दुश्चन्द्रो गर्भाद्यस्याः, सा उषसि कपोतघूत्कारमिषात्श्रमेण कुन्थतीव पश्य । दिव्शब्दस्य वश्य उत्वे द्युः ॥३४॥
त्वन्मुखस्वसुहृदा परिभूतम्
अब्जमब्जमुख खादपयान्तम् ।
वीक्ष्य भोः सहजमप्यहितम्
हा लोकयाब्जमधुना हसतीदम् ॥३५॥
भोऽब्जमुख ! पद्ममुख ! चन्द्रमुख वा । हा इति आश्चर्यम् । त्वन्मुखमेव स्वस्य सुहृदा पद्मस्य तस्य चन्द्रस्य वा सुहृत्तेन त्वन्मुखेन । किं वा, त्वन्मुखमेवाब्जतुल्यादब्जं तस्य सुहृदा । किं वा, त्वन्मुखं च स्वसुहृत्सूर्यः, च समाहारे, तत्तेन ताभ्यामित्यर्थः । त्वन्मुखेन स्वसुहृदा सूर्येण परिभूतं सहजं सहोदरमप्यहितं शक्रमब्जं चन्द्रं खादाकाशात्पतन्तं वीक्ष्येदमब्जं कमलं कर्तृ अधुना हसति । समानोदयं सोदरसगर्भसहजाः समा इत्यमरः ॥३५॥
इत्थं गिरस्ता मधुमङ्गलस्य
निशम्य ते हासकरीर्हसन्तः ।
गोपालपालाः पशुपालबालाः
गोशालमाला विविशुर्यथास्वम् ॥३६॥
मधुमङ्गलस्य हासकरीस्ता गिरो निशम्य हसन्तो गोबालकाः । यथास्वं स्वस्वगोशालसमूहं विविशुः । कीदृशीः ? गोपालाः पालाः पालका यासाम् ॥३६॥
गोपालोऽपि स्वगोशालां सराममधुमङ्गलः ।
सकाव्यगीष्पतिः सायं शशीवाम्बरमाविशत॥३७॥
शुक्राचार्यं बृहस्पतिभ्यां सह शशी सायंकाले यथा अम्बरं प्रविशति तथा शुक्लगौरवर्णाभ्यां राममधुमङ्गलाभ्याम् । यद्वा, सकृष्णः काव्येषु गीष्पतिः सह स्वगोशालां गोपालः कृष्णोऽप्याविशत॥३७॥
दधार द्युषदां रामो धवलावलिवेष्टितः ।
कैलाशगण्डशैलालीमध्यस्थैरावतभ्रमम् ॥३८॥
गोभिर्वेष्टितो रामः । कैलाशसम्बन्धि स्थूलशिलासमूहमध्यस्थलस्य ऐरावतहस्तिनो भ्रमं भ्रान्तिं द्युषदां देवानां दधार । शुक्लवर्णांशे स्थूलोच्चसौन्दर्याद्यंशे चोपमा ॥३८॥
मध्येऽच्युतोऽञ्चन्धवलावलीनाम्
उदाननानां परितः स्थितानाम् ।
दधौ जनानां स्फुटपुण्डरीक
श्रेण्यन्तरञ्चद्भ्रमरभ्रमं सः ॥३९॥
उतूर्ध्वे आननं मुखं यासां तासां धवलावलीनां मध्येऽञ्चन्गच्छन्स कृष्णः स्फुटं च कमलश्रेणीमध्येऽञ्चतो गच्छतः क्रीडतो भ्रमरस्य भ्रमं जनानां दधौ । अत्रापि कृष्णवर्णशुक्लवर्णांशे साम्यम् ॥३९॥
हिही गङ्गे गोदावरि शबलि कालिन्दि धवले
हिही धूम्रे तुङ्गि भ्रमरि यमुने हंसि कमले ।
हिही रम्भे चम्पे करिणि हरिणीति व्रजविधुर्
मुहुर्नामग्राहं निखिलसुरभीराह्वयदसौ ॥४०॥
व्रजभूमावद्यापि सर्वे हिहीत्युक्त्वा पश्चात्गाः आह्वयन्तीयाह हिहीत्युक्त्वा हे गङ्गे इत्यादि नामग्राहं नाम गृहीत्वा व्रजविधुः श्रीकृष्णः निखिलं सुरभीराह्वयन्ति ॥४०॥
न्यस्ताङ्गः प्रपदोपरि प्रघटयन्जानुद्वये दोहनीं
काश्चिद्दोग्धि पयः स्वयं त्वथ पराः स्वैर्दोहयत्युन्मुखीः ।
अन्याः पाययति स्वतर्णकगणान्कण्डूयनैः प्रीणयन्न्
इत्थं नन्दसुतः प्रगे स्वसुरभीरानन्दयन्नन्दति ॥४१॥
गोदोहनप्रकारमाह—प्रगे प्रातःकाले नन्दसुतः स्वसुरभीरानन्दयन्नन्दति । प्रपदोपरि पदाग्रोपरि न्यस्ताङ्गः सन्जानुद्वये दोहनीं प्रकटयन्कुर्वन्काश्चिद्गाः पयः स्वयं दोग्धि द्विकर्मकोऽयं धातुः । अन्या उन्मुखीः गाः स्वैः स्वीयैर्गोपैर्दोहयति । अन्या गाः कण्डूयनेन प्रीणयन्स्वस्वतर्णकगणान्स्ववत्सान्पाययति ॥४१॥
अथान्यतः कल्यविभग्ननिद्रा
विनिद्रवात्सल्यसुधां स्रवन्ती ।
उत्थाय तल्पाज्जरती समायाद्
गृहं समुत्का मुखरा स्वनप्त्र्याः ॥४२॥
अथान्यतोऽन्यत्र यावटाख्यग्रामे मुखरा नाम्नी जरती । कीदृशी ? कल्ये प्रत्यूषे विभग्ना गता निद्रा यस्याः सा विनिद्रं सदा जाग्रद्रूपं वात्सल्यमेव सुधा तां स्रवन्ती तल्पादुत्थाय स्वनप्त्र्याः श्रीराधायाः गृहं समायात। प्रत्यूषोऽहर्मुखं कल्यमित्यमरः ॥४२॥
स्वभावकुटिलाप्यात्मसुतसम्पत्तिकाङ्क्षया ।
व्याकुला जटिलायातां मुखरां तामथाब्रवीत॥४३॥
स्वभावकुटिलापि जटिला स्वपुत्रसम्पदाकाङ्क्षया व्याकुला आयातां तां मुखरामब्रवीत॥४३॥
सूनोः प्रजायुर्धनवृद्धयेऽसौ
त्वया स्नुषा ज्ञे नियतं नियोज्या ।
सुमङ्गलस्नानविभूषणादौ
गोकोटिहेतोस्तपनार्चनाय ॥४४॥
हे ज्ञे ! पण्डिते ! असौ स्नुषा वधू राधा मे सूनोः प्रजादिवृद्धये गोकोटिहेतोश्च सूर्यार्चनार्थं नियतं नियमयुक्तं यथा स्यात्तथा स्नानादौ त्वया नियोज्यताम् ॥४४॥
आज्ञानवज्ञा निजगोष्ठराज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्यवज्ञा ।
इत्यादिशत्यन्वहमर्थविज्ञा
विज्ञापिता मे किल पौर्णमासी ॥४५॥
अर्थविज्ञा पौर्णमासी सूनोः प्रजादिवृद्धये मया विज्ञापिता सती अन्वहं प्रतिदिनमित्यादिशति आदेशमाह । निजगोष्ठराज्ञ्या यशोदाया आज्ञा ते त्वया अनवज्ञा कार्या अवज्ञा अनादरणीया न कार्या इत्यर्थः । अनभिज्ञानां मूर्खानामुक्तिषु अवज्ञा अपि कार्या सोक्तिर्न मान्येत्यर्थः ॥४५॥
तस्मात्त्वमार्ये स्वां नप्त्रीं
सर्वमङ्गलमण्डिताम् ।
विधेहि सर्वसम्पत्तिर्
यथा सूनोर्भवेन्मम ॥४६॥
हे आर्ये मुखरे ! तस्मात्मम सूनोः सर्वसम्पत्तिर्यथा भवेत्तथा स्वां नप्त्रीं सर्वमङ्गलमण्डितां विधेहि कुरु ॥४६॥
वधूमथाभाषत पुत्रि तल्पाद्
उत्तिष्ठ तूर्णं कुरु वास्तुपूजाम् ।
त्वं मङ्गलस्नानविधिं विधाय
पूजोपहारं सवितुर्विधेहि ॥४७॥
अथ जटिला वधूं राधामभाषत—हे पुत्रि ! तल्पादुत्तिष्ठेत्यादि स्फुटार्थः ॥४७॥
प्रभातमायातमहो तथापि
निद्राति नप्त्रीति मुहुर्वदन्ती ।
स्नेहद्रुताङ्गी मुखरा प्रविश्य
शय्यालयं तामवदत्तदेदम् ॥४८॥
तदा स्नेहद्रुताङ्गी मुखरा अहो आश्चर्यं प्रभातमायातं तथापि नप्त्री निद्राति शेते । इति पुनः पुनर्वदन्ती सती तस्याः शय्यालयं प्रविश्य तां राधामिदमवदत॥४८॥
उत्तिष्ठ वत्से शयनात्प्रमुग्धे
व्यस्मारि वारोऽद्य रवेस्त्वया किम् ।
स्नात्वा प्रभातार्घ्यविधानमस्मै
पूजोपहारं रचयास्य चाशु ॥४९॥
हे प्रमुग्धे ! अद्य रवेर्वारः त्वया किं व्यस्मारि ? अस्मै सूर्याय प्रभातार्घ्यविधानं तथा अस्य सूर्यस्य पूजोपहारं चाशु रचय ॥४९॥
तद्वचःप्रतिबुद्धाथ
विशाखोत्थाय सालसा ।
सखि तूर्णं समुत्तिष्ठोत्
तिष्ठेति प्राह सत्वरा ॥५०॥
तद्वचसा प्रतिबुद्धा जागरिता सा प्रसिद्धा विशाखालसापि सत्वरा सती उत्थाय « हे सखि ! उत्तिष्ठोत्तिष्ठेति प्राह ॥५०॥
तासां वचोभिः शयनेऽथ मुग्धा
मुहुः प्रजागर्य पुनर्निदद्रौ ।
विचालिता वीचिचयैस्तडागे सा
राजहंसीव रतालसाङ्गी ॥५१॥
तासां जटिलामुखराविशाखानां वचोभिः शयने शय्यायां मुग्धा सा मुहुः प्रजागर्य पुनर्निदद्रौ । पुनर्निद्रायां हेतुः—रतालसाङ्गी । तडागे वीचिचयैस्तरङ्गसमूहैः विचालिता राजहंसीव ॥५१॥
तदैवावसराभिज्ञा जग्राह रतिमञ्जरी ।
सखी वृन्दावनेश्वर्याः श्रीमच्चरणपङ्कजम् ॥५२॥
अवसराभिज्ञा रतिमञ्जरी सखी राधायाश्चरणं जग्राह ॥५२॥
इत्थमियं बहुभिः कृतबोधा
स्वाच्छयनादुदतिष्ठदनल्पात।
तामथ वीक्ष्य सुपीतपटाङ्गीं
शङ्कितहृन्मुखरेदमुवाच ॥५३॥
अनल्पात्बाहुल्यात्शयनात्शय्यायाः उदतिष्ठत। मुखरा कृष्णस्य सुपीतपटेनावृताङ्गीं तां वीक्ष्य
शङ्कितहृदिदमुवाच ॥५३॥
द्रुतकनकसवर्णं सायमेतन्मुरारेर्
वसनमुरसि दृष्टं यत्सखी ते बिभर्ति ।
किमिदमयि विशाखे हा प्रमादः प्रमादो
व्यवसितमिदमस्याः पश्य शुद्धान्वयायाः ॥५४॥
कनकसदृशमेतद्वसनं सायंकाले मुरारेरुरसि मया दृष्टम् । तद्वसनं ते सखी बिभर्ति । शुद्धकुलोत्पन्नायाः अस्या व्यवसितं चेष्टितं पश्य । हा खेदे । प्रमादोऽनवधानता । अतीवायोग्यकार्यादौ प्रमादमुक्त्वा आक्षिपति प्राज्ञः ॥५४॥
तद्वचश्चकितधीर्हृदि सख्याः
वीक्ष्य पीतवसनं चलदृष्ट्या ।
हा किमेतदिति तां च दिशन्ती
द्रागुवाच जरतीं च विशाखा ॥५५॥
तद्वचश्चकितधीर्सख्या हृदि पीतवसनं वीक्ष्य तां जरतीं द्राक्शीघ्रं « एतत्किम्? » इति दिशन्ती विशाखा उवाच ॥५५॥
स्वभावान्धे जालान्तरगतविभातोदितरवि
च्छटाजालस्पर्शोच्छलितकनकाङ्गद्युतिभरैः ।
वयस्यायाः श्यामं वसनमपि पीतीकृतमिदं
कुतो मुग्धे शङ्कां जरति कुरुषे शुद्धमतिषु ॥५६॥
हे स्वभावान्धे ! वयस्यायाः सख्याः गवाक्षजालमध्यगतप्रभातोदितरविच्छटासमूहस्य स्पर्शेनोच्छलितानां कनकाङ्गद्युतिनां भरैरतिशयैरिदं श्याममपि वसनं पीतीकृतम् । अतः हे मुग्धे ! मोहिते ! यतः हे जरति जरातुराया बुद्धिभ्रमो भवेदेव । शुद्धमतिषु शुद्धा मतिर्यासां तासु मत्सखीषु बहुवचनं गौरवेण गणसूचनार्थं कृतः । शङ्कां परपुरुषवस्त्रधारणादिशङ्कां कुरुषे ॥५६॥
ललिताप्रमुखास्तावत्सख्यस्ताः स्वस्वगेहतः ।
आजग्मुस्त्वरिताः सख्याः प्रस्खलद्गतयोऽन्तिकम् ॥५७॥
ललिताद्यास्ताः सख्या राधाया अन्तिकमाजग्मुः । प्रस्खलद्गतयो वेलाधिक्यज्ञानेन त्वरिताः सख्यः, अतः प्रस्खलन्ती गतिर्यासां ताः ॥५७॥
दास्योऽपि स्नानसम्भारान्स्नानवेदीसमीपतः ।
प्रतीक्ष्यमाणाः संस्थाप्य स्वेश्वरीं तस्थुरग्रतः ॥५८॥
दास्योऽपि स्नानसम्भारान्स्नानवेदीसमीपे संस्थाप्य अग्रत उत्थानात्पूर्वे स्वेश्वरीं प्रतीक्ष्यमाणास्तस्थुः ॥५८॥
उत्थायाथ वराङ्गी दास्या स्थापितमग्रे ।
अध्यास्तासनवर्यं सा नानामणिचित्रम् ॥५९॥
श्रीललितादिसखीनां दन्तधावनस्नानालङ्कारादिकमपि स्वस्यावसरे स्वस्वदासीकृतदन्तधावनस्नानभूषणादिकं क्रमेण बोध्यम् । सा वराङ्गी राधा दास्या स्थापितमासनवर्यं नानामणिचित्रमध्यास्त अधिकृत्य उपविवेश ॥५९॥
सावातारयदाभरणनिचयं
ललिता स्वसखीतनुतः सदयम् ।
कनकव्रततेरिव सप्रणयं
पल्लवकुसुमस्तवकप्रचयम् ॥६०॥
सा ललिता स्वसख्यास्तनुत आभरणसमूहमवतारयत। कनकव्रततेः स्वर्णलतायाः । पल्लवादिसमूहमिवेत्यनेन तनोर्लतात्वेन अलङ्काराणां पत्रपुष्पगुच्छत्वेन साम्यं ज्ञेयम् ॥६०॥
तावद्वासांस्युपादाय रजकस्य किशोरिके ।
मञ्जिष्ठारङ्गवत्याख्ये स्वेश्वरीमुपतस्थतुः ॥६१॥
मञ्जिष्ठारङ्गवत्याख्ये द्वे रजकस्य कन्ये वासांस्युपादाय किशोरिके स्वेश्वरीमुपतस्थतुः ॥६१॥
गन्धचूर्णपरिपूर्णविचूर्णद्
अग्रया पुटिकयाम्रदलस्य ।
पद्मरागखचितस्फटीकाभा
निन्दिनः स्वदशनान्परिमार्ज्य ॥६२॥
सा राधा गन्धचूर्णैः परिपूर्णा च सा विचूर्णदग्रमग्रभागो यस्याः सा चेति तया आम्रदलस्य पुटिकया पद्मरागमणिना खचितस्य स्फटीकाभां कान्तिं निन्दितुं शीलं येषां तान्स्वदन्तानादौ परिमार्ज्य ॥६२॥
हैमीं जिह्वाशोधनीं सा कराभ्यां
धृत्वा चादौ शोधयित्वा रसज्ञाम् ।
दासी दत्तस्वर्णभृङ्गारवारां
गण्डूषैः संक्षालयामास वक्त्रम् ॥६३॥
कराभ्यां हैमीं हेमनिर्मितां जिह्वाशोधनीं धृत्वा रसज्ञां शोधयित्वा च वारां पयसां गण्डूषैर्वक्त्रं संक्षालयामास ॥६३॥
पाणी प्रोञ्छ्य श्रीमुखेन्दुं च ताभ्यां
दत्तं वासः स्नानयोग्यं गृहीत्वा ।
कुम्भैरम्भःसम्भृतैः शातकुम्भैर्
व्याकीर्णां सा स्नानवेदीमयासीत॥६४॥
पाणी पाणिद्वयं मुखं च प्रोञ्छ्य संमार्ज्य ताभ्यां रजककिशोरीभ्यां दत्तं स्नानयोग्यं वासः गृहीत्वा परिधाय शातकुम्भैः स्वर्णनिर्मितैः । अम्भःसम्भृतैर्जलपूर्णैः कुम्भैर्व्याप्तां स्नानवेदीं सा अयासीत॥६४॥
तत्र काञ्चनमये मृदुपीठे
चीनचेलपिहिते विनिविष्टाम् ।
सेवने परिजना निपुणा द्राक्
तामुपायनकराः परिवव्रुः ॥६५॥
सेवने निपुणाः परिजना उपायनकराः उपायनं तैलोद्वर्तनादिकरेषु यासां ताः दास्यः सूक्ष्मचेलेन पिहिते मृदुपीठे उपविष्टां तां द्राक्झटिति परिवव्रुः ॥६५॥
मर्दनोद्वर्तनालक्तकेशसंस्कारकोविदे ।
सुगन्धानलिनीनाम्न्यावागते नापितात्मजे ॥६६॥
मर्दनादौ कोविदे सुगन्धानलिनीनाम्न्यौ नापितकन्ये आगते ॥६६॥
अभ्यज्य नारायणतैलपूरैर्
उद्वर्तनैः स्निग्धसुगन्धिशीतैः ।
उद्वर्तयामासातुरङ्गमस्याः
प्रेम्ना स्वभावोज्ज्वलशीतमेते ॥६७॥
एते नापितात्मजे अस्याः स्वभावोज्ज्वलशीतमङ्गं प्रेम्ना नारायणतैलपूरैरभ्यज्य स्निग्धसुगन्धिशीतैरुद्वर्तनैरुद्वर्तयामासातुर॥६७॥
गन्धाढ्यपिष्टामलकैः कचांस्ते
संस्कृत्य चाङ्गान्यथ धारयापाम् ।
चीनांशुकामार्जनपूर्वमस्याः
प्रक्षालयामासतुरुज्ज्वलानि ॥६८॥
ते नापितात्मजे गन्धयुक्तामलकैः कचान्संस्कृत्यास्या उज्ज्वलानि अङ्गानि अपां धारया चीनांशुकेन सूक्ष्मवस्त्रेण आ सम्यक्मार्जनपूर्वकं प्रक्षालयामासतुः ॥६८॥
मन्दपक्वपरिवासितकुम्भ
श्रेणिसम्भृतजलैरलमेताः ।
शातकुम्भघटिकात्तविमुक्तैस्
तां मुदा सवयसः स्नपयन्ति ॥६९॥
एताः सवयसः सख्यः तां स्नपयन्ति कैः मन्दपक्वानामल्पपक्वानां परिवासितानां कुम्भानां श्रेणीषु सम्यक्धृतैर्जलैः । पुनः कीदृशैः ? पश्चात्शातकुम्भघटिकासु स्वर्णक्षुद्रघटेषु आत्तमुक्तैः । आत्तैर्गृहीतैर्मुक्तैस्त्यक्तैः ॥६९॥
अङ्गानि तस्या मृदुचीनचेलैः
सम्मार्ज केशानपतोयबिन्दुन।
विधाय प्रत्युद्गमनीयवासः
सखीः स्वसख्यः परिधापयन्ति ॥७०॥
मृदु कोमलं चीनं सूक्ष्मं च चेलं वस्त्रं तैरङ्गानि सम्मार्ज अपगतास्तोयबिन्दवो येभ्यः । स्थित्भावान्केशान्विधाय कृत्वा प्रत्युद्गमनीयवासः परिधेयवस्त्रयुगं परिधापयन्ति ॥७०॥
अथागतां भूषणवेदिकायां
सख्यः प्रभातोचितभूषणैस्ताम् ।
विभूषयामासुरनङ्गचेष्टस्
तारुण्यलक्ष्मीमिव भावहावैः ॥७१॥
अनङ्गचेष्ट भावहावैः शरीरभावजैः क्रियाभिस्तारुण्यलक्ष्मीमिव सख्यो भूषणैस्तां राधां विभूषयामासुः ॥७१॥
धूपधूमपरिशुष्कसुगन्धीन्
स्निग्धकुञ्चितकचाल्ललिताऽस्याः ।
स्वस्तिदाख्यबहुरत्नविराजद्
दान्तकङ्कतिकया परिशोध्य ॥७२॥
अगुरुधूपस्य धूमेन परिशुष्कान्सुगन्धींश्च स्निग्धकुञ्चितकचान्स्वस्तिदाख्यबहुरत्नखचितहस्तिदान्तकृतकङ्कतिकया परिशोध्य ॥७२॥
दत्तं कृष्णेन चूडामणिवरममलं शङ्खचूडाद्गृहीतं
विन्यस्तानेकमुक्तास्रजि धृतबकुले मूर्ध्नि विन्यस्य वेणीम् ।
डोरीसंनद्ध मूलां मणिचयखचितस्वर्णबद्धान्तभागा
रक्तोद्यत्पट्टतन्तूच्चयवरचमरीराजदग्रां बबन्ध ॥७३॥
कृष्णेन शङ्खचूडं हत्वा शङ्खचूडाद्गृहीतं श्रीबलदेवेन दत्तं, तेन माहात्म्येऽर्पिते, तेन श्रीविशेषाद्वारा श्रीराधायै दत्तं चूडामणिवरं स्यमन्तकं मूर्ध्नि विन्यस्य वेणीं बबन्ध । मूर्ध्नि कीदृशी ? विन्यस्त अनेकमुक्तानां माला यत्र, धृतानि बकुलानि बकुलपुष्पाणि यत्र तस्मिन। कीदृशीं वेणीं ? डोरीसंनद्धमूलां नहबन्धेअने पुनर्मणिचयेन खचितस्वर्णेन झापा इति ख्याता भूषणेन बद्धोऽन्तभागो यस्याः सा चासावारक्तः सम्यक्रक्तवर्ण उद्यदुज्ज्वलपट्टतन्तूनां पट्टसूट्राणामुच्चयः समूहस्तेन या वरचमरी चेति तया राजद्विराजमानमग्रमग्रभागो यस्यास्ताम् ॥७३॥
स्वर्णासन्धितरक्तपट्टचमरीयुग्मान्तडोरीद्वया
बद्धकुञ्चितमुष्टिसम्मितलसन्मध्यं दुकूलं ततः ।
भृङ्गालीरुचि पर्यधापयदिमं मेघाम्बराख्यं मुदा
चित्रोद्यत्कुरुविन्दकन्दलघटा शोणान्तरीयोपरि ॥७४॥
स्वर्णासन्धिता स्वर्णाच्छन्नमूला या रक्तपट्टचमरी थोपनेति ख्याता तस्या युग्मान्ते यस्य तथाभूतेन डोरीद्वयेन व्रजे घागरा इत्याख्यास्याधोवाससोऽन्तर्वर्तिबन्धनरूपेणाबद्धमाकुञ्चितं च मुष्टिसम्मितम् । लसद्देदीप्यमानं मध्यं मध्यदेशो यस्य तद्दुकूलं घागरा इत्याख्यम् । ततस्तस्योद्यन्ती या कुरुविन्दकन्दलानां प्रवालाङ्कुराणां श्रेणी ततः शोणस्यान्तरीयस्य घागराख्यस्य उपरि भृङ्गाल्या भ्रमरश्रेण्याः रुचिरिव रुचिर्यस्य तत्मेघाम्बराख्यं दुकूलमिमां राधां चित्रा सखी पर्यधापयत। अन्तरीयोपसंव्यानपरिधानान्यधोऽंशुके इत्यमरः ॥७४॥
अनेकरत्नाचितमूलपञ्च
वर्णाढ्यपट्टस्तवकोच्चयान्ताम् ।
सुवर्णसूत्राञ्चितकिङ्किणीकां
काञ्चीं नितम्बे समुदानयच्च ॥७५॥
अनेकरत्नैराचितं जटितं मूलं यस्याः सा चासौ पञ्चवर्णैः शुक्लनीलरक्तपीतहरिद्भिर्गुणैराढ्या ये पट्टस्तवकाः पट्टगुच्छास्तेषामुच्चयः समूहोऽन्ते यस्याः सा चेति ताम् । सुवर्णसूत्रैरञ्चिता बद्धाः किङ्किण्यः क्षुद्रघण्टिका यस्यास्तां काञ्चीं नितम्बे हर्षयुक्ता सती अनयत्प्रापयन्न्ययोजयच्चेत्यर्थः । नीञ् प्रापणे । स्त्रीकट्यां मेखला काञ्ची सप्तकी रसना तथा इत्यमरः ॥७५॥
कर्पूरागुरुकाश्मीरपङ्कमिश्रितचन्दनैः ।
समालिप्य विशाखाऽस्याः पृष्ठं बाहुकुचावुरः ॥७६॥
विशाखाऽस्याः पृष्ठादिकं कर्पूरादिभिः समालिप्य ॥७६॥
कस्तूरीपत्रवल्लीसमुदयखचितं पार्श्वयोराकपोलं
भाले श्रीखण्डबिन्दूत्करवृतमभितः कामयन्त्राभिधानम् ।
अन्तःकस्तूरिकोद्यन्मलयजशशभृल्लेखयाधश्चितं सा
चक्रे सीमन्तरेखान्वितमथ तिलकं सान्द्रसिन्दूरपङ्कैः ॥७७॥
भाले ललाटे सा विशेषा सान्द्रसिन्दूरपङ्कैः कामयन्त्राख्यं तिलकं चक्रे । कीदृशं ? पार्श्वद्वये आकपोलं गण्डमभिव्याप्य कस्तूरीकृतपत्रवल्ल्याः सम्यगुदयेन खचितं श्रीखण्डस्य चन्दनस्य बिन्दूनामुत्करेण समूहेनाभितो वृतमन्तर्मध्ये कस्तूरीकया उद्यन्त्याः मलयजस्य चन्दनस्य शशभृच्चन्द्रस्तस्य रेखयाधश्चितम् । लल्ताटमध्यदेशोपरि द्विधा विभक्तस्य केशस्य मध्यवर्तिरेखा सीमन्तरेखा, तदन्वितम् ॥७७॥
पुष्पगुच्छेन्दुलेखाब्जमकरीचूतपल्लवम् ।
लिलेख चित्रं कस्तूर्या चित्रा तत्कुचयोस्तटे ॥७८॥
पुष्पगुच्छेन्दुलेखाब्जमकरीचूतपल्लवम् । लिलेख चित्रं कस्तूर्या चित्रा तत्कुचयोस्तटे ॥७८॥
मीनी प्रसूननवपल्लवचन्द्रलेखा
व्याजात्स्वचिह्नशरकुन्तधनूंसि कामः ।
तद्भ्रूधनुर्धवनमात्रनिरस्तकर्मा
मन्ये न्यधत्त निजतत्कुचकोषगेहे ॥७९॥
तस्याः भ्रूधनुःकम्पनेन निरस्तकर्मा कामः मीनी मकरी तदादीनां चतसृणां व्याजात्क्रमेण मकरं मकराङ्कत्वात्स्वचिह्नं शरं कुम्भं धनुश्चैतानि चत्वारि तस्या स्तनरूपनिजभाण्डारगेहे निधत्त इत्यहं मन्ये ॥७९॥
चित्रार्पितानेकविचित्ररत्न
मुक्ताचिता रक्तदुकूलचोली ।
कुचौ भजालेन्द्रधनुर्विचित्रा
तस्तार शैलाविव सान्ध्यकान्तिः ॥८०॥
चित्रया अर्पिता अनेकचित्ररत्नैर्मुक्ताभिश्चाचिता खचिता रक्तदुकूलस्य चोली कुचपट्टिका कुचौ तस्तार आचच्छाद । कौ काविव भानि नक्षत्राणि तेषां जालं समूहस्तेन सह यतिन्द्रधनुस्तेन विचित्रा सान्ध्यकान्तिः शैलाविव सान्ध्यकान्तिइन्द्रधनुषोरनेकवर्णसाम्येन चोली इन्द्रधनुषोराकारेण साम्यादुपमा ॥८०॥
सौवर्णतालदलसंवलनोपपन्नं
श्रुत्योर्मसारलघुपुष्पविराजदग्रम् ।
भृङ्गास्यहाटकसरोरुहकोरकाभं
ताडङ्कयुग्ममदधादथ रङ्गदेवी ॥८१॥
रङ्गदेवी ताडङ्कयुग्मं कर्णभूषणद्वयं श्रुत्योरदधात। कीदृशं ? स्वर्णनिर्मिततालपत्रस्य सम्यक्वलनेन पद्मकलिकाकारनिर्माणेनोपपन्नं निर्मितम् । पुनः कीदृशं ? भ्रमर आस्ये मुखे ययोस्तादृशस्वर्णनिर्मितपद्मकलिकयोराभेवाभा कान्तिर्यस्य तत॥८१॥
हैमे वज्रारुणमणिचितस्थूलनीलाश्ममध्ये
तस्याः श्रुत्योरुपरि सुतनोर्मौक्तिकालीवृतान्ते ।
चित्रा प्रोद्यद्द्युमणिरुचिरे चारुचक्रीशलाके
मुक्तास्याष्टापदकलसिकाराजदग्रे युयोज ॥८२॥
तस्याः सुतनोः श्रीराधायाः श्रुत्योरुपरि चारुचक्रीशलाके चित्रा सखी अपि पुनर्युयोज । ते कीदृश्यौ ? हैमे हेमनिर्मिते । वज्रैर्हिरकैररुणमणिभिर्लालाख्यमणिभिर्माणिक्यैश्च चितौ खचितौ स्थूलनीलमणिमध्ये ययोस्ते । मुक्तावल्यावृतौ आवृतौ अन्तभागो ययोस्ते मुक्ता आस्ये यस्यास्तादृश्या स्वर्णकलसिकया राजदग्रं ययोस्ते । अत एव उद्यद्द्युमणिः सुप्रकाशितसूर्यस्ततोऽपि रुचिरे ॥८२॥
रुचिरचिबुकमध्ये रत्नराजच्छलाका
कलितकरविशाखानिर्मितोऽस्याश्चकास्ति ।
नवमृगमदबिन्दुः शोभयन्श्रीमुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् ॥८३॥
दलाग्रे सन्निविष्टो भ्रमरः सरोजं शोभयन्निव अस्याः श्रीराधाया रुचिरचिबुकमध्ये रत्नै राजच्छलाकया कलितो युक्तः करो यस्यास्तस्या विशाखया निर्मितो नवमृगमदबिन्दुः श्रीमुखेन्दुमस्याः श्रीमुखेन्दुं शोभयन्चकास्ति ॥८३॥
ललास हेमाङ्कुशिकानिबद्धं
नासाग्रमुक्ताफलमायताक्ष्याः ।
शुकास्यदष्टं तनुवृन्तलग्नं
निनिन्द पक्वं लवलीफलं यत॥८४॥
आयताक्ष्या राधाया हेमाङ्कुशिकया वक्राग्रहेमगुणेन निबद्धं नासाग्रमुक्ताफलं ललास । यन्मुक्ताफलं ललास, यन्मुक्ताफलं शुकस्यास्येन चञ्चुना दष्टं सूक्ष्मवृन्तयुक्तं पक्वं लवलीफलं निनिन्द ॥८४॥
सा वीक्ष्य कृष्णाननपूर्णनिर्मला
सितेन्दुकान्त्याचमनातिलालसाम् ।
तद्दृक्चकोरीं विदधेऽथ तद्वपुः
श्रीपुञ्जमञ्ज्वञ्जनरेखयान्विताम् ॥८५॥
सा विशाखा श्रीकृष्णमुखमेव पूर्णनिर्मलनीलचन्द्रस्तस्य कान्तेराचमनाय पानायातिलालसा यस्यास्तां तस्या राधाया दृक्चकोरीं वीक्ष्य तस्य श्रीकृष्णस्य वपुषः श्रीः शोभा तस्याः पुञ्जवन्मञ्जु मनोज्ञं यदञ्जनं तेन रेखयान्वितां विदधे । शोभयान्विता इति च पाठः ॥८५॥
उपरिखचितनानारत्नजालैः स्फुरन्त्या
विमलपुरटपत्र्या कण्ठमस्या विशाखा ।
हरिकरदरचिह्नश्रीहरं पुष्कराक्ष्याः
सपदि हरिभियेव च्छादयामास मध्ये ॥८६॥
विशाखा अस्याः पुष्कराक्ष्या मध्ये कण्ठं कण्ठस्य मध्यं नानारत्नसमूहैः स्फुरन्त्या विमलस्वर्णपत्र्या कण्ठाभरणेन छादयामास । कीदृशं ? हरिकरस्थस्य दररूपचिह्नस्य शोभाहरं स्वरेखाश्रयेण इत्यूहाः । आच्छादने हेतुमाह—हरिभियेव हरिः स्वकरचिह्नशोभाहरं दृष्ट्वा बलात्ग्रहीष्यतीति भयेनेवेत्यर्थः ॥८६॥
वज्राचिताखण्डरत्नचित्रसुस्थूल
मध्यो गुणबद्धचञ्चुः ।
ललास तस्या उपकण्ठकूपं
दत्तस्तया हाटकचित्रहंसः ॥८७॥
तस्या उपकण्ठकूपं कण्ठकूपनिकटे तया विशाखया दत्तो हाटकस्य स्वर्णस्य चित्रहंसो (हांसुलीति ख्यातः) ललास । कीदृशः ? वज्रेण हिरकेणान्वितं यदाखण्डरत्नमिन्द्रनीलरत्नं, तेन चित्रं सुस्थूलं च मध्यं यस्य सः गुणेन बद्धश्चञ्चुर्मुखं यस्य सः ॥८७॥
सुवर्णगोलीयुगमध्यगोल्लसन्
मसारगोलीगिलितोऽन्तरान्तरा ।
सुसूक्ष्ममुक्तावलिगुम्फितस्तया
न्ययोजि हारो हृदि गोस्तनाभिधः ॥८८॥
तया विशाखया गोस्तनाख्यो हारो हृदि न्ययोजि । हारभेदो यष्टिभेदा गुच्छगुच्छार्धं गोस्तना इत्यमरः । स कीदृशः ? अन्तरान्तरा मध्ये मध्ये सुवर्णस्य गोलीयुगमध्याया अत उद्यन्त्या इन्द्रनीलमणिगोल्या गिलितः सन्सुसूक्ष्ममुक्तावलिर्गुम्फितश्च ॥८८॥
मसारचन्द्रोपलपद्मराग
सुवर्णगोलीग्रथितान्तरालैः ।
मुक्ताप्रवालैः परिगुम्फितां सा
रत्नस्रजं तद्धृदये युयोज ॥८९॥
मसाराणामिन्द्रनीलमणीनां चन्द्रकान्तमणीनां च पद्मरागमणीनां च सुवर्णानां च गोलीभिर्ग्रथितमन्तरालं मध्यं येषां तैर्मुक्ताप्रवालैः परिगुम्फितां रत्नस्रजं तस्या हृदये सा विशाखा युयोज ॥८९॥
वैदूर्ययुग्माचितहेमधात्रिका
बीजाभगोलीगिलितोऽन्तरान्तरा ।
विचित्रमुक्तावलिचित्रगुच्छको
रराज तस्या हृदयेऽर्पितस्तया ॥९०॥
वैदूर्यमणियुग्मेनाचितया युक्तया हेमनिर्मितधात्रिकाबीजतुल्यगोल्याः अन्तरान्तरा मध्ये मध्ये गिलितो विचित्रमुक्तावलिभिः । चित्रश्चासौ गुच्छको गुच्छाख्यो हारभेदश्चेति सः । तस्याः श्रीराधाया हृदयेऽनया विशाखयार्पितः सन्रराज स्वार्थकैः । यष्टिभेदाद्हारभेदो गुच्छेति ॥९०॥
रासे निशीथे सह नृत्यगान
तुष्टेन दत्तां हरिणा स्वकण्ठात।
तस्यैव साक्षादिव राजलक्ष्मीं
गुञ्जावलीं तद्धृदि सा युयोज ॥९१॥
रासे रासोत्सवे निशीथे अर्धरात्रे सह मिलित्वा नृत्यगानादिना तुष्टेन हरिणा स्वकण्ठात्तस्यै श्रीराधायै दत्तां तस्य श्रीकृष्णस्य राजलक्ष्मीमिव गुञ्जावलीं तस्या राधाया हृदि सा विशाखा युयोज ॥९१॥
स्थूलतारावली रम्या सन्नायकविभूषिता ।
तस्या एकावली ज्योत्स्नी हृदम्बरममण्डयत॥९२॥
एकावली तन्नाम हारभेदः सैव ज्योत्स्नी चन्द्रिकायुक्तरात्रिः, सा तस्या हृदम्बरं हृद्रूपमाकाशममण्डयत। कीदृशी ? स्थूलतारावलिर्विशुद्धमुक्तावलिः सैव तारावलिः नक्षत्रश्रेणी तया रम्या । तारा मुक्ता विशुद्धा च इत्यमरः । पुनः कीदृशी ? सन्नायक उत्तमहारमध्यरत्नं तदेव सन्नायकः पूर्वचन्द्रः, तेन विभूषिता ज्योत्स्नी चन्द्रिकयान्वितेति । नायको हारमध्यगे इति चामरः ॥९२॥
कनकखचितवज्रैर्वेष्टितैः पद्मरागैश्
चितहरिमणिपूर्णाभ्यन्तरा शातकौम्भी ।
प्रतनुपुरटराजच्छृङ्खलालम्बमाना
लसति हृदि विशाखा योजितास्याश्चतुष्की ॥९३॥
अस्या हृदि विशाखया योजिता दत्ता पदकेति ख्याता चतुष्की लसति । कीदृशी ? शातकौम्भी स्वर्णनिर्मिता कनकखचितवज्रैर्स्वर्णजटितहीरकैर्वेष्टितैः पद्मरागमणिभिश्चितेन वेष्टितेन हरिमणिनेन्द्रनीलमणिना पूर्णमभ्यन्तरं मध्यदेशो यस्या सा । पुनः कीदृशी ? प्रतनुभिरः सूक्ष्माभिः स्वर्णराजच्छृङ्खलालम्बमाना ॥९३॥
पृष्ठान्तःक्रमलम्बमानममलं ग्रीवान्तहारावली
वीटीबन्धनपट्टसूत्रचमरीजालं तदास्या बभौ ।
मन्ये चारुनितम्बशैलकटकान्मूर्धाधिरोहार्थकं
सोपानं विधिना कृतं करुणया वेणीभुजङ्ग्याः स्फुटम् ॥९४॥
तदस्या श्रीराधायाः पृष्ठान्तः पृष्ठदेशस्य मध्ये क्रमेण एकस्याः चमर्या उपर्येका चमरीति क्रमेण लम्बमानममलं निर्मलं ग्रीवान्तहारावल्या वीटीबन्धनेन ग्रन्थिबन्धनेन पट्टसूत्रस्य चमरीजालं बभौ । यत्ततस्या वेणीरूपसर्प्याश्चारुनितम्बरूपशैलकटकात्मूर्ध्नः मूर्धनरूपपर्वतस्याधिरोहार्थकमधिरोहार्थं विधिना स्फुटं व्यक्तं यथा स्यात्तथा सोपानं कृतमित्यहं मन्ये ॥९४॥
प्रलम्बगुच्छासितपट्टडोरिका
पर्युप्तराजन्नवरत्नमालया ।
श्लिष्टेऽपि हैमे भुजयोर्विशाखया
न्यधायिषातां हरिरङ्गदाङ्गदे ॥९५॥
अथ विशाखया हरेः श्रीकृष्णस्य रङ्गं दत्त इति हरिरङ्गदे इति नाम्नी अङ्गदे बाजुबन्धेति ख्याते भुजओर्न्यधायिषाताम् । कीदृशे ? प्रलम्बा या गुच्छस्य थोपना इत्याख्यस्यासिता कृष्णा पट्टडोरी, तया पर्युप्ता ग्रथितया या राजन्नवरत्नमाला तया श्लिष्टे युक्ते हैमे हेमनिर्मिते ॥९५॥
फुल्लारुणाब्जविगलन्मधुलिप्तनाल
संविष्टभृङ्गपटलीद्युतितस्कराणि ।
कान्तेन्द्रनीलवलयानि कलावियुग्मे
तस्यास्तदा ललितया घटितानि रेजुः ॥९६॥
तस्याः कलावियुग्मे इन्द्रनीलमणेर्वलयानि ललितया घटितानि दत्तानि रेजुः । कीदृशानि ? फुल्लारुणकमलाभ्यां विगलद्भिर्मधुभिर्लिप्तयोर्नालयोर्मृणालयोः संवेष्टितभ्रमरसमूहानां द्युतेः कान्तेस्तस्कराणि चौराणि । फुल्लारुणाब्जे अत्र रक्तवर्णकरयुगं विगलन्मधुलिप्तनाले मृणाले, अत्र कलावियुग्मं संवेष्टभ्रमरा, अत्र कान्तियुक्तेन्द्रनीलमणिमयवलयानि ॥९६॥
मुक्तावलीखचितहाटककङ्कणाभ्यां
संवेष्टितः स वलयावलिसन्निवेशः ।
बिम्बैर्विधोर्मिलितभास्करमण्डलाभ्यां
तस्याश्चकास्ति नितरामिव सैंहिकेयः ॥९७॥
मुक्तावल्या जडितस्वर्णकङ्कणाभ्यां स पूर्वोक्तवलयावलिसन्निवेशः संवेष्टितः सन्चकास्ति काभ्यां क इव ? विधोर्बिम्बैर्मिलिताभ्यां सूर्यमण्डलाभ्यां सह सैंहिकेयो राहुरिव ॥९७॥
हैमस्फुरन्मर्दलिकालिमण्डिता
प्रलम्बपट्टस्तवकावलम्बिनी ।
अनेकरत्नावलिलालितान्तरा ललास
तस्या मणिबन्धबन्धनी ॥९८॥
तस्याः मणिबद्धबन्धनी ललास, चूरीबद्धप्रकोष्ठयोरस्तरालो मणिबद्धस्तस्य बन्धनी पोठिया इति ख्याता । कीदृशी ? हैमस्फुरन्मर्दलिकालिभिः मादुली पौच्छीति ख्याताभिर्मण्डिता प्रलम्बपट्टस्तवकावलम्बिनी तेन अनेकरत्नावलिभिर्लालितं जटितमन्तरं यस्याः ॥९८॥
निजनामाङ्किता नानारत्नद्युतिकराम्बिता ।
बभावङ्गुलिमुद्रास्या विपक्षमदमर्दिनी ॥९९॥
अस्या अङ्गुलिमुद्रा बभौ निजेन राधेत्यनेन नामाङ्किता विपक्षाणां मदं मर्दयतीति ॥९९॥
चटुलचटकरावौ हंसकौ कंसशत्रोः
श्रुतिधृतिमतिहंसीहारिनादौ विशाखा ।
कनकखचितनानारत्नजालांशुचित्रौ
लघु लघु निदधे तत्पादपद्मोपरिष्टात॥१००॥
हंसकौ पादकटकौ तस्याः पादोपरिष्टात्पादयोः सुकुमारतया प्रेम्णा च लघु लघु यथा स्यात्तथा विशाखा निदधे । कीदृशौ ? चञ्चलचटकानामिव रावो ययोस्तौ । श्रीकृष्णस्य श्रुतिधृतिमतिरूपकंसीनां हारी हरणशीलो नादो ययोस्तौ । कनकजडितनानारत्नसमूहानामंशुभिश्चित्रौ मनोहरौ ॥१००॥
कालिन्दी कलहंसाली स्वाध्यायाध्यापकौ तथा ।
भातस्तत्पदयोर्न्यस्तौ नूपुरौ रत्नगोपुरौ ॥१०१॥
कालिन्द्याः कलहंसानां श्रेणी सैव शिष्यभूता तस्याः स्वाध्यायशोभनाध्यायनेऽध्यापकौ रत्नगोपुराख्यौ रत्नानां गावः किरणास्तेषां पुरौ नगरे इति वा नूपुरौ पदयोर्न्यस्तौ भातः ॥१०१॥
रत्नावलीकान्तिकरम्बितानि
विधातृविस्मापकशिल्पभाङ्गि ।
तस्याः सुदेवी घटितानि रेजुः
पादाङ्गुलीयानि पदाङ्गुलीषु ॥१०२॥
विधातृसृष्टिषु तादृशशिल्पाभावात्विधातुर्विस्मापकशिल्पयुक्तानि पादाङ्गुलीयानि सुदेव्या दत्तानि तस्याः पादयोरङ्गुलीषु रेजुः ॥१०२॥
अस्या न्यधादुषसि नर्मदया स्वसख्याः
मालाकृतस्तनुजयोपहृतं विशाखा ।
स्मेरारविन्दवदनाथ करारविन्दे
लीलारविन्दमरविन्दविलोचनायाः ॥१०३॥
विशाखा अस्याः स्वसख्याः करकमले मालाकृतः कन्यया नर्मदया उषस्युपहृतमानीतं लीलारविन्दं न्यधात॥१०३॥
तदैव समयाभिज्ञा पुरस्तान्मणिबन्धनम् ।
आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥१०४॥
सुगन्धानाम्नी नापितकन्या आदर्शं दर्शयामास । मणिभिर्बन्धनं ददर्श ॥।१०४॥
सा कृष्णनेत्रकुतुकोचितरूपवेशं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्तितरलास वराङ्गनानां
कान्तावलोकनफलो हि विशेषवेशः ॥१०५॥
मुकुरे दर्पणे प्रतिबिम्बितं श्रीकृष्णनेत्रयोः कुतुकाय कौतूहलाय उचितरूपो वेषो यत्र तत। उद्चितरूपं वेशश्च वा यत्र तत्स्वं निजं वर्ष्म देहमालोक्य सा श्रीकृष्णस्योपसत्तये प्राप्तये तरला आस । अत्र हेतुमाह—यतो वराङ्गनानां कान्तावलोकनं कान्तकर्तृकावलोकनरूपफलं फलस्वरूपो विशेषवेशः भवति । फलो हीति पाठे कान्तस्यावलोकनं फलं यस्य इत्यर्थः । विशेषवेशः परमवेशः । गात्रं वपुः संहननं शृङ्गारं वर्ष्म विग्रहः ॥१०५॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टवरजे गोविन्दलीलामृते
सर्गः कल्यविलासवर्णनमयः सोऽयं द्वितीयो गतः ॥१०६॥
कल्यविलासः प्रत्यूषविलासवर्णनमयः सर्गः द्वितीयो गतः । प्रत्युषः अहर्मुखं कल्यमुषः प्रत्युषसी इत्यमरः ॥१०६॥
इति श्रीगोविन्दलीलामृते सदानन्दविधायिन्यां टीकायां द्वितीयः सर्गः समाप्तः ॥२॥
.
(
३)
तृतीयः सर्गः
तावद्गोष्ठेश्वरी गोष्ठं गते गोकुलनन्दने ।
सर्वान्गृहजनानाह तद्भक्ष्योत्पादनाकुला ॥१॥
गोकुलनन्दने गोकुलं गोकुलपुरं गोसमूहं वा आनन्दयतिईति गोकुलनन्दनः श्रीकृष्णः तस्मिन्गोष्ठं गोगृहं गते सति तस्य श्रीकृष्णस्य भक्ष्योत्पादने व्याकुला गोष्ठेश्वरी यशोदा सर्वान्गेहजनानाह ॥१॥
निजनिजकरणीये कर्मणि व्यग्रचित्ता
यदपि गृहजनास्तत्प्रेमजालाकुलास्ते ।
तदपि सुतसमुद्यत्स्नेहपीयूषपूर
स्नपितमतिरधीशा तान्समादेदिशीति ॥२॥
यदपि तत्तस्य श्रीकृष्णस्य प्रेमजालाकुलास्ते गृहजना निजकर्तव्ये कर्मणि व्याकुलास्तदपि अधीशा तान्देदिशीति पुनः पुनरादिशति । अत्र हेतुमाह सुतस्य समुद्यत्स्नेहपीयूषपूरेण स्नपिता मतिर्यस्या सा ॥२॥
दासीः समाहूय जगाद राज्ञी
वत्सास्त्वरध्वं द्रुतपाककृत्ये ।
वत्सः क्रशीयान्क्षुधितः सरामः
स मे समेष्यत्यधुना स्वगोष्ठात॥३॥
हे वत्साः ! द्रुतपाककृत्ये यूयं त्वरध्वं शीघ्रं पाकक्रियायां त्वरायुक्ता भवथ । सरामो मे वत्सः सकृष्णः क्रशीयान्क्षीणः क्षुधितश्च,
अधुना गोष्ठात्समेष्यति ॥३॥
शाका मूलानि पुष्पद्विदलफलदलान्यार्द्रकं पिष्टमाषश्
चुक्रं शुण्ठी मरिचहरिद्राशशिसिताजीरकं क्षीरसारः ।
चिञ्चाहिङ्गुत्रिजातं सुमथितवटिकाः सैन्धवं सीरिशस्यं
तैलं गोधूमचूर्णं घृतदधितुलसीधान्यसत्तण्डुलाश्च ॥४॥
एतच्च सर्वं पाकाय पाकार्थं पाकगृहे नीयतामिति । द्वितीयश्लोकेनान्वयः । शाका वत्सप्रियतया नीयतामित्यादि मूलानि बहुविधानि पुष्पम् । मुद्गादीनां द्विदलानि फलानि दलानि आर्द्रकं वीटीक आद्यर्थं पिष्टमाषः । चुक्रमाम्लद्रव्यम् । सहस्रवेधी चुक्रोऽम्लवेधसः शतवेध्यापि । तिन्तिडीकं च चुक्रं च इन्द्रात्म । शुण्ठी हरिद्रा मरिचः शशि कर्पूरः सिता जीरकं क्षीरस्य सारः । चिञ्चा तिन्तिडी त्रिजातं तेजपत्रं रसवासो गुरुत्वक इति केचित्यष्टिमधु जातीफलं जतीपत्रीति च सुमथितवटिकाः सुमथिताः हस्तचालनेन फेणायित्वा निर्मिता यास्ताः । सैन्धवं लवणम् । सीरि नारिकेलस्तस्य शस्यम् । तुलस्याख्यस्य सूक्ष्मधान्यस्य सत्तण्डुलाः ॥४॥
पायसाय व्रजेन्द्रेण प्रातर्वष्कयणीपयः ।
प्रहितं यत्तदेतच्च सर्वं पाकाय नीयताम् ॥५॥
पायसाय परमान्नार्थं चिरप्रसूता बष्कयणी तस्याः पयः व्रजेन्द्रेण प्रातर्यत्प्रहितं तत॥५॥
तयेति दिष्टास्ता आसंस्तत्तत्कार्येषु सत्वराः ।
साहूय रोहिणीमाह स्नेहव्याकुलमानसा ॥६॥
इत्यनेन प्रकारेण यशोदयादिष्टास्ता दास्यस्तत्तत्कार्येषु सत्वरा आसन। तथापि स्नेहव्याकुलमानसा सती सा यशोदा रोहिणीमाहूय इत्याह ॥६॥
सखि रोहिणि तावस्मद्बालकौ मृदुलौ तनू ।
पीड्येते सबलैर्बालैर्बाहुयुद्धेऽतिचञ्चलैः ॥७॥
आवयोर्बालकौ मृदुलौ तनू कृशौ च बाहुयुद्धे सबलैर्बालैरतिचञ्चलैः
पीड्येते ॥७॥
कति सन्ति न मे गेहे दासा गोपास्तथाप्यमू ।
वारितावपि यातस्तौ गोरक्षायै करोमि किम् ॥८॥
मम गेहे कति गोपदासा न सन्ति,
अपि तु सन्त्येव तथापि अमू तौ रामकृष्णौ वारितावपि गोरक्षार्थं जातः ॥८॥
दुर्गारण्यभ्रमणनटनायासतः सायमुच्चैश्
चक्राते नाशनमपि तथा भोजनेषद्रुची तौ ।
वत्सौ जातौ तदिह नितरां दुर्बलौ क्षीणमूर्ती
दृष्टं हन्तोदरमपि तयोः पृष्ठलग्नं प्रभाते ॥९॥
दुर्गारण्यभ्रमणनटनायासतः सायमुच्चैश्चक्राते नाशनमपि तथा भोजनेषद्रुची तौ । वत्सौ जातौ तदिह नितरां दुर्बलौ क्षीणमूर्ती ऋष्टं हन्तोदरमपि तयोः पृष्ठलग्नं प्रभाते ॥९॥
द्रुतमय रसवत्यां तत्तथा साधयान्नं
प्रचुररुचियथेमौ प्राश्नतः प्राज्यतृष्णौ ।
तदतिरुचिरपीष्टा यत्र यत्रास्ति दृष्टा
कुरु सुमुखि तदेतत्तेमनं चातियत्नात॥१०॥
हे सुमुखि रोहिनि ! रसवत्यां रन्धनगृहे द्रुतमय गच्छ । तथान्नं साधय प्राज्यतृष्णौ इमौ पुत्रौ प्रचुररुचिर्यथा स्यात्तथा प्राश्नतः । यत्र यत्रातिरुचिस्त्वया पूर्वदिने दृष्टा अस्ति,
तदेतदिदानीं कल्पितं च तेमनं व्यञ्जनमतियत्नात्कुरु,
सा तद्रुचिः कीदृशी ?
इष्टा अस्माकं काम्या ॥१०॥
तयेति दिष्टा रामस्य माता दासी सुसंस्कृताम् ।
सम्भृताशेषसम्भारां प्रीत्या रसवतीं ययौ ॥११॥
रामस्य माता दासीभिः सुसंस्कृतां सम्भृतो धृतोऽशेषसम्भारो रन्धनसामग्री यत्र तां रसवतीं रन्धनागारं ययौ ॥११॥
सुतेषद्रुचिता व्यग्रा मिष्टान्नोत्पादनोत्सुका ।
श्रीराधानयनायासीद्व्याकुला गोकुलेश्वरी ॥१२॥
ईषद्रुचिर्यस्य स ईषद्रुचिस्तस्य भाव ईषद्रुचिता तया सुतस्य ईषद्रुचितया व्यग्रा अतस्तद्रुचये मिष्टान्नोत्पादने उत्सुका सती सा,
श्रीराधाया आनयनाय श्रीराधामानेतुं श्रीयशोदा व्याकुलासीत॥१२॥
उपनन्देः सुभद्रस्य पत्नीं कुन्दलताभिधाम् ।
यदृच्छयागतामग्रे प्रणमन्तीमथाह सा ॥१३॥
उपनन्दस्यापत्यमौपनन्दिस्तस्य सुभद्राख्यस्य पत्नीं कुन्दलतां सा यशोदा आह । कीदृशीं ?
यदृच्छया आगतां प्रणमन्तीम् ॥१३॥
अमृतमधुरमास्तां संस्कृतं यत्त्वयान्नं
भवतु स तु चिरायुर्यद्तदन्नस्य भोक्ता ।
इति कलितवरां दुर्वाससस्तां विदित्वा
स्वसदनमनु राधां रन्धनायाह्वायामि ॥१४॥
हे कुन्दलते ! त्वया श्रीराधया संस्कृतमन्नममृतादपि मधुरमास्तां,
तदन्नस्य यो भोक्ता,
स चिरायुर्भवतु इति दुर्वाससो मुनेः प्राप्तवरां तां श्रीराधां विदित्वा अहं स्वसदनमनु स्वसदने राधां रन्धनायाह्वायामि ॥१४॥
मितभुगपि सुतो मे स्वादुवैशिष्ट्यलाभात्
प्रचुररुचि सतृष्णं तत्कृतान्नं यदत्ति ।
तदिह मम वचोभिः प्रार्थ्य तस्या धवाम्बां
परिजनसहितां तां राधिकामानयाशु ॥१५॥
मे सुतः मितभुगपि तया राधया कृतान्नं यद्यस्मात्प्रचुररुचि सतृष्णं यथा स्यात्तथात्ति । अद भक्षणे धातुः । तस्याः धवाम्बां श्वश्रूं प्रार्थ्य तामाश्वानय ॥१५॥
मुहुरियमिह राधां सा तयैवानयन्ती
प्रथममिव यदेतां याचते तन्न दोषः ।
व्रजभुवि वसतां यत्कृष्णरागोन्मदानां
नवनवमिव सर्वं नानुसन्धानमस्ति ॥१६॥
सेयं यशोदा तया कुन्दवल्ल्या राधामानयन्ती मुहुरेतां जटिलां प्रथममानयनमिव यद्याचते तद्दोषो न । कृष्णरागेणोन्मत्तानां सर्वं नवनवमिव पूर्वदिवसेऽप्येवमुक्तं कृतमित्यनुसन्धानं नास्ति ॥१६॥
तद्वचःशिशिरोत्फुल्ला कुन्दवल्ल्यथ राधिकाम् ।
उत्कासीद्भ्रमरीं कर्तुं मधुसूदनसङ्गिनीम् ॥१७॥
कुन्दवल्ल्येव कुन्दवल्ली सा तत्तस्याः श्रीयशोदायाः वच एव शिशिरः शिशिरर्तुस्तेनोत्फुल्ला हृष्टैव पुष्पैर्विकसिता सती राधिकां भ्रमरीं राधिकारूपां भ्रमरीं मधुसूदनः श्रीकृष्णः स एव मधुसूदनो भ्रमरस्तस्य सङ्गिनीं कर्तुमुत्का उत्कण्ठिता आसीद्बभूव ॥१७॥
ततः सासाद्य जटिलां स्नुषायां कुटिलामपि ।
श्रावयामास सन्देशं व्रजेश्वर्या विचक्षणा ॥१८॥
सा विचक्षणा कुन्दवल्ली स्नुषायां पुत्रवधूविषये कुटिलामपि जटिलामपि आसाद्यागत्य व्रजेश्वर्याः सन्देशं श्रावयामास ॥१८॥
आकर्ण्य साज्ञां व्रजराजराज्ञ्याः
कृष्णात्स्नुषायामपि शङ्कमाना ।
विचिन्त्य शिक्षामथ पौर्णमास्यास्
तां कुन्दवल्लीं प्रणयादवादीत॥१९॥
सा जटिला व्रजराजराज्ञ्याः आज्ञामाकर्ण्य वध्वां कृष्णात्शङ्कमाना अपि पौर्णमास्याः शिक्षां विचिन्त्य तामवादीत॥१९॥
स्नुषेयं मे साध्वी गुणगरिममाध्वीकमधुरा
जनश्छिद्रान्वेषी स खलु चपलो नन्दतनयः ।
न चाज्ञावज्ञेया व्रजपतिगृहिण्या भगवती
वचः पाल्यं वत्से नटति हृदयं किं नु करवै ॥२०॥
हे वत्से पुत्रि ! गुणगरिमैव माध्वीकस्तेन मधुरा मे स्नुषा । कृष्णः चपलः । जनश्छिद्रान्वेषीति । वधूप्रेषणे दोषः । यशोदाज्ञा नावज्ञेया इति पौर्णमास्या वचः पाल्यमिति हृदयं सङ्कटान्नटति । अहं किं करवै ॥२०॥
मातः सत्यं वदति भवती किं च गोपेन्द्रसूनुर्
नायं ज्ञेयः खलसमुदयैर्यादृशः श्रावितोऽस्ति ।
किन्तु प्रोद्यद्द्युमणिरिव सद्धर्मपद्मे खलाली
घूके चायं वृजिनतिमिरे घोषसन्तोषकोके ॥२१॥
कुन्दवल्ल्याह—
हे मातः ! भवती सत्यं वदति । भवत्यां खलजनैः यादृशः श्रीकृष्णः श्रावितोऽस्ति । तादृशोऽयं कृष्णः भवत्या न ज्ञेयः । किन्तु प्रोद्यद्द्युमणिरिव पद्यादौ वर्तते । यथा प्रोद्यत्सूर्यः पद्मप्रकाशकः घूकान्धकरः तमोनाशकः । कोकः तोषदाता । तथा श्रीकृष्णः सद्धर्मप्रकाशकः खलानामान्ध्यकरः वृजिनस्य नाशकः । घोष आभीरपल्ली तस्याः सन्तोषकः । तस्मात्सद्धर्मशीला ते स्नुषा अस्या आनन्दजनक एव स स्यादिति भावः ॥२१॥
माधुर्यं तून्मदयति जगद्यौवतं तस्य तस्माद्
भीतिर्नीतिस्तव नववधूपालनं चापि युक्तम् ।
मा शङ्किष्ठस्तदयति यथा दृक्पथं नास्य साध्व्याश्
छायाप्यस्याः स्वयमहमिमां द्राक्तथा तेऽर्पयामि ॥२२॥
तस्य कृष्णस्य माधुर्यं तु जगद्यौवतं जगति युवतीसमूहमुन्मदयति,
तु भिन्नो क्रमे अतस्तस्य दोषो नहि । तस्माद्धेतोस्तव भीतिर्नीतिरेव । नववधूपालनमपि च युक्तं तत्तस्मात्कृष्णात्माशङ्किष्ठाः । तत्र हेतुमाह—
अस्याः वध्वाश्छायापि तस्य कृष्णस्य दृक्,
यथा न याति न यच्छतितथा ते तुभ्यमिमामर्पयामि ॥२२॥
त्वं पुत्रि साध्वी प्रथितासि गोष्ठे
त्वय्यर्पितेयं सरला वधूस्ततः ।
स लोलदृष्टः किल नन्दसूनुर्
नैनां यथा पश्यति तद्विधेयम् ॥२३॥
जटिला कुन्दलतामाह—
हे पुत्रि कुन्दलते ! त्वं गोष्ठे साध्वीति प्रथिता ख्यातासि । इयं सरला वधूस्त्वय्य्त्वय्यर्पितास्ति । नन्दसूनुर्लोलदृष्टः । तत्तस्मात्यथा एनां वधूं स न पश्यति तथा त्वया विधेयम् ॥२३॥
वधूमथाहूय जगाद वत्से
व्रजालयान्नन्दवधूसमीपम् ।
निष्पाद्य तस्याः प्रियमेहि तूर्णं
सहानयैवाद्य रविस्त्वयार्च्यः ॥२४॥
वधूमाहूयाह—
हे वत्से ! आलयात्स्वगृहात्नन्दवधूर्यशोदा समीपं निष्पाद्य तस्याः प्रियमेहि तूर्णं सहानयैवाद्य रविस्त्वयार्च्यः ॥२४॥
राधेति दिष्टा हृदि साभिनन्दिताप्य्
अनिच्छुवद्गन्तुमुवाच तां सखीम् ।
अस्तीह कृत्यं न च मे यियासुता
गृहं गृहं नेङ्गति यत्कुलाङ्गना ॥२५॥
सा राधा इत्यनेन दिष्टा कथिता सती हृद्यभिनन्दितापि गन्तुमनिच्छुवत्तां सखीं कुन्दवल्लीमुवाच । मे मम गृहे कृत्यमस्ति,
तत्र अस्तीह कृत्यं यियासुता गन्तुमिच्छता नास्ति तत्र हेतुमाह—
यस्मात्कलवधूः गृहं गृहं नेङ्गति न गच्छति ॥२५॥
कृताग्रहोच्चैः पुनरार्ययासौ
कौन्द्या बभाषे कृतहस्तकर्षम् ।
भीतासि किं साध्व्यहमस्म्यवित्रीत्य्
उच्चालिता फुल्लतनुः प्रत्यस्थे ॥२६॥
कृताग्रहोच्चैः पुनरार्ययासौ कौन्द्या बभाषे कृतहस्तकर्षं भीतासि किं साध्व्यहमस्म्यवित्रीत्युच्चालिता फुल्लतनुः प्रत्यस्थे ॥२६॥
कृष्णस्य प्रातराशाय संस्कृतं लड्डुकादिकम् ।
आदाय ललितामुख्याः सख्योऽप्यनुययुः सखीम् ॥२७॥
श्रीकृष्णस्य प्रातर्भोजनाय ललिताद्याः सख्यः लड्डुकादिकं नीत्वा सखीं श्रीराधामनुययुः ॥२७॥
वीक्ष्याध्वनि परानन्दचलद्वक्षःपटाञ्चलाम् ।
सवयस्यां कुन्दवल्ली प्रेम्ना परिजहास ताम् ॥२८॥
परानन्देन चलच्चलायमानं वक्षः पटाञ्चलं यस्यास्तां राधां कुन्दवल्ली प्रेम्ना परिजहास ॥२८॥
मूल्यानीतोपसर्यास्त्रिचतुरदिवसान्प्रोष्य सन्ध्यागतस्ते
भर्ता गोभिः स्वगोष्ठे घटयितुमखिलां रात्रिमेव न्यवात्सीत।
वक्षः प्रोद्यन्नखाङ्कावलिचितमधरः स्पष्टदन्तक्षतो यत्
तत्साध्व्यास्ते सतीत्वं समुचितमधुना व्यक्तमुल्लालसीति ॥२९॥
ते भर्ता त्रिचतुरदिवसान्प्रोष्य प्रवासं कृत्वा सन्ध्यायामागतः । स्वगोष्ठे अखिलां रात्रिं न्यवात्सीत। किमर्थं प्रवासं कृत्वा ?
मूल्येनानीताश्च ता उपसर्याश्चेति ताः प्रथमगर्भधारणे धेनुर्गोभिर्वृषैर्घटयितुं सङ्गमयितुम् । काल्योपसर्या प्रजने इत्यमरः । ते वक्षः नखचिह्नावलिभिश्चितं व्याप्तमधरश्च स्पष्टं दन्तानां क्षतं घातो यत्र तादृशः यद्यस्मादेवं तत्तस्मात्ते समुचितं सतीत्वमधुना व्यक्तं सदतिशयेनोल्लासं प्राप्नोति ॥२९॥
अन्तर्गूढस्मितोत्फुल्लकिञ्चित्कुञ्चितलोचनाम् ।
स्वसखीं ललितालोक्य कुन्दवल्लीमथाब्रवीत॥३०॥
अथान्तरन्तःकरणे गूढस्मितेन सह उत्फुल्ले किञ्चित्कुञ्चिते च लोचने यस्यास्ताम् । स्वसखीं श्रीराधामालोक्य ललिता कुन्दवल्लीमब्रवीत॥३०॥
करकफलधियास्याः कानने धृष्टकीरः
स्तनमनु विनिविष्टः पक्वबिम्बभ्रमेण ।
अदशदधरमुच्चैस्तन्नखाचोटितं तद्
धृदयमिदममुष्याः किं वृथा शङ्कसे त्वम् ॥३१॥
अस्यास्तेन करको दाडिमस्तस्य फलधिया उपविष्टः कीरः पक्वबिम्बभ्रमेणाधरमदशत। तत्तस्माद्दमुष्याः इदं हृदयं तन्नखाचोटितं भवति त्वं किं वृथा शङ्कसे ॥३१॥
सखीवचःस्मारितकृष्णसङ्ग
लीलोच्छलत्कम्पतरङ्गिताङ्गीम् ।
तां वीक्ष्य पद्माकरमीक्षमाणा
जगौ पुनः कुन्दलता सहासम् ॥३२॥
सखीवचसा कृष्णसङ्गस्मरणजनितकम्पां तां श्रीराधिकां वीक्ष्य पद्माकरं तडागमीक्षमाणा सती कुन्दलता सहासं पुनर्जगौ ॥३२॥
आनन्दकम्पोत्तरलासि मुग्धे
किं भो वृथा पद्मिनि कुन्दवल्ल्याः ।
न देवरस्तां मधुसूदनोऽसौ
भ्राम्यन्पुनः पास्यति भुक्तमुक्ताम् ॥३३॥
हे पद्मिनि मुग्धे ! वृथा किं किमर्थमानन्दकम्पोत्तरलासि भवसि ?
असौ मधुसूदनो भ्रमरो भ्रमन्सन्पुनस्तां किं पास्यति,
न पास्यत्येव । कीदृशीं ?
तेन भ्रमरेण भुक्त्वा मुक्तां त्यक्ताम् । स कीदृशः कुन्दवल्ल्याः कुन्दपुष्पलतायाः देवरः देवं कान्तिं शोभां राति ततो मोदं गृह्णाति वा सः । दिवु क्रीडा विजिगीषा व्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । घञ् राला दानग्रहणयोः डःप्रत्ययः । इयमुक्तिर्व्यङ्गेन श्रीराधां प्रति । हे पद्मिनि ! मुखनेत्रकरचरणरूपपद्मानि । करधृतलीलापद्मं वा सन्ति यस्यास्तस्याः सम्बोधनम् । अर्थात्हे राधे श्रीकृष्णेन रात्रौ भुक्तमुक्तां त्वामधुनैव स श्रीकृष्णः किं पास्यति,
न पास्यति,
न भोक्ष्यत्येव । अन्यत्स्पष्टम् ॥३३॥
कर्णशर्मदसन्नर्मभर्मकुण्डलनिर्मितौ ।
कर्मठां कुन्दवल्लीं तां विशाखाह विचक्षणा ॥३४॥
कर्णस्य शर्मदं सुखदं यत्सन्नर्म शोभनपरिहासस्तदेव भर्मकुण्डलं स्वर्णकुण्डलं तस्य निर्माणे कर्मठां निपुणां तां कुन्दलतां विशाखा आह ॥३४॥
स्वेनेऽनुरागं परमुद्वहन्ती
फुल्लापि मृद्वी भ्रमरात्सुलोलात।
सत्पद्मिनीयं सखि कुन्दवल्लि
भृङ्गानुजाद्भीतरला चकम्पे ॥३५॥
यथा पद्मिनी स्वेन स्वीयसूर्यं परमानुरागमुद्वहन्ती सती फुल्ला अपि मृद्वी सुलोलात्भ्रमरात्कम्पति । हे सखि ! इयं सत्पद्मिनी राधा कुन्दवल्ल्यास्तव स्वामी भृङ्गसुभद्रस्तस्यानुजात्श्रीकृष्णात्भीर्भयं तरला चकम्पे ॥३५॥
इत्युद्दामललामनर्मरचनाभङ्गी सुतुङ्गीभवत्
प्रेमोल्लासविलासमन्थरगतिस्ताभिः समं राधिका ।
भावोद्भावविभावितोद्भटमहागाढानुरागोदया
कृष्णालोकनलालसोत्तरलिता प्राप्ता व्रजेन्द्रालयम् ॥३६॥
इत्यनेन प्रकारेण उद्दामाभिललामाभिर्मनोहराभिः परिहासरचनानां भङ्गीभिः सुतुङ्गीभवतः । प्रेम्ना उल्लासविलासेन मन्थरा गतिर्यस्या सा भावस्योद्भावनोदयेन विभावितस्य संयुक्तस्य जनितस्य उद्भटमहागाढानुरागस्योदयो यस्या सा राधिका सखीभिः समं नन्दगृहं प्राप्ता ॥३६॥
तत्रागतां चरणयोः प्रणतां स्वदोर्भ्याम्
उत्थाप्य तां हृदि निधाय मुकुन्दमाता ।
आघ्राय मूर्ध्नि मुदिता जननी परार्धात्
स्निग्धा चुचुम्ब मुखमश्रुमुखी ततोऽस्याः ॥३७॥
जननी परार्धात्स्निग्धा मुकुन्दमाता स्वचरणे प्रणतां तां राधां स्वभुजाभ्यां धृत्वोत्थाप्य हृदि निधाय ततो मूर्ध्नि आघ्राय तस्या मुखं चुचुम्बेति । वात्सल्यरसानुभावः ॥३७॥
प्रत्येकमालिङ्ग्य च तद्वयस्याः
पप्रच्छ साव्याहतभव्यमस्याः ।
व्यग्रा सुतस्याशनसाधने द्राक्
सस्नेहमेताः पुनराबभाषे ॥३८॥
सा यशोदा ललिताद्या वयस्याः प्रत्येकमालिङ्गितास्याः राधायाः अव्याहतभव्यं मङ्गलं पप्रच्छ सुतस्याशनं भोजनं तस्य व्यग्रा सा पुनरेता राधाद्या आबभाषे ॥३८॥
विविधमधुरभक्ष्योत्पादने लब्ध
वर्णा व्रजभुवि किल यूयं विश्रुता मिष्टहस्ताः ।
तदिह कुरुत पुत्र्यः साधुभक्ष्याणि यत्नाद्
दररुचिरपि वत्सः सस्पृहं मे यथात्ति ॥३९॥
हे पुत्र्यः ! यूयं विविधभक्ष्योत्पादने लब्धवर्णा विचक्षणा विश्रुताः ख्याताः । मिष्टहस्ताः दररुचिर्स्वल्परुचिरपि मे वत्सः सस्पृहं यथा अत्ति तथा भक्ष्याणि कुरुत ॥३९॥
उपलावणिकं त्वेकाः कश्चित्कुरुत दाधिकम् ।
सार्पिष्कमपरा यूयं वत्साः शार्करिकं पराः ॥४०॥
एकाः सख्य उपलावणिकमुपाधिक्येन लवणनिर्मितं,
दाधिकं दधिकृतं,
सार्पिष्कं घृतपक्वं शार्करिकं खण्डनिर्मितं कुरुतेत्यत्र लवणादेर्यथा योग्यमिलनेन निर्माणं ज्ञेयम् ॥४०॥
सरसरसवती सत्प्रक्रियापण्डितासि त्वम्
इह रसवतीं मे याहि राधे प्रयत्नात।
जननि बलजनन्याधिष्ठितां मिष्टमन्नं
रचय सह तयैव व्यञ्जनान्युत्तमानि ॥४१॥
हे राधे ! हे जननि ! बलजनन्या रोहिण्याधिष्ठितां रसवतां पाकशालां त्वं याहि । इह जगति सरसरसवत्याः सरसपाकस्य सत्प्रक्रियायां पण्डितासि पण्डिता भवसि । अतः मिष्टमन्नं व्यञ्जनानि च यत्नात्रचय ॥४१॥
बटकममृतकेलिं साधयातिप्रयत्नात्
सरसमसृणमन्यं पुत्रि कर्पूरकेलिम् ।
मधुरममृतकोटेर्यत्र कृष्णः सतृष्णस्
त्रिजगति न हि कश्चित्त्वां ऋते यस्य वेत्ता ॥४२॥
अमृतकेल्याख्यं कर्पूरकेल्याख्यं बटकं साधय कुरु । कीदृशं ?
अमृतकोटेर्मधुरम् । मसृणं चिक्कणं कोमलं च । यत्र बटके कृष्णः सतृष्णः यस्य बटकस्य वेत्ता त्रिजगति त्वां ऋते कोऽपि न । यं त्वमेव निर्मातुं जानामि ॥४२॥
यस्यामुच्चैर्लालसाढ्यः सुतो मे
तां पीयूषग्रन्थिपालीं कृत्वा ।
कर्पूरैलाद्यन्विते पानके त्वं
यत्नात्वत्से धेहि पञ्चामृताख्ये ॥४३॥
हे वत्से राधे ! यस्यां पीयूषग्रन्थिपाल्यां मे सुतः लालसाढ्यः स्यात्तां पीयूषग्रन्थिपालीं कृत्वा एलादियुक्तं पञ्चामृताख्ये पानके धेहि क्षिप ॥४३॥
त्वं विधेहि ललितेऽम्ब रसालां
त्वं च षाडवमिहाशु विशाखे ।
त्वं च भोः शिखरिणीं शशिलेखे
पुत्रि चम्पकलते मथितं त्वम् ॥४४॥
हे अम्ब मातः ! ललिते ! त्वं रसानां घनदुग्ध शर्करा कर्पूरादिमिलनात्जाता रसाला इति । हे विशाखे ! त्वं षाडवं पानकम् । हे शशिलेखे ! त्वं शिखरिणीम् । निविडदधिशर्कराकर्पूरादिमिलनात्जातेति शिखरिणीति । हे चम्पकलते ! त्वं मथितं विधेहि ॥४४॥
आमिक्षां त्वं पुत्रि संसाध्य तस्यास्
तत्तद्द्रव्यैर्योगपाकप्रभेदैः ।
तत्तद्भेदान्तुङ्गविद्ये विधेहि त्वं
मत्स्यण्डीपानकान्यम्ब चित्रे ॥४५॥
हे तुङ्गविद्ये ! आमिक्षामुष्णदुग्धे दधियोगात्भवति तां संसाध्य कृत्वा तस्याः आमिक्षायाः तत्तद्द्रव्यैः सह योगेन पाकस्य प्रभेदैः तत्तत्पाकान्नभेदात्विधेहि । हे चित्रे ! हे अम्ब मातः मत्स्यण्डी मिश्रीति ख्यातस्य खण्डविकारस्य पानकानि विधेहि ॥४५॥
त्वं खण्डमण्डानि च रङ्गदेवि
त्वं क्षीरसारान्विविधन्सुदेवि ।
वासन्ति शुभ्रा मृदुफेणिकास्त्वं
त्वं मङ्गले कुण्डलिकां विधेहि ॥४६॥
हे रङ्गदेवि ! खण्डमण्डानि,
हे सुदेवि ! त्वं क्षीरसारान। हे वासन्ति ! शुभ्राः शुक्लवर्णा मृदुफेणिकाः । हे मङ्गले ! त्वं कुण्डलिकां जिलेपीति ख्यातां विधेहि ॥४६॥
कादम्बरि त्वं कुरु चन्द्रकान्तीस्
त्वं लासिके तण्डुलचूर्णपिण्डीः ।
त्वं शष्कुलीः कौमुदिभूरिभेदास्
त्वमिन्दुपिण्डानि मदालसेऽम्ब ॥४७॥
कादम्बरि त्वं कुरु चन्द्रकान्तीस्त्वं लासिके तण्डुलचूर्णपिण्डीः त्वं शष्कुलीः कौमुदिभूरिभेदास्त्वमिन्दुपिण्डानि मदालसेऽम्ब ॥४७॥
शशिमुखि बटकानि त्वं विधेहि प्रयत्नात्
दधिबटकमुखानि प्राज्यमाधुर्यभाञ्जि ।
प्रणय सुमुखि रम्याः शर्करापट्तिकास्त्वं
मणिमति बहुभेदांस्त्वं च पिष्टान्नपूपान॥४८॥
हे शशिमुखि ! त्वं प्राज्यैः प्रचुरैर्माधुर्यैर्युक्तानि दधिबटकानि विधेहि । हे सुमुखि ! रम्याः शर्करायाः पट्तिकाः प्रणय कुरु । हे मणिमति ! बहुभेदान्पिष्टान्नैश्चूर्णान्नैः पूपान्पिष्टकान॥४८॥
विधत्स्व भोः काञ्चनवल्लि वत्से
गोधूमचूर्णोद्भवलड्डुकानि ।
मनोहराख्यानि मनोरमे त्वं
त्वं मौक्तिकाख्यानि च रत्नमाले ॥४९॥
भो वत्से काञ्चनवल्लि ! त्वं गोधूमचूर्णसम्बन्धि सूत्राकारघृतपक्वV
ण् पक्वाख्यानि विधत्स्व कुरु । हे मनोरमे ! त्वं मनोहराख्यानि लड्डुकानि कुरु । हे रत्नमाले ! त्वं मौक्तिकाख्यानि मोतिचूराख्यानि लड्डुकानि कुरु ॥४९॥
सुभृष्टनिस्तुषतिलैर्मोदकान्कुरु माधवि ।
तथा तिलकदम्बाख्यान्सतिलाः खण्डपट्टिकाः ॥५०॥
तिलस्य भेदत्रयं मोदकं कदम्बाख्यं तिलसहितखण्डकृतचतुष्कोणं च ॥५०॥
लाजान्धानांश्च सम्भृष्टान्पृथुकान्घृतभर्जितान।
कृत्वा विन्ध्ये सिताक्वाथैः समुद्गान्कुरु मोदकान॥५१॥
हे विन्ध्ये ! सम्भृष्टान्लाजान्धान्यविकारान्धानान्यवविकारान्पृथुकांश्चिपिटानपि घृतेन भर्जितान्कृत्वा सितायाः खण्डस्य क्वाथैः पाके निपात्य मोदकान्कुरु । कीदृशान्?
समुद्गः सम्पुटं तत्तुल्यान। किं वा,
समुद्गैः मुद्गमोदकैः सह कुरु । तान्मुद्गमोदकानपि कुरु इत्यर्थः ॥५१॥
रम्भे करम्भं कुरु शातकुम्भ
कुण्ड्यां सुरम्भाफलशर्कराद्यैः ।
निष्पीड्य पक्वाम्ररसं मनोज्ञे
सिताघनक्षीरयुतं विधेहि ॥५२॥
हे रम्भे ! शातकुम्भस्य स्वर्णस्य कुण्ड्यां सुकदलीफलशर्कराद्यैः करम्भं कुरु । करम्भो दधिसक्तव इत्यमरः । पक्वाम्रस्य रसं निष्पीड्य मनोज्ञे तं सिताघनक्षीरयुतं विधेहि ॥५२॥
उत्थापितं यत्तु मया मथित्वा
प्रातः सुगन्धा पयसो दधीनि ।
तदिष्टगन्धं नवनीतपिण्डं
हैयङ्गवीनं कुरु भोः किलिम्बे ॥५३॥
हे किलिम्बे ! सुगन्धा पयसो दधीनि मया प्रातर्मथित्वा यन्नवनीतपिण्डमुत्थापितं तत्त्वं हैयङ्गवीनं कुरु । हैयङ्गवीनं ह्योगोदोहोद्भवं घृतमित्यमरः ॥५३॥
स्वयं दुग्ध्वा व्रजेन्द्रेण प्रहितं धवलापयः ।
पानार्थमम्बिके मन्दं त्वमावर्तय वत्सयोः ॥५४॥
हे अम्बिके ! वत्सयोः रामकृष्णयोः पानार्थं धवलापयः मन्दं यथा स्यात्तथा शृतं पक्वं कुरु ॥५४॥
ऋजीषदर्वीनिवहैः परीतां
मृद्दारुकुण्ड्यादिकभाजनैश्च ।
चुल्लीचयाढ्यां मम सिक्तलिप्तां
तद्दुग्धशालां व्रजताशु बालाः ॥५५॥
हे बालाः ! यूयं मम तत्तां दुग्धशालां व्रजत । कीदृशीं ?
ऋजीषं पिष्टपचनमित्यमरः । तस्या दर्वी झाझरा इति प्रसिद्धा सच्छिद्रदर्वीति तासां निवहैः समूहैः परीताम् । मृन्निर्मितदारुनिर्मितकुण्ड्यादिभाजनैः परीतां सिक्तां लिप्तां च चुल्लीचयेनाढ्यां युक्ताम् ॥५५॥
नानोपकरणानि त्वं तानि तानि धनिष्ठिके ।
निष्कास्य तत्तद्भाण्डेभ्यः पात्रेष्वादाय दापय ॥५६॥
हे धनिष्ठिके ! तानि तानि पूर्वोक्तानि नानोपकरणानि तत्तद्भाण्डेभ्यो निष्कास्य बहिष्कृत्य पात्रेष्वादाय दापय ॥५६॥
तत्तत्पदार्थांस्त्वरितं तुलस्या
सहानया रङ्गणमालिके त्वम् ।
आनीय कोषालयतोऽस्मदीयाद्
दासीगणैर्दापय तत्र तत्र ॥५७॥
हे रङ्गणमालिके ! अनया तुलस्या सह अस्मदीयात्कोषालयात्भाण्डारगृहात्दासीगणैः करणैः तत्तत्पदार्थांस्त्वरितमानीय तत्र तत्र दापय ॥५७॥
आम्रातकाम्रफलपूरकरीरधात्री
लिम्पाककोलिरुचकादिफलानि कामम् ।
तैले चिरं सलवणे किल सन्धितानि
मूलान्यथार्द्रकमूखानि च रोचकानि ॥५८॥
आम्रातको गौडे “
आमडा”
इति ख्यातः । आम्रः प्रसिद्धः । आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः इत्यमरः । फलपूरो व्रजे “
बिज्जरा”
आख्यातः । फलपूरो बीजपूर इत्यमरः । करीरो व्रजे “
टेटि”
इति करीलः ख्यातः । धात्री लिम्पाको “
लेम्बु”
इति ख्यातः । कोलिः कर्कन्धूर्बदरी कोलिः इत्यमरः । रुचकादिर्येषां तेषां फलानि अथार्द्रकादीनि मूलानि कामं यथेप्सितं लवणे तैले चिरं चिरकालात्सन्धितानि “
आचार”
इत्याख्यानि । कीदृशानि ?
रोचकानि रुचिकराणि ॥५८॥
मत्स्यण्डिका रसचिरोषितपक्वचिञ्चा
धात्रीरसालबदरी शकलानि तद्वत।
निष्कास्य भोस्त्वमिह मन्थनिकाकुलेभ्यः
कृत्वाननेन्दुमुखि काञ्चनभाजनेषु ॥५९॥
तथा मत्स्यण्डिका मिश्रीति ख्याते रसे चिरोषितानि चिरकालं व्याप्य स्थितानि तिन्तिडी चिञ्चाम्लिका इत्यमरः । पक्वधात्री पक्वाम्रः पक्वबदरी एषां शकलानि खण्डानि मन्थनिकानां भाण्डानां कुलेभ्यः समूहेभ्यः निष्कास्य काञ्चनभाजनेषु कृत्वा,
हे इन्दुमुखि ! त्वमानय ॥५९॥
शन्दे शुभे भरणि पीवरि मिष्टहस्ते
चुल्लीचयोपरि धृतातुलमन्थनीषु ।
दुग्धानि भारिकगणोपहृतानि गोष्ठाद्
वत्साः शनैः श्रपयताशु निधाय यूयम् ॥६०॥
हे शन्दे ! हे शुभे ! हे भरणि ! हे पीवरि ! हे मिष्टहस्ते ! हे वत्साः ! यूयं गोष्ठात्भारिकगणैरानीतानि दुग्धानि चुल्लीसमूहोपरि धृतातुलमन्थनीषु दुग्धपाकपात्रेषु निधाय कृत्वा श्रपयत पचत ॥६०॥
मुद्रिकावापकादीनि भूषणान्युत्तरीयकम् ।
यथार्हमङ्गादुत्तार्य निधय तुलसीकरे ॥६१॥
प्रक्षाल्य पाणिचरणं सलिलैर्धनिष्ठा
दत्तैर्बलस्य जननीमभिवन्द्य मूर्ध्ना ।
प्रेम्ना तया नववधूरिव लाल्यमान
गान्धर्विका रसवतीमथ सा विवेश ॥६२॥
अथ गान्धर्विका राधा रसवतीं विवेश । किं कृत्वा ?
यथायोग्यमङ्गात्मुद्रिका आवापको वलयस्तदादीनि भूषणानि,
उत्तरीयं च उत्तार्य तुलस्याः करे निधय । आवापकः पारिहार्यः कटको वलयोऽस्त्रियामित्यमरः । पाणिचरणं प्रक्षाल्य राममातरं मूर्ध्नाभिवन्द्य,
तया रोहिण्या नववधूरिव लाल्यमाना सती ॥६१६२॥
तत्तत्कर्मणि लग्नासु हर्षोत्फुल्लासु तास्वथ ।
तत्तत्कार्ये स्वतो व्यग्रान्दासानाह व्रजेश्वरी ॥६३॥
व्रजेश्वरी श्रीयशोदा तत्तत्पूर्वोक्तसर्वाणि तासु राधिकादिषु लग्नासु स्वस्वकार्ये स्वतो व्यग्रानपि दासानाह ॥६३॥
सायं कलिन्ददुहितुर्जलभारवाहैर्
आनीय बद्धवदनासु नवासु चेलैः ।
मन्दानिलेन्दूकरशीतलवेदिमध्ये
स्यन्दालिका धृतघटालिषु सम्भृतं यत॥६४॥
कुङ्कुमागुरुहिमांशुपटीरैस्
तत्पयोदसुपयः परिवास्य ।
सिक्तमृष्टशशिकान्तशिलोच्च
स्नानवेदिमभितो नय वत्स ॥६५॥
हे वत्स ! हे पयोद ! सायंकाले यमुनायाः यत्सुपयः जलभारवाहैरानीय मन्दपवनेन तथेन्दुकिरणेन शीतलवेदिमध्ये स्यन्दालिका घटाधारपात्रविशेषः,
तेषु धृतघटालिषु नवासु चेलैर्बद्धवदनासु सम्भृतं यत्तत्सुपयः कुङ्कुमकृष्णागुरुकर्पूरचन्दनैः परिवास्य सुगन्धं कृत्वा आदौ जलसिक्तां पश्चान्मृष्टां मार्जितां चन्द्रकान्तनिर्मितस्नानवेदीमभितश्चतुर्दिक्षु नय ॥६४६५॥
घटकुलेऽगुरुधूमसुधूपिते
त्वमपि पानकृते सुतयोर्मम ।
विचकिलेन्दुलवङ्गपाटलैः
प्रणयवारिद वारि सुवासितम् ॥६६॥
हे वारिद ! त्वमपि सुतयोः पानकृते पानार्थमगुरुधूमेन सुधूपिते सुगन्धिते घटकुले विचकिलं मल्लिकापुष्पमिन्दुः कर्पूरः,
लवङ्गपाटलपुष्पैर्वारि सुवासितं कुरु ॥६६॥
भो नापितात्मज सुबन्धमदीयगेहात्
कल्याणदाख्यभिषजा चिरसाधितं यत।
नारायणाख्यवरतैलमशेषदोष
शोषं सुपुष्टिकरमानय मर्दनार्थम् ॥६७॥
हे सुबन्धाख्य (हे सुगन्धाख्य) ! हे नापितात्मज ! कल्याणदाख्या यस्य तेन भिषजा वैद्येन चिरकालेन साधितं यन्नारायणाख्यवरतैलम् । कीदृशं ?
अनेकदोषनाशकं सुपुष्टिकरं सुतयोर्मर्दनार्थं तदानय ॥६७॥
सुबन्धकर्पूरकनापितौ द्राग्
वत्सौ युवामानयतं सुशीतम् ।
आङ्गीनमुद्वर्तनमिष्टगन्धं
कैश्यं च पिष्टामलकीयकल्कम् ॥६८॥
हे सुबन्धाख्यकर्पूरकाख्यौ नापितौ ! वत्सौ ! युवां सुशीतमाङ्गीनमङ्गेषु हितमिष्टगन्धमुद्वर्तनम् आनयतम् । कैश्यं केशे देयं हितं पिष्टामलकीयकल्कम् आनयतम् ॥६८॥
स्नानीयचीनेन्दुनिभांशुकद्वयं
गाङ्गेयकान्त्युद्गमनीयकं तथा ।
कौशेययुग्मं पटवासवासितं
सारङ्ग भोः सङ्कुचितं कुरु द्रुतम् ॥६९॥
भोः सारङ्ग ! स्नानीयं स्नानयोग्यं चीनं सूक्ष्ममिन्दुनिभं शुक्लवर्णमंशुकद्वयं द्रुतं सङ्कुचितं कुरु । तथा पटवासेन सुगन्धचूर्णेन वासितं कौशेययुग्मं पट्टवस्त्रयुग्मं गाङ्गेयकान्ति स्वर्णवर्णमुद्गमनीयकं स्नानान्तरं परिधेयं धौतवस्त्रयुग्मम् । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगमित्यमरः ॥६९॥
उष्णीषकं कञ्चुकमन्तरीयकं
सतुन्दबन्धं त्विति यन्नवीनम् ।
बालार्कहेमारुणचित्रवर्णं
वासश्चतुष्कं व्रजवेशयोग्यम् ॥७०॥
विखण्डिताखण्डितभूरिवर्णं
स्यूतं च यद्रौचिकसौचिकेन ।
भूयिष्ठमन्यन्नटवेशयोग्यं
सङ्कोच्य तद्वद्बकुलानय त्वम् ॥७१॥
बालार्कवर्णमुष्णीषकं मस्तकबन्धनं वास एकं,
हेमवर्णकञ्चुकं सर्वाङ्गपरिधेयं द्वितीयं,
अरुणवर्णमन्तरीयकमधोवासस्तृतीयं,
चित्रवर्णं तुन्दबन्धं चतुर्थं,
व्रजेऽत्र ग्रामे वेशाय योग्यं नवीनम् । हे बकुल ! त्वमानयेति परेण सम्बन्धः । रौचिकाख्यसौचिकेन सूचिवृत्तिकेन विशेषेण खण्डितमखण्डितं च तत्भूरिवर्णं बहुवर्णं स्यूतं सूत्रद्वारा चातुर्येण निर्मितं भूयिष्ठमन्यच्च नटवद्वेशयोग्यं सङ्कुच्यानय ॥७०७१॥
कस्तूरिकेन्द्वगुरुकुङ्कुमचन्दनाद्यैर्
यत्नाच्चतुःसममुखानि विलेपनानि ।
सम्पाद्य पूरय सुवासविलासगन्धिन्
रत्नावलीखचितमौक्तिकसम्पुटेषु ॥७२॥
कस्तूरिकेन्द्वगुरुकुङ्कुमचन्दनाद्यैर्यत्नाच्चतुःसममुखानि विलेपनानि सम्पाद्य पूरय सुवासविलासगन्धिन्रत्नावलीखचितमौक्तिकसम्पुटेषु ॥७२॥
पिण्ढि गोरोचनां कर्तुं तिलकं तालिकालिके ।
सुचित्र कुरु चित्राय गिरीन्द्रधातुवर्णिकाः ॥७३॥
हे तालिके ! अलिके ललाटे तिलकं कर्तुं गोरोचनां पिण्ढि चूर्णां कुरु । हे सुचित्र ! चित्राय गिरीन्द्रस्य धातोर्गैरिकादेः शुक्लरक्तपीतवर्णादेः पेषणं कृत्वा वर्णिकाः कुरु ॥७३॥
हे पुष्पहास सुमनो मकरन्द यूयं
चाम्पेयपुण्ड्रकसुकाञ्चनयूथिकाद्यैः ।
पुष्पैर्विधाय विविधाः कुरुताशुमालाः
कालागुरुद्रवहिमांशुसुवासितास्ताः ॥७४॥
हे पुष्पहास ! हे सुमनः ! हे मकरन्द ! यूयं चाम्पेयः पुण्ड्रको माधवी,
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता इत्यमरः । स्वर्णयूथिकाद्यैः पुष्पैर्मालाः विधाय विविधाः कृष्णागुरोर्द्रवैः कर्पूरैश्च सुवासिताः कुरुतः ॥७४॥
रत्नावलीखचितहाटकभूषणानि
स्नेहान्मदाग्रहभरेण चिरेण यत्नात।
निष्पाद्य सायमिह काञ्चनकारमुख्यैर्
दत्तानि यानि मम रङ्गणटङ्कनाद्यैः ॥७५॥
रङ्गणटङ्गनाख्याद्यैः काञ्चनकारमुख्यैः स्नेहान्ममाग्रहभरेण रत्नावलीखचितस्वर्णभूषणानि चिरेण यत्नान्निष्पाद्य सायं समयं यानि दत्तानि तानि ॥७५॥
सैरिन्ध्र मालिन्मकरन्द भृङ्गिन्
निष्कास्य कोषालयतो भवद्भिः ।
पुष्येण भानोरमृतेऽद्य वारे
तैरेव वत्सौ मम भूषणीयौ ॥७६॥
हे सैरिन्ध्र ! हे मालिन्! हे मकरन्द ! हे भृङ्गिन्! भवद्भिः निष्कास्य कोषालयात्निष्कास्याद्य पुष्येण नक्षत्रेण सह भानेः सूर्यस्य वारयोगादमृतेऽद्य दिवसे तैर्भूषणैरेव मम वत्सौ विभूषणीयौ ॥७६॥
वत्स शालिक विधेह्यवतंसं
नीलकण्ठनवपिञ्छसमूहैः ।
त्वं च मालिकसितारुणगुञ्जा
पुञ्जकैर्विविधहारसुगुच्छान॥७७॥
हे वत्स शालिक ! नीलकण्ठस्य मयूरस्य नवपिच्छसमूहैरवतंसं शिरोभूषणं विधेहि । हे मालिक ! त्वं श्वेतारुणवर्णगुञ्जासमूहैः विविधहारेण सह सुगुच्छान्विधेहि । पूर्वश्लोकोक्तरत्नालङ्कारं स्वेच्छया मयूरपिच्छकृतं कृष्णेच्छया ॥७७॥
जम्बुल जाम्बूनदकान्तिमिष्ट
ताम्बूलवल्लीदलसञ्चयं त्वम् ।
सुकर्तरी खण्डितहेयभागं
विधेहि चीनांशुकमार्जितं द्राक॥७८॥
हे जम्बुल ! त्वं जाम्बूनदस्य स्वर्णस्येव कान्तिर्यस्य तथाभूतं मिष्टताम्बूलवल्ल्या दलसमूहं सुकर्तर्या काञ्चीति ख्यातया खण्डितो हेयभागस्त्याज्यभागो यस्य तथाभूतं,
चीनांशुकेन सूक्ष्मवस्त्रेण मार्जितं च विधेहि ॥७८॥
धात्रीदलाभखरयन्त्रनिकृत्तनव्य
क्षीरार्द्रपूगफलसूक्ष्मदलानि कामम् ।
निर्माय तानि घनसारसुवासितानि
स्निग्धानि वत्स सुविलास विधेहि तूर्णम् ॥७९॥
हे वत्स सुविलास ! धात्रीदलाभानि धात्र्याः पत्राणीव खरयन्त्रेण निकृत्तानि छिन्नानि नव्यानां क्षीरेण पयसा आर्द्राणां पूगफलानां सूक्ष्मदलानि निर्माय यथेष्टं तानि घनसारेण कर्पूरेण सुवासितानि विधेहि ॥७९॥
वस्त्रशोधितचूर्णैलालवङ्गखदिरादिभिः ।
भो रसालविशालाख्य कुरुतं वीटिकां युवाम् ॥८०॥
भो रसाल ! भो विशालाख्य ! युवां वस्त्रशोधित एलाचलवङ्गखदिरादयस्तैः सह वीटिकां कुरुतम् ॥८०॥
तं कर्मसक्तेष्वथ तेषु माता
सुतागमाध्वार्पितनेत्रयुग्मा ।
इत्याह गोष्ठागतभारवाहान्
कृष्णः किमायाति कथं विलम्बः ॥८१॥
तेषु दासेषु तत्तत्कर्मसक्तेषु सत्सु गोष्ठागतदुग्धभारवाहान्माता इत्याह । किमाह ?
कृष्णः किमायाति ?
तैर्नेत्युक्ते कथं विलम्ब इत्याह ॥८१॥
तामाहुरेके मृदुशादपल्लवान्
नवीनवत्सान्किल चारयत्यसौ ।
अन्ये तदोचुः स हि गोवृषैर्वृषान्
संयोधयन्क्रीडति बालकैर्वृतः ॥८२॥
एके तां यशोदामाहुः,
असौ कृष्णो नवीनवत्सान्मृदुशादपल्लवान्कोमलघासपल्लवान्चारयति । शाद्वलः शादहरिते इत्यमरः । अन्ये गोवृषैर्वृषान्संयोधयन्क्रीडतीत्यूचुः ॥८२॥
अथाह पुत्रानयनोत्सुकोत्सुकं
सा रक्तकं शक्तममुष्य सेवने ।
त्वं वत्स गत्वा मधुमङ्गलं बलं
तं चञ्चलं चानय मत्सुतं द्रुतम् ॥८३॥
पुत्रानयने उत्सुका सा अमुष्य कृष्णस्य सेवने शक्तमुत्सुकं च रक्तकाख्यं दासमाह—
हे वत्स ! त्वं गत्वा मधुमङ्गलं बलदेवं चञ्चलं तं कृष्णं चानय ॥८३॥
प्रहित्य तं साथ महानसं गता
किं किं त्वया साधितमेतया सह ।
सर्वं तदेतन्मम तेमनादिकं
सन्दर्शयेत्याह बलस्य मातरम् ॥८४॥
अथ सा यशोदा महानसं रन्धनशालां गत्वा अनया रूप्३ सह किं किं तेमनादिकं त्वया साधितमेतत्तत्सर्वं मम मां सन्दर्शयेति रोहिणीमाह । तत्र द्वितीयायां षष्ठी ॥८४॥
तामाह सम्मार्जितवेदिकान्तरे
नवीनमृद्भाजनपङ्क्तिसम्भृतम् ।
सा दर्शयन्ती कृततेमनादिकं
राधां प्रशंसन्त्यथ तां च रोहिणी ॥८५॥
सा रोहिणी तां रूप्२ प्रशंसन्ती तथा सम्मार्जितवेदिकामध्ये नवीनमृत्तिकाभाजनपङ्क्तिषु सम्भृतं सम्यग्धृतं कृततेमनादिकं दर्शयन्ती तां यशोदामाह ॥८५॥
सुमधुरं शशितोऽपि सुसंस्कृतं
निपुणया पचने मृदु राधया ।
प्रवरमन्थनिकासु सुसम्भृतं
सुमुखि पश्य पुरः सखि पायसाम् ॥८६॥
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः [भा.पु. १०.२४.२६] इत्यादिभागवतोक्तरीत्यादौ कृतं पायसं दर्शयन्ती आह—
हे सुमुखि ! हे सखि ! पचने निपुणया मृदु राधया शिशितोऽपि सुमधुरं शुभांशे च शीतलपायसस्य माधुर्याधिक्यात्सुसंस्कृतं च प्रवरमन्थनिकासु बृहन्मृद्भाण्डेषु सुसम्भृतं पायसं
पश्य । मृत्पात्रे धृतस्य वस्तुनः आशु रसान्तरानुत्पादनात॥८६॥
बलपुष्टिकरं हृद्यं मधुरं मृदुलं सति ।
मन्थनी सम्भृतं पश्य संयावं च मया कृतम् ॥८७॥
संयावं दुग्धपक्वगोधूमचूर्णं सखण्डसुगन्धिद्रव्यसहितम् ॥८७॥
रम्भासीरिक्षीरसारशष्कुलीर्विविधाः सखि ।
पश्य पिष्टविकारांश्च नानाभेदान्सुसम्स्कृतान॥८८॥
रम्भा कदली । सीरी नारिकेलः । क्षीरसारः एतैर्बहुविधाः शष्कुलीः गोधूमचूर्णसुसंस्कृतान्नानाभेदान्पिष्टविकारांश्च । “
पश्य सीरीशस्य क्षीरसारेण शष्कुलीर्विविधाः पराः”
इत्यपि पाठः ॥८८॥
पीयूषग्रन्थिकर्पूरकेलिकामृतकेलिकाः ।
अनया संस्कृताः पश्य यद्विधिर्मे न गोचरः ॥८९॥
अनया संस्कृताः पीयूषग्रन्थिकर्पूरकेल्यमृतकेलिकाः पश्य यस्य विधिर्मम न गोचरः ॥८९॥
केवलो मथितक्लिन्नो मौद्गोऽयं बटको द्विधा ।
सितालवणसंयोगान्मासीयोऽपि द्विधा कृतः ॥९०॥
सितासंयोगात्केवलः । लवणसंयोगान्मथिते तक्रे क्लिन्ने मग्नश्च एवं मुद्गनिर्मितबटको द्विधा मासस्यापि द्विधा मिलित्वा चतुर्विधः ॥९०॥
चिञ्चाम्रातकचुक्राम्रैस्तत्तद्द्रव्यादियोगतः ।
ईषन्मधुरगाढाम्लभेदादम्लो द्विषड्विधा ॥९१॥
चिञ्चा तिन्तिडी आम्रातकः गौडे आमडेति चुक्रः चुक्राख्यः शाकविशेषः ।
चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका ।
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ॥ इत्यमरः ।
आम्र इति चतुर्विधः स्वतः । द्रव्यादियोगात्तत्तत्त्विञ्चादयः । ईषन्मधुरः सिताया अल्पमिलनात। अतोऽधिकसितादिमिलनात्गाढमधुरो भवतीति । एवमग्रेऽपि आदिशब्दानाद्बोध्यम् । यद्वा,
तत्तद्द्रव्यं मुद्गमासबटकस्तस्य योगाच्चतुर्विधः । द्रव्ययोगाच्चतुर्विधानामेव । ईषन्मधुरगाढमधुरभेदाद्भेदाष्टकं मिलित्वा द्वादशविधोऽम्लः ॥९१॥
बद्धरम्भानव्यगर्भतन्नव्यमुकुलांशयोः ।
मानकन्दाम्बुकच्वीनां मुखांशस्यालुकस्य च ॥९२॥
बद्धरम्भा रम्भाफलस्य कदलीफलस्य निर्गमसमये मुखं बद्ध्वा गर्भमध्ये अतिपुष्णाति । कोमलस्य नव्यमुकुलनव्यांशयोः,
गौडे मोचाथोडाख्या,
तयोः । तथा मानः,
गौडे मानकचुख्यातः कन्दः साकरकन्दः । अम्बुकच्वी,
गौडे पानिकचुप्रसिद्धानां मध्ये ये मुख्या मुखास्तेषामंशस्य खण्डस्य । यद्वा,
मुखांशस्य,
न तु पश्चाद्भागस्य आलुकस्य,
गौडे आलु इति ख्यातस्य ॥९२॥
कुष्माण्डडिण्डिशानां च चक्राभखण्डजालकम् ।
चणकक्षोदपङ्काक्तं घृतभृष्टं पृथक्पृथक॥९३॥
कुष्माण्डः,
गौडे कुमुराख्यः । डिण्डिशः,
गौडे डिङ्गिलाख्यः सूर्यकुमुडा इति ख्यातः । एतेषां चक्राकारखण्डसमूहं चणकद्विदलचूर्णपङ्केनाक्तं व्याप्तं घृतेन भृष्टं पृथक्पृथक्पश्य ॥९३॥
चणकक्षोदबटकान्याज्यभृष्टानि केवलम् ।
अपराण्यम्लसत्तक्रक्वाथक्लिन्नानि लोकय ॥९४॥
व्रजे पाकडाख्यानि चणकबटकान्य्घृतभृष्टानि केवलं द्रव्यान्तरायोगात्द्रव्यान्तरमिलनेनाह । आम्लसत्तक्रक्वाथयोर्मिलनात्क्लिन्नान्यपराणि बटकानि पश्य ॥९४॥
चणकक्षोदपिण्डानां स्विन्नानां क्वतिथाम्भसि ।
खण्डानि द्रव्यपाकादिभेदान्नानाविधानि च ॥९५॥
क्वतिथाम्भसि अत्युष्णोदके स्विन्नानां चणकचूर्णपिण्डानां खण्डानि द्रव्यपाकादीनां भेदान्नानाविधानि ॥९५॥
बटिका फलमूलानां पृथक्संयोगभेदतः ।
त्रिजातमरिचाद्यैस्तु प्रकारान्बहुधा कृतान॥९६॥
त्रिजातमरिचाद्यैः करणैः बटिका फलमूलानां पृथक्संयोगभेदात्बहुधा कृतानेकद्रव्यस्य बहुप्रकारान्त्रिजातेति तेजपत्ररसवासगुडत्वकिति । केचित्जायफलदारुचिनीजायत्रीति वदन्ति ॥९६॥
कर्कारुज्योत्स्निकालाबुफलान्यालि पृथक्पृथक।
राजिका दधियोगेन संस्कृतान्यनया शुभे ॥९७॥
कर्कारु कुष्माण्डः । कूष्माण्डकस्तु कर्कारुरुरित्यमरः । ज्योत्स्निका गौडे झिङ्गा इति प्रसिद्धा । ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका इत्यमरः । अलाबुर्गौडे लाउ इति । घिया इत्यादीनि च फलानि राजिका राइ इत्याख्या क्षुद्रसर्षपभेदः । दधियोगेन अनया संस्कृतानि व्रजे रायता इत्याख्यानि । क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी इत्यमरः ॥९७॥
वत्सेप्सितप्रसूनानि घृतभृष्टानि केवलम् ।
घृतभृष्टा दधिक्लिन्नाः कलिकाः कोविदारजाः ॥९८॥
केवलं घृतेन भृष्टानि वत्सेप्सितानि । वत्सः कृष्णस्तस्य ईप्सितानि प्रसूनानि व्रजे वचसीत्याख्यानि केचित्बकपुष्पाणि । केचिद्वारजाः काञ्चनपुष्पकलिका दधिक्लिन्नाः । कोविदार्कोविदारे चमरिकः कुद्दालो युगपत्रकः इत्यमरः ॥९८॥
घृतभृष्टा दधिक्लिन्नाः प्रसूनबटिका द्विधा ।
पटोलस्य फलान्याज्यभृष्टानि रुचिदान्यलम् ॥९९॥
आज्येन घृतेन भृष्टानि पटोलफलानि ॥९९॥
वृद्धकुष्माण्डबटिकाः कच्वीमानालुकन्दकैः ।
तिक्तनालीतचूर्णाढ्याश्चविकाढ्याः पराः कृताः ॥१००॥
कच्वी गौडे “
कचु”
इत्याख्या । मानो “
मानकचु”
इत्याख्या । आलुः कन्दकः “
साकरकन्द्”
आख्याः,
एतैः सह वृद्धकुष्माण्डबटिकाः कृताः । एतेषां मध्ये केचित्तिक्तनालीतचूर्णैराढ्याः कृताः । केचिच्चविका गौडे “
चै”
इत्याख्यत्याढ्याः कृताः ॥१००॥
सितैलामरिचैर्योगाद्दुग्धतुम्बी कृतानया ।
तद्योगादपरं मिष्टं क्षीरकुष्माण्डनामकम् ॥१०१॥
सिताखण्डः,
एला एलाचाख्यः मरिचैश्च योगात्दुग्धेन सह तुम्बी अनया कृता । तद्योगात्सितैला मरिचैर्योगात्क्षीरेण सह कुष्माण्डस्य पाकात॥१०१॥
दधिशूरणकं मिष्टं धात्रीशूरणकं परम् ।
दध्नैकं भर्जितं चान्यत्कारबिल्वफलं द्विधा ॥१०२॥
दधिशूरणकं गौडे “
ओल”
इत्याख्यं मिष्टं सितादियोगेन । धात्रीफलेन सह परं शूरणकं दध्नैकमन्यत्घृतेन भर्जितम् । कारबिल्वफलं “
कथबेल”
आख्यं फलं द्विधा सितायोगेन एकं दधियोगेनापरं पूर्ववत्दृष्टा ज्ञेयम् । केचित्तु कारबिल्वफलं “
करला”
इति ख्यातं क्षुद्रबृहद्भेदेन द्विधा भर्जितमित्याहुः ॥१०२॥
मृदुरम्भागर्भखण्डवृद्धकुष्माण्डखण्डयोः ।
सितादधियुतः पाको मधुराम्लः सुशीतलः ॥१०३॥
मृदुरम्भागर्भं गौडे “
गर्भथोड”
आख्यस्य खण्डवृद्धकुष्माण्डखण्डयोः
सितादधियुतः पाको मधुराम्लः ॥१०३॥
नालीतमेथीशतपुष्पिकामिशी
पटोलवास्तूकवितुन्नमारिषाः ।
प्रकारसंयोगविभेदतोऽनया
शाकाः सुधागर्वहृतः सुसंस्कृताः ॥१०४॥
नालीतः गौडे नालिताख्यः । मेथी प्रसिद्धः । शतपुष्पिका गौडे “
शलुफा”
आख्यः । शतपुष्पा सितच्छत्रा इत्यमरः । मिशी गौडे “
महुरो”
इत्याख्यः । पटोलः “
पटल”
आख्यः । वास्तूकः गौडे “
बथुआ”
इत्याख्यः । वितुन्नमारिषाः प्रकारसंयोगविभेदतोऽनया शाकाः सुधागर्वहृतः सुसंस्कृताः ॥१०४॥
कलम्बीपक्वचिञ्चाया रसपक्वा रुचिप्रदा ।
कृष्णनालीतशाकोऽयमामाम्रफलयुक्शुभः ॥१०५॥
पक्वचिञ्चा पक्वचिन्तडी,
तस्या रसेन पक्वा । कलम्बी “
कमली”
इत्याख्या रुचिप्रदाख्या वा कृता । कृष्णनालीतशाकः आमाम्रः अपक्वाम्रफलेन युतः शुभाख्यः शुभरूपो वा ॥१०५॥
मुकुष्टकस्य मुद्गस्य मासस्याप्यधुना मया ।
त्रिविधोऽयं सुधाकूपनिभः सूपो विपाच्यते ॥१०६॥
मुकुष्टकस्य व्रजे मोटाख्यस्य,
मकुष्ठकमयुष्ठकौ वनमुद्गे इत्यमरः । मुद्गस्य मासस्य द्विदलपाकेन सूपः सुधाकूपतुल्यस्त्रिविधोऽयं मया विपाच्यते । मासस्य चणकस्य च चतुर्विधः सुधाकूपनिभ इति पाठान्तरः ॥१०६॥
पङ्कैः सुमनचूर्णानां दासीभिर्भृशमर्दितैः ।
पूर्णेन्दुमण्डलाकाराः क्रियन्ते रोटिका मया ॥१०७॥
सुमनचूर्णानां गोधूमचूर्णानां पङ्कैर्दासीभिर्भृशमर्दितैर्मर्दनाधिक्येन रोटिकाः कोमलादिगुणयुता भवन्ति । पूर्णचन्द्रमण्डलाकारा इत्यनेन शुक्लसुवर्तुलाकार इत्यनेनाह्लादजनकत्वादिकं रोटिका मया क्रियन्ते । गोधूमः सुमनः समौ इत्यमरः ॥१०७॥
क्षालिताश्चीनचेलेषु निबद्धास्तण्डूला इमे ।
आगते गोष्ठतः कृष्णे पाच्या मे क्वथिताम्भसि ॥१०८॥
इमे तण्डूला आदौ क्षालिताः पश्चाच्चीनचेलेषु सूक्ष्मवस्त्रेषु बद्धाः कृष्णे गोष्ठादागते सति क्वथिताम्भसि उष्णतोये क्षिप्त्वा मया पाच्या ॥१०८॥
कृतानि क्रियमाणानि कर्तव्यानि तु कानिचित।
इत्यन्नव्यञ्जनानि त्वं संसिद्धानि प्रतीहि नौ ॥१०९॥
अन्नव्यञ्जनानि सिद्धानि नौ आवाभ्यामित्यनेनात्र विलम्बो नास्तीति प्रतीहि ॥१०९॥
सौरभ्यसद्वर्णमनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव ।
जिज्ञासमानामथ तद्विधानं
तां रोहिणी विस्मयपूर्वमाह ॥११०॥
तत्सर्वं सौरभ्यसद्वर्णमनोहरं च सा वीक्ष्य मुदिताभूत। तद्विधानं केन प्रकारेण एतादृशं सौरभ्यादिकं जातमिति जिज्ञासमानां तां यशोदां रोहिण्याह ॥११०॥
सामग्री सैव सामान्या पाकस्य प्रक्रियाप्यसौ ।
किन्त्वपूर्वगुणे हेतुर्गान्धर्वा हस्तसौष्ठवम् ॥१११॥
असौ पाकसामग्री पाकक्रिया च सामान्या सर्वसाधारण्येव,
न त्वतिचमत्कारिणी । तथाप्यत्र सौरभ्याद्यसाधारणगुणे राधिका हस्तसौष्ठवं हेतुः ॥१११॥
सा तां राधामन्नसंस्कारसक्तां
प्रस्विद्यन्तीं लज्जया नम्रवक्त्राम् ।
दृष्ट्वा राज्ञी स्नेहविक्लिन्नचित्ता
दासीमस्या वीजनायादिदेश ॥११२॥
स्वगुणशास्त्रेन स्वभावतश्च नम्रवक्त्रामन्नस्य संस्कारे राधां प्रस्विद्यन्तीं दृष्ट्वा सा राज्ञी यशोदा स्नेहविक्लिन्नचित्ता अस्या वीजनाय एतां वीजितुं दासीमादिदेश ॥११२॥
ततो गता दुग्धगृहं व्रजेश्वरी
तत्रापि ताभिः परिसंस्कृतान्यसौ ।
सर्वाणि भक्ष्याणि विलोक्य नन्दिता
सुतागमोत्का लघु गोपुरं ययौ ॥११३॥
तदनन्तरमसौ व्रजेश्वरी दुग्धगृहं गता तत्रापि ताभिस्तत्पाककर्तृभिः परिसंस्कृतानि सर्वाणि भक्ष्याणि दृष्ट्वा नन्दिता सा कृष्णागमे उत्कण्ठिता सती लब्धनतिविस्तीर्णं गोपुरम् । यद्वा,
लघु शीघ्रं यथा स्यात्तथा गोपुरं पुरद्वारं ययौ । पुरद्वारं तु गोपुरमित्यमरः ॥११३॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टवरजे गोविन्दलीलामृते
सर्गः कल्यविलासवर्णनमयः सोऽयं तृतीयो गतः ॥ओ॥
इति श्रीगोविन्दलीलामृते सदानन्दविधायिन्यां
प्रातःकालविलासवर्णनमयस्तृतीयः सर्गः
॥३॥
.
(
४)
चतुर्थः सर्गः
अथ व्रजेन्द्रेण कृताग्रहोत्करैः
कृष्णः स्वगोष्ठात्प्रहितो निजोन्मुखीम् ।
स्तन्याश्रुविक्लिन्नपयोधराम्बराम्
अम्बां मिलन्तीं पुरतो ददर्श सः ॥१॥
अथानन्तरं व्रजेन्द्रेण नन्देन कृतैराग्रहोत्करैः स्वगोष्ठात्प्रहितः कृष्णः निजोन्मुखीं विलोकनोत्कण्ठया पुरद्वारात्पश्यन्तीं स्तनदुग्धेनाश्रुजलेन च क्लिन्नानि पयोधराम्बरां च यस्यास्तां पुरतो मिलन्तीमम्बां मातरं ददर्श ॥१॥
एह्येहि वत्स क्षुधितोऽपि शीघ्रं
नायासि गेहं किमु मां दुनोषि ।
राद्धं यदन्नादिकमप्यतीव
यत्नेन तच्छीतलतां प्रयाति ॥२॥
एह्येहीत्यादरे हे वत्सेति वात्सल्ये । क्षुधितोऽपि शीघ्रं गेहं नायासि किमु ?
किं मां दुनोषीति च वात्सल्यपोषकोऽयं खेदः । अतीवयत्नेन यदन्नादिकं राद्धं संसिद्धं तदन्नादिकम् ॥२॥
इतीरयित्वा तनयं तदङ्गं
सम्मार्जयन्ती करपल्लवेन ।
सा तद्वयस्यान्स्वगृहायनोत्कान्
अभाषत स्नेहविपाकदिग्धा ॥३॥
इति तनयं कृष्णमीरयित्वा उक्त्वा करेण तदङ्गं सम्मार्जयन्ती स्वगृहगमनोत्काण्ठितान्कृष्णवयस्यान्स्नेहस्य परिपाकेन दिग्धा युक्ता अभाषत ॥३॥
विना भवद्भिः प्रचुरं न भुङ्क्ते
द्राक्सङ्गमार्थं भवतां समुत्कः ।
यच्चञ्चलोऽयं तदनेन वत्साः
जग्धिः सदेष्टा मम मन्दिरे वः ॥४॥
यद्यस्मादयं चञ्चलः कृष्णः भवतां द्राक्शीघ्रं मङ्गलार्थं समुत्कः यचोऽयं तदनेन वत्साः जग्धिः सदेष्टा मम मन्दिरे वः ॥४॥
तद्यात स्वगृहान्पुत्राः स्नात्वा भूषणभूषिताः ।
क्षुधार्ताः स्थ द्रुतं भोक्तुमागच्छत ममालयम् ॥५॥
उक्तार्थं स्पष्टमाह—
क्षुधार्ता यूयमपि स्वस्वगृहे स्नात्वा भूषिता ममालयं
भोक्तुमागच्छत ॥५॥
गतेषु तेषु हृष्टेषु सराममधुमङ्गलम् ।
सुतमादाय निलयं ययौ व्रजकुलेश्वरी ॥६॥
तेषु बालकेषु गतेषु यशोदा राममधुमङ्गलसहितं कृष्णमादाय स्वगृहं ययौ ॥६॥
तृषितदृगतिशुष्यच्चातकीर्वल्लबीनां
निजमधुरिमधारा सारवर्षैर्निषिञ्चन।
निजनयनचकोरौ पाययंस्तन्मुखेन्दु
द्युतिमधुरसुधां स्वं गेहमायान्मुकुन्दः ॥७॥
तृषितदृगतिशुष्यच्चातकीर्वल्लबीनां निजमधुरिमधारा सारवर्षैर्निषिञ्चन।
निजनयनचकोरौ पाययंस्तन्मुखेन्दुद्युतिमधुरसुधां स्वं गेहमायान्मुकुन्दः ॥७॥
तमागतं स्नापनवेदिकान्तरं
भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीननवीनमंशुकं
सारङ्गनामा लघु पर्यधापयत॥८॥
सारङ्गनामा भृत्यः स्नापनवेदिकान्तरं मध्यमागतं तं दृष्ट्वा तस्य तनोः शरीरात्विभूषणमुत्तार्य नवीनसूक्ष्मसुकुञ्चितं वसनं लघु क्षिप्रं क्षुद्रं वा पर्यधापयत॥८॥
तत्रोपविष्टस्य सुखं वरासने
प्रक्षाल्य पत्री चरणाम्बुजे प्रभोः ।
गन्धाम्भसा पत्रकपाणिविस्फुरद्
भृङ्गारमुक्तेन ममार्ज वाससा ॥९॥
पत्रीनामा भृत्यः तत्र स्नानवेदिकायां वरासने सुखमुपविष्टस्य प्रभोश्चरणाम्बुजे पत्रकनामा भृत्यस्तस्य पाणौ विस्फुरद्भृङ्गारात्जलधारात्मुक्तेन गन्धाम्भसा प्रक्षाल्य वाससा ममार्ज ॥९॥
अभ्यज्य नारायणतैललेपैः
प्रत्यङ्गनानामृदुबन्धपूर्वम् ।
सुबन्धनामा क्षुरिसूनुरस्य
प्रेम्णाङ्गसंमर्दनमाततान ॥१०॥
सुबन्धनामा क्षुरिसूनुर्नापितपुत्रः नारायणतैलसमूहैरस्य .शृङ्खलस्य प्रत्यङ्गमङ्गमङ्गं प्रतिनानामृदुबन्धपूर्वं नानाविधतैलमर्दनप्रकारपूर्वमभ्यज्य प्रेम्णा अङ्गस्य मर्दनमाततान ॥१०॥
उद्वर्तनेनास्य मुदा सुगन्धः
शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीतपिण्डाद्
उद्वर्तयामास शनैस्तदङ्गम् ॥११॥
मुग्धः सुन्दरः सुगन्धनामा भृत्यः नवनीतपिण्डात्स्निग्धेन कोमलेन च शीतेन शीतलेन पीतेन पीतवर्णेन पीताख्येन वा,
उद्वर्तनेन सतीलपीतेनेति वा पाठः । तस्य निसर्गशीतं स्वभावशीतलं तदङ्गमुद्वर्तयामास ॥११॥
धात्रीफलार्द्रकल्केन केशान्शीतसुगन्धिना ।
स्निग्धः स्निग्धेन सुस्निग्धान्कर्पूरोऽपि समस्करोत॥१२॥
स्निग्धः स्निग्धनामा कर्पूरः कर्पूरनामा च भृत्यः स्निग्धेन (भावे क्तः) स्नेहेन शीतसुगन्धिना धात्रीफलार्द्रकल्केन स्निग्धान्केशान्समस्करोत॥१२॥
प्रक्षालयन्शीतलवारिधारया
शनैस्तदङ्गानि पयोददत्तया ।
स्वभावशीतोज्ज्वलकोमलान्यलं
चीनांशुकेनात्र ममार्ज रक्तकः ॥१३॥
रक्तकोऽत्र समये वेदिकायां वा पयोदनाम्ना दत्तया शीतलवारिधारया स्वभावत एव शीतलोज्ज्वलकोमलानि तदङ्गानि प्रक्षालयन्चीनांशुकेन सूक्ष्मवस्त्रेण ममार्ज ॥१३॥
मन्दपक्वपरिवासितकुम्भ
श्रेणिसम्भृतजलैरथ दासाः ।
शतकुम्भघटिकात्तविमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥१४॥
अथानन्तरं दासाः आदौ मन्दपक्वासु पश्चात्परिवासितकुम्भश्रेणिषु सम्भृतैः सम्यक्धृतजलैः,
कीदृशैः ?
पश्चात्शातकुम्भं सुवर्णं तस्य घटिकासु क्षुद्रघटेषु आत्तैर्गृहीतैर्–
मुक्तैस्त्यक्तैः स्वेश्वरं कृष्णं स्नपयन्ति ॥१४॥
तच्छ्रीमदङ्गं मृदुचीनवाससा
सम्मार्ज्य केशनपतोयबिन्दुकान।
कृत्वा च प्रत्युद्गमनीयमंशुकं
पत्री हिरण्यद्युति पर्यधापयत॥१५॥
पत्री श्रीमदङ्गं मृदु सूक्ष्मवाससा सम्मार्ज्य,
अपगताः तोयबिन्दवो यस्मात्तथाभूतान्केशन्कृत्वा च प्रत्युद्गमनीयं वस्त्रं धौतवस्त्रयुग्मं पीतं पर्यधापयत्,
तत्तस्मादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥१५॥
तत्रोपविष्टस्य सुमृष्टवेदिका
विन्यस्तपीठेऽगुरुधूमवासितैः ।
जूटं कचै कङ्कतिकाविशोधितैर्
विधाय दाम्ना कुमुदोऽप्यवेष्टयेत॥१६॥
कुमुदः कुमुदनामा दासोऽपि मार्जितवेदिकायां विन्यस्तपीठे उपविष्टस्य श्रीकृष्णस्यादौ अगुरुधूपवासितैः पश्चात्कङ्कतिकाविशोधितैः कचैर्जूटमेकत्रीकृतं विधाय दाम्ना अवेष्टयेत॥१६॥
विधाय गोरोचनयास्य भाले
तमालपत्रं मृगनाभिमध्यम् ।
शृङ्गारकारी मकरन्दनामा
लिलेप गात्रानि चतुःसमेन ॥१७॥
मकरन्दनामा शृङ्गारकारी वेशकर्ता अस्य भाले ललाटे गोरोचनया कस्तूरीमध्यं तमालपत्रं तिलकं विधाय चतुःसमेन कस्तूरीकर्पूरागुरुकुङ्कुमेन गात्रानि लिलेप ॥१७॥
तस्य श्रीमद्भुजयुगलयोः कङ्कणे चङ्कनाख्ये
हैमे भ्राजन्मकरवदने कर्णयोः कुण्डले द्वे ।
मञ्जीरौ श्रीचरणयुगले हंसहारिप्रणादौ हारं
तारामणिमथ हृदि प्रेमकन्दो युयोज ॥१८॥
तस्य भुजयुगलयोः हैमे च चङ्कनाख्ये कङ्कणे,
कर्णयोः मकर इव वदने ययोस्तादृशे द्वे कुण्डले । श्रीचरणयुगले हंसादपि मनोहरौ प्रणादौ ययोस्तौ मञ्जीरौ । हृदि तारावत्प्रकाशबहुलो मणिर्यत्र तादृशं हारं मुक्तामालां प्रेमकन्दाख्यो युयोज ॥१८॥
तत्र तत्र सुतं माता पश्यन्ती प्रेमविह्वला ।
त्वरयन्ती कृतौ दासान्स्वयं च विदधे क्रियाम् ॥१९॥
यत्र यत्र स्थले पुरा तैलमार्दनादौ प्रेरिताः दासास्तत्र तत्र स्थले प्रेमविक्लवा माता सुतं सुतं पश्यन्ती दासान्कृतौ तत्तत्कर्मणि त्वरयन्ती स्वयं च क्रियां तैलमर्दनरूपां विदधे ॥१९॥
स्नातानुलिप्तादृतभूषिताभ्यां
श्रीमद्बलश्रीमधुमङ्गलाभ्याम् ।
तथाविधैस्तत्र तदैव लब्धैः
समं वयस्यैर्विरराज कृष्णः ॥२०॥
तथा श्रीकृष्णवत्स्नातानुलिप्तादृतभूषिताभ्यां श्रीबलदेवमधुमङ्गलाभ्यां तदैव लब्धैः प्राप्तैरागतैर्वयस्यैश्च समं तत्र श्रीकृष्णो विरराज ॥२०॥
तोयार्द्रकञ्चुकसुवेष्टिततोयपूर्ण
भृङ्गारपालिविमलासनपङ्क्तियुक्ताम् ।
संसिक्तमृष्टवरधूपविधूपितां तान्
वेदीं निनाय किल भोजयितुं तदाम्बा ॥२१॥
अम्बा माता तदा तान्श्रीरामकृष्णादीन्भोजनवेदीं निनाय । वेदीं कीदृशीं ?
तोयेनार्द्रैः कञ्चुकैः आवरकवस्त्रैः सुवेष्टिततोयपूर्णभृङ्गारपालिभिः जलाधारपात्रसमूहैः सह विमलासनपङ्क्तिभिर्युक्ताम् । आदौ संसिक्ता क्षालिता पश्चान्मार्जिता च सा वरधूपेन विधूपिता सुवासिता च ताम् ॥२१॥
श्रीदामसुबलौ वामे पुरोऽस्य मधुमङ्गलः ।
दक्षिणे श्रीबलश्चान्ये परितः समुपाविशन॥२२॥
अस्य श्रीकृष्णस्य वामे श्रीदामसुबलौ पुरोऽग्रे मधुमङ्गलः,
दक्षिणे बलदेवः,
अन्ये परितः । एषां वामदक्षिणपार्श्वे परितश्चतुर्दिक्षु इति व्याख्यायां पुलिने भोजनस्थले इव तेषां श्रीकृष्णाभिमुखत्वं बोध्यम् । उभयपङ्क्तेः पार्श्वद्वये वा ॥२२॥
तेषूपविष्टेष्वथ पानकानि
स्वर्णेषु पात्रेषु सुसम्भृतानि ।
पानाय चित्रोपहृतानि माता
पुत्राय तेभ्यश्च ददौ क्रमेण ॥२३॥
तेषु रामकृष्णादिषु उपविष्टेषु माता पुत्रायेति पुत्राभ्यामित्युक्तौ तयोरभेदादेकवचनान्तः,
अर्थात्पुत्राभ्यां रामकृष्णाभ्यां तेभ्यः सखिभ्यश्च क्रमेण पानकानि नारिकेलजलसर्वोत्तमेक्षुरसविकारजातादीनि पानाय ददौ ॥२३॥
स्वस्वसंस्कृतमिष्टान्नं प्रातराशोपयोगि यत।
उपजह्रुस्तयाहूता मात्रे गोप्यो मुदान्विताः ॥२४॥
तया यशोदया आहूता गोपः स्वस्वकृतपक्वान्नं मिष्टान्नमिति वा पाठः । प्रातर्भोजनोपयोगि यत्पक्वान्नं तन्मात्रे तस्यै यशोदादै उपजह्रुर्ददुः ॥२४॥
श्रीराधया यत्नत एव गेहाद्
आनीतखण्डोद्भवलड्डुकानि ।
गङ्गाजलाख्यान्यथ रङ्गदेवी
तदिङ्गितेनोपजहार मात्रे ॥२५॥
राधया गेहात्स्वगृहादानीतखण्डलड्डुकानि तस्या राधाया इङ्गितेन रङ्गदेवी मात्रे उपजहार ॥२५॥
तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ ।
प्रकीर्णस्वर्णपात्रेषु विनिधाय पृथक्पृथक॥२६॥
माता तानि मिष्टान्नानि विस्तृतस्वर्णपात्रेषु पृथक्पृथक्विभज्य विनिधाय बलदेवादिभ्यो ददौ ॥२६॥
आस्वादयन्तं घृतपक्वमन्नं
सुनर्मभिस्तानपि हासयन्तम् ।
आलोकयन्तं नयनाञ्चलेन
राधाननं तं ददृशुर्मुदाल्यः ॥२७॥
आल्यः सख्यः तं श्रीकृष्णं मुदा ददृशुः । कीदृशं तं ?
घृतपक्वमन्नमास्वादयन्तं सुनर्मभिस्तान्सखीन्हासयन्तम्,
नयनाञ्चलेन राधाननमालोकयन्तम् ॥२७॥
अदो भद्रमिदं मिष्टमेतत्स्निग्धं सुचारु तत।
तर्जन्या दर्शयन्त्यम्बा भुङ्क्स्व वत्सेत्यभाषत ॥२८॥
तदा तर्जन्या दर्शयन्ती अभाषत । किमभाषत ?
अदोऽग्रे स्थितं पद्वान्नं भद्रं हे वत्स ! त्वं भुङ्क्स्व इति,
इदमन्नमिष्टमित्यादि ॥२८॥
यद्यदिष्टं भवेद्यस्य ज्ञात्वा ज्ञात्वा हसन्हरिः ।
तस्मै तस्मै ददौ तत्तत्स्वपात्रात्प्रक्षिपन्मुहुः ॥२९॥
हरिर्यस्य बालकस्य यद्यदन्नमिष्टं वाञ्छितं भवति,
तत्तत्तस्मै तस्मै स्वपात्रात्मुहुर्हसन्प्रक्षिपन्ददौ ॥२९॥
वीक्ष्य यत्नान्वितामम्बां मन्दमश्नन्तमच्युतम् ।
परिहासपटुस्तस्मिन्व्रजेशामवदद्बटुः ॥३०॥
मन्दभोजिनं कृष्णं वीक्ष्य यत्नान्वितां मातरं च वीक्ष्य तस्मिन्कृष्णे परिहासपटुर्बटुः व्रजेशामाह ॥३०॥
अयं चेद्भूरि नात्त्यम्ब देहि मे सर्वमद्म्यसौ ।
मयैवालिङ्गितः पुष्टो भविता भूरिभोजिना ॥३१॥
अयं श्रीकृष्णश्चेद्भूरि नात्ति,
मे मह्यं देहि,
सर्वमहमद्मि,
भूरिभोजिना मया आलिङ्गितोऽसौ कृष्णः पुष्टो भविष्यतीति हास्यपटुत्वमस्य ॥३१॥
नास्य मन्दरुचेः शक्तिर्घृतपक्वान्नभोजने ।
तदस्मै लघुराद्धान्नं व्यञ्जनान्यम्ब दापय ॥३२॥
अन्यदपि हास्यमाह—
मन्दरुचेरस्य घृतपक्वान्नभोजने शक्तिर्नास्ति । तत्तस्मातस्मै लघुराद्धान्नव्यञ्जनानि लघु यथा स्यात्तथा संसिद्धमन्नादिकं दापय । राध्साध्संसिद्धौ धातुः ॥३२॥
अथ कृष्णः स्वपात्रस्थपक्वान्नाञ्जलिभिर्हसन।
पञ्चयैः पूरयामास भुङ्क्स्वेति बटुभाजनम् ॥३३॥
श्रीकृष्णः तस्य पक्वान्ने आग्रहं ज्ञात्वा पञ्चषैः स्वपात्रस्थपक्वान्नानामञ्जलिभिर्भुङ्क्स्व इत्युक्त्वा हसन्बटोर्भाजनं पूरयामास ॥३३॥
ततो वामकफोणिं स्वं वादयन्वामपार्श्वके ।
सम्यग्भोक्तुं कृतारम्भः प्रहृष्टो बटुराह तम् ॥३४॥
ततो वामपार्श्वके स्वं वामकफोणिं वादयन्सम्यग्भोक्तुं कृतारम्भो बटुस्तं श्रीकृष्णमाह ॥३४॥
वयस्य पश्य भक्ष्येऽहमित्यश्नन्कवलद्वयम् ।
मातर्मे दधि देहीति प्राहिणोत्तां तदाहृतौ ॥३५॥
“
भो वयस्य ! अहं भक्ष्ये पश्य”
इत्युक्त्वा कवलद्वयं ग्रासद्वयमश्नन्, “
हे मातः ! मे दधि देहि”
इत्युक्त्वा तां तदाहृतौ दध्यानयने प्राहिणोत॥३५॥
गोपाः पश्यत नृत्यतीह चपलः पक्वान्नलब्धाशया
कीशेशो दधिलम्पटोऽयमिति तान्कृत्वोन्मुखांस्तद्दिशि ।
तेषां भोजनभाजनेषु शनकैराक्षिप्य भक्ष्यं निजं
सर्वं भुक्तमिदं मयेति स पुनर्गर्वायमानोऽवदत॥३६॥
मातरि दध्यानयनार्थं गतायां सत्यां, “
हे गोपाः ! दधिलम्पटश्चपलः कीशेशो वानरश्रेष्ठः पक्वान्नलब्धाशया नृत्यति पश्यत”
इत्युक्त्वा,
तान्गोपान्तद्दिशि उन्मुखान्कृत्वा,
निजं सर्वं भक्ष्यं तेषां गोपानां भोजनपात्रेषु निक्षिप्य,
स पुनः गर्वायमानः सन्“
इदं सर्वं मया भुक्तम्”
इत्यवदत॥३६॥
अथागतां तां दधिपात्रहस्ताम्
उवाच पश्याम्ब विनैव दध्ना ।
मयोपभुक्तं द्रुतमेव सर्वं
तत्पायसं दापय भूरि मह्यम् ॥३७॥
हास्यकारी स तामाह दया विनैव मया सर्वं भुक्तम् । भूरि पायसं मह्यं दापय ॥३७॥
हैमेषु पात्रेषु निधाय राधया
नवीनरम्भादलमन्दमारुतैः
शीतीकृतं स्वे परिवेशितं करे
तेभ्यो ददौ पायसमाशु रोहिणी ॥३८॥
भोजनं “
मधुरेण समापयेत्”
इति गौडे रीतिः । व्रजे परमान्नादौ भुक्त्वा पश्चादन्नव्यञ्जनादिकं भुङ्क्ते । अत्र आदावन्ते च मधुरं मध्ये लावणं कठिनं चेति रीत्या राधया नवीनकदलीपत्रपवनेन शीतीकृतं पायसं स्वे करे रोहिणीकरे परिवेशितं दत्तं रोहिणी तेभ्यो रामकृष्णादिभ्यो ददौ ॥३८॥
स्यन्दानिकोपरि धृतेषु पुरः सुवर्ण
स्थालीचयेष्वनुचरैर्विमलादिमुख्यैः ।
राधार्पितं निजकरे वरमोदनं सा
तेभ्यस्ततः परिविवेश शनैर्बलाम्बा ॥३९॥
विमलादिमुख्यैरनुचरैः पुरोऽग्रे स्यन्दानिका व्रजे परिखाख्या सेपाया त्रिपदी तदुपरि सुवर्णस्थालीसमूहेषु धृतेषु सत्सु सा बलाम्बा रोहिणी निजकरे राधार्पितं वरमोदनं तेभ्यः शनैः परिविवेश ॥३९॥
आनीयानीय गान्धर्वा दत्तानि व्यञ्जनानि सा ।
शाकादीन्यम्लशेषानि तेभ्योऽदात्क्रमशः शनैः ॥४०॥
आनीयानीय दत्तानि शाकमारभ्याम्लान्तानि व्यञ्जनानि सा रोहिणी तेभ्यः शनैरदात॥४०॥
रम्भोदरस्थ च्छदवर्णलाघवाः
संमृष्टगोधूमसुचूर्णरोटिकाः ।
घृताभिषिक्ताः परिवेशितास्तया
तेभ्योऽन्यपात्रेषु निधाय सा ददौ ॥४१॥
तया राधिकया परिवेशिताः संमृष्टगोधूमचूर्णस्य रोटिकाः । कीदृशाः ?
रम्भा कदली तदुदरस्थस्य च्छदस्य पत्रस्येव वर्णाः शुक्ला लाघवाश्च सुमृष्टगोधूमचूर्णरोटिका इत्यादि विशेषणैः कोमलाः स्वल्पभाराः सूक्ष्माश्चान्यपात्रेषु निधाय सा रोहिणी ददौ ॥४१॥
धनिष्ठया यल्ललितादिसंस्कृतं
तत्तद्रसालादिकमाहृतं पुरः ।
कृत्वा पृथक्पात्रचये व्रजेश्वरी
सस्नेहमेभ्यो ददती मुमोद सा ॥४२॥
यल्ललितादिसंस्कृतं तत्तद्रसालादिकं पृथक्पात्रचये कृत्वा धनिष्ठया पुरोऽग्रे आहृतं सा व्रजेश्वरी तेभ्यो ददती मुमोद ॥४२॥
हृदयदयितमुखवीक्षणहृष्टास्
तदतिमधुरमृदुकान्तिविकृष्टाः ।
मुमुदुरुदितपृथुभावविहस्ता
रमणभवनमधि ताः पुरुशस्ताः ॥४३॥
रमणभवनमधि श्रीकृष्णभवने पुरुशस्ताः प्रचूरमङ्गलास्ता राधाद्या मुमुदुः । कीदृश्यः ?
हृदयदयितस्य कृष्णस्य मुखवीक्षणेन हृष्टाः । तस्य कृष्णस्यातिमधुरमृदुकान्तिभिर्विकृष्टाः,
उदितपृथुभावेन विहस्ता व्याकुलाः ॥४३॥
अन्नान्यथो तानि चतुर्विधानि
ते पीयूषसारोद्भवविक्रिया इव ।
आस्वादयन्तो मधुराणि सस्पृहं
तां हासयन्तो जहसुश्च नर्मभिः ॥४४॥
अथोऽथानन्तरं मथित्वा अमृतस्य सारं निष्कास्य तदुद्भवा विक्रिया विकाराणि इव मधुराणि चतुर्विधान्नानि चर्व्यचुष्यलेह्यपेयानि ते सखायः सस्पृहं यथा स्यात्तथा स्वादयन्तः नर्म्भिः श्रीकृष्णं हासयन्तश्च जहसुः ॥४४॥
चर्वन्ति चर्व्याणि मृदूनि केचिल्
लेह्यानि चान्ये चटुलं लिहन्ति ।
पिबन्ति पेयानि परे प्रहृष्टाश्
चुष्यन्ति चूष्याण्यपरेऽवितृप्ताः ॥४५॥
केचित्मृदूनि चर्व्याणि क्षीरसारामिक्षा गोधूमचूर्ण लाजभ्रष्ट चिपिटकभृष्टातण्डूलादीन्घृतेन भृष्टान्कृत्वा शर्करादिना पाकेन सिद्धानि चर्वन्ति । अन्ये लेह्यानि आस्वादार्हाणि चिपिटकलाजाभृष्टतण्डुलान्नपिष्टकादीनि घनावर्तदुग्धदध्यादिमध्ये निक्षिप्य पनसाम्रकदलीखण्डादीनां न्यूनाधिकसमभागस्य प्रक्षेपचातुर्येण नानाविधानि स्वादुयुक्तानि चटुलं यथा स्यात्तथा लिहन्ति,
लिह आस्वादने धातुः । परे प्रहृष्टाः सन्तः पेयानि दुग्धादीनि पिबन्ति । अपरे तृप्तिरहिताः चूष्याणि पक्वाम्रादीनि चुष्यन्ति ॥४५॥
स्वादुङ्कारं कमलनयनः सस्पृहं तत्तदन्नं
हस्तस्पर्शादमृतमधुरं मन्दमन्दं प्रियायाः ।
तद्वाक्त्राब्जप्रहितनयनप्रान्तभृङ्गो निगूढं
प्राश्नन्नम्बामनसि निविडं स प्रमोदं व्यतानीत॥४६॥
निगूढं यथा स्यात्तथा तस्या राधाया वाक्त्राब्जे प्रहितो दत्तो नयनस्य प्रान्तरूपभृङ्गो भ्रमरो येन स कमलनयनः कृष्णः प्रियायाः हस्तस्पर्शादमृतादपि मधुरं तत्तदन्नं सस्पृहं स्वादुङ्कारं स्वादुं कृत्वा प्राश्नन्नम्बामनसि निविडं प्रमोदं व्यतानीत॥४६॥
प्रहितचकितनेत्रप्रान्तदृष्टिप्रणाली
मिलिततदतिलावण्यामृतास्वादपुष्टा ।
प्रसरदखिलभावोल्लासमाच्छादयन्ती
दयितहृदयमुच्चै राधिकाप्याजहार ॥४७॥
प्रहितस्य प्रेरितस्य चकितस्य नेत्रस्य प्रान्तेन या दृष्टिर्दर्शनं सैव प्रणाली तया मिलितानां तस्य श्रीकृष्णस्यातिलावण्यामृतानामास्वादेन पुष्टा । तेनैव हेतुना प्रसरदखिलभावानामुल्लासमाच्छादयन्ती सती सा राधापि दयितहृदयमाजहार ॥४७॥
अथ बलजननीं तामन्तराकृत्य नृत्यन्
मदकलमदिराक्षीमर्पयन्तीं करेऽस्याः ।
मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य
कृष्णः श्लथरुचिरशनेऽभूदुन्मना नागरेशः ॥४८॥
मदोत्कटो मदकल इति मदिरो मत्तखञ्जन इति च । नृत्यन्तौ मदकलौ मदोत्कटौ मदिरौ मत्तखञ्जनाविवाक्षिणी यस्यास्ताम् । बलदेवजननीं तामन्तरा मध्ये कृत्यास्या रोहिण्याः करे मृदु मृदु यथा स्यात्तथा । यद्वा,
मृदुतोऽपि मृदु । मधुरान्नमर्पयन्तीं प्रेयसीं श्रीराधां प्रेक्ष्य नागरेशः श्रीकृष्ण उन्मनाः सनशने मृदुरुचिरभूत॥४८॥
सामिभुक्तं कियत्तेन किञ्चित्त्र्यंशावशेषितम् ।
भक्ष्यं वीक्ष्याशने मन्दं तं चासीद्व्याकुला प्रसूः ॥४९॥
प्रसूर्माता तेन कृष्णेन कियद्भक्ष्यं सामिभुक्तमर्धभुक्तम् । किञ्चिद्भक्ष्यं त्र्यंशावशेषितं वीक्ष्य । तं च कृष्णमशने भोजने मन्दं वीक्ष्य व्याकुला आसीत॥४९॥
यत्नात्संस्कृतमन्नादि सर्वं त्यक्तं कथं सुत ।
क्षुधितोऽसि कियद्भुङ्क्ष्व शपथः शिरसो मम ॥५०॥
हे सुत ! अन्नादि सर्वं कथं त्यक्तं ?
क्षुधितोऽसि मे शिरसः शपथः कियद्भुङ्क्ष्व ॥५०॥
आनाय्य यत्नाद्वृषभानुकन्यकां
संस्कारितं सर्वमिदं सुताऽनया ।
अन्नादि मिष्टं च सुधापरार्धतस्
तथापि नाश्नासि करोमि किं हता ॥५१॥
यत्नाद्राधामानाय्य,
तया संस्कारितं सर्वमिदं सुधापरार्धतोऽपि मिष्टान्नादि त्वं नाश्नासि । हताहं किं करोमि ?
॥५१॥
अथ सा रोहिणीमाह पश्य रोहिणि चञ्चलः ।
दुर्बलः क्षुधितोऽप्येष किमप्यत्ति न मन्दभुक॥५२॥
अथैतत्कथनानन्तरमपि भोजने तथाविध दृष्ट्वा सा यशोदा रोहिणीमाह—
एष पुत्रो दुर्बलः क्षुधितोऽपि मन्दभुक्सन्किमपि नात्ति ॥५२॥
अतः स्नेहपरीताङ्गी लालयन्त्यघमर्दनम् ।
प्रलम्बहन्तुरम्बेयं बभाषे तं पुरःस्थिता ॥५३॥
तदनन्तरं स्नेहपरीताङ्गी रोहिणी अघमर्दनं लालयन्ती सती पुरःस्थिता बभाषे ॥५३॥
यत्नादन्नं साधितं वत्स मिष्टं
मल्लीमृद्व्या राधयेदं मया च ।
क्षुत्क्षामोऽसि त्वं च नाश्नासि तत्ताम्
अम्बामेतां मां च किं वा दुनोषि ॥५४॥
मल्लीपुष्पतोऽपि मृद्व्या राधया मया च यत्नात्साधितमन्नं मिष्टं क्षुत्क्षामः क्षुधया क्षीणस्तं नाश्नासि । तत्तस्माद्भोजनाभावात्तां राधामेतामम्बां मां च किं वा दुनोषि ॥५४॥
जननी तव पश्य खिद्यते सुत
निर्मञ्छनमत्र यामि ते ।
भ्रमतो भविता वने श्रमः
कियदश्नीहि विधेहि मद्वचः ॥५५॥
हे सुत ! तव जननी खिद्यते । वने भ्रमतः ते श्रमो भविता कियदश्नीहि ?
मद्वचः विधेहि ॥५५॥
भुक्तं मया भूरि गता बुभुक्षेत्य्
उक्त्वा नियम्योच्छलितं विकारम् ।
तं वीक्ष्य मन्दं पुनरप्यदस्तं
ननन्दतुर्नन्दसुतं जनन्यौ ॥५६॥
श्रीकृष्णस्तामाह—
मया भुक्तं मे बुभुक्षा गता इत्युक्त्वा उच्छलितं विकारं श्रीराधादर्शननामश्रवणजन्यं नियम्याच्छाद्य मन्दं यथा स्यात्तथा पुनरप्य्भुञ्जानं तं नन्दनन्दनं वीक्ष्य जनन्यौ ननन्दतुः ॥५६॥
इदमिदमतिमिष्टं वत्स भुङ्क्स्वेति माता
सशपथमथ तत्तद्दर्शयन्त्यङ्गुलीभिः ।
सकलमभिलषन्ती कर्तुमश्रुप्लुताक्षी
तदुदरगतमन्नं सात्मजं वावदीति ॥५७॥
अश्रुप्लुताक्षी सा यशोदा सशपथदानपूर्वकमिदमन्नमतिमिष्टमङ्गुलीभिर्दर्शयन्ती सकलमन्नं तदुदरगतं कर्तुमभिलषन्ती आत्मजं वावदीति पुनः पुनः वदति ॥५७॥
रसालापक्वाम्रद्रवशिखरिणीषाडवपयः
करम्भामिक्षाव्यञ्जनदधिकलापूपबटकान।
कृताम्रेडा नेत्रस्तनजपयसा क्लिन्नसिचयाप्यतृप्ता
तं तृप्तं मुहुरथ सुतं प्राशयदियम् ॥५८॥
इयं यशोदा नेत्रजेन जलेन स्तनजेन क्षीरेण च क्लिन्नसिचया आम्रेडिता द्विरुक्तिर्यया सा आम्रेडितं द्विस्त्रिरुक्तमित्यमरः । अतृप्ता कृष्णं भोजयितुं तृप्तिरहिता । तृप्तं तं सुतं मुहुः रसालादीन्प्राशयत। रसाला शिखरिणी रसालावृत्तिभेदयोरिति विश्वः । पक्वाम्रद्रवः शिखरिणी षाडवः । रसालादि त्रयं च शर्करा कर्पूर जैत्री मरिचादि द्रव्याणां वृत्तभेदेन दानभेदेन दधिकृतं क्वापि मधुशर्करादिमिलनेन रसाला उक्ता । पयः शर्करादि युतं दुग्धं,
करम्भो दधिशक्तवः आमिक्षा उष्णदुग्धे दधिक्षेपेण गौडे छानाख्याव्यञ्जनं,
दधिफलानि प्रसिद्धानि फलमाम्रादि बहुविधं,
अपूपः पिष्टकोऽप्यनेकविधो बटकाश्च बहुविधास्तान॥५८॥
भक्ष्यं भोज्यं बहुतरमिष्टं
लेह्यं पेयं मृदु मधुरं ते ।
भुक्त्वा पीत्वा रसभरतृप्ताः
सर्वेऽभूवन्वनगमनोत्काः ॥५९॥
ते श्रीरामकृष्णादयः । भक्ष्यभोज्यलेह्येपेयं भुक्त्वा पीत्वा रसभरतृप्ताः सन्तः वनगमनोत्का अभूवन॥५९॥
सर्वे सुवासितमृदा मुखपाणिपद्मान्य्
आमृज्य साधु मृदुलेषिकया च दन्तान।
दासैः प्रणीतकणकादिककुण्डिकासु
तैर्दत्तवारिभिरथाचमनं व्यधुस्ते ॥६०॥
अथ ते सर्वे सुवासितमृदा स्वमुखानि आमृज्य साधु मृदुलेषिकया दन्तशोधिकया सूक्ष्मकाष्ठ्या दन्तानामृज्य दासैरानीतकणकादिकुण्डिकासु तैर्दासैर्दत्तवारिभिराचमनं व्यधुः ॥६०॥
एलालवङ्गघनसारविमिश्रिताभिर्
जम्बूलदत्तवरखादिरगोलिकाभिः ।
शीतोज्ज्वलाभिरधिवास्य मुदा मुखं ते
सव्येन पूर्णमुदरं ममृजुः करेण ॥६१॥
जम्बूलनाम्ना दासेन दत्तवरखादिरनिर्मितगोलिकाभिः । एलालवङ्गकर्पूरविमिश्रिताभिर्शीतोज्ज्वलाभिर्पाचकत्वादिगुणयुक्ताभिर्मुखमधिवास्य वामेन करेण पूर्णमुदरं ममृजुः ॥६१॥
रसालकरसंस्कृतोपहृतनागवल्ली स्फुरत्
सुपक्वदलवीटिकाः सुखमदन्त एवोत्सुकाः ।
ततः शतपदान्तरालयविशालपल्यङ्किका
कुलेष्वथ विशश्रमुः परिजनैरमी वीजिताः ॥६२॥
रसालस्य करेण संस्कृताः पश्चादुपहृताश्च नागवल्ली ताम्बूललता तस्याः स्फुरत्सुपक्वदलवीटिकाः । उत्सुकास्ते सुखमेवादन्तः सन्तः ततः स्थानात्शतपदानि अन्तरो मध्यं गमनमार्गो येषां तथाभूता ये आलया गृहास्तत्र विशालपल्यङ्किकाकुलेषु अमी परिजनैर्वीजिता विशश्रमुः । वैद्यकशास्त्रे—
भुक्त्वा पादशतं वरशय्यां विश्रामः कार्यः इति यदुक्तं तदेव कृतम् ॥६२॥
तमिह विश्रमितं परिचारकाः
शिखिदलव्यजनैः समवीजयन।
अवदलय्य दलं मृदुवीटिकाः
प्रभुमथादयति स्म विलासकः ॥६३॥
सामान्याकारेणोक्त्वा श्रीकृष्णस्याह,
परिचारका विश्रमितं तं श्रीकृष्णं मयूरपुच्छव्यजनैः समवीजयन्विलासकः दलं पर्णमवदलय्य विभागं कृत्वा मृएदु वीटिकाः निर्माय प्रभुमादयति स्म ॥६३॥
निष्क्रम्य धौताङ्घ्रिकरां महानसाद्
दासीगणैस्तां व्यजनैरुपासिताम् ।
राधां प्रकोष्ठान्तरगां सखीजनैर्
विलोकयन्तीं रमणं गवाक्षतः ॥६४॥
आनन्दजस्वेदजलैर्व्रजेशया
प्रतीयमानां श्रमकर्षितेत्यलम् ।
भोक्तुं प्रयत्नादुपवेश्य सा मुदा
बलाम्बयान्नानि गृहाददापयत॥६५॥
महानसात्निष्क्रम्य धौताङ्घ्रिकरां दासीगणैर्व्यजनैरुपासितां सखीजनैः सह प्रकोष्ठान्तरगां गवाक्षतः रमणं विलोकयन्तीं राधां श्रीकृष्णदर्शनानन्दजातैः स्वेदजलैः श्रमलक्षणरूपैः व्रजेशया अलमतिशयेन श्रमकर्षिता इयमिति प्रतीयमानां तां भोक्तुं सा यशोदा उपवेश्य मुदा प्रयत्नात्बलाम्बया करणभूतया गृहातन्नानि अदापयत॥६४६५॥
तया निदिष्टा घृतसंस्कृतान्नं
दातुं धनिष्ठा हरिभुक्तशेषैः ।
संमिश्र्य गूढं घृतसंस्कृतान्नैर्
गृहात्तदानीय ददावमूभ्यः ॥६६॥
घृतसंस्कृतान्नं दातुं तया निदिष्टा धनिष्ठा गूढं यथा स्यात्तथा हरिभुक्तशेषैः सह संमिश्र्य घृतसंस्कृतान्नं संमिश्र्य तदा गृहादानीय अमूभ्यो राधादिभ्यो ददौ ॥६६॥
अनश्नन्तीं ह्रिया वीक्ष्य वस्त्रावृतनताननाम् ।
राधिकामवदत्कृष्णमाता वात्सल्यविक्लवा ॥६७॥
कृष्णमाता ह्रिया अनश्नन्तीं राधामवदत॥६७॥
जननि मयि जनन्यां किं नु लज्जेदृशीयं
सुत इव मम चेतः स्निह्यति त्वय्यतीव ।
अयि तदपनयैनां यामि निर्मञ्छनं ते
शिशिरय मम नेत्रे भुङ्क्स्व पश्यामि साक्षात॥६८॥
हे जननि ! जनन्यां मयि इयमीदृशी लज्जा किं कथं ?
सुते श्रीकृष्णे इव त्वयि मम चेतः स्निह्यति तत्तस्मादेनां लज्जामपनय दूरीकुरु । ते निर्मञ्छनं यामि,
मम नेत्रे शिशिरय,
भुङ्क्स्व साक्षात्पश्यामि ॥६८॥
यूयं च मे स्थ तनयास्त्वनया ह्रिया किं
पुत्र्यः कुरुध्वमशनं ललितादयस्तत।
इत्याग्रहाच्छपथदानशतैश्च माता
मिष्टान्नमिष्टवचनैः समभोजयत्ताः ॥६९॥
यूयं मे तनयाः स्थ,
अनया ह्रिया किं ?
हे पुत्र्यः ! ललितादयः ! तत्तस्मादशनं कुरुध्वमित्याग्रहादिभिर्माता ताः समभोजयत॥६९॥
हृद्युद्गतैः सुत कराग्रहणाभिलाषैस्
तद्भूषणैः सुबहुशः सह यानि यत्नात।
निष्पाद्य तन्नववधूप्रतिरूपकाणि
स्नेहाद्धृतानि सदने वरसम्पुटेषु ॥७०॥
तैर्भूषणैरथ धनिष्ठकयोपनीतैस्
ताम्बूलचन्दनवराम्बरनागजैश्च ।
आलीवृतं नववधूमिव तां व्रजेशा
सम्मान्य हार्दवलिता मुदिता बभूव ॥७१॥
हृद्युद्गतैः सुतस्य श्रीकृष्णस्य करग्रहणं विवाहस्,
तस्याभिलाषैर्हेतुभिस्तद्भूषणैः सह बहुशः यत्नात्यानि भूषणानि तस्य कृष्णस्य नववधूमिव सम्मान्य हार्दवलिता नववधू—
प्रतिरूपकाणि योग्यानि निष्पाद्य वरसम्पुटेषु धृतानि तैर्भूषणैः । अथ धनिष्ठया उपनीतैस्ताम्बूलादिभिश्चालिसहितां तां राधां नववधूमिव सम्मान्य हार्दवलिता स्नेहयुक्ता व्रजेशा मुदिता बभूव । नागजैः सिन्दूरैः ॥७०७१॥
राधाहृतं यन्निशि तद्विशाखा
धनिष्ठयादात्सुबलाय गूढम् ।
पीतोत्तरीयं सुबलोऽपि तस्यै
नीलाम्बरं कृष्णहृतं तयैव ॥७२॥
प्रत्युषे सम्भ्रमात्राधाहृतं कृष्णपीतोत्तरीयं विशाखा धनिष्ठया सुबलाय गूढमदात। कृष्णहृतं राधानीलाम्बरं सुबलोऽपि तया धनिष्ठया तस्यै विशाखायै अदात॥७२॥
तावत्स्वसेवाकृतिलब्धवर्णाः
स्नेहेन दासाः परिफुल्लगात्राः ।
तैर्गन्धमाल्याम्बरभूषणैस्ते
विभूषयामासुरधीश्वरं स्वयम् ॥७३॥
तावत्स्वसेवायां या कृतिश्चेष्टा तासु लब्धवर्णाः विचक्षणास्ते दासाः,
तैः पूर्वोक्तैर्गन्धादिभि स्वपं स्वीयमधीश्वरं श्रीकृष्णं विभूषयामासुः ॥७३॥
भक्तिच्छेदाढ्यचर्चां मलयजघुसृणैः धातुचित्राणि बिभ्रद्
भूयिष्ठं नव्यवासः शिखिदलमुकुटं मुद्रिकाः कुण्डले द्वे ।
गुञ्जाहारं सुरत्नस्रजमपि तरलं कौस्तुभं वैजयन्तीं
केयूरे कङ्कणे श्रीयुतपदकटकौ नूपुरौ शृङ्खलां च ॥७४॥
वनजेक्षणः कमलनयनः श्रीकृष्णः मृगदृशां मनो मुष्णन्वनाय गन्तुं भवनान्निर्जगाम इति चतुर्थश्लोकेनान्वयः । किं कुर्वन्?
मलयजं चन्दनं घुसृणं कुङ्कुमं तैः स्ववर्णेतरवर्णैः । भक्तिच्छेदेन अङ्गुल्यादिभिर्विभक्तेन «
खोर »
इत्याख्येनाढ्यां चर्चां तां बिभ्रत्धातुभिश्चित्राणि बिभ्रत्भूयिष्ठं नव्यवासः नटवरवेशो वस्त्रस्य वा भूयिष्ठं बाहुल्यं विना न सिद्ध्यति । शिखिदलेन मयूरपिच्छेन मुकुटं चूडां,
अङ्गुलीषु मुद्रिकाः,
कर्णयोर्द्वे कुण्डले,
उरसि गुञ्जाहारम् ।
गुञ्जाहारं शोभनरत्नानां स्रजम्,
तरलं तरलो हारमध्यगः इत्यमरः । कौस्तुभं मणिं,
वैजयन्तीं पञ्चवर्णपुष्पमालां भुजयोः । कफोण्योरुपरि केयूरेऽङ्गदे,
कङ्कणे मणिबन्धयोर्वलये,
चरणद्वये श्रीयुतपदकटकौ नूपुरौ शृङ्खलां च बिभ्रत॥७४॥
आत्मैकदृश्यगान्धर्वा प्रतिबिम्बकरम्बितैः ।
दधद्वक्षस्ययं हारं गुम्फितं स्थूलमौक्तिकैः ॥७५॥
अयं श्रीकृष्णः आत्मैकदृश्यं गान्धर्वायाः श्रीराधायाः प्रतिबिम्बं तेन करम्बितैर्युक्तैः स्थूलमौक्तिकैर्गुम्फितं हारं वक्षसि दधत॥७५॥
शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं
दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः ।
वामेनासौ सरललगुडीं पाणिना पीतवर्णां
लीलाम्भोजं कमलनयनः कम्पयन्दक्षिणेन ॥७६॥
वामोदरपरिसरे उदरस्य वामभागे तुन्दबन्धान्तरस्थं शृङ्गं दधानः । तद्वद्दक्षे दक्षिणे रत्नचित्रां मुरलीं तुन्दबन्धान्तरस्थां दधानः । असौ कमलनयनः वामेन पाणिना पीतवर्णामासौ सरललगुडीं दधानः । दक्षिणेन लीलाकमलं कम्पयन्चालयन॥७६॥
वंशीविषाणदलयष्टिधरैर्वयस्यैः
संवेष्टितः सदृशहासविलासवेशैः ।
गन्तुं वनाय भवनाद्वनजेक्षणोऽयं
मुष्णन्मनो मृगदृशामथ निर्जगाम ॥७७॥
वंश्यादिधरैः सदृशाः कृष्णहासविलासवेशैस्तुल्या हासविलासवेशा येषां तैर्वयस्यैः संवेष्टितः वनजेक्षणः ॥७७॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टवरजे गोविन्दलीलामृते
प्रातर्भोजनकेलिवर्णनमयः सर्गश्चतुर्थो गतः ॥ओ॥
॥ श्रीगोविन्दलीलामृतसदानन्दविधायिन्यां चतुर्थसर्गः ॥
॥४॥
.
(
५)
पञ्चमः सर्गः
पूर्वाह्ने धेनुमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं
कृष्णं राधाप्तिलोलं तदभिसृतिकृते प्राप्ततत्कुण्डतीरम् ।
राधां चालोक्य कृष्णं कृतगृहगमनार्ययार्कार्चनायै
दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥१॥
कृष्णं राधां च स्मरामि । कृष्णं कीदृशं ?
पूर्वाह्ने धेनुमित्रैः सह विपिनमनुसृतं विपिने गतं गोष्ठलोकैरनुयातमनुसृतं राधाप्तिलोलं,
राधाया आप्तये राधाप्राप्त्यर्थं लोलम् । तस्या राधाया अभिसृतिरभिसारस्तत्कृते तदर्थं प्राप्तं तस्या राधायाः कुण्डतीरं येन तम् । राधां कीदृशीं ?
कृष्णमालोक्य कृतं गृहे गमनं यया ताम् । आर्यया जटिलयार्कः सूर्यस्तदर्चनार्थं दिष्टां प्रेरितां कृष्णस्य प्रवृत्त्यै वार्तार्थं प्रहितनिजसखीनां मार्गे नेत्रे यस्यास्ताम् । वार्ता प्रवृत्तिर्वृत्तान्त इत्यमरः ॥१॥
स मन्द्रघोषाभिधशृङ्गघोषैः
सङ्घोषयन्घोषमपास्तदोषैः ।
सम्मोहयन्हृद्व्रजसुन्दरीणां
सम्पोषयन्प्रेम बहिर्जगाम ॥२॥
स कृष्णः मन्द्रो गम्भीरो घोषो यस्य तत्तदभिधं मन्द्रघोषाभिधं शृङ्गं तस्य घोषैः शब्दैः । किदृशैः ?
अपास्तो दूरीकृतो दोषो जगतां समस्तदोषो यैस्तैः करणैः घोषमाभीरपल्लीं सन्तोषयन्,
व्रजसुन्दरीणां कृत्स्नं मोहयन्प्रेम च सम्पोषयन्बहिर्जगाम ॥२॥
गोमयोत्पलिकाकूटैर्गिरिशृङ्गनिभैर्युतम् ।
वासिता वासमत्तानां षण्डानां सङ्गरोद्धुरम् ॥३॥
कृष्णलीलां प्रगायद्भिर्विहसद्भिः परस्परम् ।
गोमयावचयव्यग्रैः गोपदासीशतैर्वृतम् ॥४॥
गोयानवत्सावरणव्यग्रगोपशतान्वितम् ।
गोमयोपलिका कृद्भिर्जरद्गोपीगणैर्युतम् ॥५॥
गवां स्थानीश्रेणीस्फूरितमभितोऽल्पावृतिचयो
ल्लसद्वत्सावासस्फुरिततलवृक्षावलिचितम् ।
करीषक्षोदस्योच्चयमृदुलभूमीतलमसौ
व्रजाभ्यर्णं पूर्णं व्रजधनजनैर्वीक्ष्य मुमुदे ॥६॥
(
कुलकम्)
असौ श्रीकृष्णः व्रजस्य धनैर्गोप्भिर्जनैश्च पूर्णं व्रजाभ्यर्णं व्रजसमीपं वीक्ष्य मुमुदे इति चतुर्थेनान्वयः । व्रजाभ्यर्णं कीदृशं व्रजे विटोरा इति ख्यातेः गोमयोपलिका व्रजे उपलाख्या तस्या कूटं समूहो यत्र तैः । कीदृशैः ?
गिरिशृङ्गसदृशैर्युतम् । वासिता ऋतुमत्यो गावः,
तासां वासेन गन्धेन मत्तानां षण्डानां सङ्गरेण युद्धेन उद्धुरम् । गोमयस्यावचये आहरणे व्यग्रैर्गोपदासीशतैर्वृतम् । गोयाने गवां गमनसमये वत्सानामावरणे रक्षणे व्यग्रगोपशतैरन्वितम् । गोमयेन उपलिका उपलाख्या तां कृद्भिर्वृद्धगोपीगणैर्युतम् । गवां स्थान गोस्थानं तेषां श्रेणीभिः स्फुरितम् । अल्पावृतीनां चयेन समूहेन उल्लसद्वत्सावासैः । स्फुरितं तलं यासां ताभिर्वृक्षावलिभिश्चितं व्याप्तम् । करीषक्षोदस्य शुष्कगोमयचूर्णस्य उच्चयेन मृदुलं भूमितलं यत्र तत॥३६॥
तर्णकारोधनव्यग्रगोपयादोगणान्विताः ।
उच्छलद्गोपयः पूराः दुग्धभाण्डानि कच्छपाः ॥७॥
गोशकृच्चयनासक्तगोपीवक्त्रसरोरुहाः ।
सितारुणचलद्वत्सहंसकोककुलाकुलाः ॥८॥
निर्गच्छद्धवला पङ्क्तिनदीर्गोपुच्छशैबलाः ।
गवालयसरःश्रेणीः पश्यन्स मुमुदे हरिः ॥९॥
(
सन्दानतिकम्)
हरिः गवालय एव सरः सररः तस्य श्रेणीः पश्यन्मुमुदे । सरोवरविशेषणान्याह । निर्गच्छन्त्यो धवला पङ्क्तिरुपनद्यो याभ्यस्ताः । तर्णकानां बालवत्सानामारोधने व्यग्रा गोप एव यादो गणाः जलजन्तुसमूहास्तैरन्विता युक्ताः । उच्छलद्भिर्गवां पयोभिः पूर्यन्ते इति पूराः पूर्णाः उच्छलन्तो गवां पयसां पूराः समूहा यत्र इति वा दुग्धभाण्डानामालयः श्रेण्य एव कच्छपाः,
यत्र दुग्धभाण्डाः,
कृष्णवर्णा एव भवन्ति,
अतः वर्णसाम्यादुक्तम् । गवां शकृत्गोमयं तस्य चयने ग्रहणे आसक्तानां गोपीनां मुखान्येव सरोरुहाणि यत्र । शुक्लारुणवर्णचलद्वत्सा एव हंसचक्रवाकसमूहाः,
यत्र ताः गवां पुच्छा एव शैवला यत्र ताः ।
यत्र श्लोकत्रयेणान्वयो भवेत्तत्र सन्दानितकमिति । यत्र श्लोकद्वयेन तत्र युग्मकम् । यत्र चतुर्भिः श्लोकैस्तत्र कुलकमिति बोध्यम् ॥७९॥
अनुव्रजन्स्वोर्ध्वमुखं व्रजेन्दुर्
व्रजेन्द्रनिष्कासितगोव्रजं सः ।
व्रजाद्विकर्षन्व्रजवासिलोकान्
वनाय वव्राज सखिव्रजेन ॥१०॥
स व्रजेन्दुः कृष्णः व्रजेन्द्रेण श्रीनन्देन निष्कासितः । गोसमूहं कीदृशं ?
स्वोर्ध्वमुखं,
स्वस्मै स्वदर्शनार्थमूर्ध्वं मुखानि यस्य तम् । अनुव्रजन्व्रजवासिलोकान्विकर्षन्सखिव्रजेन सह व्रजाद्वनाय वव्राज ॥१०॥
रजोऽम्भोभिः शम्भोरपि च विधिदम्भोलिकरयोः
परां शुद्धिं बुद्धीन्द्रियचयनिरुद्धिं विदधती ।
लुलाप्याल्या पाल्या रविदुहितृकाल्याथ मिलिता गवां
श्रेणी श्वेनी द्युसरिदिव वेणीभ्रममधात॥११॥
पाल्या पालनीया श्वेतवर्णा गवां श्रेणी । रविदुहितृकाल्या रविदुहिता यमुना तद्वत्काली कृष्णवर्णा तथाभूतया लुलाप्याल्या लुलापीनां महिषीणामाल्या श्रेण्या मिलिता सती लुलाप्याला इति पाठे एकविशेषः । रजोऽम्भोभिः रजोरूपजलैः शम्भोर्महादेवस्य विधिदम्भोलिकरयोः ब्रह्मेन्द्रयोरपि परां शुद्धिं बुद्धीन्द्रियचयस्य निरुद्धिमन्यत्राप्रवृत्तिं च विदधती सती द्युसरिद्गङ्गा सैव वेणीभ्रमं त्रिवेणीभ्रममधात्,
गङ्गा यथा यमुनासरस्वतीभ्यां मिलिता त्रिवेणी भवति,
तथा गवां शुक्लत्वात्गङ्गात्वं,
महिषीणां कृष्णत्वात्यमुनात्वं,
रजसां धूसरत्वात्सरस्वतीत्वमुपमा । यथा कथञ्चित्साधर्म्यमुपमानोपमेययोः इत्युपमा । लुलापो महिषो वाहद्विषत्कासरसैरिभाः इत्यमरः ॥११॥
वनाय गच्छन्वनजेक्षणो हरिर्
यतो यतः सन्निदधे पदाम्बुजम् ।
ततस्ततः सा व्रजभूः समुत्सुका
प्रकाशयामास हृदम्बुजं स्वकम् ॥१२॥
वनाय गच्छन्हरिर्यत्र पदाम्बुजं सन्निदधे तत्र तत्र सा व्रजभूः स्वकं हृदम्बुजं श्रीकृष्णसुखगमनार्थं प्रकाशयामास ॥१२॥
तच्छ्रीपदस्पर्शभरप्रमोदैः
सा फुल्लरोमाञ्चितसर्वगात्री ।
ननन्द कृत्तानि तृणानि भूयः
खुरैः क्षताङ्गानि च रोहयन्ती ॥१३॥
आदौ गवां गमनेन गवां क्षुरैः कृत्तानि छिन्नानि तृणानि क्षताङ्गानि च,
भूयः पुनरपि रोहयन्ती सा व्रजभूः । तस्य श्रीकृष्णस्य पदस्पर्शभरप्रमोदैः फुल्लरोमभिरञ्चितसर्वगात्री ननन्द तदैव तृणाङ्कुरोद्गमदर्शनात॥१३॥
फुल्लाक्षिपद्मातिजवासुसम्भ्रमा
प्रीत्यम्बुवृष्ट्यैधितसर्वतोमुखा ।
वृद्धादिबालान्तजनावलीसरिद्
व्रजाचलात्कृष्णसमुद्रमाययौ ॥१४॥
वृद्धादिबालान्तं जनावली आबालवृद्धजनश्रेण्येव सरिन्नदी व्रजरूपपर्वतात्कृष्णसमुद्रमाययौ । नदी साधर्म्यमाह—
जनानां कृष्णदर्शनेन फुल्लानि नेत्राण्येव पद्मानि यत्र सा अतिजवा अतिवेगवती सुसम्भ्रमा सुष्ठु सम्यक्भ्रमो भ्रान्तिर्यस्यां सा किं वा प्रीतिः श्रीकृष्णप्रेमानन्दः सैवाम्बु तस्य वृष्टिरिव सञ्चारस्तया एधितानि वर्धितानि फुल्लानि सर्वतः सर्वेषां मुखान्येव सर्वतोमुखानि जलानि यस्याः । अत्रापि अम्भसोऽनुकरणं प्रीत्यम्बुवृष्ट्या प्रेमाम्बुवृष्ट्या एधितं वृद्धं सर्वतोमुखं जलं यस्याः सा ॥१४॥
क्लिन्नाम्बराक्षिस्तनजैः पयःस्रवैस्
तथाविधैर्यातृमुखाङ्गनागणैः ।
अम्बा किलिम्बानुगया बलाम्बया
सहागताम्बा सुतदर्शनोत्सुकाः ॥१५॥
अक्षिस्तनजैः पयःस्रवैरश्रुस्रवैश्च क्लिन्नाम्बरा । तथाविधैर्यातर उपनन्दादीनां पत्न्यस्तदाद्यङ्गनानां गणैः सह तथा अम्बा किलिम्बे अम्बिका च किलिम्बा च धात्रिके स्तन्यदायिके तेऽनुगे यस्यास्तया बलाम्बया रोहिण्या सह सुतदर्शनोत्सुका अम्बा श्रीयशोदा आगता ॥१५॥
अन्योन्यासङ्गसंस्तब्धदृष्टिहिल्लोलमुल्बनम् ।
कृष्णं रसार्णवं भेजे राधा सुरतरङ्गिणी ॥१६॥
राधिव सुरतरङ्गिणी गङ्गा सुरते रङ्गिणी वा सा अन्योन्यासङ्गेन परस्परमिलनेन संस्तब्धा दृष्टिरूपहिल्लोलस्तरङ्गो यस्यास्तथाभूतमुल्बनं च उज्ज्वलं च यथा स्यात्तथा रसार्णवं कृष्णं भेजे । अन्योन्येति पदं श्रीकृष्णस्य वा विशेषेण ॥१६॥
मङ्गलाश्यामलाभद्रापालीचन्द्रावलीमुखाः ।
स्वस्वयूथा यूथनाथाः सर्वतस्तास्तमन्वयुः ॥१७॥
मङ्गलाद्यास्ता यूथनाथाः स्वस्वयूथैः सह वर्तमानाः सर्वतश्चतुर्दिक्षु तं श्रीकृष्णमन्वयुरनुगा बभूवुः ॥१७॥
सह धनजनवृन्दैर्निर्गते प्राणनाथे
जनगतिरवहान्या स्पन्दनालापहीना ।
पशुखुरजरजोभिर्धूसरासौ जडाङ्गी
व्रजवसतिरथासीत्प्रोषितप्रेयसीव ॥१८॥
प्रोषितः प्रवासगतः प्रेयान्यस्याः सा इव धनजनवृन्दैः सह प्राणनाथे श्रीकृष्णे निर्गते सति असौ व्रजवसतिर्जडाङ्गी आसीत्द्वयोः साधर्म्यमाह—
नायिकापक्षे जनेषु लोकसभानुगतेस्तथा रवस्य शब्दस्य च हान्या । वसतिपक्षे जनानां गमनरवयोर्हान्या राहित्येन स्पन्दनालापहीना । नायिकापक्षे शरीरगतस्पन्दनालापरहिता । पक्षे,
व्रजवसतिस्थजनानां स्पन्दनालापहीना । लालिका धूलिधूसराः । पक्षे,
पशूनां खुररजोभिर्धूसरा ॥१८॥
अन्वयत्पितरौ वीक्ष्य सव्रजौ वनसीमनि ।
स्थितेऽस्मिन्वलितग्रीवं तस्तम्भे गोकदम्बकैः ॥१९॥
अस्मिन्वनसीमनि स्थिते स्थितौ मर्यादायां भावे क्तः । वलितग्रीवं वक्रग्रीवं यथा स्यात्तथा सव्रजौ अन्वयन्तौ पितरौ वीक्ष्य श्रीकृष्णः गोसमूहैः सह तस्तम्भे ॥१९॥
अनन्तशङ्कौ स्ववनप्रयाणेऽप्य्
अभद्रभीतेरनिवारयन्तौ ।
अस्राकुलाक्षावपि दर्शनोत्सुकौ
स दुःस्थितोऽभूत्पितरौ समीक्ष्य ॥२०॥
स्वस्य वनप्रयाणे अभद्रजन्यभीतेर्हेतोरनन्ताः शङ्का ययोस्तौ तथा बहुधा कथ्यमानावप्यनिवारयन्तौ अश्रुकुलावपि स्वस्य दर्शने उत्सुकौ पितरौ समीक्ष्य तु श्रीकृष्णः दुःस्थितो व्यग्रचित्तोऽभूत॥२०॥
सौरभ्यलुब्धा तृषितोच्चलन्ती
ह्रीवात्यया बम्भ्रमिताभितोऽपि ।
नेत्रालिपङ्क्तिर्व्रजसुन्दरीणां
हरेः पपातैव मुखारविन्दे ॥२१॥
व्रजसुन्दरीणां नेत्रालिपङ्क्तिः । ह्री लज्जा सैव वात्या वातसमूहस्तया बम्भ्रमिता पुनः पुनरतिशयेन भ्रमितापि तृषिता उच्चलिता वेगवति हरेर्मुखारविन्दे पपातैव ॥२१॥
समीक्ष्य राधावदनारविन्दे
श्रीनेत्रनृत्यन्मदखञ्जरीटौ ।
सुमङ्गलां स्वां मनुते स्म यात्रां
तदीयसन्दर्शनसत्फलां सः ॥२२॥
स श्रीकृष्णः राधावदनारविन्दे श्रीयुक्तनेत्ररूपनृत्यन्मदखञ्जनौ वीक्ष्य स्वां यात्रां सुमङ्गलां मनुते स्म । मनुष्याणां पद्मोपरि खञ्जनदर्शनेन यात्रा सत्फला भवतीत्याह तदीयस्यादि ॥२२॥
स्वस्वबालमपहाय मातरः
कृष्णवक्त्रधृतसाश्रुलोचनाः ।
स्तन्यसिक्तवसनाः सुवत्सलाः
सर्वतोऽथ परिवव्रुरच्युतम् ॥२३॥
अन्यगोपीनां स्वस्वपुत्रान्श्रीकृष्णे अपारवात्सल्यं श्रीभागवते यदुक्तं,
तदेवाह—
स्वस्वबालमित्यादि ॥२३॥
विमनस्कापि मनसा भावयन्त्यथ तच्छुभम् ।
विहस्तापि स्वहस्ताभ्यां जननी तमलालयत॥२४॥
विरोधाभासालङ्कारेणाह । विमनस्कापि मनसा तत्तस्य श्रीकृष्णस्य शुभं भावयन्ती विहस्ता व्यग्रापि स्वहस्ताभ्यां जननी तं श्रीकृष्णमलालयत॥२४॥
शतशः सन्ति मे गोपा निपुणाः पालने गवाम् ।
पालयामि स्वयमिति वत्स कोऽयं दुराग्रहः ॥२५॥
गवां पालने निपुणा गोपाः शतशः मे सन्ति । हे वत्स ! स्वयं गाः पालयामीति कोऽयं दुराग्रहः ॥२५॥
बालोऽसि मृदुलस्तत्र विमुक्तच्छत्रपादुकः ।
दिनं भ्रमसि कान्तारे जीवेतां पितरौ कथम् ॥२६॥
त्वं बालः मृदुलश्च तत्रापि छत्रपादुकां विना व्याप्य कान्तारे दुर्गममार्गे भ्रमसि पितरौ कथं जीवेताम् । कान्तारो वर्त्मदुर्गमः इत्यमरः ॥२६॥
क्रियमाणाग्रहौ स्वस्य च्छत्रोपानद्विधारणे ।
वात्सल्यव्याकुलौ वीक्ष्य पितरौ प्राह केशवः ॥२७॥
केशवः स्वस्य छत्रपादुकयोर्विधारणे क्रियमाणाग्रहौ मातापितरौ वीक्ष्याह ॥२७॥
गोपालनं स्वधर्मो नस्तास्तु निश्छत्रपादुकाः ।
यथा गावस्तथा गोपास्तर्हि धर्मः सुनिर्मलः ॥२८॥
नोऽस्माकं गोपालनं स्वधर्मः,
गोपालनं कुरु,
किन्तु छत्रपादुकां धृत्वा कुरु । तत्राह—
यथा ताः गावः निश्छत्रपादुकास्तथा गोपा अपि निश्छत्रपादुकाः गोपालने यदि भवन्ति तदा सुनिर्मलो धर्मः स्यात॥२८॥
धर्मादायुर्यशोवृद्धिर्धर्मो रक्षति रक्षितः ।
स कथं त्यज्यते मातर्भीषु धर्मोऽस्ति रक्षिता ॥२९॥
विपक्षासुरादिभ्यो बिभेषि । तत्राह—
धर्मादायुर्यशोवृद्धिर्भवति । अनेन धर्मो रक्षितः सन्तं जनं धर्मो रक्षति । हे मातः ! स्वधर्मो जनैः कथं त्यज्यते ?
भीषु विपक्षादिकृतभयेषु धर्मो रक्षितोऽस्ति ॥२९॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः [म.भा. ३.३१.७] इति ।
सुतस्य साद्गुण्यमवेक्ष्य तृप्तौ
ननन्दतुस्तौ हृदि यद्यपारम् ।
अनिष्टशङ्काकुलिता तथापि
गोपान्समाहूय जगाद माता ॥३०॥
सुतस्य साद्गुण्यमवेक्ष्य तृप्तौ ननन्दतुस्तौ हृदि यद्यपारमनिष्टशङ्काकुलिता तथापि गोपान्समाहूय जगाद माता ॥३०॥
सुभद्र मण्डलीभद्र वत्स भो बलभद्रक ।
समर्पितोऽयं युष्मासु बालोऽतिमृदुलश्चलः ॥३१॥
हे सुभद्रादयः ! युष्मासु अयं कृष्णः समर्पितः । अयं बालः,
तत्रापि मृदुलस्तत्रापि चलश्चञ्चलः ॥३१॥
यन्त्रणीयः शिक्षणीयः पालनीयश्च वः सदा ।
स्वैरी चेच्चलतां याति कथनीयं तदा मयि ॥३२॥
वो युष्माभिरेव कुरु,
एवमित्यादिप्रकारेण यन्त्रणीयः नियम्यः स्वैरी स्वेच्छाचारी सन्चेद्यदि चलतां याति तदा मयि कथनीयम् ॥३२॥
धृतखड्गधनुर्बाणैर्भो वत्सा विजयादयः ।
पालनीयोऽप्रमत्तैर्वः सदायमभितः स्थितैः ॥३३॥
भो विजयादयः ! अप्रमत्तैः सावधानैर्धृतखड्गधनुर्बाणैरभितः स्थितैः वो युष्माभिरयं रक्षणीयः ॥३३॥
अङ्गे सुतस्याथ करेण माता
स्निग्धा स्पृशन्तीश्वरनाममन्त्रैः ।
नृसिंहबीजैश्च विधाय रक्षां
बबन्ध रक्षामणिमस्य हस्ते ॥३४॥
माता ईश्वरस्य नामघटितमन्त्रैः नृसिंहबीजैश्च तस्याङ्गेषु करेण स्पृशन्ती रक्षां विधाय हस्ते रक्षामणिं बबन्ध ॥३४॥
आज्ञा मातः पितरिति सुतं सम्पतन्तं पदान्ते
दोर्भ्यां धृत्वा हृदि निदधतौ स्तन्यबाष्पाम्बुसिक्तम् ।
चुम्बन्तौ तद्वदनकमलं मार्जयन्तौ कराभ्यां
जिघ्रन्तौ तं शिरसि पितरावूहतुर्बाष्पकण्ठम् ॥३५॥
आदौ हे मातरित्युक्त्वा आज्ञां देहीति वक्तव्ये आज्ञा इति । प्रेमोद्रेकेणोक्त्वा पदान्ते पतन्तं सुतं पश्चात्हे पितरिति पदान्ते सम्पतन्तं तौ पितरौ दोर्भ्यां हृदि धृत्वा स्तन्यबाष्पाम्बुसिक्तं निदधतौ तद्वदनकमलं चुम्बन्तौ कराभ्यां मार्जयन्तौ शिरसि जिघ्रन्तौ बाष्पकण्ठमूहतुः ॥३५॥
भूर्द्यौर्भव्या भवतु भवतो रक्षिता श्रीनृसिंहः
शस्तः पन्था वनमपि शुभं भावुका दिग्विदिक्च ।
स्वागम्यः स्वं पुनरथ गृहं मङ्गलालिङ्गितस्त्वं
दत्तानुज्ञः स इति मुमुदे वत्सलाभ्यां पितृभ्याम् ॥३६॥
भवतस्तव रक्षिता श्रीनृसिंहो भवतु इत्युक्त्वा आशीर्वादपूर्वकं पितृभ्यां वनगमने दत्तानुज्ञः दत्ता अनुज्ञा आज्ञा यस्मै स श्रीकृष्णो मुमुदे । आशीर्वादप्रकारमाह—
भवतः भूर्द्यौर्भव्या भवतु शस्तः पन्था भवतु । वनमपि शुभं भवतु । दिग्विदिक्च भावुका भवतु । मङ्गलैरालिङ्गितः मङ्गलयुक्तस्त्वं पुनः स्वं गृहं स्वागम्यः सुखेनागमनीयः । भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियमित्यमरः ॥३६॥
यथा पितृभ्यां स तथा बलाम्बाप्य्
अम्बा किलिम्बाद्युपमातृयुक्तया ।
गोपैश्च गोपीनिवहैश्च लालितो यथा
हरिस्तैः स बलोऽप्यभूत्तथा ॥३७॥
पितृमातृरोहिणी अम्बा किलिम्बा गोपगोपीसमूहैः । यथा स हरिर्लालितस्तथा स बलोऽपि तैः पित्रादिभिर्लालितोऽभूत॥३७॥
व्रजाङ्गनानां तृषिताक्षिचातकान्
सिञ्चन्कटाक्षामृतवृष्टिधारया ।
न्यवेदयत्काननयानमात्मनस्
ताभिः स्वदृष्ट्यैव स चानुमोदितः ॥३८॥
व्रजाङ्गनानां तृषितनेत्रचातकान्स्वकटाक्षामृतधारया सिञ्चनात्मनः काननगमनं तत्रैव न्यवेदयत। ताभिरपि स्वदृष्ट्या एवं स श्रीकृष्णश्चानुमोदितोऽभूत॥३८॥
तासां मनोदीनकुरङ्गसङ्घान्
विलोक्य लोलान्रुचिपल्लवान्स्वान।
निन्ये स्फुटं चारयितुं स्वसङ्गे
सन्दान्य दृक्शृङ्खलया स्वयासौ ॥३९॥
असौ श्रीकृष्णस्तासां व्रजसुन्दरीणां मनोरूपदीनमृगसङ्घान्लोलान्विलोक्य स्वस्य रुचिरूपपल्लवान्चारयितुमास्वादयितुं स्वदृक्शृङ्खलया सन्दान्य अद्धा स्वसङ्गे निन्ये । तासां मनांसि श्रीकृष्णकान्तिभिराकृष्टानि भूत्वा ययुरिति भावः ॥३९॥
द्वित्राः क्षेप्याः सुमुखि घटिकाश्चक्षुषी मुद्रयित्वा
मा गाः खेदं सपदि भविता सङ्गमो नौ वनान्ते ।
आगन्तव्यं मयि करुणया छद्मनाशु स्वकुण्डं
कृष्णश्चक्रे स्फुटमनुनयं राधिकायां दृशेत्थम् ॥४०॥
हे सुमुखि राधे ! चक्षुषी मुद्रयित्वा द्वित्राः घटिकाः क्षेप्याः । खेदं मा गाः मा कुरु नाप्नुहि । नौ आवयोर्वनान्ते सङ्गमो भविता । तया केनापि छद्मना आशु स्वकुण्डमागन्तव्यमित्थमनेन प्रकारेण श्रीकृष्णः राधिकायामनुनयं चक्रे ॥४०॥
ययाचे राधिकामाज्ञां स्वदृशा दैन्यपूर्णया ।
कातर्यं वमताभूत्तत्कटाक्षेणानुमोदितः ॥४१॥
दैन्येन पूर्णया दृशा स श्रीकृष्णः राधिकामाज्ञां ययाचे । तस्या राधायाः कातर्यं वमता कातर्योद्गारिणा कटाक्षेण अनुमोदितोऽभूत॥४१॥
मध्येनभः सम्मिलनेऽप्यलूनैर्
जवात्प्रविष्टैर्हृदये मिथस्तौ ।
कटाक्षबाणैरपि मोदमाप्तौ
प्रेम्नो विचित्रा हि गतिर्दुरूहा ॥४२॥
मध्येनभः आकाशमध्ये उभयोः कटाक्षयोः संमिलनेऽपि अलूनैरच्छिन्नैः कटाक्षबाणैर्जवाद्धृदये प्रविष्टैः । तौ राधाकृष्णौ मिथः परस्परं मोदं प्राप्तौ । बाणप्रहारेऽपि मोदाप्तौ कारणमाह—
प्रेम्नो गतिर्दुरूहा विचित्रा च ॥४२॥
राधामनोमीनमयं स्वसङ्गे
स्वकान्तिजालेन निबध्य निन्ये ।
रुरोध तच्चित्तमरालमुत्कं
सापि स्वदृक्कूणनपञ्जरान्तः ॥४३॥
यथा अयं श्रीकृष्णः राधामनोरूपमीनं स्वकान्तिरूपजालेन निबध्य स्वसङ्गे निन्ये । तथा सापि तच्चित्तरूपहंसमुत्कण्ठितं दृशोः कूणनं दृष्टिपातः तद्रूपपञ्जरमध्ये रुरोध ॥४३॥
प्रेरयन्नग्रतो धेनूराकर्षन्पृष्ठतो व्रजम् ।
स मित्रैरावृतोऽरण्यं प्रवेष्टुमुपचक्रमे ॥४४॥
स अग्रतो धेनूः प्रेरयन्पृष्ठतः व्रजमाकर्षन॥४४॥
तिर्यग्ग्रीवं पुनः प्रेक्ष्य सव्रजौ स्नेहकर्षितौ ।
अन्वायान्तौ पुरस्तिष्ठन्नब्रवीत्पितरौ हरिः ॥४५॥
हरिस्तिर्यग्ग्रीवं यथा स्यात्तथा पुनः प्रेक्ष्य सव्रजौ स्नेहकर्षितौ अन्वायान्तौ पितरौ अब्रवीत॥४५॥
मातर्नातः परमिह पुरो गन्तुमर्ह्याटवीं वो
व्यावर्तध्वं त्वरितमिह मे प्रापणीया रसाला ।
तातैषाद्य त्रुटितशिखरा कन्दुकाक्षेपणी मे
गत्वा घोषं झटिति सुदृढाः पञ्चषाः कारणीयाः ॥४६॥
हे मातरग्रेऽटवीं गन्तुं वो युष्माभिरर्ह्या न यूयमतो व्यावर्तध्वम् । मे मह्यं रसाला त्वरितं प्रापणीया । तव गोष्ठगमनाभावे रसाला केन प्रापणीया । अन्यदपि मे कार्यान्तरं शृणु । मे कन्दुकाक्षेपणी एषा त्रुटितशिखरा बभूव । हे तात पञ्चषाः पञ्च वा षट्वा अतिदृढाः । कन्दुकाक्षेपण्यः कारणीयाः व्रजे काष्ठनिर्मितक्षेपण्याख्यं कन्दूकं क्षिप्त्वा क्रीडन्ति ॥४६॥
वलितग्रीवमूर्ध्वास्यं क्षुधितास्तृषिता अपि ।
तस्तम्भिरे पुरो गावः पश्याम्ब मदपेक्षया ॥४७॥
वलितग्रीवमूर्ध्वास्यं यथा स्यात्क्षुधितास्तृषिता गावः अपि मदपेक्षया तस्तम्भिरे पश्य ॥४७॥
प्रेषयिष्यामि सद्भोज्यं भुक्त्वा मध्याह्न एव तत।
आगच्छेरपराह्ने त्वं तूर्णमित्याह तं प्रसूः ॥४८॥
तत्सद्भोज्यं मध्याह्ने भुक्त्वा त्वमपराह्ने आगच्छेरिति प्रसूर्माता तमाह ॥४८॥
सोऽप्यब्रवीत्तां कृतभोजनौ चेत्
श्रोष्यामि गेहे मुदितौ भवन्तौ ।
भोक्ष्यामि भोज्यं प्रहितं तदा ते
गृहं समेष्यामि न चान्यथाम्ब ॥४९॥
सोऽपि तामब्रवीत्गेहे कृतभोजनौ मुदितौ भवन्तौ चेत्यदि श्रोष्यामि तदा ते त्वया प्रहितं भोज्यं भोक्ष्यामि । गृहं च समेष्यामि अन्यथा युवयोः भोजनाद्यभावे न भोक्ष्यामि,
गृहं च न समेष्यामि ॥४९॥
कृतावनः कायमनोवचोभिः
संसिक्तदेहः स्तनदृक्पयोभिः ।
स चुम्बितालिङ्गित आकुलाभ्यां
मुहुर्मुहुर्दृष्टमुखः पितृभ्याम् ॥५०॥
उद्यद्वियोगोष्णरविप्रतापितैः
सिक्तैर्निजप्रेक्षणवीचिशीकरैः ।
कटाक्षधारानलनालिकाचयैर्
निपीतलावण्यसरःप्रियागणैः ॥५१॥
व्रजत्यागारण्ययानोत्पन्नाभ्यां नन्दनन्दनः ।
वैमनस्योन्मनस्याभ्यां व्याग्रोऽसौ प्राविशद्वनम् ॥५२॥
(
सन्दानतिकम्)
स श्रीनन्दनन्दनः श्रीकृष्णः आकुलाभ्यां पितृभ्यां कायादिभिः कृतावनः कृतमवनं रक्षणं यस्य सः । पुनस्ताभ्यां स्तनदृक्पयोभिः संसिक्तदेह आलिङ्गितश्चुम्बितश्च दृष्टमुखः एवंभूतो भूत्वा उद्यद्वियोगे एव उष्णरविर्ग्रीष्मकालीनसूर्यस्तेन प्रकर्षेण तापितैः निजस्य श्रीकृष्णस्य प्रेक्षणरूपवीचिस्तरङ्गस्तस्य शीकरैरम्बुकणाभिः सिक्तैः प्रियागणैः कटाक्षस्य धारा,
सैव नलनालिका नलस्य सच्छिद्रतृणविशेषस्य प्रणालिका तासां चयैः समूहैः करणैर्निपीतो लावण्यरूपो रसो यस्य तथाभूतः सन्,
व्रजत्यागजन्यवैमनस्यं तथा अरण्ये यानं गमनं तज्जन्यमुन्मनस्यं,
ताभ्यां व्यग्रः सन्वनं प्राविशत॥५०५२॥
व्रजस्य कृष्णे निहितेक्षणस्या
खिलेन्द्रियाणां नयनत्वमासीत।
तस्मिन्वनेनान्तरिते क्षणेन
तेषां समन्तात्सुविलीनताभूत॥५३॥
कृष्णे निहितेक्षणस्य व्रजस्य व्रजजनानामखिलेन्द्रियाणां नयनत्वमासीत्दर्शनोत्साहेन अखिलेन्द्रियाण्यपि नेत्ररूपाणि बभूवुः । ते सर्वेन्द्रियैः श्रीकृष्णं ददृशुरिति भावः । अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति [ब्र.सं. ५.४२] इति नित्यसिद्धा मुकुन्दवदिति च प्रमाणम् । यद्वा,
नयनत्वं स्वस्वकार्यकारित्वम् । तस्मिन्कृष्णे वनेनान्तरिते सति तेषामिन्द्रियाणां क्षणेन समन्तात्सुविलीनता चेष्टाराहित्यमभूत॥५३॥
चरत्वतः स्थावरतैव धन्या
वनं प्रयात्येष विहाय यन्नः ।
इतीव खिन्नाः स्फुटमादधुस्तां
स्तम्भस्य दम्भात्व्रजवासिनस्ते ॥५४॥
यद्यस्मात्नोऽस्मान्जङ्गमान्विहाय त्यक्त्वा एष श्रीकृष्णः स्थावरं वनं प्रयाति अः तस्माच्चरत्वतः चरतीति चरस्तस्य भावः चरत्वं,
तस्मात्जङ्गमत्वात्स्थावरतैव धन्या इति हेतोरिव स्तम्भस्य दम्भात्छलात्ते व्रजवासिनः खिन्नाः स्फुटं तां स्थावरतामादधुः ॥५४॥
हरेश्चिल्लीचिल्लीगिलितमतिमीलच्छफरिका
मुखाम्भोजान्म्लानाच्चलितचलदृष्टिभ्रमरिकाः ।
वियोगोद्यत्पङ्कावलिपतितहंसा न विबभुस्
तदाभीरीनद्यो वनशुचिहृते जीवनधने ॥५५॥
तदा वनरूपशुचिना निदाघेन जीवनधने जीवनस्य धनं सर्वस्वं श्रीकृष्णः,
किं वा जीवनरूपः श्रीकृष्णः स एव धनं,
तत्जीवनधनमेव,
नदीपक्षे जीवनधनं जलरूपधनं तस्मिन्हृते सति आभीरीरूपा नद्यो न विबभुः,
भा दीप्तौ धातुः । कीदृश्यः सत्यः ?
हरेश्चिल्ली भ्रूरेव चिल्ली चिलाख्यपक्षिविशेषस्त्री । तया गिलिता मतिर्विवेकशीला बुद्धिस्तद्रूपमीलच्छफरिका मत्स्यविशेषो यासां ताः । म्लानात्मुखरूपाम्भोजात्चलिता गताश्चलदृष्टिरूपा भ्रमरिका भ्रमर्यो यासां ताः । कृष्णवियोगरूपोद्यत्पङ्कावलिषु पतितहंसाः प्राणास्त एव हंसा यासां ताः ॥५५॥
अस्यानुरूपरूपकमुद्धवसन्देशे द्रष्टव्यम्—
अक्रूराख्ये हृतवति हठाज्जीवनं मां निदाघे
विन्दन्तीनां मुहुरविरलाकारमन्तर्विदारम् ।
सद्यः शुष्यन्मुखवनरुहां वल्लवीदीर्घिकाणां
आसामाशामृदमनुसृताः प्राणकूर्माः वसन्ति ॥ [उ.सं. ९८]
अभ्यासतोऽथ व्रजवासिनस्ते
विमोहितौ तौ व्रजपौ गृहीत्वा ।
कृष्णानुगामिस्वमनोविहीनैर्
देहैः परं गेहमयुर्निरीहाः ॥५६॥
निरीहाश्चेष्टारहिता अपि ते व्रजवासिनः । विमोहितौ तौ यशोदानन्दौ गृहीत्वा कृष्णानुगामिस्वमनोविहीनैरपि देहैः सह अभ्यासतः परं केवलं देहाभ्यासं गेहमयुर॥५६॥
स्वां स्वां सख्योऽपि यूथेशां यत्नादादाय मूर्च्छिताम् ।
निन्युर्गृहं यन्त्रचञ्चत्प्रतिमाः प्रतिमामिव ॥५७॥
सख्योऽपि मूर्च्छितां स्वां स्वां यूथेशां यत्नादादाय गृहीत्वा गृहं निन्युः । काः कमिव काष्ठादिनिर्मितयन्त्रप्रेरिताः प्रतिमाः काष्ठादिमयप्रतिमामिव । इत्यनेन तासां प्रेमाधिक्यं ज्ञेयम् ॥५७॥
कुन्दवल्ल्यथ तां राधां स्वयं व्यग्राप्यचेतनाम् ।
आदायायाद्व्रजं यत्नाद्विचित्तैस्तत्सखीजनैः ॥५८॥
व्यग्रापि कुन्दवल्ली अचेतनां तां राधां यत्नादादायायाद्विचित्तैश्चित्तरहितैस्तत्सखीजनैः सह व्रजमायात॥५८॥
यद्यप्यस्मिन्न्यस्तचित्ता व्रजस्था
आतद्दर्शं ज्ञप्तिशून्यास्तथापि ।
तत्तत्कर्माण्याचरन्ति स्म यद्वज्
जीवन्मुक्ता देहसंस्कारतस्ते ॥५९॥
अस्मिन्श्रीकृष्णे न्यस्तचित्तास्ते व्रजस्थाः,
यद्यपि आ तद्दर्शं यावत्कृष्णदर्शनं न स्यात्तावत्कालपर्यन्तं शून्या ज्ञप्तिर्ज्ञानं तत्,
तथापि देहसंस्कारात्जीवन्मुक्ता इव तत्तत्कर्माणि कुर्वन्ति स्म ॥५९॥
अत्र विश्वनाथस्य चमत्कारव्याख्या प्राप्यते—
मद्विच्छेदरुजोऽनुभावकमहो चेतः प्रियाणामतस्
तन्नीत्वा निजसङ्ग एव विपिनं यामीति याते हरौ ।
को नः स्याद्विषयोऽन्य इत्यनुनयस्तेषां दृशो वेश्म तु
स्वस्ववर्ष्मभिरेव संस्कृतिवशान्मुक्तोपमास्तेऽविशन॥ [कृ.भा. ७.७५] इति ॥
निर्माणोत्कां स्वपथि जटिलां गोशकृत्पिण्डिकानां
वध्वा वर्त्मन्यथ धृतदृशं व्याकुलां कुन्दवल्ली ।
दृष्ट्वाऽवादीज्जडिमकलितां राधिकां चेतयन्ती
कृष्णाभ्यर्णं नयनिपुणधीस्तूर्णमेनां निनीषुः ॥६०॥
नये नीतौ निपुणा धीर्यस्याः सा कुन्दवल्ली जडिमयुक्तां राधां चेतयन्ती तथा तूर्णं कृष्णनिकटमेनां राधां निनीषुः नेतुमिच्छा यस्या सा । स्वपथि स्वानां गमनमार्गे । गोशकृत्गोमयं तस्य पिण्डिकानां निर्माणे उत्कण्ठितां वध्वाः राधायाः वर्त्मनि धृतदृशं व्याकुलां जटिलां दृष्ट्वा तामवादीत॥६०॥
नमाम्यार्ये स्नुषेयं ते कल्याणी नीयतां पुरः ।
छायाप्यस्या न कृष्णस्य दृष्टिगोचरतां गता ॥६१॥
हे आर्ये ! त्वां नमामि । कल्याणीयं ते स्नुषा नीयताम् । अस्याः छायापि श्रीकृष्णस्य नेत्रगता नाभूत॥६१॥
साब्धिद्वीपा भवति पृथिवी यस्य नैकस्य मूल्यं
तादृग्दिव्यामितमणिमयं पश्य शच्याप्यलभ्यम् ।
सर्वाङ्गीनं वसनसहितं भूषणं दत्तमस्यै
गोष्ठेश्वर्या मुदितमनसा पाकनैपुण्यतोऽस्याः ॥६२॥
अस्याः पाकनैपुण्यतः मुदितमनसा गोष्ठेश्वर्या अस्यै राधायै सर्वाङ्गीनं सर्वाङ्गे देयं वसनसहितं भूषणं दत्तम् । कीदृशं ?
साब्धिद्वीपा भवति पृथिवी यस्य एकस्यापि मणेर्मूल्यं न भवति । तादृशं दिव्यालौकिकामितमणिमयं शच्याप्यलभ्यं किं पुनरन्यया ॥६२॥
धर्मार्थलाभान्मुदिता स्नुषायास्
तयैव कार्यान्तरमुच्चिकीर्षुः ।
स्वाभीष्टसम्पादनलब्धवर्णां
मत्वावदत्तां जटिला स्तुवन्ती ॥६३॥
स्नुषायाः श्रीकृष्णादर्शनात्धर्मलाभात्,
अमूल्यभूषणादिप्राप्त्या अर्थलाभाच्च मुदिता तया कुन्दवल्ल्या कार्यान्तरं कर्तुमिच्छुः स्वाभीष्टस्य सम्पादने लब्धवर्णां विचक्षणां मत्वा तां कुन्दवल्लीं स्तुवन्ती जटिला अवदत। लब्धवर्णा विचक्षणा इति अमरः ॥६३॥
एह्येहि वत्से कुशलं भवत्यास्
त्वच्छीलनिर्मञ्छनमाशु यामि ।
स्निग्धासि यत्त्वं मयि सस्नुषायां
मदाशिषा त्वं सुतवस्करा स्याः ॥६४॥
हे वत्से ! एह्येहीति आदरे भवत्यास्तव कुशलं,
तत्तव शीलस्य स्वभावस्य निर्मञ्छनं यामि । यद्यस्मात्सस्नुषायां मयि त्वं स्निग्धासि,
तत्तस्मात्मदाशिषा सुतवस्करा सप्तपुत्रप्रसूता त्वं स्याः ॥६४॥
स्वयं साध्वी प्रगल्भा त्वमन्यासां धर्मपालने ।
आत्मनीव प्रतीतिर्मे त्वयि त्वां प्रार्थये ततः ॥६५॥
त्वं स्वयं साध्वी भूत्वा अन्यासां धर्मपालने त्वं प्रगल्भासि मम आत्मनीव त्वयि प्रतीतिः । ततस्त्वां प्रार्थये ॥६५॥
धर्मे पत्न्या पालिते तत्पतिः स्याद्
गोमान्पुत्री वित्तवांश्चायुराढ्यः ।
इत्याहास्मान्पौर्णमासी स्मृतिज्ञा
सेयं तत्त्वय्यर्पिता धर्मगुप्त्यै ॥६६॥
पत्न्या धर्मे पालिते तत्पतिः गोपुत्रधनायुष्मान्स्यादिति स्मृतिज्ञा पौर्णमासी अस्मानाह । तत्तस्मात्सेयं राधा धर्मगुप्त्यै धर्मरक्षायै त्वय्यर्पिता ॥६६॥
धर्मादर्थश्च कामश्चेत्यादि सत्यं सतां वचः ।
यतोऽस्याः पालिताद्धर्मात्भूयानर्थोऽपि साधितः ॥६७॥
पालिताद्धर्मातस्याः भूयानर्थोऽपि साधितः स्यात॥६७॥
एकः सुतो मे कुशली यथासौ
कुलेऽमले स्यान्न यथा कलङ्कः ।
धर्मं तथास्याः परिपालयन्ती
निर्वाह्य सूर्यार्चनमानयैनाम् ॥६८॥
एकः मे सुतो यथा कुशली स्यातमले कुले च कलङ्को यथा न स्यात्,
तथास्याः
धर्मं परिपालयन्ती सूर्यपूजां निर्वाह्य एनामानय ॥६८॥
राधे त्वं ताम्रकुण्डीमरुणकपिलिकाक्षीरदध्याज्यमिज्यं
सार्पिष्कान्नं जवामैक्षवमथ घुसृणं पत्रकं पद्ममालाम् ।
सार्धं सख्यानयेत्याद्युपकरणचयं पुत्रि गेहाद्गृहीत्वा
गार्ग्या वा केनचिद्वार्चनपटुबटुना याहि सूर्यार्चनाय ॥६९॥
हे पुत्रि राधे ! त्वं गेहात्ताम्रकुण्ड्याद्युपकरणचयं गृहीत्वा,
अनया कुन्दवल्ल्या सख्या सार्धं गार्ग्या वा अर्चनपटुना केनचिद्ब्राह्मणबालकेन वा सह सूर्यार्चनाय याहि । अरुणकपिलाज्यं कीदृशं ?
इज्यं पूजार्हम् । सार्पिष्कान्नं सघृततण्डुलं घृतपक्वान्नं वा जवां जवापुष्पमैक्षवमिक्षुविकारं खण्डशर्करादि घुसृणं केशरं पत्रकं रक्तचन्दनम् ॥६९॥
चण्डासि साध्वी ललिते त्वयासौ
नैकाकिनी क्वापि सखी विधेया ।
गन्धोऽपि यस्यां किल नन्दसूनोस्
तस्यै दिशे वोऽञ्जलिरेव कार्यः ॥७०॥
हे ललिते ! त्वं साध्वी चण्डा प्रगल्भा च भवसि । त्वया ते सखी राधा एकाकिनी क्वापि न विधेया,
यस्यां दिशि श्रीकृष्णस्य गन्धोऽप्यस्ति,
तस्यै दिशे वो युष्माभिरञ्जलिर्नमस्कार एव कार्यः,
तत्र सर्वथा नैव गन्तव्यमिति भावः ॥७०॥
अत्यारूढं दिनं वत्से सन्ति गोमयराशयः ।
युवयोर्न्यस्तभारा स्यां निश्चिन्तोत्पलिकाकृतौ ॥७१॥
हे वत्से ललिताकुन्दल्ल्यौ ! युवयोरुपरि स्नुषाया रक्षा सूर्यपूजार्थं न्यस्तभाराहं स्यां,
गोमयैरुपलिकाकृतौ निश्चिन्ता स्याम् ॥७१॥
तामूचतुस्ते हृदि सम्प्रहर्षिते
निश्चिन्तमार्ये क्रियतां क्रिया निजा ।
आवामवावः सततं भवद्वधूं
तारामिवाक्ष्णः सहपक्ष्मलोचके ॥७२॥
ते कुन्दवल्लीललिते तां जटिलामूचतुः । हे आर्ये ! निश्चिन्तं निजक्रिया क्रियतां भवत्येति शेषः । आवां भवद्वधूं पक्ष्मणा सह वर्तमाने सहपक्षिणी तथाभूते लोचके नेत्राच्छादके ऊर्ध्वाधोवर्तिनी चर्मणी अक्ष्णस्तारामिवावावः,
रक्षां करिष्यावः ॥७२॥
ताः प्रोन्मत्ता अपि जटिलायाः
पीत्वाज्ञावाङ्मधुमधुराङ्ग्यः ।
आनन्दोत्फुल्लिततनुचित्ता
धैर्यं धृत्वा गृहमनुजग्मुः ॥७३॥
ता गोप्यो जटिलायाः आज्ञावागेव मधु तत्पीत्वा प्रोन्मत्ता अपि आनन्दोत्फुल्लिततनुचित्ता मधुराङ्ग्यः आनन्दातिशयेन गन्तुमसमर्था अपि,
धैर्यं धृत्वा गृहमनुजग्मुः ॥७३॥
आगत्य खट्टोपरि सन्निविष्टां
श्रीराधिकां क्षालितमार्जिताङ्घ्रिम् ।
दास्यो मुदा पर्यचरन्निजेशां
पादाब्जसंवाहनवीजनाद्यैः ॥७४॥
स्वगृहमागत्य खट्टोपरि उपविष्टां निजेशां राधां दास्यः पादसंवाहनवीजनाद्यैः पर्यचरन॥७४॥
मल्लीरङ्गणकर्णिकारबकुलाऽमोघालतासप्तला
जातीचम्पकनागकेशरलवङ्गाब्जादिपुष्पोच्चयम् ।
श्रीवृन्दाप्रहितं वनादलिकुलास्पृष्टं दरोज्जृम्भितं
स्वेश्वर्याः पुरतो न्यधाद्वनसखी श्रीनर्मदा मालिनी ॥७५॥
मल्लीरङ्गणादिपुष्पसमूहं वनात्श्रीवृन्दादेव्याः प्रहितं भ्रमरैरस्पृष्टमल्पविकसितं स्वेश्वर्याः राधायाः पुरतः वनसखी नर्मदानाम्नी मालिनी न्यधात। कर्णिकारः स्वर्णवर्णपद्माकारपुष्पम् । कर्णिकारः पुमानावथपत्रे च द्रुमोत्पले इति मेदिनी । कर्णिकारो मतः पुंसि शामाह्ये च द्रुमोत्पल इति विश्वः । अमोघा लता सप्तला नवमल्लिका भ्रमरास्पृष्टमल्पविकसितमित्यनेन पुष्पाणां म्लानराहित्यं सौगन्ध्यवर्णयोः परिपूर्णत्वमायाति ॥७५॥
कृष्णाङ्गकामालयवैजयन्तिकां
तैर्वैजयन्तीं विरचय्य सा व्यधात।
राधा स्वनैपुण्यगुणादिसूचिकां
कर्पूरकृष्णागुरुसत्त्वभाविताम् ॥७६॥
सा राधा तैः पुष्पैर्वैजयन्तीं पञ्चवर्णमयीं मालां विरचय्य कर्पूरादिसत्त्वैर्वासितां व्यधात। कीदृशीं ?
श्रीकृष्णाङ्गरूपकाममन्दिरस्य वैजयन्तिकां जयपताकाम् । श्रीराधायाः स्वनैपुण्यगुणादेः तादृक्गुणजनकपुण्यस्य सूचिकाम् ॥७६॥
एलेन्दुजातीफलखादिरान्विताः
स्वपाणिहृत्सौरभरागभाविताः ।
कृष्णाक्षिचित्ताननचन्द्ररञ्जिकाः
सा नागवल्लीदलवीटिका व्यधात॥७७॥
सा राधा नागवल्लीदलस्य ताम्बूलस्य वीटिकाः व्यधात। कीदृशीः ?
एला इन्दुः कर्पूरः जातीफलं खादिरः स्वार्थेऽन्खदिर एतैरन्विता युक्ताः स्वपाणेर्हृदयस्य च सौरभरागाभ्यां भाविताः श्रीकृष्णाक्षिचित्तयोः आननचन्द्रस्य सत्रञ्जिकाः ॥७७॥
मालामेतां तुलसि हरये वीटिकाश्चोपहृत्य
ज्ञात्वा वृन्दा सुबलमुखतः केलिसङ्केतकुञ्जम् ।
आगच्छताशु त्वमिति ललिताप्रेरितादाय तान्ताः
कस्तूर्यालीसहिततुलसी कृष्णपार्श्वं प्रतस्थे ॥७८॥
हे तुलसि ! मालां वीटिकाश्च हरये उपहृत्य दत्त्वा वृन्दा सुबलमुखात्केलिसङ्केतकुञ्जं ज्ञात्वा शीघ्रमागच्छ इति ललितया प्रेरिता कस्तूर्या सह तुलसी तां मालां ताः वीटिकाश्चादाय कृष्णपार्श्वं प्रतस्थे ॥७८॥
श्रीराधिकाप्यथ सखीसहितातिदक्षा
श्रीकृष्णचन्द्रसकलेन्द्रियतर्पणानि ।
कर्पूरकेल्यमृतकेलिमुखानि कामं
कर्तुं समारभत साद्भुतलड्डुकानि ॥७९॥
श्रीराधा सखीसहिता कर्पूरकेलिमुखानि अद्भुतलड्डुकानि कर्तुं समारभत ॥७९॥
यदपि निजसखी सान्वेषणायास्य याता
स्वयमपि च निमग्ना कृष्णसम्बन्धिकृत्ये ।
तदपि हरिमुखेन्दोर्दर्शनोत्काथ मेने
त्रुटिमपि युगलक्षं व्यग्रराधाचकोरी ॥८०॥
यदपि अस्य श्रीकृष्णस्य अन्वेषणाय सा निजसखी तुलसी याता,
स्वयमपि श्रीकृष्णसम्बन्धिकृत्ये लड्डुकानिर्माणे निमग्ना,
तदपि श्रीकृष्णमुखदर्शनोत्काण्टःइता त्रुटिकालमतिसूक्ष्मकालमपि युगलक्षं मेने । तत्र हेतुमाह—
व्यग्रा चैषा राधाचकोरीति ॥८०॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टवरजे गोविन्दलीलामृते
सर्गः पञ्चम एष साधु निरगात्पूर्वाह्नलीलामनु ॥ओ॥
॥५॥
.
(
६)
षष्ठः सर्गः
प्रविष्टोऽथ वनं पश्चात्पश्यन्वलितकन्धरम् ।
उज्जिजृम्भे हरिर्वीक्ष्य निवृत्तान्व्रजवासिनः ॥१॥
अथानन्तरं हरिर्वक्रकन्धरं यथा स्यात्पश्चात्भागं पश्यन्निवृत्तान्व्रजराजमुखान्व्रजवासिनो वीक्ष्य वनं प्रविष्टः सनुज्जिजृम्भे हर्षोत्फुल्लोऽभूत॥१॥
कृष्णमत्तेभ उन्मुक्तो घोषदृग्दृढशृङ्खलात।
उच्छ्वसंश्चपलः स्वैरी काननेऽन्य इवाभवत॥२॥
घोषनिवासिनां दृगेव दृढशृङ्खलं तस्मादुन्मुक्तः कृष्णमत्तेभ उच्छ्वसनुत्प्लुत्य गच्छन्श्वसप्लुतगतौ धातुः । अन्य इव कानने चपलः स्वैरी स्वेच्छाचारी चाभवत। अनेन घोषवासिनां प्रेमाधीनत्वं स्वत एव आयातम् ॥२॥
श्रीकृष्णसच्चित्रपटे विमोचिते
व्रजाक्षिबन्धाद्वनचित्रकारिणा ।
प्रादुर्बभूवुर्नयनोत्सवानि
तद्विहारचित्राणि शुभान्यनेकधा ॥३॥
वनरूपचित्रकारिणा कर्त्रा व्रजाक्षिबन्धात्श्रीकृष्ण एव सच्चित्रपटस्तस्मिन्विमोचिते सति शुभानि मङ्गलानि नयनोत्सवानि नयनानामुत्सवो येभ्यस्तानि चित्राणि अनेकधा अनेकविधानि तत्तस्य श्रीकृष्णस्य विहाररूपचित्राणि प्रादुर्बभूवुः । व्रजाक्षिबन्धात्मुक्त इत्यनेन तेषां गौरवेण तादृशी लीला न भवति ॥३॥
नृत्यन्ति गायन्ति हसन्ति गोपाः
कूर्दन्ति नन्दन्ति परिस्खलन्ति ।
नर्माणि तन्वन्ति लसन्त्यथैते
बन्धाद्विमुक्ताः कलभोत्तमा वा ॥४॥
गोपाः नृत्यन्ति नर्माणि तन्वन्ति एते गोपाला बन्धाद्विमुक्ताः । कलभोत्तमाः करिशावकश्रेष्ठाः । वा इवार्थे । हस्तिबालका बन्धाद्विमुक्ताः,
यथा यथेष्टयाचरन्ति तथेत्यनेन यथेष्टाचरणां सेवनांशे च दृष्टान्तः ॥४॥
स्थितिं स्थिरां मातृपुरो बकारेर्
एकेऽङ्गनास्वस्य दृशं च लोलाम् ।
सङ्घट्टदृष्टामनुकुर्वतेऽन्ये
चेष्टां गिरं च स्खलितां जनानाम् ॥५॥
माताप्रेयस्योरग्रे श्रीकृष्णस्य यादृशं स्थितिदृष्ट्योः स्थैर्यं चाञ्चल्यं च । मातृपुरो मात्è
णामग्रे अस्य बकारेः स्थितिं स्थिरां,
दृशं च स्थिराम् । तथा अङ्गनासु प्रेयसीषु स्थितिं लोलां दृशं च लोलां वात्सल्यमधुरभावजन्याम् । एके सखायः अनु कुर्वते । अनु तत्सदृशीं स्थितिं स्थिरां दृशं च स्थिरां लोलां च कुर्वते । अन्ये सखायः जनानां तद्भिन्नजनानामग्रे श्रीकृष्णस्य सङ्घट्टां क्वापि समये लोला क्वापि क्वापि समये समां स्थिरां स्थितिं दृशं च यथा दृष्टिगोचरीं तादृशीमनु कुर्वते । तथा मातृप्रेयस्यादीनामग्रे वात्सल्यादिभारवशात्क्वापि समये श्रीकृष्णस्य स्खलितां गिरं चेष्टां च अनुकुर्वते ।
ननु व्रजपरिकराणां चेष्टामात्रमपि श्रीकृष्णसुखतात्पर्यकमेव । ये श्रीकृष्णसुखतात्पर्यकचेष्टावन्तो,
न ते परिकरा एव,
न पूर्वश्लोकोक्तनृत्यादिकं श्रीभागवतोक्तं सुखकरं च । अत्रोक्तश्रीकृष्णस्य स्थित्यादेरनुकरणेन श्रीकृष्णस्य का प्रीतिर्भवेत्?
उच्यते श्रीकृष्णाविष्टचित्तानां व्रजसुन्दरीणां मधुररसवतीनां श्रीकृष्णस्य परोक्षे रासलीलायां कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनं [भा.पु. १०.३०.१५] इत्यादि भयानकासुरवधादिलीलानुकरणं कृष्णाकर्षकं कृष्णसुखदं चाभूत। श्रीकृष्णसखीनां श्रीकृष्णसन्निधौ परमानन्दमयं श्रीकृष्णस्य स्थिरचाञ्चल्यादिलीलानुकरणं सख्यरसस्य परमपुष्टिकरमसङ्ख्यश्रीकृष्णसुखदं भवेदेवेति किमाश्चर्यम् ॥५॥
केचिद्वृक्षलतावृताः प्रचपलापाङ्गैः स्मितार्द्रं मनाग्
उद्घाट्याम्बरसंवृताननममुं गोपालयोषायिताः ।
पश्यन्तो व्यहसन्परे च धवला लेखायमाना मुदा
व्यालम्ब्याङ्घ्रिकरैर्महीं विलुलितग्रीवोर्ध्वकर्णाननाः ॥६॥
केचिद्गोपा गोपालानां योषित इवाचारिताः । आचरणमाह—
वृक्षलताभिरावृताः । स्मितेनार्द्रमम्बरेण आवृतं च मुखं मनागुद्घाट्य अमुं श्रीकृष्णं प्रचपलापाङ्गैः पश्यन्तो व्यहसन। परे च गोपा अङ्घ्रिकरैर्महीं व्यालम्ब्य धवला लेखायमाना गवाकारा भूत्वा गाव इव आचरिताः । विवलितवक्रीकृतग्रीवाश्च ते ऊर्ध्वकर्णाननाश्च भूत्वा अमुं श्रीकृष्णं च पश्यन्तो व्यहसन। श्रेणी लेखास्ते राजय इत्यमरः ॥६॥
वितण्डापण्डिताः केचित्तत्तच्छब्दार्थखण्डनैः ।
दण्डादण्डिरणैरन्ये दोर्दण्डसङ्गरैः परे ॥७॥
क्षिप्तानेकास्त्रकाण्डौघैर्दण्डभ्रमणकौशलैः ।
लास्यैर्हास्यैः परे दास्यैस्तोषयामासुरच्युतम् ॥८॥
वितण्डा परमतखण्डनं तत्र पण्डिताः केचित्गोपाः । तत्तत्कृष्णादिभिरुक्तं यद्यत्तेषां तेषां शब्दार्थानां खण्डनैः । दण्डेन दण्डं सन्ताड्य वृत्तै रणैर्दण्डादण्डिरणैः । दोर्दण्डाभ्यां हस्तरूपदण्डाभ्यां सङ्गरैर्युद्धैः क्षिप्तैरनेकास्त्रैः काण्डौघैश्दण्डभ्रमणकौशलैः । लास्यैर्नृत्यैर्हास्यैर्दास्यैस्तेऽच्युतं तोषयामासुः । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु इत्यमरः ॥७८॥
अथागतं कृष्णमवेक्ष्य वृन्दा
वृन्दाटवीं तद्विरहात्विषण्णाम् ।
वृन्दं च साऽबोधयदाकुलानां
वृन्दावनस्थावरजङ्गमानाम् ॥९॥
वृन्दा आगतं श्रीकृष्णमवेक्ष्य तत्तस्य कृष्णस्य विरहात्विषण्णां वृन्दाटवीम् । तथा श्रीकृष्णविरहाताकुलानां वृन्दावनस्थावरजङ्गमानां वृन्दं चाबोधयत॥९॥
अटवि सखि समायान्माधवोऽसौ समन्तात्
विसृज विरहघूर्नां तूर्णमुल्लालसीहि ।
स्वगुणगणविकाशैः स्वेश्वरीं स्मारयामुं
सफलय निजलक्ष्मीं चानयोः सद्विलासैः ॥१०॥
हे सखि अटवि असौ माधवः श्रीकृष्णः वसन्तश्च समायात्विरहोज्जन्यां घूर्णां विसृज तूर्णमुल्लालसयुक्ता भव । स्वेश्वरीं श्रीराधां स्वगुणगणविकाशैरमुं श्रीकृष्णं स्मारय । अनया राधाकृष्णयोः सद्विलासैः निजलक्ष्मीं सफलय ॥१०॥
प्रबुध्यध्वं वल्ल्यो विकसत नगाः कूर्दत मृगाः
पिका भृङ्गैर्गानं कुरुत शिखिनो नृत्यत मुदा ।
अधीध्वं भोः कीराः स्थिरचरगणा नन्दत चिरं
समायातो युष्मान्सुखयितुमसौ वः प्रियतमः ॥११॥
हे वल्ल्यः ! प्रबुध्यध्वम् । हे नगाः कूर्दत प्लुत्य गच्छत एवमग्रेऽपि ते स्फुटार्थाः । असौ प्रियतमः श्रीकृष्णः वो युष्मान्सुखयितुं समायातः ॥११॥
ततः स्वविच्छेददवाग्निमूर्च्छितां
समीक्ष्य तां चेतयितुं प्रियाटवीम् ।
कृष्णाम्बुदः स्वागमनं च शंसितुं
ववर्ष वंशीनिनदामृतान्यसौ ॥१२॥
असौ कृष्णाम्बुदः स्वविरहमूर्च्छितां प्रियाटवीं वीक्ष्य तां चेतयितुं स्वागमनं च शंसितुं वंशीनिनादामृतानि ववर्ष ॥१२॥
वंशीनिनादामृतवृष्टिसिक्ता
कृष्णाङ्गसङ्गानिलवीजताथ ।
श्रीवृन्दयाल्या च सुचेतितोच्चैर्
वृन्दाटवी सा सहसोन्मिमील ॥१३॥
वृष्टिसिक्ता वायुवीजता सुचेतिता च सा वृन्दाटवी सा उन्मिमील ॥१३॥
सत्त्वधर्मविपर्यासैर्वेणुनादामृतोत्थितैः ।
स्वसात्त्विकविकारैश्च तदाभूद्व्याकुलाटवी ॥१४॥
वेणुनादामृतोत्थितैः सत्त्वानां प्राणिनां धर्मविपर्यासैः जङ्गमानां स्थावरधर्मैः स्थावराणां जङ्गमधर्मैः स्वसात्त्विकविकारैश्चाटवी व्याकुला व्याप्ताभूत॥१४॥
प्रोद्यद्वेपथुरुच्चलं स्थिरचरैः स्तब्धा जडैर्जङ्गमैः
प्रस्विन्ना स्रवदश्रुजालसलिलैः श्वेता प्रसूनोत्करैः ।
साश्रुः पुष्पमधुद्रवैः स्वरभिदा युक्ता खगाली रवै
रोमाञ्चालि युता लताङ्कुरचयैर्वृन्दाटवी सा बभौ ॥१५॥
व्याकुलतामाह । सा वृन्दाटवी बभौ । कथं ?
तत्राह—
उच्चलद्भिः स्थिरचरैः प्रोद्यद्वेपथुः कम्पो यस्याः सा । जडैर्जङ्गमैः स्तब्धा । स्रवदश्रुसमूहजलैः प्रस्विन्ना स्वेदयुक्तः । प्रसूनोत्करैः श्वेता विवर्णा पुष्पमधुस्रवैः साश्रुः । पक्षिसमूहशब्दैः स्वरभेदयुक्ता । लताङ्कुरचयैः रोमाञ्चयुक्तैः ॥१५॥
मण्डिता विशतैकेन जाग्रतान्येन साटवी ॥
माधवेनाबभौ द्रष्टुं तं शोभा श्रीरिवागता ॥१६॥
सा वृन्दाटवी एकेन विशता माधवेन कृष्णेनान्येन जाग्रता माधवेन वसन्तेन च मण्डिता सती तं श्रीकृष्णं द्रष्टुमागता शोभा श्रीरिवाबभौ । अत्र चाभावो न्यूनपदत्वम् ॥१६॥
कूजद्भृङ्गविहङ्गपञ्चमकलालापोल्लसन्ती हरेश्
च्योतत्पक्त्रिमसत्फलोत्कररसोल्लासाटवी साभवत।
सम्फुल्लन्नलिनीविलासिविहसद्वल्लीमतल्लीनटी
लास्याचार्यमरुद्गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥१७॥
साटवी हरेः सर्वेन्द्रियाह्लादिनी अभवत। कीदृशी ?
कूजद्भ्रमरपक्षिणां पञ्चमः स्वरः उच्चैः स्वरस्तस्य कला वैदग्ध्यं यत्र तेनालापेन उल्लसन्ती उल्लासयुक्ता अनेन कर्णेन्द्रियसुखदा । च्योतता क्षरता पक्त्रिमाणां सुपक्वानां फलानामाम्रादीनामुत्कररसोल्लासो यस्या अनेन रसनेन्द्रियसुखदा सम्फुल्लन्नलिन्यां विकसितपङ्कजे विलसितुं शीलं यस्य तथाभूतश्चासौ विहसद्वल्ली विकसत्पुष्पयुक्ता लता,
सैव मतल्ली प्रशस्ता नटी तस्या लास्यस्य नर्तनस्याचार्यो यो मरुद्गणः तेनातिमुदिता इत्यनेन च घ्राणेन्द्रियनेत्रेन्द्रियाणां सुखदा ॥१७॥
पुष्पैर्हास्यं भ्रमरैर्गानं
पर्णैर्लास्यं मधुभिः पानम् ।
दधतस्तरवः स्वफलैः खानं
कुर्वन्त्यभ्यागतहरिमानम् ॥१८॥
तरवो वृक्षाः पुष्पैर्हास्यं दधतः पर्णैः खानं भोजनमभ्यागतश्चासौ हरिश्च तस्य मानं कुर्वन्ति ॥१८॥
अलिगायकचुम्बितकुसुमास्यं
पल्लवपटवृतविवृतसुहास्यम् ।
दधती रहसि विदधती लास्यं
व्यवृणुत वल्लीततिरपि दास्यम् ॥१९॥
वल्लीततिरपि इत्यत्रापि शब्देनाभ्यासगतहरिमानं दास्यं व्यवृणुत । किं कुर्वती ?
अलिगायकैश्चुम्बितं कुसुमरूपमुखं दधती । कीदृशं ?
तत्पल्लवरूपपटेन वृतमावृतं विवृतं विकसितं सुहास्यं यत्र । रहसि लास्यं विदधती ईदृशी चेष्टा एव वल्लीरूपनायिकानां दास्यमेतादृशवल्लीदर्शनेन कृष्णसुखोत्पत्ते ॥१९॥
स्वरमणसहितानां वेणुनादाहृतानां
तृणकवलमुखानां चञ्चलालोकनानि ।
हरिरथ हरिणीनां वीक्ष्य राधाकटाक्षैः
स्मृतिपथमधिरूढैर्विव्यथे विद्धमर्मा ॥२०॥
स्वरमणसहितानां हरिणीनां चञ्चलालोकनानि वीक्ष्य स्मृतिपथमधिरूढैर्राधाकटाक्षैः विद्धमर्मा हरिर्विव्यथे ॥२०॥
प्रेम्णानृत्यत्फुल्लमयूरीततियुक्तः
कृष्णालोकान्मत्तमयूरव्रज आरात।
स्निग्धे राधाकेशकलापे रतिमुक्ते
यत्सत्पिञ्छैराशु मुरारेः स्मृतिरासीत॥२१॥
कृष्णालोकात्मयूरीभिः मयूरव्रज आरात्समीपे प्रेम्णा अनृत्यत। यद्यस्य मयूरव्रजस्य सत्पिञ्छैर्रतेर्मुक्ते स्खलिते स्निग्धे राधायाः केशकलापे तद्विषये मुरारेराशु स्मृतिरासीत॥२१॥
मदकलकलविङ्कीमत्तकादम्बिकानां
सरसि च कलनादैः सारसानां प्रियायाः ।
वलयकटककाञ्चीनूपुरोद्यत्स्वनोर्मी
भ्रमचुलुकितचित्तोऽभ्यागतां तां स मेने ॥२२॥
सरसि वीनां पक्षिणां रावैः शब्दैः मदकलकलविङ्की मदोत्कटचटकी तासां मत्तकादम्बिकानां हंसीनां सारसानामपि शब्दैः प्रियायाः राधायाः वलयादीनां स्वनोर्मीभ्रमेण । चुलुकितं ग्रस्तं चित्तं यस्य स श्रीकृष्णः आगतां तां राधां मेने । चटकीशब्देन वलयशब्दज्ञानं हंसीशब्देन कटकशब्दज्ञानं विविधपक्षिणः शब्देन काञ्चीज्ञानं सारसानां प्रियायाः शब्देन नूपुरशब्दज्ञानम् । यद्वा,
आरवारावसंरावविरावा इत्यमरः । विरावैः शब्दैः तत्र सारसानां तत्प्रियायाश्चेति पृथगुपमेति ॥२२॥
उपरिचपलभृङ्गं पद्ममीषत्प्रकाशं
वरपरिमलपूरं शश्वदालोक्य कृष्णः ।
स्मितशवलकटाक्षं पद्मगन्धं प्रियाया
मुखमिदमिति मत्वा तामुपेतां विवेद ॥२३॥
अत्र यथाक्रमं ज्ञेयं कृष्ण ईषत्प्रकाशो यस्य तदुपरि चपलभ्रमरो यस्य तद्वरपरिमलस्य दूरगामिसुगन्धस्य पूरः समूहो यस्य तत्पद्मं शश्वदालोक्य प्रियायाः स्मितहसतिकटाक्षसुगन्धं च मुखमिदं मत्वा तां प्रियामागतां विवेद ॥२३॥
रुचककरकबिल्वैर्नागरङ्गैः सुपक्वैः
प्रतिदिशमनुदृष्टैर्हर्षतर्षाकुलोऽसौ ।
सपदि लसदुरोजभ्रान्तिसम्भ्रान्तचेता
वपुष इह विभुत्वं राधिकायाः शशङ्के ॥२४॥
रुचकैः बीजपूरैर्व्रजे विजोराख्यैः । फलपूरो बीजपूरो रुचको मातुलुङ्गके इत्यमरः । करकैर्दाडिमैः बिल्वैर्नागरङ्गैः नारङ्गीति ख्यातैः । सुपक्वैरित्यनेन वर्णसाम्ययुक्तम् । प्रति दिशं दिशं प्रति । ननु दृष्टैर्हेतुभिर्हर्षतर्षाकुलः कृष्णः राधिकायाः स्तनभ्रान्त्या भ्रान्तचेताः स इह राधावपुषो विभुत्वं सर्वव्यापकत्वं शशङ्के ॥२४॥
यतो यतः पतति विलोचनं हरेस्
ततस्ततः स्फुरति तदङ्गसंहतिः ।
न चाद्भुतं तदिह तु यद्व्रजाटवी
मुदे हरेरलभत राधिकात्मताम् ॥२५॥
यत्र यत्र हरेर्विलोचनं पतति,
तत्र तत्र तस्या राधायाः अङ्गस्य संहतिः समूहः स्फुरति । व्रजाटवी हरेर्मुदे आनन्दार्थं यदलभत तत्त्विह व्रजाटव्यामद्भुतं न ॥२५॥
तैरुद्दीपितभावाली वात्ययोच्चालितं मनः ।
शशाक न स्थिरीकर्तुं काशपुष्पनिभं हरिः ॥२६॥
हरिस्तं राधाङानुभवैरुद्दीपितभावाली सैव वात्या वायुसमूहस्तेन उच्चालितं मनः स्थिरीकर्तुं न शशाक किमिव । काशस्य तृणविशेषस्य पुष्पमिव ॥२६॥
वृन्दावनस्थिरचरान्स्वालोकप्रेमविह्वलान।
प्रेम्ना हृष्टमनाः कृष्णः प्रेक्ष्य तान्मुमुदे भृशम् ॥२७॥
वृन्दावनीयस्थावरजङ्गमान्स्वस्य श्रीकृष्णस्यालोकेन प्रेमविह्वलान्तान्वीक्ष्य श्रीकृष्णः प्रेम्नाकृष्टमनाः सन्भृशं मुमुदे ॥२७॥
सख्यः किं कुशलं लताः क्षितिरुहाः क्षेमं सखायः शिवं
मृग्यः किं भविकं मृगाः शकुनिकाः भव्यं शकुन्ताः शुभम् ।
भृङ्ग्यः शं भ्रमराः सुखं स्थिरचराः स्वश्रेयसं वः सदा
प्रेम्णेत्थं वनसङ्गतान्सरभसं पप्रच्छ सर्वान्हरिः ॥२८॥
हे सख्यः लताः ! वो युष्माकं किं कुशलं ?
किं प्रश्ने । हे सखायः क्षितिरुहाः वृक्षाः ! वः क्षेमम् । हे मृग्यः ! वः किं शिवं ?
हे मृगाः ! वः भविकम् । हे शकुनिकाः ! वः भव्यम् । हे शकुन्ताः पक्षिणः ! वः शुभम् । हे भृङ्ग्यः ! वः शं सुखम् । हे भ्रमराः ! वः सुखम् । हे स्थिरचराः ! वः सदा स्वश्रेयसं सरभसं सहर्षमित्थं सर्वान्हरिः पप्रच्छ ॥२८॥
प्रचार्य गाश्चारयितुं क्षुधार्ता
गोवर्धनक्ष्माभृदुपत्यकायाम् ।
मनोऽनुधावद्दयितां निवर्तयन्
समं वयस्यैर्विजहार कृष्णः ॥२९॥
गोवर्धनपर्वतस्योपत्यकायां गोवर्धनस्य समीपवर्तिभूमौ क्षुधार्ताः गाश्चारयितुं प्रचार्य दयितां राधामनुधावन्मनः निवर्तयन्वयस्यैः समं कृष्णो विजहार ॥२९॥
स्वकल्पितैर्लोकचयप्रसिद्धैर्
हरिर्विहारैर्वनशोभया च ।
शशाक राधाविरहातितप्तं
स तां प्रधावन्न मनो निरोद्धुम् ॥३०॥
स हरिः स्वकल्पितैर्लोकसमूहेषु च प्रसिद्धैर्विहारैर्वनशोभया च राधाविरहातितप्तं तां राधां प्रधावन्मनः निरोद्धुं न शशाक ॥३०॥
तान्वीक्ष्य कृष्णः कृपयार्द्रचित्तस्
तैस्तैर्विहारैश्च मिथो नियुद्धैः ।
श्रान्तान्क्षुधार्तानथ भोजनेच्छून्
इयेष सम्भोजयितुं वयस्यान॥३१॥
तैस्तैः पूर्वोक्तैर्विहारैर्मिथः परस्परं नियुद्धैर्बाहुयुद्धैश्च श्रान्तान्क्षुधार्तान। भोजनेच्छून्वयस्यान्वीक्ष्य तान्सम्भोजयितुमियेष इच्छाञ्चकार ॥३१॥
तावद्धनिष्ठा घृतपक्वमन्नं
प्रातः कृतं यल्ललितादिभिस्तत।
दत्तं रसालासहितं जनन्या
दासीभिरादाय समाजगाम ॥३२॥
ललिताभिः प्रातः कृतं यत्घृतपक्वमन्नं तत्रसालादिभिः सह जनन्या दत्तं धनिष्ठादासीभिरादाय गृहीत्वा तावत्तदा समाजगाम ॥३२॥
तां वीक्ष्य हृष्टः स हरिर्बभाषे
किं मे धनिष्ठे पितरौ सुखं स्तः ।
सुस्नातमाभ्यां विहितेशपूजा
प्रतोष्य सर्वान्वद किं नु भुक्तम् ॥३३॥
तां धनिष्ठां वीक्ष्य स हरिर्बभाषे नु भो धनिष्ठे ! मे पितरौ सुखं स्तः आभ्यां सुस्नातमीशपूजा विहिताकृता सर्वान्प्रतोष्य भुक्तं किं ?
॥३३॥
साप्याह तं तौ तव मङ्गलार्थं
स्नातार्चितेशौ द्विजसात्कृतार्थौ ।
सम्भोज्य सर्वानथ भुक्तवन्तौ
भोज्यानि च प्रेषयतः स्म तुभ्यम् ॥३४॥
तव मङ्गलार्थं स्नातौ च तौ अर्चितेशौ च द्विजेभ्यः सात्कृतं दत्तमर्थं याभ्यां तौ सर्वान्
सम्भोज्य भुक्तवन्तौ तुभ्यं भोज्यानि च प्रेषयतः स्म । पुरा वनप्रवेशसमये मातरं प्रति श्रीकृष्णेनोक्तं त्वया प्रहितं भोज्यं तदाहं भक्ष्यामि भवन्तौ यदि कृतभोजनौ मुदितौ च श्रोष्यामि । तत्राप्युक्तं मे पितरौ सुखं स्तः आभ्यां सुस्नातमित्यादि । प्रश्नानन्तरं धनिष्ठया उक्तं तव मङ्गलार्थं स्नानभोजनादिकं कृतमित्यनेन पित्रोर्भोजनादिकमपि कृष्णसुखतथापिअकम् । एवं सखा प्रेयस्यादीनां नृत्यगीतादि सर्वैव चेष्टा कृष्णसुखार्थमेव कृष्णस्य तु अचिन्त्यैव शक्तिर्यया अनन्तदाससखापितृमातृप्रेयस्यादीनामनन्तसुखार्थमनन्तचेष्टादिकं सिद्ध्यति ॥३४॥
राधासङ्गद्रुमारोहोत्कण्ठितालम्बनार्थिनी ।
तां परालम्बनां मेने चित्तवृत्तिलता हरेः ॥३५॥
हरेश्चित्तवृत्तिरूपा लता राधया सह सङ्गरूपवृक्षारोहणोत्कण्ठिता कीदृशी आलम्बनार्थिनी परालम्बनं तां धनिष्ठां मेने ॥३५॥
इतस्ततः सञ्चरतीर्गवालीः
स्ववेणुनादैरथ सङ्कलय्य ।
जगाम ताः पाययितुं वयस्यैः
सञ्चालयन्मानसजाह्नवीं सः ॥३६॥
इतस्ततः सञ्चरतीर्गवालीः सङ्कलय्य एकत्रीकृत्य ताः गाः पयः पाययितुं सञ्चालयन्वयस्यैः सह स मानसगङ्गां जगाम ॥३६॥
पाययित्वा जलं गास्ताः शीतं स्वादु सुनिर्मलम् ।
स्वयं गोपाः पपुः सस्नुर्विजह्रुः सलिले चिरम् ॥३७॥
गाः जलं पाययित्वा स्वयं गोपास्च जलं पपुः सलिले सस्नुः स्नानं कृत्वा चिरं विजह्रुः ॥३७॥
उपपुलिनमथासौ तांस्तदन्नं वयस्यान्
दधिमथितरसालसन्धिताम्रादियुक्तम् ।
स्वयमपि च समश्नन्स्वादयन्हासयंश्च
स्वपरित उपविष्टान्भोजयामास कृष्णः ॥३८॥
असौ श्रीकृष्णस्तदन्नं दधिमथितं रसाला च आचार इति ख्यातं सन्धितं यदा आम्रादि तद्युक्तं च स्वयं समश्नन। स्वस्य परितश्चतुर्दिक्षु उपविष्टान्वयस्यान्हासयन्भोजयामास ॥३८॥
ततः सखीनाह हरिः सहार्या
यूयं क्षणं चारयताग्रतो गाः ।
अहं सखिभ्यां सह माधवीयां
वनश्रियं द्रष्टुमिह भ्रमामि ॥३९॥
ततो भोजनानन्तरं हरिः सखीनाह । क्षणं सहार्या बलदेवसहिता यूयं गाश्च चारयत अहं सखिभ्यां मधुमङ्गलसुबलाभ्यां सह माधवीयां वसन्तसम्बन्धिनीं वनश्रियं द्रष्टुमिह भ्रमामि ॥३९॥
दासीर्धनिष्ठावददाशु यात
यूयं गृहीत्वाखिलभाजनानि ।
पुष्पाणि नारायणसेवनार्थं
सञ्चित्य पश्चादहमागतास्मि ॥४०॥
धनिष्ठा दासीरवदत्यूयं भोजनानि गृहीत्वा यातपुष्पाणि सञ्चित्य ॥४०॥
फुल्लं गन्धफलीद्वन्द्वमवतंसोचितं तदा ।
आदायागत्य कृष्णस्य वृन्दार्पितवती करे ॥४१॥
वृन्दा तदादावागत्य कृष्णस्य करे फुल्लं गन्धफलीद्वन्द्वं चम्पकपुष्पद्वन्द्वमर्पितवती ॥४१॥
तदालोकात्प्रियाकान्तिस्मृत्युत्कण्ठावतो हरेः ।
एजत्करात्तदादाय तच्छ्रुत्योर्निदधे बटुः ॥४२॥
तत्तस्य गन्धफलीद्वन्द्वस्यालोकात्प्रियायाः श्रीराधायाः कान्तेः स्मृत्या उत्कण्ठावतः श्रीकृष्णस्य प्रेम्णा एजत्करात्कम्पितकरात्बटुस्तदा आदाय गृहीत्वा तत्श्रुत्योः कृष्णकर्णद्वये निदधे ॥४२॥
वृन्दां धनिष्ठां सुबलं बटुं च
षाड्गुण्यविज्ञान्सचिवान्स कृष्णः ।
उपाय दक्षानुपलभ्य मेने
राधाङ्गसङ्गोत्तमराज्यलब्धिम् ॥४३॥
स उक्तप्रकारः कृष्णः वृन्दादि षाड्गुण्यविज्ञान्सचिवानामात्यानुपायदक्षानुपलभ्य राधाया अङ्गसङ्ग एष उत्तमराज्यं तस्य लब्धिं मेने । सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयमिति षाड्गुण्यः ॥४३॥
मधुमङ्गलहस्तं स प्रगृह्य वामपाणिना ।
वृन्दाधनिष्ठासुबलैः ससार सुमनःसरः ॥४४॥
स कृष्णः वामपाणिना मधुमङ्गलहस्तं प्रगृह्य वृन्दादिभिः सह कुसुमसरोवराख्यसुमनःसरः ससार,
सृ गतौ ॥४४॥
कुसुमिततरुवल्लीवीथिकुञ्जैर्लसन्तीं
स्थलजलविहगालिव्यूहकोलाहलैश्च ।
स कुसुमसरसीं तां वीक्ष्य राधागमोत्कस्
तदभिसृतिविचारं स्वानुगैराचचार ॥४५॥
स तां कुसुमसरसीं राधाया आगमनार्थमुत्कण्ठा यस्य सः । तदभिसृतौ तस्या आगमने विचारमाचचार । कीदृशीं ?
कुसुमितवृक्षलतानां वीथिभिः कुञ्जं लतादिपिहितं स्थानं तैः । स्थलचरजलचरपक्षिणां भ्रमराणां च यो व्यूह एकजातीयपक्षिसमूहस्तेषां कोलाहलैश्च लसन्तीम् ॥४५॥
प्रयाति वृन्दा सुबलो बटुर्वा
राधान्तिकं चेज्जटिला सशङ्का ।
एभिः समं वा कलहं विदध्याद्
वधूं निरुन्ध्यादथवा गृहान्तः ॥४६॥
श्रीकृष्ण आह—
वृन्दादीनां मध्ये एकोऽपि यदि राधान्तिकं प्रयाति तदा सशङ्का जटिला एभिः समं कलहं विदध्यात्,
गृहमध्ये वा वधूं निरुन्ध्यात॥४६॥
आकर्षणीं वा मुरलीं नियुञ्ज्यां
सर्वाः समेष्यन्ति च गोपरामाः ।
तदिष्टलीलादिरसो न सिद्ध्येत्
परस्परेर्ष्यामदमानवाम्यात॥४७॥
राधामानेतुमाकर्षणीं मुरलीं वा नियुञ्ज्यां,
मुरलीध्वनिं श्रुत्वा सर्वाः गोपरामाः समेष्यन्ति । आगच्छन्तु तेन किं ?
तत्राह तासां परस्परेर्ष्यामदमानवाम्यात्
तत्तया राधया सह इष्टलीलादिरसो न सिद्ध्येत॥४७॥
ततो धनिष्ठे व्रज कुन्दवल्लीं
प्रतीतिकृत्सा जटिला यदस्याम् ।
तद्वञ्चनाचञ्चुमतिः सदा नौ
स्निग्धार्थिता सा ध्रुवमानयेत्ताम् ॥४८॥
ततो हेतोर्हे धनिष्ठे ! त्वं कुन्दवल्लीं व्रज । सा जटिला यद्यस्मातस्यां कुन्दवल्ल्यां प्रतीतिकृत। तत्तस्या जटिलायाः वञ्चने चञ्चुर्निपुणमतिर्यस्याः सा । कीदृशी ?
नौ आवयोः सदा स्निग्धा सार्थिता सती तां राधामानयेत॥४८॥
अथाह वृन्दा भवता यदुक्तं
सत्यं हि तच्चेत्सुमनोऽवचेतुम् ।
राधा सखी काचिदिहागता स्याज्
ज्ञेयस्तदास्यास्तदुदन्त आदौ ॥४९॥
वृन्दा आह । भवता यदुक्तं तत्सत्यम् । सुमनोऽवचेतुं पुष्पाहरणार्थं चेद्यदि काचित्राधा सखीहागता स्यात्,
तदादौ तदुदन्तस्तस्या राधाया उदन्तः वार्ता अस्या राधासखीतो ज्ञेयः । वार्ता प्रवृत्तिर्वृत्तान्त उदन्त इत्यमरः ॥४९॥
अथागता सा तुलसी स्वसख्या
कृष्णं सखिभ्यां सह तत्सखीभ्याम् ।
प्रियागमोपायविचारलग्नं
पुरः स्फुरन्तं मुमुदे समीक्ष्य ॥५०॥
स्वसख्या कस्तूर्या सहागता सा श्रीराधानिर्मितताम्बूलमालाहारिणी तुलसी सखिभ्यां सुबलमधुमङ्गलाभ्यां तथा तत्तस्या राधायाः सखीभ्यां वृन्दाधनिष्ठाभ्यां च सह श्रीराधागमनोपायविचारेषु लग्नं पुरोऽग्रे स्फुरन्तं श्रीकृष्णं समीक्ष्य मुमुदे ॥५०॥
स्वप्नेऽपि तत्सन्निधिमत्यजन्तीं
तां राधया ते जहृषुः समेताम् ।
निश्चित्य सर्वेऽप्यथ माधवोऽभूत्
तद्दर्शनोत्कोऽध्वनि दत्तदृष्टिः ॥५१॥
स्वप्नेऽपि तत्तस्या राधयाः सन्निधिमत्यजन्तीं,
अतः राधयाः समेतामागतां तं तुलसीं ते कृष्णादयः निश्चित्य जहृषुः । माधवस्तस्या राधाया दर्शनोत्सुकः सनध्वनि दत्तदृष्टिरभूत॥५१॥
ततः सा तुलसी न्यस्य हृष्टा बटुकरे स्रजम् ।
उद्घाट्य पुटिकां वीटीं सुबलस्य करे ददौ ॥५२॥
हृष्टा सा तुलसी पुटिकामुद्घाट्य बटुकरे स्रजं न्यस्य सुबलस्य करे वीटीं ददौ ॥५२॥
राधाकरामोदसमृद्धसौरभं
तच्छिल्पनैपुण्यभरं तथाद्भुतम् ।
तामुद्गिरन्तीं भ्रमरालिकर्षिणीं
स्रजं विलोक्याभवदुन्मना हरिः ॥५३॥
राधाकरयोरामोदाद्दूरगामिसौगन्ध्यं तद्रूपसमृद्ध्या सम्पत्त्या सौरभमुद्गिरन्तीं तथा तत्तस्या राधाया अद्भुतं शिल्पनैपुण्यभरमुद्गिरन्तीं तां स्रजं विलोक्य हरिरुन्मना सन्दिग्धचित्तोऽभूत। माला वीटी प्रेषणेन श्रीराधा गमनाभावात॥५३॥
कण्ठे स्रजं तामथ वैजयन्तीं
हसन्न्यधाच्छ्रीमधुमङ्गलोऽस्य ।
राधाकरस्पर्शसुखादिवासौ
तत्स्पर्शतः कण्टकिताङ्ग आसीत॥५४॥
मधुमङ्गलोऽस्य कण्ठे तां स्रजं न्यधात। असौ श्रीकृष्णस्तस्या स्पर्शात्कण्टकिताङ्ग आसीत॥५४॥
आगत्य कुञ्जे परिहासलीनां
सम्भावयंस्तां दयितां मुकुन्दः ।
तदास्यवीक्षोत्कलिकाकुलात्मा
तया हसन्त्या सह संललाप ॥५५॥
मुकुन्द आगत्य कुञ्जे परिहासलीनां तां राधां सम्भावयन्तस्या राधाया आस्य वीक्षायामुत्कण्ठाकुल आत्मा मनो यस्य सः । हसन्त्या तया तुलस्या सह ललाप । संलापो भाषणं मिथः ॥५५॥
सख्यास्ते कुशलं सखीश कुशलं कुत्रेयमात्मालये
किं नायाति वनं कृतौ स्वगुरुणा दिष्टाथ किं चेष्टते ।
मथ्नात्यम्बुघटं ततः किमभवन्निर्भर्त्स्य रुद्धा गृहे
युक्त्या चानय वृन्दया न जटिला वञ्च्याह हा धिग्विधिम् ॥५६॥
श्रीकृष्ण आह—
हे सखि ! हे सख्या राधायाः कुशलम् । साह—
हे ईश ! कुशलम् । इयं राधा कुत्र ?
साह—
आत्मालये । स आह—
वनं किं नायाति ?
साह—
स्वगुरुणा श्वश्र्वा कृतौ दधिमथने दिष्टा आज्ञप्ता,
ततो नायाति । स पुनराह—
किं चेष्टते ?
साह अम्बुघटं मथ्नाति । स पुनराह—
ततः किमभवत्?
साह—
दधिभ्रान्त्या जलमथनात्तस्या वैषम्यं वीक्ष्य तां निर्भर्त्स्य श्वश्र्वा गृहे रुद्धा कृता । स पुनराह—
वृन्दया सह युक्त्या तां वञ्चयित्वा तामानय । जटिला वञ्च्या न भवति । कृष्ण आह—
हा खेदे विधिं धिक॥५६॥
सदा राधातिदौर्लभ्यस्फूर्त्या मत्वा बभूव सः ।
हासोक्तिमपि सत्यां तां विषण्णात्मा स्मराकुलः ॥५७॥
तां परिहासोक्तिमपि सत्यां मत्वा स्मराकुलः स श्रीकृष्णः सदा राधाया अतिदौर्लभ्यस्फूर्त्या विषण्णात्मा बभूव ॥५७॥
कृष्णं विषण्णमालोक्य व्याकुला तुलसी स्वयम् ।
दृशा वृन्दाधनिष्ठाभ्यां भर्त्सिताह ससम्भ्रमम् ॥५८॥
विषण्णं कृष्णमालोक्य स्वयं व्याकुला तुलसी तत्रापि वृन्दाधनिष्ठाभ्यां दृशा भर्त्सिता सती ससम्भ्रममाह ॥५८॥
मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव ।
आगतां विद्धि दयितां परिहासः कृतो मया ॥५९॥
मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव आगतां विद्धि दयितां परिहासः कृतो मया ॥५९॥
तामागतामथ निशम्य दिदृक्षुरेनाम्
औत्सुक्यचञ्चलमना व्रजराजसूनुः ।
उत्तार्य चम्पकयुगं निजकर्णयोस्तत्
तस्याः समर्प्य करयोर्मुदितोऽवदत्ताम् ॥६०॥
तां राधामागतां श्रुत्वा एनां दिदृक्षुरौत्सुक्येन उत्साहेन चञ्चलं मनो यस्य स नन्दसूनुः निजकर्णयोश्चम्पकयुगमुत्तार्य तस्याः करयोः समर्प्य मुदितस्तामवदत॥६०॥
क्वेयं क्वेयं निह्नुता वा किमर्थं
रुष्टा सा चेन्नापराधो ममास्ति ।
चेन्नर्मैतद्दूनचित्ते न युक्तं
हा हा शीघ्रं दर्शयामूं प्रियां मे ॥६१॥
क्व कुत्र इयं ?
वीप्सा औत्सुक्यावेगवशात। सा निह्नुत्यास्तीति चेन्,
न । किमर्थं ?
अम्बा निह्नुता चेद्यदि संरुष्टा इत्यपि न ममापराधो नास्ति चेद्यदि नर्म परिहासः एतत्परिहासनं दूनचित्ते दुःखितचित्ते मयि न युक्तं मेऽमूं शीघ्रं दर्शय ॥६१॥
प्रियावलोकनोत्कण्ठं कालदेशार्थतत्त्ववित।
आनिनीषुर्द्रुतं राधां बभाषे तुलसी हरिम् ॥६२॥
कालदेशार्थतत्त्ववित्राधामानिनीषुस्द्रुतं तुलसी प्रियावलोकनोत्कण्ठं हरिं बभाषे ॥६२॥
सा ते कान्ता कमलनयन त्वन्मुखालोकनोत्का
सूर्यार्चायै सपदि जटिलाप्रेषिता कुन्दवल्ल्या ।
त्वामायान्ती प्रथममिह मां प्राहिणोत्त्वत्प्रवृत्त्यै
क्रीडाकुञ्जं त्वमुपदिश तं यत्र तामानयामि ॥६३॥
हे कमलनयन ! ते सा कान्ता तव मुखावलोकनोत्का कुन्दवल्ल्या सह जटिलाप्रेषिता त्वामायान्ती राधा । त्वत्प्रवृत्तैस्तव वार्तार्थं च मां प्राहिणोत। त्वत्क्रीडाकुञ्जमुपदिश यत्र तामानयामि । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे इत्यमरः ॥६३॥
तच्छ्रुत्वोच्छ्वसितस्वान्तः प्रीतो गुञ्जावलीं हरिः ।
तुलस्यै दत्तवान्कण्ठादुत्तार्य पारितोषिकम् ॥६४॥
तत्श्रुत्वा उत्श्वसितस्वान्त उत्साहयुक्तचित्तो हरिः तुलस्यै पारितोषिकं परितोषेण देयं गुञ्जावलीम् ॥६४॥
लीलानिकुञ्जकलनाय तदाथ वृन्दा
कृष्णावलोकितमुखी तुलसीं बभाषे ।
तत्कुण्डतीरगतमानय राधिकां तां
कन्दर्पकेलिसुखदाख्यनिकुञ्जमाशु ॥६५॥
तदा लीलानिकुञ्जकलनाय कृष्णेनावलोकितं मुखं यस्याः सा वृन्दा तुलसीं बभाषे । तत्तस्या कुण्डतीरं कन्दर्पकेलिसुखदाख्यं निकुञ्जं तां राधामानय ॥६५॥
अहं च केलिसामग्रीं समग्रयितुमुत्सुका ।
राधाकुण्डं त्वया सार्धं प्रयातास्मि द्रुतं सखि ॥६६॥
अहं च केलिसामग्रीं समग्रयितुं सम्पादयितुमुत्सुका त्वया सह कुण्डं प्रयातास्मि कुण्डतीरनिकुञ्जं दृष्ट्वा तस्माद्गत्वा तामानय । अहं सामग्रीं सम्पादयिष्यामीति भावः ॥६६॥
तावत्कृत्वा प्रियसहचरीं स्वस्य चन्द्रावलीं तां
सङ्केतस्थां व्रजपतिसुतं नेतुमागत्य तत्र ।
गुञ्जाहारं हरिहृदि सखीदत्तमाधाय शैब्या
दृष्ट्वा वृन्दासहिततुलसीं विव्यथे क्षुब्धचित्ता ॥६७॥
तावत्तस्मिन्समये शैब्या स्वस्य प्रियसहचरीं तां चन्द्रावलीं सङ्केतस्थां कृत्वा कृष्णं नेतुं तत्रागत्य सखीदत्तं गुञ्जाहारं हरिहृदि आधाय दत्ता वृन्दासहिततुलसीं दृष्ट्वा सा क्षुब्धचित्ता सती विव्यथे ॥६७॥
कृष्णस्याग्रे वृन्दया संलपन्त्या
आलोकात्तत्प्रेष्ठसख्यास्तुलस्याः ।
राधां मत्वा सागतां दुःखिता तां
शैब्या सव्याज्यं तदा व्याजहार ॥६८॥
कृष्णस्याग्रे वृन्दया सह संलपयन्त्या तस्या राधायाः प्रेष्ठसख्यास्तुलस्या आलोकनात्सा शैब्या राधामागतां मत्वा दुःखिता शैब्या तां तुलसीं सव्याज्यं छलसहितं व्याजहार ॥६८॥
कुर्वन्त्याद्य तया दुर्गाव्रतोद्याप महोत्सवम् ।
तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥६९॥
दुर्गाया व्रतस्य कुर्वन्त्याद्य तया ओद्याप महोत्सवं तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥६९॥
साद्य लब्धा मयान्विष्य न गृहे नापि कानने ।
दिष्ट्या लब्धासि तुलसि कथ्यतां कुत्र ते सखी ॥७०॥
मयाद्य अन्विष्य गृहे सा राधा न लब्धा काननेऽपि न लब्धा । हे तुलसि दिष्ट्या त्वं लब्धासि । कुत्र ते सखी वदेति शेषः ॥७०॥
ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यमाश्रिताम् ।
अवदत्तां सकौटिल्यं शठे शाठ्यं हि यन्नयः ॥७१॥
ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यमाश्रितामवदत्तां सकौटिल्यं शठे शाठ्यं हि यन्नयः ॥७१॥
कुर्वाणया व्रतमहोत्सवमम्बिकायाः
सा श्यामया स्वसुहृदाद्य निमन्त्र्य नीता ।
वृन्दाटवीपरिवृढा स्वगृहं तथास्याम्
भारोऽप्यधायि विनयैः ससखीकुलायाम् ॥७२॥
अम्बिकाया व्रतमहोत्सवं कुर्वाणया स्वसुहृदा श्यामया निमन्त्र्याद्य सा राधा वृन्दाटवीपरिवृढा वृन्दावनेश्वरी स्वगृहं नीता । ससखीकुलायां तस्यां राधायां विनयैर्व्रतकार्यार्थं भारोऽप्यधायि एतेन तस्मादन्यत्र गमनं क्षणमपि न भावीति ध्वनिः ॥७२॥
ततो ललितया पुष्पफलमाल्यसमृद्धये ।
वृन्दां नेतुं प्रेषिता तां गृहीत्वा चलितास्म्यहम् ॥७३॥
ललितया पुष्पादिसमृद्धये वृन्दां नेतुं प्रेषिताहं तां वृन्दां गृहीत्वा चलितास्मि ॥७३॥
इति तां तुलसी भङ्ग्या प्रतार्य कुटिलामपि ।
ययौ वृन्दाधनिष्ठाभ्यामुदासीनेव माधवे ॥७४॥
माधवे उदासीनेव सा तुलसी तां शैब्यां वृन्दाधनिष्ठाभ्यां सह ययौ ॥७४॥
पुनर्विवक्षुस् तां शैब्यां कृष्णः कुञ्चितचक्षुषा ।
निवार्याह स्वमौदास्यं तुलस्यां व्यञ्जयन्निव ॥७५॥
कृष्णः पुनर्वक्तुमिच्छुः शैब्यां कुञ्चितचक्षुषा निवार्य तुलस्यां स्वं स्वीयमौदास्यं व्यञ्जयन्निवाह ॥७५॥
मा किञ्चिद्वद यात्वेषा स्वसख्याः कुशलं वद ।
क्वेयमास्ते किं कुरुते प्रिया चन्द्रावली मम ॥७६॥
मा किञ्चिद्वद । एषा तुलसी यातु । स्वसख्याः चन्द्रावल्याः कुशलं वद । कुत्र मम प्रियेयं चन्द्रावली आस्ते । किं कुरुते ?
॥७६॥
सातिहृष्टाथ तं प्राह निरुद्धापि धवाम्बया ।
दुर्गार्चाच्छद्मनानीता यत्नाच्चन्द्रावली मया ॥७७॥
शैब्या चातिहृष्टा सती तं श्रीकृष्णं प्राह । धवाम्बया करालया श्वश्र्वा निरुद्धापि मया दुर्गापूजाच्छलेन चन्द्रावली आनीता ॥७७॥
सखीस्थल्युपशल्ये तां त्वत्सङ्गोत्कलिकाकुलाम् ।
संरक्ष्य पद्मया तूर्णं त्वामन्वेष्टुमिहागता ॥७८॥
सखीस्थली गोवर्धननिकटे सखीस्वरा इत्याख्या तस्या उपशल्ये समीपवर्तिस्थलविशेषः । तां पद्मया सह संरक्ष्य अहं त्वामन्वेष्टुमिहागतास्मीति शेषः ॥७८॥
चिन्तितोऽन्तर्बहिर्हृष्यन्प्रत्युत्पन्नमतिर्हरिः ।
अवदद्वञ्चयन्शैब्यां च्छद्मनानन्दयन्निव ॥७९॥
अहं तद्दर्शनोत्कण्ठा दिष्ट्या नीतेयमाल्यसौ ।
गौरीतीर्थं लम्भयैनां गुरूणां वञ्चनक्षमम् ॥८०॥
यावत्प्रमदराधाख्ये गाः सञ्चारयतो वने ।
अवधार्यागतोऽहं स्यां गवां सम्भालने सखीन॥८१॥
(
युग्मकम्)
अन्तर्मनसि चिन्तितः बहिर्हृष्यन्स हरिः शैब्यामतिहृष्टा शैब्यावञ्चनं श्लोकषट्केनाह—
हे सखि शैब्ये ! अहं तस्या दर्शनोत्कण्ठः । इयमसौ आली दिष्ट्या भाग्येन मम भाग्येन नीता त्वयेति शेषः । गुरूणां वञ्चनक्षमं गौरीतीर्थमेनां लम्भय प्रापय ॥७९८०॥
कियत्कालपर्यन्तं ?
तदाह—
प्रमदराधाख्ये प्रकर्षेण मदो हर्षो मया सह राधाया यत्र अतस्तदाख्ये सार्थनामापि परमादली इति ख्याते वने गाः सञ्चारयतः सखीन्गवां सम्भालने रक्षणे अवधार्य निश्चित्य सावधानीकृत्य यावदागतः स्यां तावत्गौरीतीर्थमेनां लम्भयेति पूर्वेण अन्वयः ॥८१॥
तमाहाथ बटुर्भङ्ग्या द्रुतं कृष्ण धनिष्ठया ।
व्रजेन्द्रेन यदाज्ञप्तं तत्कुरुष्वेति सोऽब्रवीत॥८२॥
आमार्य वसुदेवेन दूतोऽत्र प्रहितः प्रगे ।
गुप्तं प्रस्थापिताश्चौराः कंसेन कानने गवाम् ॥८३॥
(
युग्मकम्)
भवितव्यं सावधानैः सर्वैर्गोपालकैरिति ।
तदादिष्टं तातपादैर्मयीदानीं धनिष्ठया ॥८४॥
बटुर्भङ्ग्या तं कृष्णमाह—
हे कृष्ण ! व्रजेन्द्रेन धनिष्ठया यदाज्ञप्तं तत्कुरुष्वेति स कृष्णोऽब्रवीत्—
हे आर्य मधुमङ्गल ! आं स्मृतमां दानं निश्चयस्मृत्योरिति मेदिनी । वसुदेवेन प्रगे अत्र व्रजे दूतः प्रहितः । दूतवाक्यमाह—
कंसेन गवां चौराः गुप्तं कानने प्रस्थापिताः । हे नन्दराज ! सर्वे गोपालकाः सावधानैर्भवितव्यम् । इति तत्दूतकथनम् । तातपादैः पितृचरणैः । अत्र बहुवचनं पाद इति पदं च दत्तं नन्दस्य गौरवार्थमर्थात्प्रीता तेन धनिष्ठया मयीदानीम् ॥८२८४॥
तत्प्रत्यूहैर्विलम्बश्चेत्कदाचित्सम्भवेन्मम ।
नोद्वेगः सखि कार्यस्ते आगन्ताहं द्रुतं ध्रुवम् ॥८५॥
हे सखि शैब्ये ! तत्प्रत्यूहैर्गोरक्षणरूपविघ्नैः कदाचित्मम विलम्बश्चेत्सम्भवेत्,
ते त्वया नोद्वेगः कार्यः । अहं द्रुतं शीघ्रं निश्चितमागन्ता आगमिष्यामि ॥८५॥
इति प्रतार्य तां शैब्यां गोदिशं ससखोऽव्रजत।
मुरारिस्त्वरया हृष्टा सापि चन्द्रावलीं प्रति ॥८६॥
इत्यनेन प्रकारेण तां शैब्यां प्रतार्य मुरारिः ससखो गोदिशमव्रजत। सा शैब्या चन्द्रावलीं प्रति ययौ ॥८६॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टविरजे गोविन्दलीलामृते
सर्गः सम्प्रति षष्ठ एष निरगात्पूर्वाह्नलीलामनु ॥ओ॥
॥६॥
.
(
७)
सप्तमः सर्गः
कियद्दूरं ततो गत्वा निवृत्योद्वर्त्मना हरिः ।
राधाकुण्डं समायातः प्रियासन्गोत्सुकः प्रियम् ॥१॥
हरिः कियद्दूरं गत्वा ततो निवृत्य प्रियासन्गोत्सुकः सनुद्वर्त्मना अप्रसिद्धमार्गेण प्रियं राधाकुण्डं समायातः ॥१॥
परितो मणिसोपानावलिभिः परिवेष्टितम् ।
चतुर्भिर्मणिसम्बद्धतीर्थैर्दिक्षु सुशोभितम् ॥२॥
राधाकुण्डं कीदृशं ?
परितः सर्वतः मणिमयसोपानानां श्रेणिभिः परिवेष्टितम् । चतुर्दिक्षु मणिभिः सम्बद्धैस्तीर्थैश्चतुर्भिर्घट्टैः शोभितम् ॥२॥
तीर्थोपरि स्फुरद्रत्नमण्डपैः साङ्गनैर्युतम् ।
तत्तीर्थोभयपार्श्वस्थमणिकुट्टिममण्डितम् ॥३॥
तीर्थोपरि अङ्गनसहितैः स्फुरद्भी रत्नमयमण्डपैर्युक्तम् । मण्डपोऽस्त्री जनाश्रय इत्यमरः । तत्तेषां तीर्थोभयपार्श्वस्थमणिकुट्टिममण्डितम् । प्रतिमण्डपानां पार्श्वेषु तापिन्चतुर्णामुभयपार्श्वस्थैर्मणिमयैरष्टभिः कुट्टिमैर्वेदीभिश्च मण्डितं भूषितम् । कुट्टिमोऽस्त्री निबद्धा भूरित्यमरः ॥३॥
प्रतिमण्डपपार्श्वस्थतरुशाखावलम्बनैः ।
युतं नानापुष्पवासश्चित्रैर्दोलाचतुष्टयैः ॥४॥
प्रतिमण्डपानां पार्श्वेषु तापिन्द्विद्वितया तापिन्तरूणां शाखा एवावलम्बनं बन्धनस्थानं येषां तैः । नानापुष्पैर्वासोभिर्वस्त्रैश्च चित्रैर्मनोहरैर्दोलानां चतुष्टयैश्चतुर्भिर्युतमवयरावयविनिरोभेदात। अत्र चतुर्भिरित्यर्थे चतुष्टयैरित्युक्तम् । अत्र स्वार्थे तयट्प्रत्ययो वा ॥४॥
याम्ये चम्पकयोः पूर्वे नीपयोराम्रयोः परे ।
सौम्ये बकुलयोर्बद्धरत्नहिन्दोलिकान्वितम् ॥५॥
पूर्वश्लोके सामानाकारेणोक्तान्वृक्षान्नामग्रहणपूर्वकमाह—
याम्ये दक्षिणे भागे दिशीत्यर्थः । चम्पकयोः पूर्वे नीपयोः कदम्बयोः परे पश्चिमे आम्रयोः । सौम्ये सोमः कुबेरः तत्सम्बन्धिनि उत्तरे । तथा हि पञ्चमस्कन्धे—
उत्तरतः सौम्यां विभावरीं नाम [भा.पु. ५.२१.७] इति । सोमस्तुहिनदीघितौ वानरे च कुबेरे च पितृदेवे समीरणे इति मेदिनी । बकुलयोः शाखासु बद्धाया रत्नमय्यो हिन्दोलिकास्ताभिश्चतुसृभिर्हिन्दोलिकाभिरन्वितं युक्तम् । तथा च श्रीराधाकुण्डस्य दक्षिणदिशायां मध्यस्थले तीर्थं तीर्थस्योपरि दक्षिणे रत्नमयविस्तृताङ्गनम् । अङ्गनस्य मध्ये रत्नमयं मण्डपं तस्य मण्डपस्य पार्श्वद्वये चम्पकवृक्षद्वयम् । तयोर्वृक्षयोः शाखाबद्धा हिन्दोलिका । एवं पूर्वादिदिक्षु ज्ञेयम् ॥५॥
पूर्वाग्नेयदिशोर्मध्ये प्रियकुण्डेन सङ्गतम् ।
तत्रोर्ध्वे स्तम्भकालम्बिचित्रसेतुसमन्वितम् ॥६॥
पूर्वदिगग्निकोणयोर्मध्ये कृष्णकुण्डेन सङ्गतं मिलितं तत्र राधाकुण्डकृष्णकुण्डयोः सङ्गमे ऊर्ध्वे स्तम्भालम्बिचित्रसेतुना समन्वितम् । कुण्डयोर्जलसञ्चारार्थं सेतुः ॥६॥
गलहृदुदरनाभिश्रोणिजानूरुदघ्नैः
षडुदधिवसुकोनैर्मण्डलाङ्गैश्च कैश्चित।
शिशिरमनु समुष्णैः ग्रीष्मकाले सुशीतैर्
विविधमणिनिबद्धैर्दिक्षु सोपानयुक्तैः ॥७॥
मणिरुचिजलवीचिभ्रान्तितृष्णाभिभूता
पतितविहगवृन्दाच्छालबालान्तरालैः ।
परिजनयुतराधाकृष्णयोर्नर्मगोष्ठी
प्रमदकृदुपवेशानल्पवेदीसुशोभैः ॥८॥
निचितपृथुतलानां कुट्टिमैश्चित्रवर्णैः
कुसुमितबहुवल्लीश्लिष्टशाखाभुजानाम् ।
घनदलफलपुष्पश्रेणिभारानतानां
विततिभिरभितः संवेष्टितं पादपानाम् ॥९॥
(
सन्दानितकम्)
पुनः कीदृशं कुण्डं ?
तदाह त्रिभिः । अभितः सर्वदिक्षु पादपानां वृक्षाणां विततिभिः संवेष्टितम् । कीदृशानां ?
चित्रवर्णैः कुट्टिमैर्बद्धस्थलैर्निचितं व्याप्तं पृथु विस्तीर्णं तलं तलदेशो येषाम् ।
कीदृशैः कुट्टिमैः ?
उच्चांशे मनुष्याणां गलादयो दध्नः अरिमाणं येषां तैः । गलपरिमितैः हृदुदरपरिमितैः नाभिपरिमितैः श्रोणिपरिमितैः जानुपरिमितैः ऊरुपरिमितैरिति भिन्नैः ।
पुनः किंभूतैः ?
आकृत्यंशे षट्कोणैः । उदधयः पूर्वदक्षिणपश्चिमोत्तरभेदेन चत्वारस्तत्र सङ्ख्यककोणैः चतुष्कोणैः । वसवोऽष्टौ तत्सङ्ख्यककोणैः । कैश्चिन्मण्डलाङ्गैर्मण्डलाकारैः ।
पुनः कीदृशैः ?
शिशिरमनु शिशिरकाले सम्यगुष्णैः,
ग्रीष्मकाले शीतैः शीतलैः विविधमणिभिर्निबद्धैः । चतुर्षु दिक्षु सोपानयुक्तैः ॥ मणीनां रुचिभिः कान्तिभिर्या जलस्य वीचीनां तरङ्गाणां भ्रान्तिस्तया हेतुभूतया तृष्णाभिभूतं च तदा पतितं चेति तत्विहगवृन्दं पक्षिसमूहो यत्र तादृशमच्छानां निर्मलानाम् । आलवालानां वृक्षमूलजलाधाराणामन्तरालाभ्यन्तरं मध्यं येषां तैः । स्यादालवालमावालमिति,
अभ्यन्तरं त्वन्तरालमिति चामरः ।
पुनः कीदृशैः ?
परिजनयुतयोः श्रीराधाकृष्णयोर्नर्मगोष्ठ्याः प्रमदकृत्हर्षकृतुपवेशः प्रवेशः स्थितिर्वा यासु तादृशीभिरनल्पीभिर्बह्वीभिः स्वचतुर्दिक्षु स्थिताभिर्वेदीभिः सुष्ठुशोभा येषां तैः ॥
कीदृशानां वृक्षाणां ?
कुसुमितबहुवल्लीभिः श्लिष्टा आलिङ्गिताः शाखारूपभुजा येषां तेषाम् । घनानां निविडानां दलफलपुष्पश्रेणीनां भारेणानतानां सम्यङ्नम्राणाम् ॥७९॥
चतुष्कोणेषु वासन्ती चतुःशालाभिरावृतम् ।
वानीरकेशराशोकनिकुञ्जैः परितो वृतम् ॥१०॥
चतुष्कोणेषु वासन्तीलतानिर्मितचतुःशालाभिर्चतुर्दिक्षु गृहचतुष्टयैः चतुःशाला भवति । अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता इत्यमरः । वानीरकुञ्जनागकेशरकुञ्जाशोककुञ्जैः परितः सर्वदिक्षु वृतम् ॥१०॥
तद्बहिः पक्त्रिमापक्वफलपुष्पोत्कराकरैः ।
परितः कदलीषण्डैर्मण्डितं शीतलच्छदैः ॥११॥
तद्बहिः पक्वापक्वफलानां पुष्पाणां चोत्कराः समूहास्तेषामाकरैरुत्पादकैः । शीतलाश्छदाः पत्राणि येषां तैः । कदलीनां षण्डैः परितः सर्वतो दिक्षु मण्डितम् ॥११॥
तद्बहिर्बाह्योपवनाश्लिष्टपुष्पाटवीवृतम् ।
स्वमध्यसलिलादीव्यत्ससेतुरत्नमन्दिरम् ॥१२॥
तद्बहिर्बाह्योपवनैः सह श्लिष्टाभिर्लग्नाभिः पुष्पाटवीभिर्वृतम् । स्वस्य तस्य कुण्टस्य मध्यवर्तिसलिले आदिव्यततिकान्तिमत्स सेतुना सह रत्नमन्दिरं यत्र तत॥१२॥
नानापुष्पफलोच्चायिवनदेवीगणान्वितैः ।
सेवोपचारसंसक्तकुञ्जदासीशतावृतैः ॥१३॥
पुष्पाटवीफलाराममध्यस्थैर्वृन्दयाचितैः ।
सेवोपकरणागारनिकरैरभितो वृतम् ॥१४॥
(
युग्मकम्)
अभितः सर्वदिक्षु सेवोपकरणानामागारनिकरैर्गृहसमूहैर्वृतम् । कीदृशैः ?
नानापुष्पफलानामाहरणे शीलं येषां तैर्वनदेवीगणैरन्वितैः । सेवोपचारसंसक्तेन कुञ्जदासीशतेनावृतैः फलारामपुष्पाटवीमध्यस्थैर्वृन्दयाचितैः यथायोग्यं नियम्य स्थापितैः ॥१३१४॥
ऋतुराजादिसर्वर्तुगुणसेवितकाननम् ।
वृन्दासंमृष्टगन्धाम्भःसंसिक्ताध्वाङ्गणालयम् ॥१५॥
ऋतुराजो वसन्तस्तदादि षटृतुगणैः सेवितं काननं यत्तत्वृन्दयादौ संमृष्टा पश्चात्गन्धजलेन संसिक्तामार्गाङ्गणालया यत्र तत॥१५॥
तया तोरणकोल्लोचपताकालम्बगुच्छकैः ।
पौष्पैश्चित्रितकुञ्जाध्वदोलाचत्वरमण्डपम् ॥१६॥
तया वृन्दया पौष्पैः पुष्पकृतैः तोरणकोल्लोचश् चन्द्रातपश्च पताका चालम्बश्च गुच्छकश्च । एतैश्चित्रितानि मनोज्ञकृतानि कुञ्जमार्गदोलाचत्वरमण्डपानि यत्र तत॥१६॥
नवकमलदलालीपल्लवावृन्तनाना
कुसुमरचितशय्योच्छीर्षचन्द्रोपधानैः ।
समधुचषकताम्बूलाम्बुपात्रादियुक्तैः
सुवलिततललीलागारकुञ्जप्रपञ्चम् ॥१७॥
नवकमलदलाली च नवपल्लवाश्च अवृन्तानि वृन्दरहितानि नानापुष्पाणि च तैः शय्यातल्पमुच्छीर्षं मस्तकाधीनचन्द्राकारमुपधानं च तैः । कीदृशैः ?
समधुचषकेण मधुसहितपानपात्रेण तथा ताम्बूलजलपात्रादिभिश्च युक्तैः सुवलितं तलं तलदेशो येषां तेषां लीलागाररूपकुञ्जानां प्रपञ्चं विस्तारो यत्र तत॥१७॥
कह्लाररक्तोत्पलपुण्डरीक
पङ्केरुहेन्दीवरकैरवाणाम् ।
क्षरन्मरन्दैश्च पतत्परागैः
सुवासिताम्भःप्रसरं समन्तात॥१८॥
कह्लारं च रक्तोत्पलं कोकनदं च पुण्डरीकं श्वेतपद्मं च पङ्केरुहं पद्मं च इन्दीवरं नीलोत्पलं च कैरवं कुमुदं च,
एतेषां जलपुष्पाणां क्षरद्भिः पुष्परसैः पतद्भिः पुष्परजोभिश्च सुवासितैरम्भोभिर्जलैः समन्तात्चतुर्दिक्षु प्रसरति विसरतीति प्रसरम् ॥१८॥
हंससारसदात्यूहमद्गुकोकादिपत्रिणाम् ।
वरटालक्ष्मणादीनां कलालापैः श्रुतिप्रियम् ॥१९॥
हंसादिपक्षिणां कलालापैः मधुरालापैः श्रुतिप्रियम् । हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा इत्यमरः ॥१९॥
शारीशुकानामन्योन्यपृथगासङ्गरङ्गिणाम् ।
कृष्णलीलारसोल्लासिकाव्यालापमनोहरम् ॥२०॥
अन्योन्यपृथगासङ्गेन रङ्ग उत्सवे येषां तेषां शारीशुकानां कृष्णलीलारसस्य उल्लासी विद्यते यत्र तेन काव्यालापेन मनोहरम् ॥२०॥
जलदभ्रान्तिकृत्कृष्णकान्तिजप्रणयोन्मदैः ।
नदन्नृत्यच्छिखिव्रातैर्व्याप्तारामतटाजिरम् ॥२१॥
मेघभ्रान्तिकृत्कृष्णकान्तिजन्यप्रणयोन्मादैः नदद्भिर्नृत्यद्भिर्मयुरसमूहैर्व्याप्ता आरामास्तटवर्ति अजिरमङ्गनं च यस्य तत॥२१॥
हारीतपारावतचातकादिक
प्रहृष्टनानाविधचित्रपक्षिणाम् ।
कृष्णेक्षणानन्दविफुल्लवर्ष्मणां
कर्णामृतध्वानमनोज्ञकाननम् ॥२२॥
हारीतपारावतचातकादयो येषां तेषां प्रकृष्ट नानापक्षिणां कृष्णदर्शनानन्देन विफुल्लं वर्ष्मशरीरं येषां तेषां कर्णस्य अमृततुल्यध्वनिना मनोज्ञः काननं यत्र तत॥२२॥
राकेशार्बुदनिर्मञ्छ्यराधेशास्येन्दुपायिभिः ।
चकोरैर्न्यक्कृतत्यक्तचन्द्रैर्वृतनभस्तलम् ॥२३॥
राकेशः पूर्णचन्द्रस्तस्यार्बुदेन निर्मञ्छनार्हं राधेशास्यः श्रीकृष्णस्य राधाकृष्णयोर्वा आस्येन्दुः पातुं शीलं येषां तैः । पुनः कीदृशैः ?
न्यक्कृतस्तिरस्कृतस्त्यक्तश्च चन्द्रो यैस्तैश्चकोरैर्वृतमाच्छानं नभस्तलं नभो यत्र तत्तलं स्वरूपतलयोरिति विश्वः । एतेन तत्रस्थचकोराणामप्राकृतत्वं सूचितम् । यद्वा,
चकोरतुल्यैः गोपीनां नयनैरिति ॥२३॥
विपक्वजालकापक्वफलैः कुसुमपल्लवैह।
मुकुलैर्मञ्जरीभिश्च नम्रैर्वल्लीद्रुमैर्वृतम् ॥२४॥
विशेषेण पक्वैः जालकैः अल्पपक्वैः अपक्वफलैः कुसुमादिभिश्च नम्रैर्वल्लीद्रुमैर्वृतम् ॥२४॥
अनेकपद्माकरमध्यसंस्थितं
हरेर्विलासान्विततीरनीरकम् ।
नानाब्जकान्त्युच्छलितं निरन्तरं
गुणैर्जितक्षीरसमुद्रमद्भुतम् ॥२५॥
पुनः कीदृशं ?
गुणैर्जितः क्षीरसमुद्रो येन तदद्भुतं क्षीरसमुद्रादपि । कथं ?
तत्राह—
अनेकानां पद्मानामाकर उत्पत्तेर्निवासस्य च स्थानं मध्यरूपं संस्थितिर्मर्यादा,
अर्थात्मध्यं यस्य तत। यद्वा,
अनेकपद्मानामाकरमध्यसंस्थितं मध्यस्थानं यस्य तत। स तु एकस्या एव पद्माया लक्ष्म्या आकरमध्यसंस्थितमिव हरेर्विलासैरन्वितं तीरं नीरं च यस्य तत। स तु हरेर्विलासान्वितनीर एव । इदं नानाब्जानां शुक्लरक्तादिबहुविधपद्मानां कान्तिभिर्निरन्तरं सर्वदैवोच्छलितम् । स तु एकस्यैवाब्जस्य चन्द्रस्य कान्त्या पूर्णिमायामेवोच्छलितः स्यात॥२५॥
स्वसदृक्तीरनीरेण कृष्णपादाब्जजन्मना ।
निजपार्श्वोपविष्टेनारिष्टकुण्डेन सङ्गतम् ॥२६॥
(
षड्विंशत्या कुलकम्)
पुनः कीदृशं ?
स्वस्य सदृक्समानं तीरं नीरं च यस्य तेन कृष्णपादाब्जजन्मना निजपार्श्वे पूर्वाग्नेयदिशोर्मध्ये उपविष्टेन स्थितेन अरिष्टकुण्डेन सङ्गतम् । कृष्णपादाब्जजन्मना इत्यनेन कथितं यत्कृष्णकुण्डस्य प्रकटकारणं तत्तत्सङ्गिराधाकुण्डस्य प्रकटकारणं च । श्रीवराहपुराणादौ लिखितं,
तदनुसारेण श्रीविश्वनाथचक्रवर्तिठक्कुरेण दशमस्कन्धटीकायां (१०.३६.१५) अरिष्टवधानन्तरं विस्तार्य विंशत्या श्लोकैः लिखितमस्ति ॥२६॥
तीरे कुञ्जा यस्य भान्त्यष्टदिक्षु
प्रेष्ठालीनां स्वस्वनाम्ना प्रसिद्धाः
ताभिः प्रेम्णा स्वीयहस्तेन यत्नात्
क्रीडातुष्ट्यै प्रेष्ठयोः संस्कृता ये ॥२७॥
पुनः कीदृशं तत्कुण्डं ?
यस्य तीरे अष्टदिक्षु उत्तरादि आवायव्यां तासु प्रेष्ठालीनां श्रीललिताविशाखाचित्रेन्दुलेखाचम्पकलतारङ्गदेवीतुङ्गविद्यासुदेवीनां क्रमेण आसामष्टानां स्वस्वनाम्ना प्रसिद्धाः कुञ्जा भान्ति । कीदृशाः ?
प्रेष्ठयोः राधाकृष्णयोः क्रीडातुष्ट्यै क्रीडातुष्ट्यर्थं ताभिः प्रेष्ठालीभिः प्रेम्ना यत्नाच्च स्वीयहस्तेन ये कुञ्जाः संस्कृता भवन्तीति शेषः ॥२७॥
तत्तत्काष्ठाप्रान्तविच्छिन्न
सीमारामोद्यानावेशनांशान्विताश्च ।
तत्तत्सीमाभ्यन्तरोत्पन्नवृक्ष
श्रेणीयुग्माच्छन्नवर्त्मालियुक्ताः ॥२८॥
(
युग्मकम्)
पुनः कीदृशाः ?
तत्तत्तासां प्रेष्ठालीनां तेषां तेषां कुञ्जानां वा या याः काष्ठा दिशः तासां प्रान्ते विच्छिन्नासु भिन्नासु सीमासु ये आरामा उपवनानि उद्यानानि राज्ञः साधारणवनानि राज्ञः इत्युपलक्षणं वनाध्यक्षपरम्,
अत्र श्रीकृष्णः गोपीजनो वा वनानि आवेशानानि शिल्पशाला एषामंशेन भोगेनान्विता युक्ताः । आरामः स्यादुपवनं कृत्रिमं वनमेव यदिति,
उद्यानं राज्ञः साधारणं वनमिति,
आवेशनं शिल्पिशाला इति चामरः । पुनः कीदृशाः ?
तत्तत्तासां तासां सीमानामभ्यन्तरैर्मध्यमुत्पन्नैर्वृक्षश्रेणी युग्मैराच्छन्नया वर्त्माल्या मार्गश्रेण्या युक्ताः ॥२८॥
उपरि तनुतरङ्गाकारचित्राञ्चिशुद्ध
स्फटिकमणिचितान्यस्फारवर्त्मानि तानि ।
मरकतमणिवृन्दैराचिताभ्यन्तराणि
प्रतनुलहरिकुल्याभ्रान्तिमुत्पादयन्ति ॥२९॥
मणिचयरचनाभिः स्वेषु भित्तिभ्रमं द्राक्
स्वनिकटमणिभित्तौ चात्मबुद्धिं ददद्भिः ।
उपवनयुगमध्ये द्वारवृन्दैर्युतानि
प्रविशदितरलोके दर्शनादेव भान्ति ॥३०॥
(
युग्मकम्)
सखीनां राधाकृष्णयोर्लीलासहायकारित्वमद्भुतत्वं चास्तीत्याह—
उपरीति द्वाभ्याम् । तानि पूर्वश्लोकोक्तानि कुञ्जसम्बन्धीन्यस्फारवर्त्मानि सङ्कीर्णपथानि भान्ति । कीदृशानि ?
उपरि उपरिभागे तनुतरङ्गाकारे सूक्ष्मलहरीसदृशे चित्रे चित्ररचनायामञ्चिभिः संयुक्तैः शुद्धैः स्फटिकमणिभिश्चितानि युक्तानि । पुनः किम्भूतानि ?
मरकतमणीनां समूहैरा समन्तात्चितानि अभ्यन्तराणि मध्यानि स्फटिकमणिकृतलहरीणां सन्धयो येषां तानि । अतः प्रविशतीतरलोके श्रीराधापरिकराद्भिन्नजने चन्द्रावलीश्यामलादिपरिकरे जटिलादौ वा दर्शनादेव दर्शनमात्रेणैव द्राक्शीघ्रं प्रतनवः सूक्ष्मा लहरयो यासु तासां कुल्यानामल्पकृत्रिमनदीनां भ्रान्तिं भ्रममुत्पादयन्ति कुर्वाणानि । यानि पश्यत इतरजनस्य इमानि वर्त्मानि कुल्या एवेति भ्रमो जायते । ततस्तस्मात्सोपसरतीत्थं भूतानीत्यर्थः । कुल्याल्पा कृत्रिमा सरितित्यमरः ।
पुनः किम्भूतानि ?
उपवनमणिभित्तौ द्वारवृन्दैर्युतानि । कीदृशैः ?
मणिचयेन याः स्वावरकरचनास्ताभिः करणैः प्रविशदितरलोके दर्शनादेव शीघ्रं स्वेषु भित्तिभ्रमं स्वनिकटमणिभित्तौ आत्मबुद्धिं द्वारबुद्धिं च ददद्भिः । दानार्थे सप्तमी क्वचिदिति गौणविधिः । श्रीस्तवावल्या सगर्वे गोविन्दे परिषदि ददावुत्तरमिममिति । यद्वा,
ददद्भिः स्थापयद्भिः पुष्णद्भिर्वा । डुधाञ् धारणपोषणयोः । प्रविशदितरलोके दर्शनादेव द्रागिति पदचतुष्टयस्य काकाक्षिगोलकवत्वर्मद्वारविशेषणयोः सङ्गतिः । लोहितादिमणिभिर्निर्मितावरकत्वात। द्वार्षु भित्तिभ्रमः तन्मध्यवर्तिनीलादिमणिभित्तौ द्वारभ्रमो भवति । यद्वा,
प्रतिम्बद्वारा व ॥२९३०॥
चकास्त्युदीच्यां दिशि तीर्थसन्निधाव्
अनङ्गरङ्गाम्बुजनाम चत्वरम् ।
पद्माभकुञ्जाष्टदलैर्विराजितं
सुहेमरम्भावलिकेशरान्वितम् ॥३१॥
अथ तीरे कुञ्जा यस्य भान्तीति । यदुक्तं तदेकैकं वर्णयिष्यमाणः सन्नादौ । श्रीललिताकुञ्जं वर्णयति—
चकास्ति इति चतुर्भिः । यस्य श्रीराधाकुण्डस्य उदीच्यामुत्तरदिशि । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः । उत्तरा दिगुदीची स्यातित्यमरः । तीर्थसन्निधौ ललितानन्ददं कुञ्जं चकास्ति । कीदृशं तत्कुञ्जं ?
अनङ्गसम्बन्धी रङ्गक्रीडा यत्र तथाभूतं च तदम्बुजाकारं चेति । अतोऽनङ्गरङ्गाम्बुजनाम तथाभूतं चत्वरमङ्गनं यस्य तदनङ्गरङ्गाम्बुजनाम चत्वरम् । पुनः कीदृशं ?
पद्मवदाभा आकारो येषां ते कुञ्जा येषु अष्टकुञ्जा येषु तैरष्टभिर्दलैः,
किं वा,
तैः कुञ्जरूपैरष्टभिर्दलैर्विराजितम् । सुष्ठु सुवर्णरम्भाश्रेणीरूपकेशरैरन्वितम् ॥३१॥
सहस्रपत्राम्बुजसन्निभं स्फुरत्
सुवर्णसत्कुट्टिममञ्जुकर्णिकम् ।
लीलानुकूल्योचितसन्ततोल्लसद्
विस्तीर्णतालाघवमुन्नतप्रभम् ॥३२॥
पुनः कीदृशं ?
सहस्रं पत्राणि यस्य तादृशपद्मवत्सन्निभा आकारो यस्य तत। स्फुरत्प्रकाशमानं सुवर्णसम्बन्धिसत्कुट्टिममेव मञ्जुर्मनोहरा कर्णिका यस्य तत। लीलायाः आनुकूल्यस्य उचिते सन्ततमुल्लसन्ती विस्तीर्णता च लाघवं लघुता सङ्कोचश्च एते यस्य ततुन्नता उत्कृष्टा प्रभा कान्तिर्यस्य तत॥३२॥
ललिताशिष्यया नित्यं कलावत्या सुसंस्कृतम् ।
सर्वर्तुसुखसम्पन्नं नानाकेलिरसाकरम् ॥३३॥
पुनः कीदृशं ?
ललितायाः शिष्यया कलावत्या कलावतीनाम्न्या सुष्ठु संस्कृतं मार्जितम् । सर्वेषां ऋतूनां वसन्तादीनां सुखैः सम्पन्नं संयुक्तम् । नानाकेलय एव रसन्ते आस्वाद्यन्त इति रसास्तेषामाकरः ॥३३॥
ललितानन्ददं राधाकृष्णयोः सवयस्ययोः ।
निकुञ्जराजयोः पट्टमन्दिरं स्फुरदिन्दिरम् ॥३४॥
(
कुलकम्)
पुनः किंभूतं ?
निकुञ्जराजयोः निकुञ्जेषु सर्वासां सखीनां निकुञ्जेषु प्रभोर्विलासिनीर्वयस्याभिः सखीभिः सहितयोः श्रीराधाकृष्णयोः पट्टमन्दिरम् । स्फुरन्तीन्दिरा लक्ष्मीः शोभा नानारूपा सम्पत्तिर्यस्मिन्तत॥३४॥
माणिक्यकेशरश्रेणीवेष्टितस्वर्णकर्णिकम् ।
बहिर्बहिः क्रमादूर्ध्वमानसङ्ख्याप्रमाणकैः ॥३५॥
एकैकवर्णसद्रत्नकदम्बेनाचितैः पृथक।
रचितं बहुभिश्चारुसमपत्रालिमण्डलैः ॥३६॥
पञ्चेन्द्रियाह्लादकरैः शैत्यान्यब्जगुणैर्युतम् ।
तद्बहिः क्रमशः स्वर्णैर्वैदूर्यैरिन्द्रनीलकैः ॥३७॥
स्फटिकैः पद्मरागैश्च चितैर्मण्डपपञ्चकैः ।
शोभितं मण्डलेष्वन्तर्नानारत्नविनिर्मितौ ॥३८॥
केवलैर्मिथुनीभावसङ्गतैर्मृगपक्षिभिः ।
देवैर्नृभिर्युतं चान्यैश्चित्रितै रसदीपनैः ॥३९॥
पञ्चवर्णभूरिचित्रपत्रपुष्पविस्फुरत्
केशरादिशखिशाखिकालिसद्वितानकम् ।
अन्तरस्य भाति जानुदघ्नरत्नकुट्टिमागार
मध्यकर्णिकासहस्रपत्रसारसम् ॥४०॥
(
षड्भिः कुलकम्)
एवं श्रीललिताकुञ्जं वर्णयित्वा पद्माभ्कुञ्जाष्टदलैर्विराजितमिति । यदुक्तं तत्स्पष्टार्थमष्टदिक्षु तस्या अष्टासखी कुञ्जाश्रयरूपाणि कुञ्जरूपाणि वा अष्टदलानि वायुनैरृत्यग्निशिवादिदिक्षुत्तरदिश्यपि । प्राच्यवाचीप्रतीचिषु दिक्ष्वेवं द्विविधक्रमात्वर्णयिष्यमाणः सन्नादौ वायुकोणदलस्य वर्णनैर्नवभिः श्लोकैः,
ततः श्रीललिताकुञ्जं विशिनष्टि । यस्य श्रीललिताकुञ्जस्य वायव्यां दिशि दलं भातीति नवमश्लोकेनान्वयः (४३) । कीदृशं तद्दलं ?
अष्टदलानि पद्मपुष्पदलाकारैरुपकुञ्जाष्टकैर्वृतमित्युक्तानि कुञ्जरूपाणि यस्य तदष्टदलं कुञ्जमेवाम्बुजमिवाम्बुजमर्थादम्बुजनामकं कुञ्जं तच्च तच्च तदष्टदलकुञ्जाम्बुजं तत्यस्मिन्तथाभूतम् । किं वा,
अष्टभिर्दलैरिव कुञ्जैरम्बुजमिवाम्बुजम् । किं वा,
मुखचन्द्रो विराजते इतिवदसमस्ततया स्थितं तदेव दलमित्यर्थः ।
पुनः किम्भूतं ?
तद्दलं तदन्तरपि पद्माकारमिति वर्णयति षड्भिः । अस्य दलस्य अन्तर्मध्यं सहस्रपत्रं सारसमिव भातीति षष्ठश्लोकेनान्वयः (४०) । कथं ?
तदाह—
जानुदघ्नरत्नकुट्टिमागारमध्यकर्णिकं,
जानुदघ्ना जानुपरिमिता या रत्नकुट्टिमा सा यत्र तन्मध्ये तथाभूतं,
तस्यां कुट्टिमायां वा । यदागारं तदेव मध्ये कर्णिका यस्य तत। कर्णिकायाः स्वत एव मध्यस्थत्वेऽपि मध्येति मध्यस्थाननिरूपणम् । एको घट इतिवन्न पुनरुक्तिस्तदभिव्यक्तिरेव ।
पद्मत्वं स्पष्टयति सार्धं पञ्चभिः । माणिक्यकेशरश्रेणीभिर्वेष्टिता स्वर्णकर्णिका प्रोक्तार्था जानुदघ्नरत्नकुट्टिमागाररूपमध्यकर्णिका यस्य तत। एवं पद्यार्धेन स केशरकर्णिकत्वं संव्यज्य सार्धपद्येन उक्तं सहस्रपत्रत्वं व्यञ्जयति,
समानानां तुल्यानां पत्रालीनां मण्डलैर्वलयाकारैश्चारु यथा तथा रचितम् ।
कीदृशैः ?
बहिर्बहिः केशरश्रेणीभ्यो बाह्ये बाह्ये बाह्ये क्रमात्प्रथमात्द्वितीयात्तृतीयातेव क्रमेण वर्धमानसङ्ख्याप्रमाणकैः । वर्धमानैः सङ्ख्या एकैव सङ्ख्या अष्टेति प्रमाणं येषां तैः । किं वा,
वर्धमाना अष्ट षोडशद्द्वात्रिंशदिति द्वितिगुणरूपा सङ्ख्यैव प्रमाणं येषां तैः ।
पुनः कीदृशैः ?
एकैकवर्णैः सद्रत्नैः पृथक्कृत्वा आचितैः कृतैः । पुनः किंभूतं ?
पञ्चेन्द्रियाणां त्वग्रसनानासादृक्कर्णानामाह्लादकरैः । शैत्याद्यैः शैत्य एव मधुसम्बन्धिमाधुर्यं च सौन्दर्यं च भ्रमरादिसम्बन्धिसौस्वर्यं च एतैः । पुनः कीदृशं ?
तद्बहिस्तेभ्यो बहिः क्रमेण स्वर्णादिभिः पञ्चभी रत्नैश्चितैः कृतैर्मण्डितम् । प्रथममण्डलदलबहिः स्वर्णमण्डपपञ्चकैर्द्वितीयो मण्डलदलबहिर्वैदूर्यमण्डपपञ्चकैः,
एवं क्रमेण इति ज्ञेयम् । पुनः मण्डलेषु मण्डलभित्तिष्वन्तर्मध्ये नानारत्नविनिर्मितैश्चित्रितैश्चित्रैरिवचवितैः । किं वा,
नानारत्नविनिर्मितैः पीतरक्तादिवर्णकैश्चित्रितैर्लिखितैश्च केवलैरेकान्तैर्मिथुनीभावसङ्गतैर्मिथुनीभूतैः,
अत एव रसदीपनै रसप्रकाशकैर्मृगैः पक्षिभिश्च देवैर्नृभिर्मनुष्यैश्च अन्यैरिति गन्धर्वाप्सरकिन्नराद्युपदेवैश्च युतम् ।
पुनः,
पञ्चवर्णानि शुक्लकृष्णरक्तहरित्पीतानि भूरीणि चित्राणि मनोहराणि यानि पुष्पाणि पत्राणि च तैर्विस्फुरन्ती केशरादीनां नागकेशरादीनां शाखिनां वृक्षाणां शाखिकालिः शाखाश्रेणिरेव सद्वितानकं सच्चन्द्रातपो यत्र ॥३४४०॥
आमूलपुष्पिताशोकवल्लीमण्डलसञ्चयैः ।
सितारुणहरित्पीतश्यामपुष्पैः प्रकल्पितैः ॥४१॥
पद्मपुष्पदलाकारैरुपकुञ्जाष्टकैर्वृतम् ।
प्रवीणतादृशाशोकतरुकुञ्जवराटकम् ॥४२॥
वसन्तसुखदं यस्य भृङ्गकोकिलनादितम् ।
वायव्यां दिशि भात्यष्टदलकुञ्जाम्बुजं दलम् ॥४३॥
(
सन्दानितकम्)
पुनः किम्भूतं ?
तदाह—
पद्मपुष्पदलाकारैरुपकुञ्जाष्टकैरुपकुञ्जानामष्टभिर्वृतम् । अत्र सार्थकैः कीदृशैः ?
सितारुणहरित्पीतश्यामानि पुष्पाणि येषां तैरामूलं मूलमभिव्याप्य पुष्पितैर्वल्लीनां मण्डलसञ्चयैरुपादानहेतुभिः प्रकल्पितैः कृतैः । पुनः कीदृशैः ?
प्रवीणाः प्रशस्ता उच्च विस्तीर्णास्तादृश आमूलं सितादिपञ्चवर्णपुष्पयुक्ता अशोकतरुकुञ्जा एव वराटकाः कर्णिका येषां तैः । बीजकोषो वराटक इत्यमरः । । पुनः वसन्तो वसन्तर्तुः सुखदो यस्य तत। पुनः,
तुङ्गकोकिलैर्ध्वनितामिति ॥४१४३॥
श्रीपद्ममन्दिरं नाम नैरृत्यां राजते दलम् ।
चतुर्द्वारं चतुष्पार्श्वे वातायनसमन्वितम् ॥४४॥
श्री ललितानन्ददकुञ्जस्य नैरृत्यां दिशि श्रीपद्ममन्दिरं नाम दलं राजते । कीदृशं ?
चतुष्पार्श्वे चतुर्द्वारं चत्वारि द्वाराणि यस्य तत। पुनः वातायनैर्गवाक्षैर्युतम् ॥४४॥
नानामणिचितानेकचित्रभित्तिचतुष्टयम् ।
अन्तःसकृष्णगोपीनां पूर्वरागादिचेष्टितैः ॥४५॥
रासकुञ्जविलासैश्च ललिताचित्रितैर्युतम् ।
पूतनारिष्टसंहाराद्यन्ततच्चरितैर्बहिः ॥४६॥
पुनः किम्भूतं ?
तदाह—
पद्यार्धेन । नानामणिभिश्चितानि कृतानि अनेकानि –
चित्राणि यत्र तादृशं नानामणिभिश्चितं च ततनेकानि चित्राणि यत्र रचनानि यत्र तच्चेति । तादृशं वा भित्तिचतुष्टयं यस्य तत।
पुनः सार्धैकेन,
अन्तर्मन्दिरभित्तिर्मध्ये श्रीललितया चित्रितैः कृष्णेन सह गोपीनां पूर्वरागादिचेष्टितैस्तथा रासकुञ्जादिविलासैश्च युतम् । पूतनावधमारभ्यारिष्टासुरस्य संहारो अन्तो येषां तैस्तस्य कृष्णस्य चरितैर्बहिर्युतम् ॥४५४६॥
रत्नालिद्युतिकिञ्जल्कं सद्गर्भागारकर्णिकम् ।
बहिरब्जदलाकारैर्वृतं षोडशकोष्ठकैः ॥४७॥
पुनरर्धेन रत्नानि द्युतिरेव किञ्जल्काः केशरा यत्र तत। सदुत्तमो गर्भो यस्य तादृशमगारं गृहमेव कर्णिका यस्य तत। पुनर्द्वाभ्यां बहिरब्जदलाकारैः षोडशकोष्ठकैर्वृतम् ॥४७॥
तत्तद्युगान्तरालस्थद्व्यष्टोपकोष्ठकैरपि ।
ऊर्ध्वे तादृक्सन्निवेशस्फुरदट्टालिकान्वितम् ॥४८॥
तत्तत्कोष्ठयुगस्यान्तरालस्थैर्मध्यस्थैर्द्व्यष्टभिः षोडशभिरुपकोष्ठकैर्वृतम् । पुनः किंभूतं ?
तदाहार्धेन । ऊर्ध्वेऽपि तादृकुक्तार्धः कोष्ठोपकोष्ठादिवत्स्फुरन्तीभिरट्टालिकाभिरन्वितम् ॥४८॥
अन्तरन्तःक्रमादुच्चनिर्भित्तिस्तम्भपङ्क्तिषु ।
स्फाटिकीषु सुविन्यस्तप्रवालवलभीकुले ॥४९॥
पुनः किंभूतं ?
तदाह—
सोत्तरैकपदद्वाभ्याम् । अन्तरन्तर्मध्ये क्रमादुच्चासु निर्भित्तिषु भित्तिरहितासु स्फाटिकीषु स्फटिकनिर्मितासु स्तम्भपङ्क्तिषु सुविन्यस्तेषु युक्ते धारिते प्रवालनिर्मितैर्वलभीकुले ॥४९॥
छादितेन महारत्नपटलैस्तिर्यगूर्ध्वगैः ।
भ्राजितेन सुकुम्भेन शिखरेण विराजितम् ॥५०॥
अत्युच्चेन वनालोकसुखदेन निजेशयोः ।
मुक्तपार्श्वतृतीयोच्चखण्डेन च सुमण्डितम् ॥५१॥
छादनवक्रदारुश्रेण्यां तिर्यगूर्ध्वगैर्महारत्नकृतैः पटलैश्छदिभिर्जलादिनिवारकगृहाच्छादनैश्छादितेन । तथा शोभनकुम्भेन भ्राजितेनात्युच्चेन शिखरेण विराजितम् । गोपानसी तु वडभीच्छादने वक्रदारुणि इति । पटलं छदी इति इत्यमरः । पुनः,
गताद्येकपदार्धाभ्याम् । निजेशयोः श्रीराधाकृष्णयोर्वनदर्शनसुखदेन मुक्ता भित्तिरहिताः पार्श्वाश्चत्वारः पार्श्वा यस्य तेन तृतीयरूपोच्चखण्डने च सुमण्डितम् ॥५०५१॥
अधो रत्नाचितानेकचित्रचित्रेण भास्वता ।
उपकुट्टिमयुग्मान्तर्दिक्षु सोपानशोभिना ॥५२॥
कण्ठदघ्नातिविस्तीर्णकुट्टिमेनाभितो वृतम् ।
परितस्तावदुच्चानां प्रान्तोत्पन्नमहीरुहम् ॥५३॥
फलैः पुष्पैश्च संश्लिष्टकुट्टिमप्रान्तदेशकम् ।
केलिरत्नाकरं राधाकृष्णयोः सवयस्ययोः ॥५४॥
(
एकादशभिः कुलकम्)
पुनः सार्धेन । कण्ठदघ्नातिविस्तीर्णकुट्टिमेनाभितः सर्वतो दिक्षु वृतम् । कीदृशेन रत्नैश्चितेनानेकेनापरिमितेन चित्रेण मनोहरेण चित्रेण चित्ररचनेन भास्वता दीव्यता । पुनः किम्भूतेन ?
उपकुट्टिमयुग्मान्तश्चतुर्द्वारोभयपार्श्ववर्त्यपि कुट्टिमद्वयानामन्तर्मध्ये दिक्षु चतुर्षु दिक्षु यानि स्वसम्बन्धिसोपानानि तैः शोभिता ।
पुनः सार्धेन । परितः सर्वतो दिक्षु तावदुच्चानां तस्य पद्ममन्दिरस्य तुल्योच्चानां प्रान्ते कुट्टिमाद्बहिरुत्पन्नानां महीरुहां वृक्षाणां फलैः पुष्पैश्च संश्लिष्टः कुट्टिमः प्रान्तदेशो यस्य तत। पुनः,
वयस्याभिः सखीभिः सह वर्तमानयोः केलिरत्नानामाकरः खनिः ॥५२५४॥
आग्नेय्यां भाति पद्माभरत्नहिन्दोलकुट्टिमम् ।
पूर्वापरदिगुत्पन्नप्रवीणबकुलागयोः ॥५५॥
साचि किञ्चिद्विनिर्गत्य गत्या वक्रोर्ध्वयोपरि ।
मिलिताभ्यां सुशाखाभ्यां छादितं मण्डपाकृति ॥५६॥
(
युग्मकम्)
अथाग्निकोणस्थं हिन्दोलाम्बुजं षड्भिर्वर्णयिष्यमाणस्तत्कुट्टिमं वर्णयति द्वाभ्याम् । ललितात्मादकुञ्जस्याग्नेय्यां दिशि पद्माकाररत्ननिर्मितहिन्दोलकुट्टिमं भाति । कीदृशं ?
पूर्वपश्चिमदिगुत्पन्नयोः प्रवीणयोर्बकुलवृक्षयोर्वक्रोर्ध्वया गत्या किञ्चित्साचि वक्रं विनिर्गत्य उपरि मिलिताभ्यां सुशाखाभ्यां मण्डपाकृति यथा स्यात्तथा छादितम् ॥५५५६॥
तच्छाखामूलसंनद्धैः पट्टरज्जुचतुष्टयैः ।
दृढैर्बद्धचतुष्कोणं नाभिमात्रोच्चसंस्थिति ॥५७॥
तयोर्बकुलयोः शाखयोर्मूलयोः संनद्धैर्दृढैर्बद्धैः पट्टनिर्मितरज्जुचतुष्टयैर्बद्धाश्चत्वारः कोणा यस्य तत। मदनान्दोलनाभिधं हिन्दोलाम्बुजमाभातीत्यष्टमश्लोकेनान्वयः (६४) । कीदृशं ?
नाभिमात्रोच्चबन्धनानन्तरं पृथ्वीतः पृथक्शून्ये वर्तमाना संस्थितिः संस्थानं यस्य तत॥५७॥
पद्मरागाष्टपट्टीभिः प्रवालजपदाष्टकैः ।
घटितं हस्तमात्रोच्चपट्टीवेष्टनकेशरम् ॥५८॥
पद्मरागमणिनिर्मिताभिरष्टपट्टीभिः प्रवालमणिनिर्मितैः पदाष्टकैरष्टभिः पद्मैश्च घटितम् । हस्तमात्रोच्चाः पट्टीवेष्टनकेशरप्राया रत्नैर्निर्मितविशेषा यस्मिन्तत। किञ्जल्कः केशरोऽस्त्रियामित्यमरः ॥५८॥
द्व्यष्टपत्राम्बुजाकाररत्नालिचित्रकर्णिकम् ।
द्विद्विपादान्विताम्भोजदलाभाष्टदलैर्वृतम् ॥५९॥
द्व्यष्ट षोडश पत्राणि यस्य तदम्बुजस्य आकाररत्नावलीभिश्चित्रा च कर्णिका यस्य तत। द्विद्विपादैरन्वितानि यानि अम्भोजदलाकाराणि अष्टदलानि तैर्वृतम् ॥५९॥
रत्नपट्टीकेशरान्तर्द्वाराष्टकसुसंयुतम् ।
दक्षिणे दलपार्श्वस्थारोहद्वारद्वयान्वितम् ॥६०॥
रत्नपट्टीकेशरान्तरिति हस्तमात्रोच्चपट्टीवेष्टनकेशरमित्युक्तानां रत्नपट्टीकेशराणामन्तर्मध्ये द्वाराष्टकेनाष्टदलानां सम्मुखे बहिरष्टभिर्द्वारैः संयुतम् । दक्षिणे दक्षिणभागे दलस्य पार्श्वयोः स्थितेनारोहद्वारद्वयान्वितम् ॥६०॥
लघुस्तम्भद्वयासक्तपट्टिपृष्ठावलम्बकम् ।
पट्टतूलीलसन्मध्यं पार्श्वपृष्ठोपधानकम् ॥६१॥
लघुस्तम्भद्वयासक्ता पट्ट्येव श्रीराधाकृष्णयोः पृष्ठदेशस्थालम्बपत्रं तत। पट्टतूल्या लसन्मध्यं येषां तानि पार्श्वपृष्ठोपधानानि यत्र तत॥६१॥
नानाचित्रांशुकैश्छन्नं स्वर्णसूत्राम्बरैरपि ।
लसच्चन्द्रावलीमुक्तादामगुच्छवितानकम् ॥६२॥
नानाविधचित्रांशुकैश्चित्रवस्त्रैः स्वर्णसूत्रनिर्मितवस्त्रैरपि छन्नमाच्छादितं लसन्तश्चन्द्रावल्यश्चन्द्रश्रेणयश्च यस्य मुक्तानां दामानि मालाश्च गुच्छाश्च ते यत्र तथाभूतं वितानकं चन्द्रातापो यत्र तत॥६२॥
यत्राष्टदलगालीनां मध्यगौ राधिकाच्युतौ ।
गायदन्यवयस्याभिर्वृन्दा दोलयतीश्वरौ ॥६३॥
यत्र हिन्दोलाम्बुजे अष्टदलगतललिताष्टसखीनां मध्यगौ ईश्वरौ प्रभू श्रीराधाकृष्णौ तदधःस्थिताभिर्गायन्तीभिरन्यवयस्याभिः सह वृन्दा दोलयति ॥६३॥
स्वारूढराधाच्युतयोः सर्वाभिमुखताकरम् ।
हिन्दोलाम्बुजमाभाति मदनान्दोलनाभिधम् ॥६४॥
(
अष्टभिः कुलकम्)
पुनः कीदृशं तत्हिन्दोलाम्बुजं ?
स्वस्मिंस्तत्र हिन्दोलाम्बुजे आरूढयो राधाकृष्णयोः सर्वाभिमुखताकरम् ॥६४॥
ऐशान्यां भात्यष्टपत्रं माधवीकुञ्जसारसम् ।
माधवानन्ददं नाम नानालीलोपहारयुक॥६५॥
अथ ऐशान्यकोणकुञ्जं वर्णयति । श्रीललिताकुञ्जस्य ऐशान्यां दिशि माधवानन्ददं नाम माधवीकुञ्जसारसं माधवीभिर्निर्मितं कुञ्जं माधवीकुञ्जं,
तदेव
सारसमिव सारसं तद्भाति । किंभूतं ?
अष्टपत्राणि यस्य ततष्टदिग्वर्त्यष्टकुञ्जान्येव पत्ररूपाणि इति ज्ञेयम् । पुनः,
नानालीलाया ये उपहाराः स्रक्चनन्दवसनाभरणशय्यासनादयस्तद्युक्तम् ॥६५॥
फुल्लमल्लीभिराश्लिष्टनम्रशाखाभुजव्रजैः ।
छादितं फुल्लपुन्नागैश्चन्द्रकान्तिचितान्तरम् ॥६६॥
पद्मपत्राकारकुञ्जैर्वेष्टितं स्वर्णकर्णिकम् ।
उदीच्यां मणिकिञ्जल्कं भाति कुञ्जं सिताम्बुजम् ॥६७॥
(
युग्मकम्)
उत्तरादिशाखायां सिताम्बुजं सितं शुक्लमम्बुजाकारत्वात्तद्भाति,
अर्थात्सिताम्बुजमिति नाम ज्ञेयम् । कीदृशं ?
फुल्लमल्लीभिराश्लिष्टो नम्रः शाखारूपभुजसमूहो येषां तैः फुल्लैः पुन्नागैर्नागकेशरैश्छादितम् । चन्द्रकान्तिमणिभिश्चितं खचितमन्तरं मध्यं यस्य तत। पद्मपत्राकारकुञ्जैर्वेष्टितमित्यनेन रतिकुञ्जानां पद्मपत्राकारत्वेन मध्यस्थकुञ्जस्य पद्माकारत्वं ज्ञेयम् । स्वर्णनिर्मिता कर्णिका यस्य तत। रत्ननिर्मिताः किञ्जल्का यस्य तत॥६६६७॥
नम्रशाखाभुजाश्लिष्टफुल्लहेमलताचयैः ।
तमालैः कल्पितं जिष्णुनीलरत्नावलीचितम् ॥६८॥
नीलपद्मदलाकारैरुपकुञ्जाष्टकैर्वृतम् ।
सुवर्णकर्णिकं प्राच्यां भाति कुञ्जासिताम्बुजम् ॥६९॥
(
युग्मकम्)
प्राच्यां कुञ्जमिदमसितं कृष्णवर्णाम्बुजाकारं च कुञ्जासिताम्बुजं,
अर्थात्तन्नामकं भाति । कीदृशं ?
नम्रैः शाखारूपभुजैराश्लिष्टफुल्लहेमलताचयो यैस्तैस्तमालैः कल्पितं कृतम् । अत्र पुरुषकृतात्रालिङ्गनस्य रसपुष्टिकृत्त्वात्शाखाकर्तृकलतालिङ्गनस्यासम्भावशाखानां भुजेति पुरुषाङ्गविशेषः रूपकं कृत्वालिङ्गनकर्तृत्वं वर्णितम् । यथा श्रीभागवते—
पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः [भा.पु. १०.३०.१३] इति । जिष्णुरिन्द्रस्तस्य नीलरत्नावलीभिश्चितम् । जिष्णुर्लेख र्षभः शक्रः इत्यमरः । पुनर्नीलवर्णैः पद्मदलाकारैरुपकुञ्जाष्टकैर्वृतम् । सुवर्णनिर्मिता कर्णिका यस्य तत॥६८६९॥
अवाच्यां पद्मरागादिचितान्तर्बाह्यमण्डलम् ।
लवङ्गैश्छादितं फुल्लैर्भाति कुञ्जारुणाम्बुजम् ॥७०॥
अवाच्यां दक्षिणदिशायामरुणाम्बुजकुञ्जं भाति पद्मरागादिमणिभिश्चितमन्तर्मध्यं बाह्यमण्डलं च यस्य तत। पुनः फुल्लैर्लवङ्गैश्छादितम् ॥७०॥
कुञ्जं हेमाम्बुजं भाति प्रतीच्यां फुल्लचम्पकैः ।
वल्लीभिश्छादितं हेमचितबाह्यान्तरालकम् ॥७१॥
एवमुत्तरादिकुञ्जा भान्ति राधाहरिप्रियाः ।
नानावर्णाकारभेदात्दृशां विस्मयकारिणः ॥७२॥
(
युग्मकम्)
प्रतीच्यां पशिमदिशायां हेमाम्बुजं कुञ्जं भाति । फुल्लैश्चम्पकवृक्षैर्हेमचम्पकवल्लीभिश्च छादितम् । हेम्नाचितं बाह्यमन्तरालं मध्यं च यस्य तत। एवमुक्तप्रकारा राधाया हरेश्च प्रियाः उत्तरादिकुञ्जा ललितात्मादकुञ्जस्य उत्तराद्यष्टदिक्कुञ्जा भान्ति । कीदृशाः ?
नानावर्णाकारयोर्भेदात्दृशां विस्मयकारिणः ॥७२॥
प्रतिविदिशमुदञ्चच्चम्पकानां च तूर्णाम्
अरुणहरितपीतश्यामपुष्पोच्चयानाम् ।
वरपरिमलधाराक्षिप्तगन्धान्तराणां
प्रतिदिशमधिरोहन्माधवीवेष्टितानाम् ॥७३॥
शिवहरिति ऐशान्यां दिशि प्रसिद्धो मदनसुखदनामा विशाखात्मादः कुञ्जरजो विलसतीति षष्ठश्लोकेनान्वयः (७८) । कीदृशः कुञ्जराजः ?
तदाह प्रथमं द्वाभ्यांहेतु—
प्रतिविदिशं विदिक्षु ईशानकोणाग्निकोणनैरृतकोणमरुत्कोणेषु उदञ्चतामुत्फुल्लानां चम्पकानां चम्पकवृक्षाणां चतुर्णाम् । कीदृशानां ?
अरुणवर्णहरिद्वर्णपीतवर्णश्यामवर्णपुष्पाणामुच्चयाः समूहाः येषां तेषां वरपरिमलधाराभिः श्रेष्ठस्य जनमनोहरसुगन्धस्य परम्पराभिः क्षिप्तो गन्धान्तरोऽन्यो गन्धो यैस्तेषां प्रतिदिशं चतुर्दिक्षु अधिरोहन्तीभिर्माधवीलताभिर्वेष्टितानाम् ॥७३॥
व्यतिसुमिलिततिर्यङ्निर्गतैः कैश्चिदन्यैर्
उपरिघटितसङ्गैः स्निग्धशाखासमूहैः ।
शुकपिकमधुपानां नीलपीतारुणानां
मधुरनिनदरम्यैश्छादितः सौधतुल्यः ॥७४॥
व्यति परस्परं शोभनप्रकारेण मिलिताश्च ते तिर्यङ्निर्गताश्चेति तैः कैश्चिदन्यैरुपरिविघटितसङ्गैः प्राप्तसङ्गैः नीलपीतारुणवर्णानां शुकपिकमधुपानां मधुरशब्देन रम्यैः स्निग्धशाखासमूहैः छादितः । अत एव सौधतुल्यः । सौधोऽस्त्री राजसदनमित्यमरः ॥७४॥
स्थलजलजनिपुष्पैः पल्लवैः क्ÿ
प्तनाना
भरणवसनशय्यासद्वितानादिपूर्णः ।
अरुणविषदपीतश्यामपद्मोत्पलाद्यैर्
दिशि विदिशि सनालैः कल्पितानेकचित्रः ॥७५॥
पुनः कीदृशः ?
जलेषु स्थलेषु जनिरुत्पत्तिर्येषां तैः पुष्पैः वल्लवैश्च क्ÿ
प्तैः कृतैर्नानाभरणादिभिः पूर्णः । सनालैररुणशुक्लपीतश्यामवर्णैः पद्मोत्पलाद्यैर्दिशि विदिशि सनालैः कल्पितानेकचित्रं यत्र सः ॥७५॥
जठरशरशलाकैः पल्लवैश्चित्रपुष्पैर्
घटितमृदुकवाटीप्रावृतद्वाश्चतुष्कः ।
मदकलचलभृङ्गाऽनीकिनीद्वारपालो
मणिचयचितभूमिद्व्यष्टपत्राब्जमध्यः ॥७६॥
जठरे मध्यदेशे शर एव शलाका कीलं येषां तैः पल्लवैश्चित्रपुष्पैश्च घटिताभिर्मृदुकवाटीभिः क्षुद्रकवाटैः प्रावृतं द्वाश्चतुष्कं यस्य सः । मदकला मदोत्कटा चञ्चला च भ्रमराणां यानीकिनी सेना सैव द्वारपाला यत्र सः । मणिसमूहेन चिता भूमिरेव द्व्यष्ट षोडशपत्राणि यस्य तथाभूतमब्जाकारंमध्यः ॥७६॥
बहिरपि ततशाखाच्छादिताभिः समन्ताच्
चतसृभिरतिभाभिर्वेष्टितो देहलीभिः ।
अनिशमिह विशाखाशिष्यया मञ्जुमुख्या
रचननिपुणमत्या संस्कृतोऽध्यक्षयास्य ॥७७॥
बहिरपि समन्तात्चतुर्दिक्षु ततशाखाभिर्विस्तृतशाखाभिश्छादिताभिरतिभाभिश्चतसृभिर्देहलीभिः पिण्डिकाभिर्वेष्टितः । अस्य कुञ्जस्याध्यक्सया सेवायामध्यक्षया इह कुञ्जे रचने नानाचित्ररचनायां निपुणा मतिर्यस्यास्तया मञ्जुमुख्या विशाखाशिष्यया सदा संस्कृतः ॥७७॥
शिवहरिति तटस्थोऽप्येष राधाबकारेर्
विहरणरसवन्याप्लावितात्मा समन्तात।
मदनसुखदनामा लोचनानन्दधामा
विलसति स विशाखानन्ददः कुञ्जराजः ॥७८॥
(
षड्भिः कुलकम्)
तटस्थोऽपि प्रेमरसस्वरूपस्य श्रीराधाकृत्दस्य तटे स्थितः सन्सदा प्रेमरसपरिपूरितोऽपि । पुनः श्रीराधया सह हरेर्विहरणरूपरसवन्यया रससमूहेन प्लावित आत्मा स्वरूपं यस्य सः ॥७८॥
विचित्रवृक्षवल्लीभिश्चित्ररत्नैश्चितान्तरः ।
चित्रवर्णैः खगैर्भृङ्गैः कुट्टिमैः प्राङ्गणैर्वृतः ॥७९॥
चित्रमण्डपसंयुक्तश्चित्रहिन्दोलिकान्वितः ।
प्राच्यां चित्रानन्ददाख्यश्चित्रकुञ्जो विराजते ॥८०॥
(
युग्मकम्)
राधाकृत्दस्य प्राच्यां पूर्वस्यां दिशि चित्रानन्ददाख्यश्चित्रकुञ्जो विराजते इति परेणान्वयः । कीदृशः ?
विचित्राभिरनेकवर्णाकारजात्यादिभिर्भिन्नवृक्षवल्लीभिस्तथा चित्ररत्नैर्मनोहररत्नैः चित्रैः रचनायां युक्तरत्नैर्वा चित्रैर्वर्णकलिखितै रत्नैश्च रचितमन्तरं मध्यं यस्य सः । एवमनेकवर्णपक्षिभृङ्गकुट्टिमप्राङ्गणैर्वृतः ॥७९८०॥
स्फटिकैरिन्दुकान्तैश्च चितकुट्टिमचत्वरः ।
चित्रितः पुण्डरीकैश्च कैरवैर्मल्लिकादिभिः ॥८१॥
शुभ्रपुष्पदलैर्वृक्षैर्वल्लीभिश्च समन्वितः ।
शुभ्रालिपिककीराद्यैः शब्दज्ञेयैर्निनादितः ॥८२॥
शुभ्रवेशौ तु राकायां राधाकृष्णौ सहालिभिः ।
क्रीडन्तावपि नेक्ष्येते कैश्चिद्यत्रागतैरपि ॥८३॥
पूर्णेन्दुनामा कुञ्जोऽयमिन्दुलेखासुखप्रदः ।
सुशुभ्रकेलितल्पादिराग्नेय्यां दिशि राजते ॥८४॥
(
चतुर्भिः कुलकम्)
इन्दुलेखासुखदोऽयं पूर्णेन्दुनामा कुञ्जः अग्निकोणे राजते इति चतुर्थेनान्वयः । अत्र वर्णनावेशेन साक्षात्कारस्फुरणात्कुञ्जविशेषणमङ्गुलिनिर्दिष्टोऽयं शब्दः प्रयुक्तः । स्फटिकैरिन्दुकान्तमणिभिश्च चितं बद्धं कुट्टिमं चत्वरं च यत्र सः । पुण्डरीकैः शुक्लपद्मैः कैरवैः कुमुदैर्मल्लिकाभिश्च चित्रितः ॥८१॥
शुभ्राणि पुष्पाणि दलानि पत्राणि चे येषां तैर्वृक्षैस्तादृशीभिर्लताभिश्च समन्वितः । पुनः शुभ्रैरलिपिककीराद्यैर्निनादितः । कीदृशैः ?
शब्दज्ञेयैः । शुक्लत्वात्कः शुकः पिक इति भेदाज्ञाने जातिशब्दैः स्वस्वध्वनिभिरेव भृङ्गोऽयं पिकोऽयं शुकोऽयमिति ज्ञायते इति तैः ॥८२॥
राकायां पौर्णमास्यां शुभ्रवेशौ राधाकृष्णौ यत्र क्रीडन्तावपि तत्रागतैर्कैरपि नेक्ष्येते ॥८३॥
हेमवल्लीवृतैर्हेमपुष्पकैश्छादितोऽभितः ।
हेमपद्मावलीचित्रो हेमप्राङ्गणकुट्टिमह॥८५॥
हेममण्डपिकायुक्तो हेमहिन्दोलिकान्वितः ।
हेमाभालिखगैर्युक्तो हेमलीलापरिच्छदः ॥८६॥
लीलया पीतवसना पीतालेपविभूषणा ।
यत्र प्रविष्टा श्रीराधा कृष्णेनापि न लक्ष्यते ॥८७॥
गौराङ्गीवेशधृक्कृष्णः स्वप्रेयस्याः सहालिभिः ।
शृणोति प्रेमसंलापं यत्रैताभिरलक्षितः ॥८८॥
कदाचित्पद्मया यत्र प्रेरिता जटिलागता ।
ददर्श कृष्णं नो राधां तेनैकासनगामपि ॥८९॥
स्ववर्णकृत्स्वस्थितानां भाति काञ्चनभूरिव ।
दक्षिणे चम्पकलतानन्ददो हेमकुञ्जकः ॥९०॥
(
षड्भिः कुलकम्)
दक्षिणे चम्पकलतात्मादो हेमकुञ्जः भातीति षष्ठेनान्वयः । कीदृशः ?
हेमलतापुष्पवृक्षैश्छादित इत्यादि स्पष्टम् । पूर्ववत्हेमवर्णभ्रमरखगैर्युक्तः । लीलया परिच्छदः वस्त्रादि । लीलया कृष्णो मां ज्ञास्यति किं नेतिइ गुप्तं सखीभिः सह कृतविचारणया पीतवस्त्रा पीतालेपः कौङ्कुमपङ्को भूषणानि स्वर्णालङ्काराणि तानि च तानि यस्या यस्यां वा सा राधा यत्र प्रविष्टा कृष्णेनापि न लक्ष्यते । एवं गौराङ्गीवेशधृक। कृष्णः आलिभिः सह स्वप्रेयस्या राधायाः प्रेमसंलापं ताभिरलक्षितः सन्यत्र शृणोति ॥ यत्र जटिला कृष्णं नो ददर्श,
कृष्णेन सह एकासनगां राधामपि नो ददर्श । यद्वा,
कृष्णं ददर्श,
नो राधाम् ॥ यथा काञ्चनबूः स्वस्मिन्तापिन्वस्तूनां सुवर्णकृत्स्वर्णवर्णकृत॥८५९०॥
यत्र चम्पकवल्ल्याः सा निकुञ्जपाकशालिका ।
आस्ते तदीशयोश्चित्रजग्धिवेदिकयान्विता ॥९१॥
यत्र हेमकुञ्जे सा पाकशालिका राधाकृष्णयोश्चित्रया जग्धिवेदिकया सहभोजनवेद्या अन्विता आस्ते । जग्धिस्तु सहभोजनमित्यमरः ॥९१॥
यस्यां पाकक्रियाचार्या सवृन्दा सा निजेशयोः ।
सम्पादयति संमोदात्कदाचित्कुञ्जभोजनम् ॥९२॥
सा का यस्यां स वृन्दा सा चम्पकलता निजेशयोः कुञ्जभोजनं सम्पादयति ॥९२॥
तमालैः श्यामवल्लीभिः श्लिष्टशाखैर्धृतान्तरम् ।
इन्द्रनीलचिताभ्यन्तर्भूमिकुट्टिमचत्वरः ॥९३॥
राधया युगलीभावं गतोऽपि मुखरादिभिः ।
नेक्ष्यते हरिरेकैव राधिका यत्र दृश्यते ॥९४॥
राजते दिशि नैरृत्यां रङ्गदेवीसुखप्रदः ।
सर्वश्यामः श्यामकुञ्जो राधिकारतिवर्धनः ॥९५॥
नैरृत्यां दिशि रङ्गदेवीसुखर्प्रदः श्यामकुञ्जः राजते इति तृतीयेनान्वयः । यत्र मुखरादिभिः राधया युगलीभावं गतोऽपि हरिर्नेक्ष्यते,
राधिकैव दृश्येत । शेषः स्पष्टार्थः ॥९३९५॥
रक्तवल्लीवृतो रक्तपुष्पपत्रैर्द्रुमैर्वृतः ।
शोणरत्नचिताभ्यन्तः कुट्टिमाङ्गनमण्डपः ॥९६॥
रक्तहिन्दोलिकायुक्तः कृष्णेष्टः सर्वलोहितः ।
तुङ्गविद्यानन्ददोऽस्ति पश्चिमेऽरुणकुञ्जकः ॥९७॥
(
युग्मकम्)
तुङ्गविद्यानन्ददोऽरुणकुञ्जः पश्चिमेऽस्तीति द्वितीयेनान्वयः । शेषं सुस्पष्टम् ॥९६९७॥
हरिद्वल्लीवृक्षचित्रो हरित्पक्ष्यलिसंयुतः ।
हरिन्मणिचिताभ्यन्तर्बाह्यकुट्टिमचत्वरः ॥९८॥
वायव्यां सर्वहरितो राधाकृष्णाक्षकेलिभूः ।
सुदेवीसुखदाभिख्यो हरित्कुञ्जो विराजते ॥९९॥
(
युग्मकम्)
वायव्यां सुदेवीसुखदाभिख्यो हरित्कुञ्जो विराजते । शेषः स्पष्टार्थः ॥९८९९॥
उपरि लहरीतुल्याकारचित्रैः स्फुरद्भिर्
मरकतचयगर्भैः पुष्परागेन्दुकान्तैः ।
घटितमितरलोके तोयवद्भासमानं
मणिमयकुमुदाम्भोजालिहंसादियुक्तम् ॥१००॥
धनपतिदिशि तादृक्सेतुबन्धानुषक्तं
षडधिकदशपत्राम्भोजवत्सन्निवेशम् ।
सलिलकमलसद्मानङ्गयुङ्मञ्जरी शं
प्रदमतुल सुलावण्योल्लसल्लालसीति ॥१०१॥
(
युग्मकम्)
श्रीराधाकुण्डस्याष्टदिक्षु ललिताद्यष्टसखीनामष्टकुञ्जानुक्त्वा कुण्डमध्ये अनङ्गमञ्जर्याः स्थानमाह—
सलिलकमलसद्यसलिलैः कमलवद्विद्यमानत्वात। सलिलकमलमर्थात्सलिलकमलं नाम तच्च तत्सद्म चेति सलिलकमलसद्मा लालसीति । अतिशयेन लसति कीदृशं,
अनङ्गयुङ्मञ्जरी राधायाः कनिष्ठा भगिनी तस्या शं प्रदं सुखप्रदम् । पुनः कीदृशं ?
मरकतमणिसमूहो गर्भे येषां तैः स्फुरद्भिः पुष्परागाः पद्मरागा इन्दुकान्ताश्च तैः पुष्परागेन्दुकान्तैरुपरि लहरितुल्याकारतया चित्रैर्घटितम् । अत एव इतरलोके तोयवज्जलवत्भासमानम् । मणिमयैर्मणिनिर्मितैः । कुमुदाम्भोजालिहंसादिभिर्युक्तम् । तादृक्यथा ललितादीनां तटस्थिताः कुञ्जा इदं जलेऽपि षोडशदलाम्भोजवत्सन्निवेशमाकारो यस्य तत। पुनः कीदृशं ?
धनपतिदिशि सद्मतस्तस्योत्तरदिशायां सद्म गमनार्थं सेतुबन्धेनानुषक्तैर्युतम् ॥१००१०१॥
श्रीराधेव हरेस्तदीयसरसी प्रेष्ठाद्भुतैः स्वैर्गुणैर्
यस्यां श्रीयुतमाधवेन्दुरनिशं प्रेम्ना तया क्रीडति ।
प्रेमास्मिन्बत राधिकेव लभते यस्मिन्सकृत्स्नानकृत्
तत्तस्या महिमा तथा मधुरिमा केनास्तु वर्ण्यः क्षितौ ॥१०२॥
हरेः श्रीराधेव तदीयसरसी राधासरसी प्रेष्ठा । यस्यां सरस्यां श्रीकृष्णचन्द्रः अनिशं प्रत्यहं तया राधया सह प्रेम्णा क्रीडति । यस्यां सरस्यां सकृतेकवारमपि स्नानकृज्जनः अस्मिन्कृष्णे राधिकेव प्रेम लभते । तत्तस्मात्तस्या महिमा मधुरिमा च क्षितौ केन वर्ण्योऽस्तु ।
यथा राधा प्रिया विष्णोस्तस्या कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ इति प्रमाणम् ॥१०२॥
प्रियाकुण्डं दृष्ट्वा मुदितहृदयोऽप्यस्य विविधैर्
गुणैस्तैस्तैरुद्दीपितविरहभावः स्मरवशः ।
प्रियाप्राप्त्युत्कण्ठाकवलितमना नागरगुरुर्
भ्रमान्नानोत्प्रेक्षां बकरिपुरमुष्मिन्स विदधे ॥१०३॥
नागरगुरुः श्रीकृष्णः प्रियाकुण्डं दृष्ट्वा अस्य कुण्डस्य तैस्तैर्गुणैरुद्दीपितो राधायां विरहभावो यस्य सः । अतः स्मरवशः । तस्मादेव प्रियायाः प्राप्तौ या उत्कण्ठा तया कवलितं ग्रस्तं मनो यस्य सः । बकरिपोर्भ्रमातमुष्मिन्कुण्डे नानोत्प्रेक्षां विदधे ॥१०३॥
खेलच्चक्रयुगोरोजं फेणमुक्तास्रगुज्ज्वलम् ।
रसोर्म्युच्छलितं मेने प्रियप्रियावक्षःसमं सरः ॥१०४॥
उत्प्रेक्षा तत्रस्थवस्तुनि श्रीराधिकाङ्गोपमामेवाह—
प्रियाया राधायाः वक्षःसमं वक्षःस्थलतुल्यं सरो राधाकुण्डं मेने । समतामाह—
खेलच्चक्रयुगमेव उरोजौ स्तनौ यत्र । फेणमेव मुक्तास्रक्तया उज्ज्वलम् । रसोर्मिणा उच्छलितं च । कुण्डपक्षे रसजलं रसप्रेम च ॥१०४॥
मधुररसतरङ्गा बिभ्रती पङ्कजास्यं
भ्रमरकपरिवीतं प्रोल्लसत्खञ्जनाक्षम् ।
प्रमुदितहरिणोच्चैर्हंसकारावरम्या
प्रियतमसरसी सा प्रेयसीव व्यलोकि ॥१०५॥
प्रमुदितं हरिणा सा प्रियतमा या इयं प्रियतमा किं वा अतिशयेन प्रिया प्रियतमा सा चासौ सरसी चेति प्रियतमसरसी प्रेयसीव राधेव व्यलोकि । उभयोः साम्यमाह—
मधुररसस्य शृङ्गारस्य सरसीपक्षे मधुरजलस्य तरङ्गो यत्र सा पङ्कजवदास्यम् । पक्षे पङ्कजमेवास्यं तत्बिभ्रती भ्रमरकैरलकैः परिवीतं वृतम् । पक्षे भ्रमरा एव भ्रमरकास्तैः परिवीतं युक्तम् । प्रोल्लसत्खञ्जनाविवाक्षिणी नेत्रे यस्याः,
खञ्जन एव अक्षि नेत्रं यस्याः सा । हंसकौ पादकटकौ,
पक्षे हंसकास्तेषामारावेण शब्देन रम्या । शब्दार्थश्लेषेण व्याख्येयं श्रीकृष्णस्य तु प्रेयसीरूपेण यथार्थज्ञानमित्याशयः ॥१०५॥
स्वप्रेष्ठारिष्टकुण्डोर्मिचञ्चद्बाहूपगूहिता ।
स्वकोकनदपाणिभ्यां क्षिप्ततच्चलतत्करा ॥१०६॥
स्वप्रेष्ठस्यारिष्टकुण्डस्य कृष्णकुण्डस्य ऊर्मिरूपचञ्चलबाहुभिरुपगूहिता आलिङ्गिता स्वस्य राधाकुण्डस्य तस्य कोकनदरूपपाणिभ्यां क्षिप्तौ तत्तस्यारिष्टकुण्डस्य चलौ चञ्चलौ तत्करौ कोकनदरूपकरौ यया सा । रक्तोत्पलं कोकनद इत्यमरः । कृष्णस्य करौ वाम्यवशात्यथा राधा स्वकराभ्यां क्षिपति तथैव कुण्डद्वयस्य तरङ्गैश्चालितकोकनदानां व्यवहारो भवतीत्यर्थः ॥१०६॥
समीरचञ्चदम्भोजचलास्येन बलादिव ।
चुम्बितालिकटाक्षेषत्तिर्यगम्बुजसन्मुखी ॥१०७॥
समीरवेगेन चञ्चद्गच्छत्यदम्भोजं तदेव कृष्णकुण्डस्य चलास्यं तेन बलादिव चुम्बिता प्रियतमसरसी अलिरेव कटाक्षस्तेन ईषत्तिर्यक्वक्रीभूतं यदम्बुजं तदेव सत्समीचीनं मुखं यस्याः साई । एकपद्मकृतमन्यपद्मस्य भ्रमरसहितस्य ईषत्तिर्यकल्पवक्रं सतुत्तमं फुल्लतारूपस्मितयुक्तमम्बुजरूपमुखं यस्याः । बलात्कृष्णकृतचुम्बनसमये राधा यथा कटाक्षेण सह ईषत्तिर्यक्सम्मुखी भवति,
तथा ज्ञानमभूत॥१०७॥
भृङ्गीझङ्कारशीत्कारविकलस्वरगद्गदा ।
प्रोद्यत्कुट्टमिता तेन राधिकेव व्यलोकि सा ॥१०८॥
(
सन्दानितकम्)
भृङ्गीणां झङ्कारः शीत्कारो यस्याः सा । शीत्कारस्तु नायककृताधरखण्डनादौ नायिकाया व्यथया दन्तावलम्बीशब्दविशेषः । वीनां पक्षिणां कलस्वर एव गद्गदं यस्याः । एतैः प्रोद्यत्कुट्टमिता कुट्टमितभावयुक्ता राधिकेव सा सरसी तेन कृष्णेन व्यलोकि । कुट्टमितमुज्ज्वलनीअमणौ,
यथा—
स्तनाधरादिग्रहणे हृत्प्रीतावपि सम्भ्रमात।
बहिः क्रोधो व्यथितवत्प्रोक्तं कुट्टमितं बुधैः ॥ [उ.नी. ११.४९] ॥१०८॥
समुद्भ्राम्यल्लीलाम्बुजमनिलजातोर्मिवलितं
सरोयुग्मं वीक्ष्यानतशिरसि गोवर्धनगिरेः ।
निजप्रेमोद्घूर्णा स्खलितवपुषस्तस्य स हरिर्
भ्रमत्तारं बाष्पोच्छलितमिव मेनेऽक्षियुगलम् ॥१०९॥
स हरिः समुद्भ्राम्यल्लीलाम्बुजमनिलजातोर्मिभिर्वलितं वीक्ष्य निजप्रेमोद्घूर्णया स्खलितं वपुर्यस्य तस्य गोवर्धनगिरेर्मयूराकारस्यानतशिरसि आनम्रशिरसि अक्षियुगलमिव मेने । कीदृशं ?
भ्रमत्तारं भ्राम्यल्लीलाम्बुजे मननम् । बाष्पोच्छलितमूर्मौ मननम् । अतो मयूराकारगोवर्धनस्य दक्षिणदिशायां पुच्छम् । कुण्डद्वयं नेत्रमिति प्रसिद्धम् ॥१०९॥
इत्थं प्रियायाः स सरः समीक्ष्य तत्
प्रत्यङ्गसंस्मारकमात्मनो गुणैः ।
विन्दंस्तदानन्दममन्दमप्यभूत्
तदागमौत्सुक्यविभिन्नधैर्यकः ॥११०॥
स श्रीकृष्णः इत्थमुक्तप्रकारेण प्रियायाः सरः वीक्ष्य । कीदृशं ?
आत्मनो गुणैः तत्तस्या राधायाः प्रत्यङ्गसंस्मारकममन्दमानन्दं विन्दन्नपि तत्तस्या राधाया आगमौत्सुक्येन विभिन्नं धैर्यं यस्य तथाभूतोऽभूत॥११०॥
प्रायेन एवंविधसन्निवेशकं
ददर्श तत्पार्श्वगमात्मनः सरः ।
कुञ्जैः स्वकान्ताग्रहतोऽतिसंस्कृतैर्
विराजितं नर्मसखालिनिर्मितैः ॥१११॥
स कृष्णः तत्तस्य राधाकुण्डस्य पार्श्वगं प्रायो बाहुल्येन एवंविधा तीर्थहिन्दोलकादिना तुल्यः सन्निवेशो रचना यस्य तादृशमात्मनः सरः ददर्श । कीदृशं ?
स्वकान्ताग्रहतः राधाया आग्रहात्नर्मसखासमूहेन निर्मितैरतिसंस्कृतैः कुञ्जैर्विराजितम् ॥१११॥
प्रियनर्मवयस्या ये सुबलो मधुमङ्गलः ।
उज्ज्वलार्जुनगन्धर्वा विदग्धभृङ्गकोकिलाः ॥११२॥
दक्षसन्नन्दनाद्याश्च तेषां स्वस्वाभिधान्विताः ।
तैर्विभज्यार्पिताः कुञ्जास्ते राधाललितादिषु ॥११३॥
(
युग्मकम्)
सुबलाद्या ये प्रियनर्मवयस्यास्तेषां स्वस्वाभिधानान्विताः सुबलानन्ददाद्याः तैः सुबलादिभिः ते कुञ्जा विभज्य राधाललितादिषु अर्पिताः ॥११२११३॥
वयोर्दिश्यस्ति सुबलानन्ददा कुञ्जशालिका ।
राधयाङ्गीकृता यस्यास्तीर्थं मानसपावनम् ॥११४॥
यस्याः कुञ्जशालिकायास्तीर्थं मानसपावनाख्यम् ॥११४॥
नित्यं स्नात्यत्र सालीभिः कुण्डेऽस्मिन्विपुलाग्रहा ।
कृष्णपादाब्जमाध्वीकपानीये कृष्णवत्प्रिये ॥११५॥
अत्र तीर्थे सा राधा आलिभिः सखीभिः सह नित्यं स्नाति सा । कीदृशी ?
अस्मिन्कुण्डे विपुलाग्रहा । अत्र कारणमाह—
कृष्णपादाब्जस्य माध्वीकं पादोदकं पुण्यरसः पानीयं जलं यत्र तत्र । कृष्णवत्प्रिये च अनेन श्रीकृष्णचरणामृतादौ कृष्णतुल्यादरो दृष्टः । भक्तैरवश्यमेव कर्तव्य इति चायातः ॥११५॥
ललिताङ्गीकृतोदीच्यां कुञ्जशालातिचित्रिता ।
मधुमङ्गलशन्दाख्या भाति श्रीराधिकाप्रिया ॥११६॥
उत्तरे मधुमङ्गलशन्दाख्या ॥११६॥
विशाखाङ्गीकृतैशान्यामुज्ज्वलानन्ददापरा ।
एवमन्यासु दिक्ष्वन्या भान्त्यन्याभिः कृताश्रयाः ॥११७॥
पूर्वपश्चिमदिङ्मार्गावीशेशा कुण्डयोः क्रमात।
विस्तीर्णौ नृपशूनां स्तः स्नानपानार्थतीर्थगौ ॥११८॥
ऐशान्यामुज्ज्वलानन्ददा एवमन्या अर्जुनानन्ददादयः अन्यासु पूर्वादिदिक्षु अन्याभिश्चित्रादिभिः कृताश्रया प्रत्येकं भान्ति ॥११७॥ ईशेशाकुण्डयोः कृष्णकुण्डराधाकुण्डयोः क्रमात्पूर्वपश्चिमदिशोर्मार्गौ पन्थानौ स्तः । कीदृशौ ?
नृपशूनां स्नानपानार्थगोतीर्थगतौ प्राप्तौ विस्तीर्णौ च ॥११८॥
लीलानुकूलेषु जनेषु चित्ते
षूत्पन्नभावेषु च साधकानाम् ।
एवंविधं सर्वमिदं चकास्ति
स्वरूपतः प्राकृतवत्परेषु ॥११९॥
ननु प्राकृतान्यकुण्डवदेव कुण्डद्वयमुक्तप्रकारेण भासमानं कथं स्यात्?
तत्राह—
लीलानुकूला ये तेषु नित्यसिद्धेषु जनेषु । तथा साधकभक्तानामुत्पन्नभावेषु च साधकानामेवं विधं सर्वमिदं चकास्ति स्वरूपतः प्राकृतवत्परेषु ॥११९॥
अथ वृन्दागतं वीक्ष्यानन्दिता नन्दनन्दनम् ।
कर्णिकारावतंसौ द्वावभ्येत्योपजहार सा ॥१२०॥
अथ सा वृन्दा आगतं नन्दनन्दनं वीक्ष्य आनन्दिता सती तन्निकटमभ्येत्य आगत्य कर्णिकारावतंसौ कर्णिकाराव्पद्मगन्धिपुष्पविशेषौ तावेव अवतंसौ कर्णभूषणे तौ द्वौ उपजहार ददौ ॥१२०॥
वृन्दा तत्तन्निजनिपुणतासंस्कृतं दर्शयन्ती
तत्तत्कुञ्जादिकामनु तटं स्वेश्वरीं स्मारयन्ती ।
राधाकान्तं ककुभि सहजैर्भ्राजमानं गुणैः स्वैः
कुण्डैशान्यां मदनसुखदाभिख्यकुञ्जं निनाय ॥१२१॥
वृन्दा स्वेश्वरीं राधां स्मारयन्ती निजनैपुण्येनालङ्कृतं स्वैः स्वीयैः सहजैः गुणैर्भ्राजमानं तत्तत्पूर्वोक्तं कुञ्जादिकं तत्राप्यनुतटं तटं तटं प्रतिकान्तं दर्शयन्ती कुण्डैशान्यां ककुभि राधाकुण्डस्य ईशानकोणे मदनसुखदाख्यं कुञ्जं निनाय ॥१२१॥
स तद्दृष्टातिहृष्टोऽभूत्तत्तत्स्थानेषु राधया ।
कृतकर्तव्यलीलानां स्म्र्तिसङ्कल्पतत्परः ॥१२२॥
राधया सह कृतलीलानां स्मृतिः कर्तव्यलीलानां सङ्कल्पः मानसं कर्म तत्परोऽभूत।
स तद्दृष्टातिहृष्टोऽभूत्तत्तत्स्थानेषु । सङ्कल्पः कर्म मानसमित्यमरः ॥१२२॥
विशाखया मञ्जुमुख्या वृन्दया च सुमण्डितम् ।
कुञ्जं विलोक्य तं प्रीतस्तामाहोत्कलिकाकुलः ॥१२३॥
विशाखया तच्छिष्यया मञ्जुमुख्या वृन्दया च सुमण्डितं कुञ्जं वीक्ष्य तां वृन्दामाह ॥१२३॥
दिष्ट्या वृन्दे यदि तव सखी सागता स्यादकस्मान्
निष्प्रत्यूहं यदि मम तया स्युश्च ते ते विलासाः ।
कुण्डारण्यं मधुसुमधुरं कुञ्जगेहं तदास्मिन्
वैचित्री च त्वदुपरचिता कल्पते सत्फलाय ॥१२४॥
हे वृन्दे ! दिष्ट्या भाग्येन तव सा सखी आगता स्यात। निष्प्रत्यूहं निर्विरोधं यदि तया सह मम ते ते विलासाः स्युः । तदा कुण्डारण्यं कुञ्जं मधुसुमधुरं मधुना वसन्तेन सुमधुरं सुमनोहरम् । तत्र त्वदुपरचिता तत्कृता वैचित्री च सत्फलाय कल्पते ॥१२४॥
सङ्केतकुञ्जमगतं तुलसीसकाशाच्
छैब्यान्वितं च पथि मां नु निशम्य राधा ।
नैष्यत्यसौ तत इतः किल कापि गत्वा
तामानयेदिह निवेद्य मम प्रवृत्तिम् ॥१२५॥
तुलसीसकाशात्तुलसीमुखात्सङ्केतकुञ्जमगतं नागतं पथि शैब्यान्वितं च मां निशम्य राधा नैष्यति नागमिष्यति । तत इतः स्थानात्कापि गत्वा मम प्रवृत्तं वार्तां शैब्यां प्रतार्य गौरीतीर्थे प्रस्थाप्य सङ्केतकुञ्जं प्राप्तस्य मे तस्या मिलने अत्युत्कण्ठां निवेद्य तामिहानयेत॥१२५॥
श्रीराधायाः सविध उभयीं माधवीयामवस्थां
शंसन्त्युच्चैर्मदनविषमां लालसोद्दीपनां च ।
कुर्वाणैणां प्रणयविकलां व्याकुलां तृष्णयाद्धा
तामानेतुं त्वरय ललितां मद्गिरा त्वं धनिष्ठे ॥१२६॥
हे धनिष्ठे ! त्वं तां राधामानेतुं मद्गिरा ललितां त्वरय । किं कुर्वाणा ?
श्रीराधायाः सविधे समीपे माधवीयां मधवस्य मम सम्बन्धिनीं वासन्तीयां वा । उच्चैरतिशयं मदनविषमां लालसोद्दीपनां च उभयीमवस्थां शंसन्ती एनां राधां प्रणयविकलां तृष्णया व्याकुलां च कुर्वाणा ॥१२६॥
स्थापयैकां सखीं वृन्दे गोदिगध्वन्यसौ यथा ।
मामन्वेष्टुं सखा कश्चिदागच्छेत्तं प्रतारयेत॥१२७॥
गोदिगध्वनि गवां दिङ्मार्गमेकां सखीं स्थापय । सा यथा कश्चित्सखा मामन्वेष्टुमागच्छेच्चेत्तं सखायं प्रतारयेत॥१२७॥
गौरीतीर्थाध्वनि परां दक्षां स्थापय सा यथा ।
पुनरायाति शैब्या चेदन्या वा तां च वञ्चयेत॥१२८॥
गौरीतीर्थाध्वनि परां दक्षां सखीं स्थापय । सा शैब्या पुनरायाति चेत्तामन्या वा आयाति चेत। तां च वञ्चयेत॥१२८॥
पक्वरम्भाफले मग्नदृष्टिलोलं बटुं हरिः ।
वीक्ष्याह वृन्दामनयोः फलैस्त्वं पूरयोदरम् ॥१२९॥
हरिः पक्वरम्भाफले मग्नदृष्टिलोलं बटुं वीक्ष्य वृन्दामाह । अनयोः कदलीवृक्षयोः फलैरुदरमस्य पूरय । अनयोरित्यत्र द्विवचनेन परिहासः कृतः । एकवृक्षस्य फलैरस्योदरपूर्तिर्न स्याच्चेत॥१२९॥
बटुराहानया किं मे त्वमाज्ञापय मां सखे ।
दृष्ट्वा दृष्ट्वा यथावाञ्छं खादंस्तृप्यामि लोलुपः ॥१३०॥
अनया वृन्दया किं त्वं मामाज्ञापय लोलुपोऽहं दृष्ट्वा दृष्ट्वा खादन्तृप्यामि ॥१३०॥
तत्र तत्र प्रहितयोः सख्योर्निपुणयोस्तया ।
कृष्णोऽप्युत्कण्ठितोऽतिष्ठत्प्रियाध्वनिहितेक्षणः ॥१३१॥
तत्र तत्र गोदिगध्वनि गौरीतीर्थाध्वनि च तया वृन्दया सख्योः प्रहितयोः सत्योः । कृष्णः प्रियायाः मार्गे दत्तनेत्रः सन्नतिष्ठत॥१३१॥
स्मितकमलमुखी सा यावदायाति तावत्
जलधिशतगभीरोऽप्यस्तधैर्यः स मेने ।
क्षणमपि युगलक्षं हन्त यत्तन्न चित्रं
प्रणयिनि सहजेयं प्रेमभाजां हि चेष्टा ॥१३२॥
सा राधा यावदायाति तावत्समुद्रशतगभीरोऽपि स कृष्णः अन्तर्धैर्यरहितोऽभूत। क्षणमपि युगलक्षं यत्मेने तत्न चित्रम् । प्रेमभाजां जनानां प्रणयिनि जने इयं चेष्टा सहजा स्वाभाविकी भवति ॥१३२॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टविरजे गोविन्दलीलामृते
सर्गः सप्तम एष सुष्ठु निरगात्पूर्वाह्नलीलामयः ॥ओ॥
गोविन्दलीलामृते पूर्वाह्नलिलामयः एष सप्तमः सर्गः सुष्ठु निरगात। इति श्रीगोविन्दलीलामृते सदानन्दविधायिन्यां टीकायां सप्तमसर्गार्थः ॥
॥७॥
कृष्णदासकविराजप्रणीतं
श्रीगोविन्दलीलामृतम्
श्रीवृन्दावनचक्रवर्तिकृतसदानन्दविधायिनीटीकासंवलितं
द्वितीयविभागः (अष्टमसर्गतः पञ्चदशसर्गपर्यन्तः)
श्रीश्रीगौरगदाधरौ विजयेताम्
श्रीश्रीराधागोविन्दौ जयताम्
(
८)
अष्टमः सर्गः
मध्याह्नेऽन्योन्यसङ्गोदितविविधविकारादिभूषाप्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मरमखललिताद्यालिनर्माप्तशातौ ।
दोलारण्याम्बुवंशीहृतिरतिमधुपानार्कपूजादिलीलौ
राधाकृष्णौ सतृष्णौ परिजनघटया सेव्यमानौ स्मरामि ॥१॥
मध्याह्ने राधाकृष्णौ स्मरामि । कीदृशौ ?
अन्योन्यसङ्गेनादिता विविधविकारा अष्टसात्त्विका आदिपदेन सञ्चार्यादय त एव भूषास्ताभिः प्रमुग्धौ अतिमनोहरौ । वाम्येन उत्कण्ठया चातिलोलौ । लोलश्चलसतृष्णयोः । स्मरमखे कन्दर्पयज्ञे ललिताद्यलीनां नर्मणा परिहासवाक्येनाप्तशातौ आप्तं सुखं याभ्याम् । तौ दोलालीलारण्यलीलाजलक्रीडावंशीहृतिमधुपानसूर्यपूजादिरूपा लीला ययोस्तौ ॥१॥
अथात्र घोषेश्वरनन्दनप्रिया
पृथक्पृथक्सा युगपन्निजेन्द्रियैः ।
आकृष्टचित्ता प्रियसङ्गमौत्सुकैः
स्वं सान्त्वयन्तीमवदद्विशाखिकाम् ॥२॥
अथानन्तरमत्र स्वगृहमध्ये । सा नन्दनन्दनप्रिया श्रीराधा प्रियस्य श्रीकृष्णस्य सर्व्गमोत्सुकैर्निजेन्द्रियैर्युगपदेकदा पृथक्पृथकाकृष्टाचित्ता सती स्वमात्मानं सान्त्वयन्तीं विशाखामवदत॥२॥
सौन्दर्यामृतसिन्धुभङ्गललनाचित्ताद्रिसम्प्लावकः
कर्णानन्दिसनर्मरम्यवचनः कोटीन्दुशीताङ्गकः ।
सौरभ्यामृतसम्प्लवावृतजगत्पीयूषरम्याधरः
श्रीगोपेन्द्रसुतः स कर्षति बलात्पञ्चेन्द्रियाण्यालि मे ॥३॥
इन्द्रियैः इति यदुक्तं तदेव व्यक्तमाह—
हे आलि ! मे पञ्चेन्द्रियाणि स कृष्ण आकर्षति । कीदृशः ?
सौन्दर्यरूपामृतसमुद्रस्य तरङ्गैः स्त्रीणां चित्तपर्वतानां सम्प्लावकः । इत्यनेन नेत्रेन्द्रियं कर्णमानन्दयितुं शीलं यस्य तादृशं नर्मसहितं वचनं यस्येति वर्ण । कोटीन्दुशीताङ्गक इति स्पर्शेन्द्रियम् । सौरभ्येत्यादिना घ्राणम् । पीयूषेत्यादिना रसानाम् ॥३॥
नवाम्बुदलसद्द्युतिर्नवतडिन्मनोज्ञाम्बरः
सुचित्रमुरलीस्फुरच्छरदमन्दचन्द्राननः ।
मयूरदलभूषितः सुभगतारहारप्रभः
स मे मदनमोहनः सखि तनोति नेत्रस्पृहाम् ॥४॥
अर्थैकैकमेषां पञ्चेन्द्रियाणां नामग्राहपूर्वक्माकर्षणं कथयन्ती सती,
कृष्णस्य रूपादिपञ्चगुणानुक्तानपि प्रेमोत्कण्ठया पुनस्तान्पञ्चश्लोक्या स्पष्टयन्ती रूपं स्पष्टयति नवाम्बुदेत्याद्यैकेन । हे सखि ! स मदनमोहनः मदनस्य कन्दर्पस्य मोहनः ।
यद्वा,
मदयति सम्भोगांशे हर्षयति विप्रलम्भांशे ग्लापयति चेति मदनः । मदी हर्षग्लापनयोः । ताभ्यां मोहयति स्ववशीकरोति इति मोहनः,
स चासौ च सेति सः । श्रीकृष्णः मे मम नेत्रे स्पृहां तनोति । स्वसौन्दर्यरूपगुणेनेति शेषः । कीदृशः ?
नवाम्बुदाद्लसन्ती द्युतिर्यस्य सः । नवतडितोऽपि मनोज्ञमम्बरं यस्य सः । सुष्ठु चित्रया रुचिरया मुरल्या स्फुरत्शोभमानं शरत्पूर्णचन्द्र इवाननं यस्य सः । अनेन मुखस्य चन्द्ररूपकेण मुरल्यास्तद्गलदमृतधारात्वमायात्वं तस्या ध्वनिस्तु गर्जितमिति वोह्यम् । मयूरदलभूषितो मयूरदलैः चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशमित्युक्त्या चूडायामामूलाग्रं पार्श्वद्वये वलयीकृतैः ।
किं वा,
चूडाग्रे त्रिशाखाकारैः त्रिभिः शिभिपिञ्छैर्भूषितः । अनेन कृष्णस्य मेघरूपकेण बर्हाणामिन्द्रधनुस्त्वमायातम् । सुभगतारहारप्रभः,
तारा इव हारो मुक्तावली मुक्तामाला । हारो मुक्तावली इत्यमरः । सुभगश्चासौ स चेति सुभगतारहारस्तस्य प्रभा शोभा यस्मिन। भूषणभूषणाङ्गमित्युक्तो मेघे चन्द्रताराणामस्फुरणात। कृष्णस्याद्भुतमेघत्वम् । त्रिभङ्गेत्यादि द्वितीयतृतीयपादपाठभेदे तु श्लोकस्यापि विशेषणाभ्यां मेघ इव मेघः । तत्र त्रिभङ्गरुचिराकृतिर्मधुरवन्यवेशोज्ज्वलः । सुधांशुमधुराननः कमलकान्तिजिल्लोचनः । इति विशेषणचतुष्टयेन सोऽप्याकृतिमान। तत्रापि त्रिभङ्गललितः । तत्रापि मधुरवन्यवेशेन शोभितः । तत्राप्यत्याह्लादकाभ्यां चन्द्रपद्मद्वयाभ्यां संयुक्तः । अनेनापि अद्भुतमेघत्वमायातम् । अतो मम नेत्रयोश्चातकत्वमूह्यम् ॥४॥
नदज्जलदनिस्वनः श्रवणकर्षिसच्छिञ्जितः
सनर्मरससूचकाक्षरपदार्थभङ्ग्युक्तिकः ।
रमादिकवराङ्गनाहृदयहारिवंशीकलः
स मे मदनमोहनः सखि तनोति कर्णस्पृहाम् ॥५॥
अथ शब्दं स्पष्टयति नदज्जलदेत्येकेन । हे सखि ! स कृष्णो मम कर्णस्पृहां तनोति । स्वशब्देनेति शेषः । कीदृशः ?
नदज्जलेति । नदतो जलदस्य निःस्वन इव निस्वनः कण्ठध्वनिर्यस्य गम्भीर इत्यर्थः । पुनः किम्भूतः ?
श्रवणकर्षि कर्णकर्षि सदुत्तमं शिञ्जितं भूषणानां ध्वनिर्यस्य सः । भूषणानां तु सिञ्जितमित्यमरः । पुनः नर्मणा परिहासेन सह वर्तमानैरत एव सरससूचकैः । किं वा,
सनर्मरसस्य सूचकैरक्षरैः । अनेन ज्ञातमन्येषां वचनानि वा रससूचकानि स्युः । कृष्णस्य वचनानामक्षराण्यपि रससूचकान्येवेति । तैर्जातानां पदानां विभक्त्यन्तशब्दानां या अर्थभङ्गी अर्थकौशलम् । किं वा,
सनर्मरससूचिकान्क्षरति श्रवणकृतां हृदयान्न निर्यातीत्यक्षरपदानां या अर्थभङ्गी सोक्ती यस्य । किं वा,
सैवोक्तिर्यस्य ।
यद्वा,
सनर्मरससूचकाक्षरपदार्थभङ्ग्या सह वर्तमानोक्तिर्यस्य । यद्वा,
सनर्मरससूचकाक्षरपदार्थानां भङ्गी भङ्गवान्लहरीमान्समुद्रः,
अर्थान्नर्मरससमुद्रः तद्रूपोक्तिर्यस्य सः । पुनः रसादिकानामुत्तमस्त्रीणां हृदयहारी वंश्या कलौ मधुरास्फुटध्वनिर्यस्य सः । वयं तु मानुष्यस्तत्रापि युवत्यः अर्वाचीनाः तत्रापि सजातीयः तत्रापि तस्य सम्भोग्याः तस्य वाञ्छनीयाः प्रियाश्च । अतस्तत्कर्तृकमस्मच्चित्ताकर्षणं किं विचित्रमिति ॥५॥
कुरङ्गमदजिद्वपुःपरिमलोर्मिकृष्टाङ्गनः
स्वकाङ्गनलिनाष्टके शशियुताब्जगन्धप्रथः ।
मदेन्दुवरचन्दनागुरुसुगन्धिचर्चार्चितः
स मे मदनमोहनः सखि तनोति नासास्पृहाम् ॥६॥
स कृष्णः मम नासास्पृहां तनोति स्वसौरभेण इति शेषः । कुरङ्गमदो मृगमदस्तज्जिद्वपुषः । परिमलोर्मिभिराकृष्टा अङ्गना उत्तमा नार्यो येन सः । स्वकीयाङ्गरूपनलिनाष्टके पादद्वयकरद्वयनेत्रद्वयनाभिमुखरूपाष्टकमलेषु शशी कर्पूरस्तद्युताब्जस्य गन्धं प्रथयति विस्तारयति यः सः । मदः कस्तूरी च इन्दुः कर्पूरश्च वरचन्दनं च अगुरुः कृष्णागुरुश्च एतैः कृताभिः सुगन्धिविशिष्टचर्चाभिरङ्गलेपकैरर्चितो लिप्तः ॥६॥
हरिन्मणिकवाटिकाप्रततहारिवक्षःस्थलः
स्मरार्ततरुणीमनःकलुषहारिदोरर्गलः ।
सुधांशुहरिचन्दनोत्पलसिताभ्रशीताङ्गकः
स मे मदनमोहनः सखि तनोति वक्षःस्पृहाम् ॥७॥
स्वस्पर्शेन वक्षःस्पृहां तनोति । कीदृशः ?
इन्द्रनीलमणिनिर्मितकवाटिके इव प्रततं विस्तीर्णं हारि मनोहरं वक्षःस्थलं यस्य सः । स्मरार्ततरुणीनां मनसः कलुषं मनस्तापस्तस्य हन्तृणी नाशके दोषौ राहूतद्रूपार्गले यस्य सः । अर्गलाभ्यां रोधेनेव बाहुभ्यामालिङ्गनेन मनस्तापं नाशयति इत्यर्थः । सुधांशुश्चन्द्रश्च हरिचन्दनमुत्तमचन्दनं च उत्पलं पद्मं च सिताभ्रः कर्पूरश्चैतेभ्योऽपि शीतं शीतलमङ्गं यस्य सः । अथ कर्पूरमस्त्रियां घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुकमित्यमरः ॥७॥
व्रजातुलकुलाङ्गनेतररसालितृष्णाहर
प्रदीव्यदधरामृतः सुकृतिलभ्यफेलालवः ।
सुधाजिदहिवल्लिकासुदलवीटिकाचर्वितः
स मे मदनमोहनः सखि तनोति जिह्वास्पृहाम् ॥८॥
स्वाधरामृतरसेन जिह्वास्पृहां तनोति । कीदृशः ?
ब्रह्मास्यातुलकुलाङ्गणास्तुलनारहितव्रजसुन्दर्यस् तासामितररसश्रेणिषु या तृष्णा तां हरतीति तथाभूतं ?
सत्प्रदीव्यदधरामृतं यस्य सः । किं तदिति व्यञ्जयन्ती तस्य दुर्लभतामाह—
सुकृतीति सुकृतिभिः सुष्ठु च तत्कृतं कर्म हरितोषं यदित्याद्युक्तशुद्धभक्तिस्तद्युक्तैरेव लभ्यः फ्रेलाया भक्ष्यपेयादीनां भुक्तावशेषस्य लवो यस्य सः । एवं सामान्यतः कृष्णाधरामृतमात्रं स स्पृहां शमन्ती सती,
विशेषतः कृष्णेन स्वमुखात्पूर्वमर्पितं ताम्बूलचर्वितं स्पृहयन्ती सती,
पुनस्तं विशिनष्टि सुधाजिदिति । सुधाजिता अहिवल्लिका ताम्बूलवल्ली तस्या सुदलैः शोभनपत्रैर्निर्मिता या वीटिकास्तासां चर्वितं चर्वणं यस्य सः ॥८॥
अथागत्य सा तुलसी सभां तां
गुञ्जावलीं गन्धफलीयुगं च ।
निवेदयन्ती ललिताकराब्जे
वृत्तं समस्तं मुदिता शशंसे ॥९॥
अथ सा तुलसी तां सभामागता सती,
कृष्णदत्तां गुञ्जावलीं गन्धफली चम्पककलिका तयोर्युगं च ललिताकरे निवेदयन्ती समस्तं वृत्तं वार्तां शशंसे कथयाञ्चकार ॥९॥
श्रवसोरवतंसकद्वयीं
हृदि गुञ्जास्रजमप्यमुं शुभाम् ।
हरिसङ्गसमृद्धसौरभां
प्रियसख्या ललिता मुदा दधे ॥१०॥
ललिता प्रियसख्या राधायाः श्रवसोः कर्णद्वये अमूमवतंसकद्वयीं कर्णभूषणद्वयीं गन्धफलीयुगं ददौ । हृदि गुञ्जास्रजमपि ददौ । कृत्भावां ?
शुभां कृष्णप्राप्त्यनुकूलरूपां,
पुनः हरिसङ्गाद्धेतोः समृद्धं सौरभं यस्यास्तां तां च ॥१०॥
तत्स्पर्शतः फुल्लसरोजनेत्रा
कृष्णाङ्गसंस्पर्शमिवानुभूय ।
कम्पाकुला कण्टकिताङ्गयष्ठिर्
उत्कापि गन्तुं स्थगिता तदासीत॥११॥
तत्तयोरवतंसद्वयी गुञ्जास्रजोः स्पर्शात्फुल्लसरोज इव नेत्रे यस्याः सा राधा कृष्णाङ्गस्पर्शमिवानुभूय कम्पपुलकयुक्ता तदा उत्कण्ठितापि स्थगितासीत॥११॥
धीरतावामतासूक्ष्ममेधालीभिः प्रबोधिता ।
त्वरयन्ती सखीर्याने भङ्ग्या परिजहास सा ॥१२॥
स्वकीयधीरतावामतासूक्ष्ममेधारूपाभिः सखीभिः प्रबोधिता स्वीयधरियादिना विवेकवती सा राधा याने श्रीकृष्णनिकटगमने त्वरयन्ती ललितादिसखीः परिजहास ॥१२॥
पश्यताग्रे दिदृक्सा चेद्गत्वालं मदपेक्षया ।
शैब्या वाग्वागुराबद्धं कृष्णसारं मृगेक्षणाः ॥१३॥
परिहासमाह—
हे मृगेक्षणाः ! द्रष्टुमिच्छा चेदग्रे गत्वा मदपेक्षायामलं व्यर्थं शैब्याया वागेव वागुरा मृगबन्धनीयता बद्धं कृष्णसारमुखम् । पक्षे,
कृष्णस्य सारं धैर्यं कृष्ण एव सारस्तं वा पश्यत ॥१३॥
विधेयः पद्मिनीनां वः प्रयत्नः कृष्णपद्मिनः ।
चन्द्रावलीसखीवारीपतितस्य समुद्धृतौ ॥१४॥
चन्द्रावल्याः सखी सैव वारी गजबन्धनी वारी हस्तिग्रहणार्थं गर्तविशेषो वा,
तत्र पतितस्य वो युष्माकं पद्मिनीनां हस्तिनीनां कृष्णरूपपद्मिनो हस्तिनः समुद्धृतौ सम्यगुद्धारे युष्माभिः प्रयत्नो विधेयः ॥१४॥
न हठात्क्रियते सुपण्डितैर्
अविचारात्कृतमप्यनर्थकम् ।
सुविचार्य कृतं हि कल्पते
सुधियां साधु फलोपपत्तये ॥१५॥
सुपण्डितैः कर्तव्यमपि हठात्न क्रियते । अचिरात्कृतमप्यनर्थकं व्यर्थं स्यात। सुविचार्य कृतं कार्यं सुधियां साधु फलाय कल्पते ॥१५॥
ललिताह सत्यमेतद्यन्न सङ्केतगो हरिः ।
किन्तु शैब्यादिभिर्वीतस्तद्यानं मानहानये ॥१६॥
एतत्सत्यं यद्यस्मात्हरिः सङ्केतगो न,
किन्तु शैब्यादिभिर्विशेषेण इतः युक्तस्तस्मात्तद्यानं गमनं मानहानये स्यादिति । यद्वा,
हरिः सङ्केतगः शैब्यादिभिर्वीतो हरितश्चेति भावः ॥१६॥
अथेशा कृष्णसङ्गाशोत्कलिकाव्याकुलान्तरा ।
तस्या दुर्लभतास्फूर्त्या मनस्येतदचिन्तयत॥१७॥
ईशा राधाकृष्णस्य सङ्गे या आशा तया वा उत्कलिका उत्कण्ठा तया व्याकुलमन्तरं यस्याः सा । तस्य कृष्णस्य दुर्लभतास्फूर्त्या ॥१७॥
ननन्दा विद्वेष्टि पतिरतिकटुः सापि कुटिला
धवाम्बा मे पद्माप्रभृतिरिपुपक्षश्च बलवान।
वनं व्याप्तं सर्वं व्रजधनजनैरह्नि सखिभिर्
वृतः कृष्णो लभ्यः कथमिह भवेद्विघ्नबहुले ॥१८॥
चिन्तामाह विघ्नबहुले अह्नि दिवसे कृष्णः कथं लभ्यो भवेत। ननन्दा विद्वेष्ट्रीत्यादि विघ्नाः ॥१८॥
निष्प्रत्यूहं हरेः सङ्गो दुर्लभो मेऽद्य दुर्विधेः ।
इत्याकुलधियस्तस्याः शुभासीच्छकुनोन्नतिः ॥१९॥
दुर्विधेर्मे अद्य निष्प्रत्यूहं निर्विघ्नं हरेः सङ्गो दुर्लभः । इत्याकुलधियस्तस्याः शुभा शकुनोन्नतिरासीत। शकुनं शुभसूचकम् ॥१९॥
सुलभो वृषभः स गिरौ कमपि
प्रसभं गणको बहिरित्यवदत।
निजवामकुचोरुभुजानयनं
प्रियसङ्गतयेऽस्फुरदाशु समम् ॥२०॥
शकुनमाह—
बहिर्गणकः कमपि जनमवदत। गिरौ स वृषभः प्रसभं हठात्सुलभः । इत्येकः शकुनः नरेङ्गिताख्यः । एकस्य चिन्तयामन्यं प्रति तदानुकूल्यस्य प्रातिकूल्यस्य वा कथनं नरेङ्गिताख्यम् । वृषभस्य सुलभकथनेन कृष्णस्य सुलभरूपः । अन्येऽपि शकुन आह—
निजवामकुचादिकं सममेकदा प्रियसङ्गताय अस्फुरत॥२०॥
भविकशकुनजातामोदपूर्णापि गाढ
प्रणयविसरजासम्भावनालीनचित्ता ।
हृदयदयितवार्ताप्राप्तितृष्णास्रवन्त्या
सममहह धनिष्ठामागतां सा ददर्श ॥२१॥
भविकः कुशलो यः शकुनस्तज्जातामोदेन पूर्णापि गाढः प्रणयस्य विसरेण समूहेन जाता या सम्भावना तत्र लीनं चित्तं यस्याः सा । हृदयदयितस्य प्राणप्रियस्य वार्ताप्राप्त्या उत्पन्ना तृष्णारूपा स्रवन्ती नदी तया सममागतां धनिष्ठां सा ददर्श । अहह हर्षे । स्रवन्ती निम्नगापगा इत्यमरः ॥२१॥
स्वमिलनमुदितां तां वीक्ष्य राधा धनिष्ठां
हृदयदयितपादैः प्रेषितां मन्यमाना ।
उदितविविधभावव्याकुलाप्यस्य वार्ता
श्रवणकुतुकदिग्धा व्याजतस्तामपृच्छत॥२२॥
राधा धनिष्ठां वीक्ष्य श्रीकृष्णप्रेषितां मन्यमाना तस्मादेव उदितविविधभावेन व्याकुलापि तस्य कृष्णस्य वार्तायाः श्रवणकौतुकेन युक्ता छलेन तामपृच्छत॥२२॥
कुत इह सखि वृन्दारण्यतो माधवश्रीः
कथय किमनुभूता लोकिता गोत्रवर्यः ।
व्रजधनजनपाता सङ्गतश्चेक्षितोऽसौ
कथयतु भवती सा कीदृशी वा स कीदृक॥२३॥
हे सखि ! कुतः कस्मात्स्थानादागता । साह वृन्दावनात्राधाह माधवस्य कृष्णस्य वसन्तस्य च श्रीः किमनुभूता । साह आलोकिता असौ गोत्रवर्यः पर्वतश्रेष्ठः श्रीकृष्णः स च ईक्षितः मयेति शेषः । कीदृशः ?
व्रजधनानां गवां व्रजजनानां गोपानां च पाता रक्षिता । पक्षयोरेकोऽर्थः । सङ्गतः हृदयङ्गमः सुन्दरः । कृष्णपक्षे,
सङ्गतः सम्प्राप्तः सङ्केतकुञ्जं प्राप्त इत्यर्थः । यद्वा,
श्रीराधा वाक्यं व्रजधनजनपाता गोत्रवर्यः तया सङ्गतः सम्यक्प्राप्तो धनिष्ठा आह—
ईक्षित इति श्रुत्वा राधाह—
सा माधवश्रीः कीदृशी गोत्रवर्यश्च कीदृक्भवती कथयतु ॥२३॥
विकसितवनमालाकृष्टपुष्टालिवृन्दा
विकचतिलकलक्ष्मीः कोकिलालापरम्या ।
हृदि युवतिजनानां काममुद्दीपयन्ती
स्फुरति सखि विशाला माधुरी माधवस्य ॥२४॥
हे सखि ! माधवस्य वसन्तस्य च विशाला माधुरी स्फुरति । कीदृशी ?
विकसितवनश्रेणिभिः । पक्षे,
वनमालया चाकृष्टं पुष्टं चालिवृन्दं भ्रमरसमूहो यया सा । विकचा प्रफुल्ला च तिलकवृक्षस्य । पक्षे,
तिलकस्य श्रीः शोभा यत्र सा । कोकिलस्य आलाप इव य आलापस्तेन रम्या । युवतिजनानां हृदि कामं कन्दर्पमभिलाषं चोद्दीपयन्ती । उभयपक्षे समोऽर्थः ॥२४॥
विविधोत्कलिकाकीर्णां दर्शनात्स्मरवर्धिनीम् ।
माधवीयामवस्थां कः सखि वर्णयितुं क्षमः ॥२५॥
हे सखि ! माधवीयामवस्थां कः वर्णयितुं क्षमः ?
सामान्याकारेण किञ्चित्शृणु विविधाभिरुत्कृष्टाकलिकाभिः । उत्कलिकाभिरुत्कण्ठाभिः कीर्णां व्याप्त्यां दर्शनात्स्मरवर्धिनीमित्युभयपक्षे समा ॥२५॥
धरोद्धर्ता धातूच्चयरचितचित्रावयववान्
ध्वनद्वेणुर्धेनुव्रजजलदभीतिव्रजहरः ।
वयःक्रीडोन्मीलः सकलसुरभीवर्धनकृती
विरावोच्चैः शृङ्गो लसति सखि गोवर्धनधरः ॥२६॥
माधवीयां माधुरीमुक्त्वा स गोवर्धनः कीदृगित्यस्य प्रत्युत्तरमाह । गोवर्धनश्चासौ धरः पर्वतश्चेति सः । पक्षे,
कृष्णः गोवर्धनधरः । पक्षे धरां पृथ्वीमुत्तरतीति,
महीध्रे शिखरीक्ष्माभृदहार्यधरपर्वता इत्यमरः । कृष्णपक्षे धरं गोवर्धनपर्वतमुद्धरति स्म । धातूनां गैरिकादीनामुच्चयेन रचितचित्राण्यवयवानि यस्य सः । उभयपक्षे साम्यम् । ध्वनन्तो वेणवो यस्य । वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः इत्यमरः । पक्षे ध्वनत्वेणुर्यस्य सः । धेनूनां ध्रुवस्य जलदात्यज्ञभङ्गानन्तरं कुपितेन्द्रप्रेरितात्मेघात्यो भीतिव्रजो भयसमूहस्तं हरतीति सः । उभयपक्षे,
वयसां पक्षिणामुन्मीलातीत्युन्मीलः उदयो यस्मिन्सः । पक्षे,
वयः कैशोरं तद्योग्यक्रीडया उन्मीलति प्रकाशते यः सः । वयः पक्षिणि बाल्यादौ यौवने च नपुंसकमिति मेदिनी । सकलगवानां वर्धने कृति कुशलः । द्वयोः साम्यम् । यद्वा,
कृष्णस्तु सुराणां देवानां भीतानां वर्धने छेदने कृती कुशलः । वृधु छेदने । वीना पक्षिणां रावो यस्मिनुच्चैरुच्चं शृङ्गं शिखरं यस्य स चासौ स चेति सः । कृष्णपक्षे,
विशिष्टरावैः शब्दैः उच्चैरुत्कृष्टं शृङ्गं वाद्यरूपं माहिषशृङ्गं यस्य स लसति ॥२६॥
तद्वाग्भङ्गीमधुलीनां पानोन्मत्तहृदप्यसौ ।
कान्तोदन्तं स्फुटं श्रोतुं संवादमनयाकरोत॥२७॥
तस्या वाक्यभङ्गी सैव मधूली मधु तासां पानेनोन्मत्तहृद्यस्यास्तथाभूताप्यसौ राधाकान्तस्य उदन्तं वार्तां स्फुटं श्रोतुमनया सह संवादमकरोत॥२७॥
यानं क्व ते सम्प्रति ते समीपे
किमर्थमावेदयितुं प्रवृत्तिम् ।
कस्य व्रजेन्दोः सखि कीदृशी सा
स्वशत्रुकन्दर्पतमोऽभिभूतिः ॥२८॥
“
ते तव क्व कुत्र यानं गमनं ?”
साह—“
ते तव समीपे”
। “
किमर्थं ?”
साह—“
प्रवृत्तिमावेदयितुं”
। “
कस्य प्रवृत्तिं ?”
साह—“
व्रजेन्दोः”
। “
कीदृशी सा प्रवृत्तिः ?” “
स्वस्य तस्य कृष्णचन्द्रस्य शत्रुः कन्दर्पः,
स एव तमो राहुरन्धकारो वा तेनाभिभूतिरसत्कृतपराभव एषा प्रवृत्तिः”
। एषा यस्यां वा सा प्रवृत्तिः । तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे इति मेदिनी ॥२८॥
छायाद्वितीयोऽयमसौ सहायी
निरायुधोऽयं स च शस्त्रपूर्णः ।
स्वरूपसम्पज्जयजातरोषस्
तं बाधतेऽसौ स्वमधौ समृद्धः ॥२९॥
पीडादाने कारणमाह—
अयं कृष्णः छायाद्वितीय एकः । असौ कन्दर्पः सहायी सहायसहितः । अयं कृष्णः निरायुधः शस्त्ररहितः,
कन्दर्पः शस्त्रपूर्णः । स्वरूपसौन्दर्यं तदेव सम्पत्तस्या जयेन कृष्णकृतजयेन जातरोषः । तत्रापि स्वमधौ वसन्ते समृद्धः इत्थंभूतस्तं कृष्णः बाधते ॥२९॥
समाच्छन्नं कुर्वन्नुपरि कुसुमैः स्वैरिव शरैः
समन्तात्सामन्तैरलिपिकवसन्तानिलमुखैः ।
भवत्कुण्डारण्यं न्यरुणदिह कृष्णं रतिपतिर्
बहिःस्थानीकिन्या इव स तव सङ्गं स्पृहयति ॥३०॥
रतिपतिः कन्दर्पः स्वैः स्वीयैः शरैरिव कुसुमैरुपरि समाच्छन्नं कुर्वन्सन्भवत्कुण्डारण्यं प्रति श्रीकृष्णं न्यरुणत। कुण्डारण्ये प्रवेश्य तं रुद्धमकरोदित्यर्थः । अतः स कृष्णो बहिःस्थाया अनीकिन्याः सेनाया इव तव सङ्गं स्पृहयति । तव सङ्गे सति ते सर्वे स्वयमेवाभिभूताः सन्तः अनुकूलाः स्युरित्यभिप्रायः ॥३०॥
बहुधा कृतरक्षणं प्रियं
पतितं दैवबलेन सङ्कटे ।
तव सङ्गतिमात्रतारणे
त्वरितं त्राहि न चेत्कृतघ्नता ॥३१॥
दैवबलेन सङ्कटे पतितं प्रियं त्वरितं त्राहि । चेद्यदि न त्रायास्तदा तव कृतघ्नता स्यात। मम कृतघ्नता कथं ?
तव सङ्गार्थं तव कुण्डे आगतस्य सङ्कटमब्स्थित। ननु सङ्कटात्त्रातुं मे किं बलं ?
तत्राह—
तव सङ्गिमात्रेण तारणं यस्मात्तस्मिन्सङ्कटे । अत्र किं प्रमाणं। एवंप्रकारेण बहुधा कृतं रक्षणं यस्य तं प्रियम् । अतः कृतघ्ना मा भव ॥३१॥
त्वत्सङ्गत्या यदा भाति तदा मदनमोहनः ।
अन्यत्र विश्वमोहोऽपि स्वयं मदनमोहितः ॥३२॥
तव वाक्ये मे न प्रतीतिः स तु मदनं मोहयतीति मदनेन मोहितः स कथं भवेत्तत्राह । त्वत्सङ्गत्या यदा भाति तदा स मदनमोहनः । अन्यत्र तव सङ्गाभाव एकस्य मदनस्य का वार्ता स्थावरजङ्गमात्मकसर्वविश्वमोहोऽपि स्वयं मदनेन मोहितः स्यात॥३२॥
धृतानल्पाकल्पः कृतकुसुमतल्पो हृदि वलद्
विकल्पः सङ्कल्पान्विदधदिह जल्पंस्तव कथाम् ।
स शूरोऽपि क्रूरातनुकदनदूरोज्झितधृतिर्
हरिः कुञ्जे गुञ्जन्मधुपपिकपुञ्जे निवसति ॥३३॥
धृतोऽनल्पाकल्पो बहुभूषो येन सः । कृतः कुसुमतल्पः पुष्पशय्या । हृदि वलन्विकल्पोऽन्यसम्भावना यस्य सः । सङ्कल्पान्विदधदिह सङ्कल्पविधाने तव कथां जल्पन्स हरिः शूरोऽपि क्रूरकन्दर्पस्य कदनेन खेदेन दूरे उज्झिता त्यक्ता धृतिर्येन सः । इत्थंभूतः सन्कुञ्जे निवसति ॥३३॥
नवीनजलदद्युतिः कनकपीतपट्टाम्बरः
स्फुरन्मकरकुण्डलो घुसृणचारुचर्चाञ्चितः ।
प्रफुल्लकमलेक्षणः कनकयूथिकामाल्यवान्
शिखण्डकृतशेखरः स्फुरति साध्वि कुञ्जे हरिः ॥३४॥
तदपि धैर्यं धृत्वा श्रीकृष्णसौन्दर्यादिश्रवणोत्सुकां तां प्रति सुमधुरतया पुनराह नवीनेत्यादि । सुगमार्थः ॥३४॥
श्रीतारुण्यमहामृताब्धिविलसत्सौन्दर्यपाथःस्फुरल्
लावण्योच्चतरङ्गभङ्गिविलसत्कन्दर्पभावभ्रमे ।
श्रीवंशीध्वनिवात्ययोत्थितपतद्योषाक्षिचेतस्तृण
स्तम्बानाशु निमज्जयन्नपि हरिस्त्वद्वीथिमुद्वीक्स्यते ॥३५॥
श्रीतारुण्यमेव महामृताब्धिस्तत्र विलसत्सौन्दर्यं पाथो जलं तत्र स्फुरत्लावण्यरूपोच्चतरङ्गभङ्ग्या सह विलसन्कन्दर्पभाव एव भ्रमस्तस्मिन्श्रीवंशीध्वनिरूपा वात्या चक्रवातस्तया उत्थितपतितयोषाणां स्त्रीणामक्षि चेतस्तृणस्तम्बानाशु निमज्जयन्नपि हरिस्त्वद्वीथिमुद्वीक्स्यते ॥३५॥
बकभिदि सुविदग्धे स्वां सुवैदग्ध्यधारां
नवतरुणिमपूर्णे नव्यतारुण्यलक्ष्मीम् ।
शशिमुखि रतितृष्णामप्यमुष्मिन्सतृष्णे
सफलय वरवेशे वेशभङ्गीं समर्प्य ॥३६॥
बकभिदि सुविदग्धे स्वां सुवैदग्ध्यधारां समर्प्य सफलय । एवं हे शशिमुखि ! नवतरुणिमपूर्णे तस्मिन्स्वां नव्यतारुण्यलक्ष्मीं समर्प्य सफलय । एवममुष्मिन्कृष्णे सतृष्णे स्वां रतितृष्णामपि समर्प्य सफलय । एवं वरवेशे तस्मिन्वेशभङ्गीं समर्प्य सफलय । अन्यथा अविदग्धादौ स्ववैदग्ध्यादेः समर्पणं वृथा भवति । कस्मिंश्चिदपि असमर्पणे च विफलमेव सर्वं स्यादिति भावः ॥३६॥
प्रेमोद्भ्रान्तं द्रुतस्वान्तं
स्मराक्रान्तं त्वदाश्रितम् ।
मूर्च्छान्तां क्लान्तिमायान्तं
कान्तं कान्ते द्रुतं व्रज ॥३७॥
मूर्च्छान्ते यस्याः एवंभूतां क्लान्तिमायान्तम् । हे कान्ते प्रिये ! कान्तं प्रियं श्रीकृष्णम् ॥३७॥
इति सखीवचनामृतपानज
प्रकटभावचयाचितविग्रहा ।
अतिशयोत्सुकताजडताकुला
द्रुतविलम्बितयानमतिर्बभौ ॥३८॥
सख्या वचनामृतपानजप्रकटभावसमूहेनाचितं व्याप्तं शरीरं यस्याः सा । अत्युत्सुकतया या जडता तया व्याप्ता सती । द्रुतं शीघ्रं विलम्बितं च यानं गमनं यस्यां तथाभूता मतिर्यस्याः सा बभौ । गतिरिति पाठे तदभिन्नेत्यर्थः ॥३८॥
ततस्तदैवागतकुन्दवल्ल्याः
स्वस्य प्रयाणाय कृतत्वरायाः ।
सा सव्यहस्तेन करं दधाना
परेण लीलाकमलं चचाल ॥३९॥
सा राधा सव्यहस्तेन आगतकुन्दवल्ल्याः करं दधाना । परेण दक्षिणकरेण लीलाकमलं दधाना चचाल ॥३९॥
पुरतस्तुलसी धनिष्ठया
सविशाखा ललिता च पार्श्वतः ।
परितश्च सखीततिः परा
स्वसखीं तां परिवार्य सान्वयात॥४०॥
पुरतो धनिष्ठया सह तुलसी पार्श्वद्वये ललिता विशाखा च । चतुर्दिक्षु परा अन्या सखीततिः तां राधां परिवेष्ट्य अन्वयात॥४०॥
स्वसमसहचरीभिः कृष्णराधाङ्घ्रिसेवो
पकरणवलिताभिर्दासिकाभ्यां च युक्ता ।
अनुसरति युताभ्यां सूर्यपूजोपचारैः
प्रणयसहचरी तां मञ्जरी रूपपूर्वा ॥४१॥
कृष्णराधाङ्घ्रिसेवोपकरणयुक्ताभिर्स्वसमसहचरीभिः युक्ता । तथा सूर्यपूजोपचारैर्युताभ्यां दासिकाभ्यां तुलसीधनिष्ठिकाभ्यां च युक्ता प्रणयसहचरी रूपपूर्वा मञ्जरी तां राधामनुसरति ॥४१॥
व्रजाद्विनिष्क्रम्य ददर्श सा पुरः
सुमङ्गलां स्त्रीं दधिपात्रधारिणीम् ।
चाषं द्विजातिं नकुलं मृगावलीं
धेनुं सवत्सं वृषभं च दक्षिणे ॥४२॥
सा राधा शकुनं शुभसूचकं ददर्श । शकुनमाह—
सुमङ्गलां स्त्रीमित्यडि । चाषपक्षिणं नीलकण्ठाख्यम् ॥४२॥
सरसि विकचपद्मे वेष्टिते भृङ्गपङ्क्त्या
मदिरयुगलमुद्यल्लास्यमालोक्य बाला ।
प्रचलदलकपाली सङ्गिरिङ्गत्सुनेत्र
स्वरमणमुखबिम्बभ्रान्तिभाक्स्तम्भितासीत॥४३॥
बाला राधा सरसि सरोवरे प्रफुल्लकमले भृङ्गपङ्क्त्या वेष्टिते खञ्जयुगलं नृत्यसहितमालोक्य स्वरमणस्य मुखबिम्बभ्रान्तिभाक्सती स्तम्भितासीत। उद्यल्लास्यं प्रचलदलकपाली सङ्गिरिङ्गत्सुनेत्र ॥४३॥
इति शुभ शकुनेक्षोद्भूतमुन्मन्थराणां
विविधकुटिलहास्योल्लासमातन्वतीनाम् ।
प्रणयसहचरीणां श्रेणिभिः पूर्णपार्श्वा
मदगजगुरुयाना काननाभ्यर्णमाप ॥४४॥
प्रणयसहचरीणां श्रेणिभिः पूर्णपार्श्वा । मत्तगजात्गुरुश्रेष्ठं यानं गमनं यस्याः सा काननस्य निकटमाप । कीदृशीनां ?
अतिशुभशकुनदर्शनेन या मुत्हर्षस्तया मन्थराणां गर्वितानां विविधकुटिलहास्यस्योल्लासमातन्वतीनाम् ॥४४॥
इयमथ तरुवल्लीवृन्दमुत्फुल्लयन्ती
मदकलकलकण्ठीकाकलीकण्ठनादा ।
मधुकरकलविङ्कीझङ्कृतोच्छिञ्जितोर्मिर्
वनमनु वनजाक्षी माधवश्रीर्विवेश ॥४५॥
वनजाक्षी राधा माधवस्य वसन्तस्य श्रीः शोभा इव वनमनु वने विवेश । साम्यमाह—
मदोत्कटकोकिलस्य काकली मधुरास्फुटसूक्ष्मध्वनिरिव कण्ठस्य नादो यस्याः सा ॥४५॥
फुल्लश्यामलतोज्ज्वलं सुतिलकश्रीयुग्विशालार्जुन
प्रोत्फुल्लोच्चहलिप्रियं शिखिदलश्रेणीभिराभूषितम् ।
पुन्नागामलचम्पकालिकृतमालालङ्कृतं पल्लवैर्
दीव्यत्काञ्चनविद्रुमादिवलितं तापिञ्छकान्त्युल्लसत॥४६॥
गुञ्जापुञ्जविराजितं श्रमहरच्छायाकदम्बाश्रयं
वेणुध्वानमनोहरं प्रविलसच्छ्रीपीतनाचर्चितम् ।
फुल्लन्मन्मथशङ्कुलं वरवयः शोभाविलासास्पदं
सापश्यत्पुरतो वनं वपुरिव प्रेष्ठस्य सर्वेष्टदम् ॥४७॥
(
युग्मकम्)
सा राधा पुरतः सर्वेष्टदं प्रेष्ठस्य वपुरिव वनमपश्यदिति परेणान्वयः । उभयसाम्यमाह । वनपक्षे श्यामवर्णलता श्यामलताख्या तयोज्ज्वलं,
कृष्णपक्षे फुल्ला या श्यामलता श्यामवर्णस्तयोज्ज्वलम् । तिलकनाम्ना वृक्षेण,
पक्षे ललाटस्थसुतिलकेन श्रीयुक्विशाला उत्कृष्टा अर्जुनवृक्षाः प्रोत्फुल्ला उच्चा हलिप्रियाः कदम्बवृक्षाश्च यत्र तत। पक्षे,
विशालाख्यः अर्जुनाख्यः प्रोत्फुल्ल उच्च उत्कृष्टो हली श्रीबलदेव इमे प्रिया यस्य तत्तेषां प्रियं वा । शिखी मयूरस्तस्य पिच्छश्रेणीभिराभूषितमित्युभयस्य साम्यम् । पुन्नागः अमला निर्मला चम्पकालिः कृतमालाश्च एभिर्वृक्षैः । पक्षे,
पुन्नागादिपुष्पैः कृतमालया अलङ्कृतम् । पल्लवैर्दीव्यत्साम्यं काञ्चनविद्रुमादिवृक्षैः । स्वर्णप्रवालादिभिर्वलितं भूषितम् । तापिञ्छास्तमालास्तेषां कान्त्या । पक्षे,
तमालस्येव कान्त्योल्लसद्गुञ्जापुञ्जेति साम्यम् । पुनः श्रमहराणां छायानां कदम्बस्य समूहस्याश्रयम् । वृक्षलतानां समूहत्वात। किं वा,
श्रमहरच्छायायुक्ताश्च ते कदम्बाश्चेति मध्यपदलोप्येव । पक्षे,
तादृक्कदम्ब आश्रयो यस्य तत। वेणुर्वशो मुरली च । प्रविलसत्श्रीपीतनैराम्रातकैः आ समन्तात्चर्चितं युक्तम् । पक्षे,
श्रीपीतनेन केशरेणालिप्तं,
फुल्लद्भिर्मन्मथाख्यैर्वृक्षैः शङ्कुलं व्याप्तम् । वरवयसां प्रेष्ठपक्षिणां शोभायाः विलासासस्य चास्पदम् । कृष्णपक्षे व्यक्तमन्मथेन सङ्कुलं व्याप्तं,
वरवयः कैशोरवयस्तेन शोभाविलासानामास्पदम् ॥४६४७॥
पतति नयनमस्या यत्र यत्रात्र वस्तुन्य्
अखिलमिदमघारेस्तत्तदङ्गायमानम् ।
मदयदपि हृदन्तः शस्त्रतामेत्य सद्यः
प्रहरति विषमेषोश्चित्रमेतच्च तच्च ॥४८॥
तत्र वने यत्र यत्र वस्तुनि अस्या नयनं पतति,
इदमखिलं वस्तु अघारेस्तत्तदङ्गवत्प्रतीयमानं मदयद्हऋसयदपि हृन्मध्ये विषमेषोः कन्दर्पस्य शस्त्रतामेत्य सद्यः प्रहरतीति एतच्चित्रम् । तच्च वने कृष्णवपुर्ज्ञानं च चित्रम् ॥४८॥
लसत्सहचरीयुक्ता मत्तालिनवमालिका ।
विशाखालिकृतच्छाया विकसन्मदनाकुला ॥४९॥
फुल्लमञ्जुलताहृद्या सर्वदारूपशोभिता ।
सुशीतलकुचस्फीता कृष्णगोतर्पिवैभवा ॥५०॥
सुवयःसुषमापूर्णा व्याकुला बहुवारकैः ।
श्रीराधेव वयस्याभिः सुखदा ददृशेऽटवी ॥५१॥
(
सन्दानितकम्)
वयस्याभिः कर्त्रीभिः राधेव सुखदा अटवी ददृशे इति तृतीयेनान्वयः । उभयसाम्यमाह—
राधापक्षे सहचरी सखी,
अटवीपक्षे झिण्टी । मत्तालिभिः सह नवमालिका यत्र । अत्र साम्यं विशाखानाम्नी सखी,
तया विविधशाखाश्रेणीभिः कृता छाया यत्र सा । विकसन्मदनेन कामेन,
पक्षे धुस्तूरेण च,
आकुला । फुल्लमञ्जुलतया मनोज्ञतया,
पक्षे मञ्जुर्मनोज्ञा लता तया हृद्या । सर्वदा रूपेण शोभिता,
पक्षे सर्वदारुभिः काष्ठैः । सुशीतलकुचवृक्षेण स्फीता,
लकुचो निकुचो डहुः इत्यमरः । पक्षे सुशीतलकुचेन स्फीता । कृष्णस्य गवामिन्द्रियाणां,
पक्षे गोजातीनां च तर्पणशीलं वैभवं यस्याः सा । कैशोरस्य शोभया पूर्णा । पक्षे,
सुवयसां पक्षिणां बहुविधवारकैः श्वश्र्वादिभिर्व्याकुला । पक्षे निसोडावृक्षैश्च व्याप्ता ॥४९५१॥
यूथेश्वरीभिः ससखीकुलाभिर्
अन्विष्यमाणो वनगह्वरेषु ।
कथं न लभ्यो निपुणाभिरेताः
प्राप्ताः कथं हास्यति वा स लुब्धः ॥५२॥
इति निजहृदि राधा सन्दिहानाप्यसव्ये
वनमनु विलसन्तं कृष्णसारं मृगीभिः ।
शिखिवरमपि सव्ये केकिनीभिः समीक्ष्य
प्रियमृगशिखिबुद्ध्या भ्रान्तितः शङ्कितासीत॥५३॥
(
युग्मकम्)
निपुणाभिर्यूथेश्वरीभिरन्विष्यमाणः स कृष्णः कथं न लभ्य एव । लुब्धः स कृष्णः एताः प्राप्ता यूथेश्वरीः कथं त्यक्ष्यति ?
इति राधा हृदि सन्दिहाना दक्षिणादिशि वने मृगीभिर्मयूरं समीक्ष्य कृष्णस्य मृगशिखिबुद्ध्या भ्रान्तितः शङ्किताभूत॥५२५३॥
तमालमष्टापदबद्धमूलं
सा वेष्टितं फुल्लसुवर्णयूथ्या ।
शाखाग्रनृत्यच्छिखिनं समीक्ष्य
निर्णीतचेता विचिकित्सिताभूत॥५४॥
सा राधा अष्टापदेन स्वर्णेन बद्धमूलं फुल्लसुवर्णयूथ्या वेष्टितं
शाखाग्रनृत्यच्छिखिनं तमालं समीक्ष्य निर्णीतं कृष्णोऽयमिति निश्चितं चेतो यस्याः सा सत्यपि पुनः विचिकित्सिता संशयिता अभूत। विचिकित्सा तु संशयः ।
यद्वा,
पूर्वं विचिकित्सितापि पश्चादष्टापदबद्धमूलमिति पीताम्बरावृतं स्वर्णयूथ्या वेष्टितमिति नायिकयान्वितम् । शाखाग्रनृत्यशिखिनमिति मयूरपुच्छचूडान्वितं तमालं वीक्ष्य इति श्यामवर्णं कृष्णं मत्वा कृष्णोऽयमिति निर्णीतचेतोऽभूत॥५४॥
प्रेमेर्ष्याभुजगीदष्टा नष्टपण्डा प्रचण्डधीः ।
चण्डीशचण्डकोदण्डभ्रूदण्डाह धनिष्ठिकाम् ॥५५॥
प्रेमेर्ष्यैव भुजगी सर्पी तया दष्टा चैषा नष्टा पण्डा सदसद्विवेचना यस्याः सा । अतः प्रचण्डा उग्रा धीर्यस्याः सा । चण्डीशस्य चण्डकोदण्डवत्प्रचण्डपिणाकधनुरिव भ्रूदण्डौ यस्याः सा राधा धनिष्ठिकामाह ॥५५॥
किमिदमयि धनिष्ठे कुत्र किं पश्यताग्रे
वनमिदमिह किं तद्वन्यजातं न चान्यत।
नटनमिदमपूर्वं यच्छठेन्दोः पुरस्तात्
कलयसि न हि धूर्ते मुद्रिताक्षी किमासीः ॥५६॥
अयि धनिष्ठे ! इदं किं ?
साह—
कुत्र किं ?
यद्वा,
अन्यथा क्रोधे कोमलसम्बोधनासम्भवात। अयि राधे ! कुत्र किं राधाग्रे पश्यत ?
यद्यपि पश्यसि,
तथापि साधु पश्येति चकारार्थः । साह—
वनमिदम् । राधाह—
इह वने किं तत्?
साह—
वन्यजातमन्यन्न । राधा शठेन्दोः,
विधुः श्रीवत्सलाञ्छन इत्यमरात्,
नटनं न कलयसि न पश्यसि । हे धूर्ते ! किं मुद्रिताक्षी आसीस्त्वं ?
॥५६॥
ललिताप्रभृतीरथावदत्
प्रियसख्योऽद्भुतमत्र शर्मदम् ।
युगपन्नटनं शठेशयोर्
नटनट्योरनयोर्नु पश्यत ॥५७॥
राधा धनिष्ठामुक्त्वा सुवर्णयूथ्या सह पवनान्दोलितं तं तमालं दृष्ट्वा अन्यनायिकया युतं नटन्तं कृष्णं मत्वा ललिताप्रभृतीः प्रति अवदत। नु भोः प्रियसख्यः ! अत्र शठेशयोर्नटनट्योर्युगपदद्भुतं शर्मदं सुखदम् । अत्र श्रीराधायाः दुःखदत्वेऽपि नाट्यवत्दर्शनेन सुखदम् । यद्वा,
तयोर्नटनट्योः सुखदम् । यद्वा,
मम विडम्बनाकर्त्रीणां युष्माकं सुखदमिति नटनं पश्यत ॥५७॥
निजवाङ्मधुना विमोहिता
स्ववशीकृत्य भृशं धनिष्ठिका ।
हरिणा निजधार्ष्ट्यनर्तने
विहितासौ बत कूटनर्तकी ॥५८॥
राधाह—
श्लोकचतुष्टयेन । पुनः हरिणा निजवाङ्मधुना विमोहिता धनिष्ठिका
स्ववशीकृत्य असौ निजधार्ष्ट्यनर्तने कूटनर्तकी विहिता ॥५८॥
रतहिण्डकहिण्डितासकौ
छलदूत्याभिधनृत्यपण्डिता ।
नयतीह विधातुमुत्सुका
शठनृत्ये भवतीः सभासदः ॥५९॥
असकौ धनिष्ठा रतहिण्डकेन रतिचौरकेण हिण्डिता प्रेरिता छलदूत्याभिधनृत्ये पण्डिता शठनृत्ये उत्सुका,
अतः शठनृत्ये भवतीः सभासदो विधातुमिह नयति प्रापयति ॥५९॥
कलयत स सुरङ्गाख्योऽपि जात्या कुरङ्गः
प्रणयसहचरीं स्वां रङ्गिणीं वञ्चयित्वा ।
विलसति हरिणीभिर्मां विलोक्याप्यमुञ्चन्
ननु हरिशठतास्मिन्सङ्गतः संससर्ज ॥६०॥
कृष्णस्य शठतास्मिन्कुरङ्गे सङ्गतः सङ्गदोषात्कृष्णसंसर्गजाता अभूदिति कलयत पश्यत । हे सख्यः ! स सुरङ्गाख्यः कुरङ्गो मृगः । श्लेषेण शोभनं रङ्गं यस्य स सुरङ्ग इति न,
किन्तु कुत्सितं रङ्गं यस्य स कुरङ्ग इत्यभिप्रायः । स्वां रङ्गिणीं प्रणयसहचरीं वञ्चयित्वा अन्याभिः हरिणीभिर्विलसति मां विलोक्याप्येता अमुञ्चन्,
यथा हरिर्मां दृष्ट्वापि एनामुञ्चन्विलसति तथा ॥६०॥
मत्सङ्गिनीं प्रणयिणीं दयितां मयूरीं
वीक्ष्यापि सम्मुखगतां बत केकिनीभिः ।
निःशङ्कमुल्लसति ताण्डविकः कलापी
सङ्गेन धार्ष्ट्यमिह सङ्क्रमितं बकारेः ॥६१॥
शठे शठतामुक्त्वा पक्षिणोऽप्याह । स ताण्डविकः कलापी मयूरः सम्मुखगतामुक्तस्वरूपां मयूरीं वीक्ष्यापि केकिनीभिरन्यमयूरीभिः सह निःशङ्कमुल्लसति । बकारेः सङ्गेन इह मयूरेऽपि धार्ष्ट्यं सङ्क्रमितं सङ्गतमभूत॥६१॥
अथावदत्स्मेरमुखी धनिष्ठा
त्वयैव सर्वा निजचित्रनृत्ये ।
वयं कृताः साध्वि सभासदोऽस्मिन्
प्रीताः स्म दृष्ट्वा यददृष्टपूर्वम् ॥६२॥
धनिष्ठाह त्रिभिः । त्वया सर्वा वयं निजस्य तवास्मिन्चित्रं नृत्ये आश्चर्यवाग्विलासे सभासदः कृताः । अदृष्टपूर्वं यत्तव नृत्यं तद्दृष्ट्वा वयं प्रीता अभवामेति शेषः । स्म प्रसिद्धं,
न तु तव कटूक्त्या अप्रीता इत्यर्थः ॥६२॥
दुर्लभे सुलभे चार्थे यत्रासक्तिस्तु रागजा ।
तत्र नित्यं रागभाजां प्रत्यूहशङ्किनी मतिः ॥६३॥
यत्र दुर्लभे सुलभे चार्थे वस्तुनि रागजन्यासक्तिर्भवति तु पुनः रागभाजां जनानाम् । तत्र वस्तुनि नित्यं सदा प्रत्यूहो निघ्नस्तेनाशङ्किनी मतिर्भवति ॥६३॥
आगच्छताल्योऽद्भुतनृत्यम्
एतत्कृष्णाय तूर्णं विनिवेदयामः ।
स्निह्यत्यमुष्यां स यथा विलासी
गुणिन्यलं रज्यति यद्गुणज्ञः ॥६४॥
हे आल्य आगच्छत रूपाया एतदद्भुतं नृत्यं कृष्णाय तूर्णं विनिवेदयामः । स विलासी श्रीकृष्णः यच्छ्रवणेन अमुष्यां राधायां स्निह्यति । यद्यस्मात्गुणज्ञो जनः गुणिनि जने अलं रज्यति ॥६४॥
अथ सा स्मितसंवृताननं
स्वसखीवृन्दमवेक्ष्य विस्मिता ।
पुनरप्यवलोकनाल्पता
तरुसङ्गं त्ववधार्य लज्जिता ॥६५॥
सा राधा स्वसखीवृन्दं स्मितसहितसंवृताननमवेक्ष्य,
पुनरवलोकनात्लतातरोः सङ्गं,
न तु कृष्णान्यनायिकयोः सङ्गमवधार्य प्रेमात्मकं निश्चयं कृत्वा लज्जिताभूत॥६५॥
इत्थं माधवसङ्गरङ्गविकसद्वृन्दावनालोकनात्
तां कृष्णाद्भुतमाधुरीवरसुधापानातितृष्णाकुलाम् ।
प्रेमोन्मादविघूर्णितान्तरतया नानाभ्रमव्याकुलां
तत्कृष्णाप्तिसमुत्सुका विजहसुः सख्यश्चलन्त्यो द्रुतम् ॥६६॥
तत्तस्य श्रीकृष्णस्य आप्तौ इत्थं समुत्सुका । यद्वा,
तत्तस्या कृष्णाप्तिविषये समुत्सुका द्रुतं चलन्त्यः सख्यः तां राधां विजहसुः । कीदृशीमित्थमित्यादि । माधवस्य श्रीकृष्णस्य सङ्गे यो रङ्गस्तेन विकसद्वृन्दावनस्य अवलोकनात्श्रीकृष्णाद्भुतमाधुरीसुधापानायातितृष्णाकुलां प्रेमजन्योन्मादविघूर्णितान्तरत्वेन । तथा च,
महाभावविशेषस्य गतिं कामप्युपेयुषः । भ्रमाभा प्रेमवैचित्री दिव्योन्माद इतीर्यते । उद्घूर्णाश्चित्रजल्पाद्यास्तद्भेदा बहवो मताः । इत्युज्ज्वलनीलमण्युक्तप्रेमवैचित्रीकथनम् । प्रेमघूर्णया नानाभ्रमव्याकुलाम् ॥६६॥
मदनरणबाटिकाख्य
प्रियकेलिकुसुमवनस्य मध्ये ।
सा कुञ्जस्थितरविमूर्तेः
सविधं समुपस्थिताकस्मात॥६७॥
सा रविमूर्तेर्निकटं समुपस्थिता ॥६७॥
प्रणम्य तां भक्तिभरेन
तन्वी बद्धाञ्जलिर्वल्गुवरं ययाचे ।
निर्विघ्नगोविन्दपदारविन्द
सङ्गोऽस्तु मे देव भवत्प्रसादात॥६८॥
तन्वी श्रीराधा तां मूर्तिं प्रणम्य ययाचे ॥६८॥
प्रतिमाफुल्लदृग्वक्त्रप्रसादोत्फुल्लमानसा ।
पुनस्तां प्रणिपत्येयं सखीभिः सह निर्गता ॥६९॥
प्रतिमाया उत्फुल्लदृग्वक्त्रे यः प्रसाद अनुमित इदं सूर्यवक्त्रं मद्विषयकप्रसादवतुत्फुल्लनयनत्वात्प्रसादस्तेन उत्फुल्लमानसा सती तां प्रणिपत्य निर्गता । इयं राधा ॥६९॥
श्रीसूर्यपूजासम्भारसहिते परिचारिके ।
स्थिते तत्रैव तद्वाटीदेवीभिर्ललिताज्ञया ॥७०॥
ललिताज्ञया तद्वाटीदेवीभिः सह परिचारिके तुलसीधनिष्ठिके तत्रैव वाटिकायां श्री स्थिते ॥७०॥
दिशि दिशि विसरन्तीं श्रीमदङ्गान्मुरारेर्
मृगमदपरिलिप्तेन्दीवराणामिवोच्चैः ।
पथि परिमलधारां प्राप्य राधोन्मदिष्णुः
सपदि तमनु भृङ्गीवोत्पतिष्णुस्तदासीत॥७१॥
मुरारेरङ्गसङ्गात्कस्तूरीलिप्तनीलपद्मानामिव परिमलस्य दूरगामिसुगन्धस्य धारां प्राप्य राधा उन्मदिष्णुः अतिशयेन उन्मदा,
तमनु कृष्णमनुलक्षीकृत्य तत्र उत्पतिष्णुरुड्डीय पतितेच्छुरासीत॥७१॥
कृष्णः कान्तातनुसुरधुनीसौरभोच्छामृतोर्मि
धारामाराद्विपिनवलयं प्लावयन्तीमकस्मात।
काश्मीराक्ताम्बुजपरिमलोल्लङ्घिनीं घ्राणपूर्णाम्
आघ्रायासीत्पुलकजटिलो भृङ्गवत्प्रोत्पतिष्णुः ॥७२॥
कान्तायास्तनुरेव सुरधुनी गङ्गा तस्या अच्छा निर्मलममृतमिव या तरङ्गधारा ताम् । आरात्समीपे । विपिनस्य वलयं परिसरं प्लावयन्तीम् । केशरलिप्तपद्मगन्धमुल्लङ्घिनीम् । घ्राणपूर्णामाघ्राय पुलकजटिलो जटावततिशयपुलकयुक्तः सन्भ्रमरवत्प्रोत्पतिष्णुः प्रकर्षेण उत्प्लुत्य पतितेच्छुरासीत॥७२॥
परिमलमिलनान्मिलितां
वनमनु दयितां दवीयसीं मत्वा ।
हरिणा प्रहिता वृन्दा
तामानेतुं समुत्सुकेन ॥७३॥
परिमलमिलनान्मिलितां दयितां दवीयसीं दूरस्थां मत्वा तामानेतुं वृन्दा प्रहिता ॥७३॥
कुञ्जेनराख्यमथ कुञ्जनृपस्य धाम
प्राप्ता ददर्श मिलितां स्वगतिप्रवृत्त्यै ।
राधोत्सुकेन हरिणा प्रहितां हि वृन्दां
स्वाभीष्टसिद्धिमिव मूर्तिमतीं पुरः सा ॥७४॥
कुञ्जनृपस्य श्रीकृष्णस्य कुञ्जरा इति प्रसिद्धं कुञ्जेनराख्यं धाम प्राप्ता राधा स्वस्या मम गतेः प्रवृत्त्यै तत्र मद्गमनार्थं हरिणा प्रहितां स्वाभीष्टं मूर्तिमतीमिव मिलितां वृन्दामग्रे ददर्श ॥७४॥
कृष्णोत्तंसचरं तस्यै वृन्दापीन्दीवरद्वयम् ।
तदङ्गसङ्गगन्धान्धीकृतपुष्पन्धयं ददौ ॥७५॥
वृन्दा कृष्णकर्णभूषणं नीलपद्मद्वयं तस्यै ददौ । कीदृशं ?
कृष्णाङ्गसङ्गं गन्धेनान्धीकृताः पुष्पन्धया भ्रमरा येन तत॥७५॥
तत्स्पर्शसौरभ्यमवाप्य कृष्णो
पस्पर्शगन्धानुभवेन मत्ता ।
समुद्भवद्भावपिधानयत्ता
संवादमुत्काशु तया व्यधत्त ॥७६॥
सम्यकुद्भवद्भावस्य पिधाने आच्छादने यत्ता यत्नवती तया सह संवादं व्यधत्त ॥७६॥
कस्माद्वृन्दे प्रियसखि हरेः पादमूलात्कुतोऽसौ
कुण्डारण्ये किमिह कुरुते नृत्यशिक्षां गुरुः कः ।
तं त्वन्मूर्तिः प्रतितरुलतं दिग्विदिक्षु स्फुरन्ती
शैलूषीव भ्रमति परितो नर्तयन्ती स्वपश्चात॥७७॥
“
हे वृन्दे ! कस्मादागता ?”
वृन्दाह—“
हरेः पादमूलात्”
। “
असौ कृष्णः कुत्र ?”
“
कुण्डारण्ये”
। “
किं कुरुते ?” “
नृत्यशिक्षां”
। “
गुरुः कः ?” “
प्रतितरुलतं तरुलताः प्रति,
अव्ययीभावसमासः । दिग्विदिक्षु शैलूषीव उन्मत्तनटीव स्फुरन्ती त्वन्मूर्तिः तं श्रीकृष्णं स्वपश्चात्नर्तयन्ती भ्रमति”
॥७७॥
भ्रान्ता वृन्दे त्वं न मूर्तिर्ममैषा
पद्माल्याप्तावुत्पतिष्णुर्द्विरेफः ।
तृष्णाधृष्णग्भ्राम्यते शैब्ययासौ
तद्गन्धोद्यद्धारया वात्ययैव ॥७८॥
हे वृन्दे ! त्वं भ्रान्ता । एषा मूर्तिर्मम न । तृष्णाधृष्णक्तृष्णया अधैर्यो द्विरेफः कृष्णो भ्रमरश्च पद्माल्यश्चन्द्रावल्याः पम्दश्रेणयश्चाप्तौ तत्तस्या चन्द्रावल्या गन्धस्य उद्यद्धारा यत्र तया वात्यया चक्रवातेन । शैब्यया असौ द्विरेफः
भ्राम्यत एव ॥७८॥
वात्याहत्याचञ्चुना लम्भितासौ
शैब्यावात्या सापि सार्धं स्वसख्या ।
गौरीसङ्गोत्केन तेन स्वसङ्गाद्
गौरीतीर्थं तत्सपर्याच्छलोक्त्या ॥७९॥
वृन्दाह—
वात्याया हत्या नाशः दूरीकरणं तत्र चञ्चुना निपुणेन गौर्यास्तव
सङ्गोत्सुकेन तेन कृष्णेन स्वसख्या चन्द्रावल्या सार्धं सासौ
शैब्या वात्यापि तत्तस्या गौर्याः सपर्या सत्कार एव छलोक्तिस्तया स्वसङ्गाद्
गौरीतीर्थं लम्भिता प्रापिता ॥७९॥
तद्वार्तया नः किमिहास्त्यरिष्ट
कुण्डोत्थपातालजगङ्गावारि ।
स्नात्वा यथार्याचरणानुशासनं
मित्रं समभ्यर्च्य गृहं प्रयामः ॥८०॥
अवहित्थया राधाह—
नस्तद्वार्तया किं ?
कृष्णकुण्डस्य वारि जले स्नात्वा यथा आर्या जटिला तस्याश्चरणमिति गौरवेणानुशासनमाज्ञानुरूपं मित्रं सूर्यम् ॥८०॥
क्व यानं ते वृन्दे तव चरणराजीवसविधे
किमर्थं ते राज्याद्भुतभविकविज्ञापनकृते ।
वदैतत्किं श्रीमाधवसुविभवालङ्कृतमिदं
मुहुर्वृन्दारण्यं लसति भवदालोकनकृपाम् ॥८१॥
राधाह—“
हे वृन्दे ! ते क्व कुत्र यानं गमनं ?”
वृन्दाह—“
ते चरणपद्मनिकटे”
। “
किमर्थं ?” “
ते राज्यस्य अद्भुतमङ्गलकथनार्थम्”
। “
एतदद्भुतं मङ्गलं किं ?” “
श्रीमाधवो वसन्तः श्रीकृष्णश्च स एव सुविभवस्तेनालङ्कृतमिदं वृन्दावनं भवदालोकनकृपां लसति अभिलषति वाञ्छति”
॥८१॥
अथावदत्कुन्दलता प्रगल्भा
विमुञ्च वृन्दे निजकूटदूत्यम् ।
मय्यर्पिता सूर्यसमर्चनार्थं
निजार्यया कृष्णसशङ्कयेयम् ॥८२॥
निजार्याया मयि इयं सूर्यपूजार्थमर्पिता ॥८२॥
पातालगङ्गाजलजेऽरिष्टमर्दिसरस्यमूम् ।
संस्नाप्य निभृतं नेष्ये पूजायै सूर्यवेदिकाम् ॥८३॥
न यामस्तत्र चेत्कृष्णो मनोगङ्गामयामहे ।
कृष्णगन्धिदिश्यसौ यन्न नेया जटिलाज्ञया ॥८४॥
कृष्णकुण्डे अमूं राधां संस्नाप्य सूर्यपूजार्थम् ॥८३॥ चेद्यदि कृष्णः तत्र कृष्णकुण्डे,
तदा तत्र न यामः । मानसगङ्गामयामहे यास्यामः । यत्र कृष्णस्य गन्धो नास्ति,
तत्रासौ राधा नेया ॥८४॥
वृन्दाब्रवीत्कुन्दलते किमर्थं
हरेर्भिया हिण्डसि चित्तगङ्गाम् ।
उपायमेकं शृणु येन तत्र
गता अपि द्रक्ष्यति वः स नैव ॥८५॥
हरेर्भिया किमर्थं वृन्दा मानसगङ्गां हिण्डसि गच्छसि । येन उपायेन तत्र गता वो युष्मान्स कृष्णः न द्रक्ष्यति ॥८५॥
कृष्णः कान्तासरसि मदनोद्घूर्णितात्मास्ति कुञ्जे
यूयं वासन्तिकवनपथा पूर्वतः सुष्ठु गत्वा ।
तीर्थे पादाम्बुजरसमयेऽरिष्टहन्तुः प्रशस्ते
स्नात्वा कामं व्रजत निभृतं साध्वि केनाप्यदृष्टाः ॥८६॥
हे साध्वि ! तव पातिव्रत्यमहं जानामि । इति श्लेषः । कृष्णः राधाकुण्डे मदनोद्घूर्णितात्मा मनो यस्य तथाभूतः कुञ्जेऽस्ति । तासां शीघ्रगमनार्थमिदमुक्तं वासन्तिकवनपथा इति वासन्तिकवनं पन्था यासां तथाभूता यूयं,
न तु तृतीयान्तं तदा पथेनेति पदं भवति । यद्वा,
महाकविप्रयोगात। कृष्णकुण्डे स्नात्वा केनाप्यदृष्टा व्रजत । इत्यादि संलापविनोदमात्रं सर्वम् ॥८६॥
अवदल्ललिता कुन्दलते किं निजदेवरात।
हरेर्बिभेषि मुग्धेव प्रगल्भाप्यप्रगल्भतः ॥८७॥
यामः स्वकुण्डं पश्यामो माधवीयां श्रियं वने ।
स्नात्वा पुनः समेष्यामः किं नः कृष्णः करिष्यति ॥८८॥
निजदेवरात्कृष्णातप्रगल्भाप्य्प्रगल्भापि त्वं मुग्धा इव बिभेषि । स्वकुण्डे राधाकुण्डे यामः । वासन्तीं श्रियं पश्यामः राधाह ॥८७८८॥
स्त्रीणां स्वैरं क्रीडनस्थानतो नः
पुम्भिर्द्रष्टुं स्थातुमप्यत्ययोग्यात।
तूर्णं वृन्दे याहि निःसारयामुं
गोपातुर्वा तत्र किं कार्यमस्य ॥८९॥
हे वृन्दे ! तूर्णं याहि । न स्त्रीणां स्वैरं यथेप्सितं क्रीडास्थानतः,
अमूं कृष्णं निःसारय,
बहिः कुरु । कथंभूतात्?
पुम्भिर्द्रष्टुं स्थातुं चाप्ययोग्यात। गोपातुर्गोपालस्यास्य तत्र किं कार्यम् ॥८९॥
अहमतिमृद्वी हरिरतिचण्डः
सुकरः कथमिह वर्जनदण्डः ।
अपसार्यस्ते सखि स शिखण्डी
यदसि प्रखरा गुरुरतिचण्डी ॥९०॥
वृन्दाह—
अहमतिमृद्वी कृष्णः अतिचण्डः । कृष्णस्य वर्जनदण्डः कथं मत्कर्तृकः सुकरः स्यात। हे सखि ! त्वया स प्रसिद्धः शिखण्डी अपसार्यः । हे सखि ! यद्यस्मादसि त्वं प्रखरा गुरुरतिचण्डी ॥९०॥
कुन्दवल्ल्याह वृन्दे त्वं भ्रान्ता चण्ड्यानया कथम् ।
स निष्कास्यः पशुपतिर्व्याप्यमर्धाङ्गमस्य तु ॥९१॥
चण्ड्या कोपिन्यैव पार्वत्यानया स पशुपतिः पशूनां धेनूनां पतिः पालकः । श्रीकृष्णः स एव पशुपतिर्महादेवः कथं निष्कास्यः,
अस्य तु पशुपतेरर्धाङ्गमनया व्याप्यं वर्तते इति श्लेषः ॥९१॥
वृन्दाहाप्तसुभद्रश्रीः कुन्दवल्ल्येव दृश्यते ।
मधुसूदनसम्भोग्या पुन्नागाङ्गाश्रयोन्मुखी ॥९२॥
कुन्दपुष्पस्य वल्ली कुन्दवल्ली तन्नामा गोपी च । मधुसूदनेन भ्रमरेण कृष्णेन च सम्भोग्या दृश्यते । कीदृशी ?
आप्ता सुभद्रा श्रीर्यया सा । आप्ता सुभद्रनाम्नो गोपस्य श्रीः सम्पत्तिर्यया उपनन्दस्य पुत्रः सुभद्रः,
सुभद्रगृहस्वामिनीत्यर्थः । पुन्नागवृक्षस्याङ्गं,
पक्षे श्रीकृष्णस्याङ्गं तस्याश्रये सम्मुखी अङ्गमाश्रयितुमभिलाषयुक्ता ॥९२॥
स्मेरासु सर्वास्ववदद्विलोक्य
श्रीराधिकामुत्कलिकान्वितां सा ।
तां भावगाम्भीर्यसुमन्थराङ्गीं
कृष्णस्य तृष्णां विनिवेदयन्ती ॥९३॥
तच्छ्रुत्वा सर्वासु स्मेरासु वृन्दा कृष्णस्य तृष्णां विनिवेदयन्ती सती तां राधामुत्कण्ठितां भावस्य गाम्भीर्येण मन्थराङ्गीमवलोक्यावदत॥९३॥
मत्प्रश्नमेकं ललिते वद द्रुतं
कादम्बिनीं वीक्ष्य दिगन्त उद्गताम् ।
पिपासया मुह्यति चातकेश्वरे
समीरणाल्याः करणीयमाशु किम् ॥९४॥
कादम्बिनीं मेघमालां वीक्ष्य पिपासया चातकेश्वरे मुह्यति सति समीरणश्रेण्या आशु किं करणीयमिति वृन्दा अवदत। अत्र कादम्बिनी राधा चातकः कृष्णः पवनाल्यो यूयं यत्कर्तव्यं तत्कुरुत ॥९४॥
दिशि दिशि निशि चाह्नि प्रस्फुरन्ति प्रचण्डा
अविरतगतिकाली प्रेष्यमाणाः पुरोऽमुम् ।
नवनवरसपूरैः कालिकाः सेचयन्त्यो
न भवति परमेको प्रेक्षणीयास्य सैव ॥९५॥
दिशि दिशि निशि चाह्नि प्रस्फुरन्ति प्रचण्डा अविरता गतिर्यस्य स अविरतगतिः । को वायुस्तस्य समूहैः प्रेर्यमाणाः कालिकाः मेघपङ्क्तयः प्रचण्डाः । निशि अहनि च । पुरोऽग्रे अमुं चातकेश्वरे । नवनवरसपूरैः सेचयन्त्यः स्फुरन्ति । पक्षे,
वायुरिवाली सखी तया प्रेर्यमाणा यूथेश्वरी नायकं रसैः सेचयन्ती स्फुरति सा यूथेश्वरी कालिका च अस्य नायकस्य चातकेश्वरस्य च परं केवलं सा एकैव प्रेक्षणीया न भवति । अपि तु भवत्येव । युष्माभिः प्रेरिता राधाकृष्णं रसैर्बहुधा सिक्तम् । ईदृशस्य कृष्णस्य तादृशी राधा प्रेक्षणीया भवत्येव इत्यर्थः । मेघपङ्क्तौ कालिका । कालिका मेघजाले स्यादिति च ॥९५॥
स चेत्तदेकनिष्ठः स्यात्सापि तां त्वरितं तदा ।
सामानाय्य पुरोऽस्यामुं पाययेदमृतं मुदा ॥९६॥
स चातकेश्वरः चेद्यदि तदेकनिष्ठो मेघमालैकनिष्ठः स्यात। तदा सा पवनाली तां मेघश्रेणीं स्मानाय्यामुं चातकेश्वरममृतं पाययेत॥९६॥
नीरसा अपि ताः शश्वदशुगालीविचालिताः ।
चपलाः कालिकाः क्वापि भवन्त्येता न तन्मुदा ॥९७॥
ता एताश्चपलाश्चञ्चलाः कालिका नीरसा अपि शश्वद्वारं वारमशुगाली पवनश्रेणी तया विचालिता मेघा यथा मुदे आनन्दाय न भवन्ति । पक्षे,
नीरसा अपि यूथेश्वर्य आशुगा इव सख्यस्ताभिश्चालिता तत्तस्य चातकस्य नायकस्य मुदे न भवन्ति,
अपि तु भवन्त्येव किमुत सरसा ॥९७॥
तद्यात यूयं स्वच्छन्दं स्नात्वारिष्टारितीर्थके ।
कुरुताल्यो मित्रपूजां तिष्ठाम्यत्रास्ति मे कृतिः ॥९८॥
व्यक्तमाहारिष्टारितीर्थके कृष्णकरणस्य पावनाख्यघट्टे स्नात्वा सूर्यपूजां कुरुत । मे कृतिः कार्यमस्ति अत्र तिष्ठामि ॥९८॥
यातासु तासु लघुसूक्ष्मधियं शुभां
च सा शारिके सुचतुरा न्यदिशत्प्रवृत्त्यै ।
आद्यां व्रजाय सुतरामभिमन्युमातुश्
चन्द्रावलेरथ परां गिरिजालयाय ॥९९॥
तासु ललितादिषु यातासु गतासु सा वृन्दा सुचतुरा द्वे शारिके लघु यथा स्यात्तथा आद्यां सूक्ष्मधियं शारिकां सुजवां गन्तुं वेगवती व्रजाय अभिमन्युमातुः प्रवृत्त्यै चेष्टाज्ञानार्थम् । परां शुभाम् । चन्द्रावलेर्प्रवृत्त्यै गिरिजालयाय गौरीतीर्थाय न्यदिशत॥९९॥
सेवासम्भारसंस्कारागारमागत्य वीक्ष्य तान।
सम्भारान्प्रशशंसोच्चैः सा मुदा तत्कृतो जनान॥१००॥
राधाकृष्णादीनां सेवोपयोगिसम्भारान्वस्तूनि वीक्ष्य सम्भारकृतो जनान्प्रशशंस ॥१००॥
वसन्तकेलिर्हिन्दोललीलामाध्वीकपानयोः ।
वनरत्यम्बुकेलीनां मिथोवेशकृते तयोः ॥१०१॥
वन्याशनस्वपयोश्च शुकपाठाक्षलीलयोः ।
तत्तत्स्थानेषु सा तत्तत्सामग्रीस्तैरयोजयत॥१०२॥
सा वृन्दा तैः परिचारकैस्तत्तत्स्थानेषु वसन्तकेल्यादिस्थानेषु । तत्तत्सामग्रीर्वसन्तकेल्यादिसामग्रीरयोजयत। वसन्तकेलिर्हिन्दोललीला । मधुपानकेलिरतिकेलिजलकेलिनां तयो राधाकृष्णयोर्मिथो वेशकृते । वन्यभोजनशयनशुकपाठाक्षलीला दशप्रकारलीलासामग्रीः ॥१०११०२॥
तत्तल्लीलापरिकरान्सर्वान्स्थावरजङ्गमान।
नन्दितांस्त्वरितांश्चक्रे तयोरागतिर्वार्तया ॥१०३॥
तयोर्राधाकृष्णय्रागमनवतीर्तत्तल्लीलायां हिन्दोलनादिलीलायां परिकरानानन्दितांस्त्वरितांश्च चक्रे ॥१०३॥
तयोर्मिथोदर्शनलब्धिराका
समुच्छलद्भावचयामृताब्धौ ।
सा सम्प्लवेच्छा त्वरितान्तरासीत्
स्थिता हरेः सन्निधिकुञ्जलीना ॥१०४॥
तयो राधाकृष्णयोः परस्परदर्शनलाभ एव राका पूर्वचन्द्रः,
पूर्वचन्द्ररात्री राका । कलाहीने सानुमतिः पूर्णे राका निशाकरे इत्यमरः । यद्वा,
लक्षणया तत्पतिः पूर्वचन्द्रस्तेन समुच्छलति भावसमूहरूपामृतसमुद्रे स्नानेच्छया त्वरायुक्तमन्तरं मनो यस्याः सा वृन्दा हरेः सन्निधिकुञ्जे लीना सती स्थितासीत॥१०४॥
तावन्नान्दीमुखी तासां पश्चादागत्य सोत्सुका ।
तयोर्लीलावलोकाय स्थिता सा वृन्दया सह ॥१०५॥
कृष्णोऽप्याराद्बकुलविटपिश्रेणीयुग्मान्तराध्वन्य्
आगच्छन्ती प्रियसहचरीवेष्टितां वल्लभां ताम् ।
दृष्ट्वा साक्षादुदितमदनोऽपि प्रतीयाय नायं
स्फूर्त्या तस्यास्तदभिगमने यन्मुहुर्वञ्चितोऽस्ति ॥१०६॥
अयं कृष्णोऽपि बकुलवृक्षश्रेणीद्वयमध्यमार्गे आगच्छन्तीं तां वल्लभां राधां साक्षाद्दृष्टोदितमदनोऽपि तस्या स्फूर्त्या पूर्वं तद्विरहकातरेण स्वेनानुभूतया हेतुना राधेयं,
न हि तस्या स्फूर्तिरेवेयमिति बुद्ध्या तदभिगमनेन प्रतीयाय प्रतीतो नाभूत। यद्यस्मात्तत्तया राधया मुहुर्वञ्चितोऽस्ति ॥१०६॥
कान्तापि कान्तमवलोक्य चमत्कृतात्मा
तं भूरिभावविवशा न हि निश्चिकाय ।
यत्प्राक्तमालमनु तदद्भुतः
प्रलापादालीकुलस्य हसितैरतिलज्जितासीत॥१०७॥
कान्तापि भूरिभावविवशा तं कान्तमवलोक्य न हि निश्चिकाय यत्यस्मात्प्राक्तमाले कृष्णभ्रान्त्या प्रलापेन सखीनां हसितैरतिलज्जितासीत॥१०७॥
मिथस्तत्तद्गुणानन्त्यानुभवाक्रान्तमानसौ ।
दर्शनानन्दमत्तौ तौ सवितर्कं तदोचतुः ॥१०८॥
किं कान्तेः कुलदेवता किमुत वा तारुण्यलक्ष्मीरियं
सम्पद्वा किमु माधुरी तनुमती लावण्यवन्या नु किम् ।
किं वानन्दतरङ्गिणी किमथवा पीयूषधाराश्रुतिः
कान्तासावुत वा ममेन्द्रियगणानाह्लादयन्त्यागता ॥१०९॥
वितर्कमेवाह । इयं किं कान्तेः शोभायाः कुलदेवता किमुत वा तारुण्यलक्ष्मीस्तारुण्यशोभा किमु वा शरीरधारिणी माधुरी सम्पत्,
किं नु लावण्यवन्या लावण्यजलसमूहः,
किं वा,
आनन्दनदी किमथवा अमृतधारायाः श्रुतिः क्षरणमुत वा असौ ममेन्द्रियगणानाह्लादयन्ती कान्ता आगता ॥१०९॥
या मे नेत्रचकोरचन्द्रवदना नासालिनी पद्मिनी
जिह्वाकोकिलिका रसालदधरा कर्णेन हृच्छिञ्जिता ।
देहानङ्गदवार्तवारणसुधास्रोतस्वती मूर्तिका
सैवेयं दयितोदिता फलितवान्मद्भाग्यकल्पद्रुमः ॥११०॥
निश्चयं सैवेयं मे प्रिया उदिता,
अन्यत्र एतादृशगुणस्य सम्भावनैव नास्त्येवेत्याह । या राधा मे नेत्रचकोरस्य चन्द्रवद्वदना नासाभ्रमर्याः । नासालिनी पद्मिनी जिह्वाकोकिलिका रसालदधरा कर्णेन हृच्छिञ्जिता देहानङ्गदवार्तवारणसुधास्रोतस्वती मूर्तिका सैवेयं दयितोदिता फलितवान्मद्भाग्यकल्पद्रुमः ॥११०॥
तापिञ्छः किं किमु जलधरः कन्दलो वैन्द्रनीलः
सानुः किं वाञ्जनशिखरिणः क्षीवभृङ्गव्रजो नु ।
कृष्णापूरः किमुत निचयः किं स्विदिन्दीवराणां
पुञ्जीभूतो व्रजमृगदृशां किं न्वपाङ्गावलोकः ॥१११॥
श्रीराधायाः मनोगतमाह—
अयं तापिञ्छस्तमालः किं किमु मेघः,
ऐन्द्रनीलः कन्दल ऐन्द्रनीलमणेर्नवाङ्कुरो वा । किं वा अञ्जनमयपर्वतस्य सानुः शिखरं क्षीवो मत्तो भ्रमरसमूहो नु किमुत कृष्णायाः पूरः प्रवाहः किं स्वित्नीलपद्मानां निचयः समूहः किं नु व्रजमृगदृशां पुञ्जीभूतोऽपाङ्गावलोकः ॥१११॥
कन्दर्पः किं न स कन्दर्पो वितनुस्तनुरहितः,
अयं तु शरीरी रसराट्किं नु न स धर्मिणः,
अपि तु धर्म एव अयं धर्मिणो निषेधे,
किं वा अमृतसमुद्रः,
न स समुद्रोऽतिविस्तृतः किमुत्फुल्लप्रेममयकल्पवृक्षः,
स वृक्षश्चरो जङ्गमो न,
अपि तु स्थावरः । स वासौ मम प्रेयान्जयति । नु भोस्तथा मम भाग्यं क्व कुत्र ॥११२॥
कान्तः सोऽयं स्फुरति पुरतो नेत्रभृङ्गारविन्दं
किं वा भ्रान्तास्म्यहमिति सखि ब्रूहि सत्यं विशाखे ।
इत्थं पृष्टा पुलकिततनुं गद्गदारुद्धकण्ठीम्
आलीहासैश्चपलनयनां तामवादीद्मुदासौ ॥११३॥
हे सखि विशाखे ! सत्यं ब्रूहि सोऽयं कान्तः पुरतः स्फुरति । कीदृशः मम नेत्रभृङ्गयोररविन्दं विलासास्पदमित्यर्थः । किं वा,
भ्रान्तास्मि । इत्थं पृष्टासौ विशाखा तां राधामवादीत। कीदृशीं ?
आलीनां हासैश्चपलनयनाम् ॥११३॥
कस्तूर्याः सत्तिलकमलिके यस्तवोरोजयुग्मे
चित्रं बिन्दुः सुमुखि चिबुके नेत्रयुग्मेऽञ्जनश्रीः ।
श्रुत्योरिन्दीवरविरचितः कुन्तले चावतंसः
सोऽयं कान्तः स्फुरति सखि ते भाग्यराशिर्व्रजामुम् ॥११४॥
हे सखि ! भाग्यराशिस्तव पुञ्जीभूतभाग्यरूपो यः सोऽयं कान्तः स्फुरति । अमुं कान्तं व्रज सोऽयं कः यस्तवालिके ललाटे कस्तूर्याः सत्तिलकं स्तनयोर्यश्चित्तं चिबुके बिन्दुः नेत्रयोरञ्जनश्रीः कर्णयोर्नीलपद्मविरचितः अवतंसस्तथा केशे भूषारूपं कस्तूर्यादेः सत्तिलकादिकं यथा ललाटाद्येकैकाङ्गस्य भूषणं तथायं तव सर्वाङ्गस्य भूषणं यस्य वर्णसाम्यात। कस्तूरीतिलकादिकं सदा स कान्तः स्वयमयमागत इत्यर्थः ॥११४॥
इत्थं मिथो दर्शनतो विशुद्ध
प्रेमस्वभावोद्गतभाववृन्दैः ।
विक्षुब्धसोल्लासमनस्तनू तौ
क्षणं न काञ्चित्ययतुः प्रवृत्तिम् ॥११५॥
इत्थं परस्परदर्शनात्विशुद्धप्रेम्णः स्वभावेनोद्गतभावसमूहैर्विक्षुब्धे सोल्लासे च मनःशरीरे ययोस्तौ श्रीश्रीराधाकृष्णौ क्षणं किञ्चिदपि प्रवृत्तिं चेष्टां न ययतुः स्तब्धौ बभूवतुः ॥११५॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टविरजे गोविन्दलीलामृते
सर्गः साम्प्रतमष्टमोऽयमगमन्मध्याह्नलीलामनु ॥ओ॥
.
(
१०
)
दशमः
सर्गः
अथेङ्गितज्ञा
किल
कुन्दवल्ली
सर्वेष्टदानङ्गमखक्रियायाम्
।
विघ्नाद्विषीदन्तमिवाभ्युपेत्य
स्वयं
विषण्णेव
तदाह
कृष्णम्
॥१॥
इङ्गितज्ञा
कुन्दवल्ली
सर्वेष्टदानङ्गयज्ञस्य
विघ्नाद्विषीदन्तमिव
कृष्णमभ्युपेत्य
स्वयमपि
विषण्णेवाह
॥१॥
पशुपतिरसि
यत्ते
लीलया
कामनाशः
क्रतुहतिरपि
तस्माद्देवताकर्मनाशे
।
कथमिह
फललब्धिस्तत्त्यजाश्वन्यधर्मं
प्रणयपरवशत्वं
स्वीयधर्मं
विधेहि
॥२॥
हे
कृष्ण
!
यद्यस्मात्त्वं
पशुपतिः,
पशूनां
गवां
पालक
एव,
पशुपतिर्महादेवः
सोऽपि
तस्मात्ते
लीलया
कामनाशः
कामोऽभिलाषः
कामोऽनङ्गस्तस्य
नाशः
।
क्रतुर्यज्ञः
कन्दर्पयज्ञ
एव
दक्षप्रजापतियज्ञस्तस्य
हतिरपि
चाभूत।
तस्मात्कामनाशात्क्रतुहतेश्च
हेतोर्देवता
इमा
दिक्पालदेवताः
सख्य
एव
तद्यज्ञदेवता
एतत्तासां
कर्मणां
यज्ञकर्ता
त्वया
विहितकार्याणां
नाशोऽप्यभूत।
तन्नाशे
सति
इह
यज्ञे
फललब्धिः
कथं
स्यात्,
न
स्यादेव
।
तत्तस्माताशु
शीघ्रमेवान्यधर्मं
त्यज
।
हे
प्रणयपरवश
!
आशु
त्वत्कृतस्य
आभिस्त्वयि
कृतस्य
वा
प्रणयस्य
आधानत्वं
स्वीयधर्मं
पशुपतिधर्मं
विधेहि
।
पशुपतेः
पार्वत्यामर्धाङ्गसमर्पणमिव
त्वमास्वङ्गार्पणं
कुर्वित्यर्थः
।
प्रणयपरवशत्वादङ्गार्पणमवश्यं
कार्यमिति
भावः
॥२॥
आं
सर्वशङ्करतया
शिवमूर्तितश्च
प्राञ्चोऽपि
मां
किल
महेश्वरमामनन्ति
।
स्वप्रेयसीं
प्रति
निजाङ्गसमर्पणाख्यं
तत्तस्य
धर्ममपि
नित्यमहं
करोमि
॥३॥
आमिति
मया
स्मृतम्
।
यस्मात्सर्वशङ्करतया
सर्वेषां
सुखकरतया
हेतुना
शिवमूर्तिश्च
यतः
शिवा
मङ्गलरूपा
मूर्तिर्मम
मूर्तिस्तस्याश्च
हेतोः
प्राञ्चः
प्राचीना
अपि
मां
महेश्वरमामनन्ति
वदन्ति
।
तत्तस्मात्स्वप्रेयसीं
प्रति
स्वप्रेयस्यां
निजाङ्गसमर्पणमित्याख्या
नाम
यस्य
तं
तस्य
शिवस्य
धर्ममर्थान्निजाङ्गसमर्पणमहं
करोमि
॥३॥
किन्तु
स्ववामवपुरङ्गमनेन
दत्तं
पूर्वाङ्गपूर्वमखिलाङ्गमहं
ददामि
।
यत्प्रेमवश्यसुविदग्धवदान्यताभ्यः
कीर्तिस्ततोऽपि
विपुला
मम
लालसीति
॥४॥
किन्तु
अनेन
शिवेन
स्वस्य
वामवपू
रूपं
स्वप्रेयस्यै
दत्तम्,
अहं
तु
पूर्वाङ्गमधोऽङ्गम्
।
यद्वा,
दक्षिणाङ्गं
पूर्वमादौ
यत्र
तथाभूतमखिलाङ्गं
ददामि
।
आदावधोऽङ्गं
क्रोड
उपविश्य
।
यद्वा,
दक्षिणाङ्गेन
तां
गृहीत्वा
दत्त्वा
पश्चात्सर्वाङ्गं
ददामीति
यद्यस्मात्सर्वाङ्गदानात।
प्रेमवश्यत्वसुविदग्धत्ववदान्यतातिदातृत्वादिगुणेभ्यो
हेतुभ्यस्ततः
महादेवातपि
मम
विपुला
कीर्तिर्लालसीति
अतिशयेन
दीप्यति
॥४॥
ततः
स्वस्माच्छङ्कमानां
सावधानामपि
प्रियाम्
।
अलक्षितमुपेत्याह
क्रोडीकर्तुं
कृतोद्यमः
॥५॥
तदनन्तरं
स्वस्मात्शङ्कमानामपि
प्रियामपि
अलक्षितमुप
समीपे
गत्वा
क्रोडी
कर्तुं
कृतोद्यमः
सन्नाह
॥५॥
एह्येहि
गौरि
त्वमिदं
शरीरं
गृहाण
मे
चन्द्रकशेखरस्य
।
इत्यालपंस्तां
परिरब्धुमुत्कः
कृतापयानां
स
हठाद्दधार
॥६॥
हे
गौरि
गौरवर्णे
!
श्लेषार्थे
पार्वति
!
एह्येहीत्यादरे
वीप्सा
।
त्वं
चन्द्रकशेखरस्य
चन्द्रको
बर्हः
शेखरे
यस्य
सोऽयं
चन्द्रकशेखरः
।
पक्षे
चन्द्रशेखरः
शिवः
।
स्वार्थे
कः
।
तस्य
मे
ममेदं
शरीरं
गृहाण
।
इति
वदन्तामालिङ्गितुमुत्कः
।
स
कृष्णः
कृतापयानां
कृतापगमनां
हठाद्दधार
॥६॥
सगद्गदं
भर्त्सयन्ती
सेयं
सस्मितरोदनम्
।
तस्मात्कथञ्चित्विश्लिष्य
सेर्षं
तस्थौ
तदग्रतः
॥७॥
सस्मितरोदनं
यथा
स्यात्तथा
सगद्गदं
भर्त्सयन्ती
सेयं
राधा
कथञ्चित्कष्टेन
तस्मात्कृष्णात्विश्लिष्य
तदग्रतः
सेर्षं
तस्थौ
॥७॥
मुखपरिमललुब्धस्यालिवृन्दस्य
कर्णान्तिकमनु
पततः
सा
झङ्कृतित्रस्तचेताः
।
तदनु
चकितचञ्चद्दृष्टिभङ्गीर्दधाना
स्वयमपगतधैर्या
सस्वजे
प्राणनाथम्
॥८॥
सा
राधा
मुखस्य
दूरगामिसौगन्ध्ये
लुब्धस्यातः
कर्णसमीपे
पततो
भ्रमरसमूहस्य
झङ्कृत्या
त्रस्तं
चित्तं
यस्याः
सा
।
तदनु
भ्रमरसमूहे
चकिताश्तां
चञ्चद्दृष्टिभङ्गीर्दधाना
स्वयं
धैर्यरहिता
प्राणनाथं
कृष्णं
सस्वजे
परिरेभे
॥८॥
ततः
सखीनां
स्मितजातलज्जा
कृतप्रयत्नापि
ततोऽपसर्तुम्
।
तेनातिगाढं
हसता
गृहीता
बभौ
पयोदे
स्थिरचञ्चलेव
॥९॥
सखीनां
स्मितेन
जाता
लज्जा
यस्याः
सा
।
ततः
कृष्णादपसर्तुं
कृतप्रयत्नापि
हसता
तेन
कृष्णेनातिगाढं
गृहीता
मेघे
स्थिरविद्युदिव
बभौ
॥९॥
ईर्षात्रपानिर्वृतिवामताभिर्
द्राग्देवताभिर्ललनाग्रहैः
सा
।
आविष्टवाङ्मानसविग्रहासीत्
स्वचेष्टया
लोकयतां
सुखाय
॥१०॥
ईर्षा
त्रपा
निर्वृतिर्वामताभिर्देवताभिर्ललनाग्रहैः
बालग्रहैरपि
स्त्रीणां
ग्रहरूपैर्द्राक्शीघ्रमाविष्टं
वाङ्मानसविग्रहं
यस्याः
सा
राधा
स्वचेष्टया
लोकयतां
पश्यतां
जनानां
सुखायासीत।
एकेन
बालग्रहेण
बालकस्य
नानाचेष्टा
भवति
।
तत्र
तु
ईर्षादयो
बहुग्रहाः
।
ईर्षा
त्रपा
प्रसिद्धा
निर्वृतिः
सुखं
नायकेन
यथा
कर्तुमिष्यते
।
तत्रासम्मतिर्वामता
॥१०॥
सशपथनुतिनिन्दातर्जनाक्षेपदैन्यं
स्मितरुदितविमिश्रं
श्लिष्टमेषा
लपन्ती
।
प्रियदृढभुजबन्धं
मोचयन्ती
कराभ्यां
भृशमतनुत
सालीवृन्दकृष्णस्य
तुष्टिम्
॥११॥
चेष्टामाह—
सेति
।
शपथादिदैन्यान्ते
सहितं
स्मितरुदिताभ्यां
विमिश्रं
संयुक्तं
श्लिष्टं
वाक्श्लेषयुक्तम्
।
श्लिष्टमिति
पाठे
अविस्पष्टं
च
यथा
स्यात्तथा
आलपन्ती
कराभ्यां
प्रियदृढभुजबन्धं
मोचयन्ती
सती
।
एषा
राधा
सखीवृन्दसहितकृष्णस्य
भृशं
तुष्टिमतनुत
॥११॥
तयोर्दृढालिङ्गनतः
सुतृप्ताः
कम्पादिसम्पन्निचिताः
समीक्ष्य
।
सखीर्मुदोत्फुल्लमुखीर्निकुञ्जे
नान्दीमुखीं
सा
वदति
स्म
वृन्दा
॥१२॥
तयो
राधाकृष्णयोर्दृढालिङ्गनात्सुतृप्ताः
कम्पादिसम्पद्भिर्निचिता
व्याप्ता
मुदोत्फुल्लमुखीः
सखीः
समीक्ष्य
सा
निकुञ्जे
वृन्दा
नान्दीमुखीं
वदति
स्म
॥१२॥
आश्चर्यां
हरिणा
राधा
गाढमालिङ्गिता
चिरम्
।
तदसङ्गतियुक्तापि
निवृतासीत्सखीततिर॥१३॥
हरिणा
राधा
चिरं
बहुकालं
दृढालिङ्गिता
सखीततिः
।
तत्तेन
कृष्णेन
सहासङ्गतिः
सङ्गभावस्तया
युक्तापि
निर्वृता
॥१३॥
अदृष्टे
दर्शनोत्कण्ठा
दृष्टेऽस्मिन्स्पर्शलालसा
।
स्पर्शेऽस्य
सेर्ष्यवाम्यं
तच्चित्रमासां
विचेष्टितम्
॥१४॥
अस्मिन्श्रीकृष्णे
अदृष्टे
सति
दर्शनोत्कण्ठा
भवति
।
अस्मिन्स्पर्शलालसा
भवति
।
अस्य
स्पर्शे
सति
ईर्षासहितवाम्यं
तत्तस्मातासां
चेष्टितं
चित्रमद्भुतम्
॥१४॥
नान्दीमुखी
तामवदत्वनेश्वरीं
लोकोत्तराणां
व्रजसुभ्रुवां
सदा
।
कृष्णैकसौख्यार्थशरीरचेतसां
तत्तन्न
चित्रं
किल
चेष्टितं
यतः
॥१५॥
नान्दीमुखी
तां
वनेश्वरीं
वृन्दामवदत।
यतो
व्रजसुभ्रुवः
सदा
कृष्णैकसौख्यार्थशरीरचेतसो
लोकोत्तराश्च
।
ततो
हेतोस्तासां
तत्तच्चेष्टितं
चित्रं
न
॥१५॥
सख्यः
श्रीराधिकाया
व्रजकुमुदविधोर्ह्लादिनीनामशक्तेः
सारांशप्रेमवल्ल्याः
किशलयदलपुष्पादितुल्याः
स्वतुल्याः
।
सिक्तायां
कृष्णलीलामृतरसनिचयैरुल्लसन्त्याममुष्यां
जातोल्लासाः
स्वसेकाच्छतगुणमधिकं
सन्ति
यत्तन्न
चित्रम्
॥१६॥
श्रीराधिकाया
निर्वृतौ
सत्यां
सखीनां
निर्वृतिः
स्यात्तत्र
तया
सहासामभेद
एव
कारणमित्याह
सख्य
इति
।
व्रजरूपकुमुदानां
विधोश्चन्द्रस्य
ह्लादिनीनाम
या
शक्तिः
तस्याः
सारांशो
यः
प्रेमा
स
एव
वल्ली
लता
तस्या
श्रीराधिकायाः
सख्यः
किशलयदलपुष्पादितुल्याः
स्वतुल्याः
श्रीराधिकातुल्याश्च
।
अतः
श्रीकृष्णलीलामृतरसस्य
निचयैः
समूहैरमुष्यां
राधायां
सिक्तस्मिनुल्लसन्त्यां
च
सत्यां
ताः
सख्यः
स्वसेकात्शतगुणमधिकं
जातोल्लासा
भवन्ति
इति
यत्तच्चित्रं
न
॥१६॥
विभुरतिसुखरूपः
स्वप्रकाशोऽपि
भावः
क्षणमपि
नहि
राधाकृष्णयोर्या
ऋते
स्वाः
।
प्रवहति
रसपुष्टिं
चिद्विभूतिरिवेशः
शयति
न
पदमासां
कः
सखीनां
रसज्ञः
॥१७॥
राधाकृष्णयोर्भावः
स
विभुर्व्यापकोऽतिमहान।
अतिसुखरूपः
स्वप्रकाशः
स्वयं
प्रकाशमानश्च
।
एवं
विशेषणैर्विशिष्टोऽपि
।
याः
सखीः
ऋते
विना
रसपुष्टिं
न
हि
प्रवहति
।
ताः
कीदृशीः ?
स्वाः
स्वीयाः
तयो
राधाकृष्णयोरात्मीयाः
।
काः
विना
क
इव
।
ईश
ईश्वरश्चिद्विभूतीर्विना
यथा
पुष्टिं
न
प्राप्नोति
तथा
।
अत
आसां
सखीनां
पदं
को
रसज्ञो
भत्तो
न
श्रयति,
सर्वे
रसज्ञा
आश्रयन्त्येव
इति
भावः
॥१७॥
राधा
काञ्चनवल्ली
फुल्ला
कृष्णस्तु
फुल्लतापिञ्छः
।
अनयोः
सङ्गमलक्ष्मीः
सुखयति
नहि
कं
सचेतनं
लोकम्
॥१८॥
राधाकृष्णयोः
सङ्गमेन
या
लक्ष्मीः
शोभा
सङ्गमरूपा
सम्पत्तिः
सा
कं
वा
सचेतनं
लोकं
न
हि
सुखयति
।
सर्वं
सुखयतीत्यर्थः
।
तापिञ्छस्तमाल
इत्यर्थः
॥१८॥
आसां
विशुद्धप्रणयार्द्रचेतसां
तात्पर्यमस्यैव
सुखेन
चात्मनः
।
वाम्यं
हि
कान्तस्य
सुखाय
सुभ्रुवाम्
अतस्तदुन्मीलति
तस्य
सङ्गमे
॥१९॥
आसां
व्रजसुभ्रुवामस्य
श्रीकृष्णस्य
सुखे
तात्पर्यमात्मनः
सुखे
तात्पर्यं
न
वाम्यं
हि
श्रीकृष्णसुखाय
भवति
।
अत
आसां
तस्य
सङ्गमे
तद्वाम्यमुन्मीलति
॥१९॥
अथेप्सितैतद्दृढबाहुवक्षः
स्पर्शोत्थितानन्दभरापि
राधा
।
वाम्योत्थवैमत्यमिवाचरन्ती
सा
भर्त्सयन्ती
ललितामवादीत॥२०॥
अथानन्तरमीप्सितान्वाञ्छितानेतस्य
कृष्णस्य
दृढबाहुवक्षःस्पर्शादुत्थितानन्दभरो
यस्याः
सापि
राधा
वाम्योत्थवैमत्यमाचरन्तीव
सा
भर्त्सयन्ती
अवादीत॥२०॥
सकुष्र्तिहरिदूत्या
कुन्दवल्ल्या
मिलन्ती
कपटिनि
ललिते
त्वं
मामिहानीय
धृष्टे
।
शठकुलगुरुहस्ते
नेत्रभङ्ग्या
निधाय
कलयसि
खलभर्तुर्धार्ष्ट्य
नृत्यं
तटस्था
॥२१॥
हे
कपटिनि
ललिते
!
कुष्र्तिः
शाठ्यं
तत्सहिततया
हरिदूत्या
कुन्दवल्ल्या
मिलन्ती
त्वं
मामिहानीय
नेत्रभङ्ग्या
शठकुलगुरुहस्ते
हे
धृष्टे
निधाय
समर्प्य
तटस्था
उदासीना
सती
खलभर्तुर्धार्ष्ट्यं
नृत्यं
पश्यसि
।
कुसृतिर्निकृतिः
शाठ्यमित्यमरः
॥२१॥
प्रखरा
यदभूर्मृद्वी
मृदुनालिङ्गितामुना
।
न
तच्चित्रं
यदासीद्वां
गुणयोः
परिवर्तनम्
॥२२॥
हे
ललिते
!
प्रखरापि
त्वं
मृदुनामुना
कृष्णेन
सह
संवादं
व्याधात।
नु
भोः
सतीव्रतध्वंसनाय
धृष्टभूपते
!
त्वया
किमिदं
विधातुमारब्धम्
॥२२॥
रुष्टेन
तुष्टा
ललितामुना
व्यधात्
संवादमुद्यत्स्मितगर्भतर्जनम्
।
सतीव्रतध्वंसनधृष्टभूपते
विधातुमारब्धमिदं
न
किं
त्वया
॥२३॥
रुष्टेन
तुष्टा
ललितामुना
व्यधात्संवादमुद्यत्स्मितगर्भतर्जनं
सतीव्रतध्वंसनधृष्टभूपते
विधातुमारब्धमिदं
न
किं
त्वया
॥२३॥
स्वसखीं
पृच्छ
ललिते
किमियं
कर्तुमुद्यता
।
बलात्स्वाङ्गेन
संवेष्ट्य
मदङ्गं
यात्मसाद्व्यधात॥२४॥
स्वसखीं
पृच्छ
ललिते
किमियं
कर्तुमुद्यता
बलात्स्वाङ्गेन
संवेष्ट्य
मदङ्गं
यात्मसाद्व्यधात॥२४॥
पुन्नागं
त्वां
माधवीयं
स्वयं
यत्फुल्ला
स्वाङ्गैर्वेष्टते
युक्तमेतत।
त्वं
यत्तां
तैर्वेष्टसे
तन्न
युक्तं
वल्ल्या
वृक्षो
वेष्ट्यते
नामुनासौ
॥२५॥
पुन्नागं
त्वां
माधवीयं
स्वयं
यत्फुल्ला
स्वाङ्गैर्वेष्टते
युक्तमेतत्त्वं
यत्तां
तैर्वेष्टसे
तन्न
युक्तं
वल्ल्या
वृक्षो
वेष्ट्यते
नामुनासौ
॥२५॥
मयाप्यस्यै
दत्तमङ्गमनयाप्यात्मसात्कृतम्
।
का
ते
हानिः
पुनर्नैतदादातुं
शक्यते
मया
॥२६॥
अस्यै
मयाङ्गं
दत्तम्
।
अनयापि
मदङ्गमात्मसात्कृतं
ते
का
हानिरभूत्?
पुनरेतत्स्वाङ्गमादातुं
ग्रहीतुं
मया
न
शक्यते
।
शास्त्रेषु
दत्तापहारिणा
दोषश्रवणात॥२६॥
इयं
क्रूरा
शूरा
जयति
ललिता
क्रोधवलिता
यशःश्वेतामेतां
विसृज
शठ
तां
स्वाञ्च
शठताम्
।
निजाभिध्यामिद्धामलिपक
सुसिद्धां
स्वपुरतः
प्रजावत्यां
सत्यां
त्वयि
च
रतिमत्यां
विरचय
॥२७॥
इयं
क्रूरा
शूरा
जयति
ललिता
क्रोधवलिता
यशःश्वेतामेतां
विसृज
शठ
तां
स्वाञ्च
शठताम्
।
निजाभिध्यामिद्धामलिपक
सुसिद्धां
स्वपुरतः
प्रजावत्यां
सत्यां
त्वयि
च
रतिमत्यां
विरचय
॥२७॥
ललितायाः
पुरो
राधां
वातोऽपि
स्प्रष्टुमक्षमः
।
तत्त्यजामुं
न
चेदस्माद्धाटिशाटीं
निचोलय
॥२८॥
ललितायाः
पुरो
राधां
वातोऽपि
स्प्रष्टुमक्षमः
तत्त्यजामुं
न
चेदस्माद्धाटिशाटीं
निचोलय
॥२८॥
इत्यालपन्त्यां
त्वरितं
रुषास्याम्
अग्रेसरत्यां
ससखीकुलायाम्
।
कम्पाश्रुरोमाञ्चमुखैश्च
भावैर्
आनन्दजैः
सोऽप्यभवद्विहस्तः
॥२९॥
इत्यालपन्त्यां
त्वरितं
रुषास्यामग्रेसरत्यां
ससखीकुलायां
कम्पाश्रुरोमाञ्चमुखैश्च
भावैरानन्दजैः
सोऽप्यभवद्विहस्तः
॥२९॥
कान्ताङ्गसङ्गजसुखेन
विमोहितेऽस्मिन्
भीतोऽयमित्यवगते
ललिताभियान्यैः
।
आदाय
कम्पितकरान्मुरलीं
स्खलन्तीं
सा
निर्गता
झटिति
विश्लथबाहुबन्धात॥३०॥
कान्ताङ्गसङ्गजसुखेन
विमोहितेऽस्मिन्भीतोऽयमित्यवगते
ललिताभियान्यैः
आदाय
कम्पितकरान्मुरलीं
स्खलन्तीं
सा
निर्गता
झटिति
विश्लथबाहुबन्धात॥३०॥
निर्गता
तस्यां
स्वपटाञ्चलेन
सङ्गोपयन्त्यां
मुरलीं
प्रयत्नात।
आगत्य
तस्याः
पुरतो
विशाखा
कृष्णेन
संलापमसौ
व्यधत्त
॥३१॥
निर्गत्य
पटाञ्चलेन
मुरलीं
सङ्गोपयन्त्यां
तस्यां
राधायां
सत्याम्
।
तस्या
राधाया
अग्रे
विशाखा
आगत्य
असौ
विशाखा
कृष्णेन
सह
संलापं
परस्परभाषणं
व्यधत्त
॥३१॥
हे
कृष्ण
दोर्बिम्बविधुन्तुद
त्वं
भ्रान्तोऽपि
या
ते
प्रसभं
गृहीता
।
चन्द्रावलीयं
न
हि
पश्य
तारा
राधाभिधान्येऽपि
च
तादृशोऽस्याः
॥३२॥
हे
कृष्ण
!
हे
दोर्बिम्बेन
हस्तमण्डलेन
विधुन्तुद
राहुरूप
!
बिम्बोऽस्त्री
मण्डलं
त्रिषु
इत्यमरः
।
त्वं
भ्रान्तोऽपि
ते
त्वया
या
प्रसभं
हठात्गृहीता
सा
चन्द्रावली
न,
पश्य
राधाभिधा
तारा
इयं
वर्तते,
अर्थातिमां
पश्य
अतस्तवालिङ्गनायोग्या
अस्या
राधाया
अन्योऽपि
च
तादृशः
तारारूपस्तवालिङ्गनायोग्य
इति
भावः
।
तारा
तारकाप्युडु
वा
स्त्रियामित्यमरः
॥३२॥
अस्याद्वैता
विशाखाहमनुराधा
त्वियं
परा
।
इयं
ज्येष्ठा
धनिष्ठेयं
चित्रेयं
भरणी
त्वियम्
॥३३॥
अन्यत्तारा
आह
।
अस्या
राधाया
अद्वैता
विशाखाहमपि
ताराभिधा
।
इयं
ललिता
अनुराधा
।
इयं
धनिष्ठा,
इयं
ज्येष्ठा
।
इयं
चित्रा
भरणी
॥३३॥
अन्या
वा
कति
मे
गण्या
या
चैकास्तीन्दुलेखिका
।
सापि
त्वद्ग्रहणायोग्या
तत्त्वं
चन्द्रावलीं
व्रज
॥३४॥
मे
मया
अन्या
वा
कति
गण्याः
।
या
चैकेन्दुलेखास्ति
सापि
त्वद्ग्रहणायोग्या
।
पूर्णचन्द्रस्यैव
राहुग्राह्यत्वात।
तत्त्वं
चन्द्रावलीं
व्रज
॥३४
॥
विशाखे
सर्वसुखदा
सत्यं
त्वं
शाङ्करीतनुः
।
वाग्वज्रभीषणा
मूर्तिर्ललिता
शातमन्यवी
॥३५॥
हे
विशाखे
!
सर्वसुखदासि
।
अतस्त्वं
शाङ्करी
शं
सुखं
करोतीति
स
शिवस्तदीया
मूर्तिरिति
सत्यम्
।
ललिता
शातमन्यवी
शतमन्युरिन्द्रस्तदीया
मूर्तिरिति
सत्यम्
।
यतो
वाच
एव
वज्रास्तैर्भीषणा
भयङ्करी
॥३५॥
असौ
विशाखे
सुलभां
विहाय
चन्द्रावलीं
तां
बहुधोपभुक्ताम्
।
सुदुर्लभां
वाञ्छति
भानवीयां
श्रियं
रसास्वादविशेषलिप्सुः
॥३६॥
हे
विशाखे
!
असौ
रसास्वादविशेषलिप्सुर्मल्लक्षणो
जनो
राहुरूपः
।
बहुधोपभुक्तां
तां
चन्द्रावलीं
चन्द्रश्रेणीम्,
श्लेषेण
चन्द्रावलीनाम्नीं
विहाय
त्यक्त्वा
भानवीयां
भानुः
सूर्यस्तदीयां
श्रियं
सम्पत्तिं
मूर्तिम्,
श्लेषेण
भानुर्वृषभानुस्तदीयां
श्रियं
सम्पत्तिं
राधां
वाञ्छति
॥३६॥
भोगः
क्रमेण
तारासु
सदा
राहोर्विराजते
।
कौतुकादिन्दुलेखामप्यपूर्वां
स
जिघृक्षति
॥३७॥
भोगः
क्रमेण
तारासु
सदा
राहोर्विराजते
कौतुकादिन्दुलेखामप्यपूर्वां
स
जिघृक्षति
॥३७॥
इत्यालपन्श्रीहरिरिन्दुलेखां
अलिङ्गितुं
तत्सविधं
जगाम
।
दृष्ट्वान्तिके
तं
चकितापयान्ती
साप्युच्चलद्भ्रूः
स्मितपूर्वमाह
॥३८॥
धृष्टापगच्छ
हे
राहो
न
ते
योग्येन्दुलेखिका
।
पूर्णां
चन्द्रावलीं
याहि
भुङ्क्ष्व
तारां
क्रमेण
व
॥३९॥
तेनालक्षितमागत्य
गृहीता
ललिताब्रवीत।
अनुराधा
न
ते
लभ्या
विशाखाभोगमन्तरा
॥४०॥
स्पृष्टा
विशाखाप्यथ
साब्रवीत्तं
राधोपभोगाद्भवता
विशाखा
।
भुक्तैव
तत्किं
पुनरेषि
धृष्ट
ज्येष्ठां
विहाय
क्रमलभ्यभोगाम्
॥४१॥
ज्येष्ठाप्यलक्षितं
स्पृष्ट्वा
म्लिष्टं
रुष्टा
तमब्रवीत।
चित्राभोगं
विना
धृष्ट
क्लिष्टोऽन्यासां
तवाक्रमः
॥४२॥
सहसा
विधृता
चित्रा
तमाहापैहि
लम्पट
।
ग्रहाणां
क्रमतो
भोगस्तारासूत्क्रमतो
न
हि
॥४३॥
तुङ्गविद्याब्रवीच्चित्रे
राहोर्नात्र
व्यतिक्रमः
।
वक्राति
चारगत्यापि
ग्रहाणां
क्वचिदाक्रमः
॥४४॥
साप्याह
तुङ्गविद्ये
त्वं
तुलाराशिस्ततोऽमुना
।
आक्रान्तायां
तु
चित्रायां
पीडिताशु
भविष्यसि
॥४५॥
तुङ्गविद्याह
तं
स्पृष्ट्वा
धृष्ट
किं
रङ्गदेविकाम्
।
आदौ
पीड्यां
तुलाराशिं
हित्वा
मां
त्वं
जिघृक्षसि
॥४६॥
सापि
स्पृष्टाह
तं
राहो
त्वं
कन्याराशिभोगकृत।
पूर्णदृष्टां
मीनराशिं
चम्पवल्लीं
प्रपीडय
॥४७॥
स्पृष्टा
सा
रङ्गदेवी
तमाह—
हे
राहो
!
त्वं
कन्याराशिभोगकृत।
पूर्णदृष्टां
मीनराशिं
चम्पवल्लीं
प्रपीडय
॥४७॥
साप्याशु
विधृताप्याह
धूर्तेमां
कुम्भराशिकाम्
।
सुदेवीं
त्वरितं
याहि
यतस्ते
व्युत्क्रमा
गतिः
॥४८॥
सा
चम्पकवल्ली
सुदेवीं
याहीत्याह
॥४८॥
स्पृष्टा
सुदेवी
तं
प्राह
मधुसूदन
ते
स्पृहाम्
।
सर्वां
काञ्चन्वल्लीयं
प्रफुल्ला
पूरयिष्यति
॥४९॥
हे
मधुसूदन
!
कृष्ण
!
श्लेषेण
भ्रमर
।
प्रफुल्लेयं
काञ्चनवल्ली
ते
सर्वां
स्पृहां
पूरयिष्यति
॥४९॥
सा
गृहीतावदत्कृष्ण
चकोरात्र
किमागतः
।
स्फुरच्चन्द्रमुखीमासां
स्वतृष्णाशान्तये
व्रज
॥५०॥
हे
कृष्ण
!
रूपचकोर
त्वं
स्वतृष्णाशान्तये
आसां
मध्ये
चन्द्रमुखीं
व्रज
।
ननु
ब्रह्मसंहितायां—
ईश्वरः
परमः
कृष्णः
सच्चिदानन्दविग्रहः
।
अनादिरादिर्गोविन्दः
सर्वकारणकारणम्
॥
सहस्रपत्रकमलं
गोकुलाख्यं
महत्पदम्
।
तत्कर्णिकारं
तद्धाम
तदनन्तांशसम्भवम्
॥
[
ब्र
.
सं
.
५
.
१२
]
गोपालतापिन्यां—
एको
वशी
सर्वगः
कृष्ण
ईड्यः
[
गो
.
ता
.
उ
.
१
.
१९
]
इति
।
तस्मात्कृष्ण
एव
परो
देवः
[
गो
.
ता
.
उ
.
१
.
३
]
इति
।
तापिनीहयशीर्षयोः—
सच्चि६६दानन्दरूपाय
कृष्णायाक्लिष्टकारिणे
[
गो
.
ता
.
उ
.
१
.
१
]
इति
।
ब्रह्माण्डपुराणे—
नन्दव्रजजनानन्दः
सच्चिदानन्दविग्रहः
इति
।
गोपालतापिनीषु—
योऽसौ
गोपालः
इति,
कृषिर्भूवाचकः
शब्दो
णश्च
निर्वृतिवाचकः
।
तयोरैक्यं
परं
ब्रह्म
कृष्ण
इत्यभिधीयते
॥
गौतमीये
अष्टादशाक्षरव्याख्यायां—
कृषिशब्दश्च
सत्तार्थो
णश्चानन्दस्वरूपकः
।
सुखरूपो
भवेदात्मा
भावानन्दमयत्वतः
॥
इति
।
श्रीभागवते—
गूढं
परं
ब्रह्म
मनुष्यलिङ्गं
[
भा
.
पु
.
७
.
१५
.
५८
]
इति,
यन्मित्रं
परमानन्दं
पूर्णं
ब्रह्म
सनातनमिति
[
भा
.
पु
.
१०
.
१४
.
३२
]
।
श्रीविष्णुपुराणे—
यत्रावतीर्णं
कृष्णाख्यं
परं
ब्रह्म
नराकृति
[
वि
.
पु
.
४
.
११
.
२
]
इति
।
श्रीगीतासु
च
ब्रह्मणो
हि
प्रतिष्ठाहं
[
गीता
१४
.
२७
]
इत्यादि
बहुश्रुतिस्मृतिपुराणादिप्रमाणतः
सर्वपरात्परनराकृतिपरम्ब्रह्मस्वरूपः
कृष्णः
कुहकेच्छया
दारुयन्त्रवत्या
या
गोपी
यथा
यथा
वदति,
तथा
तथा
करोति
।
ब्रह्मसंहितायां—
श्रियः
कान्ताः
कान्तः
परमपुरुषः
कल्पतरवो
द्रुमा
भूमिश्चिन्तामणिगणमयि
तोयममृतम्
।
कथा
गानं
नाट्यं
गमनमपि
वंशी
प्रियसखि
चिदानन्दं
ज्योतिः
परमपि
तदास्वाद्यमपि
च
॥
[
ब्र
.
सं
.
५
.
५६
]
ज्योतिश्चन्द्रसूर्यादिचिदानन्दम्
।
स्वाद्यं
भक्ष्यमपि
चिदानन्दम्
।
कान्तादयः
सुतरां
चिदानन्दा
इत्यादि
प्रमाणतः
लक्ष्मीरूपा
एता
व्रजाङ्गनास्तादृशं
श्रीकृष्णं “
हे
धृष्ट
!
हे
कामुक
!”
इत्यादि
सम्बोधनपूर्वकं
यत्प्रेरयन्ति,
तत्रसाभिज्ञानामेव
मनसि
यथा
सुखकरम्,
तथा
न
रसानभिज्ञानाम्,
प्रत्युत
सन्देहकरम्
।
सन्देहो,
यथा—
एतादृशचेष्टादिकं
क्वापि
प्राकृते
नायकादौ
अप्राकृते
नारायणादौ
रामाद्यवतारे
च
न
श्रुतम्
।
उच्यते—
प्रापञ्चिकसृष्टौ
पशुपक्षिमनुष्यदेवतादीनां
सर्वेषां
शरीराणां
पञ्चभूतारब्धानामैक्येऽपि
तथा
सर्वत्र
जीवानां
चित्कणरूपत्वेनैक्येऽपि
पशुपक्ष्याद्यपेक्षया
पानभोजनस्त्रीसङ्गादिषु
मनुष्याणां
वैदग्ध्यरसास्वादिनां
परमवैशिष्ट्यमिव
।
एवं
मनुष्यापेक्षया
देवानां
परमवैशिष्ट्यमिव
।
अप्राकृतानां
मध्ये
श्रीकृष्णस्य
परमवैशिष्ट्यं
श्रीकृष्णपरिकराणां
तेषां
कृपया
रसिकभक्तानामेव
वेद्यम्,
नान्येषाम्
।
अतः
प्रमाणं
श्रीकृष्णतत्परिकराणां
प्रवृत्तिरेव
।
भक्तानां
तादृशवाक्यं
ग्रन्थकर्तुर्वाक्यमेतत्ग्रन्थ
एव
श्रीरूपगोस्वामिनः—
सिद्धान्ततस्त्वभेदेऽपि
श्रीशकृष्णस्वरूपयोः
।
रसेनोत्कृष्यते
कृष्णरूपमेषा
रसस्थितिः
॥
[
भ
.
र
.
सि
.
१
.
२
.
५९
]
इति
॥५०॥
अलक्षितं
साप्यमुना
गृहीता
चुचुम्बिषुं
तं
विमुखी
जगाद
।
त्यजान्यजायां
शठ
वंशिकां
तां
निजप्रियां
चुम्ब
चुचुम्बिषा
चेत॥५१॥
अमुना
गृहीता
सा
चन्द्रमुखी
श्रीराधा
विमुखी
सती
तं
जगाद
।
चुम्बितुमिच्छा
चेत्तां
प्रियां
वंशिकां
चुम्ब
॥५१॥
स
चिरात्स्वकरादपच्युतां
मुरलीं
तामवधार्य
तद्गिरा
।
क्व
गतेति
विलक्षितः
क्षणं
स्वदृशं
कुन्दलतानने
न्यधात॥५२॥
तद्गिरा
अपच्युतां
मुरलीमवधार्य
संस्मृत्य “
क्व
गता
मुरली?”
इति
क्षणं
विलक्षितः
विस्मयान्वितः
स्वनेत्रं
कुन्दलताया
आस्ये
आनने
न्यधात॥५२॥
सापि
तं
चलदृग्भङ्ग्या
राधिकां
तामदर्शयत।
तद्विज्ञाय
तया
वंशी
तुलस्यां
गुप्तमर्पिता
॥५३॥
सा
कुन्दलता
तां
श्रीकृष्णं
चलद्दृग्भङ्ग्या
तां
श्रीराधिकामदर्शयत।
तद्विज्ञाय
तया
राधया
तुलस्यां
गुप्तं
यथा
तथा
वंशी
अर्पिता
॥५३॥
सा
तां
प्रयत्नात्पिहितां
विधाय
स्थिता
विशाखाललितादिपश्चात।
कृष्णोऽपि
राधां
समुपेत्य
तावद्
दिधीर्षुरेनामिदमाललाप
॥५४॥
सा
तुलसी
तां
वंशीं
पिहितामाच्छादितां
विधाय
कृत्वा
विशाखाललितयोः
पश्चात्स्थिता
।
कृष्णोऽपि
तावद्राधां
समुपेत्य
दिधीर्षुः
स
एनां
राधामिदमाह
॥५४॥
मनो
विशुद्धं
चलमप्यदृश्यं
कटाक्षकामाङ्कुशशृङ्गविद्धम्
।
विधाय
पाटच्चरि
मे
हरन्त्या
न
दृश्यवंशीहृतिरद्भुता
ते
॥५५॥
हे
पाटच्चरि
!
हे
चौरि
!
मे
मनो
विशुद्धं
निर्मलं
कामादिक्षोभरहितं
चलं
चञ्चलं
सखिषु
गोषु
सदा
विलसत।
अदृश्यं
स्वत
एव
अमूर्तत्वात्दृगगोचरमेवम्भूतमपि
मनः
कटाक्षरूपकामाङ्कुशाग्रेण
विद्धं
विधाय
कृत्वा,
हरन्त्याश्चोरयन्त्यास्ते
तव
दृश्यवंश्या
हृता
इति
भावः
॥५५॥
बध्नामि
बाहुपाशैस्त्वां
लुण्ठाम्यंशुकभूषणम्
।
नयामि
कुञ्जकारायां
स्मरभूपेऽर्पयामि
च
॥५६॥
अहं
त्वां
बाहुपाशैर्बध्नामीत्यादि
॥५६॥
राधाप्यसाधारणभावविद्धा
सावज्ञमालोक्य
हरिं
चलन्ती
।
वंशीविचारच्छलतो
निरुद्धा
निवारितेनाप्यमुना
गृहीता
॥५७॥
असाधारणभावेन
कृष्णपरिहासजन्योत्कृष्टभावेन
विद्धापि
सा
राधा
सावज्ञं
हेलनसहितं
हरिमवलोक्य
चलन्ती
सती
।
निवारितेन
मां
मा
स्पृश
मा
स्पृश
इति
तया
राधया
निषेधितेनामुना
कृष्णेन
वंशीविचारच्छलात्निरुद्धा
सती
गृहीताभूदिति
शेषः
॥५७॥
हरिस्तामाह
चौरि
त्वं
वृथा
किं
चेष्टसे
तव
।
त्यागो
वंश्या
न
मे
यावत्तावद्दोर्बन्धनाय
सः
॥५८॥
हरिस्तां
राधामाह—
हे
चौरि
!
मे
भुजबन्धनान्मोक्तुं
त्वं
वृथा
किं
चेष्टसे ?
यावन्मे
वंश्या
न
त्यागस्तावत्तव
मे
दोर्बन्धनात्स
त्यागो
न
भविष्यति
॥५८॥
मृषारुषारालचलाक्षिचिल्ली
लतं
समुद्यत्स्मितगर्वितास्यम्
।
हरेः
पुरस्तावदुपेत्य
तूर्णं
साटोपतर्जं
ललितावदत्तम्
॥५९॥
मृषारुषा
मिथ्याक्रोधेन
अराले
वक्रे
चले
च
अक्षिणी
तथाभूता
।
चिल्लीलता
भ्रूलता
च
यस्यां
क्रियायाम्,
समुद्यत्स्मितेन
गर्वितमास्यं
यस्याम्,
साटोपस्तर्जनस्तर्जनं
यस्याम्,
तद्यथा
स्यात्तथा
हरेः
पुरस्तावद्तूर्णमुपेत्य
ललिता
तं
कृष्णमवदत॥५९॥
पराङ्गनासङ्गमपूतमूर्ते
सतीव्रतध्वंसन
याहि
याहि
।
स्नातां
पवित्रां
रविपूजनार्थं
स्पृष्ट्वा
च्छलोक्त्या
कुरु
मापवित्राम्
॥६०॥
पराङ्गनायाः
सङ्गमेन
पूता
मूर्तिर्यस्य
हे
तादृश
!
हे
सतीव्रतध्वंसन
!
याहि
याहि
।
रविपूजार्थं
स्नातामत
एव
पवित्रां
छलोक्त्या
स्पृष्ट्वा
अपवित्रां
मा
कुरु,
इमामित्यूह्यम्
।
श्लेषपक्षे—
हे
सतीव्रतध्वंस
त्वं
न
याहि,
मा
याहि,
न
याहि
न
याहीत्यर्थः
।
रवे
रविवन्नेत्रयोः
प्रकाशकत्वादानन्दकत्वाद्रविरूपस्य
तव
पूजनार्थं
सत्कारार्थं
स्नातां
पवित्रां
स्पृष्ट्वा
पवित्रां
कुरु
।
स्नानेन
इयं
पवित्रास्ति,
तव
स्पर्शेनातिपवित्रां
भविष्यतीति
भावः
॥६०॥
उन्मादितः
स्वाधरपायनैर्यया
त्वं
धृष्टयासीः
सुमनःसरोवरे
।
वंशी
तया
ते
शठ
शैब्यया
हृता
न
मन्यसे
चेत्तुलसीह
साक्षिणी
॥६१॥
यया
धृष्टया
शैब्यया
स्वाधरपायनैरुन्मादितस्त्वमासीरभूः
।
कुसुमसरोवरे
तया
शैब्यया
ते
वंशी
हृता
चेत्न
मन्यसे
इह
विषये
तुलसी
साक्षिणी
पृच्छतामिति
शेषः
॥६१॥
खलः
करोति
दुर्वृत्तं
नूनं
फलति
साधुषु
।
शैब्यया
ह्रियते
वंशी
साध्वी
राधा
तु
दूष्यते
॥६२॥
स्पष्टम्
.
तया
दृशः
प्रेरणया
निदिष्टां
कृष्णे
यियासौ
तुलसीमभीष्टाम्
।
राधापयाता
दयितोपरोधात्
सौधाकरी
मूर्तिरिवाम्बुवाहात॥६३॥
तया
ललितया
दृशः
प्रेरणया
निदिष्टां
वंश्यामस्तीति
इङ्गितेरितां
ततो
वंशीलाभार्थम्,
स्वतश्चाभीष्टां
तुलसीं
कृष्णे
यियासौ
यातुमिच्छति
सति
दयितस्य
तस्य
कृष्णस्य
उपरोधात्क्रोडात्राधा
अपयाता
अपगताभूत।
तत्रोपमा—
अम्बुवाहात्मेघात्सौधाकरी
मूर्तिश्चन्द्र
इव
॥६३॥
सापीङ्गितज्ञा
लघु
रूपमञ्जरी
करेऽर्पयित्वा
मुरलीमतर्कितम्
।
ततोऽपसर्तुं
विहितोद्यमामुना
बलाद्गृहीतोत्पुलकास
कम्पिता
॥६४॥
सापि
तुलसी
इङ्गितज्ञा
सती
लघु
शीघ्रं
रूपमञ्जर्याः
अतर्कितं
यथा
स्यात्तथा
मुरलीमर्पयित्वा
ततो
गन्तुं
विहितोद्यमापि
अमुना
कृष्णेन
गृहीता
सती
उत्पुलका
कम्पिता
च
आस
बभूव
॥६४॥
निधाय
कुब्जीकृतपाणिशाखा
निजानने
साब्रुवतातिदीना
।
हा
हा
कृपालो
त्यज
मामयोग्यां
निर्मञ्छनं
यामि
तवास्मि
दासी
॥६५॥
सा
तुलसी
कुब्जीकृता
मुष्टीकृता
पाणिशाखा
अङ्गुलीर्निजानने
निजमुखे
निधाय
कृत्वा
अतिदीना
सति
अब्रुवत
।
ब्रूञ्
व्यक्तायां
वाचि
धातुः
।
तौदादिकेऽपि
लङ्ङात्मने
पदैकवचनम्
।
किं
वा
कृत्क्विप
एवान्तर्वर्तित्वाद्धातोर्न
गुणः
।
भूरिवाचरति
भुवतीत्यादि
।
अन्यस्तु
हरयतीत्यादि
।
ब्रूञ्
उभयपदित्वादातः
आत्मने
पदे
तप्रत्ययः
।
ब्रूरिवाचरदब्रवीदित्यर्थः
।
किमब्रवीत्?
तदाह—
हे
कृपालो
!
हा
हा
अयोग्यां
मां
त्यज
।
तव
निर्मञ्छनं
यामि
।
अहं
दासी
अस्मि
॥६५॥
वंशी
न
मय्यस्ति
यदर्थमाग्रहः
शैब्याकरे
साद्य
मयैव
लोकिता
।
इत्यालपन्ती
चलदृष्टिसंज्ञया
सासूचयत्तं
प्रति
रूपमञ्जरीम्
॥६६॥
यदर्थं
तवाग्रहः
सा
वंशी
मयि
नास्ति
।
सा
तुलसी
तं
कृष्णं
प्रति
दृष्ट्या
रूपमञ्जरीमसूचयत॥६६॥
यावद्विहाय
तुलसीं
मधुसूदनोऽसौ
तां
मञ्जरीं
विदितवेणुमरन्दगन्धाम्
।
आयाति
तावदियमिङ्गितपण्डिताशु
वंशीं
निधाय
ललितामनु
साधु
तस्थौ
॥६७॥
मधुसूदनः
कृष्णः
भ्रमरश्च
यावत्तुलसीं
विहाय,
तां
मञ्जरीं
विदितो
वेणुरूपमरन्दस्य
मकरन्दस्य
गन्धो
यस्यां
तामायाति
तावदियं
रूपमञ्जरी
ललितामनु
ललितायां
वंशीमाशु
निधाय
साधु
यथा
स्यात्तथा
तस्थौ
॥६७॥
कृष्णोऽपि
तां
तूर्णमलक्षितागतिः
स्वबाहुपाशेन
निबद्ध्य
सत्वरः
।
वंशीं
विचिन्वन्कुचपट्टिकान्तरे
तामाह
सा
तस्करि
ते
क्व
गोपिता
॥६८॥
कृष्णस्तां
रूपमञ्जरीं
स्वबाहुपाशेन
निबद्ध्य
सत्वरः
सन्कुचपट्टिकान्तरे
वंशीं
विचिन्वन्तामाह
।
हे
तस्करि
!
सा
वंशी
ते
त्वया
क्व
गोपिता ?
॥६८॥
साप्यब्रवीत्तं
विनिवारयन्ती
लब्धैव
चौर्यां
मयि
साद्य
वंशी
।
दिष्ट्या
भवान्पूर्णमनोरथोऽभूद्
गत्वानयैवाह्वय
गोपनारीः
॥६९॥
सा
रूपमञ्जरी
तं
कृष्णं
विनिवारयन्ती
सती
अब्रवीत।
चौर्यां
मयि
सा
वंशी
लब्धैव,
अर्थात्न
लप्स्यत
एव
।
दिष्ट्या
भाग्येनाद्य
भवान्कुचपट्टिकान्तरे
हस्तदानालिङ्गनेन
पूर्णमनोरथोऽभूत।
अथ
त्वं
गत्वा
अनया
वंश्या
एव
गोपनारीराह्वय
॥६९॥
निजाभिमर्शेन
पराङ्गनाततेः
सतीव्रतं
दूषयितुं
त्वमुत्सुकः
।
स्वयं
विनिह्नुत्य
कुतोऽपि
वंशिकां
तन्मार्गणव्याजमुपाश्रितोऽधुना
॥७०॥
निजाभिमर्शेन
स्वस्वालिङ्गनेन
परस्त्रीततेः
सतीव्रतं
दूषयितुं
स्वयं
कुत्रापि
वंशीं
विनिह्नुत्य
सङ्गोप्य
तस्या
वंश्या
अन्वेषणच्छलमुपाश्रितः
॥७०॥
ततो
दृशास्मै
ललितां
प्रदर्श्य
सा
तद्बाहुबन्धाच्छितिलाद्विनिर्गता
।
कृष्णोऽपि
स
स्वागतिशङ्कया
रहस्
तां
कुन्दवल्ल्यर्पितवंशिकां
ययौ
॥७१॥
सा
रूपमञ्जरी
दृशास्मै
कृष्णाय
ललितां
प्रदर्श्य
तस्य
कृष्णस्य
बाहुबन्धान्निर्गताभूदिति
शेषः
।
कीदृशीं ?
स्वस्यां
कृष्णस्यागतिशङ्कया
रह
एकान्ते
कुन्दवल्ल्यामर्पिता
वंशिका
यया
ताम्
।
स
कृष्णोऽपि
तां
ललितां
ययौ
॥७१॥
उपागतं
तं
ललिताह
कोपना
हुं
दूरतस्तिष्ठ
किमर्थमागतः
।
वंशी
यदीयं
मयि
नैव
विद्यते
धार्ष्ट्येन
चेत्तत्फलमाश्ववाप्स्यसि
॥७२॥
हुमिति
शब्दं
कृत्वा
दूरे
तिष्ठ
इति
ललिताह
।
यदीयं
वंशी
मयि
न
विद्यते,
चेत्यदि
धार्ष्ट्येन
आगमिष्यति,
तत्तदा
तस्य
फलं
तूर्णं
प्राप्स्यसि
॥७२॥
चिन्तामणीनां
चयमन्तिके
स्थितं
पदापि
ये
नाभिमृशन्त्यवज्ञया
।
राधासखीभिस्तव
वंशनालिका
किमर्थमाभिर्बत
सा
हृता
शठ
॥७३॥
सा
राधा
सख्यश्चिन्तामणिसमूहं
पदापि
नाभिमृशन्ति
न
स्पृशन्ति,
आभिः
राधासखीभिः
सा
वंशनालिका
किमर्थं
हता
॥७३॥
सच्छिद्रया
नीरसया
कठोरया
ययानिशं
व्याकुलितं
जगत्त्रयम्
।
सा
स्वामिनो
यन्मुरली
कराद्गता
वृत्तं
बहूनां
तदिदं
सुमङ्गलम्
॥७४॥
सच्छिद्रादिदोषयुतया
यया
जगत्त्रयं
व्याकुलितम्,
सा
मुरली
यद्यदि
स्वामिनस्तस्या
मुरल्याः
स्वामिनः
तव
कराद्गता,
तदिदं
बहूनां
सुमङ्गलं
वृत्तम्
॥७४॥
स्वस्थानसन्दानितनीविकुन्तलाः
कुर्वन्तु
कर्माणि
सुखं
गृहेऽबलाः
।
स्वैरं
हरिण्योऽपि
चरन्तु
सप्रियाः
सरन्तु
तूर्णं
सरितः
सरित्पतिम्
॥७५॥
स्वस्य
स्थानेषु
सन्दानिता
बद्धनीव्यः
कुन्तलाश्च
याभिस्तथा
भूत्वा,
अबला
नार्यः
सुखं
यथा
स्यात्तथा
गृहे
कर्माणि
कुर्वन्तु
।
सप्रियाः
सत्यो
हरिण्यः
स्वैरं
यथेष्टं
चरन्तु
तृणादि
खादन्तु
विचरन्तु
वा
।
सरितो
नद्यः
समुद्रं
तूर्णं
गच्छन्तु
।
आसां
मुरलीध्वनिकृतस्तम्भादिविघ्नभावादिति
भावः
॥७५॥
शीतार्तनग्नाम्बुनिमग्नकन्यका
गणस्य
वासांसि
हृतानि
यत्त्वया
।
तेनाचिरात्ते
मुरलीकराद्गता
प्राप्नोति
दुःकं
परदुःकदो
हि
यः
॥७६॥
तप
पापेन
वंशी
गतेत्याह
।
यद्यस्मात्त्वया
शीतेनार्ता
पीडिताश्च
ता
नग्ना
विवस्त्राश्चाम्बुनि
जले
निमग्नाश्चेति
तासां
कन्यानां
गणस्य
वासांसि
हृतानि
तेन
हेतुना
ते
मुरली
गता
यत्तदुचितमेव
हि
यतः
परदुःकदः
स्वयं
दुःखं
प्राप्नोति
॥७६॥
हस्तमात्रायता
शुष्का
सरन्ध्रा
वंशकाष्ठिका
।
हा
हन्त
गोकुलेशस्य
सर्वस्वं
केन
वा
हृतम्
॥७७॥
हस्तपरिमितदीर्घी
तत्रापि
शुष्का
पुनः
सरन्ध्रा
वंशस्य
काष्ठिका
एवंभूतदुर्लभं
गोकुलेशस्य
तव
सर्वस्वं
सर्वसम्पत्तिः
केन
वा
हृतम्
।
हा
हस्तेति
खेदे
अतः
परं
दुःखं
नास्तीत्यर्थः
॥७७॥
व्याजाद्विषण्णमिव
तं
प्रसमीक्ष्य
कृष्णं
सावज्ञहासललितावचनावरुद्धम्
।
श्रीराधिकामनु
निधाय
रहोऽस्य
वंशीं
साकूतमब्रुवत
कुन्दलताभ्युपेत्य
॥७८॥
अवज्ञासहितो
हासो
यत्र
तादृशं
ललितावचनेनावरुद्धं
नियुक्तीकृतं
कृष्णं
समीक्ष्य
कुन्दलता
रहो
निभृतं
राधिकायां
वंशीं
निधाय
तं
कृष्णमभ्युपेत्य
तत्समीपे
आगत्य
व्याजादेव
विषण्णम्,
हा
हा
कृष्णस्य
वंशी
केन
नीतेति
सौहार्दं
दर्शयन्ती
विषादयुक्तं
यथा
स्यात्तथा
साकूतं
साभिप्रायमब्रुवताब्रवीदित्यर्थः
॥७८॥
सच्छिद्रैकवराटिकार्धमपि
यन्मूल्यं
न
सा
जर्जरा
याता
मस्करपर्विका
तव
कराद्यात्वस्तु
ते
मङ्गलम्
।
का
वा
हानिरियं
विषीदसि
कथं
पुत्रोऽसि
गोपेशितुस्
त्वामेता
विहसन्ति
हन्त
मुदिताः
श्रुत्वा
म्रियेऽहं
ह्रिया
॥७९॥
साकूतमिति
यदुक्तं
तदेवाह—
सा
वंशिका
तव
कराद्याता,
यातु
।
तव
मङ्गलमस्तु
।
सा
कथंभूता ?
मस्करपर्विका
मस्करस्य
वंशस्य
पर्विका,
स्वार्थे
कः
।
अल्पार्थे
स्त्रीत्वम्
।
अल्पपर्वा
इत्यर्थः
।
तत्रापि
सच्छिद्रा
।
तत्रापि
तु
जर्जरा
जीर्णा
।
अधिकं
किं
ब्रूमः ?
एकस्या
वराटिकायाः
कपर्दिकाया
अर्धमपि
यस्या
मूल्यं
न
।
एवंभूता
इयं
का
वा
हानिः
कथं
विषीदसि ?
गोपेशितुर्नन्दराजस्य
पुत्रोऽसि
।
हन्त
खेदे
।
त्वामेता
गोप्यो
मुदिताः
सत्यः
त्वां
विहसन्ति
।
श्रुत्वा
ह्रियाहं
म्रिये
।
वंशे
त्वक्सारकर्मारत्वाचिसारतृणध्वजाः
।
शतपर्वा
यवफलो
वेणुमस्करतेजनाः
॥
इत्यमरः
।
पक्षे,
सच्छिद्रेति
वराटिकया
विशेषणमर्थात्वे
सच्छिद्रायाः
काणायाः
एकस्या
वराटिकया
अर्धमित्यर्थः
॥७९॥
सोऽप्याह
तां
कुन्दलतेऽनभिज्ञा
वंशीगुणानां
यदिदं
ब्रवीषि
।
चित्रं
न
तद्यत्स्वगुणः
प्रकाश्यते
यथानयासु
त्वयि
न
क्वचित्तथा
॥८०॥
सः
कृष्णस्तामाह
।
यद्यस्मात्त्वं
वंश्या
गुणानामनभिज्ञा,
अत
इदं
ब्रवीषि
।
तच्चित्रं
न,
यद्यस्मादनया
वंश्या
यथा
आसु
गोपीषु
स्वगुणः
प्रकाश्यते,
तथा
तेन
प्रकारेण
त्वयि
क्वचित्क्वापि
स्वगुणो
न
प्रकाश्यते,
तस्मात॥८०॥
या
या
यदेच्छा
मम
जायतेऽन्तर्
मयाप्यसाध्या
किल
हेलयासौ
।
तदैव
तां
तां
कुरुते
सुसिद्धां
नारायणस्येव
चिदाख्यशक्तिः
॥८१॥
यदा
या
या
मयाप्यसाध्या
इच्छा
ममान्तर्मनसि
जायते,
असौ
मुरली
तां
तामिच्छां
तदैव
हेलया
सुसिद्धां
कुरुते
।
नारायणस्य
चिच्छक्तिरिवेत्यनेन
कृष्णस्येयमपि
चिच्छक्तिरूपा
॥८१॥
सर्वशक्तियुता
सेयं
मम
सर्वार्थसाधिका
।
अलौकिकीं
शक्तिमस्या
विदन्ति
राधिकादयः
॥८२॥
राधिकादय
अस्या
अलौकिकीं
शक्तिं
विदन्ति
जानन्ति
॥८२॥
ललिताह
कथं
वंशीं
न
विद्मः
कुट्टनीनृपाम्
।
इमां
तन्नीतिकुशलां
षिड्गस्य
तव
वल्लभाम्
॥८३॥
कुट्टनीनां
नृपां
राज्ञीम्
।
तन्नीतौ
कुट्टनीनां
नीतौ
कुशलाम्
।
अतः
षिड्गस्य
कामुकस्य
तव
वल्लभां
वंशीं
कथं
न
विद्मः ?
साधु
विद्म
इत्यर्थः
॥८३॥
सुधापारीनारीहृदयकरिवारीयमनिशं
जगद्योषादोषामलसुकृतमोषातिनिपुणा
।
रमागौरीसौरीमुखयुवतिचौरी
त्रिजगति
प्रसिद्धा
सिद्धा
तेऽद्भुतगुणसमृद्धा
मुरलिका
॥८४॥
सिद्धा
ते
तव
मुरलिका
अद्भुतगुणेन
समृद्धा
पूर्णा
।
अद्भुतगुण
इत्यत्र
विपरीतलक्षणया
अद्भुतदोषपूर्णेत्यर्थः
।
अद्भुतगुणमाह—
सुधानां
पारी
पूरः
प्रवाहः
।
पारी
पूरे
च
कर्कर्या
पादरज्जौ
तु
दन्तिनः
।
पूरा
जलप्रवाहे
स्यात्व्रणसंशुद्धिखाद्ययोः
॥
इति
च
मेदिनी
।
तस्य
पात्रममृततुल्यसद्गुणवती
या
नारी
स्त्री
तस्या
हृदयरूपः
करी
हस्ती,
तस्य
वारी
बन्धकरी
।
वारी
तु
गजबन्धनी
इत्यमरः
।
पुनः
कीदृशी ?
अनिशं
सदा
जगति
या
योषा
नार्यस्तासामदोषाणाममलानां
शुद्धानां
सुकृतानां
पुण्यानां
मोषे
चौर्येऽतिनिपुणा
।
मुष
स्तेये
धातुः
।
अन्यस्त्रीणां
का
वार्ता ?
रमादियुवतीनां
चौरी
आकर्षिणी
।
रमादीनां
हृदयस्य
मनसश्चौरी
वेति
पाथः
॥८४॥
अवददथ
स
ललिता
खलु
चण्डी
कुटिलवचनदृढकण्टकदुर्गा
।
अपहरति
च
मुरलीं
मम
शाठ्याद्
बत
परिवदति
च
तामुत
मां
च
॥८५॥
स
कृष्णोऽवदत।
ललिता
चण्डी
भुगा
कुटिलवचनरूपदृष्टिकण्टकेन
दुर्गा
दुर्गमा
मम
मुरलीमपहरति
शाठ्याद्तां
मां
च
परिवदति
॥८५॥
इत्याभाष्य
हरौ
तस्याः
संव्यानान्तं
जिघृक्षति
।
सापसृत्याब्रवीद्भुग्नभ्रूलतं
सस्मिताननम्
॥८६॥
इत्युक्त्वा
तस्या
उत्तरीयवस्त्रान्तं
हरौ
ग्रहीतुमिच्छति
सति
सा
ललिता
भुग्नभ्रूलतं
सस्मिताननं
च
यथा
स्यात्तथाब्रवीत॥८६॥
सैवास्मि
ललिता
कृष्ण
बहुधा
कलिता
त्वया
।
चलिता
वलितालीभिः
शठता
फलिता
न
ते
॥८७॥
हे
कृष्ण
!
सा
प्रसिद्धा
ललिता
ज्ञाता
।
आलीभिर्वलिता
युक्ताहं
चलिता
।
ते
शठता
न
फलिता,
न
फलिष्यति
॥८७॥
इत्युदीर्य
ललितामपयान्तीं
तां
निगृह्य
वसने
स
जगाद
।
वंशिकावितरणं
न
विना
ते
यानमद्य
सुलभं
स्वगृहाय
॥८८॥
स
कृष्णोऽपयान्तीं
तां
ललितामाह
।
वंशीं
न
दत्त्वा
तव
स्वगृहाय
यानं
गमनमद्य
सुलभं
न
।
वसन
इत्यवच्छेदे
सप्तमी
वसनावच्छेदे
तां
गृहीत्वेत्यर्थः
॥८८॥
त्वया
चेन्न
हृता
वंशी
कथं
भीत्या
पलाय्यते
।
शोधयित्वा
निजाङ्गानि
यथेष्टं
गच्छ
तिष्ठ
वा
॥८९॥
मयाङ्गानि
यथेष्टं
शोधयित्वा
दर्शयित्वा
॥८९॥
ततः
सांशुकमाकृष्य
वक्रदृष्ट्याह
वीक्ष्य
तम्
।
अङ्गानि
स्वप्रजावत्याः
काममत्त
विचारय
॥९०॥
वस्त्रं
तस्य
करादाकृष्य
।
हे
काममत्त
!
स्वस्य
प्रजावत्याः
भ्रातृजायायाः
कुन्दवल्ल्याः
अङ्गानि
विचारय
पश्येत्यर्थः
॥९०॥
वंश्यस्माभिर्नैव
नीता
न
दृष्टा
नोज्झस्यौग्र्याच्चेत्तथापि
त्वमस्मान।
दास्ये
मूल्यं
कुन्दवल्लीप्रदिष्टं
तच्चेन्नेष्टं
तत्सदृक्षां
ततोऽन्याम्
॥९१॥
अस्माभिर्वंशी
न
नीता
न
दृष्टा,
तथापि
औग्र्यात्त्वमस्मान्नोज्झसि
न
त्यजसि
।
कुन्दवल्लीप्रदिष्टं
मूल्यं
दास्ये
।
तन्मूल्यं
चेन्नेष्टं
तव
वाञ्छितं
न,
तदा
तत्तस्या
वंश्या
सदृशीमन्यां
वंशपर्विकां
दास्ये
॥९१॥
मल्लीभृङ्ग्यौ
श्रीपुलिन्दात्मजे
नः
सख्यौ
शैलेन्द्रालये
मद्गिरा
ते
।
दास्येते
तेऽजर्जरां
छिद्रमुक्ताम्
आनीयैकां
पर्विकां
कीचकस्य
॥९२॥
पुलिन्दकन्ये
मल्लीभृङ्गीनाम्न्यौ
शैलेन्द्रे
गिरिवरे
गोवर्धने
आलयो
गृहं
ययोस्ते
मद्गिरा
ते
द्वे
जर्जरां
छिद्रैर्मुक्तां
रहितां
च
।
तव
जर्जरायाः
सच्छिद्राया
वंश्या
अपि
उत्तमामित्यर्थः
।
किं
वा,
तव
वंशीव
जर्जरां
छिद्राणि
सन्त्यस्यामिति
अस्त्यर्थेऽच।
छिद्रा
चासौ
मुक्तकार्यमात्रायोग्यत्वात्त्यक्ता
चेति
ताम्
।
कीचकस्य
वंशस्य
एकां
पर्विकामानीय
ते
तुभ्यं
दास्येते
॥९२॥
पुलिन्दानां
कन्या
मयि
परमधन्या
रतियुषस्
तृणाप्तास्मत्पादाम्बुजघुसृणलेपक्षतरुजः
।
गिरेर्गुञ्जाधातून्भृशमुपहरन्ति
स्वसहितान्
मदीयास्ता
दास्यः
कथमु
तव
सख्यः
समभवन॥९३॥
मल्लीभृङ्ग्यौ
नः
सख्याविति
श्रुत्वा,
एता
मम
वंशीमपहृत्य
वनदासीरपि
स्ववशे
नयन्तीति
कातरः
सन्श्रीकृष्ण
आह
।
परमधन्याः
पुलिन्दकन्या
मयि
रतियुषः,
यतस्तृणप्राप्तस्यास्मत्पादाम्बुजघुसृणस्याननकुचेषु
लेपेन
क्षता
नष्टा
रुक्कामजन्यरोगो
यासां
ताः
मदीया
दास्यः
।
उ
भो
ललिते
!
तव
सख्यस्ताः
कथं
समभवन्?
दास्याः
कार्यमाह—
स्वसहितान्गोवर्धनस्य
गुञ्जाधातून्भृशमतिशयेन
उपहरन्ति
मह्यमानीय
ददति
॥९३॥
वंशीं
हरसि
मे
मामप्यवजानासि
यत्ततः
।
निबध्य
दण्डयामि
त्वां
कोऽसौ
रक्षति
रक्षतु
॥९४॥
अवजानासि
अवज्ञाविषयं
करोषि
॥९४॥
ललितां
पृष्ठतः
कृत्वा
विशाखा
तत्पुरःस्थिता
।
नीचैरुपदिशन्तीव
सस्मितं
सा
तमब्रवीत॥९५॥
सा
विशाखा
तं
कृष्णम्
॥९५॥
प्रगतार्थानामर्थो
नष्टोद्देशकसहायतो
लभ्यः
।
युक्त्या
मार्गय
तत्त्वं
नह्यौग्र्येण
क्रियासिद्धिः
॥९६॥
प्रगतोऽर्थो
येषां
तेषामर्थः
नष्टस्य
वस्तुनः
उद्देशकस्य
ज्ञापकस्य
सहायेन
लभ्यो
भवति
।
तद्वस्तु
युक्त्या
त्वं
मार्गय
उद्देशकारिणे
किमपि
धनं
दातुं
निश्चय
इति
भावः
।
तदा
वंशीं
लप्स्यसे
।
तद्विना
औग्र्येण
क्रियासिद्धिर्वशीप्राप्तिर्न
भवितैव
॥९६॥
अवदच्चम्पकवल्ली
नष्टोद्देश्यर्थलोलुपः
सुतराम्
।
वंशैकपर्विकायै
बहुधनहानिः
कथममुना
क्रियताम्
॥९७॥
चम्पकलताह
।
नष्टोद्देशकर्ता
सुतरामतिशयेनार्थलोभी
भवति
।
वंश्यैकपर्विकायै
वंशस्यैकक्षुद्रपर्वार्थममुना
बहुधनहानिः
कथं
क्रियताम्
॥९७॥
तुङ्गविद्याह
मुग्धे
त्वं
मर्मज्ञा
नासि
तच्छृणु
।
वंश्येव
यस्य
सर्वस्वं
किं
न
दद्यात्न
तत्कृते
॥९८॥
तुङ्गविद्याह
।
हे
मुग्धे
!
मूढे
चम्पकलते
!
त्वं
मर्मज्ञा
नासीत्यन्यजने
सम्पृच्छ,
अर्थात्जानीहि,
तत्शृणु
।
तदेव
किं ?
अस्य
सर्वस्वं
वंश्येव
।
स
श्रीकृष्णः
तत्कृते
तदर्थं
वंशीप्राप्त्यै
किं
न
दद्यात्,
यथेष्टं
दद्यादित्यर्थः
॥९८॥
चौरे
नष्टोद्देशकस्य
प्रसादात्
लब्धे
ग्राह्यं
वित्तमात्मीयमादौ
।
पश्चान्नष्टोद्देशिनेऽपि
प्रदातुं
दण्ड्यादस्माद्भूरि
कृत्वेति
नीतिः
॥९९॥
नष्टोद्देशकस्य
प्रसादात्चौरे
लब्धे
सति
दण्ड्यादस्माच्चौरादात्मीयं
वित्तमादौ
ग्राह्यम्,
पश्चान्नष्टोद्देशिने
प्रदातुं
वित्तं
चौरात्भूरि
कृत्वा
ग्राह्यमिति
नीतिः
॥९९॥
विशाखाह
वद
स्वामिन्यन्नष्टोद्देशिने
त्वया
।
देयश्चौरे
तु
यो
दण्डस्तज्ज्ञात्वाख्यामि
ते
हितम्
॥१००॥
विशाखाह
।
हे
द्रव्यस्वामिन्
!
त्वया
नष्टोद्देशिने
यद्देयम्,
चौरे
यो
दण्डो
देयस्तद्वद
।
ज्ञात्वा
ते
हितमाख्यामि
॥१००॥
अङ्गस्रङ्मणिमाले
करमर्दफलं
च
चुम्बकं
रत्नम्
।
परमपि
दास्याम्यस्मै
यो
मे
वंशीं
समुद्दिशति
॥१०१॥
श्रीकृष्ण
आह—
मे
वंशीं
यः
समुद्दिशति,
अस्मै
अङ्गस्य
स्रक्पुष्पमाला
तां
मणिमालां
च
।
श्लेषेण,
अङ्गमेव
स्रग्माला,
तामालिङ्गनम्
।
मणिमालां
नखमणिदन्तमणिमालां
तत्तत्कृतक्षतमालाम्,
करमर्दफलं
कामरङ्गाख्यं
फलम्
।
पक्षे,
कराभ्यां
यो
मर्दः
स्तनयोर्मर्दनं
स
एव
फलं
तत्परमन्यदपि
दास्यामि
॥१०१॥
हर्तुर्हराम्यम्बररत्नभूषणे
तारुण्यरत्नं
च
घटद्वये
स्थितम्
।
दोःपाशबन्धं
स्मरदण्डनाय
तं
निकुञ्जकारामनु
वेशयामि
च
॥१०२॥
वंशीहर्तुर्वस्त्ररत्नभूषणे
घटद्वये
कुचद्वये
स्थितं
तारुण्यरत्नं
च
हरामि
।
स्मरदण्डनाय
दोःपाशबन्धं
तं
निकुञ्जरूपकारागारे
वेशयामि
च
॥१०२॥
साप्याह
योग्यमेवैतत्गोपेन्द्रतनयस्य
ते
।
वंशीं
च
हस्तगां
विद्धि
यत्त्वं
न
कृपणायसे
॥१०३॥
सा
विशाखाह
।
गोपराजपुत्रस्य
तव
एतत्योग्यमेव
।
वंशीं
हस्तप्राप्तां
विद्धि
यद्यदा
त्वं
स्वमुखात्बहुधनवितरणेऽस्मिन्कृपणवन्नाचरसि
॥१०३॥
वंश्युद्देशं
कुन्दवल्ल्येव
साक्षाज्जानात्येकाहं
च
तस्याः
सकाशात।
मय्युद्देशः
क्लेशकारी
कृतः
स्याद्
दत्त्वोत्कोचं
तां
ततः
पृच्छ
यत्नात॥१०४॥
एका
कुन्दवल्ल्येव
वंश्युद्देशं
साक्षाज्जानाति
।
अहं
च
तस्याः
कुन्दवल्ल्याः
सकाशाज्जानामि,
न
तु
साक्षात।
अतः
कृतो
मया
कृतः
कथितोऽयमुद्देशः
मयि
क्लेशकारी
दुःखदः
स्यात।
साक्षाज्ज्ञानाभावान्मम
दुःसाध्यः
स्यादित्यर्थः
।
ततस्तस्यै
कुन्दलतायै
उत्कोचमङ्गस्रगादिकं
दत्त्वा
पृच्छ
॥१०४॥
अथाह
सा
कुन्दलतां
प्रहृष्टा
दिष्ट्यागतस्ते
सखि
लाभदिष्टः
।
उद्दिश्य
वंशीं
निजदेवराय
सुदुर्लभोत्कोचमिमं
गृहाण
॥१०५॥
अथानन्तरं
कृष्णं
कथयित्वा
तदनन्तरं
सा
विशाखा
प्रहृष्टा
सती
कुन्दलतामाह
।
हे
सखि
!
ते
दिष्ट्या
भाग्येन
लाभदिष्ट
आगतः
प्राप्तः
।
कालोद्दिष्टोऽप्यनेहापि
समयोऽपीत्यमरः
॥१०५॥
कुन्दवल्ल्या
विशाखायां
लग्नायां
श्रवसीश्वरी
।
इङ्गितज्ञा
न्यधद्वंशीं
निभृतं
तुलसीकरे
॥१०६॥
कुन्दवल्ल्याः
श्रवसि
कर्णे
विशाखायां
लग्नायां
सत्याम्,
इङ्गितज्ञा
ईश्वरी
राधा
निभृतं
रहसि
वंशीं
तुलसीकरे
न्यधत।
इङ्गितं
हृद्गतं
भविष्यत्तज्जानातीति
सा
॥१०६॥
साकूतं
पश्यति
ततः
कुन्दवल्ल्या
मुखं
हरौ
।
साब्रवीत्तां
विशाखेऽहं
न
चौरं
वेद्मि
ते
शपे
॥१०७॥
कुन्दवल्ल्या
मुखं
हरौ
साकूतं
साभिप्रायं
पश्यति
सति
सा
कुन्दलता
तां
विशाखामाह
।
ते
तव
शपे
शपथं
करोमि
।
शपथार्थे
शपेरात्मनेपदम्
।
चौरमहं
न
वेद्मि
॥१०६॥
जानीयां
चेद्विनोत्कोचमुद्दिशामि
स्वयं
हि
तम्
।
देवृस्वं
यन्ममैव
स्वं
नाहं
यूयं
यथा
पराः
॥१०८॥
यथा
यूयं
परास्तथाहं
न
परा
।
अतोऽहं
जानीयं
तदोत्कोचं
विनापि
तं
कृष्णं
स्वयं
पृच्छां
विनैव
उद्दिशामि
हि
निश्चितम्
।
यत्देवरस्य
धनं
ममैव
धनम्
॥१०८॥
वेत्सि
हि
चौरं
त्वमिह
मुरल्याः
स्वीकुरु
रत्नानि
च
दिश
तत्ताम्
।
यद्यनुकूला
त्वमिह
सखि
स्यास्
तर्हि
च
सा
स्वप्रभुकरगा
स्यात॥१०९॥
हे
सखि
विशाखे
!
त्वं
चौरं
वेत्सि
।
तत्तस्मात्तां
वंशीं
दिश
कथय
।
रत्नानि
स्वीकुरु
।
यदि
त्वमनुकूला
स्याः
भवेस्सा
वंशी
स्वप्रभोः
कृष्णस्य
प्राप्ता
स्यात॥१०९॥
गृहाण
पूर्वमुत्कोचं
वंशिकां
वा
समुद्दिश
।
वंशिकोत्कोचयोर्लाभे
युवयोः
प्रतिभूरहम्
॥११०॥
पूर्वमादौ
उत्कोचं
तुभ्यं
देयं
गृहाण
।
वंशिकां
वा
पूर्वं
समुद्दिश
।
युवयोः
कृष्णस्य
तव
च
वंशिकोत्कोचयोर्लाभेऽहं
प्रतिभूर्मध्यस्थः
।
प्रतिभूर्लग्नकः
स्मृतः
इति
मेदिनी
॥११०॥
कृष्णोऽपि
कुन्दलतिकानयनेङ्गितज्ञः
स्वौत्सुक्यमुत्प्रकटयन्निजवंशिकाप्त्यै
।
पार्श्वागतः
शितकटाक्षशरैः
प्रियायाः
स्तब्धो
भवन्ननुगया
स
तया
बभाषे
॥१११॥
कुन्दलतिकाया
नयनस्येङ्गितज्ञः
स
कृष्णोऽपि
वंशीप्राप्त्यै
स्वस्यौत्सुक्यमुत्कर्षेण
प्रकटयन्सन्प्रियायाः
पार्श्वे
गतः
सन्प्रियायाः
शितैः
शानितैस्तीक्ष्णैः
कटाक्षशरैः
स्तब्धो
भवन्सननुगया
अनुगतया
तया
कुन्दवल्ल्या
कर्त्र्या
बभाषे
तं
कुन्दवल्ल्याभाषतेत्यर्थः
॥१११॥
निजश्यामरसो
वंश्यां
यस्त्वया
न्यस्यतेऽत्र
सः
।
विश्वं
कृष्णरुचिं
कुर्वन्भाति
बिन्दुतया
स्थितः
॥११२॥
यो
निजश्यामरसः
वंश्यां
त्वया
न्यस्यते,
स
श्यामरसो
विश्वं
श्यामरुचिम्,
श्यामे
श्यामरसे
रुचिम्,
याः
श्रुत्वा
तत्परो
भवेद्
[
भा
.
पु
.
१०
.
३३
.
३६
]
इत्युक्तम्
।
त्वद्विषयके
शृङ्गाररसे
रुचिरभिलाषो
यस्य
तथाभूतम्
।
यद्वा,
श्यामकान्तिं
कुर्वन।
अत्र
वक्ष्यमाणे
श्रीराधायाश्चिबुके
बिन्दुतया
स्थितः
सन्भाति
॥११२॥
हृत्वा
ते
राधया
वंशी
बिन्दुच्यावाद्वशीकृता
।
बिन्दुः
स्वचिबुके
लग्नोऽप्यज्ञातत्वान्न
गोपितः
॥११३॥
ते
वंशी
राधया
हृत्वा
बिन्दुच्यावाद्बिन्दोर्भ्रंशात्वशीकृतास्तीति
शेषः
।
यथा
मण्यौषधादियुक्तो
जनः
कस्यापि
वशो
न
भवेत।
तदभावे
जेतःप्रभावादिकमपहाय
परवशः
स्यात।
यथा
अश्वत्थाम्नो
मणौ
हृते
प्रभावहानिरासीत।
तथा
परमौषधिभूतबिन्दौ
गते
वंशी
वशीभवतीति
।
बिन्दुः
स्वस्या
राधायाः
चिबुके
लग्नोऽप्यज्ञातत्वानज्ञानादनया
न
गोपितः
।
वंशी
तु
गोपितेत्यर्थः
॥११३॥
वंश्या
मुद्रां
बिन्दुमेनं
त्वयादौ
दिष्ट्या
दृष्टं
स्वाधरेणाहराशु
।
पश्चाज्जित्वा
न्यायतस्तां
गृहीत्वा
दण्डोत्कोचावप्यमूं
दण्डयोक्तौ
॥११४॥
दिष्ट्या
वंश्या
मुद्रां
वंशीचिह्नमेनं
बिन्दुं
त्वया
दृष्टम्
।
स्वाधरेणाशु
तमाहर
।
पश्चान्न्यायतो
जित्वा
तां
वंशीं
गृहीत्वा
पूर्वं
त्वया
उक्तौ
दण्डोत्कोचावप्यमूं
श्रीराधां
दण्डय
।
हर्तुर्हराम्यम्बरभूषणे
(
१०२
)
इति
त्वदुक्तं
दण्डमस्यां
विरचय
।
अङ्गस्रङ्मणिमाले
(
१०१
)
इत्यादि
त्वदुक्तं
वंश्युद्देशकाय
देयमुत्कोचं
चास्याः
सकाशात्गृहाणेत्यर्थः
॥११४॥
सिद्धैव
सा
मुरलिका
तव
राधिकायां
तां
त्वं
गृहाण
न
हि
वा
मम
नात्र
हानिः
।
उत्कोचमर्थयति
मां
त्वरितं
विशाखा
मुष्यै
प्रतिश्रुतधनं
वितराग्रतो
मे
॥११५॥
तव
सा
मुरलिका
राधायां
सिद्धैव
।
त्वं
तां
वंशीं
गृहाण
वा
ममात्र
हानिर्न
हि
।
इयं
वंशीकोद्देशिनी
विशाखा
यमुत्कोचमर्थयति
प्रार्थयते
।
अमुष्यै
विशाखायै
प्रतिश्रुतधनमुत्कोचं
मेऽग्रतो
वितर
॥११५॥
मुद्रामादौ
वंशिकाया
गृहीत्वा
दास्याम्यस्यै
त्वत्कृतोत्कोचमाशु
।
पश्चाद्वंशीं
दत्तमुत्कोचमेतां
काराकुञ्जे
दण्डयाम्यत्र
रुद्धा
॥११६॥
श्रीकृष्ण
आह—
वंशिकाया
मुद्रां
चिबुकस्थबिन्दुं
गृहीत्वा
अस्यै
विशाखायै
त्वत्कृतोत्कोचमादावाशु
दास्यामि
।
पश्चादेतां
श्रीआमत्र
काराकुञ्जे
रुद्धा
वंशीं
मया
विशाखायै
दत्तमुत्कोचं
च
दण्डयामि
।
एतां
दण्डयित्वा
नयिष्यामि
दण्डे
द्विकर्मकत्वम्
॥११६॥
इति
ब्रुवाणं
दयितान्तिकागतं
कृष्णं
समीक्ष्याधरदंशनोद्यतम्
।
तं
वारयन्ती
ललिता
मृषा
रुषा
मध्यं
तयोरेत्य
जगाद
सस्मितम्
॥११७॥
इति
ब्रुवाणं
दयिताया
निकटमागतं
तस्या
अधरदंशने
उद्यतं
श्रीकृष्णं
समीक्ष्य
ललिता
तयोर्राधाकृष्णयोर्मध्यमागत्य
मृषा
रुषा
तं
सस्मितं
वारयन्ती
राधधरदंशनोद्यमेन
प्रफुल्लवदनं
कृष्णं
वारयन्ती
सती
जगाद
।
सस्मितं
जगाद
क्रियाविशेषणम्
॥११७॥
मित्रार्चना
नाद्य
कृतानयास्याः
क्षतेन
मालिन्यमहो
विधातुम्
।
हठात्प्रवृत्तोऽस्यपयाहि
किं
ते
भीतिर्न
देवान्न
च
लोकधर्मात॥११८॥
अनया
अद्य
सूर्यपूजा
न
कृता
।
अस्या
दन्तदशनजन्यक्षतेन
हठात्मालिन्यं
विधातुं
प्रवृत्तोऽसि
।
अपयाहि
।
तव
लोकधर्माद्देवधर्माच्च
भीतिर्न
हि
किं ?
॥११८॥
हरिस्तामाह
हे
राधे
मद्दन्तानां
ममापि
न
।
दोषोऽयं
किन्तु
ते
बिन्दुर्यद्बहिः
प्रकटं
धृतः
॥११९॥
चिबुकमनु
वसन्नप्येष
बिन्दुर्भयात्ते
परिचितनिजमित्रं
मां
समीपे
समीक्ष्य
।
सपदि
दशनदुर्गे
सम्प्रविष्टोऽस्य
सङ्गाच्
छशिमुखि
दशना
मे
दंशनास्ते
बभूवुः
॥१२०॥
(
युग्मकम्
)
इति
ललिताया
निवारणं
श्रुत्वा,
हरिस्तां
राधामाह—
हे
राधे
मम
दन्तानां
ममापि
न
दोषः
।
यद्यस्मात्त्वया
बहिः
प्रकटं
बिन्दुर्धृतः
॥११९॥
इति
ब्रुवन्बलात्कारेणाधरपानं
कुर्वन्बिन्दुं
प्रलोप्य
तामाह—
हे
शशिमुखि
!
ते
तव
चिबुकमनु
चिबुके
साधु
वसन्नप्येष
बिन्दुः
।
परिचितनिजमित्रं
मां
समीपे
दृष्ट्वा
भयात्त्वद्भयात्सपदि
तत्क्षणात्दशनदुर्गे
मे
मुखे
प्रविष्ट
आसीदिति
शेषः
।
स्वमाधुर्येण
मम
दशानान्चुचुम्बिषून्कृतवानित्यर्थः
।
अतो
अस्य
बिन्दोः
सङ्गात्,
अर्थात्गुणात्सकाशान्मे
दशना
दन्ता
निपातितत्वाद्धात्वर्थरहिता
दंशना
बभूवुः
।
अनिपातितत्वात्धात्वर्थसहिता
बभूवुः
।
बिन्दुयोगात्दशना
दंशना
भूत्वा
ददंशुरित्यर्थः
॥१२०॥
तां
कुन्द्वल्ल्याह
सुचित्रकाव्ये
व्यदर्शि
बिन्दुच्युतके
स्वशक्तिः
।
त्वयेर्षया
साभ्यधिकामुनापि
बिन्द्वागमे
तत्र
कवीश्वरेण
॥१२१॥
कुन्दवल्ली
तां
राधामाह—
हे
श्रीराधे
!
बिन्दुच्युतके
बिन्दुना
च्युतं
समासार्थे
कः,
अर्थाच्च्युतो
बिन्दुर्यत्र
।
सुचित्रकाव्ये
वंश्या
वशीकरणे
तया
कवीश्वर्या
स्वशक्तिः
स्वस्याः
कविशक्तिरभ्यधिका
दर्शिता
।
अमुना
कवीश्वरेण
कृष्णेनापि
ईर्ष्यया
बिन्द्वागमे
बिन्दोरागमो
यस्मिन्तथाभूते,
तत्र
सुचित्रकाव्ये
दशनानां
दंशनीकरणे
सा
स्वशक्तिः
स्वकविशक्तिरभ्यधिका
दर्शिता
॥१२१॥
विवृतस्वगुणोत्कर्षे
गुणिनि
गुणज्ञा
न
दोषमायान्ति
।
प्रीणन्त्यस्मिंस्तस्मान्
मण्डय
मणिमालया
त्वममुम्
॥१२२॥
विवृतो
व्यक्तीकृतः
स्वगुणस्योत्कर्षे
येन
तस्मिन्गुणिनि
जने,
गुणज्ञा
जना
दोषं
नायान्ति,
प्रत्युत
अमुष्मिन्गुणिनि
प्रीणन्ति
।
तस्मात्त्वममुं
कृष्णं
मणिमालया
मण्डय
।
मणिमाला
स्मृता
हारे
स्त्रीणां
दन्तक्षतान्तरे
इति
विश्वः
॥१२२॥
देवरशिशिरगुणैर्यत्
सम्प्रति
सखि
कुन्दवल्लि
फुल्लासि
।
स्वदशनकुसुमैः
पूजय
तदधरमरुणं
त्वमेवास्य
॥१२३॥
इति
श्रुत्वा
श्रीराधाह—
हे
सखि
कुन्दवल्लि
!
देवरस्य
शिशिरगुणैर्यत्सम्प्रति
फुल्लासि
तत्तस्मात्त्वमस्य
श्रीकृष्णस्यारुणमधरं
स्वदशनकुसुमैः
पूजय
॥१२३॥
रुष्टेव
कुन्दलतिकावददच्युतं
सा
सेयं
हरेऽतिमुखरा
मुखरासुनप्त्री
।
एषा
सदैव
ललिता
प्रखरा
त्वया
सा
लभ्या
कथं
नु
मुरली
मृदुभीरुणात्र
॥१२४॥
सा
कुन्दलतिका
रुष्टेव
अच्युतमवदत।
नु
भोः
हे
हरे
सेयं
मुखरायाः
सुष्ठु
नप्त्री
श्रीराधा
यतोऽतः
अतिमुखरा
।
एषा
ललिता
सदैव
प्रखरा
मृदुभीरुणा
कोमलेन
तत्रापि
भयालुना
त्वया
सा
मुरली
अत्र
कथं
लभ्या
अर्थात्त्वं
चेत्प्रगल्भः
स्यास्तदा
मुरली
लप्स्यसे
अन्यथा
न
॥१२४॥
एताः
प्रगल्भाः
कुटिला
बह्व्यस्त्वं
मृदुरेकलः
।
संरक्ष्य
वस्त्रालङ्कारं
तदितः
स्वसखीन्व्रज
॥१२५॥
एता
गोप्यः
प्रगल्भाः
तत्रापि
कुटिला
बह्व्यश्च
।
त्वं
मृदुस्तत्राप्येकलः
।
मुरली
गतैव
।
वस्त्रालङ्कारमपि
संरक्ष्य
इतो
गोचारणार्थं
सखीन्व्रज
॥१२५॥
परपुरुषगृध्नुचित्ता
धर्माधर्मगविचाररहिताश्च
।
मामपि
तन्निजसङ्गे
कृतार्थयितुमुद्यता
एताः
॥१२६॥
परपुरुषेषु
गृध्नूनि
अभिकाङ्क्षकानि
चित्तानि
यासां
ताः
।
धर्माधर्मगेषु
धर्मोऽयमधर्मोऽयमिति
विचारेषु
रहिताश्च
ताः
मामपि
तस्मान्निजसङ्गे
कृतार्थयितुं
सदृशीकृत्य
प्रवेशयितुमुद्यताः
॥१२६॥
यासां
स्वधर्मनिष्ठानां
साध्वीनाममलात्मनाम्
।
बालेन
देवरेणापि
सम्भाषणमसाम्प्रतम्
॥१२७॥
ता
नः
संदूषयन्त्येता
दुरुक्त्या
यामि
तद्गृहम्
।
दत्त्वा
मोचय
मां
बन्धाद्विशाखायै
प्रतिश्रुतम्
॥१२८॥
(
युग्मकम्
)
यासां
मल्लक्षणानां
स्वधर्मनिष्ठात्वादियुक्तानां
प्रतिश्रुतमुत्कोचं
दत्ता
मां
बन्धान्मोचय
॥१२८॥
ततो
हसन्नाह
हरिविशाखाम्
एह्येहि
रत्नानि
गृहाण
साध्वि
।
इतीरयंस्तां
परिषष्वजेऽसौ
सख्यो
हसन्त्यः
परिवव्रुरेनम्
॥१२९॥
ततस्तच्छ्रवणानन्तरमसौ
श्रीकृष्णः
विशाखामाह
।
विशाखे
त्वमेहि
इति
ईरयन्तां
विशाखां
परिषष्वजे
।
सख्य
एनं
कृष्णं
परिवव्रुः
॥१२९॥
ताभिस्तदास्मिन्कलहायमाने
कोलाहले
प्रोच्छलिते
च
राधा
।
प्रयत्नसन्मूकितभूषणा
सा
प्रविश्य
कुञ्जान्तरभून्निलीना
॥१३०॥
तदा
ताभिः
सखीभिः
सह
अस्मिन्कृष्णे
कलहायमाने
कोलाहले
च
प्रोच्छलिते
च
प्रयत्नेन
सम्मूकितानि
निःशब्दीकृतानि
भूषणानि
यया
सा
राधा
कुञ्जमध्ये
प्रविश्य
निलीनाभूत॥१३०॥
तावत्सशङ्का
तुलसी
तु
वंशीं
वृन्दान्वितं
कुञ्जमगाद्गृहीत्वा
।
वृन्दाप्युपादाय
करात्ततोऽस्या
निधाय
वंशीं
हृदि
तामवादीत॥१३१॥
तावत्तुलसी
सशङ्का
सती
वंशीं
गृहीत्वा
वृन्दान्वितं
कुञ्जमगात।
वृन्दा
चास्याः
करात्वंशीमुपादाय
करात्तां
वंशीं
सुहृदि
निधायावादीत॥१३१॥
वंशोत्तंसा
वंशिकेऽसि
त्वमेका
सद्वंशानां
क्षुद्रवंशोद्भवापि
।
या
लीलानां
हेतुरेतादृशीनां
आसीद्राधाकृष्णयोरद्भुतानाम्
॥१३२॥
हे
वंशिके
!
सद्वंशानां
मध्ये
क्षुद्रवंशोद्भवापि
त्वमेका
वंशोत्तंसा
वंशश्रेष्ठासि
।
या
त्वं
राधाकृष्णयोरेतादृशीनामद्भुतानां
लीलानां
हेतुरासीद॥१३२॥
ततः
सखीहासविलोलनेत्रा
सगद्गदं
कृष्णमधिक्षिपन्ती
।
तद्बाहुबन्धान्निविडात्प्रयत्नात्
निर्गत्य
रोषादवदद्विशाखा
॥१३३॥
विशाखा
सगद्गदं
कृष्णमधिक्षिपन्ती
आक्षेपं
कुर्वती
निविडात्कृष्णबाहुबन्धान्निर्गत्य
रोषादवदद॥१३३॥
न
स्मः
स्वीयास्त्वत्कृतौ
वा
सहाया
ग्राह्यं
वित्तं
ते
कथं
नः
परस्य
।
तस्मादर्थोद्देशिकायै
निजायै
देह्येतत्त्वं
भ्रातृपत्न्यै
शठेश
॥१३४॥
हे
शठेश
!
तव
वयं
स्वीया
न
स्मः
न
भवामः
।
त्वत्कृतौ
तव
कार्ये
सहायाश्च
न
।
परस्य
ते
वित्तं
नोऽस्माकं
कथं
ग्राह्यं ?
तस्मात्त्वं
निजायै
भ्रातृपत्न्यै
एतदालिङ्गनरूपं
वित्तं
देहि
॥१३४॥
कुन्दालि
त्वं
किं
प्रगल्भापि
मुग्धा
जाताकस्माद्यत्स्वदेवुर्धनं
स्वम्
।
हित्वा
मौग्ध्यादन्यदीयं
चिकीर्षुर्
मालिन्यं
नस्तेन
किं
वा
करोषि
॥१३५॥
हे
कुन्दालि
!
त्वं
प्रगल्भापि
अकस्मात्किं
कथं
मुग्धा
जाता ?
यत्स्वं
स्वकीयं
स्वदेवुः
स्वदेवरस्य
धनं
हित्वा,
मौग्ध्यात्तद्धनमन्यदीयं
कर्तुमिच्छुः
सती,
तेन
धनेन
नोऽस्माकं
मालिन्यं
किं
वा
करोषि ?
॥१३५॥
तामब्रवीत्कुन्दलता
विशाखे
ददात्यसौ
वो
वरसुद्विजाभ्यः
।
धनं
वदान्यो
निजधर्मवृद्ध्यै
निषिद्ध्य
पापं
किमहं
विदध्याम्
॥१३६॥
कुन्दलता
तामाह
।
हे
विशाखेऽसौ
वदान्यो
दाता
कृष्णः
।
वरं
सुद्विजाभ्यः
वराः
सुष्ठु
द्विजाः
दन्ताः
यासां
ता
एव
।
श्लेषेण
उत्कृष्टाः
सुब्राह्मण्यस्ताभ्यः
वो
युष्मभ्यं
धनं
ददाति
निषिद्धाहं
किं
पापं
विदध्यां
करोमि
॥१३६॥
चेत्प्रीतिदानमस्येदं
किं
भीताः
स्थः
प्रतिग्रहात।
गृहीत्वा
द्विगुणं
कृत्वा
यूयं
वितरताचिरात॥१३७॥
अस्य
कृष्णस्य
चेदिदं
प्रीत्या
दानम्
।
प्रतिग्रहात्किं
भीताः
स्थः ?
गृहीत्वा
यूयं
द्विगुणं
कृत्वा
वितरत
॥१३७॥
चित्राब्रवीद्धनमिदं
निजवेतनत्वात्
स्वीयं
सखि
त्यजसि
किं
परकीयबुद्ध्या
।
आढ्यास्यनेन
न
कृतिस्तव
चेत्स्वसख्यै
स्वस्याग्रतः
सपदि
दापय
कुन्दवल्ल्यै
॥१३८॥
एतच्छ्रुत्वा
चित्राह
।
इदं
धनं
निजवेतनत्वात्स्वीयं
परकीयबुद्ध्या
किं
त्यजसि
।
अनेन
धनेन
त्वमाढ्यासि
पूर्णासि
।
चेद्यदि
तव
हृतिः
कार्यं
न
।
तदा
स्वस्याग्रतः
सख्यै
कुन्दवल्ल्यै
सपदि
दापय
॥१३८॥
पुनः
कौन्द्यब्रवीच्चित्रे
स्वरत्नं
दीयतेऽमुना
।
नाङ्गीकुरुत
चेत्कास्य
हानिस्तत्स्वगृहे
स्थितम्
॥१३९॥
हे
चित्रे
अमुना
कृष्णेन
स्वस्य
रत्नं
दीयते
।
यूयं
नाङ्गीकुरुत
चेतस्य
कृष्णस्य
का
हानिः ?
तद्रत्नं
कृष्णस्य
गृहे
स्थितं
भवतु
॥१३९॥
कृष्णादानं
प्रदानं
ते
क्षुद्रास्वेतासु
नोचितम्
।
सुकलः
सुकलायां
त्वं
राधायां
तत्तदाचर
॥१४०॥
हे
कृष्ण
!
एतासु
क्षुद्रासु
ते
आदानं
प्रदानं
च
नोचितम्
।
सुकलः
दातृभोक्ता
सुकलायां
राधायां
तत्तदादानप्रदानमाचर
।
तस्यादानं
त्वं
भुङ्क्ष्व
।
स्वदानं
तां
भोजय
इत्यर्थः
।
सुकलो
दातृभोक्तरीत्यर्थः
॥१४०॥
अन्विष्य
तामथ
दृशा
हरिरप्यपश्यन्
कुत्राप्युवाच
ललितां
क्व
नु
गोपितासौ
।
चौरी
त्वया
कुटिलया
स्वसखी
पुरो
मे
आनीयतामितरथा
त्वमिहासि
दण्ड्या
॥१४१॥
हरिर्दृशा
तां
राधामन्विष्य
कुत्राप्यपश्यन्ललितामुवाच
।
नु
भो
ललिते
!
असौ
चौरी
स्वसखी
तव
सखी
राधा
कुटिलया
त्वया
कुत्र
गोपिता ?
मे
पुरोऽग्रे
आनीयताम्
।
इतरथा
नानीतासि
चेत्त्वमिह
दण्ड्यासि
॥१४१॥
साप्याह
प्रतिभूर्नाहं
का
जानाति
क्व
सा
गता
।
कुरु
राज्यं
तयात्र
त्वं
योग्यया
याम्यहं
गृहम्
॥१४२॥
सा
ललिताह
।
प्रतिभूः
साक्षिणी
नाहम्
।
लग्नकः
प्रतिभूर्साक्षी
इत्यमरः
।
सा
क्व
गता ?
का
जानाति ?
अत्र
योग्यया
तव
राज्यकरणयोग्यया
तया
सह
त्वं
राज्यं
कुरु
।
अहं
गृहं
यामि
॥१४२॥
एकाब्रवीत्सा
स्वगृहं
प्रयाता
पराब्रवीत्सूर्यसमर्चनायै
।
अन्याब्रवीन्मानसजाह्नवीं
ते
स्पृष्टापवित्रा
पुनराप्लवाय
॥१४३॥
एका
सखी
अब्रवीत्सा
राधा
स्वगृहं
प्रयाता
।
पराह
सूर्यपूजायै
।
अन्याह
ते
त्वया
स्पृष्टा
अतोऽपवित्रा
भूत्वा
पुनः
स्नानाय
मानसगङ्गां
प्रयाता
॥१४३॥
इत्यालीभिः
प्रलब्धोऽसौ
पश्यन्कुन्दलताननम्
।
तया
दृशा
निकुञ्जाय
प्रेरितस्तं
प्रविष्टवान॥१४४॥
आलीभिः
प्रलब्धो
हसितोऽसौ
कृष्णः
कुन्दलताननं
पश्यन्,
तया
कुन्दलतया
दृशा
निकुञ्जाय
प्रेरितस्तं
निकुञ्जं
प्रविष्टवान॥१४४॥
तस्मिन्प्रविष्टेऽथ
निकुञ्जगह्वरं
चतुर्षु
सख्योऽथ
सकुन्दवल्लिकाः
।
बद्ध्वा
लतापाशचयैः
कवाटिका
द्वारेषु
कुञ्जाङ्गन
एव
ताः
स्थिताः
॥१४५॥
निकुञ्जगह्वरं
तस्मिन्कृष्णे
प्रविष्टे
सति,
सकुन्दलतिकाः
सख्यो
लतापाशसमूहैश्चतुर्षु
द्वारेषु
कवाटिका
बद्ध्वा
कुञ्जाङ्गने
ताः
सख्यः
स्थिताः
॥१४५॥
कान्तं
वीक्ष्यान्तिकायान्तं
सापसर्तुं
कृतोद्यमा
।
अलब्धनिर्गमा
द्वार्षु
तल्पं
नीतामुना
बलात॥१४६॥
सा
राधा
अपसर्तुं
कृतोद्यमा
द्वार्षु
अलब्धनिर्गमा
अमुना
कृष्णेन
बलात्तल्पं
नीता॥१४६॥
स्मरदावप्रतप्तोऽसौ
राधां
सुरतरङ्गिणीम्
।
रहो
लब्ध्वा
यथावाञ्छं
रेमे
कृष्णमतङ्गजः
॥१४७॥
स्मररूपदावानलेन
प्रतप्तोऽसौ
कृष्णमतङ्गजः
राधारूपगङ्गां
रहो
निर्जने
लब्ध्वा
यथावाञ्छं
यथेच्छं
तस्यां
रेमे
॥१४७॥
नीवीकञ्चुकमुक्तिरोधविचलद्दोरुत्स्वनत्कङ्कणा
वंशीं
मे
दददेह्यलं
ममममामेत्युल्लसद्गद्गदाः
।
तारुण्यादिधनात्मसात्कृतिसुसंरक्षोद्गतव्यग्रता
उद्यद्धार्ष्ट्यभटापसारितधृतिह्रीवामताद्यालयः
॥१४८॥
आविर्भूतमिथोऽतिपौरुषलसद्गाढप्रयोगोत्सवाः
सीत्काराञ्चितकण्ठकूजितसरत्पीयूषधारोत्कराः
।
अन्योऽन्याग्रहनर्मपूर्वककृताकल्पादिशोभा
द्वयो
राधामाधवयोर्जयन्ति
मधुराः
कुञ्जे
रहःकेलयः
॥१४९॥
राधामाधवयोर्कुञ्जे
मधुराः
केलयः
जयन्ति
।
कीदृश्यः
केलयः ?
नीवीकञ्चुकयोः
कृष्णकर्तृकमुक्त्यां
मोचने
राधाकृतरोधे
विचलद्दोर्षुः
भुजासु
उत्स्वनन्ति
उच्चैः
शब्दायमानानि
कङ्कणानि
करभूषणानि
यासु
ताः
।
वंशीं
मे
देहि
इत्युक्ते
कृष्णस्य
कन्दर्पावेशेन
स्वरभङ्गात्दददेहीति
दकाराधिक्यम्
।
वंशी
मयि
नास्तीत्यर्थे
मामेत्युक्ते
श्रीराधायाश्च
ममम
मा
मेत्य्मकाराधिक्यम्
।
इत्यलमुल्लसन्तो
गद्गदाः
वचनस्खलनानि
यासु
ताः
।
तारुण्यादिधनानां
श्रीराधाकृतस्वकीयतत्सर्वरक्षणे
च
उद्गता
व्यग्रता
यासु
ताः
।
उद्यद्धार्ष्ट्यमेव
भटः
सेनापतिस्तेनापसारिता
दूरीकृता
धृतिह्रीवामतादय
एवालयः
सख्यो
यासु
ताः
।
तत
आविर्भूतो
मिथोऽतिपौरुषेण
लसद्गाढप्रयोगेषूत्सवो
यासु
ताः
।
सीत्कारेण
व्यथयेव
नायिकाकृतजैह्व्यदन्तधनिना
अञ्चिताया
युक्तायाः
कण्ठकूजितरूपसरत्पीयूषधाराया
उत्करो
निचयो
यासु
ताः
।
अन्योऽन्यग्रहेण
नर्मपूर्वककृता
आकल्पादिशोभा
नखचिह्नादिभूषा
यासु
ताः
रहःकेलयः
॥१४९॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे
श्रीरघुनाथदासकृतिना
श्रीजीवसङ्गोद्गते
।
काव्ये
श्रीरघुनाथभट्टविरजे
गोविन्दलीलामृते
सर्गोऽगाद्दशमस्तदालिसुखकृन्मध्याह्नलीलामनु
॥ओ॥
अत्र
काकाक्षिगोलकन्यायेन
भट्टशब्दस्य
उभयत्राप्यन्वयः
।
तथा
च
रघुनाथभट्टो
भट्टवरो
गोपालभट्टाभ्यां
जाते
आदौ
स्वल्परूपेण
निर्मिते
।
पश्चात्कृष्णदासकविराजेन
विस्तारिते
इत्यर्थः
।
इति
गोविन्दलीलामृते
तत्प्रसिद्धः
श्रीकृष्ण
आलीनामाल्याः
श्रीराधायाश्च
सुखकृत्यत्र
स
मध्याह्नलीलायां
दशमः
सर्गः
समाप्तोऽभूत॥१५०॥
॥१०॥
.
(
११
)
एकादशः
सर्गः
श्रीराधातनुवर्णनम्
नान्दीमुखीमनुसृताथ
सभां
सखीनाम्
आगत्य
तां
मुरलिकां
हृदि
निह्नुवाना
।
वृन्दाब्रवीत्क्व
नु
गतौ
व्रजकाननेशौ
सख्यो
निवेद्यमिह
नावनयोः
पदेऽस्ति
॥१॥
अथानन्तरं
वृन्दा
तां
मुरलिकां
हृदि
निह्नुवाना
गोपयन्ती
सती
नान्दीमुखीमनुसृता
नान्दीमुखीसहिता
सती,
सखीनां
सभामागत्य
अब्रवीत।
हे
सख्यः
!
व्रजवनेशौ
राधाकृष्णौ
क्व
कुत्र
गतौ ?
अनयोः
राधाकृष्णयोः
पदे
नौ
आवयोर्निवेद्यमस्ति
॥१॥
ता
ऊचुरेतौ
स्मरसार्वभौम
पार्श्वं
प्रयातौ
कलहायमानौ
।
किं
तन्निवेद्यं
वद
तत्
सुगोप्यं
चेद्गच्छतं
निष्कुतपट्टगेहम्
॥२॥
ता
सख्य
ऊचुः—
एतौ
राधाकृष्णौ
कलहायमानौ
कन्दर्पराजपार्श्वं
प्रयातौ
।
युवां
तन्निवेद्यं
वद
तम्
।
सुगोप्यं
चेन्निष्कुतपट्टगेहं
निष्कुटे
कृष्णक्रीडालययुक्तारामे
अत्र
वने
उत्तमकुञ्जगृहं
गच्छतम्
।
गृहारामास्तु
निष्कुटाः
इत्यमरः
॥२॥
वृन्दाह
नैतद्भवतीषु
गोप्यं
राधामनःप्राणवपुःसमासु
।
निवेदनीयं
सचिवास्ववश्यं
किन्त्वीशयोः
सन्निधिराजितासु
॥३॥
श्रीराधायां
मनऽदिसमासु
सचिवासु
अन्तरङ्गासु
अमात्यासु
भवतीषु
एतद्गोप्यं
न
।
किन्तु
ईशयोः
राधाकृष्णयोः
सन्निधिगतासु
सतीषु
निवेदनीयम्
॥३॥
क्रीडावसानमवधार्य
ततः
समन्ताद्
द्रष्टुं
तयोर्निधुवनान्तविलासमुत्काः
।
आगत्य
कुञ्जमनु
मुक्तकवाटबन्धाश्
छिद्रेषु
दत्तनयनाः
परितः
स्थितास्ताः
॥४॥
ततस्ताः
सख्यस्तयो
राधाकृष्णयोः
क्रीडासमाप्तिं
ज्ञात्वा
निधुवनस्य
रहस्यलोलायाः
अन्ते
यो
विलासस्तं
द्रष्टुमुत्सुकाः
सत्य
आगत्य
मुक्तकवाटबन्धाः,
मुक्ताः
कवाटबन्धाः
कुञ्जगृहस्य
चतुर्दिक्षु
वलयाकृतेश्चतुष्कोणाकृतेर्वा
आवरणभित्तेश्चतुर्द्वारयुक्तानां
चतुर्णां
कवाटानां
बन्धाः
स्वकृतलतापाशनिविडबन्धनानि
याभिस्ताः
।
कुञ्जमनु
कुञ्जे
छिद्रेषु
दत्तनयनह।
परितश्चतुर्दिक्सु
स्थितह॥४॥
आम्रेडितः
स्वाङ्गविभूषणाय
तत्कर्तुं
प्रवृत्तोऽप्यनया
निवारितः
।
समुच्छलद्विभ्रमया
तदप्यमुं
विभूषयन्नास
तया
स
भूषितः
॥५॥
अनया
श्रीराधया
स्वस्याः
अङ्गविभूषणाय
आम्रेडितः
द्विस्त्रिरुक्तः
।
श्री
श्रीकृष्णः
तत्तदङ्गभूषणं
कर्तुं
प्रवृत्तोऽप्य्समुच्छलद्विभ्रमया
अनया
राधया
निवारितः
।
तदपि
अमुं
राधां
विभूषयन्,
तया
राधया
भूषित
आस
॥५॥
स
पुण्डरीकाच्छदलेऽथ
कौङ्कुम
द्रवेण
काञ्चित्प्रतिलिख्य
पत्रिकाम्
।
दधच्छिरोवेष्टनके
स्वके
प्रियाम्
उत्तिष्ठ
यावो
बहिरित्यभाषत
॥६॥
स
श्रीकृष्णः
पुण्डरीकस्य
श्वेतकमलस्य
अच्छदले
निर्मलपत्रे
कुङ्कुमस्य
द्रवेण
काञ्चित्पत्रिकां
प्रतिलिख्य
स्वके
स्वीये
शिरोवेष्टने
मस्तकबन्धनवस्त्रे
दधत्सन।
हे
राधे
त्वमुत्तिष्ठ
आवां
बहिर्याव
इति
प्रियां
राधामभाषत
॥६॥
सखीत्रपाकुण्ठितनिर्गमेच्छां
चौरीमिव
न्यायजितां
गृहीत्वा
।
करे
बलात्फुल्लविलोचनोऽसौ
कुञ्जालयात्प्राङ्गणमाससाद
॥७॥
सखीभ्यो
या
त्रपा
लज्जा
तया
कुण्ठिता
निर्गमणेच्छा
यस्यास्तां
राधां
न्यायजितां
चौरीमिव
बलात्कारेण
गृहीत्वा
फुल्लविलोचनोऽसौ
कृष्णः
कुञ्जगृहात्प्राङ्गणमगमत।
चौरीमिव
इत्यत्र
दृष्टान्तस्तु
स्थूलओ
अधीनांश
एव
।
सूक्ष्मतमस्तु
रहस्यलीलायाश्चौर्याद्यंशे
॥७॥
सङ्कुचत्फुल्लनयनौ
प्राणप्रेष्ठौ
पुरःस्थितौ
।
हृष्यन्त्यः
परिवार्याल्यः
सखीमाहुः
ससम्भ्रमम्
॥८॥
सङ्कुचन्ती
नयने
यस्याः
।
फुल्ले
नयने
यस्य
तौ
पुरःस्थितौ
प्राणप्रेष्ठौ
राधाकृष्णौ
हृष्यन्त्यः
सख्यः
परिवार्य
ससम्भ्रमं
यथा
स्यात्तथा
सखीं
राधामाहुः
॥८॥
मुञ्चन्त्या
नः
कुत्र
यातं
भवत्या
नास्माभिश्चान्विष्य
लब्ध्वा
कुतोऽपि
।
धृष्टेनासीत्क्वामुना
वा
प्रसङ्गो
जातास्मात्ते
भाग्यतो
नाभिभूतिः
॥९॥
नोऽस्मान्मुञ्चन्त्या
भवत्या
कुत्र
यातमस्माभिश्चान्विष्य
कुत्रापि
न
लब्धा
त्वम्
।
धृष्टेनामुना
क्व
प्रसङ्ग
आसीत।
अस्मात्कृष्णात्तेऽभिभूतिः
पराभवो
भाग्यान्नाभूत॥९॥
निशम्य
तासां
परिहासभङ्गीं
निशाम्य
चासौ
रतिलक्षणानि
।
कान्तं
निजालीः
प्रति
सूचयन्तं
ह्रियेर्ष्यया
चोच्चलिता
तदासीत॥१०॥
तदासौ
राधा
तासां
सखीनां
परिहासभङ्गीं
निशम्य
श्रुत्वा
निजालीः
प्रति
रतिलक्षणानि
सूचयन्तं
कान्तं
निशाम्य
दृष्ट्वा
ह्रिया
सखीनां
परिहासजन्यया
ईर्ष्यया
कृष्णेन
रतिलक्षणसूचनजन्यया
च
उच्चलिता
आसीत॥१०॥
कान्तं
हसन्तं
कुटिलीकृतभ्रूश्
चलाधरा
गद्गदरुद्धकण्ठी
।
सा
तर्जनीचालनया
ततर्ज
स्वालीर्
हसन्तीरवदच्च
भङ्ग्या
॥११॥
सा
राधा
हसन्तं
कान्तं
तर्जन्यङ्गुलीचालनया
ततर्ज
हसन्तीः
स्वसखीरवदत॥११॥
गृहोन्मुखीं
कर्षथ
वस्त्रकर्षं
लीनां
क्वचित्सूचयथाश्वमुष्मै
।
सङ्गे
स्थितां
खेदयथामुना
मां
सङ्गः
कथं
वोऽथ
मया
विधेयः
॥१२॥
किमाह ?
मया
वो
युष्माकं
सङ्गः
कथं
विधेयः
।
गृहोन्मुखीं
गृहे
गन्तुमुद्यतां
मां
वस्त्रकर्षं
कुर्वथ
।
वस्त्रे
गृहीत्वा
कर्षथेति
लीनां
माममुष्मै
कृष्णाय
आशु
सूचयथ
।
सङ्गे
स्थितां
माममुना
कृष्णेन
खेदयथ
॥१२॥
अथ
श्रीमन्महाप्रभोः
कृपया
कविकर्णपूरगोस्वामिकृतालङ्कारकौस्तुभाख्यग्रन्थे
यानि
अलङ्कारलक्षणाणि
तानि
अस्मिन्ग्रन्तेहुत्थाप्य
तदनुसारेण
एतत्ग्रन्थोक्तालङ्काराणां
व्याख्या
कर्तव्या
।
अलङ्काराणां
मध्ये
यदलङ्कारमादौ
प्राप्स्यामि
तदलङ्कारस्य
व्याख्या
तत्रैव
कर्तव्या
।
पश्चात्तदनुसारेण
तदलङ्कारस्यार्थज्ञानं
भविष्यति
।
पुनरपि
यत्र
श्लोके
लिखितालङ्कार
आयास्यति
।
तत्र
झटिति
तल्लक्षणस्य
प्राप्त्यर्थं
यस्मिन्श्लोके
तल्लक्षणं
व्याख्या
चास्ति,
तस्य
श्लोकस्याङ्को
देयः
।
लक्षणस्य
व्याख्याने
यत्र
ग्रन्थकर्तुर्व्याख्या,
तत्र
अस्यार्थ
इति
शब्दो
देयः
।
यत्र
मत्प्रभुश्रीकृष्णदेवसार्वभौमभट्टाचार्यठक्कुरकृतव्याख्या
।
तत्र
अस्य
टीका
इति
शब्दो
देयः
॥
युष्माभिरीरितसुमत्तभुजङ्गवर्यान्
मां
चञ्चलात्सपदि
कण्टकवल्लिसख्यः
।
स्पर्शोत्सुकादपसृतां
चकितां
रुरुक्षुः
कुञ्जाश्च
रक्तसितसच्छतपत्रिकाश्च
॥१३॥
(
व्याजोक्तिः
)
श्रीकृष्णात्पलायनं
कृत्वा
गताया
मम
लताभिः
रक्षाभूदिति
व्याजोक्त्यलङ्कारेणाह
युष्माभिरिति
।
युष्माभिरीरितान्प्रेरितान्मत्तभुजङ्गवर्यान्कामुकश्रेष्ठान।
भुजङ्गः
पन्नगे
शिड्गे
इत्यमरः
।
शिड्गः
कामुकः
।
कीदृशात्चञ्चलात्स्पर्शोत्सुकाद।
अपसृतां
पलायनपरां
चकितां
च
मां
सपदि
तत्क्षणात्कुञ्जाश्च
रक्तवर्णाः
सिताः
शुक्लवर्णाः
सच्छतपत्रिकाश्च
एताः
कण्टकवल्ल्य
एव
सख्यस्ता
रुरुक्षुः
।
व्याजोक्तिनामालङ्कारोऽयम्
।
व्याजोक्तिलक्षणम्,
यथा—
प्रकृतस्थगनं
छद्मव्याजोक्तिरनिषेधभाक्
[
अ
.
कौ
.
का
.
२९२
]
।
अस्यार्थः—
अपह्नुतिस्तु
निषेधपूर्वा,
इयं
तु
न
तथेत्यनिषेधभागित्युक्तम्
।
इयं
तु
च्छद्मपूर्वैव
।
अस्य
टीका—
यत्र
प्रकृतार्थस्य
स्थगनं
संवरणं
तत्तु
मिषमात्रम्
।
किन्तु
प्रकृतार्थ
एव
वक्तुस्तात्पर्यम्
।
तत्र
व्याजोक्तिः
।
एषा
अनिषेधभागपह्नुतिस्थले
तु
प्रकृतार्थस्य
निषेधपूर्वकसंवरणम्
।
अत्र
तु
प्रकृतार्थस्य
निषेधं
विनैव
संवरणमिति
भेदो
बोध्यः
।
अत्र
प्रकृतस्य
कृष्णसङ्गजन्यनखचिह्नस्य
स्थगने
आच्छादने
कण्टकिलताकृते
स्वरक्षणं
चिह्नं
छद्ममात्रं
न
तु
निषेधः
।
किन्तु
कृष्णाङ्गसङ्गजन्यनखक्षतकथन
एव
तात्पर्यम्
।
एवं
बोध्यम्
॥१३॥
कुन्दवल्ल्यवदत्सत्यं
राधे
ते
नानृतं
वचः
।
यत्तन्निरोधजं
चिह्नं
कृष्णाङ्गे
दृश्यते
स्फुटम्
॥१४॥
एतच्छ्रुत्वा
कुन्दवल्ल्यवदत।
हे
राधे
ते
वचः
सत्यमनृतं
मिथ्या
न
।
कृष्णाङ्गे
तन्निरोधजं
चिह्नं
यद्यस्मात्स्फुटं
दृश्यते
॥१४॥
तीक्ष्णैः
स्वकण्टकनखैश्चटुलाभिराभिस्
त्वद्गोपनाय
वपुरस्य
लतासखीभिः
।
आचोटितं
सखि
तदौपयिकं
तदेतच्
चित्रं
त्विदं
तदधिकं
यदिदं
तवापि
॥१५॥
(
रूपकेण
विभावनया
सङ्गतिः
)
हे
सखि
राधे
!
चटुलाभिर्लतासखीभिः
त्वद्गोपनायास्य
श्रीकृष्णस्य
वपुः
शरीरं
तीक्ष्णैः
स्वैः
कण्टकनखैराचोटितं
यत्तदेतत्कर्म
तदौपयिकमुचितम्
।
इदं
तु
तवापि
वपुर्यत्तत्तस्मात्कृष्णवपुषोऽधिकं
ताभिस्तव
रक्षाकर्त्रीभिस्तैर्नखैराचोटितं
तदिदं
तव
वपुराचोटनं
चित्रम्
।
रूपकलक्षणम्
।
रूपकं
तु
तत्यत्यत्तादात्म्यं
द्वयोः
[
अ
.
कौ
.
२३९
]
अस्यार्थः—
द्वयोरुपमानोपमेययोस्तादात्म्यं
यत्तद्रूपकम्
।
अतिशयाभेदादपह्नुतभेदत्वं
तादात्म्यं
द्विप्रकारं—
समस्तवस्तुविषयमैकदेशविवर्ति
च
आरोप्यमानश्चारोपविषयो
यत्र
शब्दगौ
[
अ
.
कौ
.
२४०२४१
]
तत्र
समस्तवस्तुविषयम्
।
अस्य
टीका—
यत्र
आरोपविषयस्योपमेयस्य
तथारोप्यमाणस्योपमानस्य
च
द्वयोरेव
बोधकशब्दो
वर्तते
।
तत्र
समस्तवस्तुविषयकं
रूपकम्
।
आरोप्यमाणः
शाब्द
आर्थश्च
तत्परमेकदेशविवर्तित्वं
[
अ
.
कौ
.
२४२
]
शाब्दः
शब्दोपात्त
आर्थः
अर्थमर्यादया
ज्ञेयः
।
इत्येकदेशविवर्तितवम्
।
यत्र
शाब्दः
आर्थश्चोभयमपि
वर्तते
।
तत्र
एकदेशविवर्ति
।
यत्र
तु
केवलं
शाब्द
एव
।
तत्र
समस्तवस्तुविषयरूपकमिति
भेदः
।
आरोपविषयाभावेऽप्यारोप्यं
यदि
तदन्यप्रकारं
[
अ
.
कौ
.
२४३
]
।
अत्र
टीका—
आरोपविषयस्योपमेयस्य
भावेऽपि
यद्यारोप्यमुपमानं
वर्तते,
तदन्यत्रूपकमुक्तं
त्रिविधं
रूपकम्
।
कुत्रापि
प्रासङ्गिप्रकृष्टसजातीयबहुसङ्गात।
कुत्रापि
निःसङ्ग
एकमेव
रूपकं
प्रधानत्वेन
विवक्षितम्,
तत्र
सजातीयद्वितीयरूपकान्तराभावेन
निःसङ्गम्
।
मालारूपकं
तु
मालोपमवतन्यप्रकारम्
।
अथ
विभावनालक्षणं—
हेतुरूपक्रियाऽभावे
यत्स्याद्विभावना
[
अ
.
कौ
.
२७१
]
।
अस्यार्थे
फलं
फलप्राकट्यमभावे
निषेधे
।
अथ
असङ्गतिलक्षणं—
अत्यन्तभिन्नाधारत्वे
युगपद्भाषणं
यदि
।
धर्मयोर्हेतुफलओस्तदा
सा
स्यादसङ्गतिः
॥
[
अ
.
कौ
.
३००
]
अस्यार्थः—
यदाधारो
हेतुस्तदाधारं
फलमिति
नियमः
।
यथा
पापपुण्यकृते
एकाधारे
एव
दुःखसुखे,
तदन्यथाभावादसङ्गतिः
।
तत्रापि
युगपदेव
हेतुः
हेतुफलं
च,
न
तु
पापादिकृतदुःखवत्कालान्तरव्यवधानम्
।
अथ
सङ्करलक्षणं—
सङ्करस्त्वङ्गाङ्ग्भावः
[
अ
.
कौ
.
३१७
]
अस्यार्थः—
एषामलङ्काराणामङ्गाङ्गिभावः
सङ्करः
।
स
चानुग्राह्यानुग्राहकभावेन
यथा
।
अस्य
टीका—
अनुग्राह्यानुग्राहकभावेन
व्याप्यव्यापकेन
भावेन
भवति
।
अत्र
रूपकेन
सहासङ्गतिः
।
विभावनया
सह
असङ्गतिरिति
सन्देहे
सङ्करः
।
अङ्गाङ्गिभावेनोभयमित्यर्थः
।
अथ
रूपकेण
सहासङ्गतिः
।
पक्षे,
यथा—
कृष्णवक्षःस्थले
चिह्नं
तथैव
तव
वक्षःस्थले
चिह्नम्
।
चिह्नद्वयस्य
भेदाभावात्रूपकमिदं
समस्तवस्तुविषयम्
।
उपमानोपमेययोर्नखचिह्नयोः
शब्दगतत्वात।
एकस्यैव
नखचिह्नरूपकस्य
प्राधान्येन
कथनात।
प्रकृष्टसजातीयबहुरूपकस्य
सङ्गाभावाच्च
निःसङ्गम्
।
अत्र
रूपकेण
सहासङ्गतिस्तु
एकाधारे
कृष्णवक्षसि
फलरूपनखचिह्नं
तस्य
हेतुश्चास्ति
।
भिन्नाधारे
तव
वक्षसि
फलरूपचिह्नमस्ति,
न
तु
तस्य
हेतुरिति
।
तव
रक्षार्थं
कण्टकनखैर्लताभिः
कृष्णवक्षसि
कृतं
चिह्नम्
।
भिन्नाधारे
तव
वक्षसि
हेतुं
विना
तच्चिह्नं
फलरूपमसङ्गतिः
विभावनया
सहासङ्गतिः
रूपकचिह्नद्वयस्य
भेदाभावादेव
एकहेतुजन्यफलप्राकट्यज्ञानात्रूपकेण
सहासङ्गतिरङ्गी
विभावनया
सहासङ्गतिरङ्गम्
॥१५॥
गोपाङ्गणागणरतेरतिलम्पटस्य
चन्द्रावलेर्धृतिरुरस्यमलस्य
युक्ता
।
यत्त्वं
बिभर्षि
हृदि
तामहितामपीदं
चित्रं
परं
सखि
वदात्र
च
तत्र
हेतुम्
॥१६॥
(
शब्दश्लेषः
)
गोपाङ्गणागणेषु
रतिर्यस्य
अतिलम्पटस्य
अस्य
श्रीकृष्णस्य
उरसि
वक्षसि
चन्द्रावलेर्नखचिह्नरूपचन्द्रश्रेण्येव
चन्द्रावली
चन्द्रावलीनाम्नी
श्रीव्रजाङ्गना
तस्या
धृतिरलं
युक्ता
त्वं
तामहितां
द्वेष्ट्रीं
चन्द्रावलीव्हने
तत्र
कण्टकैर्वपुराचोटने
च
कारणं
वद
।
शब्दो
श्लेषो,
यथा
।
अनेकार्थप्रतिपादकता
यदि
एकार्थास्य
शब्दस्य
तदा
श्लेषः
स
कथ्यते
।
अत्र
चन्द्रावलीशब्देन
नखक्षतश्रेणी
तन्नाम्नी
गोपी
च
शब्दश्लेषः
॥१६॥
तामाललाप
ललिता
कुरु
मात्र
शङ्कां
पुंसः
परादतिचलाद्भयविद्रुतानाम्
।
स्पर्शोत्सुकाद्वपुषि
साध्वि
कथं
सतीनां
दारिद्र्यमस्तु
वनकण्टकजक्षतानाम्
॥१७॥
(
व्याजोक्तिः
)
ललिता
तां
कुन्दलतामाललाप
।
हे
साध्वि
कुन्दलते
!
अतिचलात्स्पर्शोत्सुकात्परात्पुंसो
भयेन
पलायितानां
सतीनां
वपुषि
वनकण्टकजन्यक्षतानां
दारिद्र्यमभावः
कथमस्तु,
अपि
तु
बहुकण्टकक्षतं
भवत्वेव
।
अत्र
भयात्पलायमानायास्तस्या
स्तने
कण्टकजक्षतमिषेण
नखक्षतस्यापह्नुतिमिषमात्रम्
।
किन्तु
नखक्षतकथन
एव
तात्पर्याद्व्याजोक्त्यलङ्कारः
।
अस्य
लक्षणं
त्रयोदशश्लोकस्य
टीकायामस्ति
॥१७॥
प्रत्यङ्गानां
वर्णनं
श्रोतुमस्याः
द्रष्टुं
चास्यं
भावशावल्यरम्यम्
।
नानोपायांश्चिन्तयत्युत्क
ईशे
स्वालीं
हास्याद्वर्णयामासुराल्यः
॥१८॥
(
समाधिः
)
अस्या
राधायाः
प्रत्यङ्गानां
वर्णनं
श्रोतुं
तथास्या
भावानां
शावल्येन
मिलनेन
रम्यमास्यं
मुखचन्द्रं
च
द्रष्टुमुपायान्चिन्तयति
सति
उत्के
उत्कण्ठिते
ईशे
कृष्णे
तस्य
हृदयज्ञा
आल्यः
सख्यः
हास्यात्स्वालीं
राधां
वर्णयामासुः
।
समाधिर्नामालङ्कारोऽयमस्य
लक्षणम्,
यथा—
कारणान्तरसहाय्यात्कार्यं
यत्सुकरं
भवेत।
कर्तुर्विना
प्रयत्नेन
स
समाधिरितीर्यते
॥
[
अ
.
कौ
.
३०१
]
अत्र
कर्तुः
कृष्णस्य
यत्नं
विना
राधाङ्गवर्णनं
तथा
भावशावल्यरम्यस्य
तस्या
मुखस्य
दर्शनरूपं
च
कार्यं
सखीनां
हास्यरूपकारणान्तरसाहाय्यात्सुकरमभूत॥१८॥
तृप्त्यै
मुरारेरथ
राधिकाया
माधुर्यकर्पूरसुवासितां
स्वाम्
।
विधातुकामाः
कवितारसालां
तया
निषिद्धाः
कुटिलभ्रुवापि
॥१९॥
सम्फुल्लगोविन्दमुखारविन्द
मन्दस्मितमन्दमरन्दसिक्ताः
।
तदिन्गितज्ञः
क्रमतश्चलक्षीं
तं
वर्णयन्त्यो
जहसुर्वयस्याः
॥२०॥
(
युग्मकम्
)
वयस्याः
स्वां
स्वीयां
कवितारसालां
कवितैव
रसाला
तां
राधाया
माधुर्यरूपकर्पूरेण
सुवासितां
विधातुं
कर्तुं
कामः
कामना
यासां
ताः
।
तया
राधिकया
कुटिलभ्रुवापि
निषिद्धा
अपि
सम्फुल्लस्य
गोविन्दमुखपद्मस्य
मन्दस्मितमेवामन्दो
मरन्दो
मधु
तेन
सिक्ताः
।
तस्य
श्रीकृष्णस्य
इन्गितज्ञस्ता
मुरारेस्तृप्त्यै
तां
राधां
वर्णयन्त्यो
जहसुः
॥१९२०॥
भङ्ग्याथ
कुन्दवल्लीं
तां
वर्णयन्त्य
इवालयः
।
अप्रस्तुतप्रशंसाया
विषयं
स्वसखीं
व्यधुः
॥२१॥
आलयो
भङ्ग्या
कुन्दवल्लीं
वर्णयन्त्य
इवाप्रस्तुतप्रशंसानामलङ्कारस्य
विषयं
स्वसखीं
राधां
व्यधुः
॥२१॥
ततः
सा
ललितावादीत्पश्यताल्यो
बिभर्त्यसौ
।
मधुसूदनसम्भोगचिह्नानि
कुन्दवल्लिका
॥२२॥
(
सश्लेषाप्रस्तुतप्रशंसा
)
ललिताह—
हे
आल्यः
!
मधुसूदनसम्भोगचिह्नानि
कुन्दवल्लिका
बिभर्ति
।
राधा
बिभर्ति
इत्युक्ते
सा
क्रोधं
कृत्वा
तां
भर्त्सयेत्,
ततो
गच्छेद्वा
।
तदा
वर्णनं
न
स्यात्वर्णनाभावे
कृष्णस्य
सखीनां
च
वाञ्छापूर्तिर्न
स्यादिति
कुन्दवल्लिका
इत्यवादीत।
सश्लेषप्रस्तुतप्रशंसा,
यथा
श्लेषलक्षणं—
अनेकार्थप्रतिपादिकता
यदि
एकार्थस्य
तु
शब्दस्य
तड
श्लेषः
स
कथ्यते
[
अ
.
कौ
.
२५०
]
।
मधुसूदनः
कृष्णो
भ्रमरश्च
श्लिष्टः
।
कुन्दवल्लिका
लता
तन्नाम्नी
गोपी
च
श्लिष्टा
।
अप्रासङ्गिकस्य
वाक्प्रासङ्गिककथायां
स्या
अप्रस्तुतप्रशंसनं
[
अ
.
कौ
.
२५४
]
।
अस्यार्थः—
अप्रासङ्गिकस्याप्राकरणिकस्यार्थस्य
वाक्कथनं
यत्प्रासङ्गिककथायां
तदप्रस्तुतप्रशंसा
स्यात।
कार्यकारणसामान्यविशेषेषु
तदन्यस्या
प्रस्तुतस्य
कथनं
कार्ये
कारणकथनं
कारणे
कार्यकथनं
सामान्ये
विशेषकथनं
विशेषे
सामान्यकथनं
तुल्ये
प्रस्तुते
तुल्यस्याप्रस्तुतस्य
कथनमिति
।
चकारादन्येषां
कथनं
च
।
अत्र
पद्ये
अप्रासङ्गिकस्य
कुन्दवल्ल्याः
सम्भोगचिह्नस्य
प्रासङ्गिकराधाङ्गचिह्नकथायां
तुल्यायां
कथनमत्राप्रस्तुतप्रशंसा
॥२२॥
भुवि
शिवलिङ्गानीन्दोर्
वलितान्येकैकया
कलया
।
मन्येऽस्याः
कुचशम्भू
ता
दधतस्तज्जिगीषया
प्रचुराः
॥२३॥
(
रूपकोत्प्रेक्षाव्यतिरेकैः
सङ्करः
)
भुवि
पृथिव्याम्
।
इन्दोरेकैकया
कलया
वलितानि
शिवलिङ्गानी
सन्ति
।
अस्याः
कुचरूपशम्भू
स्तनौ
ताः
कलाः
प्रचुरास्ततः
सकलङ्केन्दुकलातो
निष्कलङ्कत्वादिगुणैः
प्रशस्ताः
कृत्वा
तत्तेषां
शिवलिङ्गानां
जिगीषया
तानि
जेतुमिच्छया
दधतः
इत्यहं
मन्ये
।
रूपकोत्प्रेक्षाव्यतिरेकैः
सङ्करः
।
अत्र
शम्भुकुचयोरुपमानोपमेययोस्तादात्म्यं
रूपकम्
।
उपमानोपमेययोः
शम्भुकुचगतचन्द्रनखचिह्नयोः
शब्दगतत्वात।
अत्र
समस्तवस्तुविषयम्
।
एकस्याः
कलायाः
प्राधान्येन
कथनात्प्रकृष्टसजातीयान्यरूपकस्याभावात्निःसङ्गम्
।
रूपकलक्षणं
पञ्चदशश्लोकटीकायामस्ति
।
उत्प्रेक्षा,
यथा—
सम्भावनोपमानेनोपमेयोत्कर्षहेतुका
।
उत्प्रेक्षा
नूनमित्यादिशब्दद्योत्या
. . . .
॥
[
अ
.
कौ
.
२३७
]
उपमेयस्योत्कऋसहेतुका
या
उपमानेन
सह
सम्भावना
सा
उत्प्रेक्षा
।
सम्भावनाहेत्वन्तरोपन्यासेन
वितर्कणम्
।
नूनमित्यादिना
।
नूनंमन्येशङ्केइवध्रुवंतुकिंकिमुतेत्यादि
।
उपमानेन
भूस्थशम्भुना
उपमेयस्य
कुचशम्भुद्वयस्य
उत्कर्षहेतुका
सम्भावना
।
तज्जिगीषया
इति
हेत्वन्तरोपन्यासेन
मन्ये
इति
शब्दद्योत्या
उत्प्रेक्षात्र
ज्ञेया
।
व्यतिरेको
विलक्षणः
।
विलक्षण
इति
गुणेन
दोषेण
च
।
अस्य
टीका
वैलक्षण्यमाधिक्यम्
।
उपमानात्शम्भुलिङ्गात्विलक्षणौ
कुचशम्भुव्यतिरेकः
।
त्रयाणां
सङ्करः
।
सङ्करलक्षणं—
सङ्करस्य्स्त्वङ्गाङ्गिभावः
।
रूपकेण
शम्भुकुचयोस्तुल्यज्ञाने
सत्येव
।
पश्चातुत्प्रेक्षाव्यतिरेकाभ्यां
कुचयोरौत्कर्षमाधिक्यं
स्यादतोऽत्र
रूपकोऽङ्गी
उत्प्रेक्षाव्यतिरेकौ
अङ्गे
॥२३॥
हासविकासश्रीरदपङ्क्तिः
।
कृष्णमुदे
सा
प्राह
विशाखा
॥२४॥
हासस्य
विकासेन
श्रीः
शोभा
दन्तपङ्क्तौ
यस्याः
सा
विशाखा
कृष्णस्य
मुदे
हर्षाय
प्राह
॥२४॥
क्षयिष्णुं
तं
हित्वा
शशजठरमिन्दुं
मितकलं
सदा
पूर्णानङ्काविगणितकलानामघभिदः
।
कलाभिर्बह्वीभिः
करनखविधूनां
निजतनूम्
अलञ्चक्रेऽस्याः
किं
स्तनगिरिशलिङ्गद्वयमिदम्
॥२५॥
(
रूपकोत्प्रेक्षाव्यतिरेकैः
सङ्करः
)
क्षयिष्णुं
शशो
मृगो
जठरे
यस्य
तं
मितकलं
तमिन्दुं
हित्वा
अघभिदः
श्रीकृष्णस्य
सदा
पूर्णानामनङ्कानामकलङ्कानामविगणिता
अनन्ता
कलानां
येषां
तेषां
करनखविधूनां
बह्वीभिः
कलाभिः
श्रेणीभिरस्याः
कुन्दलताया
इत्युक्ते
श्रीराधायाः
स्तनरूपशिवलिङ्गद्वयं
निजतनूं
किमलञ्चक्रेऽस्याः,
स्वशोभार्थमलञ्चक्रे
इत्यात्मनेपदस्यार्थः
।
अत्र
चन्द्रनखचन्द्रज्योत्स्नयोस्तादात्म्याच्च
रूपकम्
।
उपमानोपमेययोः
शब्दगत्वात्समस्तवस्तुविषयं
क्षयिष्णुशशजठरं
मितकलमित्यादि
प्रकृष्टासजातीयरूपकानेकसङ्गात्प्रासङ्गि
।
क्षयिष्णु
आदि
हेत्वन्तरोपन्यासेन
किमिति
पदद्योत्या
।
उत्प्रेक्षा
व्यतिरेकालङ्कारेण
शिवलिङ्गात्गुणेन
स्तनरूपशिवलिङ्गयोराधिक्यम्
।
रूपकेण
शिवलिङ्गस्तनयोस्तुल्यज्ञाने
सत्येव
उत्प्रेक्षाव्यतिरेकाभ्याम्
।
स्तनयोरुत्कर्षज्ञानं
स्यादतो
व्याप्यव्यापकभावेन
रूपकोऽङ्गी
उत्प्रेक्षाव्यतिरेकावङ्गे,
तैः
सङ्करः
।
रूपकलक्षणं
व्याख्या
च
पञ्चदशश्लोकस्य
टीकायाम्,
उत्प्रेक्षाव्यतिरेकयोर्लक्षणं
व्याख्या
च
त्रयोविंशतिश्लोकस्य
टीकायामस्ति
॥२५॥
साभाषत
तद्वाक्तृप्ता
तनुमध्या
।
कृष्णं
सुखयन्ती
श्रीचम्पकवल्ली
॥२६॥
तस्या
विशाखाया
वाक्येन
तृप्ता
तनुमध्या
क्षीणमध्या
सा
चम्पकवल्ली
कृष्णं
सुखयन्तो
अभाषत
॥२६॥
किं
नागरङ्गार्पितलास्यलाञ्छने
पादाम्बुजे
वीक्ष्य
हरेः
कराम्बुजे
।
तत्स्पर्धयास्याः
कुचनागरङ्गके
मुदा
न्यधत्तां
नटनैः
क्षतानि
॥२७॥
(
श्लेषरूपकोत्प्रेक्षाः
)
नागः
कालियसर्प
एव
रङ्गस्थलं
तत्रार्पितं
लास्येन
नृत्येन
लाञ्छनं
चिह्नं
याभ्यां
ते
पादाम्बुजे
वीक्ष्य
तत्स्पर्धया
किं
हरेः
कराम्बुजे
अस्याः
कुचनागरङ्गके
नागरङ्गाख्यफलविशेषे
नटनैः
क्षतानि
न्यधत्ताम्
।
नागरङ्गशब्दोè
त्र
उभयार्थवाचित्वात्श्लेषः
ं
पदकृतकरकृतचिह्नयोस्तादात्म्यमत्र
रूपकम्
।
उपमानोपमेययोः
शब्दगतत्वात्करकृतलाञ्छनानां
गुणेनोत्कर्षः
।
श्लेषलक्षणं
१०मश्लोके,
रूपकलक्षणं
२५मश्लोके,
उत्प्रेक्षालक्षणं
२३
श्लोके
॥२७॥
स्त्रीषु
श्रेष्ठा
।
चित्रा
चख्यौ
॥२८॥
चित्रा
सखी
आह
॥२८॥
चित्रा
कनकलतेयं
श्यामतमालाश्रिता
स्फुटं
धत्ते
।
पक्वं
श्रीफलयुगलं
तच्चल
शाखोपशाखिकोल्लिखितम्
॥२९॥
(
उत्प्रेक्षातिशयोक्तिभ्यां
संसृष्टिः
)
इयं
चित्रा
मनोहरा
कनकलता
श्यामं
तमालमाश्रिता
भूत्वा
तस्य
तमालस्य
शाखोपशाखिकाभिरुल्लिखितं
पक्वं
श्रीफलयुगलं
धत्ते
।
चित्रा
इति
हेत्वन्तरोपन्यासेन
।
स्फुटमिति
पदद्योत्या
।
सामान्यतमालाश्रितकनकलतायां
तमालशाखोपशाखाकृतचिह्नयुक्तश्रीफलयुग्मात्श्रीकृष्णतमालस्य
शाखोपशाखारूपनखेनोलिखितं
श्रीराधायाः
स्तनरूपश्रीफलयुगलस्योत्कर्षमत्रोत्प्रेक्षा
।
अतिशयोक्तिर्यथा—
निगीर्णस्योपमानेनोपमेयस्य
निरूपणम्
।
यत्स्यादतिशयोक्तिः
सा
[
अ
.
कौ
.
२५७
]
अस्य
टीका—
उपमानेन
निगीर्णस्योपमेयस्य
यन्निरूपणं
सातिशयोक्तिः
।
निगीर्णं
ग्रस्तं
तथा
चोपमानस्य
इव
प्रयोगः,
न
तूपमानेन
ग्रस्तोपमेयस्य
।
अत्र
उपमानेन
तमालशाखोपशाखाकृतचिह्नयुक्तश्रीफलेन
निगीर्णोपमेयस्य
श्रीकृष्णकृतनखक्षतयुतराधास्तनस्य
निरूपणमतिशयोक्तिः
।
संसृष्टिरसौ
क्रियाशब्दार्थोभयभूः
सा
क्रमेण
प्रदर्श्यते
[
अ
.
कौ
.
३१६
]
।
अस्यार्थः—
शब्दः
शब्दालङ्कारः,
अर्थोऽर्थालङ्कारः,
उभयं
शब्दार्थालङ्कारः,
एते
त्रयः
क्रियाप्रधाना
इत्यर्थः
।
अत्र
टीका—
संसृष्टिलक्षणमेतेषामन्योन्यनिरपेक्षत्वेन
विशकलिततयावस्थानं
संसृष्टिः
।
अत्रोल्लिखितमिति
क्रियाप्रधाना
।
उत्प्रेक्षातिशयोक्त्योर्निरपेक्षत्वेनावस्थितिः
संसृष्टिः
॥२९॥
सभां
प्रीणयन्ती
सखीं
लज्जयन्ती
।
स्ववाण्या
कवीशावदत्तुङ्गविद्या
॥३०॥
कवीशा
तुङ्गविद्या
सभां
श्रीकृष्णादिकाम्,
सखीं
राधाम्
॥३०॥
अस्या
लसत्तनुवनीमनु
भाति
काम
गम्भीरवेदिगजराट्यदिहास्य
भातः
।
कुम्भौ
मिषेण
कुचयोर्हरिपाणिजम््म कामाङ्कुशक्षतशतौ
मदलेपचित्रौ
॥३१॥
(
रूपकानुमानापह्नुतिश्लेषाणामन्योन्याङ्गाङ्गिभावात्साङ्कर्यम्
)
अस्याः
सख्याः
लसत्तनुवनीमनु
तनुवन्यां
कामस्य
गम्भीरवेदी
अङ्कुशादिना
त्वङ्मांसादिच्छेदेऽपि
व्यथाज्ञानरहितोऽतिमत्तो
गजराट्भाति
।
अस्य
गजस्य
कुम्भौ
कुचयोर्मिषेण
भातः
।
कीदृशौ
कुम्भौ ?
हरेः
पाणौ
जम््म येषां
ते
हरिपाणिजन्मनो
नखास्ते
एव
कामाङ्कुशास्तेषां
क्षतशतं
ययोस्तौ
।
मदलेपेन
मदस्य
मृगमदस्य
लेपेन
चित्रौ
।
त्वग्भेदाच्छोणितस्रावान्मांसस्य
कृन्तनादपि
।
संज्ञां
न
लभते
यस्तु
गजो
गम्भीरवेद्यसौ
।
अलङ्कारचतुर्णां
मध्ये
अत्र
रूपकम्
।
कुचयोर्गजकुम्भयोस्तादात्म्येन
रूपकमिदं
समस्तवस्तुविषयमुपमानोपमेयबोधकशब्दयोर्वर्तमानत्वात।
रूपकलक्षणं—
अस्य
सर्गस्य
पञ्चदशश्लोके
ज्ञेयम्
।
अनुमानलक्षणम्,
यथा—
साध्यसाधनसद्भावेऽनुमानमनुमानवत्
[
अ
.
कौ
.
२९०
]
।
अत्र
नखाङ्कुशजन्यत्वङ्मांसभेदादपि
संज्ञाराहित्येन
गम्भीरवेदिगजस्यास्याः
स्तनयोरनुमानम्
।
अपह्नुतिलक्षणम्,
यथा—
या
तु
प्रकृतस्यान्यथाकृतिः
सापह्नुतिः
[
अ
.
कौ
.
२४९
]
।
अत्र
प्रकृतयोः
स्तनयोर्गजकुम्भत्वेनान्यथाकृतिरपह्नुतिः
।
हरिः
कृष्णः
सिंहश्चात्र
श्लेषः
।
एषां
परस्पराङ्गाङ्गिभावात्साङ्कर्यम्
।
अत्र
परस्पराङ्गाङ्गिभावो
यथा
।
कुचयोर्गजकुम्भत्वेन
रूपकं
यदि
भवति
तदैवास्याः
स्तनौ
गजस्थितेरनुमानं
स्यात।
गजस्थितेरनुमाने
सत्येव
स्तनयो
रूपकं
भवति
।
अपह्नुत्या
स्तनयोर्गजकुम्भत्वेन
निश्चये
सत्येव
हरिशब्दः
श्लिष्टः
स्यात।
एवं
विवेचनीयम्
॥३१॥
विराजत्सुदन्तोल्लसत्सोमराजी
।
ततोऽतिप्रमोदाज्जगादेन्दुलेखा
॥३२॥
विराजन्तः
सुदन्ता
एव
उल्लसन्त्यौ
सोमानां
चन्द्राणां
राजी
पङ्क्ती
यस्याः
सा
इन्दुलेखा
जगाद
॥३२॥
अस्यां
सुरतरङ्गिण्यां
कृष्णोऽक्रीडन्मतङ्गजः
।
तत्करास्फालनाक्लिष्टोल्लिखितौ
स्तनकोरकौ
॥३३॥
(
श्लेषोत्प्रेक्षासंमिश्रकरूपकम्
)
अस्यां
सुरतरङ्गिण्यां
कृष्णरूपो
मतङ्गजोऽक्रीडत।
यतोऽस्याः
स्तनचक्रवाकौ
कोरकाविति
पाठे
स्तनरूपपद्मकोरकौ
।
तत्तस्य
कृष्णस्य
मतङ्गजस्य
करयोरास्फालनात्प्रसारणाता
सम्यक्क्लिष्टौ
च
तौ
उल्लिखितौ
च
स्तः
।
सुरतरङ्गिणीशब्दोऽत्र
श्लिष्टः
।
राधापक्षे
सुरतेषु
रङ्गिण्याम्
।
कोरकपक्षे
गङ्गायाम्,
श्लेषोत्प्रेक्षासंमिश्रं
रूपकम्
।
गङ्गायां
मतङ्गजस्य
मत्तहस्तिनः
क्रीडापेक्षया
अस्यां
कृष्णकृतक्रीडाया
उत्कर्षः
।
उत्प्रेक्षालक्षणं
चतुर्विंशतिश्लोकेऽस्ति
।
कोकात्कुचेषु
उल्लिखनस्य
उत्कर्षात्श्लेषोत्प्रेक्षयोः
संमिश्रं
सहितम्
।
अस्या
राधायाः
स्तनयोः
कोरकाभ्यां
तादात्म्यमत्र
रूपकं
समस्तवस्तुविषयम्,
उपमानोपमेययोर्मतङ्गजकृष्णयोः
स्तनकोरकयोः
शब्दगतत्वात्रूपकम्
।
लक्षणमस्य
सर्गस्य
पञ्चदशश्लोके
वर्तते
॥३३॥
कृष्णकर्णौ
सुधापूर्णौ
रचयन्ती
स्वया
गिरा
।
वारितापि
दृशा
सख्या
रङ्गदेवी
जगाद
सा
॥३४॥
सा
रङ्गदेवी
सलज्जया
राधिकया
दृशा
निवारितापि
स्वया
गिरा
कृष्णकर्णौ
सुधारसपूर्णौ
रचयन्ती
सती
जगाद
॥३४॥
तरुणिमामणिपूर्णौ
मुद्रितौ
हेमकुम्भौ
निभृतमुरसि
धात्रा
गोपितौ
बाढमस्याः
।
नखरखनकचौरैर्लुब्धकृष्णेरितैस्तैस्
तत
इत
इव
खातौ
तत्र
कर्तुं
सुरङ्गम्
॥३५॥
(
रूपकोत्प्रेक्षाभ्यामतिशयोक्तिः
)
धात्रा
अस्य
उरसि
तरुणिमामणिभिर्बाढं
पूर्णौ
मुद्रितौ
च
कृत्वा
यौ
हेमकुम्भौ
निभृतं
यथा
स्यात्तथा
गोपितौ
बभूवतुः
।
तैः
प्रसिद्धैः
लुब्धकृष्णेन
प्रेरितैर्नखरूपखनकचौरैस्तत्र
स्वर्णकुम्भयोः
सुरङ्गं
छिद्रं
कर्तुमिव
इतस्ततः
खातौ
खनितौ
विदारितौ
भवतः
।
खनु
अवधारणे
।
अत्र
स्तनयोः
स्वर्णकुम्भेन
नखानां
खनकचौरेण
नखक्षतस्य
खातेन
तादात्म्यरूपकमत्र
हेमकुम्भशब्देनार्थमर्यादया
स्तनयोः
कथनादेकदेशविवर्तिरूपं
रूपकम्
।
लक्षणं
पञ्चदशश्लोकेऽस्ति
।
स्तनापेक्षया
स्वर्णकुम्भस्य
नखापेषया
खनकचौरस्य
नखक्षतापेक्षया
खातस्य
न्यूनत्वेन
स्तनादेरुत्कर्ष
उत्प्रेक्षा
।
उत्प्रेक्षालक्षणं
त्रयोविंशतिश्लोकेऽस्ति
।
स्वर्णकुम्भस्य
स्तनयोस्तथा
नखचौरकृतखातेन
नखक्षतस्य
निरूपणातुपमानेन
हेमकुम्भेन
निगीर्णस्य
उपमेयस्य
स्तनस्य
निरूपणादतिशयोक्तिः
॥३५॥
गिरिधरतृप्त्यै
शशिवदनां
ताम्
तदनु
सुदेवी
परिहसति
स्म
॥३६॥
तदनु
श्रीरङ्गदेवीकथानन्तरं
सुदेवी
तां
राधां
परिहसति
स्म
॥३६॥
वनप्रियप्रियां
वित्त
सुवर्णदाडिमीमिमाम्
।
पीतां
शुकनखक्षुण्णं
दधतीं
सत्फलद्वयम्
॥३७॥
(
रूपकश्लेषाभ्यामतिशयोक्तिः
)
हे
सख्यः
!
इमां
वनप्रियस्य
श्रीकृष्णस्य
कोकिलस्य
च
प्रियां
सुवर्णदाडिमीलता
नखैः
क्षतां
खण्डितं
सत्फलद्वयं
दधतीम्
।
वनप्रियः
परभृतः
कोकिलः
पिक
इत्यपि
इत्यमरः
।
यूयं
वित्त
जानीतेति
।
अत्र
रूपकम्
।
नायिकायाः
सुवर्णदाडिमीत्वेन
स्तनयोः
फलत्वेन
तादात्म्यं
स्वर्णदाडिमीशब्देन
राधिकायाः
सत्फलद्वयशब्देनार्थमर्यादया
स्तनद्वयस्य
च
कथनादेकदेशविवर्तिरूप
रूपकम्
।
श्लेषः,
वनप्रियः
कोकिलः
कृष्णश्च
।
श्लेषलक्षणं
षोडशश्लोकेऽस्ति
।
दाडिमफलरूपोपमानेन
उपमेयस्य
स्तनस्य
निगीर्णं
निरूपणमत्रातिशयोक्तिः
।
अतिशयोक्तिलक्षणमूनत्रिंशश्लोकेऽस्ति
॥३७॥
स्वावसराप्त्या
तामथ
हृष्टा
।
चन्द्रमुखी
सा
वर्णयति
स्म
॥३८॥
अष्टसखीनां
वर्णनसमाप्तौ
स्वस्य
कथनेऽवसरप्राप्ता
सा
चन्द्रमुखी
तां
राधाम्
॥३८॥
लोकोत्तरा
हाटकदाडिमीयं
फले
दधानापि
पृथग्यदाभ्याम्
।
सुपक्वबीजान्यलिविक्षतेन
पिधाय
धत्ते
कुसुमद्वयेन
॥३९॥
(
व्यतिरेकातिशयोक्तिः
)
हाटकदाडिमीयं
लोकोत्तरा
।
यद्यस्मात्दाडिमफले
दधानापि
आभ्यां
फलाभ्यां
पृथग्बीजानि
दन्तानि
अलिविक्षतेन
कुसुमद्वयेन
ओष्ठाधरेण
पिधाय
आच्छाद्य
धत्ते
।
व्यतिरेके
विलक्षणमुपमानात्
[
अ
.
कौ
.
२६८
]
।
अस्यार्थः—
विलक्षण
इति
गुणेन
दोषेण
च
।
अत्र
टीका—
वैलक्षण्यमाधिक्यम्
।
अत्रान्यदाडिमीलता
उपमानादियं
राधादाडिमी
लोकोत्तरा
।
आभ्यां
फलाभ्यां
स्तनाभ्यां
पृथक्कुसुमद्वयाच्छन्नबीजानामधरोष्ठाच्छन्नदन्तानां
धारणात्गुणेन
विलक्षणमधिकं
व्यतिरेकः
।
उपमानेन
कुसुमद्वयेन
निगीर्णयोरुपमेययोरोष्ठाधरयोः
प्दयोरप्रयोगात।
एवं
दाडिमीपदोपमानोपमेयः
राधापदस्याप्रयोगात।
एवं
बीजपदेन
दन्तानामुपमेयानामदानात।
एवमुपमानकुसुमपदादीनामुपमेयानामोष्ठाधराराधादन्तानामदानमतिशयोक्तिः
।
अस्य
लक्षणमूनत्रिंशश्लोकस्य
टीकायामस्ति
॥३९॥
नारीणां
मूर्धण्या
श्रीज्येष्ठा
सावादीत॥४०॥
श्रीयुक्ता
ज्येष्ठा
नाम्नी
सखी
सा
अवादीत॥४०॥
अस्या
दृगञ्जनालेपात्पक्वजम्बूफलायते
।
कृष्णाधरेऽस्मिन्दन्तोऽस्या
बुभुक्षितशुकायते
॥४१॥
(
लुप्तोपमाकाव्यलिङ्गे
)
कृष्णस्याधरः
अस्या
दृगञ्जनालेपात्पक्वजम्बूफलमिवाचरतीति
पक्वजम्बुफलायते
।
अस्या
दन्तः
अस्मिन्कृष्णाधरे
बुभुक्षितशुक
इवाचरति
।
अत्र
जम्बुफलमिव
शुक
इवाचरतीत्यत्र
इव
शब्दस्य
लोपात्लुप्तोपमा
।
सा
उपमा
यथा—
यथाकथञ्चित्साधर्म्यमुपमा
[
अ
.
कौ
.
२१६
],
सा
भवेद्द्विधा
पूर्णा
लुप्तेति
[
अ
.
कौ
.
२१७
],
पूर्णा
तु
धर्मेनैव
यथादिभिः
उपमानोपमेयाभ्यां
[
अ
.
कौ
.
२१८
],
इयमेवेववादिभिः
युक्ता
श्रौती
[
अ
.
कौ
.
२१९
],
समाद्यैस्तु
सा
स्यादार्थी
च
[
अ
.
कौ
.
२२०
],
तद्धिते
वाक्ये
समासे
चेत्येते
षोढा
[
अ
.
कौ
.
२२१
],
लुप्ता
तु
लोपतः
[
अ
.
कौ
.
२२२
]
।
काव्यलिङ्गम्,
यथा—
पदवाक्यार्थता
हेतोः
काव्यलिङ्गं
प्रकीर्त्यते
[
अ
.
कौ
.
२८२
]
।
अस्यार्थः—
पदार्थहेतुसकाशात।
तथा
वाक्यार्थहेतुसकाशात।
यत्र
कार्यसिद्धिस्तत्र
काव्यलिङ्गमुच्यते
।
अत्र
पक्वजम्बुफलमिवाचरति,
तथा
शुकमिवाचरति,
वक्यार्थहेतुककृष्णाधरस्य
जम्बुफलरूपकार्यसिद्धिः
।
तथास्याः
राधाया
दन्तस्य
बुभुक्षितशुकरूपकार्यसिद्ध्या
काव्यलिङ्गम्
॥४१॥
भ्रुवेरिता
हृदीशेन
वारितापि
दृशेशया
।
राधां
तां
काञ्चनलता
स्पष्टवर्णमवर्णयत॥४२॥
ईशया
राधया
दृशा
वारितापि
हृदीशेन
कृष्णेन
भ्रुवेरिता
प्रेरिता
काञ्चनलता
तां
राधां
स्पष्टवर्णं
राधानामा
गृहीत्वा
॥४२॥
नाभिर्लोमावलिरुरसिजद्वन्द्वमास्यं
विभाति
श्रीराधायायामिति
विधिकृता
पश्यतां
भ्रान्तिरेषा
।
सत्यं
सान्द्रामृतमयसरस्येकनालोत्थमब्ज
द्वन्द्वं
शश्वत्करपरिचयैर्मीलयन्दीव्यतीन्दुः
॥४३॥
(
अपह्नुतिः
)
राधायायां
नाभिस्तदुपरि
रोमावलिः
स्तनद्वन्द्वं
तदास्यं
विभाति
।
इत्येतन्नाभ्यादि
पश्यतां
जनानां
विधिकृता
भ्रान्तिरेषा
सत्यं
तु
सान्द्रे
निविडे
आमृतसरोवरे
एकमृणाले
उत्पन्नं
पदद्वयमिन्दुश्चन्द्रः
शश्वत्पुनः
पुनः
करपरिचयैः
किरणसंयोगैर्मीलयन्मुद्रयन्दीव्यति
।
अपह्नुतिलक्षणं—
या
तु
प्रकृतस्यान्यथाकृतिः
सापह्नुतिः
[
अ
.
कौ
.
२४९
],
अन्यथाकृतिः
प्रकृतं
निषिध्यान्यस्य
स्थापनम्
।
प्रकृतं
नाभिरोमावलीस्तनद्वयं
मुखं
च
निषिध्यान्यथाकृतिरमृतसरोमृणालपद्मचन्द्राणां
स्थापनमत्रापह्नुतिः
॥४३॥
सा
मृगीलोचना
।
माधवी
व्याहरत॥४४॥
माधवी
नाम्नी
गोप्याह
॥४४॥
नाभिः
कुण्डं
त्रिवलिविततिर्मेखला
चावलग्नं
वेदिर्लोमावलिरपि
जुहूः
श्रीकुचौ
भद्रकुम्भौ
।
कामो
यज्वा
सुजघनगलौ
पीठशङ्खौ
बकारेश्
चित्ताकृष्टिः
फलमिह
बभौ
यज्ञशालास्य
राधा
॥४५॥
(
रूपकम्
)
अस्य
श्रीकृष्णस्य
राधा
यज्ञशाला
।
साम्यमाह—
नाभिर्होमकुण्डम्
।
तदुपरि
त्रिवलिविस्तारो
मेखला
।
अवलग्नं
मध्यदेशो
वेदिः
।
रोमावलिर्जुहूः
।
कुचौ
मङ्गलकुम्भौ
।
कामो
यज्वा
होता
।
सुजघनं
पीठः
।
कण्ठः
शङ्खः
।
श्रीकृष्णस्य
चित्ताकर्षणं
फलम्
।
अत्र
नाभिस्त्रिवल्यादेः
कुण्डादिना
तादात्म्यं
रूपकम्
।
समस्तवस्तुविषयमुपमानोपमेयबोधकशब्दानां
वर्तमानत्वात।
प्रासङ्गिरूपकं
च
प्रकृष्टासजातीयबहुसङ्गानां
नाभित्रिवलिमेखलादीनां
विद्यमानत्वात॥४५॥
भानोः
कन्यां
धन्यामेताम्
।
सा
पश्यन्ती
वासन्त्याख्यत॥४६॥
वासन्तीनाम्नी
सा
भानोः
वृषभानोः
कन्यामेतां
धन्यां
श्रीराधां
पश्यन्ती
आख्यताह
॥४६॥
भ्रूरोमावल्यौ
धनुरसिलते
श्रीकटाक्षाः
पृषत्का
बाहू
पाशौ
गल
इह
दरः
श्रीनितम्बो
रथाङ्गम्
।
दीव्यद्गण्डौ
कनकफलके
श्रीनखाश्चाङ्कुशाः
श्रीराधा
भाति
स्मरनरपतेः
शस्त्रशाला
विशाला
॥४७॥
(
रूपकम्
)
कामस्य
शस्त्रगृहं
राधा
भाति
।
शस्त्राण्याह—
भ्रूर्धनुः
।
रोमावलिः
असिलता
खड्गः
यथासङ्ख्यान्वयः
।
कटाक्षाः
पृषत्का
बाणाः
।
बाहू
पाशौ
नागपाशौ
।
गलो
दरः
शङ्खः
।
नितम्बो
रथाङ्गं
चक्रम्
।
गण्डौ
सुवर्णस्य
फलके
ढाल
इत्याख्ये
भ्रूरोमावल्यादीनां
धनुरादिभिस्तादात्म्यं
समस्तवस्तुविषयं
प्रकृष्टबहुसजातीयानां
विद्यमानत्वात्प्रासङ्गि
।
रूपकं
लक्षणं
पञ्चदशश्लोकेऽस्ति
॥४७॥
तद्वाक्तृप्ता
।
वृन्दावादीत॥४८॥
राधायाः
सुतनुः
सुधासुरधुनी
बाहू
विशे
सत्स्तनौ
कोकौ
श्रीमुखनाभिपाणिचरणाः
पद्मानि
वक्रालकाः
।
रोलम्बा
मधुरस्मितं
च
कुमुदं
नेत्रे
तथेन्दीवरे
रोमाली
जलनीलिकेह
लसति
श्रीकृष्णहृत्कुन्जरः
॥४९॥
(
रूपकम्
)
सुतनुः
शोभनशरीरममृतमयगङ्गा
।
बाहू
विशे
मृणाले
।
सत्स्तनौ
चक्रवाकौ
।
मुखादीनि
कमलानि
।
वक्रालकाः
रोलम्बा
भ्रमराः
।
लोमश्रेणी
जलनीली
।
जलनीली
तु
शैवालमित्यमरः
।
इह
तनौ
कृष्णस्य
हृदयरूपकुन्जरो
लसति
।
अमृतमयगङ्गादिभिरुपमानै
राधाशरीराद्युपमेयेषु
तादात्म्यं
रूपकं
समस्तवस्तुविषयं
पूर्ववत्प्रासङ्गिकम्
॥४९॥
पुनः
कृष्णेङ्गितज्ञास्ताः
श्लोकैरेकैकशः
पृथक।
वयस्यां
वर्णयामासुः
प्रेम्ना
तां
ललितादयः
॥५०॥
ललितादय
एकैकशः
श्लोकैस्तां
राधाम्
॥५०॥
शङ्खार्धेन्दुयवाब्जकुञ्जररथैः
सीराङ्कुशेषुध्वजैश्
चापस्वस्तिकमत्स्यतोमरमुखैः
सल्लक्षणैरङ्कितम्
।
लाक्षावर्मितमाहवोपकरणैरेभिर्विजित्याखिलं
श्रीराधाचरणद्वयं
सुकटकं
साम्राज्यलक्ष्म्या
बभौ
॥५१॥
(
स्वभावोक्त्युत्प्रेक्षारूपकश्लेषैः
साङ्कर्यम्
)
सुकटकं
शोभनौ
पादकटकौ
नूपुरौ
यत्र
तत।
पक्षे
प्रशस्तं
सेनावसतिस्थलं
श्रीराधाचरणद्वयं
शङ्खादिभिरङ्कितम्
।
लाक्षया
यावकेन
वर्मितं
कवचेनादृतम्,
एभिः
पूर्वोक्तैः
शङ्खादिभिराहवो
युद्धं
तस्योपकरणैः
अखिलं
विश्वं
विजित्य
साम्राज्यलक्ष्म्या
बभौ
।
कुञ्जरो
हस्ती
।
अङ्कुशः
।
इषुर्बाणः
।
चापो
धनुः
।
स्वस्तिकः
सीरस्य
डमर्याकारः
।
अन्ये
स्फुटार्थाः
।
चतुर्णां
मध्ये
स्वभावोक्तिः
स्वभावस्य
वर्णनं
[
अ
.
कौ
.
२७६
]
यद्यत्र
शङ्खादयः
।
चरणस्य
सल्लक्षणचिह्नानि
स्वभावसिद्धानि
।
उत्प्रेक्षा
अन्ययुद्धोपकरणजन्यसाम्राज्यलक्ष्म्यापेक्षया
राधाया
उत्कर्षरूपा
सम्राज्यलक्ष्मीः
।
उत्प्रेक्षालक्षणं
त्रयोविंशश्लोकेऽस्ति
।
रूपकं
शङ्खादीनां
चरणचिह्नशङ्खादिभिस्तादात्म्यम्
।
रूपकमत्र
प्रासङ्गि
प्रकृष्टसजातीयबहुसङ्गरत्वात।
पञ्चदशश्लोके
रूपलक्षणमस्ति
।
श्लेषः,
शङ्खार्धचन्द्रादयः
प्रसिद्धा
राधायाश्चरणचिह्नशङ्खादयश्च
।
कटकशब्देन
पादकटकः
।
सेना
चेत्यर्थद्वयकथनात।
कटकः
पादकटकः,
सेना
च
एषां
साङ्कर्यं
व्याप्यव्यापकभावरूपम्
।
अत्र
सङ्कर्यं
शङ्खादिचिह्नानां
च
स्वभावसिद्धत्वे
सत्येव
शङ्खादीनामुत्कर्षः
सिध्यति,
अतः
स्वभावोक्तिव्यापकः
।
उत्प्रेक्षा
एव
शङ्खादीनां
चरणचिह्नशङ्खादिभिस्तादात्म्ये
सति
शङ्खशब्दस्यार्थद्वयकथनरूपः
।
श्लेषलक्षणं
भवतीति
व्यापकव्याप्यभावो
बोध्यः
।
साङ्कर्यलक्षणं
पञ्चदशश्लोकेऽस्ति
॥५१॥
यत्कान्त्या
लवनाच्छ्रियः
किशलये
या
पल्लवाख्यां
न्यधात्
पद्माख्यां
नलिने
विधाय
मलिनीभावं
निशा
कोकवत।
शोकात्कोकनदाभिधां
विलपनै
रक्तोत्पले
चेत्यसौ
सा
राधा
भुवि
तत्पदद्वयमिदं
केनोपमेयं
भवेत॥५२॥
(
व्यतिरेकः
)
या
राधा
यद्यस्य
स्वस्याः
पदद्वयस्य
कान्त्या
किशलयस्य
रक्तवर्णकोमलनवीनपत्रस्य
याः
श्रियः
शोभास्तासां
लवनात्छेदनात्किसलये
पल्लवाख्यां
पदा
हेतुना
लवं
शोभानां
लवश्छेदो
यस्य
सः
।
पल्लव
इत्याख्यां
पल्लव
इति
नाम
न्यधातस्थापयन।
लूञ्
छेदने
धातुः
।
भावेऽप्यप्रत्ययः
।
यत्कान्त्या
नलिने
मलिनीभविष्यत्विधाय
पद्ममित्याख्यं
पदा
हेतुना
मलिनीभावो
यस्य
तत्पद्ममित्याक्यं
न्यधात।
केवलमशब्देन
मलिनीभाव
एकदेशग्रहणम्
।
यत्कान्त्या
नलिने
मलिनीभविष्यत्विधाय
पद्ममित्याख्यं
पदा
हेतुना
मलिनीभावो
यस्य
तत्पद्ममित्याख्यं
न्यधात।
केवलमशब्देन
मलिनीभाव
एकदेशग्रहणम्
।यत्कान्त्या
रक्तोत्पले
च
निशायां
कोकवत्चक्रवाकवत्शोकात्कोकस्य
विलपनमिव
यन्मुद्रितत्वरूपविलपनं
तदेव
नदो
नादस्तस्मात्कोकनदभिधां
कोकनदमिति
नाम
न्यधात।
रक्तोत्पलं
कोकनदमिति
।
कोकश्चक्रश्चक्रवाको
रथाङ्गाह्वयनामक
इति
चामरः
।
अतः
सा
राधा
तत्तस्या
पदद्वयं
च
केन
वस्तुना
उपमेयं
भवेत्न
केनापीत्यर्थः
।
व्यतिरेको
विलक्षण
उपमानात्गुणेन
दोषेण
च
[
अ
.
कौ
.
२६८
]
।
अत्र
पल्लवपद्मोत्पलातुपमेयं
राधापदद्वन्द्वं
गुणेन
विलक्षणम्
॥५२॥
अपूर्वा
श्रीराधाचरणकमलनखचन्द्रावलिर्
इयं
सदा
पूर्णा
भान्ती
हरिहृदि
निरङ्कारुणरुचिः
।
समुत्फुल्लं
तस्येन्द्रियकुमुदवृन्दं
विदधती
हठाच्चन्द्रावल्या
विरचयति
या
विस्मृतमपि
॥५३॥
(
रूपकविरोधव्यतिरेकश्लेषाह्
)
इयं
श्रीराधाचरणनखचन्द्रावलिरपूर्वा
।
अपूर्वतामाह—
निरङ्का
कलङ्करहिता
अरुणवर्णा
रुचिः
कान्तिर्यस्याः
सा
।
या
हरेः
श्रीकृष्णस्य
हृदि
सदा
पूर्णा
भान्ती
तस्य
कृष्णस्य
इन्द्रियरूपकुमुदवृन्दं
समुत्फुल्लं
विदधती
सती
।
तस्य
चन्द्रावल्या
विस्मृतमपि
हठाद्विरचयति
।
अत्र
रूपकं
राधानखचन्द्रयोस्तादात्म्यमत्र
समस्तवस्तुविषयम्
।
विरोधद्रव्यस्य
द्रव्येण
विरोधाभासो
बोध्यः
।
स
विरोधाभासो
विरोध
इति
वस्तुनो
न
विरोधः
।
विरोध
इव
भासते
इत्यर्थः
[
अ
.
कौ
.
२७५
]
।
जातिगुणक्रियाद्रव्याणां
जात्यादिभिर्विरोधः
।
जातिर्जात्यादिभिर्गुणस्त्रिभिर्द्वाभ्यां
क्रूपा
द्रव्यं
द्रव्येणैवेति
ते
दश
।
चन्द्रावलिरित्यत्र
चन्द्रसु
सदा
पूर्णो
न
निष्कलङ्कोऽरुणरुचिश्च
नेति
विरोधः
।
नखचन्द्रावल्या
चन्द्रस्य
च
वर्णगुणाभिन्नद्रव्यतया
तं
हठात्चन्द्रावलिं
विस्मारयतीत्यर्थः
।
विरोधाभावात्नखचन्द्रसमूहनिष्ठजात्या
सह
प्रसिद्धचन्द्ररूपद्रव्यस्य
जात्या
सह
द्रव्यस्य
विरोधाभासः
।
निरङ्कारुणरुचिरित्यत्र
कलङ्कस्याभावात।
अरुणस्य
विद्यमानत्वात्विरोधाभासो
गुणेन
गुणस्येति
।
कुमुदं
समुत्फुल्लमित्यत्र
कुमुदपुष्पस्य
फुल्लतायां
हरेरिन्द्रियकुमुदफुल्लतायां
क्रियाया
भिन्नत्वेन
विरोधाभासः
क्रियया
सह
क्रियायाः
।
चन्द्रावल्या
विस्मृतिरित्यत्र
चन्द्रावलिनामा
गोपी
चन्द्रश्रेणी
च
तस्या
भिन्नत्वात्द्रव्यस्य
द्रव्येण
विरोधाभासो
बोध्यः
।
नखचन्द्रस्य
क्षयाभावातापूर्णा
उपमानात्प्रसिद्धात्चन्द्रादुपमेयनखचन्द्रविलक्षणः,
गुणेनोत्कृष्टः
।
चन्द्रावलिशब्दः
चन्द्रश्रेणी
चन्द्रावली
गोपीति
श्लिष्टः
॥५३॥
तारुण्ये
नवराज्ञि
नीतिशिथिले
राधावपुःपत्तने
वक्षोजद्वयदस्युना
सजघनेनाक्रम्य
मध्यं
बलात।
पौष्कल्यं
निखिलं
हृतं
त्रिवलिभिः
फुत्कारभीत्या
गुणैर्
बद्ध्वा
स्थापितमित्यवेत्य
भयतो
गुल्फौ
निलीय
स्थितौ
॥५४॥
(
रूपकोत्प्रेक्षयोः
संसृष्टिः
)
श्रीराधायास्तारुण्यजाङ्घशोभां
वर्णयति
तारुण्ये
नवराज्ञीति
।
शिथिले
नीतेर्न्यायात्शिथिले
शैथिल्ययुक्ते
सति
राधाया
वपुरूपपत्तने
देशे
स्तनद्वयदस्युना
जघनदस्युना
च
तयोर्मध्यदेशं
बलादाक्रम्य
पौष्कल्यं
पुष्टत्वं
निखिलं
हृतम्
।
फुत्कारभीत्या
त्रिवलिभिः
गुणैर्बद्ध्वा
स्थापितमित्य्ज्ञात्वा
गुल्फौ
निलीय
स्थितौ
।
तारुण्यस्य
रज्ञा
स्तनजघनयोर्दस्युना
त्रिवल्ल्या
रज्ज्वा
तादात्म्यं
रूपकं
समस्तवस्तुविषयं
सजातीयबहूनामलङ्काराणां
सङ्गात्प्रासङ्गि
।
प्रसिद्धराज्ञो
गुणापेक्षया
राधायास्तारुण्यवक्षोजनितम्बत्रिवलीनामुत्कर्ष
उत्प्रेक्षा
।
संसृष्टिलक्षणं
यथा
शब्दार्थोभयभुवमलङ्काराणामखण्डावस्थितिः
संसृष्टिः
।
अत्रालङ्कारयो
रूपकोत्प्रेक्षयोरखण्डावस्थितिः
संसृष्टिः
॥५४॥
स्वस्थित्यैव
स्तम्भितस्वर्णरम्भा
स्तम्भारम्भे
दीव्यतोऽस्या
सुजङ्घे
।
धात्रानङ्गोष्णार्तकृष्णेभशीत
च्छायाशालास्तम्भतां
लम्भिते
ये
॥५५॥
(
रूपकोत्प्रेक्षे
)
अस्या
जङ्घे
दीव्यतः
।
कीदृश्यौ ?
स्वस्थित्या
स्तम्भितः
स्वर्णरम्भाणां
स्तम्भभावस्यारम्भो
याभ्यां
ते
।
धात्रा
अनङ्ग
एव
उष्णः
ग्रीष्मकालस्तेआर्तो
यः
कृष्णेभः
कृष्णरूपगजः,
तस्य
शीता
छाया
यत्र
तस्या
शालाया
गृहरूपाया
राधाया
स्तम्भतां
ये
जङ्घे
लम्भिते
प्रापिते
।
अत्र
रूपकम्
।
जङ्घयोः
स्तम्भत्वेन
कृष्णस्येभत्वेन
तादात्म्यमत्र
समस्तवस्तुविषयमुपमानोपमेययोः
शब्दगत्वात।
सजातीयरूपकान्तराभावेन
निःसङ्गं
स्वर्णकदलीवृक्षात्जङ्घयोरुत्कर्ष
उत्प्रेक्षा
॥५५॥
अस्या
मिषात्प्रसृतयोर्मदनाय
हैमा
लानद्वयं
विधिरदादनुमार्थितः
किम्
।
यत्कृष्णचित्तमदमत्तगजं
स
चास्मिन्
तन्माधुरी
सुदृढशृङ्खलया
बबन्ध
॥५६॥
(
रूपकोत्प्रेक्षापह्नुत्यनुमानानि
)
अमुना
मदनेन
प्रार्थितो
विधिरस्या
राधायाः
प्रसृतयोर्जङ्घयोर्मिषात्मदनाय
हैमालानद्वयं
किमदात्?
आलानं
करिबन्धनमित्यमरः
।
यद्यस्मात्स
मदनः
तत्तस्या
जङ्घायाः
माधुरी
सैव
सुदृढशृङ्खला
तया
अस्मिनालानद्वये
मदमत्तं
श्रीकृष्णस्य
चित्तहस्तिनं
बबन्ध
।
अत्र
रूपकम्
।
जङ्घाया
आलानेन
कृष्णचित्तस्य
गजेन
च
तादात्म्यमत्र
समस्तवस्तुविषयमुपमानोपमेययोः
शब्दगतत्वात्सजातीयरूपकान्तरस्याभावात्प्रासङ्गि
।
उत्प्रेक्षात्र
आलानात्जङ्घाया
उत्कर्षः
।
अपह्नुतिलक्षणं—
या
तु
प्रकृतस्यान्यथाकृतिः
सापह्नुतिः
[
अ
.
कौ
.
२४९
]
।
अत्र
जङ्घाया
आलानेन
अन्यथाकृतिरनुमानं
श्रीकृष्णचित्तहस्तिबन्धनं
हेतुं
कृत्वा
जङ्घायामालानत्वं
साध्यम्
॥५६॥
जानुद्वयं
न
तदिदं
वृषभानुजायाः
कामस्य
ते
कनकसम्पुटिके
सुगुप्ते
।
यत्कृष्णहृन्नयनरत्नमनेकयत्नैः
संमुष्य
सोऽयमनयोर्मुमुदे
निधाय
॥५७॥
(
अपह्नुतिरूपकोत्प्रेक्षानुमानानि
)
राधायास्तदिदं
जानुद्वयं
न
किन्तु
ते
कामस्य
सुगुप्ते
कनकसम्पुटिके
।
सोऽयं
मदनः
अनेकयत्नैः
कृष्णहृन्नयनरत्नं
संमुष्य
सञ्चौर्य
अनयोः
सम्पुटिकयोर्मध्ये
निधाय
मुमुदे
।
अत्र
प्रकृतस्य
जानुद्वयस्य
सम्पुटत्वेन
अन्यथाकृतिरपह्नुतिः
।
जानुद्वयस्य
सम्पुटेन
तादात्म्यं
रूपकं
पूर्वश्लोकरीत्या
समस्तवस्तुविषयं
प्रासङ्गि
च
।
कृष्णहृन्नयनादिरत्नाधरहेतुनान्यसम्पुटात्जानुसम्पुटस्य
उत्कर्षादुत्प्रेक्षा
।
श्रीकृष्णस्य
हृन्नयनयोर्जानुद्वये
अवस्थितं
हेतुं
कृत्वा
जानुद्वये
सम्पुटं
साध्यमत्रानुमानम्
॥५७॥
त्वचि
कठिनकरेभ्यः
पद्मिनां
भीः
करेः
स्याज्जलमयकदलीनां
ह्रीश्च
काण्डादसारात।
हरिकरभविलासायासलभ्ये
तदस्या
निरुपममधुरे
ते
सक्थिनी
केन
तुल्ये
॥५८॥
(
व्यतिरेकः
)
ये
हरिणा
श्रीकृष्णेन
करभयोर्विलासरूपायासेन
प्रयत्नेन
मुष्टीकृतकरद्वयाधोदेशेन
मृदुसेवया
लभ्ये
।
मणिबन्धादाकनिष्ठं
करस्य
करभो
बहिः
इत्यमरः
।
ते
निरुपममधुरे
अस्या
राधायाः
सक्थिनी
जानूपरि
ऊरुद्वयं
केन
तुल्ये
स्यातां ?
न
केनापीत्यर्थः
।
हस्तिशुण्डेन
सह
तुलनां
देहि
।
तत्राह—
पद्मिनां
हस्तिनां
त्वचि
कठिनेभ्यः
करेभ्यः
शुण्डेभ्यः
तुलनादाने
करेर्भीः
स्यात।
कदलीवृक्षेण
तुलना
दीयतामिति
चेत।
तदा
जलमयकदलीनामसारात्काण्डात्कदलीवृक्षाकाराद्धेतोः
कदल्या
तुल्यकथने
करेर्भीर्भयं
ह्रीर्लज्जा
च
स्यात।
व्यतिरेकोऽत्र
।
करिशुण्डकदलीरूपोपमानत्वातुरुद्वयस्य
वैलक्षण्यात्गुणेनाधिक्यात्व्यतिरेकः
॥५८॥
मनोज्ञं
श्रीगोवर्धनकटकमञ्चन्न
लभते
मुदं
यः
कालिन्द्याः
पुलिनगुणलीलास्मरणजाम्
।
न
तत्रत्यां
चास्याः
पुलिनमनुविन्दन्नघरिपुर्
नितम्बं
सोऽस्यान्तां
समलभत
पश्यन्नुभयजाम्
॥५९॥
(
सन्देहरूपकलुप्तोपमाः
)
यो
मधुरिपुः
मनोज्ञं
श्रीगोवर्धनस्य
कटकं
नितम्बमञ्चन्कालिन्द्याः
पुलिनगुणलीलास्मरणजां
मुदं
न
लभते
।
अस्याः
कालिन्द्याः
पुलिनमञ्चन्सन्तत्रत्यां
गोवर्धनकटकभवां
मुदं
च
न
लभते
।
स
श्रीकृष्णः
अस्या
राधाया
नितम्बं
पश्यनुभयजां
गोवर्धनकटकजां
कालिन्दीपुलिनजां
च
मुदं
समलभत
।
अत्र
व्यतिरेकः
।
उभयोर्गोवर्धनदर्शनजपुलिनदर्शनजयोर्मुदोर्नितम्बदर्शनजमुदोर्वैलक्षण्यं
गुणेनाधिक्यम्
॥५९॥
राधाश्रोणिरियं
समानपुलिनैः
सत्या
कवेर्गीरियं
यद्वेणी
यमुना
तदेव
पुलिनं
काञ्ची
मरालीततिः
।
नो
चेत्तत्र
हरेर्मनोनटवरः
श्रीरासलास्यं
कथं
स्वाभिर्वृत्तिसखीनटीभिरनिशं
कुर्वन्न
विश्राम्यति
॥६०॥
(
रूपकानुमानव्यतिरेकाः
)
श्रीराधाया
इयं
श्रोणिः
पुलिनैः
समा
इति
कवेरियं
गीः
सत्या
न
अपि
तु
सत्यैव
।
श्रोणिः
पुलिनैः
समेति
व्याख्याने
रूपकालङ्कारः
।
पुलिनेन
तादात्म्यं
न
सम्भवेत्यद्यस्मात्श्रोणिमध्यालम्बिनी
वेण्येव
यमुना
श्रोणीतटविराजमाना
।
काञ्ची
हंसीश्रेणी
।
तत्तस्मात्श्रोणिः
पुलिनमेव
चेद्यदि
न
हरेर्मन
एव
नटवरः
स्वाभिऋ
मनोवृत्तिरूपसखीनटीभिः
सह
तत्र
श्रोण्यां
श्रीरासलास्यं
रासक्रीडायां
नृत्यरससमूहो
रासस्तद्युक्तं
लास्यं
वा
अनिशं
कुर्वन्कथं
न
विश्राम्यति ?
वेण्यादेर्यमुनादिभिस्तादात्म्यात्रूपकमत्र
समस्तवस्तुविषयमुपमानोपमेययोः
शब्दगतत्वात।
श्रीकृष्णमनोरूपनटस्य
नृत्यं
हेतुं
कृत्वा
पुलिनं
साध्यमत्रानुमानं
पुलिनान्नितम्बस्य
वैलक्षण्यं
व्यतिरेकः
॥६०॥
वीर्योन्मत्तैर्मदकरितनुस्थूलता
हस्तकुम्भैर्
मैत्रीं
कृत्वा
शठगुरुनितम्बोरुवक्षोजचौरैः
।
पौष्कल्यं
मे
हृतमिति
भयक्रोधशोकादि
वास्या
दुःस्थं
मध्यं
त्वरितमकरोत्सिंहमध्येन
सख्यम्
॥६१॥
(
रुपकोत्प्रेक्षे
)
वीर्योन्मत्तैर्मदकरिणां
मत्तहस्तिनां
तनोः
स्थूलता
शुण्डकुम्भस्थलैः
सह
क्रमेण
मैत्रीं
कृत्वा
शठगुरवश्ते
नितम्बोरुवक्षोजाश्च
तैर्नितम्बोरुवक्षोजैः
चौरैर्मे
पौष्कल्यं
हृतमिति
हेतोर्भयक्रोधशोकादि
।
अस्या
मध्यं
मध्यदेशो
दुःस्थं
दुःखितं
सत्हस्तिहन्ता
यः
सिंहस्तस्य
मध्येन
सह
त्वरितं
सख्यमकरोत।
कैशोरावस्थायां
मध्यं
क्षीणं
नितम्बोरुस्तनाश्च
स्थूला
भवन्ति
।
तनादेर्हस्तिकुम्भादिना
मध्यस्य
सिंहमध्येन
तादात्म्यं
रूपकमत्र
समस्तवस्तुविषयम्
।
उत्प्रेक्षात्र
कुम्भद्यपेक्षया
इव
इति
शब्दद्योत्यः
स्तनादेरुत्कर्षः
॥६१॥
अस्या
नितम्बस्तनयोर्दरिद्रयोः
सन्धिं
विधायाहृतमध्यसम्पदोः
।
पश्चाद्विधिर्वीक्ष्य
कलिं
प्रलुब्धयोश्
चकार
सीमां
त्रिवलिच्छलेन
किम्
॥६२॥
(
उत्प्रेक्षापह्नुती
)
अस्याः
श्रीराधाया
नितम्बस्तनयोरादौ
दरिद्रयोस्ततः
सन्धिं
विधाय
परस्परं
सौहृदं
कृत्वा
आहृता
मध्यदेशस्य
सम्पदोः
याभ्यां
तयोर्लुब्धयोः
कलिं
कलहं
वीक्ष्य
पश्चात्सम्पदाहरणानन्तरं
पुनस्तयोः
कलिनिवृत्त्यर्थं
त्रिवलिच्छलेन
किं
सीमां
चकार
।
अन्यदरिद्रकलिसीमापेक्षया
किंशब्दद्योत्योत्कर्षोऽत्र
उत्प्रेक्षा
।
नितम्बस्तनत्रिवल्यादेर्लब्धसीमादिना
अन्यथाकृतिरत्रापह्नुतिः
॥६२॥
बाल्यमित्रविरहादवलग्नं
क्षीणतामुपगतं
प्रसमीक्ष्य
।
भङ्गभीतिविधुरो
विधिरस्याः
किं
त्रिधावलिगुणैः
प्रबबन्ध
॥६३॥
(
उत्प्रेक्षारूपके
)
बाल्यमेव
मित्रं
तस्य
विरहादवलग्नं
मध्यं
क्षीणतां
प्राप्तमिति
वीक्ष्य
विधिर्भङ्गभीत्या
कातरः
सन्त्रिवलिरज्ज्वा
किं
प्रबबन्ध
।
किं
पदद्योत्या ?
अन्यापेक्षयास्या
मह्यदेशत्रिवल्यादेरुत्कर्षोऽत्रोत्प्रेक्षा
।
त्रिवल्यादे
रज्ज्वादिरूपेण
तादात्म्यमत्र
रूपकम्
॥६३॥
सुधासरस्यां
कनकाब्जिनीदलं
भृङ्गालिफुल्लाब्जविराजदन्तरम्
।
किमेतदाभाति
न
किन्तु
राधिका
तुन्दं
सरोमावलिनाभिभूषितम्
॥६४॥
(
निश्चयानुसन्देहः
)
सुधासरोवरए
कनकपद्मलतादलम्
।
तत्कीदृशं ?
भ्रमरश्रेण्या
सह
प्रफुल्लकमलेन
विरजतन्तरं
मध्यं
यस्य
तदेतताभातीति
सन्देहः,
किन्तु
नैतत्राधिकायास्तुन्दमुदररोमावलिसहितनाभिना
भूषितमाभातीति
निश्चयः
।
निश्चयोऽनु
पश्चात्यस्य
तादृशः
सन्देहः
॥६४॥
चलदलदलजाले
कम्पदं
हैमदीव्यत्
कमलनवदलालौ
जाड्यदं
निर्जयेन
।
तिलकितमिव
रोमश्रेणि
कस्तूरिकाभिस्
तदिदमुदरमस्या
भाति
साम्राज्यलक्ष्म्या
॥६५॥
(
रूपकव्यतिरेकोत्प्रेक्षाः
)
तदस्या
उदरं
साम्राज्यलक्ष्म्या
भाति
।
साम्राज्यलक्ष्मीमाह
।
उदरं
कीदृशं ?
निर्जयेन
चलदलः
पिप्पलस्तस्य
दलसमूहे
कम्पदम्
।
बोधिद्रुमश्चलदलः
पिप्पलः
कुञ्जराशनः
इत्यमरः
।
स्वर्णवत्दीव्यत्कमलनवपत्रश्रेण्यां
जाड्यदं
च
।
अतः
सकाशात्रोमावलिश्रेणीरूपकस्तूरिकाभिस्तिलक्तमिवाभाति
।
साम्राज्यलक्ष्मीयुतस्यैव
कस्तूरीतिलकं
भवति
।
उदरस्य
अश्वत्थपत्रेण
स्वर्णपद्मस्य
नवपत्रश्रेण्या
च
तादात्म्यम्
।
रोमालेस्तिलकेन
तादात्म्यं
रूपकम्
।
अश्वत्थदलस्वर्णपद्मदलोपमानादुदरोपमेये
वैलक्षण्यादत
व्यतिरेकः
।
अश्वत्थदलाद्यपेक्षया
उदरादेरुत्कर्ष
उत्प्रेक्षा
॥६५॥
भृङ्गाराम्भोजमालाव्यजनशशिकलाकुण्डलच्छत्रयूपैः
शङ्खश्रीवृक्षवेद्यासनकुसुमलताचामरस्वस्तिकाद्यैः
।
सौभाग्याङ्कैरमीभिर्युतकरयुगला
राधिका
राजतेऽसौ
मन्ये
तत्तन्मिषात्स्वप्रियपरिचरणस्योपचारान्बिभर्ति
॥६६॥
(
स्वभावोक्त्युत्प्रेक्षापह्नुतयः
)
भृङ्गारो
जलपात्रम्
।
शशिकला
चन्द्ररेखा
।श्रीवृक्षो
बिल्ववृक्षः
।
पूर्वोक्तैः
सौभाग्यचिह्नैः
।
भृङ्गपद्ममालाव्यजनचन्द्ररेखाकुण्डलच्छत्रयूपशङ्खश्रीवृक्ष
वेद्यासनकुसुमलताचामरस्वस्तिकाद्यैर्युतकरकमला
असौ
राधिका
राजते
तत्तन्मिषात्भृङ्गारादिच्छलेन
कृष्णपरिचरणस्योपचारान्राधा
बिभर्ति
।
स्वभावोक्तिः
।
स्वभावस्य
अर्णनमत्र
करद्वये
भृङ्गारादेर्वर्णनम्,
करस्थभृङ्गारादेरुत्कर्षादुत्प्रेक्षाप्रकृतस्य
भृङ्गारादेः
प्रियपरिचर्योपचारत्वेनान्यथाकृतिरपह्नुतिः
॥६६॥
श्रीकामाङ्कुशतीक्ष्णचारुशिखरैर्माणिक्यपूर्णेन्दुभिः
श्लिष्टाग्रार्धविभागगन्धफलिकाश्रेणीदलैः
शोभिते
।
पद्मे
चेदभविष्यतां
क्वचिदपि
श्रीराधिकाहस्तयोर्
औपम्यं
जितपल्लवाब्जचययोः
सम्प्राप्स्यतां
ते
तदा
॥६७॥
(
रूपकव्यतिरेकातिशयोक्तयः
)
शोभायुक्तैः
कामाङ्कुशादपि
कामाङ्कुशवद्वा
तीक्ष्णानि
चारूणि
शिखराणि
अग्रभागाः
येषां
तैर्माणिक्यसम्बन्धिभिः
पूर्णेन्दुभिः
श्लिष्टो
युक्तोऽग्रभूतार्धविभागो
यस्यां
तथाभूतानां
गन्धफलिकानां
चम्पककलिकानां
श्रेण्यावेव
दलानि
तैः
शोभिते
पद्मे
चेद्यदि
क्वचिदपि
देशे
अभविष्यतां
तदा
जितः
पल्लवसमूहः
पद्मसमूहश्च
याभ्यां
तयोः
श्रीराधिकाहस्तयोरौपम्यं
सम्प्राप्स्यताम्
।
कामाङ्कुशेन
नखाग्रस्य
माणिक्यनिर्मितपूर्णचन्द्रेणारक्तनखस्य
चम्पककलिकया
अङ्गुल्या
पद्मेन
हस्तस्य
तादात्म्य्यं
रूपकम्
।
उपमानकामाङ्कुशमाणिक्याद्यपेक्षया
श्रीराधाया
नखादेर्वैलक्षण्यमत्र
व्यतिरेकः
।
उपमानेन
कामाङ्कुशेन
निगीर्णस्य
उपमेयस्य
राधानखाग्रस्य
निरूपणमत्रातिशयोक्तिः
।
एवं
चन्द्रेण
नखस्य
पद्मेन
करस्य
चम्पकदलैरङ्गुलैरङ्गुलीनां
च
निरूपणम्
॥६७॥
राधाकराब्जनखराः
सुखरा
बकारेर्
वक्षस्तटीगरुडरत्नकवाटिकायाम्
।
उत्कीर्णचित्रकरणाय
रतीशकारोष्
टङ्काः
सुसूक्ष्मनिशिताः
स्फुटमुल्लसन्ति
॥६८॥
(
रूपकोत्प्रेक्षे
)
सुखरा
अतितीक्ष्णाः
राधायाः
करनखराः
बकारेर्वक्षःस्थलरूपेन्द्रनीलमणिकवाटिकायां
क्षुद्रकवाटे
उत्कीर्णचित्रं
पाषाणादौ
क्षोदं
कृत्वा
हिङ्गुलादिवर्णकैः
पूर्णं
चित्रं
तत्करणाय
रतीश
एव
कारुः
शिल्पकारी
तस्य
सुसूक्ष्मा
निशिताष्टङ्काः
पाषाणदारकाः
स्फुटमुल्लसन्ति
॥६८॥
मूलेऽधोवदनं
वराटकयुगं
चाग्रेऽम्बुजे
बिभ्रती
नैते
स्वर्णमृणालके
रतिपतेर्ये
पाशतामागते
।
कृष्णोत्फुल्लतमालवेष्टनपटुबिल्वत्कुचाधःफले
राधाबाहुलते
इमे
करयुगश्रीपल्लवे
दीव्यतः
॥६९॥
(
सन्देहरूपकलुप्तोपमाः
)
एते
मूले
मूलदेशे
अधोवदनं
वराटकयुगं
बीजकोशद्वयमग्रे
अम्बुजे
च
बिभ्रती
दधाने
।
तदपि
स्वर्णमृणालके
मृणालमेव
मृणालकमेतेन
ये
रतिपतेः
पाशतां
प्राप्ते
।
अतः
कृष्णरूपोत्फुल्लतमालस्य
वेष्टने
पटू
निपुणे
।
बिल्ववताचरत
इति
बिल्वती
बिल्वतुल्ये
कुचरूपाधःफले
ययोस्ते
।
करयुगरूपश्रीपल्लवौ
ययोस्ते
।
इमे
राधाया
बाहुलते
दीव्यतः
।
बीजकोशो
वराटकः
इत्यमरः
।
मूले
वराटकयोर्धारणेनाग्रे
अब्जयोर्धारणेन
च
स्वर्णमृणालस्य
कारणसत्त्वेऽपि
न
मृणाले
इति
सन्देहः
।
बाहुयुगलस्य
लतात्वेन
तादात्म्यं
रूपकम्
।
पाशतामिवागते
पाशतामागते,
अत्र
लुप्तोपमा
॥६९॥
कामार्तिसिन्धुतरणाय
हरेर्विधात्रा
राधा
व्यधायि
तरणिर्मणिचित्रहैमी
।
तत्क्षेपणी
च
निहितशुभरोमराजिर्
न्यस्तं
च
बाहुयुगलं
किमरित्रयुग्मम्
॥७०॥
(
उत्प्रेक्षारूपके
)
विधात्रा
हरेः
कामार्तिसमुद्रस्य
तरणाय
राधा
मणिना
चित्रा
च
सा
हैमी
हेमनिर्मिता
तरणिर्नौका
व्यधायि
।
तस्यां
नौकायां
क्षेपणी
शुभरोमराजिर्च
निहिता
।
बाहुयुगलमरित्रयुग्मं
च
न्यस्तं
किं ?
नौकादण्डः
क्षेपणी
स्यादरित्रं
केनिपातकः
इत्यमरः
।
अन्यनौकापेक्षया
कृष्णार्तिसिन्धुतरणहेतुना
राधानौकाया
उत्कर्षादुत्प्रेक्षा
।
राधाया
नौकात्वेन
रोमावलेः
क्षेपणीत्वेन
बाहुयुगलस्य
अरित्रयुग्मत्वेन
तादात्म्यं
रूपकम्
॥७०॥
श्रीराधिकापार्श्वमत्तलिके
शुभे
सौन्दर्यकन्ये
वृणुतः
स्म
ये
स्वयम्
।
माधुर्यपुत्रौ
हरिपार्श्वसद्वरौ
सव्यापसव्यक्रमवैपरीत्यतः
॥७१॥
(
रूपकम्
)
श्रीराधायाः
पार्श्वे
मत्तलिके
प्रशस्ते
शुभे
सौन्दर्यस्य
कन्ये
ये
कर्तृभूते
माधुर्यस्य
पुत्रौ
हरेः
पार्श्वरूपसद्वरौ
वृणुतः
स्म
।
राधिकायाः
वामपार्श्वः
कृष्णस्य
दक्षिणपार्श्वम्,
श्रीराधादक्षिणपार्श्वं
कन्या
श्रीकृष्णवामपार्श्वं
वरमिति
वैपरीत्यम्
।
पार्श्वस्य
कन्यावरत्वेन
तादात्म्यं
रूपकम्
।
मतल्लिका
मचर्चिका
प्रकाण्डमुद्धतल्लजौ
।
प्रशस्तवाचकान्यमून्ययः
इत्यमरः
॥७१॥
स्मरजयलिपियुक्ता
हाटकीपट्टिकेयं
किमु
विधृतमनोभूशस्त्रिकं
स्वर्णपीठम्
।
मदनभुजगपाशाधारतूणं
नु
हैमं
नहि
लसति
विराजद्वेणि
राधासुपृष्ठम्
॥७२॥
(
निश्चयान्तसन्देहः
)
इयं
किं
स्मरजयस्य
या
लिपिस्तद्युक्ता
हाटकी
स्वर्णनिर्मिता
पट्टिका ?
किमु
विधृता
कन्दर्पस्य
शस्त्रिका
छुरी
इति
ख्याता
यत्र
तत्स्वर्णपीठम्
।
नु
वितर्के
।
हेमनिर्मितं
मदनस्य
नागपाशस्याधारतूणं
किं ?
इति
सन्देहानन्तरं
निश्चयमाह—
नहीति
।
तदा
किं
विराजन्ती
वेणी
यत्र
तत्श्रीराधायाः
शोभनपृष्ठं
लसति
॥७२॥
सहजविनतमंसद्वन्द्वमस्याः
कवीन्द्रा
गिरिधरकरशश्वद्भारतो
नम्रमाहुः
।
मम
तु
मतमनुच्चैरप्यदः
सर्वमुच्चैः
शिरसगणमतीत्योद्भाति
तत्सौभगेन
॥७३॥
(
व्यतिरेकविरोधोत्प्रेक्षाः
)
अस्याः
सहजातः
स्वतः
विशेषेण
नतं
स्कन्धद्वयं
कविश्रेष्ठाः
कृष्णकरस्य
शश्वद्भारात्नम्रमाहुः
।
मम
तु
मतमदः
अंसद्वन्द्वमनुच्चैरनुच्चं
नम्रमपि
तत्सौभगेन
कृष्णकरस्य
शश्वद्भारजन्यसौभाग्येन
सर्वमुच्चैः
शिरसगणं
वयं
सौभाग्यवत्य
इत्यभिमानेन
उच्चैरुच्चान्युन्नतानि
शिरांसि
मस्तकानि
यस्यां
ताः
।
किं
वा,
राजदन्तादिवत्शिरसोच्चैरुच्चा
उच्चता
उच्चैः
शिरसस्ता
व्रजे
श्रीचन्द्रावल्यादिव्रजसुन्दर्यः,
पुरे
श्रीमहिष्यः,
परव्योम्नि
श्रीलक्ष्म्यश्च,
अन्या
या
गौरीशच्याद्या
दिव्याङ्गनाः,
तासामुच्चैःशिरसामयमुच्चैःशिरसः
।
इदमर्थे
अणि
चौरा
इत्यत्राणोऽणित्वादिस्वरा
वृद्धिः,
स
चासौ
गणश्चेति
तम्
।
उच्चैःशिरसगणमतिक्रम्योद्भाति
।
उपमानत्वात्सहजनतादंशद्वयात्कृष्णकरभारजन्यनतरूपविलक्षणो
व्यतिरेकः
।
अनुच्चस्य
सर्वोच्चत्वेन
विराजमानता
विरोध
इव
भासते,
न
तु
विरोधः
।
तल्लक्षणं—
द्रव्यं
द्रव्येण
विरुध्यते
।
नतं
स्कन्धद्वयं
द्रव्यं
तस्य
सौभाग्यजन्योच्चांशेन
गुणेन
सह
विरोधाभासः
।
सहजनतस्य
अंसद्वयस्य
कृष्णकरभारसौभाग्यजन्योत्कर्षादुत्प्रेक्षात्र
॥७३॥
सौन्दर्यलक्ष्मीरिह
काव्यलक्ष्मीः
सन्गीतलक्ष्मीश्च
हरेर्मुदेऽस्ति
।
पूर्णेति
धातुर्गणनात्तु
रेखा
त्रयेण
कण्ठः
किमु
भात्यमुष्याः
॥७४॥
(
उत्प्रेक्षा
)
इह
कण्ठे
सौन्दर्यादिलक्ष्मीत्रयी
हरेर्मुदे
पूर्णास्ति
इति
विधातुर्गणनादमुष्याः
कण्ठो
रेखात्रयेण
किमु
भाति
।
अन्यकण्ठात्पूर्णलक्ष्मीत्रयस्यास्तित्वेन
उत्कर्षादुत्प्रेक्षा
॥७४॥
सीमार्थमुच्चैः
शिरसोर्विवादे
बलिष्ठनासास्तनयोर्विधाता
।
राधावपुर्नीवृतिकण्ठमध्ये
रेखात्रयेनैव
चकार
सीमाम्
॥७५॥
(
उत्प्रेक्षारूपके
)
उच्चैः
शिरोऽग्रं
ययोस्तयोर्बलिष्ठनासास्तनयोः
श्रीराधायाः
वपुर्नीवृतिशरीररूपदेशे
सीमार्थं
विवादे
सति
विधाता
तस्या
कण्ठमध्ये
रेखात्रयेनैव
सीमां
चकार
।
विधातृकर्तृत्वेन
हेतुना
अन्यसीमातोऽस्याः
सीमाया
उत्कर्षादुत्प्रेक्षा
।
राधाशरीरस्य
देशत्वेन
त्रिरेखायाः
सीमात्वेन
तादात्म्यात्रूपकम्
॥७५॥
व्यर्थीकृता
स्वरगुणैर्गहनं
पिकाली
भेजे
सुधा
च
कटुतां
जडतां
ततश्रीः
।
यस्य
श्रिया
दरततिश्च
समुद्रमस्याः
केनोपमान्तु
कवयस्तमिमं
सुकण्ठम्
॥७६॥
(
दीपकव्यतिरेकौ
)
कवयः
अस्याः
सुकण्ठं
केन
उपमान्तु
उपमां
ददातु
।
अस्य
कण्ठस्य
स्वरगुणैर्व्यर्थीकृता
पिकाली
गहनं
वनं
भेजे
।
सुधा
कटुतां
भेजे
।
ततं
वीणादिवाद्यं
तस्य
श्रीश्च
जडतां
भेजे
।
यस्य
श्रिया
दरः
शङ्खस्तस्य
श्रेणी
समुद्रं
भेजे
।
दीपकलक्षणं—
कारकैक्ये
क्रियाबह्व्योः
व्यत्ययेऽपि
च
दीपकं
[
अ
.
कौ
.
२६४
]
।
व्यत्ययेऽपि
क्रियाया
ऐक्ये
कारकस्य
बहुत्वेऽपि
दीपकम्,
तदेवात्र—
कटुतां
जडतां
ततश्रीः
।
दरततिरित्यत्र
कारकस्य
बहुत्वम्
।
भेजे
इत्यत्र
क्रियाया
ऐक्यं
दीपकम्
।
कोकिलस्वराद्युपमानत्वात्श्रीराधिकास्वरादीनां
विलक्षणत्वेन
व्यतिरेकः
॥७६॥
यो
बालार्कविकाशिसुप्तमधुपस्वर्णाम्बुजैकच्छदो
विश्राम्यत्पिकहेममन्दिरगवाक्षाधोविटङ्कोऽपि
यः
।
तौ
राधामदबिन्दुचारुचिबुकं
दृष्ट्वा
स्वसाम्योत्सुकौ
श्रीकृष्णाङ्गुलिसङ्गसौभगगुणैर्न्यक्कृत्य
विभ्राजते
॥७७॥
(
व्यतिरेकः
)
यो
बालार्केण
विकाशी
विकाशवांश्चासौ
सुप्तमधुपेन
सहितः
स्वर्णाम्बुजस्य
एकः
छदो
दलं
चासौ
हेममन्दिरस्य
गवाक्षस्य
अधोवर्ति
विटङ्कः
पक्षिणां
निवासस्तौ
कीदृशौ ?
स्वस्य
राधाचिबुकस्य
साम्ये
उत्सुकौ
तौ
दृष्ट्वा
राधाया
मदबिन्दुना
मृगमदबिन्दुना
चारु
मनोहरं
चिबुकम्
।
श्रीकृष्णाङ्गुलिसङ्गसौभगगुणैस्तौ
न्यक्कृत्य
तिरस्कृत्य
विभ्राजते
।
हेममन्दिरमत्र
श्रीराधाशरीरं
गवाक्षमुखं
चिबुकं
पक्षिगृहम्
।
विश्राम्यत्पिकोऽत्र
कस्तूरीबिन्दुः
।
स्वर्णकमलस्यैकदलस्थभ्रमरात्स्वर्णगृहस्य
गवाक्षाधःस्थविटङ्के
विश्राम्यत्कोकिलाच्च
कस्तूरीबिन्दुना
सह
चिबुकस्य
विलक्षणत्वेन
व्यतिरेकः
॥७७॥
बन्धोर्हरेर्जीवतयास्य
तत्ता
प्रेम्नो
बहिर्बिम्बतया
तथास्य
।
राधाधरौष्ठाविति
बन्धुजीवबिम्बौ
स्वयं
तन्नहि
साम्यमाभ्याम्
॥७८॥
(
रूपकव्यतिरेकौ
)
बन्धोर्हरेरस्य
श्रीकृष्णस्य
जीवतया
तत्ता
बन्धुजीवता
।
अयमत्रार्थः
श्रीकृष्णस्य
जीवनं
श्रीराधाया
अधरौष्ठयोर्मध्ये
स्थितं
तस्य
प्रतिबिम्बरूपावेतावधरौष्ठौ
।
तथास्य
हरेः
प्रेम्णा
बहिर्बिम्बतया
मण्डलतया
।
बिम्बोऽस्त्री
मण्डलं
त्रिषु
इत्यमरात।
तथा
बिम्बता
इत्यर्थः
।
तथा
च
राधाविषयकप्रेम्णो
बिम्बं
हृदयं
बहिर्बिम्बं
राधाधरौष्ठौ
इति
यावत।
बन्धुजीवबिम्बौ
स्वयं
राधाधरौष्ठौ
तत्तस्मादाभ्यां
बन्धुजीवबिम्बताभ्यामोष्ठाधरयोः
साम्यं
नहि
।
श्लेषेण
बन्धुजीवपुष्पबिम्बफले
च
।
राधाधरौष्ठौ
अधरौष्ठयोर्बन्धुजीवबिम्बयोस्तादात्म्यं
रूपकम्
।
बन्धुजीवबिम्बयोरोष्ठाधरयोर्विलक्षणत्वेन
व्यतिरेकः
॥७८॥
आनन्दपूर्णामृतसत्त्वमूर्तेः
कृष्णस्य
जीवातुतयाप्तकीर्तेः
।
एतावता
वर्णितसन्महिम्नो
राधाधरस्यान्यगुणैः
किमुक्तैः
॥७९॥
(
स्वभावोक्त्याक्षेपौ
)
आनन्दादिमूर्तेः
कृष्णस्य
जीवनोपायत्वेन
कीर्तिर्यस्य
एतावता
श्रीकृष्णजीवनोपायत्वेन
वर्णितः
सन्महिमा
यस्य
तस्य
श्रीराधाधरस्य
उक्तैरन्यगुणैः
किं
किमपीत्यर्थः
।
श्रीराधाधरस्य
स्वभाववर्णनादत्र
स्वभावोक्तिः
।
आक्षेपलक्षणं—
आक्षेपो
वक्तुमिष्टस्य
यो
विशेषविवक्षया
।
निषेधो
वक्ष्यमाणत्वेनोक्तत्वेन
च
स
द्विधा
॥
[
अ
.
कौ
.
२७०
]
अत्र
वक्तुमिष्टस्य
राधाधरस्यान्यमहिम्नो
वक्ष्यमाणस्योक्तस्य
च
निषेधकथनेनाक्षेपः
॥७९॥
राधादन्तान्विजितशिखराफुल्ल
कुन्दाद्यमित्रान्
विश्वव्याप्तीरितनिजकरानुन्मदान्वीक्ष्य
वेधाः
।
द्राक्चेदोष्ठाधरसुपिहितान्नाकरिष्यत्तदा
ते
नानावर्णं
जगदपि
सिताद्वैतमेव
व्यधास्यन॥८०॥
(
उदात्तव्यतिरेकातिशयोक्तयः
)
वेधा
राधादन्तान्वीक्ष्य
चेद्यदि
द्राक्शीघ्रमोष्ठाधराभ्यां
सुपिहितान्नाकरिष्यत।
तदा
ते
दन्ता
नानावर्णं
जगदपि
सिताद्वैतं
शुक्लवर्णमयमेव
व्यधास्यन।
कीदृशान्?
विजितानि
शिखराणि
च,
पक्वदाडिमबीजाभं
माणिक्यं
शिखरं
विदुः,
अफुल्लानि
कुटनलभूतानि
कुन्दानि
च
तदादीन्येवामित्राणि
शत्रवो
यैस्तान।
पुनः
किंभूतान्?
विश्वव्याप्तौ
ईरिताः
प्रेरिता
निजकरा
निजकिरणा
यैस्तान।
उन्मदानुन्मत्तान।
उदात्तलक्षणं—
समृद्धिरुदात्तं
वस्तुनः
परा
[
अ
.
कौ
.
२८४
]
।
अत्र
दन्तानां
परा
समृद्धिरुदात्तम्
।
पक्वदाडिमबीजाकाररत्नकुन्दपुष्पाद्युपमानत्वात्श्रीराधादन्तानां
गुणेन
वैलक्षण्यं
व्यतिरेकः
।
शिखरकुन्दपुष्पाद्युपमानेन
उपमेयस्य
राधादन्तस्य
उत्कर्षनिरूपणमत्रातिशयोक्तिः
॥८०॥
कुन्दाकृतिर्हीररुचिर्विचित्र
श्रीराधिकाया
रदकीरराजिः
।
या
नित्यकृष्णाधरबिम्बमात्र
स्वादेन
लेभे
शिखरच्छवित्वम्
॥८१॥
(
रूपकतद्गुणौ
)
श्रीराधाया
दन्तशुकश्रेणी
कुन्दपुष्पाकृतिः
हीररुचिर्विचित्रा
च,
कुन्दाकृतित्वेन
कुन्दपुष्पवत्शुक्लत्वम्
।
हीररुचिरित्यनेन
दीप्तिमत्त्वमिति
मध्यदन्तचतुष्टयस्य
विचित्रा
चित्रवर्णा
इति
पार्श्वस्थदन्तस्य
दन्तरूपकीरश्रेणी
सदा
कृष्णाधरबिम्बफलमात्रास्वादनेन
शिखरस्य
पक्वदाडिमबीजाभरत्नस्य
कान्तिमत्त्वं
लेभे
।
दन्तानां
दाडिमबीजकुन्दादिभिस्तादात्म्यं
रूपकम्
।
तद्गुणलक्षणम्,
यथा—
उत्कृष्टगुणयोगेन
समुत्सृज्य
निजं
गुणम्
।
वस्तु
तद्गुणतां
याति
तदायं
तद्गुणो
यथा
॥
श्रीकृष्णाधरस्य
रक्तोत्कृष्टतद्गुणयोगेन
राधादन्तश्रेणी
निजं
शुक्लगुणमुत्सृज्य
श्रीकृष्णाधरस्य
रक्तगुणप्राप्त्या
तद्गुणा
बभूव
इति
भावः
॥८१॥
राधारसज्ञारुणरत्नदर्वी
कृष्णाय
रेजे
परिवेशयन्ती
।
सन्नर्मसङ्गीतसुकाव्यरूपान्
स्ववाग्विलासामृतसद्विकारान॥८२॥
(
रूपकम्
)
श्रीराधाया
रसज्ञा
जिह्वा
सैवारुणवर्णरत्नस्य
दर्वी
हाता
करछीति
ख्याता
।
कृष्णाय
सन्नर्मसङ्गीतसुकाव्यरूपान्स्ववाग्विलासामृतस्य
सद्विकारान्मिष्टान्नानीव
नानावाक्यभेदान्परिवेशयन्ती
रेजे
॥८२॥
यां
कृष्णसत्कीर्तिविदग्धनर्तकीं
राधास्वकण्ठे
निलये
न्यवीविशत।
चकास्ति
सूक्ष्मारुणशाटिकाञ्चलं
तस्या
बहिःस्थं
रसनाच्छलेन
किम्
॥८३॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
या
यां
श्रीकृष्णस्य
सत्कीर्तिरूपां
विदग्धां
नर्तकीं
श्रीराधानिलयरूपे
स्वकण्ठे
न्यवीविशत।
तस्या
सूक्ष्मारुणशाटिकाया
अञ्चलं
रसनाच्छलेन
बहिश्चकास्ति
।
किं
श्रीकृष्णकीर्तेर्नर्तकीत्वेन
राधाकण्ठस्य
रङ्गभूमित्वेन
रसनाया
अरुणशाटिकाञ्चलत्वेन
तादात्म्याद्रूपकम्
।
प्रकृतानां
सत्कीर्तिकण्ठरसनानां
नर्तक्यादिरूपेणान्यथाकृतिरत्रापह्नुतिः
।
अन्यथाकृतिः
प्रकृतं
निषिध्यान्यस्य
स्थापनम्
।
श्रीकृष्णसत्कीर्तिविदग्धनर्तक्या
निलयत्वेन
हेतुना
कण्ठादेरुत्कर्षकथनमुत्प्रेक्षा
॥८३॥
श्रीकृष्णसत्कीर्त्यभिधाननाम्नो
सुनव्ययूनोर्मिथुनस्य
धात्रा
।
हिन्दोललीलाभिरतस्य
चक्रे
राधारसज्ञारुणवस्त्रदोला
॥८४॥
(
रूपकोत्प्रेक्षे
)
श्रीकृष्णस्य
सत्कीर्तिरभिधानं
चेति
नामनी
ययोस्त्वेऽर्थात्सत्कीर्तिनामनी
तयोस्तस्य
मिथुनस्य
सुनव्ययूनोरित्यनेन
सदैव
नव्ययुववत्पुनः
पुनर्जिह्वायां
हिन्दोललीलाभिरतत्वेन
मिथुनत्वं
तथा
रसनाया
अरुणवस्त्रदोलात्वं
रूपकम्
।
श्रीकृष्णकीर्तिनामोच्चारणहेतुना
रसनाया
उत्कर्षमत्रोत्प्रेक्षा
॥८४॥
पीयूषाब्धितरङ्गवर्णमधुरं
नर्मप्रहेलीमयं
शब्दार्थोभयशक्तिसूचितरसालङ्कारवस्तुध्वनि
।
भृङ्गीभृङ्गपिकीपिकध्वनिकलास्वध्यापकं
राजते
श्रीकृष्णश्रवसो
रसायनमिदं
श्रीराधिकाभाषितम्
॥८५॥
(
रूपकस्वभावोक्ती
)
अमृतसमुद्रस्य
तरङ्गवत्वर्णेन
वर्णप्रयोगेण
मधुरं
मनोहरं
नर्म
परिहासः
प्रहेली
वाक्चातुरी
तन्मयम्
।
शब्दार्थोभयशक्त्या
शंसितः
कथितो
रसालङ्कारवस्तूनां
ध्वनिर्यत्र
तत।
भृङ्गादिध्वनिकलासु
अध्यापकं
राधाभाषितं
कृष्णकर्णयो
रसायनं
सत्राजते
।
राधावाक्यस्यामृतेन
तादात्म्यं
रूपकम्
।
राधावाक्यस्य
स्वभाववर्णनमत्र
स्वभावोक्तिः
॥८५॥
प्रेमाज्यनर्मालिसितारसावली
माध्वीकमन्दस्मितचन्द्रसम्युता
।
अस्या
मृषेर्ष्या
मरिचान्विताद्भुता
वाणी
रसालोल्लसतीशतृप्तिदा
॥८६॥
(
रूपकम्
)
अस्या
वाणी
रसाला
पानकविशेषः
।
रसाला
घृतसितामधुकर्पूरमरिचमिश्रं
जलं
भवति
।
तदेवाह—
प्रेमाज्यं
घृतं
नर्मालिः
सिता
रसश्रेणी
मधुरं
स्मितं
कर्पूरः
मिथ्येर्सामरिचैरन्वितः
।
ईशः
कृष्णस्तस्य
तृप्तिदा
।
वाण्या
रसालात्वेन
तादात्म्यं
रूपकम्
॥८६॥
सुधासरिदियं
हरेः
किमु
मनोमरालाश्रयः
सुधाकिरणकौमुदीतृषितदृक्चकोरीगतिः
।
सुधासितघनावली
सुतनुचातकीजीवनी
विराजति
न
राधिकास्मितसुधोर्मिरुन्मीलति
॥८७॥
(
रूपकनिश्चयान्तसंशयौ
)
इयं
किमु
हरेः
सुधामयसरिन्नदीरूपा
यतः
हरेर्मनोमरालस्य
हंसस्याश्रयः ?
किमियं
सुधाकिरणश्चन्द्रस्तस्य
कौमुदी
ज्योत्स्ना,
अत
एव
हरेस्तृषितदृक्चकोर्या
गतिः
सुधायाः
सिता
शुक्ला
निर्मला
मेघावली
।
यतो
हरेः
सुतनुचातकी
तस्या
जीवनी
जीवनोपायो
विराजति
न
तदा
किं
राधास्मित
इत्यादि
स्मितस्य
नद्याद्युपमानेन
तादात्म्यं
रूपकम्
।
सुधानद्यादिरूपेणादौ
संशयं
पश्चात्राधास्मितत्वेन
निश्चयः
निश्चयान्तसंशयः
॥८७॥
हरेर्गुणालीवरकल्पवल्ल्यो
राधाहृदाराममनु
प्रफुल्लाः
।
लसन्ति
या
याः
कुसुमानि
तासां
स्मितच्छलात्किन्तु
बहिः
स्खलन्ति
॥८८॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
श्रीराधाया
हृदयपुष्पोद्याने
श्रीकृष्णगुणश्रेणीरूपाः
श्रेष्ठकल्पलता
या
या
प्रफुल्ला
लसन्ति
।
तासां
वल्लीनां
कुसुमानि
स्मितच्छलात्नु
भोः
किं
बहिः
स्खलन्ति ?
हृदयादीनामारामादिरूपेण
तादात्म्यं
रूपकम्
।
प्रकृतस्य
हृदयादेरारामादिना
अन्यथाकृतिरपह्नुतिः
।
श्रीकृष्णगुणमत्त्वेन
हेतुना
वल्ल्यादेः
स्मितस्य
उत्कर्ष
उत्प्रेक्षा
॥८८॥
श्रीराधावदनं
सुधाक्षयसरः
कृष्णार्णवं
यत्ततो
निष्क्रम्याञ्चति
पञ्चमस्वरसुधास्रोतस्वतीयं
क्वचित।
सङ्गीतामृतवाहिनी
तत
इतो
वाणीसुधानिम्नगा
क्वाप्यामोदसुधाधुनी
स्मितसुधा
दिव्या
नदी
चान्यतः
॥८९॥
(
रूपकतुल्ययोगितानुमानक्रियादीपकानि
)
यद्यस्मात्राधावदनं
सुधाया
अक्षयसरोवरस्ततः
श्रीराधामुखात्निष्क्रम्य
पञ्चमस्वर
एव
सुधानदी
क्वचित्समये
श्रीकृष्णार्णवमञ्चति
गच्छति
।
क्वचित्सङ्गीतसुधानदी
राधावदनात्श्रीकृष्णार्णवमञ्चति
।
एवं
क्वापि
तत
इतो
वाणी
सैव
सुधानदी
।
क्वाप्यामोदः
सौगन्ध्यं
तदेव
सुधानदी
।
अन्यतः
क्वापि
स्मितसुधैव
दिव्या
नदी
सा
सा
सा
सा
सा
राधामुखात्श्रीकृष्णार्णवमञ्चति
।
श्रीराधामुखादीनां
सुधासरोवरत्वादिना
तादात्म्यात्रूपकम्
।
प्रकृतानां
चैकदोक्तिरुच्यते
तुल्ययोगिता
[
अ
.
कौ
.
२६६
]
।
प्रकृतानां
राधावदनादीनां
पञ्चमस्वरसुधानद्यादीनामेकदोक्त्या
तुल्ययोगितात्र
।
पञ्चमस्वरसुधानदीनां
निष्क्रमणं
हेतुं
कृत्वा
श्रीराधावदने
अक्षयसुधासरसोऽनुमानम्
।
यत्र
क्रियाया
एकत्वं
कारकस्य
बहुत्वम्,
अथवा
क्रियायामनेकत्वं
तत्र
दीपकं
पञ्चमस्वरसुधानद्यादिकारकस्यात्र
बहुत्वेनाञ्चति
क्रियाया
ऐक्येन
क्रियादीपकम्
॥८९॥
राधाया
वदनं
सुमेरुशिखरं
न्यक्कृत्य
विभ्राजते
यत्तस्मात्स्मितसत्सुधासुरधुनी
कृष्णामृताम्भोनिधिम्
।
दिव्यामोदसुधासुपर्वतटिनी
वाणीसुधास्वर्नदी
सङ्गीतामृतजाह्नवी
स्वरसुधामन्दाकिनी
चाञ्चति
॥९०॥
(
क्रियादीपकानुमानरूपकतुल्ययोगिताः
)
श्रीराधाया
वदनं
सुमेरुशिखरं
तिरस्कृत्य
विभ्राजते
।
न्यक्कारे
हेतुमाह—
प्रसिद्धा
गङ्गा
जलमयी
समुद्रं
गच्छति
।
इयममृतमयी
अमृतसमुद्रं
गच्छतीति
।
स्मितमेव
सत्सुधासुरधुनी
गङ्गा
श्रीकृष्णामृतार्णवमञ्चति
।
दिव्यामोद
एव
सुधापः
सुपर्वतटिनी
देवनदी
श्रीकृष्णामृताम्भोनिधिमञ्चति
।
एवमग्रेऽपि
।
वाणी
सैव
सुधास्वर्नदी
सङ्गीतमेवामृतजाह्नवी
।
स्वरो
मन्दाकिनी,
स्मितसुधासुरधुनीत्यादि
कारकस्य
बहुत्वेन
अञ्चति
क्रियाया
ऐक्यात्क्रियादीपकम्
।
राधावदनात्गङ्गादिनदीनां
कृष्णामृतसमुद्रगमनहेतुं
कृत्वा,
राधावदनेन
सुमेरुशिखरस्य
न्यक्कारः
साध्यमत्रानुमानम्
।
स्मितादीनां
सुधानदीत्वेन
रूपकम्
।
स्मितसुधासुरधुन्यादीनां
प्रकृतानामेकदोक्त्या
तुल्ययोगिता
॥९०॥
नयनपथिकयात्रामङ्गलायाघशत्रोर्
विधिरिह
मुखपद्मं
राधिकाया
विधाय
।
तदधि
निहितचक्षुःखञ्जनौ
वीक्ष्य
लोलौ
निभृतमकृत
नासास्वर्णदण्डे
निबद्धौ
॥९१॥
(
रूपकोत्प्रेक्षे
)
अघशत्रोर्नयनपथिकस्य
यात्रायां
मङ्गलार्थं
विधिः
राधामुखपद्मं
विधाय
तदधि
मुखपद्मे
निहितनेत्रखञ्जनौ
लोलौ
वीक्ष्य
नासास्वर्णदण्डे
निबद्धौ
अकृत
।
यात्रासमये
पदे
खञ्जनदर्शनं
सुमङ्गलं
मुखनेत्रनासानां
पद्मखञ्जनस्वर्णदण्डत्वेन
रूपकम्
।
पद्मदिभ्यो
मुखादीनामुत्कर्ष
उत्प्रेक्षा
॥९१॥
हरिनयनचकोरप्रीतये
राधिकाया
मुखशशिनमपूर्वं
पूर्णमुत्पाद्य
धाता
।
नयनहरिणयुग्मं
न्यस्य
तस्मिन्सुलोलं
न्यधित
तदवरोद्धुं
पार्श्वयोः
कर्णपाशौ
॥९२॥
(
रूपकोत्प्रेक्षे
)
श्रीकृष्णनेत्रचकोरप्रीत्यर्थं
धाता
पूर्णमपूर्वं
राधामुखचन्द्रमुत्पाद्य
तस्मिन्सुलोलं
नयनहरिणयुग्मं
न्यस्य,
तत्हरिणयुग्मं
रोद्धुं
पार्श्वद्वये
कर्णरूपपाशौ
रज्ज्वौ
न्यधात।
श्रीकृष्णनेत्रयोश्चकोरत्वेन
श्रीराधामुखचन्द्रत्वेन
नयनस्य
हरिणत्वेन
रूपकम्
।
अन्यचकोराद्यपेक्षया
नयनादीनामुत्कर्षादुत्प्रेक्षा
॥९२॥
चन्द्रः
कलङ्की
क्षयितोऽतिविह्वलस्
तत्पादघातैर्मलिनं
यथाम्बुजम्
।
सुनिर्मलं
सन्ततपूर्णमण्डलं
केनोपमेयं
वद
राधिकाननम्
॥९३॥
(
व्यतिरेकः
)
चन्द्रः
कलङ्की
क्षयरोगो
जातोऽस्येति
क्षयितस्तेन
विह्वलस्तत्तस्य
चन्द्रस्य
पादघातैर्किरणैर्मलिनं
यथा
अम्बुजं
तथा
चन्द्रोऽपि
कलङ्केन
मलिनं
सुनिर्मलं
सदा
पूर्णमण्डलं
श्रीराधावदनं
केनोपमेयम्
।
चन्द्रात्श्रीराधामुखं
विलक्षणं
व्यतिरेकः
॥९३॥
राधाया
जितहेमदर्पणमदं
गण्डद्वयं
सुन्दरम्
लावाण्यामृतपूर्णितं
हि
कनकक्षौण्यां
सरोयुग्मकम्
।
यत्ताटङ्कसुवर्णपद्मकलिकं
कस्तुरिकाचित्रसच्
छैवालं
मकरीविलासवलितं
कृष्णातितृष्णाहरम्
॥९४॥
(
रूपकानुमानव्यतिरेकाः
)
श्रीराधाया
गण्डद्वयं
जितो
हेमदर्पणमदो
येन
तत।
कनकपृथिव्यां
सरोवरयुगम्
।
सरोधर्ममाह—
यत्ताटङ्कौ
कर्णभूषणे
सुवर्णस्य
पद्मकलिके
यत्र
तत।
कस्तुरिका
चित्रमेव
यत्शैवालं
यत्र
तत।
चित्रितमकार्या
विलासेन
युक्त्तम्
।
श्रीकृष्णस्य
तत्रैव
या
अतितृष्णा
तां
हरतीति
तत।
गण्डयोः
सरोजयुग्मत्वेन
रूपकम्
।
श्रीराधारूपकनकभूमौ
श्रीकृष्णतृष्णाहरत्वं
हेतुं
कृत्वा
सरोयुग्मं
साध्यमत्रानुमानम्
।
अन्यसरोवरात्गण्डसरो
विलक्षणमत्र
व्यतिरेकः
॥९४॥
श्रीकृष्णश्रीनयनमधुपद्वन्द्वपोषाय
धाता
श्रीलावण्यामृतमयसरस्यानने
राधिकायाः
।
उत्पाद्यास्मिन्नयनयुगलच्छद्मनेन्दीवरे
द्वे
श्रीगण्डेन्दू
न्यधित
स
तयोः
पार्श्व
उत्फुल्लतायै
॥९५॥
(
रूपकोत्प्रेक्षापह्नुतयः
)
धाता
श्रीकृष्णनेत्रमधुपद्वन्द्वपोषार्थं
श्रीराधाया
लावण्यामृतमयसरोवरारूपे
आननेऽस्मिन्नयनच्छलेन
द्वे
इन्दीवरे
उत्पाद्य
स
विधिस्तयोर्नयनयोरुत्फुलतार्थं
नयनयोः
पार्श्वे
पार्श्वद्वये
श्रिया
कान्त्या
करणेन
सहितौ
गण्डेन्दू
गण्डरूपचन्द्रौ
न्यधित
।
श्रीकृष्णनयनस्य
मधुपत्वेन
श्रीराधामुखस्य
सरसीत्वेन
नेत्रयोर्नीलपद्मत्वेन
गण्डयोश्चन्द्रत्वेन
साम्याद्रूपकम्
।
अन्यमधुपादिभ्यः
श्रीकृष्णनयनादेरुत्कर्षमुत्प्रेक्षा
।
प्रकृतस्य
श्रीकृष्णनयनादेरन्यथाकृतिः
प्रकृतं
श्रीकृष्णनयनादिकं
निषिध्यान्यस्य
मधुपादेः
स्थापनमत्रापह्नुतिः
॥९५॥
निवसति
ननु
राधाभालशालारकान्तर्
वृततनुरिह
कश्चित्कीरराजः
सतृष्णः
।
रसवदधरबिम्बप्रेक्षणादस्य
चञ्चुः
कलयत
बत
नासाच्छद्मना
निर्गतास्ति
॥९६॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
श्रीराधाया
भाल
एव
शालारकः
पञ्जरस्तस्यान्तर्मध्ये
आवृततनुः
कीरराजः
रसयुक्ताधरबिम्बप्रेक्षणात्सतृष्णः
नासाच्छलेनास्य
चञ्चुर्निर्गतास्ति
।
कलयत
पश्यत
।
भालस्य
पञ्जरत्वेन
नासायाः
कीरचञ्चुत्वेन
रूपकम्
।
प्रकृतनासायाः
शुकचञ्चुत्वेनान्यथाकृतिरेवापह्नुतिः
।
चञ्चुतो
नासाया
उत्कर्ष
उत्प्रेक्षा
॥९६॥
अस्याः
सुनासा
मदनाद्भुतेषुर्
व्यालोलचिल्लीधनुरर्पितोऽपि
।
विवेश
मुक्ताफलकाग्रकोऽपि
द्रुतं
हरेर्हृद्धृतिवर्मितं
यः
॥९७॥
(
विरोधरूपकविशेषोक्तयः
)
अस्याः
सुनासा
मदनस्याद्भुतेषुः
।
बाणस्याद्भुतत्वमाह—
य
इषुः
व्यालोलभ्रूधनुरर्पितोऽपि
मुक्ताफलकाग्रकोऽपि
हरेर्धृतिरूपकवचेन
वर्मितं
कवचितं
हृद्हृदयं
विवेश
।
विरोधः
स
विरोधाभासः
।
नासारूप
इषुः
धनुरर्पितः,
न
तु
व्यक्तः
।
बाणस्य
त्यागं
विना
अन्यस्य
कवचाच्छन्नहृदये
प्रवेशो
विरोधसहित
इवाभासते,
न
तु
विरोधः
।
नासाधनुषोर्भिन्नद्रव्यत्वेन,
क्रियया
भिन्नत्वेन
च
द्रव्यस्य
क्रियया
सहात्र
विरोधाभासः
।
नासाया
इषुत्वेन
भ्रूवोर्धनुस्त्वेन
रूपकम्
।
विशेषोक्तिः
कारणेषु
सत्सु
कार्यस्य
नोदयः
[
अ
.
कौ
.
२७२
]
।
सा
विशेषोक्तिस्त्रिधा—
अनुक्तनिमित्तता,
उक्तनिमित्तता,
अचिन्त्यनिमित्तता
च
।
अत्र
मुक्ताफलस्याग्रस्थितत्वेन
धनुष्यर्पितत्वेन
बाणस्य
कवचाच्छन्नहृदये
प्रवेशाभावस्य
कारणे
विद्यमानेऽपि
प्रवेशाभावरूपकार्यस्यानुदयात्विशेषोक्तिरियमचिन्त्यनिमित्तता
रूपा
॥९७॥
अमुष्याः
श्रीनासातिलकुसुमतूणो
रतिपतेर्
अधोवक्त्रं
पूर्णः
कुसुमविशिखैश्चित्रमृगयोः
।
मुखद्वारा
तस्मात्स्मितचयमिषात्ते
निपतिताः
शरव्यत्वं
येषामलभत
हरेश्चित्तहरिणः
॥९८॥
(
रूपकापह्नुतिविभावनाः
)
चित्रमृगयोः
आश्चर्यव्याधस्य
रतिपतेः
कुसुमबाणैः
पूर्णः
अधोमुखः
नासारूपतिलपुष्पस्य
तूणं
तस्मात्तूणात्मुखद्वारा
ते
विशिखाः
स्मितसमूहच्छलात्निपतिताः
।
तेषां
विशिखानां
बाणानां
हरेश्चित्तरूपहरिणः
शरव्यत्वं
लक्ष्यत्वमलभत
।
नासायाः
तूणत्वेन
स्मितस्य
बाणत्वेन
चित्तस्य
मृगत्वेन
रूपकम्
।
प्रकृतं
नासादिकं
निषिध्यतूणादेः
स्थापनरूपान्यथाकृतिरपह्नुतिः
।
हेतुरूपक्रियाभावे
फलं
यत्सा
विभावना
।
कृष्णचित्तहरिणवेधरूप
क्रियाया
अभावेऽपि
वेधरूपफलमत्र
विभावना
॥९८॥
राधाया
नयनाञ्जनाधररुचा
व्याप्तं
नु
गुञ्जायते
नासामौक्तिकमेतदित्यविदुषां
काव्यं
ममैतन्मतम्
।
शश्वत्कृष्णविराजिरागिहृदयश्वासानिलैर्भावितं
तत्तद्वर्णतयाशु
तत्परिणतं
तेषां
हि
तत्तद्गुणैः
॥९९॥
(
लुप्तोपमातद्गुणौ
)
श्रीराधाया
नयनाञ्जनाधरयोः
कान्त्या
व्याप्तं
नासामौक्तिकं
गुञ्ज
इवाचरति
गुञ्जायते
इत्यविदुषामज्ञानां
काव्यम्
।
शश्वत्कृष्णविराजि
सदा
कृष्णस्य
विशेषेण
राजता
स्थितिर्यत्र
तादृशं
तत्रागि
रागयुतं
च
हृदयं
तस्मात्श्वासरूपानिलैर्भावितं
जनितम्,
हि
निश्चितम्,
तत्तद्वर्णतया
कृष्णस्य
कृष्णवर्णतया
तेषां
तत्तद्गुणैः
कृष्णगुणरक्तगुणैः
परिणतं
तत्मौक्तिकमेतत्मम
मतम्
।
परिणतमिति
लुप्तोपमा
।
कृष्णरक्तगुणस्य
कथनात्तद्गुणः
॥९९॥
नयनयुगविधाने
राधिकाया
विधात्रा
जगति
मदुरसाराः
सञ्चिताः
सद्गुणा
ये
।
भुवि
पतिततदंशस्तेन
सृष्टान्यसारैर्
भ्रमरमृगचकोराम्भोजमीनोत्पलानि
॥१००॥
(
विशेषालङ्कारः
)
विधात्रा
राधाया
नयनयुगं
विधातुं
कर्तुं
मधुरसारा
ये
सद्गुणाः
सञ्चिताः,
तेषां
सारं
गृहीत्वा
राधाया
नयनयुगं
कृतम्
।
भुवि
पतिततदंशैरसारैर्भ्रमरादीनि
सृष्टानि
।
विशेषालङ्कारो,
यथा—
आधारस्य
प्रसिद्धस्याभावेऽप्याधेयदर्शनम्
।
एकस्य
युगपद्वृत्तिरनेकत्र
स्वरूपतः
॥
एकस्यैवातिचित्रस्य
वस्तुनः
करणेन
हि
।
तत्सामान्यान्यवस्तूनां
करणं
स
भवेत्त्रिधा
॥
[
अ
.
कौ
.
३१२
]
स
विशेषालङ्कारस्त्रिधा
भवेत।
त्रिधा
मध्ये
तु
एकस्यातिविच्त्रस्य
वस्तुनो
राधानेत्रयुगस्य
करणेन
तत्तस्मात्सामान्यवस्तूनां
भ्रमरादीनां
करणे
विशेषालङ्कारोऽयम्
॥१००॥
खञ्जनतीक्षणमञ्जनलिप्तं
कञ्जनवस्मयभञ्जनदृप्तम्
।
शं
जननाच्युतरञ्जनशीलं
सुमुखि
तवाण्डजगञ्जनलीलम्
॥१०१॥
(
अनुप्रासलुप्तोपमे
)
हे
सुमुखि
!
तव
अञ्जनलिप्तमीक्षणं
खञ्जन
इवाचरति
खञ्जनति
कञ्जनवस्य
कञ्जेषु
नवं
सुन्दरं
यत्कञ्जं
तस्य
।
यद्वा,
कञ्जस्य
नवो
यः
स्मयो
गर्वस्तस्य
भञ्जने
दृप्तं
प्रतापवत।
शं
सुखं
तस्य
जननमुत्पत्तिर्यस्मात।
तमच्युतं
रञ्जयितुं
शीलं
यस्य
तत।
अण्डजा
मत्स्यास्तेषां
गञ्जनलीला
यस्य
तत।
अनुप्रास्यत
इत्यर्थेऽनुप्रासो
वर्णसाम्यतः
।
खञ्जनाञ्जनभञ्जनशञ्जनगञ्जनेति
वर्णसाम्यादनुप्रासः
।
खञ्जनमिवाचरतीत्यत्र
लुप्तोपमा
॥१०१॥
धाता
कुण्डलमीनराजनटयोर्दाम्पत्यसिद्ध्यै
हरे
राधाया
मुखसत्सुधासरसि
तन्नेत्रद्वयीव्याजतः
।
लास्यं
शिक्षयितुं
झषेशतनये
बाले
विधायानयोः
पार्श्वे
लोलतया
पलायनभिया
श्रीकर्णजाले
न्यधात॥१०२॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
धाता
हरेः
कुण्डलरूपौ
मीनराजौ
मकरौ
तावेव
नटौ
तयोर्दाम्पत्यसिद्ध्यै
स्त्रीपुरुषभावसिद्ध्यर्थं
राधामुखमुरसि
तत्तस्या
नेत्रच्छलेन
नृत्यं
शिक्षयितुं
झषेशस्य
मीनश्रेष्ठस्य
द्वे
कन्ये
विधाय
अनयोर्झषेशतनययोः
पलायनभिया
अनयोः
पार्श्वद्वये
कर्णरूपजाले
न्यधात।
कुण्डलस्य
मकरेण
नेत्रस्य
मीनेन
कर्णयोर्जालेन
तादात्म्यात्रूपकम्
।
तादात्म्यमुपमानोपमेययोरभेदप्रतीतिः
।
प्रकृतस्य
कुण्डलादेर्मीनादिना
अन्यथाकृतिरपह्नुतिः
।
अन्यमीनापेक्षया
कुण्डलनेत्रादीनामुत्कर्षमुत्प्रेक्षा
॥१०२॥
राधाक्षिपद्मद्वयधाम्नि
तिष्ठतः
सदा
सृजन्तौ
भ्रमरप्रजापती
।
प्रजावलीं
मानसिकीं
यतोऽसकौ
कटाक्षधारामिषतो
निरेत्युत
॥१०३॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
भ्रमराविव
भ्रमरौ
नेत्रमध्यवर्तिनीलौ
तारारूपौ
तावेव
प्रजापती
राधाया
नेत्रपद्मद्वयधाम्नि
मानसिकीं
प्रजावलीं
सृजन्तौ
तिष्ठतः
।
यतो
नेत्रद्वयतसकौ
असौ,
स्वार्थे
कः,
अक्वा
इति,
प्रजावली
कटाक्षधाराच्छलेन
निरेति
निर्गच्छति
।
नेत्रस्य
पद्मेन
कटाक्षास्य
मानसप्रजावल्या
तादात्म्यात्रूपकम्
।
प्रकृतनेत्रकटाक्षादिकं
निषिध्यान्यस्य
पद्मादेः
स्थापनमपह्नुतिः
।
पद्मान्यप्रजातो
नेत्रकटाक्षाणामुत्कर्ष
उत्प्रेक्षा
॥१०३॥
भ्रुवौ
तिरःप्रसारिण्यौ
विष्णुक्रान्तालते
ध्रुवम्
।
अस्याः
कृष्णे
ययोर्भातः
कुसुमे
नेत्रयोर्मिषात॥१०४॥
(
रूपकापह्नुती
)
अस्याः
भ्रुवौ
तिरःप्रसारिण्यौ
वक्रीभूय
प्रसारिण्यौ
।
विष्णुक्रान्ता
अपराजिता
तस्या
लते
इति
ध्रुवम्
।
ययोर्लतयोः
कृष्णवर्णे
कुसुमे
नेत्रयोर्मिषात्भातः
।
भ्रुवोर्लतयोर्नेत्रयोः
पुषेण
तादात्म्यं
रूपकम्
।
प्रकृतयोर्भ्रूनेत्रयोर्विष्णुक्रान्तालता
पुष्पत्वेनान्यथाकृतिरपह्नुतिः
॥१०४॥
किं
राहुणा
कवलितेन्दुकले
बहिष्ठे
तद्दन्तदंशगलितस्तिमिताङ्कलेशे
।
एते
न
किन्तु
कचचिल्लिलतान्तराले
श्रीराधिकालिकमिदं
विमलं
विभाति
॥१०५॥
(
निश्चयान्तसन्देहः
)
राहुणा
ग्रस्तेन्दुकलाद्वये
तस्य
राहोर्दन्तदंशनात्गलिते
स्तिमितकलङ्कलेशे
।
एते
बहिष्ठे
बहिःस्थिते
इति
सन्देहः
।
तदन्ते
निश्चयामाह—
न
इति
।
किं
नु
पुनः
राधायाः
कचः
केशः
चिल्लिलता
भ्रूस्तयोरन्तराले
मध्ये
इदं
विमलमलिकं
विभाति
।
तिमितत्वं
तैलाभ्यञ्जनेन
स्वतश्चिक्कणत्वेन
च
केशरूपराहोरन्तर्गलितत्वेन
मध्यस्थलातधःपतितकलङ्कस्य
भ्रूद्वयत्वेनोपमा
॥१०५॥
राधालिकं
चिल्ल्यलकालिमञ्जुलं
नवेन्दुलेखामदहारि
दीव्यति
।
उपर्यधः
षट्पदपालिवेष्टितं
यथा
नवं
काञ्चनमाधवीदलम्
॥१०६॥
(
उपमा
)
चिल्ली
अलकालिभिश्च
मनोज्ञं
राधालिकं
राधाया
ललाटं
नवेन्दुलेखामदहारि
दीव्यति
।
उपमामाह—
उपर्यधो
भ्रमरर्वेष्टितं
नवं
सुन्दरं
काञ्चनस्य
माधवी
वासन्ती
लता
तस्या
दलं
यथा
॥१०६॥
गुणमणिखनिरस्या
वल्लभः
कृष्ण
एव
प्रणयिनि
भवितास्याः
कृष्ण
एवानुरागः
।
इति
लिपिरलिकान्तर्वैधसीयास्त्यसौ
किं
बहिरपि
मदसिन्दूरेन्दुदम्भात्स्फुटाभूत॥१०७॥
(
रूपकोत्प्रेक्षापह्नुतयः
)
गुणरूपमणीनां
खनिः
गुणोत्पादिका
भूमिः
।
कृष्ण
एव
अस्या
वल्लभः
प्रियः
।
प्रणयिनि
कृष्ण
एवास्या
अनुरागश्च
भविता
भविष्यतीति
विधातृकृता
वैधसी
या
लिपिरलिकान्तर्ललाटमध्येऽस्ति
।
असौ
लिपिर्बहिरपि
मृगमदसिन्दूरेन्दुच्छलात्स्फुटाभूत।
मृगमदस्य
कृष्णवर्णनेन
सिन्दूरस्यानुरागेण
ललाटस्य
चन्द्रेण
साम्यम्,
मृगमदादीनां
वैधसीयलिपित्वेन
तादात्म्यं
रूपकम्
।
विधिलिप्यपेक्षया
मृगमदादीनामुत्कर्ष
उत्प्रेक्षा
।
प्रकृतमृगमदादेर्विधिलिपित्वेआन्यथाकृतिरपह्नुतिः
॥१०७॥
सीमन्तरेखाञ्च्यरुणाम्बरावृतं
सैन्दूरमस्यास्तिलकं
विभाति
।
करावगुण्ठाभिधमुद्रयावृतं
ताम्रार्घ्यपात्रं
सशिखं
स्मरस्य
वा
॥१०८॥
(
उपमा
)
अस्याः
सिन्दूरतिलकं
सीमन्तरेखया
युक्तारुणाम्बरावृतं
विभाति
।
किमिव
कामस्य
सशिखं
ताम्रार्घ्यपात्रं
करेणावगुण्ठमुपरि
आच्छान्नं
कृत्वा
या
मुद्रातया
वृतम्
।
वा
इवार्थे
इवशब्द
उपमावाचकः
।
कामस्य
कृष्णवर्णत्वेन
सीमन्तरेखायाः
पार्श्वद्वयवर्तिकेशरचनया
अरुणाम्बरस्य
कामस्य
करद्वयेन
सिन्दूरतिलकस्य
ताम्रार्घ्यपात्रेण
सीमन्तरेखायाः
सिन्दूरकृतायाः
ताम्रार्ध्यपात्रस्य
शिखरेण
साम्यम्
॥१०८॥
श्रीकृष्णहृन्मत्तमतङ्गजस्या
विष्टस्य
राधाकचकाननान्तः
।
तद्गण्डसिन्दूरमदाभिषिक्तं
वर्त्मास्य
सीमन्तमिषाद्विभाति
॥१०९॥
(
रूपकापह्नुती
)
राधायाः
कचाः
केशा
एव
काननम्,
तन्मध्ये
आविष्टस्य
प्रविष्टस्य
श्रीकृष्णमनोरूपहस्तिनः
गण्डस्थसिन्दूरमदादभिषिक्तम्
। “
मदालिसिक्तम्”
इत्यपि
पाठः
।
वर्त्म
सीमन्तमिषाद्विभाति
।
कृष्णमनसः
हस्तित्वेन
कचस्य
काननत्वेन
सीमन्तस्य
वर्त्मत्वेन
तादात्म्यमभेदप्रतीती
रूपकम्
।
मनःकचसीमन्तानां
प्रकृतानां
हस्त्यादिनान्यथाकृतिरपह्नुतिः
॥१०९॥
श्रीराधाश्रयणात्सुखं
निवसतोः
केशाननव्याजतो
ध्वान्तेन्द्वोर्हृदि
शङ्कितं
न
हि
गतं
निर्वैरिणोरप्यहो
।
ध्वान्तं
यन्निजसीमनि
भ्रमरकव्यूहं
पुरः
स्वं
भयाद्
इन्दुश्चालिकसत्कलाग्रगनिजव्यूहं
स्वगुप्त्यै
न्यधात॥११०॥
(
रूपकापह्नुत्यनुमानानि
)
राधाश्रयणात्सुखं
निवसतोः
केशच्छलात्ध्वान्तस्य
आननच्छलातिन्दोर्निर्वैरिणोरपि
द्वयोर्हृदि
शङ्कितं
न
हि
गतम्
।
ध्वान्तमन्धकारः
स्वगुप्त्यै
स्वरक्षार्थं
निजसीमनि
स्वं
भ्रमरका
अलकास्तत्र
व्यूहः
सैन्यं
तं
पुरोऽग्रे
भयान्न्यधात।
इन्दुश्च
स्वगुप्त्यै
अलिकं
ललाटमेव
सत्कला
सैवाग्रगो
निजव्यूहः
सैन्यं
तं
पुरो
भयान्न्यधात।
केशस्य
ध्वान्तेन
आननस्य
चन्द्रेण
अलकानां
सैन्येन
ललाटस्य
चन्द्रकलया
तादात्म्यं
रूपकम्
।
प्रकृतानां
केशादीनामन्धकाराद्याकारेणान्यथाकृतिरपह्नुतिः
।
स्वस्वसीमायां
सैन्यस्थापनं
हेतुं
कृत्वा
चन्द्रान्धकारयोर्हृदि
शङ्कासाध्यमत्रानुमानम्
॥११०॥
अलकमधुपमाला
भाति
या
राधिकाया
मुखकमलमधूलीपानलुब्धोपरिष्टात।
नयनहरिणयुग्मारोधनायाघशत्रोर्
मदनमृगयुनासौ
लम्भिता
वागुरात्वम्
॥१११॥
(
रूपकोत्प्रेक्षे
)
राधाया
मुखकमलमधुपानलुब्धाया
अलकरूपभ्रमरमाला
भाति
।
असावलकभ्रम्रश्रेणी
मदनव्याधेन
नयनहरिणयुग्मस्य
रोधनाय
बद्धार्थं
वागुरात्वं
लम्भिता
।
वागुरा
मृगबन्धनी
इत्यमरः
।
कृष्णनेत्रे
अलकायां
पतिते
सती
तत्रैव
तिष्ठतः,
अन्यत्र
गमनासामर्थ्यात।
अलकानां
मधुपेन
वागुरया
च
नयनस्य
हरिणेन
मदनस्य
व्याधेन
तादात्म्यं
रूपकम्
।
राधामुखमधुपानरूपहेत्वन्तरस्य
दानाद्भ्रमराद्यपेक्षया
अलकानामुत्कर्ष
उत्प्रेक्षा
॥१११॥
राधामनोवृत्तिलताङ्कुरा
गताः
कृष्णस्य
ये
भावनया
तदात्मताम्
।
सूक्ष्मायताः
प्रेमसुधाभिषेकतस्
ते
निःसृता
केशमिषाद्बहिर्ध्रुवम्
॥११२॥
(
रूपकापह्नुत्युत्प्रेक्षाः
)
ये
राधायामनोवृत्तिलताया
अङ्कुराः
कृष्णस्य
भावनया
तदात्मतां
कृष्णतां
गताः,
ते
प्रेमसुधाभिषेकात्सूक्ष्मायताः
सूक्ष्माश्च
आयताः
दीर्घाश्चेति
तथाभूताः
सन्तः
केशमिषाद्बहिर्निःसृताः
।
केशस्य
मनोवृत्तिलताङ्कुरेण
तादात्म्यं
रूपकम्
।
प्रस्तुतस्य
केशस्य
लताङ्कुरेण
अन्यथाकृतिरपह्नुतिः
।
अन्यकेशात्कृष्णतादात्म्येन
हेतुना
उत्प्रेक्षा
॥११२॥
स्वश्रिया
चामरान्पुष्णच्छितिकण्ठकलापदम्
।
कैश्यं
वृन्दावनेश्वर्या
विष्णोरैश्यमिवाबभौ
॥११३॥
(
श्लेषोपमे
)
राधायाः
कैश्यं
केशसमूहो
विष्णोरैश्यमीशस्य
भाव
ऐश्यमिवाबभौ
।
उभयसाम्यमाह—
केशपक्षे,
स्वकान्त्या
चामरान्,
विष्णुपक्षे,
अमरान्देवान्पुष्णत्शितिकण्ठस्य
मयूरस्य
कलापं
पुच्छं
दाति
स्वकान्त्या
खण्डयति
तत।
दोअबखण्डने
।
पक्षे
महादेवस्य
कलाया
अर्धाङ्गस्य
पदं
स्थानम्
।
शितिकण्ठशब्दः
श्लिष्टः,
कैश्यं
विष्णोरैश्यमिव
।
इवशब्द
उपमावाचकः
॥११३॥
कृष्णाङ्गभासो
निचिताः
सुसूक्ष्माः
श्रीराधया
या
मनसा
दृशा
च
।
ता
एव
धम्मिल्लमिषेण
वन्द्याः
पुञ्जीकृता
मूर्ध्नि
धृता
विभान्ति
॥११४॥
(
उत्प्रेक्षापह्नुती
)
राधया
मनसा
दृशा
च
करणभूतया
सुसूक्ष्माः
कृष्णाङ्गभासो
या
निचिताः
निचित्य
एकत्रीकृताः,
ता
एव
वन्द्याः
वन्दनीयाः
पुञ्जीकृता
धम्मिल्लमिषेण
मूर्ध्नि
धृता
विभान्ति
।
वन्द्याः
कृष्णाङ्गभास
इति
हेतुना
धम्मिल्लस्य
केशबन्धस्योत्कर्ष
उत्प्रेक्षा
।
धम्मिल्लस्य
कृष्णाङ्गभाससान्यथाकृतिरपह्नुतिः
॥११४॥
रत्नावलीकान्तिसरस्वतीयुता
मुक्ताप्रसूनावलिगङ्गयान्विता
।
निजश्रियासौ
यमुनायिता
स्वयं
वेणी
त्रिवेणीव
बभौ
नतभ्रुवः
॥११५॥
(
रूपकोत्प्रेक्षोपमाः
)
नतभ्रुवो
राधाया
वेणी
रत्नकान्त्या
सरस्वती,
मुक्तापुष्पश्रेण्या
गङ्गा
।
स्वयं
वेणी
निजश्रिया
यमुनायिता
।
सरस्वतीगङ्गायमुना
त्रिवेणीव
बभौ
।
वेण्याः
त्रिवेण्यपेक्षयोत्कर्ष
उत्प्रेक्षा
।
त्रिवेणी
इव
इति
उपमा
॥११५॥
विलासविस्रस्तमवेक्ष्य
राधिका
श्रीकेशपाशं
निजपुच्छपिञ्छयोः
।
न्यक्कारमाशङ्क्य
ह्रियेव
भेजिरे
गिरिं
चमर्यो
विपिनं
शिखण्डिनः
॥११६॥
(
उत्प्रेक्षा
)
राधाया
विलासेन
विस्रस्तं
केशपाशं
समीक्ष्य
चमर्यो
निजपुच्छस्य
मयूराः
पिञ्छस्य
न्यक्कारमाशङ्क्य
ह्रिया
गिरिं
कामनं
च
भेजिरे
।
केशपशस्य
चामरपुच्छाद्युत्कर्ष
उत्प्रेक्षा
॥११६॥
राधायाः
कुङ्कुमानां
परिमलविततिर्निर्जिहीतेऽखिलाङ्गान्
नभिभ्रूकेशनेत्रादगुरुमृगमदालिप्तनीलोत्पलानाम्
।
वक्षःश्रोत्रास्यनासाकरपदयुगलादिन्दुलिप्ताम्बुजानां
कक्षश्रेणीनखेभ्यो
मलयजरससंसिक्तसत्केतकीनाम्
॥११७॥
(
दीपकस्वभावोक्ती
)
राधाया
अखिलाङ्गात्कुङ्कुमानां
परिमलविततिः
सुगन्धश्रेणी
निर्जिहीते
निर्गता
भवति
।
नभिभ्रूकेशनेत्रादगुरुकस्तूरीलिप्तपद्मानां
कक्षादिभ्यश्चन्दनसिक्तकेतकीनां
परिमलततिर्निर्जिहीते
।
कुङ्कुमानां
नीलोत्पलानामम्बुजानां
केतकीनामित्यादि
कारकस्य
बहुत्वं
निर्जिहीते
इति
क्रियैक्यमत्र
दीपकम्
।
अङ्गगन्धस्य
स्वभावकथनात्स्वभावोक्तिः
॥११७॥
कृष्णेन्द्रियाह्लादिगुणैरुदारा
श्रीराधिका
राजति
राधिकेव
।
सर्वोपमानावलिमर्दिशीलान्य्
अङ्गानि
वाङ्गानि
च
भान्त्यमुष्याः
॥११८॥
(
अनन्वयालङ्कारः
)
कृष्णेन्द्रियमाह्लादयितुं
शीलं
येषां
तादृशा
ये
गुणास्तैरुदारा
राधिका
इव
राधिका
राजति
।
सर्वोपमानावलिं
मर्दयतीति
तच्छीलं
येषां
तानि
अमुष्याः
राधाया
अङ्गानि,
वा
इव
अङ्गानि,
भान्ति
।
एकस्यैवोपमानोपमेयत्वेऽनन्वयोपमा
[
अ
.
कौ
.
२३३
]
।
अत्र
राधाया
एव
उपमानोपमेयत्वम्
॥११८॥
श्रीराधिकानन्यसमा
लसत्यसौ
माधुर्यसम्पत्तिरिवाघविद्विषः
।
माधुर्यसम्पत्तिरपीयमुच्चकैः
श्रीराधिकेवानुपमा
विराजते
॥११९॥
(
उपमेयोपमा
)
अघविद्विषो
माधुर्यसम्पत्तिरिवासौ
राधिका
लसति
।
न
अन्या
समा
यस्याः
सा
अनन्यसमा
।
इयं
कृष्णमाधुर्यसम्पत्तिरपि
उच्चकैरनुपमा
श्रीराधिकेव
विराजते
।
विपर्यास
उपमानोपमेययोर्द्वयोरुपमेयोपमा
[
अ
.
कौ
.
२३४
]
।
माधुर्यसम्पत्तिः
कृष्णराधिकयोर्द्वयोरुपमेयोपमानयोरत्र
विपर्यासः
।
आदौ
माधुर्यसम्पत्तिरिव
राधा
।
पश्चाद्विपर्यासः—
रादिकेव
माधुर्यसम्पत्तिः
॥११९॥
प्रेमा
प्रमाणरहितोऽनुपमा
गुणश्रीः
सौन्दर्यसम्पदसमा
रुचिरं
च
शीलम्
।
तारुण्यमद्भुततमं
सखि
राधिकायाः
कृष्णः
कथं
न
भविता
वशगो
गुणज्ञः
॥१२०॥
(
सद्योगसमुच्चयः
)
गुणज्ञः
कृष्णः
राधिकाया
वशगः
कथं
न
भविता ?
अत्र
कारणमाह—
अस्याः
प्रमाणरहितः
प्रेमा,
गुणश्रीरनुपमा,
असमा
सौन्दर्यसम्पत्,
शीलं
रुचिरम्,
तारुण्यमद्भुततमम्
।
एकस्मिन्यत्र
साधके
साधकान्तरनिर्देशः
स
समुच्चय
इष्यते
[
अ
.
कौ
.
२८६
]
।
एष
च
सद्योगासद्योगसदसद्योगभेदात्त्रिधा
।
अत्र
एक
साधके
राधिकाया
प्रेमगुणश्रीसौन्दर्य्सौशील्यतारुण्यानां
साधकान्तरनिर्देशानां
योगेन
सद्योगः
समुच्चयः
॥१२०॥
पातिव्रत्यं
क्व
नु
परवधूत्वापवादः
क्व
चास्याः
प्रेमोद्रेकः
क्व
च
परवशत्वादिविघ्नः
क्व
चायं
क्वैषोत्कण्ठा
क्व
नु
बकरिपोर्नित्यसङ्गाद्यलब्धिः
मूलं
कृष्ट्वा
कषति
हृदयं
कापि
शल्यत्रयी
नः
॥१२१॥
(
सदसद्योगसमुच्चयः
)
कापि
शल्यत्रयी
नोऽस्माकं
मूलं
कृष्ट्वा
धृत्वा
हृदयं
कषति
हिनस्ति
।
कष
हिंसायां
धातुः
।
शल्यत्रयमाह—
अस्या
राधायाः
पातिव्रत्यं
क्व,
परवधूत्वापवादः
क्व
।
अत्यन्तासम्ब्भावनायां
क्वद्वयम्
।
यत्रेदृशं
पातिव्रत्यं
तत्र
परवधूत्वापवादस्य
सम्भावना
सर्वथैव
न
भवति
इत्येकम्
।
प्रेमोद्रेकः
क्व
परवशत्वादिविघ्नः
क्व
।
पूर्ववत्यत्र
प्रेमोद्रेकस्तत्र
विघ्नसम्भावनाभावो
द्वितीयम्
।
एषा
उत्कण्ठा
क्व
कृष्णनित्यसङ्गाद्यभावः
क्व
।
अत्र
सदैव
मिलनाभावः
तृतीयम्
।
पातिव्रत्यप्रेमोद्रेकोत्कण्ठानां
त्रयं
सत्,
अपवादविघ्नसङ्गाभावानां
त्रयमसत।
सदसद्योगेऽत्र
समुच्चयः
॥१२१॥
का
कृष्णस्य
प्रणयजनिभूः
श्रीमती
राधिकैका
कास्य
प्रेयस्यनुपमगुणा
राधिकैका
न
चान्या
।
जैह्म्यं
केशे
दृशि
तरलता
निष्ठुरत्वं
कुचेऽस्या
वाञ्छापूर्त्यै
प्रभवति
सदामुष्य
राधैव
नान्या
॥१२२॥
(
चतुर्विधपरिसङ्ख्या
)
कृष्णस्य
प्रणयोत्पत्तिभूमिः
का ?
एका
श्रीमती
राधिका
।
अत्र
प्रश्नपूर्वकमाख्यानाख्या
परिसङ्ख्या
एकविधा
।
अस्य
कृष्णस्य
का
प्रेयसी
अनुपमगुणा ?
राधिकैका,
अन्या
न
।
इत्यनेन
तत्सामान्याया
अन्यप्रेयस्या
व्यापोहनं
दूरीकरणमत्र
परिसङ्ख्या
द्वितीया
।
अस्याः
केशे
जैह्म्यं
कौटिल्यं
हृदि
न
इति
।
अन्यासां
हृदि
कौटिल्यं
केशे
न
इति
तस्य
व्यपोहनस्य
प्रश्नं
विना
व्यङ्गत्वेन
परिसङ्ख्या
तृतीया
।
एवं
दृशि
तरलता
कुचे
निष्ठुरत्वं
ज्ञेयम्
।
हरेर्वाञ्छापूर्त्यै
एका
राधिका
प्रभवति
नान्या
।
अत्र—
प्रश्नपूर्वकमाख्यानं
तत्सामान्यव्यपोहनम्
।
तस्य
तस्यापि
च
ज्ञेये
व्यङ्गत्वे
स्यादथापरम्
।
अप्रश्नपूर्वं
वाच्यं
परिसङ्ख्या
चतुर्विधा
॥
[
अ
.
कौ
.
२९३
]
॥१२२॥
प्रफुल्लपुन्नागकृताश्रया
सदा
प्रफुल्लिताङ्गी
मधुसूदनाश्रया
।
आमोदपूर्णा
वरपत्रभङ्गिका
वृन्दावनेऽसौ
लसतीह
राधिका
॥१२३॥
(
समासोक्तिः
)
इह
वृन्दावनेऽसौ
राधिका
लसति
।
कीदृशी ?
प्रफुल्लः
पुन्नाग
एव
कृत
आश्रयो
यया
सा
।
पुन्नागः
कृष्णः
।
माधवी
लता
।
पक्षे
नागकेशरश्च
।
मधुसूदनः
कृष्णः
भ्रमरश्च
आश्रयो
यस्याः
सा
।
वरपत्रभङ्गे
गण्डे
चित्रविशेषो
यस्याः
सा
।
पक्षे,
श्रेष्ठः
पत्रस्य
भङ्गो
यस्याः
सा
।
विशिष्टैर्विशेषणैरेव
विशेष्यस्यान्यथा
स्थितिः,
सा
समासोक्तिः
[
अ
.
कौ
.
२५१
]
।
अत्र
विशेष्यस्य
राधिकाशब्दस्यान्यथा
स्थितिर्माधवीलतारूपेण
॥१२३॥
न
दीक्षास्याः
शिक्षा
श्रवणपठने
वा
गुरुमुखात्
तथापीयं
राधा
त्रिजगदबलाविस्मयभुवाम्
।
कलाम्भोधेः
शौरेरपि
परमसन्तोषणकृतां
कलानामाचार्या
व्रजमृगदृशामप्यजनि
सा
॥१२४॥
(
विभावना
)
अस्या
गुरुमुखात्दीक्षा
न
शिक्षा
न
श्रवणं
न
पठनम्,
न
च
तथापि
सेयं
राधा
त्रिजगदबलानां
विस्मयभुवां
कलानां
कलाम्भोधेः
कृष्णस्यापि
परमसन्तोषणकृतां
व्रजमृगदृशामपि
कलानामाचार्या
अजनि
।
विभावना
विनाहेतुउं
कार्योत्पत्तिर्निगद्यते
[
सा
.
द
.]
।
गुरोर्दीक्षादिहेतुरूपक्रियाऽभावे
यत्स्याद्विभावना
॥१२४॥
तृणीकृतत्यक्तकुलीननारी
धर्मापि
दूरोज्झितभर्तृकापि
।
सती
च
याभीप्सितसच्चरित्रा
राधा
विधात्रारचि
चित्रशीला
॥१२५॥
(
विशेषोक्तिः
)
विधात्रा
राधा
चित्रशीला
अरचि
।
चित्रशीलतामाह—
या
तृणीकृतश्चासौ
त्यक्तश्च
कुलीननारीणां
धर्मो
यया
तथाभूता
भूत्वापि
सती
।
दूरे
उज्झितस्त्यक्तो
भर्ता
यया
तादृशा
भूत्वापि
सती
च,
येनाभीप्सितं
सच्चरित्रं
यस्याः
सा
च
।
विशेषोक्तिः
कारणेषु
सत्सु
कार्यस्य
नोदयः
[
अ
.
कौ
.
२७२
]
कुलनारीधर्मत्यागे
भर्तृत्यागरूपकारणे
सत्यपि,
असती
असच्चरित्रा
इति
कार्यस्यात्र
नोदयः
॥१२५॥
प्रजागरस्वप्नसुषुप्तिषु
श्रीगान्धर्विकायाः
सततं
हि
नान्या
।
मनोवपुर्वागखिलेन्द्रियाणां
कृष्णैकतानत्वं
ऋतेऽस्ति
वृत्तिः
॥१२६॥
(
तुल्ययोगिता
)
गान्धर्विकाया
राधाया
जागरस्वप्नसुषुप्तिदशात्रयेषु
मनोवपुर्वागखिलेन्द्रियाणां
वृत्तिः
कृष्णैकतानत्वं
विना
हि
निश्चितं
सततं
नान्यास्ति
।
एकतानोऽनन्यवृत्तिरित्यमरः
।
वृत्तिस्तदाकारेण
परिणतिः
।
प्रकृतानां
चैकदोक्तिरुच्यते
तुल्ययोगिता
[
अ
.
कौ
.
२६६
]
।
चकारादप्रकृतानाम्
।
अत्र
प्रकृतानां
जागरादिषु
मनोवपुर्वागखिलेन्द्रियानामेकदा
कृष्णैकतानत्वेन
उक्तिः
तुल्ययोगिता
॥१२६॥
शफरमृगचकोरीखञ्जनाम्भोजभृङ्गी
निकरमदनवाणश्रेणी
नीलोत्पलानि
।
हरिधृतिधनचौरै
राधिकायाः
प्रवीणैः
सहजनयनलीलानर्तनैर्निर्जितानि
॥१२७॥
(
तुल्ययोगिता
)
श्रीराधायाः
सहजैर्नयनयोर्लीलया
नर्तनैः
।
कीदृशैः ?
प्रवीणैः
हरिधृतिधनानां
चौरैः
शफरादीनां
निकरं
समूहं
तथा
मदनबाणश्रेणीनीलोत्पलानि
च
निर्जितानि
।
अप्राप्तिपूर्ववत्तुल्ययोगिता
।
प्रकृतानां
शफरादीनामेकदा
नयनलीलानर्तनैर्निर्जितस्योक्तिस्तुल्ययोगिता
॥१२७॥
चकोरवापीहसरोजिनीनां
पालिर्नभोऽरण्यजलानि
दीना
।
ह्रियेव
भेजे
कथमत्र
हेतुं
कृष्णैकताने
वद
राधिके
नः
॥१२८॥
(
पर्यायोक्तिः
)
चकोरश्च
वापीहश्चातकश्च
सरोजिनी
च
तासां
पालिः
श्रेणी
दीना
सती
नभोऽरण्यजलानि
ह्रियेव
कथं
भेजे
।
अत्र
हेतुं
हे
कृष्ण
एकताने
हे
राधिके
नोऽस्मान्त्वं
वद
।
तव
यथा
कृष्णैकतानता
तथा
चन्द्रमेघसूर्येषु
चकोरचातककमलिनीनामेकतानता
नेति
हेतुः
प्रतीतः
।
पर्यायलक्षणम्,
यथा—
विना
वाचकवाच्यत्वं
यत्र
वस्तु
प्रतीयते
पर्यायोक्तं
तत्
[
अ
.
कौ
.
२८३
]
।
चकोरस्य
चन्द्रे
चातकस्य
मेघे
पद्मस्य
सूर्ये
एकतानता
तथा
न,
यथा
तव
कृष्णे
इत्यादि
वाचकवाच्यशब्दं
विनैव
राधिकायां
कृष्णैकतानतारूपप्रतीतिरत्र
पर्यायोक्तिः
॥१२८॥
राधे
चकोरावलिचातकाली
सरोजिनीनां
हृदि
योऽतिगर्वः
।
सदैकतानत्वभवः
स
लुप्तः
कृष्णैकतानत्वमवेक्ष्य
तेऽभूत॥१२९॥
(
पर्यायोक्तम्
)
हे
राधे
चातकादिषु
सदैकतानत्वभवोऽतिगर्वः,
स
गर्वस्ते
कृष्णैकतानत्वमवेक्ष्य
लुप्तोऽभूत।
अत्रापि
स
गर्वो
लुप्तोऽभूदित्युवाच
।
हे
राधे
तव
यथा
कृष्णैकतानत्वं
तथा
चातकादीनां
नेति
।
वाच्यशब्दं
विनैव
राधायाः
कृष्णैकतानस्याधिक्यप्रतीतिः
पर्यायोक्तिः
॥१२९॥
गीर्भूर्लीलायुवतिषु
वरैः
सद्गुणैः
सारभूतास्
ताभ्यः
सा
श्रीस्तत
इह
महाप्रेमगोपाङ्गनास्ताः
।
ताभ्यश्चन्द्रावलीमुखलसद्यूथनाथा
अमूभ्यः
श्रीराधास्यां
बत
हि
नितरां
सोऽपि
कृष्णः
सतृष्णः
॥१३०॥
(
सारानुमानाभ्यां
सङ्करः
)
युवतिषु
मध्ये
वरैः
सद्गुणैर्गीर्भूर्लीलाः
शक्तयः
सारभूताः
।
ताभ्यः
सा
श्रीर्लक्ष्मीः
सारभूता
।
तत
इह
व्रजे
महत्प्रेम
यासां
ता
गोपाङ्गनाः
सारभूताः
।
ताभ्यश्चन्द्रावल्यादियूथनाथास्ताभ्यः
यद्यस्मातस्यां
सोऽपि
कृष्णः
नितरामतिशयेन
सतृष्णः
।
सारः
सावधिरुत्कर्षो
यद्भवेदुत्तरोत्तरं
[
अ
.
कौ
.
२९९
]
।
अत्र
श्रीराधावधिरुत्कर्षः
सारः
।
सतृष्णं
कृष्णं
हेतुं
कृत्वा
राधायां
सारः
साध्य
इत्यनुमानम्
।
आभ्यां
सङ्करः
अङ्गाङ्गिभावः
।
यतः
श्रीराधा
उत्तरोत्तरसावधिरुत्कर्षः
सारः
।
तृष्णा
आसक्तिरनुराग
इत्यर्थः
।
कृष्णः
श्रीराधिकानुरागवान्सर्वशक्तिसारदर्शनात।
इति
हेतुः
।
अतः
श्रीकृष्णतृष्णानुमानम्
।
अत्र
सारोऽङ्गी
अनुमानोऽङ्गम्
।
एवमनुमानमङ्गि
यथा,
श्रीराधायां
सतृष्णकृष्णानुमानं
विना
उत्तरोत्तरसावधिरुत्कर्षज्ञानं
न
भवेत॥१३०॥
चन्द्रावलीप्रणयरूपगुणैः
प्रयत्न
व्यक्तीकृतैर्व्यरचयत्स्ववशं
बकारिम्
।
श्रीराधिका
तु
सहजप्रकटैर्निजैस्तैर्
व्यस्मारयत्तमिह
तामपि
हा
कुतोऽन्याः
॥१३१॥
(
व्याघातालङ्कारः
)
चन्द्रावली
प्रयत्नेन
व्यक्तीकृतैः
प्रणयरूपगुणैर्बकारिं
स्ववशं
व्यरचयत।
राधा
तु
सहजप्रकटैर्निजैस्तैर्गुणैः
तं
कृष्णं
स्ववशं
व्यरचयत।
तां
चन्द्रावलीमप्व्यस्मारयत।
हा
इत्याश्चर्ये
।
अन्या
स्त्रियः
कुतो
गणनायां ?
यद्वस्तु
साधितं
येन
करणेन
तदन्यथा
।
तेनैव
यदि
तस्य
स्यात्तदा
व्याघात
इष्यते
॥
[
अ
.
कौ
.
३१५
]
अत्र
चन्द्रावल्या
प्रयत्नसाध्यः
कृष्णवशीकारः
राधयान्यथा
सहजगुणैः
कृत
इति
व्याघातः
॥१३१॥
न
दोषलेशोऽपि
गुणैर्लसन्त्यां
श्रीराधिकायामिति
गीर्न
सत्या
।
केशेषु
कौटिल्यमुरोजकुम्भे
काठिन्यमक्ष्णोश्च
यदस्ति
लौल्यम्
॥१३२॥
(
व्याजस्तुतिः
)
गुणैर्लसन्त्यां
राधायां
दोषलेशोऽपि
न
इति
गीर्वाणी
न
सत्या
।
तदेवाह—
केशेष्वित्यादि
।
मुखे
स्तुतिः
निन्दा
वा
हृदये
व्याजस्तुतिः
स्यात्तत्तदन्यथा
[
अ
.
कौ
.
२७७
]
।
अत्र
राधायाः
केशे
कौटिल्यमिति
मुखे
निन्दा
हृदयेऽन्यथा
स्तुतिः
।
केशे
कौटिल्यस्य
स्तुतिविषयत्वात।
एवं
कुचे
काठिन्यं
नेत्रे
लौल्यं
ज्ञेयम्
॥१३२॥
दृशौ
चकोर्यौ
सखि
राधिकायाः
कृष्णाननेन्दोः
स्मितकौमुदीनाम्
।
पानान्मुखाम्बुरुहं
यदस्मिन्
कृष्णाक्षिभृङ्गौ
पततः
सतृष्णौ
॥१३३॥
(
अनुमानम्
)
हे
सखि
!
राधिकाया
दृशौ
कृष्णाननेन्दोः
स्मितकौमुदीनां
पानाद्धेतोश्च
कार्यौ,
मुखं
चाम्बुजम्,
यद्यस्मातस्मिन्राधामुखे
कृष्णस्याक्सिभृङ्गौ
सतृष्णौ
सन्तौ
पततः
।
कृष्णमुखचन्द्रचन्द्रिकापानं
हेतुं
कृत्वा
राधादृशि
चकोरत्वं
साध्यमित्यनुमानम्
।
एवं
कृष्णनेत्रभ्रमरस्य
पतनं
हेतुं
कृत्वा
राधामुखे
पदत्वं
साध्यमिति
चानुमानम्
॥१३३॥
विनाप्याकल्पैः
श्रीवृषरविसुता
कृष्णसविधे
मुदोत्फुल्ला
भावाभरणवलितालीः
सुखयति
।
विना
कृष्णं
तृष्णाकुलितहृदयालङ्कृतिचयैर्
युताप्येषा
म्लाना
मलिनयति
तासां
तनुमनः
॥१३४॥
(
विनोक्तिः
)
कृष्णनिकटे
वृषभानुजा
आकल्पैर्भूषाभिर्विनापि
मुदा
हर्षेणोत्फुल्ला
भावरूपाभरणेन
युता
च
सती
आलीः
सखीः
सुखयति
।
कृष्णं
विना
सालङ्कारापि
म्लाना
तासां
सखीनां
तनुमनः
मलिनयति
।
विनोक्तिः
सा
विनैकेनान्यस्य
चेत्सदसत्कृतिः
[
अ
.
कौ
.
२७९
]
।
आकल्पैर्विना
कृष्णनिकटे
राधा
फुल्ला
सत्कृतिः
।
कृष्णं
विना
सालङ्कारा
राधा
म्लाना
असत्कृतिरत्र
विनोक्तिः
॥१३४॥
कृष्णः
पुरः
स्फुरति
पार्श्वयुगे
च
पश्चाच्
चित्तस्य
वृत्तिषु
दृशोर्विषये
च
शश्वत्
श्रीगण्डयोश्च
कुचयोस्तरले
यतोऽस्याः
श्रीराधिका
तदिह
कृष्णमयीति
सत्यम्
॥१३५॥
(
पर्यायः
)
यतोऽस्याः
पुरः
पार्श्वयुगादिषु
तरले
हारमध्यगरत्ने
च
कृष्णः
स्फुरति,
तत्तस्मात्कृष्णमयी
राधा
इति
सत्यम्
।
क्रमेणैकमनेकस्मिन्भवति
क्रियतेऽथवा
।
अपि
चानेकमेकस्मिनद्वत्पर्यायमीष्यते
॥
अनेकस्मिन्पुरः
पार्श्वयुगादौ
एकस्य
स्फूर्तिरत्र
पर्यायः
॥१३५॥
कृष्णस्य
सौन्दर्यभरैर्विनिर्जितः
कामोऽस्य
किञ्चित्प्रतिकर्तुमक्षमः
।
राधामिह
प्रीतिमतीं
विनिर्णयंस्
तां
बाधतेऽद्धा
तदगोचरेऽबलाम्
॥१३६॥
(
प्रत्यनीकम्
)
कृष्णसौन्दर्यातिशयैर्पराभूतः
कामः
कृष्णस्य
किञ्चित्प्रतिकर्तुमसमर्थः
तस्य
कृष्णस्य
असमक्षे
असौ
कामः
इह
कृष्णे
प्रीतिमतीं
राधां
सम्बाधते
।
अपकार्यापकारार्थमसमर्थेन
तत्प्रियम्
।
हिनस्ति
यत्तदीयोक्तिः
प्रत्यनीकं
स्तवो
यदि
॥
[
अ
.
कौ
.
३०५
]
अत्रापकारी
कामः
।
कृष्णापकारार्थमसमार्थेन
तदीयां
राधामबलां
तत्तस्य
कृष्णस्यागोचरे
बाधते
यत्,
तदेव
तदीयवृन्दाया
उक्तिः
स्तवरूपा
प्रत्यनीकम्
॥१३६॥
स्पृशति
यदि
मुकुन्दो
राधिकां
तत्सखीनां
भवति
वपुषि
कम्पस्वेदरोमाञ्चबाष्पम्
।
अधरमधु
मुदास्याश्चेत्पिबत्येष
यत्नाद्
भवति
बत
तदासां
मत्तता
चित्रमेतत॥१३७॥
(
असङ्गतिः
)
मुकुन्दो
यदि
राधां
स्पृशति,
तदा
तस्या
सखीनां
वपुषि
कम्पादयः
सात्त्विकविकारादयो
भवन्ति
।
एष
कृष्णः
अस्या
अधरमधु
चेत्पिबति,
तदा
आसां
सखीनां
मत्तता
भवति
।
एतच्चित्रम्
।
अत्यन्तभिन्नाधारत्वे
युगपद्भाषणं
यदि
।
धर्मयोर्हेतुफलयोस्तदा
सा
स्यादसङ्गतिः
॥
[
अ
.
कौ
.
३००
]
राधाङ्गस्पर्शनतदधरमधुपानरूपहेतुः,
तत्सखीनामङ्गरूपाभिन्नाधारे
हेतुजन्यं
फलं
ययोस्तयोर्धर्मयोः
।
राधास्पर्शाधरपानकम्पादिमत्ततारूपयोर्युगपद्भाषणमत्रासङ्गतिः
॥१३७॥
कृष्णो
वरीयान्पुरुषेषु
सद्गुणैः
श्रीराधिका
स्त्रीषु
गुणैः
वरीयसी
।
सङ्गं
विधातुस्त्वनयोः
परस्परं
धातुर्नरीनर्ति
गुणज्ञतायशः
॥१३८॥
^
प्
(
समालङ्कारः
)
पुंषु
सद्गुणैः
कृष्णो
श्रेष्ठः
।
राधा
सद्गुणैः
स्त्रीषु
श्रेष्ठा
।
अनयोः
सङ्गं
विधातुर्धातुर्गुणज्ञता
यशः
अतिशयं
पुनः
पुनर्वा
नृत्यति
।
श्लाघ्यत्वेन
भवेद्योग्यो
यदि
योगस्तदा
समं
[
अ
.
कौ
.
३०२
]
।
अत्र
राधाकृष्णयोः
श्लाघ्यो
योग्यो
योगः
समम्
॥१३८॥
इयं
कृष्णादङ्कस्रजमुरुमुपादाय
रुचिरां
वदान्यास्मै
राधा
सपदि
मणिमालामिह
ददौ
।
निपीयास्याः
कृष्णस्त्वधरमधु
दन्तक्षतमधाद्
गृहीत्वाभ्यामान्यो
दर
तदवलोकं
तनुमदुः
॥१३९॥
(
परिवृत्तिः
)
इयं
राधा
कृष्णाद्रुचिरां
मनोहरामुरुं
श्रेष्ठामङ्कस्रजमङ्का
नखाङ्कास्तेषां
स्रजं
मालां
पुष्पमालां
वा
अङ्के
क्रोडे
वक्षसि
स्थितां
मालां
वा,
अङ्करूपामङ्केनालिङ्गनरूपां
मालां
वा,
उपादाय
गृहीत्वा
वदान्या
राधा
अस्मै
श्रीकृष्णाय
रुचिरां
मणिमालां
दन्तक्षतरूपां
कण्ठस्थं
हारं
वा
ददौ
।
वदान्यो
दातृमहतोरित्यमरः
।
कृष्णस्तस्या
अधरमधु
निपीय
दन्तक्षतमदात।
आल्यः
आभ्यां
राधाकृष्णाभ्यां
दर
ईषत्तदवलोकं
गृहीत्वा
तनुमदुः
दत्तवत्यः
।
दर्शनेन
पुलकादियुक्तां
चक्रुरित्यर्थः
।
मणिमाला
स्मृता
हारे
स्त्रीणां
दन्तक्षतान्तरे
इति
विश्वः
।
समासमाभ्यां
नियमः
परिवृत्तिरुदीर्यते
[
अ
.
कौ
.
२८०
]
अर्थयोरर्थानां
वा
समेनासमेन
वा
नियमः
परिवृत्तिः
।
अङ्कस्रजमणिमालाभ्यां
तथाधरमधुदन्तक्षताभ्यां
दर
तदवलोकतदनुदानाभ्यामसमाभ्यां
नियमः
आदानप्रदानरूपः
परिवृत्तिरत्र
॥१३९॥
अन्यैव
सौन्दर्यसमृद्धिरस्या
भङ्गी
तथान्या
वपुषो
दृशोश्च
।
स्वान्तस्य
चोल्लासभरस्तथान्यो
राधैव
सान्या
प्रियसङ्गमेन
॥१४०॥
(
द्वितीयातिशयोक्तिः
)
प्रियसङ्गेन
अस्याः
सौन्दर्यसमृद्धिरन्यैव
।
तथा
वपुषो
दृशोश्च
भङ्गी
अन्यैव
।
मनसोल्लासभरश्चान्यः
।
सा
राधापि
अन्यैव
।
तदेवान्यतया
यदि
निरूप्यते,
तदा
सातिशयोक्तिद्वितीया
[
अ
.
कौ
.
२५८
]
भवति
।
अत्र
राधा
सौन्दर्यादेरन्यतया
निरूपणं
द्वितीयातिशयोक्तिः
॥१४०॥
स्वसौरभामोदितदिग्वितानां
कौमल्यसौन्दर्यमरन्दपूर्णाम्
।
पङ्केजनीं
त्वां
सखि
चञ्चरीको
हित्वा
कथं
धावति
केतकीं
ताम्
॥१४१॥
(
अप्रस्तुतप्रशंसा
)
सौरभयुतां
कौमल्यादिपूर्णां
पङ्केजनीं
तां
राधां
पद्मं
च
हित्वा
मधुसुदनः
कृष्णः
भ्रमरश्च
तां
केतकीं
कौमल्यसौन्दर्यमकरन्दरहिता
सकण्टकां
नायिकां
पुष्पं
च
कथं
धावति
।
अप्रासङ्गिकस्य
वाक्प्रासङ्गिककथायां
स्यादप्रस्तुतप्रशंसनं
[
अ
.
कौ
.
२५४
]
अप्रासङ्गिकस्याप्राकरणिकस्यार्थस्य
वाक्कथनं
यत्प्रासङ्गिककथायां
तदप्रस्तुतप्रशंसा
स्यात्,
कार्यकारणसामान्यविशेषेषु
तदन्यगीः
।
प्रस्तुतेषु
च
तुल्ये
च
तुल्यगीः
पञ्चधैव
तत॥
[
अ
.
कौ
.
२५५
]
तदप्रस्तुतप्रशंसनं
प्रस्तुतेषु
कार्यादिषु
तदन्यगीः
कारणादिनिरुक्तिः,
चकारादन्येषामप्रस्तुतप्रसङ्गतुल्ये
प्रस्तुते
तुल्यस्याप्रस्तुतस्य
गीश्चेति
पञ्चधा
।
कार्ये
कारणकथनम्,
कारणे
कार्यकथनम्,
सामान्ये
विशेषकथनम्,
विशेषे
सामान्यकथनम्,
तुल्ये
तुल्यस्याप्रस्तुतस्य
कथनमित्यर्थः
।
अत्र
प्रासङ्गिकराधागुणकीर्तनकथारूपकारणे
अप्रासङ्गिकस्य
राधां
त्यक्त्वा
अन्यनायिकायां
कृष्णगमनाभावरूपकार्यस्य
कथनमप्रस्तुतप्रशंसनं
नामालङ्कारः
॥१४१॥
माधव्याः
श्रीर्माधवेनैव
रम्या
माधव्यैवोत्फुल्ला
या
माधवश्रीः
।
इत्यन्योन्यश्रीसमुल्लासहेतू
एतौ
यद्वद्यामिनीयामिनीशौ
॥१४२॥
(
अप्रस्तुतप्रशंसान्योन्यसमासाभ्यामङ्गाभ्यां
सङ्करः
)
माधवेन
कृष्णेन
वसन्तऋतुना
च
माधव्या
राधायाः
माधवीलताश्च
श्रीः
रम्या
भवति
।
एवमुत्फुल्लया
माधव्या
एव
माधवः
श्रीरुत्फुल्ला
भवति
।
इत्यनेन
प्रकारेणान्योन्यश्रियोः
समुल्लासे
हेतुरेतौ
माधवीमाधवौ
एतयोर्मिलनकर्तुः
प्रशंसामाह
।
युञ्जतो
धातुरभिज्ञता
आसीत।
अप्रासङ्गिकस्य
वाक्प्रासङ्गिकथायां
स्यादप्रस्तुतप्रशंसनम्
।
कार्यकारणसामान्यविशेषेषु
तदन्यगीः
।
प्रस्तुतेषु
च
तुल्ये
च
तुल्यगीः
पञ्चधैव
तत॥
[
अ
.
कौ
.
२५५
]
पञ्चधा
मध्ये
विशेषे
सामान्यकथनं
माधवीमाधवयोरस्य
श्रियोः
कारणं
माधवो
माधवी
च
इति
प्रासङ्गिकविशेषकथायां
धातुरभिज्ञतारूपा
प्रासङ्गिकसामान्यकथनमत्र
प्रस्तुतप्रशंसनं
नामालङ्कारः
।
अन्योन्यलक्षणं—
क्रिययान्योन्यकारणं
वस्तुद्वयं
तदन्योन्यं
[
अ
.
कौ
.
२९५
]
वस्तुद्वयं
यदि
क्रियया
अन्योन्यकारणं
तदा
अन्योन्यमित्युच्यते
।
क्रियया
मिलनादिना
माधवेन
माधव्या
श्रीमाधव्या
माधवश्रीः
रम्या
स्यात।
वस्तुद्वयमत्र
राधाकृष्णयोः
श्रीः
समुल्लासश्च
तयो
रम्यता
कारणमन्योन्यम्
।
समलक्षणं—
श्लाघ्यत्वेन
भवेद्योग्यो
यदि
योगस्तदा
समं
[
अ
.
कौ
.
३०२
]
।
अत्र
माधवमाधव्योर्योगो
योग्यः
।
श्लाघ्यश्चात्र
समः
।
सङ्करस्त्वङ्गाङ्गिभावः
।
अलङ्काराणामङ्गाङ्गिभावः
सङ्करः
स
तु
बहुप्रकारः
।
अङ्गाभ्यामन्योन्यसमाभ्यामङ्गी
अप्रस्तुतप्रशंसनमत्र
विशेषे
सामान्यकथनरूपाप्रस्तुतप्रशंसनस्य
कथनादेव
वस्तुद्वयस्यान्योन्यकारणमन्योन्यं
भवेदिति
तथा
माधवमाधव्योर्योग्यः
श्लाघ्यश्च
योगरूपसमश्च
सम्भवेदिति
॥१४२॥
दृष्ट्वा
राधां
निपुणविधिना
सुष्ठु
केनापि
सृष्टां
धाता
ह्रीलः
सदृशमनया
यौवतं
निर्मिमत्सुः
।
सारं
चिन्वनसृजदिह
तत्स्वस्य
सृष्टेः
समास्या
नैकाप्यासीदपि
तु
समभूत्पूर्वसृष्टिर्निरर्था
॥१४३॥
(
विषमः
)
केनापि
निपुणविधिना
सुष्ठु
सृष्टां
राधां
दृष्ट्वा
धाता
ह्रीणः
लज्जितः
सननया
सदृशं
यौवतं
निर्मिमित्सुः
निर्माणं
कर्तुमिच्छुः
स्वस्य
सृष्टेः
सारं
चिन्वन्तत्यौवनमसृजत।
अस्याः
समानैकापि
आसीत।
अपि
तु
पूर्वसृष्टिर्निरर्था
समभूत।
विषमलक्षणं—
अत्यन्तवैसादृश्येन
योगो
यदतिदुर्घटः
।
कर्तुः
क्रियाफलाभावः
प्रत्युतानर्थसम्भवः
॥
गुणक्रियाभ्यां
ते
एव
कार्यकारणयोश्च
यत।
परस्परं
विरुध्येते
विषमः
स
चतुर्विधः
॥
[
अ
.
कौ
.
३०३
]
अस्याः
समा
एकापि
नासीदित्यनेन
।
पूर्वसृष्टिर्निरर्था
समभवदित्यनेन
च
।
अत्र
धातुः
पूर्वसृष्टिरूपक्रियाफलाभावः
।
निरर्थरूपानर्थसम्भवोऽत्र
विषमः
॥१४३॥
निर्माय
राधावदनं
विधात्रा
दृष्ट्वाम्बुजेन्दू
बहुदोषपूर्णौ
।
अशुद्धतां
व्यञ्जयता
तयोस्
तौ
कृतौ
द्विरेफाङ्कमसीविलिप्तौ
॥१४४॥
(
प्रतीपः
)
विधात्रा
अस्या
वदने
विनिर्मिते
अम्बुजेन्दू
बहुदोषपूर्णौ
दृष्ट्वा
अशुद्धाक्षरं
यथा
मसीलिप्तं
करोति
तथा
तयोरम्बुजचन्द्रयोरशुद्धतां
सूचयता
विधात्रा
तौ
पद्मचन्द्रौ
पद्मे
द्विरेफः
भ्रमरः
चन्द्रे
मृगाङ्करूपमसीविलिप्तौ
कृतौ
।
प्रतीपलक्षणं—
उपमानस्य
धिक्कार
उपमेयस्तुतौ
यदि
।
प्रतीपमुपमानस्य
धिक्कृत्यै
चोपमेयता
॥
[
अ
.
कौ
.
३१०
]
उपमानयोरम्बुजेन्द्वोर्धिक्कारः
।
उपमेयस्य
राधावक्त्रस्य
स्तुतौ
प्रतीपः
॥१४४॥
राधागुणानां
गणनातिगानां
वाणीवचःसम्पदगोचराणाम्
।
न
वर्णनीयो
महिमेति
यूयं
जानीथ
तत्तत्कथनिरलं
नः
॥१४५॥
(
आक्षेपः
)
राधागुणानां
महिमा
न
वर्णनीयः
इति
यूयं
जानीथ
नोऽस्माभिस्तत्तत्कथनैरलं
व्यर्थम्
।
अत्र
हेतुगर्भविशेषणमाह
।
गणनामतिक्रम्य
गच्छन्तीति
गणनातिगास्तेषामन्यस्य
का
वार्ता
वाणी
सरस्वती
तस्या
वचः
सम्पदोऽगोचराणाम्
।
आक्षेपो
वक्तुमिष्टस्य
यो
विशेषविवक्षया
।
निषेधो
वक्ष्यमाणत्वेनोक्तत्वेन
च
स
द्विधा
॥
[
अ
.
कौ
.
२७०
]
वक्तुमिष्टस्य
राधागुणमहिम्नो
विशेषं
वक्तुमिच्छया
उक्तो
निषेधोऽत्र
आक्षेपालङ्कारः
॥१४५॥
इत्थं
सालङ्कार
काव्यैः
सहासं
कृष्णः
कान्तां
वर्णिताङ्गीं
सखीभिः
।
पश्यन्फुल्लत्सङ्कुचद्भुग्न
नेत्रां
नेत्र
श्रुत्योस्तृप्तिमुच्चैरवाप
॥१४६॥
इत्थं
सखीभिः
सहासं
यथा
स्यात्तथा
सालङ्कारकाव्यैर्वर्णिताङ्गीं
कान्तामुल्लासेन
फुल्लल्लज्जया
सङ्कुचत्क्रोधेन
भुग्नं
च
नेत्रं
यस्यास्ताम्
।
पश्यन्कृष्णः
नेत्रश्रुत्योरुच्चैस्तृप्तिमवाप
॥१४६॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे
श्रीरघुनाथदासकृतिना
श्रीजीवसङ्गोद्गते
।
काव्ये
श्रीरघुनाथभट्टविरजे
गोविन्दलीलामृते
श्रीराधा
तनु
वर्णनामय
इतः
सर्गोऽयमेकादशः
॥
॥११॥
.
(
१२
)
द्वादशः
सर्गः
अथाह
वृन्दा
व्रजकाननेशौ
पादाम्बुजे
वां
ऋतुकारुमुख्यैः
।
निवेदितं
षड्भिरिहास्ति
यत्तत्
सार्धं
समाकर्णयतं
सखीभिः
॥१॥
अथानन्तरं
श्रीवृन्दादेव्याह—
निजानामस्माकं
फलपुष्पादिरूपा
येऽर्थाः,
तैः
।
कीदृशैः ?
वां
युवयोः
करुणोद्भवैरेभिर्युवां
हे
व्रजकाननेशौ
राधाकृष्णौ
वां
युवयोः
पदाब्जे
षड्भिः
ऋतुकारुमुख्यैः
शिल्पकारिप्रधानैरिह
यन्निवेदितमस्ति,
तत्सखीभिः
सार्धं
युवां
समाकर्णयतम्
॥१॥
प्रीत्यर्थं
युवयोः
सुचित्रितमिदं
वृन्दावनं
किङ्करैर्
अस्माभिर्बहुयत्नतो
निपुणतासर्वस्वप्रत्यर्पणैः
।
तन्नाथौ
कृपया
समीक्ष्य
सफलं
कर्तुं
युवामर्हतं
भृत्यानां
हि
विशेषकौशलकृतेरीशावलोकः
फलम्
॥२॥
निवेदितमाह—
युवयोः
प्रीत्यर्थं
किङ्करैरस्माभिर्बहुयत्नतो
निपुणतारूपसर्वस्वस्य
प्रत्यर्पणैरिदं
वृन्दावनं
सुचित्रितम्
।
हे
नाथौ
तत्वृन्दावनं,
यद्वा,
तस्य
वृन्दावनस्य
नाथौ
युवां
वृन्दावनं
समीक्ष्य
सफलं
कर्तुमर्हतम्
।
दर्शने
भृत्यानां
विशेषकौशलजन्यकृतेः
कार्यस्य
फलमीशस्य
स्वप्रभोरवलोक
एव
॥२॥
वृन्दावनस्थिरचरैस्तत्तल्लीलास्थलीस्थितैः
।
निवेदितं
पदाब्जे
यत्तच्चाकर्णयतं
प्रभू
॥३॥
तत्तद्रासादिलीलास्थलीषु
स्थितैः
स्थिरचरैर्युवयोः
पदाब्जे
यन्निवेदितं,
तच्च
हे
प्रभू
युवामाकर्णयतम्
॥३॥
अन्योन्यसङ्गोल्लसितौ
भवन्तौ
द्रष्टुं
निजार्थैः
करुणोद्भवैर्वाम्
।
निषेवितुं
चाजनि
या
समीहा
तामर्हतं
नः
सफलीविधातुम्
॥४॥
वृन्दावनीयस्थावरजङमानां
निवेदनमाह—
अन्यान्यसङ्गेन
उल्लासितौ
उत्साहयुक्तौ
भवन्तौ
द्रष्टुं
निषेवितुं
च
नौ
अस्माकं
या
समीहा
अजनि,
तां
समीहामिच्छां
सफललीविधातुं
युवामर्हतम्
॥४॥
तावदेत्याब्रवीत्कृष्णं
सुबलेन
समं
बटुः
।
वृन्दावनप्रजाः
कृष्ण
निःस्वास्ते
राधया
कृताः
॥५॥
सुबलेन
सह
बटुर्मधुमङ्गलः
कृष्णमाह—
हे
कृष्ण
!
ते
वृन्दावनप्रजाः
राधया
निर्धनाः
कृताः
॥५॥
सौन्दर्यमाधुर्यमयी
वनस्य
या
लक्ष्मीर्हृतास्यास्तनुशोभयैव
सा
।
फलप्रसूनादिमयी
बहिश्च
या
सखीभिरेषापि
समक्षमावयोः
॥६॥
अस्याः
रूप्६स्तनुशोभयैव
वनस्य
सौन्दर्यादिमयी
या
लक्ष्मीः,
सा
हृता
।
सखीभिः
सह
एषा
राधापि
आवयोः
समक्षं
सा
फलपुष्पादिमयी
बहिश्च
या
लक्ष्मीः,
तामपहरदिति
शेषः
॥६॥
नान्दीमुखी
समुपसृत्य
ततोऽवदत्तौ
स्वस्त्यस्तु
वां
सहचरीगणसंयुताभ्याम्
।
साशीःशतं
भगवती
यदिहादिशद्वां
तत्कर्णयोः
पथिकतां
नयतं
शुभंयू
॥७॥
नान्दीमुखी
सम्मुखमागत्य
ताववदत्—
सखीगणसंयुताभ्यां
वां
युवाभ्यां
तौ
स्वस्त्यस्तु
।
सा
भगवती
पौर्णमासी
वां
युवयोर्यदाशीः
शतमादिशत्शुभंयू
शुभान्वितौ
युवां
कर्णयोः
पथिकतां
कर्णगतां
नयतम्
॥७॥
स
तीक्ष्णदण्डः
स्मरचक्रवर्ती
वृन्दाटवीराज्यपदे
भवन्तौ
।
समानसामन्ततयाभिषिच्य
न्ययोजयद्भृङ्गपिकादिचारान॥८॥
तीक्ष्णोऽतिपीडको
दण्डो
यस्य
स
स्मरचक्रवर्ती
भवन्तौ
वृन्दाटवीराज्यपदे
समानसामन्ततया
तुल्यसर्वाधिकारितया
अभिषिच्य
भृङ्गपिकादिचारान्चरसमूहान्न्ययोजयत॥८॥
तदात्ममध्ये
कलिना
न
संयुतिः
सम्भोगहानिर्नृपतेर्भयं
तथा
।
समञ्जसत्वेन
ततो
मदाज्ञया
राज्ये
सुखं
निर्विशतं
युवामिति
॥९॥
तत्तस्मा
आत्मनोर्मध्ये
कलिना
कलहेन
संयुतिः
सम्भोगो
न
कार्येति
शेषः
।
कलिसंयुतौ
सत्यां
सम्भोगहानिर्भवेत।
तथा
नृपतेर्भयं
च
भवेत।
ततस्तस्मात्ममाज्ञया
राज्ये
समञ्जसत्वेन
ततो
परस्परप्रीत्या
युवां
सुखं
निर्विशतमिति
श्रीभगवत्या
पौर्णमास्या
आदेशः
॥९॥
मामावदत्सा
पुनरित्थमीशा
विवाद
आसीत्प्रथमं
तयोश्चेत।
वृन्दा
वृता
त्वं
सुविचार्य
मह्यं
दोषोऽत्र
कस्येति
निवेदयाशु
॥१०॥
सा
पौर्णमासी
पुनर्मामा
सम्यगवदत।
तयोश्चेद्विवाद
आसीत्,
वृन्दया
सह
त्वं
विचार्य
सा
प्रथमं
कस्य
दोषो
मह्यमाशु
निवेदय
वद
॥१०॥
नान्दीमुखीमथ
जगाद
हरिस्त्वमस्या
जानासि
वृत्तमखिलं
मिलनं
कुतो
नौ
।
निःस्वीकृतं
वनमिदं
सवयस्यया
मे
वंशी
च
सा
विमुषिता
शठयानयाद्य
॥११॥
हरिर्नान्दीमुखीमाह—
अस्या
राधाया
अखिलं
वृत्तं
मिलनं
त्वं
जानासि
।
नौ
आवयोर्कुतो
मिलनं
कुतः ?
यत
इदं
वनं
सवयस्यया
अनया
निःस्वीकृतम्
।
मे
वंशी
च
अद्य
मुषिता
॥११॥
कौन्द्यब्रवीद्यत्स्मरसार्वभौम
पार्श्वं
प्रयातौ
कलहायमानौ
।
हरे
भवन्तौ
पृथुगर्ववन्तौ
किं
तत्र
वृत्तं
कथयात्र
सत्यम्
॥१२॥
हे
हरे
!
भवन्तौ
स्मरपार्श्वं
गतौ
तत्र
किं
वृत्तं,
तेन
को
विचारः
कृतः ?
इति
वृत्तान्तं
तदत्र
सत्यं
कथय
॥१२॥
कृष्णोऽवदत्तस्य
समीप
एतां
नीत्वा
मयोक्तं
वनलुण्ठिकेयम्
।
निगृह्यतां
दण्डितमेतदर्थं
मदर्थमस्या
मयि
दापयेति
॥१३॥
तस्य
स्मरस्य
समीपे
एतां
राधा२
नीत्वा
इति
मयोक्तम्
।
इयं
वनलुण्ठिका
निगृह्यतां,
एतदर्थमस्या
निमित्ते
मदर्थं
मम
धनं
त्वया
दण्डितमस्याः
सकाशात्मद्धनं
मयि
दापय
॥१३॥
पृष्टामुनेयं
तमुवाच
गोपैर्
असङ्ख्यगोचारणतो
वनं
ते
।
उन्मूलितं
तत्फलपुष्पलुब्धैः
स्वया
श्रिया
पोषितमस्त्यदो
नः
॥१४॥
अमुना
स्मरनाम्ना
राज्ञा
पृष्टा
इयं
राधा
तं
स्मरमुवाच—
गोपैस्ते
वनं
गोद्वारा
उन्मूलितम्
।
कीदृशैः ?
तस्य
वनस्य
फलपुष्पलुब्धैर्नोऽस्माभिरदो
वनं
स्वया
श्रिया
स्वीयकान्त्या
सम्पदा
वा
पोषितमस्ति
॥१४॥
शैथिल्यभाजोऽस्य
मृषा
गिरास्या
दृष्टो
मयास्यां
दृढपक्षपातः
।
सिद्धेऽपि
दोषे
न
कृतो
विचारः
साक्षात्स
युष्मासु
समर्पितो
यत॥१५॥
अस्या
मृषा
गिरा
शैथिल्यभाजोऽस्य
स्मरराज्ञः
।
अस्यां
दृढपक्षपातो
मया
दृष्टः
।
पक्षपातमाह—
दोषे
सिद्धेऽपि
यद्यस्मात्साक्षात्विचारो
न
कृतः
।
स
विचारो
युष्मासु
समर्पितः
॥१५॥
साब्रवीद्यदि
तस्यास्यां
पक्षपातस्तदासकौ
।
तारुण्यरत्नं
सन्दण्ड्य
केन
निर्वचनीकृता
॥१६॥
सा
कुन्दवल्ल्याह—
यदि
तस्य
स्मरस्य
राज्ञः
अस्यां
राधायां
पक्षपातस्तदास्यास्तारुण्यरत्नं
सन्दण्ड्य
केनासकौ
राधा
निर्वचनीकृता ?
॥१६॥
नृपेङ्गितेनाध्वनि
तं
निजार्थं
मयार्थितापीच्छति
चेन्न
दातुम्
।
इमां
तदा
दण्डयितुं
प्रवृत्तोऽ
नया
बलात्प्रत्युत
दण्डितोऽस्मि
॥१७॥
नृपस्येङ्गितेन
मयाध्वनि
मार्गे
तं
निजार्थं
याचिताप्येषा
चेद्यदि
दातुं
नेच्छति,
तदा
इमां
दण्डयितुं
प्रवृत्तोऽहं,
प्रत्युत
अनया
बलात्दण्डितोऽस्मि
॥१७॥
कटाक्षबाणैः
कुटिलीभवद्भ्रुवा
विद्धस्तया
गद्गदरुद्धकण्ठया
।
मुदं
स
लेभे
किल
कुन्दवल्लिका
सापि
स्वलीलाकमलेन
ताडिता
॥१८॥
स
कृष्णः
।
गद्गदेन
रुद्धः
कण्ठो
यस्यास्तया
।
पुनः
कीदृश्या ?
कुटिलीभवन्ती
भ्रूर्यस्यास्तया
राधया
कटाक्षबाणैर्विद्धः
।
सा
कुन्दवल्ली
च
स्वस्यास्तस्या
राधाया
लीलाकमलेन
ताडितापि
मुदं
लेभे
॥१८॥
ततः
शिरोवेष्टनतः
स
पत्रिकां
निष्कास्य
नान्दीवदनाकरे
न्यधात।
सा
तां
पठत्यस्फुटमर्थितोत्सुकैः
सभ्यैः
पुनस्तैः
स्फुटमप्यवाचयत॥१९॥
स
कृष्णः
पुरा
यां
पत्रिकां
लिखित्वा
शिरोवेष्टनेऽधारयत्,
तां
पत्रिकां
नान्दीमुखी
करे
न्यधात।
सा
तां
पत्रिकामस्फुटं
पठन्ती
उत्सुकैः
सभ्यैरर्थिता
।
पुनः
स्फुटमप्यवाचयत॥१९॥
स्वस्ति
श्रीस्मरसार्वभौमचरणाब्जानां
सनान्दीमुखी
वृन्दाकुन्दलतादिसभ्यनिचयेष्वेतत्समाज्ञापनम्
।
देया
काननसत्प्रजाः
प्रति
हृता
श्रीराधया
श्रीस्ततो
राधामाधवयोर्यथा
मुरलिकान्यायो
विधेयश्च
वः
॥२०॥
नान्दीमुख्यादिसभ्यसमूहेषु
स्मरराज्ञां
समाज्ञापनम्
।
राधया
काननप्रजानां
या
श्रीर्हृता,
सा
श्रीः
काननसत्प्रजाः
प्रति
तया
देया
।
ततस्तदनन्तरम्
।
वो
युष्माभिः
राधामाधवयोर्यथायोग्यो
मुरलिकान्यायश्विधेयः
कर्तव्यः
॥२०॥
सभ्येषु
पृच्छत्स्वथ
राधिकां
तां
पुरः
स्थितोवाच
तदा
विशाखा
।
पुरानयाख्यायि
नृपाग्रतो
यत्
पुष्णाति
सेयं
वनमात्मलक्ष्म्या
॥२१॥
तां
राधिकां
सभ्येषु
पृच्छत्सु
पुरः
स्थिता
विशाखा
उवाच
।
अनया
राधया
पुरा
नृपाग्रतः
यदाख्यायि,
तत्सेयं
राधा
आत्मलक्ष्म्या
वनं
पुष्णाति
॥२१॥
अथाह
ललिता
मुग्धे
तदेतत्कथनेन
किम्
।
प्रतिबिम्बं
हि
राधायाः
श्रीमूर्तेर्व्रजकाननम्
॥२२॥
ललिताह—
हे
मुग्धे
विशाखे
!
एतत्कथनेन
किं ?
राधायाः
श्रीमूर्तेः
प्रतिबिम्बं
व्रजकाननम्
॥२२॥
किं
करिष्यति
राजा
नः
सूचकैरुपयापितः
।
पालयामोऽटवीं
स्वीयां
गृह्णीमोऽस्याः
फलादिकम्
॥२३॥
सूचकैः
खलैः
उपयापितः
कथितो
राजा
नः
किं
करिष्यति ?
॥२३॥
तथाप्याज्ञास्य
पाल्या
चेद्गत्वाग्रे
पश्यताटवीम्
।
वृन्दावनेशया
पुष्टामात्मपोषं
सखीमिव
॥२४॥
चेद्यदि
अस्य
कामस्य
आज्ञा
पाल्या,
तदा
वृन्दावनेशया
चेद्राधयाटवीं
सखीमिव
आत्मपोषं
पुष्टां
पश्यत
॥२४॥
नैवास्माभिः
क्वापि
दृष्टास्ति
वंशी
धर्मोच्छित्त्यै
दीक्षिता
या
सतीनाम्
।
सास्मद्दिष्ट्या
लभ्यते
चेत्तदैनां
कृष्णापूरैर्वाहयामः
समुद्रम्
॥२५॥
या
वंशी
सतीनां
धर्मोच्छित्त्यै
धर्मनाशाय
दीक्षिता,
सा
क्वापि
दृष्टा
नास्ति
।
दिष्ट्या
चेत्लभ्येत,
तदैनां
कृष्णाया
यमुनायाः
पूरैः
प्रवाहैः
समुद्रं
वाहयामः
॥२५॥
नान्द्यब्रवीत्कृष्ण
वनप्रजाभ्यो
दत्ता
मया
श्रीरिति
यद्वचोऽस्याः
।
सत्यं
मृषा
वेति
विचार्य
पूर्वं
वंश्या
विचारः
परतो
विधेयः
॥२६॥
नान्द्मुख्याह—
हे
कृष्ण
!
वनप्रजाभ्यो
मया
श्रीर्दत्ता
इत्यस्या
राधाया
वचः
ऽसत्यं
वा
मृषा
वा
पूर्वं
विचार्य
परतः
पश्चात्वंश्या
विचारो
विधेयः
॥२६॥
वनमनु
ललिताग्रेकृत्य
राधां
चलन्ती
विपिनविहरणेच्छुः
प्रेष्ठयोः
प्राह
सभ्यान।
चलत
सह
मयैव
स्वश्रिया
राधयाद्धा
कलयत
वनमेतत्पोषितं
भूषितं
च
॥२७॥
प्रेष्ठयोर्वनविहरणेच्छुर्ललिता
राधा२
अग्रेकृत्य
वनमनु
वने
चलन्ती
सभ्यानाह—
हे
सभ्याः
!
यूयं
मया
सह
चलत
।
अद्धा
साक्षात।
राधया
स्वश्रिया
एतद्वनं
पोषितं
भूषितं
च
कलयत
पश्यत
॥२७॥
खगमृगतरुवल्लीपत्रपुष्पादिवृन्दे
प्रकटकनकगौराद्वैतवर्णेऽथ
जाते
।
अघरिपुमुखसभ्यानां
तु
ते
ते
पदार्थाः
परिचयपदमीयुः
केवलाकारभेदैः
॥२८॥
अथानन्तरं
खगादिवृन्दे
प्रकटकनकवद्गौरेण
अद्वैतवर्णे
स्ववर्णवत्गौरवर्णे
जाते
सति
कृष्णादिसभ्यानां
केवलाकारभेदैस्ते
ते
खगादयः
पदार्थाः
परिचयपदमीयुः
प्रापुः,
स्वस्ववर्णभेदैस्तु
नेत्यर्थः
॥२८॥
सभ्यान्पुरस्कृत्य
जगाद
नान्दी
सत्यं
वचः
श्रीवृषभानुजायाः
।
पुष्टं
स्वकान्त्या
विपिनं
यदस्या
नेत्रोत्सवं
नस्तनुतेऽखिलानाम्
॥२९॥
नान्दीमुख्याह—
श्रीराधाया
वचः
सत्यम्
।
राधाकान्त्या
पुष्टं
वनं
नोऽखिलानां
नेत्रोत्सवं
तनुते
॥२९॥
कृष्णोऽवदद्याति
यदेयमालयं
सम्पत्तिमादाय
वनस्य
कृत्स्नशः
।
आयाति
चेद्भूप
भियार्पयत्यमूं
तदिन्द्रजालं
किमु
वेत्ति
राधिका
॥३०॥
श्रीकृष्ण
आह—
इयं
राधा
यदा
आलयं
गृहं
याति,
तदा
वनस्य
कृत्स्नशः,
सर्वां
सम्पत्तिमादाय
गृहीत्वा
याति,
वनमायाति
चेत्तदा
भूपभियामूं
सम्पत्तिं
वनेऽर्पयति
।
तत्तस्मात्राधिका
इन्द्रजालं
नटविद्यां
वेत्ति
किमु
।
किमु
वितर्के ?
इत्यहं
तर्कयामीत्यर्थः
॥३०॥
हर्षोत्फुल्लाः
प्रहसितमुखीर्वीक्ष्य
सर्वा
वयस्याः
कृष्णे
यत्नात्सपदि
बटुना
प्रापितेऽग्रेसरत्वम्
।
श्रीराधाया
द्युतिशवलिता
कृष्णकान्तिः
समृद्धा
प्रोत्सर्पन्ती
मरकतनिभा
व्यानशे
काननं
तत॥३१॥
हर्षोत्फुल्लाः
प्रहसितमुखीः
सर्वा
वयस्याः
सखीर्वीक्ष्य
बटुना
सपदि
कृष्णेऽग्रेसरत्वमग्रगामित्वं
प्रापिते
सति
राधाया
द्युतिशवलिता
कान्तियुक्ता
मरकतवर्णा
सम्यकृद्धा
वृद्धा
श्रीराधाकान्तेः
पृष्ठसाहाय्यं
प्राप्यवृद्धिं
प्राप्ता
।
प्रोत्सर्पन्ती
सती
तत्स्वर्णवर्णं
काननं
व्यानशे
व्याप्तमकरोत।
अशुङ्व्याप्तौ
सङ्घाते
च
धातुः
।
अनेन
स्वस्वपरिकरेच्छया
सर्वा
लीलाः
प्रकटाः
भवन्तीति
ज्ञापितम्
॥३१॥
हृष्टोऽवदच्छ्रीमधुमङ्गलस्तान्
मिथो
मिलद्भ्यः
शवलोज्ज्वलाङ्गौ
।
राधामुकुन्दौ
स्मरतापितौ
किं
तद्वञ्चनायैक्यमिह
प्रयातौ
॥३२॥
हृष्टो
मधुमङ्गलस्तान्सभ्यानवदत।
स्मरतापितौ
राधामुकुन्दौ
मिथः
परस्परं
मिलन्त्यो
या
भाः
कान्तयस्ताभिः
शवलानि
युक्तानि
उज्ज्वलानि
अङ्गानि
ययोस्तौ
तद्वञ्चनार्थमैक्यं
प्रयातौ
किम्
॥३२॥
सभ्यानूचे
प्रहसितमुखी
तुङ्गविद्या
कवीशा
श्रीगान्धर्वाद्युतिशवलितैः
कान्तिपूरैर्मुरारेः
।
यूयं
सर्वे
मरकतमयीं
दीप्तिमासाद्य
सद्यः
प्राप्ताः
स्थोदाहरणपदतां
तद्गुणालङ्कृतेर्नु
॥३३॥
कवीशा
तुङ्गविद्या
सभ्यानूचे
।
राधाकान्तियुतैर्मुरारेः
कान्तिपूरैः
सर्वे
यूयं
सद्यो
मरकतकान्तिमासाद्य
तत्तयो
राधाकृष्णयोर्गुणालङ्कृतेरुदाहरणतां
प्राप्ताः
स्युः
।
नु
इति
तर्कयामि
॥३३॥
किञ्चिद्विवक्षौ
पुरतः
सरन्त्यां
चलत्करायां
वनपालिकायाम्
।
दैवात्समीराभिमुखी
यदासीद्
वंशी
तदास्य
ध्वनिरुच्चचार
॥३४॥
वनपालिकायां
वृन्दायां
किञ्चिद्वक्तुमिच्छौ
चलत्करायां
पुरतः
सरन्त्यां
सत्यां
दैवात्वंशीवायुमुखी
यदा
आसीत।
तदास्या
वंश्या
ध्वनिरुच्चचार
शब्दोऽभूत॥३४॥
तत्काकलीश्रवणतश्चकितासु
सर्वा
स्वासाद्य
तां
सपदि
कुन्दलता
सखीभिः
।
आदाय
तत्करतलान्मुरलीमथैनां
चौरीयमित्युपनिनाय
हरेः
समीपम्
॥३५॥
तत्काकलीश्रवणतश्चकितासु
सर्वा
स्वासाद्य
तां
सपदि
कुन्दलता
सखीभिः
आदाय
तत्करतलान्मुरलीमथैनां
चौरीयमित्युपनिनाय
हरेः
समीपम्
॥३५॥
राधाब्रवीन्मुरलिकां
विनिधाय
वृन्दा
पाणौ
कदर्थयति
ते
सखि
देवरोऽस्मान।
तन्मन्यसे
न
यदि
पृच्छ
कुतोऽनयेयं
प्राप्ता
न
चेद्वदति
सत्यमियं
हि
दण्ड्या
॥३६॥
राधाब्रवीन्मुरलिकां
विनिधाय
वृन्दापाणौ
कदर्थयति
ते
सखि
देवरोऽस्मान्तन्मन्यसे
न
यदि
पृच्छ
कुतोऽनयेयं
प्राप्ता
न
चेद्वदति
सत्यमियं
हि
दण्ड्या
॥३६॥
वृन्दाह
कक्खटिकया
वंशी
शैव्याकराद्बलात।
आच्छिद्यानीय
मे
दत्ता
कुञ्जे
नान्दीमुखीपुरः
॥३७॥
अथ
कुन्दलता
वंशीं
कृष्णपाणौ
समर्पयत।
सोऽप्यादाय
चिराल्लब्धां
प्रहृष्टामवादयत॥३८॥
कक्खटिकया
वानर्या
शैव्याकराद्बलात्वंशी
आच्छिद्यानीय
मे
मह्यं
दत्ता
नान्दीमुख्यग्रे
॥३७३८॥
मनोवंशान्कुर्वंस्त्रिजगदबलानां
मदनरुग्
घुणोत्कीर्णान्जीर्णान्स्थिरचरगधर्मान्विनिमयन।
ऋतूनां
सपत्तीर्युगपदिह
षण्णां
समुदयन्
सुधासारैः
सिञ्चन्जगदुदलसद्वेणुनिनदः
॥३९॥
वेणुनिनदः
त्रिजगदबलानां
मनोरूपवंशान्मदनजन्यरुग्रोगः
घुणाख्यकीटविशेषस्तेनोत्कीर्णान्भक्षितान्ततो
जीर्णान्कुर्वन।
स्थिराणां
स्थावराणां
चराणां
च
धर्मान्विनिमयन्,
स्थावरे
चरधर्मान्,
चरे
स्थावरधर्मान्प्रापयन।
वृन्दावने
ऋतूनां
सम्पत्तीः
युगपदेकस्मिन्काले
समुदयन।
जगत्सुधाधाराभिः
सिञ्चनुदलसत॥३९॥
श्रीकृष्णस्याविकलमुरलीध्वानबाणैर्विदूरान्
नारीणां
यद्वरधृतियुजां
दर्पकोन्मत्ततासीत।
अस्त्रीलोकोऽप्यभवदतनूच्चण्डपीडाविहस्तस्
तन्नाश्चर्यं
यदयमभितो
मारमूर्तिस्वरूपः
॥४०॥
श्रीकृष्णस्याविकलाः
सावधाना
ये
मुरलीध्वानबाणास्तैर्वरधृतियुजां
नारीणां
विदूरात्यत्दर्पकस्य
कन्दर्पस्य
उन्मत्तता
आसीत।
एवमस्त्री
पुरुषलोकोऽपि
अतनोः
कन्दर्पस्य
उच्चण्डपीडया
विहस्तो
व्यग्रोऽभवत्,
तन्नाश्चर्यम्
।
यद्यस्मादयं
कृष्णः
कन्दर्पमूर्तिस्वरूपः
॥४०॥
द्रवति
शिखरवृन्देऽचञ्चले
वेणुनादैर्
दिशि
दिशि
विसरन्तीर्निर्झरापः
समीक्ष्य
।
तृषितखगमृगाली
गन्तुमुत्का
जडा
तैः
स्वयमपि
सविधाप्ता
नैव
पातुं
समर्था
॥४१॥
धर्मविनिमयमाह—
वेणुनादैः
पाषाणस्य
द्रवीभावान।
अचञ्चले
पर्वतवृन्दे
द्रवति
सति
दिशि
दिशि
गच्छन्ती
निर्झरापः
प्रवाहजलानि
समीक्ष्य
जलपानार्थं
गन्तुमुत्कण्ठितापि
तृषितखगमृगश्रेणी,
तैर्वेणुनादैर्जडा
सती
स्वयं
समीपप्राप्ता
अपि
ता
निर्झरापः
पातुं
नैव
समर्थाभूत॥४१॥
वंशीनादैः
सरसि
पयसि
प्रापिते
ग्रावधर्मं
हंसीः
सन्दानितपदयुगाः
स्तम्भिताङ्गी
रिरंसुः
।
आसन्नीशाः
स्वयमपि
जडा
बद्धपादा
न
गन्तुं
ताभ्यो
दातुं
न
विषशकलं
नापि
भोक्तुं
मरालाः
॥४२॥
ततो
वृन्दाटवीं
वृन्दा
स्फीतां
तत्तदृतुश्रिया
।
दर्शयन्ती
स्वनाथौ
तावभाषत
पुरोगता
॥४३॥
वंशीनादैः
सरोवरे
पयसि
जले
ग्रावधर्मं
पाषाणधर्मं
प्रापिते
सति
।
स्वयमपि
जडाः
बद्धपादाः
मराला
हंसाः
सन्दानितं
बद्धं
पदयुगं
यासां
तास्तैः
स्तम्भिताङ्गीर्हंसीः
रिरंसू
रमणेच्छुरपि
गन्तुं
तथा
ताभ्यो
हंसीभ्यो
विषस्य
मृणालस्य
शकलं
खण्डं
दातुं
दाने
वा
का
शक्तिः
स्वयं
भोक्तुमपि
ईशाः
समर्था
नासन॥४२४३॥
स्फुरत्स्तम्भास्तब्धैर्विलसितचरैः
कम्पवलिता
स्थिरैः
कम्प्रैः
स्विन्ना
स्रवदुपलकैर्गद्गदयुता
।
विरावैरस्पष्टैः
पुलकवलिताङ्ग्यङ्कुरचयैः
सखीश्रेणीवेशौ
प्रणयविवशा
सेयमटवी
॥४४॥
पूर्वश्लोकोक्ततत्तदृतुश्रिया
स्फीतां
वृन्दाटवीमिति
।
यदुक्तं
तदेव
वक्तुं
तस्याः
सखीधर्ममप्याह—
हे
ईशौ
!
सखीश्रेणीव
प्रणयविवशा
सेयमटवी
विलसति
।
यथा
सखीश्रेणी
स्फुरत्स्तम्भादिविशिष्टा
लसति,
तथा
इयमटवी
सर्वैः
स्तम्भयुक्तैश्चरैर्जङ्गमैः
स्फुरत्स्तम्भा
स्फुरत्स्तम्भो
यस्या
सा
।
कम्प्रैः
कम्पयुक्तैः
स्थिरैः
स्थावरैः
कम्पवलिता
।
स्रवद्भिरुपलकैरुपलैः
स्विन्ना
स्वेदयुक्ता
।
अस्पष्टैरव्यक्तविरावैः
पक्षिद्व्हनिभिर्गद्गदयुता
।
अङ्कुरचयैः
पुलकवलिताङ्गी
॥४४॥
वासन्तीबकुलादिकैर्विचकिलामोघाशिरीषादिकैर्
यूथीनीपसुकेतकीप्रभृतिभिर्जात्यब्जबाणादिभिः
।
लोध्राम्लानमुखैश्च
चारुकुसुमैर्बन्धूककुन्दादिभिः
क्ÿ
प्ताकल्पविभूषणार्चिततनुस्तैर्भाति
सैषाटवी
॥४५॥
तैर्वासन्त्यादिभिः
क्ÿ
प्ता
कृता
ये
आकल्पा
वेशरचनास्त
एव
विभूषणानि,
तैरर्चिता
तनुर्यस्या
सैषाटवी
भाति
।
वासन्तीबकुलादिकैर्वसन्तऋतुजैः
विचकिलादिकैर्ग्रीष्मजैः
।
यूथीप्रभृतिभिर्वर्षाऋतुजैः,
जात्यादिभिः
शरदिजैः,
लोध्रादिभिर्हेमन्तजैः,
बन्धूकादिभिः
शिशिरजैः
।
वासन्ती
माधवीलता
।
विचकिलो
मल्लिका
।
अमोघा
पाटलपुष्पविशेषः
।
नीपः
कदम्बः
।
अब्जं
पद्मम्
।
बाणः
पुष्पविशेषः
।
गालवः
सारवो
लोध्रालीला
झिण्टीद्वयोर्बाणा
इति,
अम्लानं
तु
महासहा
इति
चामरः
॥४५॥
फुल्लाभिर्माधवीभिर्बकहर
विलसन्त्यत्र
फुल्ला
रसालाः
सन्मल्लीभिः
शिरीषास्त्विह
वरगणिका
वीथिभिश्चात्र
नीपाः
।
जातीभिः
सप्तपर्णा
इह
च
कुसुमिताम्लानपालीभिरस्मिन्
लोध्रास्ते
वां
सपर्यार्थिन
इह
फलिनी
श्रेणिभिः
कुन्दभेदाः
॥४६॥
वसन्तादिषु
मिथुनीभावेन
लतावृक्षाणां
शोभाविशेषमाह—
हे
बकहर
!
अत्र
फुल्लाभिर्माधवीभिः
फुल्ला
रसाला
आम्रा
इह
सन्मल्लीभिः
शिरीषाः
।
अत्र
वरण्गणिकाभिः
यूथिकाभिर्नीपा
इह
जातीभिः
सप्तपर्णाः
।
अस्मिनम्लानैर्लोध्राः
।
इह
फलिनीभिः
प्रियङ्गुभिः
कुन्दभेदाः
।
वां
युवयोः
सपर्यार्थिनो
विलसन्ति
विशेषेण
लसन्ति
।
आम्रश्चूतो
रसालोऽसाविति
।
गणिका
यूथिकाम्बष्ठा
इति
।
सप्तपर्णो
विशालत्वक्शारदी
विषमच्छद
इति
।
प्रियङ्गु
फलिनी
इति
चामरः
॥४६॥
भृङ्गैः
क्वापि
वनप्रियाः
क्वचिदिमे
चाषैश्च
धूम्याटका
दात्यूहैः
शिखिचातकास्तत
इतो
हंसादयः
सारसैः
।
कीराः
क्वापि
किखीकुलैरिह
भरद्वाजैश्च
हारीतका
गायन्तीव
मुदात्र
वां
गुणयशः
प्रेम्ना
रुवन्तः
सदा
॥४७॥
भृङ्गैः
कोकिलाः,
चाषैर्धूम्याटका
पिङ्गाख्याः,
दात्यूहैः
डाहुक
इत्याख्यैः
शिखिचातकाः,
सारसैर्हंसादयः,
किखीकुलैः
खगविशेषैः
कीराः,
भरद्वाजैर्हारीतकाः,
मुदा
वां
गुणयशः
प्रेम्णा
सदा
गायन्तीव
रुवन्तः
सन्तः
सन्तीति
शेषः
॥४७॥
शाखैका
मुकुलैर्युता
किशलयैरन्या
प्रसूनैः
पराप्य्
एकस्येजतरोर्हरिद्भिरपरा
काचिद्दलैः
पाण्डुरैः
।
अन्यान्यापि
च
जालकैः
किल
फलैः
पाकोन्मुखैः
पक्त्रिमैर्
यस्येत्थं
तरुमण्डलः
सडृतुभिः
स्वैः
स्वैर्गुणैः
सेव्यते
॥४८॥
शाखा
एका
मुकुलैर्युता
किशलयैरन्या
प्रसूनैः
पराप्येकस्येजतरोर्हरिद्भिरपरा
काचिद्दलैः
पाण्डुरैः
।
अन्यान्यापि
च
जालकैः
किल
फलैः
पाकोन्मुखैः
पक्त्रिमैर्यस्य
इत्थं
तरुमण्डलः
सडृतुभिः
स्वैः
स्वैर्गुणैः
सेव्यते
॥४८॥
इयं
वृन्दाटव्याततषडृतुलक्ष्मीसहचरी
कुलैः
स्वैः
स्वैस्तत्तन्मधुरविभवैर्मण्डिततनुः
।
भृतोच्चैःसम्भारा
प्रणयविवशालीव
रभसात्
स्वसम्पद्भिः
साक्षादभिलसति
वां
सेवनसुखम्
॥४९॥
आतता
विस्तृता
या
षडृतुलक्ष्मीः
सैव
सहचरी,
तासां
कुलैः
समूहैः
।
पक्षे,
पीतझिण्टीभिस्तथा
स्वैः
स्वैस्तत्तत्पूर्वोक्तैर्मधुरैर्मण्डिता
तनुर्यस्याः
सा
।
इयं
वृन्दाटवी
भृतो
धृतः
उच्चैः
सम्भारो
यया
सा
।
तथा
प्रणयविवशा
च
या
आली
सखी
सैव
।
स्वसम्पद्भिः
करणैः
रभसात्हर्षात्वां
युवयोः
साक्षात्सेवनसुखमभिलसति
॥४९॥
ऊर्ध्वप्रसर्पत्सुमनोरजःपटं
विधुन्वती
वीक्ष्य
गृहागतौ
युवाम्
।
समीरलोलागलतावलिच्छलाद्
आनन्दिता
नृत्यति
वृन्दिकाटवी
॥५०॥
युवां
गृहागतौ
स्वगृहमागतौ
वीक्ष्यानन्दिता
वृन्दिकाटवी
समीरेण
लीला
या
अगानां
वृक्षाणां
लतानां
चावल्यस्तासां
छलात्नृत्यति
।
किं
कुर्वती
सती ?
ऊर्ध्वदेशे
प्रसर्पन्ति
गच्छन्ति
सुमनसां
पुष्पाणां
रजांस्येव
पटो
वस्त्रं
तं
विधुन्वती
सती
॥५०॥
नानावर्णैश्च
पतितैः
पुष्पैश्चित्राम्बरैरिव
।
वर्त्मास्तरणमानन्दात्कुर्वत्यभ्येति
वामियम्
॥५१॥
इयमटवी
चित्राम्बरैरिव
पतितैर्नानावर्णैश्पुष्पैर्वर्त्मनः
आस्तरणमाच्छादनमानन्दात्कुर्वती
सती
वां
युवामभ्येति,
यथा
कश्चिततिमान्यस्यागमनसमये
वस्त्रैर्वर्त्माच्छादनं
कृत्वा
तदुपरि
तमानयति
॥५१॥
युष्मन्मुखेन्दुस्रवदिन्दुकान्त
सत्कुट्टिमानां
पयसार्पयन्ती
।
पाद्यं
युतं
तत्सरणीषु
जातैः
श्यामाकदूर्वाञ्च्यपराजिताब्जैः
॥५२॥
आदौ
आसनदानमुक्त्वा
पाद्यादिदानमाह—
यवदूर्व्याश्यामाकपद्मापराजिताभिः
पाद्यदानं
शास्त्रोक्तमाह
।
युष्मन्मुखेन्दुना
मुखचन्द्रकान्त्या
स्रवन्चन्द्रकान्तमणिर्यत्र,
तेषां
सत्कुट्टिमानामुत्तमवेदीनां
पयसा,
तथा
तत्सरणीषु
मार्गेषु
जातैः
श्यामाकदूर्वासहितापराजिताब्जैर्युतं
पाद्यमर्पयन्ती
।
एवमर्घादिना
च
कृतान्महोत्सर्वानानन्दरूपसत्रैर्यज्ञैरखिलानतर्पयनिति
सप्तदशश्लोकस्थेनान्वयः
॥५२॥
अर्घ्यं
च
दूर्वासुमनोऽङ्कुरादिकैर्
निवेदयन्त्याचमनीयमम्बुभिः
।
तदम्बुपद्यान्तिकजागनिष्पतल्
लवङ्गजातीफलकोरकान्वितैः
॥५३॥
दूर्वापुष्पाङ्कुरादिभिरर्घ्यं
च
शास्त्रोक्तं
निवेदयन्ती
तत्तस्या
अटव्या
अम्बुपद्या
नद्या
अन्तिकजा
ये
अगा
वृक्षास्तस्मान्निष्पतल्लवङ्गजातीफलकोरकान्वितैरम्बुभिराचमनीयं
निवेदयन्ती
।
शास्त्रे
जातीलवङ्गककक्कोलैराचमनीयमुक्तम्
॥५३॥
स्रवन्मरन्दैर्मधुपर्कमब्द
च्छायाहिमाम्भःकणभारनम्रैः
।
शितानिलैस्तोयनिभैः
सुगन्धैः
स्नानीयमानीय
समर्पयन्ती
॥५४॥
स्रवन्मरन्दैः
पुष्पमधुभिर्मधुपर्कं
समर्पयन्ती
।
अब्दो
मेघस्तस्य
च्छायया
तथा
हिमाम्भः
कणानां
तन्मुक्तशीतलबिन्दूनां
भारेण
नम्रैर्धीरैः
शितानिलैः
शितलपवनैः
।
तोयनिभैर्जलसदृशैः
सुगन्धैः
स्नानीयमानीय
समर्पयन्ती
॥५४॥
किशलयदलनानावर्णपुष्पोच्चयानां
जितमणिमुकुरेष्वङ्गेषु
वां
बिम्बिताभिः
।
रुचिभिरिह
विचित्राण्यंशुकान्यङ्गयोग्यान्य्
अवयवचययोग्यालङ्कृतीश्चार्पयन्ती
॥५५॥
वां
युवयोर्जितं
मणीनां
रत्नानां
स्वर्णानां
मरकतानां
च
मुकुरं
दर्पणं
यैस्तेष्वङ्गेषु
किशलयानां
पल्लवानां
दलानां
पत्राणां
नानावर्णपुष्पसमूहानां
बिम्बिताभिः
प्रतिबिम्बिताभिः
रुचिभिः
कान्तिभिर्विचित्राण्यंशुकानि
वस्त्राणि
अङ्गयोग्यानि
भूषणानि
चार्पयन्ती
॥५५॥
स्वोत्पन्नचन्दनमदागुरुकुङ्कुमानां
चञ्चत्समीरमिलितैर्वरसौरभैर्वाम्
।
चर्चां
मुदाङ्गनिचयेषु
समर्पयन्ती
नानापरागमिलनैः
पटवासकांश्च
॥५६॥
स्वस्यामस्यामटव्यामुत्पन्नचन्दनादीनां
चञ्चता
सञ्चलता
वायुना
मिलितैः
प्राप्तैर्वरसौरभैश्चर्चां
चन्दनादिलेपं
नानापुष्परजसां
मिलनैः
पटवासात्सुगन्धचूर्णांश्च
वां
युवयोरङ्गनिचयेषु
समर्पयन्ती
॥५६॥
गुच्छार्धान्बकुलैः
कृतान्विचकिलैरेकावलीं
गोस्तनान्
यूथीभिर्नवमालतीसुकुसुमैः
श्रोत्रावतंसानपि
।
अम्लानैरपि
गर्भकांश्च
रसनां
कुन्दैः
कृतां
वामसव्
अन्यैरन्यविभूषणानि
कुसुमैरङ्गेऽर्पयन्ती
मुदा
॥५७॥
बकुलैः
कृतान्गुच्छार्धान्विचकिलैर्मल्लिकाभिः
कृतामेकावलीं,
यूथीभिर्गोस्तनान्हारस्य
नाम
भेदान।
हारभेदा
यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः
इत्यमरः
।
नवमालतीकुसुमैः
कृतान्श्रोत्रावतंसान।
अम्लानैः
कृतान्गर्भकान्,
केशमध्ये
तु
गर्भकमित्यमरः
।
कुन्दैः
कृतां
रसनां
क्षुद्रघण्टिकाम्
।
अन्यैरपि
कुसुमैः
कृतानि
अन्यविभूषणानि
।
असौ
अटवी
युवयोरङ्गे
मुदा
अर्पयन्ती
॥५७॥
स्वोत्पन्नानेकसत्पुष्पतुलसीदलमञ्जरीः
।
पल्लवांश्चार्पयन्त्येषा
तैः
कृताश्च
बहुस्रजः
॥५८॥
एषा
स्वोत्पन्नानेकसत्पुष्पतुलसीदलमञ्जरीः
पल्लवांश्च
।
तैः
पुष्पतुलसीपल्लवैः
कृता
बहुस्रजो
वल्गुमालाश्चार्पयन्ती
॥५८॥
ऊर्ध्वप्रसर्पद्वरसौरभोर्मी
लोलालिमालामिषतोऽत्र
धूपम्
।
दीपं
चलद्गन्धफलीच्छलेन
नैवेद्यमिष्टैः
स्वफलैर्ददाना
॥५९॥
ऊर्ध्वं
प्रसर्पन्ती
प्रगच्छन्ती
या
वरसौरभोर्मी
तत्र
लोलभ्रमराणां
श्रेणी
तन्मिषात्धूपं
चलच्चम्पकालिकाच्छलेन
दीपम्
।
इष्टैः
स्वोत्पन्नफलैर्नैवेद्यं
ददाना
॥५९॥
रम्भागर्भजकर्पूरलवङ्गैलादिसंयुतैः
।
समर्पयन्ती
ताम्बूलं
स्वपूगाहिलतादलैः
॥६०॥
कदलीगर्भजकर्पूरादियुतैः
।
एला
एलाचि
ख्याता
।
पूगो
गुवाकः
।
अहिलतादलैः
पान
इत्याख्या
तैस्ताम्बूलम्
॥६०॥
स्वयं
पतद्भिः
कुसुमैः
सुवहाबकुलादिभिः
।
पुष्पवर्षं
विदधती
शारीशुकजयस्वनैः
॥६१॥
स्वयं
पतद्भिः
सुवहा
शेफालिका
तदादिकुसुमैः
शार्यादिकृतजयस्वनैः
सह
पुष्पवर्षं
विदधती
॥६१॥
मरुच्चलच्चम्पकशाखिकादोश्
छदाग्रपाण्युत्कलिकालिदीपैः
।
विराववाद्यैरलिनादगानैर्
नीराजयन्त्यद्य
मुदाटवी
वाम्
॥६२॥
वायुचालितचम्पकवृक्षस्य
शाखा
एव
दोर्बाहुः
।
तत्र
ये
छदाः
पत्राणि,
तेषामग्रभागः
पाणिः
करः
।
तत्र
कलिकालिर्दीपाः,
तैर्विराववाद्यैः
पक्षिशब्दवाद्यैर्भ्रमरनादगानैः
सह
वां
युवामद्य
नीराजयन्ति
॥६२॥
समीरणोत्थापितपातितैर्मुहुः
शाखाचयैः
पुष्पफलानि
पल्लवैः
।
नम्रैर्मुदासौ
युवयोर्वितन्वती
पादाम्बुजाग्रेऽमितदण्डवन्नतिम्
॥६३॥
समीरेण
पुष्पफलानि
पल्लवैः
सह
मुहुर्वारं
वारमुत्थापितःअःऐः
पातितैर्नम्रैः
शाखासमूहैर्युवयोश्चन्द्र्चरणाग्रे
अमितामसङ्ख्यां
दण्डवन्नतिं
वितन्वती
॥६३॥
स्तुतिं
खगानां
निनदैरलिस्वनैर्
नैवेद्यं
च
गानं
पिकपञ्चमैः
कलैः
।
कथास्त्वदीयाः
शुकशारिकादिभिर्
नृत्यं
च
नृत्यच्छिखिभिर्वितन्वती
॥६४॥
खगश्रीशब्दःअःऐः
स्तुतिम्
।
अलिस्वनैर्वाद्यम्
।
कोकिलकलैर्गानम्
।
शुक्रादिभिः
कथा
।
मयूरैर्नृत्यम्
॥६४॥
चक्रानिलोत्थापितपुष्पधूली
जालैरुपर्याशुवितायमानैः
।
माध्वीकपीयूषकणास्रवीणि
मुदातपत्राणि
च
विभ्रतीयम्
॥६५॥
आशु
चक्रवाकेनोत्थापितपुष्पधूलिसमूहैरौपरि
चन्द्रातपायितैः
।
माध्वीक
एवामृत
तस्य
कणास्रवाणि
छत्राणि
बिभ्रती
॥६५॥
इतस्ततो
वल्लरिचामरैर्मरुद्
विलोलरम्भादलतालवृन्तकैः
।
संवीजयन्तीति
कृतान्महोत्सवाद्
आनन्दसत्रैरखिलानतर्पयत॥६६॥
सप्तदशभिः
कुलकम्
।
इतस्ततो
वल्लरिरूपचामरैश्चामराकारवल्लरीभिः
वायुना
लोलकदलीदलरूपतालपत्रव्यजनैः
संवीजयन्ती
।
इत्यनेन
आसनादिदानराधाएण
कृतान्महोत्सवातानन्दयज्ञैरखिलानतर्पयत॥६६॥
मुकुन्द
मन्दानिलसत्कुविन्दकः
समुच्छलत्पुष्परजोवितानकम्
।
इतस्ततोऽञ्चन्मधुपावलीतुरीं
क्षिपन्निवोष्णावरणाय
वां
वयेत॥६७॥
हे
मुकुन्द
!
मन्दानिल
एव
सत्कुविन्दकः
साधुतन्तुवायः
वां
युवयोरुष्णनिवारणाय
इतस्ततोऽञ्चती
गच्छन्ती
।
मधुपावली
सैव
तुरी,
यन्मध्ये
सूत्रं
धृत्वा
तस्य
इतस्ततश्चालनेन
वस्त्राणि
निर्माति
।
तां
माकु
इत्याख्यां
क्षिपन्न्
इव
समुच्छलत।
पुष्परजोभिर्वितानकम्
।चन्द्रातपं
वयेत्करोति
।
वेञ्
तन्तुसन्ताने
धातुः
॥६७॥
ईशाविमं
पश्यतमात्मनोऽग्रे
वसन्तकान्ताख्यमरण्यभागम्
।
यस्मिन्नृतूनामधिपो
मुदा
वां
सेवोत्सुकः
स्वैर्विभवैश्चकास्ति
॥६८॥
हे
ईशौ
!
आत्मनोऽग्रे
वसन्तकान्ताख्यमिममरण्यभागं
पश्यतम्
।
यस्मिनरण्यभागे
ऋतूनामधिपो
वसन्तः
वां
युवयोः
सेवोत्सुकः
स्वैर्विभवैश्चकास्ति
॥६८॥
अथ
तद्विलोकमुदितेन
स्व
मधुरिमदर्शनोद्गता
सा
।
हृदयदयितां
प्रति
तां
प्रमदाद्
अवर्णि
हरिणा
वनद्युतिः
॥६९॥
वनालोकमुदितेन
हरिणा
हृदयदयितां
तां
राधा२
प्रति
स्वमधुरिम्नो
दर्शनोद्गता
सा
वनद्युतिरवर्णि
॥६९॥
कुन्दे
मरन्दाशनतुन्दिलान्ते
मन्दादराः
सम्प्रति
कुन्ददन्ति
।
इन्दिन्दिराः
पश्य
मरन्दलुब्धा
माकन्दमुच्छूनशिखं
प्रयान्ति
॥७०॥
हे
कुन्ददन्ति
!
कुन्दे
पुष्पे
मधुपानतृप्ताः,
तत
एव
मन्दादरास्ते
इन्दिन्दिरा
भ्रमरा
मरन्दलुब्धा
उच्छूनशिख
उच्चशिखं
माकन्दमाम्रं
प्रयाति
पश्य
॥७०॥
मौनव्रतं
त्यक्तुमिवान्यपुष्टाः
कण्ठं
कषायेण
विशोधयन्तः
।
सार्धं
पिकीभिः
कलकण्ठि
पश्य
माकन्दमुद्यन्मुकुलं
प्रयान्ति
॥७१॥
पिकीभिः
सार्धमन्यपुष्टाः
कोकिला
मौनव्रतं
त्यक्तुमिव
कषायेण
कण्ठं
विशोधयन्तो
माकन्दमाम्रं
प्रयान्ति
।
पश्य
हे
कलकण्ठि
आम्रमुकुलभोजनेन
कोकिलस्य
कण्ठध्वनिर्भवतीति
प्रसिद्धम्
॥७१॥
वासन्ती
स्वर्णयूथीमुखहसितलतालीभिरालिङ्गिताङ्गी
फुल्लेयं
चम्पकाली
बकुलततिरियं
सापि
तापिञ्छमाला
।
सेयं
पुन्नागवीथी
सुतिलकविततिः
सा
त्वियं
चूतपाली
श्रेणीयं
वञ्जुलानां
विलसति
पुरतश्चावलिः
केशराणाम्
॥७२॥
वासन्ती
माधवीलता
स्वर्णयूथी
चैते
मुखे
आद्या
यासां
ताभिर्हसिताभिर्दीप्ताभिर्लताश्रेणीभिरालिङ्गिता
चम्पकालीयं
तथा
वक्ष्यमाणाभिः
सप्तलादिभिरालिङ्गिता
बकुलततिः
तापिञ्छमाला
पुन्नागवीथी
।
सुतिलकविततिः
।
चूतपाली
वञ्जुलानां
श्रेणी
।
केशराणामावलिः
पुरतोऽग्रे
विलसति
।
तापिञ्छस्तमालः
।
पुन्नागो
देववल्ल्लभः
।
चुत
आम्रः
।
वञ्जुलो
बकुलः
।
केशरो
नागकेशरः
॥७२॥
पुन्नागाः
सप्तलाभिर्विधुमुखि
बकुलाः
सल्लवङ्गावलीभिः
कुब्जाभिः
कोविदाराः
सुदति
रुरुचिरे
चम्पकाः
केतकीभिः
।
तेऽशोकाः
स्वर्णयूथीततिभिरिह
लसत्किंशुकाः
पाटलीभिर्
वासन्तीभी
रसालाः
सितशतदलिकाश्रेणिभिः
केशराश्च
॥७३॥
हे
विधुमुखि
!
हे
सुदति
!
पुन्नागाः
सप्तलाभिर्वनमालिकाभिः
।
लवङ्गावलीभिर्बकुलाः
।
कुब्जाभिः
कोविदाराः
।
केतकीभिश्चम्पकाः
।
स्वर्णयूथीभिरशोकाः
।
पाटलीभिः
किंशुकाः
।
वासन्तीभी
रसालाः
।
सितशतदलिकाभिः
केशराश्च
रुरुचिरे
।
पुंनागे
पुरुषस्तुङ्गः
केसरो
देववल्लभः
इति,
अथ
केसरे
बकुलो
वञ्जुलः
इति,
कोविदारे
चमरिकः
कुद्दालो
युगपत्रकः
इति,
पलाशे
किंशुकः
पर्णो
वातपोतोऽथ
इति,
चाम्पेयः
केसरो
नागकेसरः
काञ्चनाह्वयः
इत्यमरः
॥७३॥
अतिमुक्तैरतिमुक्तैरतिमुक्तैश्चान्वितं
वनं
यदिदम्
।
रथकृन्मालिकमोक्षाकाङ्क्षैरपि
सेवितं
तस्मात॥७४॥
अतिमुक्तै
रथद्रुः
रथजनकद्रुःवृक्षैस्तैरिदं
वनं
यद्यस्मादन्वितं
युक्तं,
तस्मा
रथकृद्भिः
सेवितम्
।
तिनिशे
स्यन्दनो
नेमी
रथद्रुरतिमुक्तकः
इत्यमरः
।
अतिमुक्तैर्माधवीभिरिदं
वनं
यदन्वितं,
तस्मात्मालिकैर्मालाकृद्भिः
सेवितम्
।
अतिमुक्तः
पुण्ड्रकः
स्याद्वासन्ती
माधवीलता
इत्यमरः
।
अतिमुक्तैरिदं
वनं
यदन्वितं
तस्मात्मोक्षाकाङ्क्षकैः
सेवितम्
।
मोक्षपदेन
सालोक्यं
सामीप्यं
च
।
अतिमुक्तपदेन
नित्यम्मुक्तपदेन
नित्यमुक्तोऽतिशयेन
मुक्तश्चात्रायम्
।
विवेकः
श्रीवृन्दावने
भक्तानां
श्रीकृष्णसायुज्यसारूप्यसार्ष्टिमुक्तेरश्रवणात्श्रुतिपूर्वा
पूर्वाणां
गोपीसारूप्यादिश्रवणाततिमुक्तपदेन
नित्यमुक्तसाधनमुक्तश्च
तैरन्वितमिदं
वनम्
।
तस्मात्मोक्षाकाङ्क्षिभिर्गोप्यादीनां
सारूप्यादिमोकिषाकाङ्क्षिभिः
साधकभक्तैस्तदधुना
च
सेवितं,
लीलाया
नित्यत्वेन
प्रायशः
सदैकाकारेण
च
ग्रन्थकर्त्रादिभिर्महानुभावसात्वतभक्तैः
श्रवणयुक्त्या
निरूपणाज्ज्ञेयम्
॥७४॥
शरोत्पत्तिस्थानायत
इदमरण्यं
रतिपतेर्
लतावृक्षव्रातः
कुसुमशरकारायत
इह
।
पतन्भृङ्गव्यूहः
प्रतिकुसुममुच्चैर्ध्वनिमिषाद्
दिशन्भद्राभद्रं
गणयति
परीक्षाकर
इव
॥७५॥
इदमारण्यं
रतिपतेः
शरोत्पत्तिस्थानमिवाचरति
।
अत्र
कारणमाह—
इह
वने
लतावृक्षाणां
व्रातः
समूहः
कुसुमशरकृदिवाचरति
।
परीक्षाकर
इव
परीक्षाकृदिव
।
भद्राभद्रमिदं
कुसुमबाणरूपं
भद्रमिदमभद्रम्
।
उच्चैर्ध्वनिर्मिषात्दिशन्गणयति
गणानां
करोति
॥७५॥
मधुपी
मधुपं
विष्टं
स्वप्रतिबिम्बाञ्चि
पुष्पमनु
दृष्ट्वा
।
मिलितां
मधुपीमन्यां
मत्वा
तृषितापि
निववृते
रोषात॥७६॥
मधुपी
पुष्पमनु
पुष्पे
विष्टं
मधुपं
स्वप्रतिबिम्बेन
युक्तं
दृष्ट्वा
अन्यां
मधुपीं
मिलितां
मत्वा
रोषात्निववृते
॥७६॥
वनमनु
मिलितौ
नौ
वीक्ष्य
हर्षात्प्रकाश्य
स्वक
नवफलदन्तांस्तच्छदौष्ठाधरांश्च
।
कमलमुखि
कदल्यः
पश्य
सङ्कोचयन्त्यः
पतदतिमधुबाष्पाः
कम्पिताङ्ग्यो
हसन्ति
॥७७॥
कदल्यो
वने
मिलितौ
नौ
आवां
वीक्ष्य
हर्षात्स्वस्य
नवफलरूपदन्तांस्तेषां
फलानां
छदरूपौष्ठाधरांश्च
प्रकाश्य
हसन्ति
।
कीदृश्यः ?
सङ्कोचबाष्पकम्पयुक्ताः
।
कदल्या
नवीनफलस्य
शुक्लवर्णेन
दन्तस्य
साम्यं,
फलाच्छादकस्य
रक्तवर्णतया
उष्ठाधरयोः
।
अधोमुखतया
सङ्कोचस्य
।
मधुना
बाष्पस्य
।
कम्पेन
कम्पस्य
साम्यम्
॥७७॥
वल्लीषु
हल्लीशककेलिरङ्गी
भृङ्गीभिरङ्गीकृतनृत्यभङ्गः
।
प्रस्थाप्य
भृङ्गीं
दयितां
निगूढं
सरत्यसौ
भृङ्गयुवाब्जषण्डम्
॥७८
॥
वल्लीषु
लतासु
भृङ्गीभिः
सह
हल्लीशककेलिरङ्गी
असौ
भृङ्गयुवा
अङ्गीकृतो
नृत्यस्य
भङ्गोऽङ्गी
येन
सः
।
अब्जसमूहं
प्रति
भृङ्गीं
दयितां
निगूढं
यथा
स्यात्तथा
प्रस्थाप्य
स्वयं
तदब्जषण्डं
तां
दयितां
भृङ्गीं
वा
सरति
॥७८
॥
अटवीं
प्रियामथ
दर्शयन।
अवदत्प्रियौ
मधुमङ्गलः
॥७९॥
प्रियौ
श्रीराधाकृष्णौ
॥७९॥
निचायतं
श्रीव्रजकाननेशौ
निदाघमञ्जुं
वनभागमेतम्
।
यः
स्वागतौ
वीक्ष्य
पुरोभवन्तौ
सेवोत्सुकः
स्वैर्विभवैश्चकास्ति
॥८०॥
हे
व्रजकाननेशौ
!
निदाघेन
मञ्जुं
मनोज्ञमेतं
वनभागं
निचायतं
पश्यतम्
।
सेवोत्सुको
यो
वनभागः
॥८०॥
सोऽयं
टिट्तिभदुन्दुभिध्वनिभरैर्धूम्याटभेरीस्वरैर्
झिल्लीझल्लरिनिस्वनैः
पिकपिकीवीणानिनादैर्मुदा
।
दृष्ट्वा
वामिह
चाषडिण्डिमरवैः
शरीवचःसंस्तवैर्
भृङ्गालीध्वनिगीतकैर्वितनुते
नृत्यं
लताग्रैश्चलैः
॥८१॥
सोऽयं
वनभागः
वां
दृष्ट्वा
टिट्तिभादयः
पक्षिविशेषास्तेषां
शब्द
एव
दुन्दुभिध्वन्यादयस्तैः
सह
चलैर्लताभिरगैर्वृक्षैश्च
नृत्यं
वितनुते
।
टिट्तिभः
टिठा
इत्याख्यः
।
धूम्याटो
गुडगुडित्याख्यः
।
झिल्ली
झिञ्जि
इत्याख्या
।
पिकः
पिकी
कोकिलः
कोकिलस्त्री
।
चाषो
नीलकण्ठः
।
शारी
भृङ्गाली
प्रसिद्धा
॥८१॥
वस्त्राणि
सत्पाटलिपुष्पवृन्दैः
शिरीषपुष्पैरवतंसकांश्च
।
मल्लीभिरङ्गाभरणानि
हर्षाद्
बिभर्त्यसौ
वामिव
दातुमुत्कः
॥८२॥
असौ
निदाघमञ्जुर्वनभागः
वां
युवाभ्यां
पाटलाख्यः
पुष्पैर्वस्त्राणि
।
शिरीषैरवतंसान्कर्णभूषणानि
।
मल्लीभिर्भूषणानि
दातुं
बिभर्ति
॥८२॥
सुपक्त्रिमैः
पीलुकरीरधात्री
राजादनैः
सत्पनसाम्रबिल्वैः
।
विकङ्कतैर्जालकतालबीजैः
सिषेविषुर्वां
धिनुतेऽसकौ
माम्
॥८३॥
असकौ
वनभागः
सुपक्वपील्वादिभिर्वां
युवां
सेवितुमिच्छुर्मां
मधुमङ्गलं
भोजनसामग्र्या
धिनुते
सुखयति
।
पीलुः
करीरश्चेत्याख्यया
व्रजे
प्रसिद्धः
।
धात्री
आमलकी
।
राजादनैः
प्रियालैः
।
राजादनं
प्रियालः
स्यातित्यमरः
।
पनसाद्यैः
प्रसिद्धैः
।
विकङ्कतैः
स्यात्स्वादुकण्टकः,
विकङ्कतस्सुवावृक्षो
ग्रन्थिलो
व्याघ्रपादपि
।
क्षारको
जारकः
क्लीबे
कलिका
कोरकः
पुमान।
स्याद्गुच्छकस्तु
स्तवकः
कुट्मलो
मुकुलोऽस्त्रियाम्
॥
इत्यमरात।
जालकैः
कलिकाभिः
सह
तालबीजैश्च
कोमलतालबीजैः
॥८३॥
इह
रविमणि
बद्धप्रान्तभूम्युष्मदीप्यद्
दिनकरकरजालैर्म्लानिमाशङ्क्य
वां
किम्
।
प्रणयतत
निजाङ्गैश्छादयन्त्यो
भवन्तौ
कलयतमगवल्ल्यः
पल्लवैर्वीजयन्ती
॥८४॥
इह
वने
सूर्यकान्तमणिबद्धभूमेरुष्मणा
दीप्यद्दिनकरस्य
किरणसमूहैर्वां
युवयोर्म्लानिमाशङ्क्य
किं ?
वृक्षा
वल्ल्यश्च
प्रायेण
ततैर्विस्तृतैर्निजाङ्कैर्भवन्तौ
छादयन्त्यः
पल्लवैर्वीजयन्ती
॥८४॥
बहुप्रजेयं
कदली
निजात्मजैर्
वृताभितस्तैः
सुतवस्करा
यथा
।
तान्लालयन्ती
च्छदपाणिना
बभौ
धयन्त्यधोऽञ्चत्सुमनःस्नुतस्तनम्
॥८५॥
सुतवस्करा
सप्तपुत्रीवती
सा
इव
बहुप्रजा
कदली
तैर्निजात्मजैर्वृता
तानात्मजान्पत्ररूपपाणिना
हस्तेन
लालयन्ती
अधोऽञ्चन्तं
गच्छन्तं
सुमनः
स्नुतस्तनं
तान्धयती
बभौ
।
घेट्पाने
धातुः
॥८५॥
सुदीर्घनासेति
सुपक्त्रिमाम्रे
विन्यस्तचञ्चुं
पिकमाकलय्य
।
स्मेराननाः
प्रेक्ष्य
पुरो
निजालीः
प्रियां
हरे
पश्य
विनम्रवक्त्राम्
॥८६॥
हे
हरे
!
सुदीर्घनासा
नासिकाकारः
पार्श्वविशेषो
यत्र
तत्र
सुपक्वाम्,
विन्यस्तचक्षुं
कोकिलं
दृष्ट्वा
राधामुखे
चुम्बनासक्तस्य
तव
मुखसंयोगं
मत्वा
पुरः
स्मेरानना
निजसखीर्वीक्ष्य
प्रियां
विनम्रमुखीं
पश्य
॥८६॥
मल्लीवल्लीमतल्लीततिभिरिह
लसल्लोललोलालिमाला
चिल्लीभिश्चारुतल्लीतटभुवि
विदधत्साधुहल्लीशकेलिम्
।
क्रुध्यत्कन्दर्पमल्लीकृतकुसुमचयेषत्स्मिताभिस्तमालः
सोऽयं
श्रीगोपपल्लीपतिसुत
इव
सद्वल्लरीभिश्चकास्ति
॥८७॥
इह
चारुतल्ली
मनोहरक्षुद्रसरस्तस्यास्तटभुवि
स
प्रसिद्धोऽयं
पुरोवर्त्यङ्गुली
निर्दिष्टस्तमालः
।
मल्लीवल्लीनां
ततिभिः
सह
चकास्ति
।
मतल्लिका
मचर्चिका
प्रकाण्डमुद्ग
तल्लजौ
।
प्रशस्तवाचकान्यमूनि
इत्यमरः
।
कः
काभिरिव
गोपपल्लीपतिसुतो
भगवान्सद्वलरीभिरेताभिरिव
कथंभूताभिः
लसन्ती
लोलाल्लोला
लोललोला
अतिलोला
अतिसतृष्णा
अतिचञ्चला
वा
या
अलिमाला
भ्रमरश्रेणी
सैव
चिल्ली
भ्रूः
।
भ्रूरिव
यासां
ताभिर्मल्लीभिः
।
गोपीपक्षे—
सैव
चिल्ली
यासां
ताभिः
।
लोलश्चलसतृष्णयोः
इत्यमरः
।
पुनः
किंभूताभिः
क्रुध्यता
कन्दर्पेण
मल्लीकृतोऽमल्लोऽतिसुकुमारोऽपि
विरहिणां
धैर्यध्वंससमर्थो
मल्लः
कृतो
मल्लीकृतः
कुसुमचय
एवेषत्स्मितं
स्मितमिव
यासां
ताभिः
।
पक्षे
स
इवेषत्स्मितं
यासां
ताभिः
।
किं
कुर्वन्?
साधु
मनोहरं
हल्लीशककेलिं
स्त्रीणां
मण्डलीनृत्यकेलिं,
वल्लीपक्षे
पवनकृताल्लोलनं
नृत्यं
विदधत्सन॥८७॥
निशम्य
वाचं
मधुमङ्गलस्य
राधामुकुन्दौ
स्मितशोभितास्यौ
।
वृन्दावितीर्णान्श्रवणे
न्यधात्तां
शिरीषपुष्पस्तवकान्परस्परम्
॥८८॥
वृन्दया
वितीर्णान्दत्तान्शिरीषपुष्पस्तवकान।
परस्परं
राधाकृष्णौ
श्रवणे
न्यधात्ताम्
॥८८॥
करारविन्देन
परागपांशुलान्
कृष्णः
प्रियाया
अलकान्व्यतुस्तयत।
साप्यस्य
चूडोपरि
केकिचन्द्रकान्
विकाशिदोर्मूलमथालकानपि
॥८९॥
कृष्णः
प्रियाया
अलकान्परागेण
पुष्परजसा
पांशुलान्धूसरितान्व्यतस्तयन्निर्धूलीकान्करोति
।
सा
राधापि
अस्य
श्रीकृष्णस्य
मयूरचन्द्रकानलकानपि
परागपांशुलान्प्रकाशिदोर्मूलं
यथा
स्यात्तथा
निर्धूलिकान्चकार
॥८९॥
प्रियामाह
हृदि
स्पृशन्प्रिये
निदाघतापैरुपतापितोऽभितः
।
पलायमानः
कुचशैलदुर्गकं
समाश्रितः
शैत्यगुणोऽस्ति
किं
तव
॥९०॥
कृष्णः
प्रियां
हृदि
स्पृशनाह—
हे
प्रिये
!
निदाघतापैरुपतापितः
।
अतः
पलायमानः
शैत्यगुणस्तव
कुचशैलदुर्गकं
समाश्रितः
सन्नस्ति
किं ?
॥९०॥
कान्ते
सुधांशुमणिबद्धनगालबाले
तद्वक्त्रशुभ्रकिरणोदयजाम्बुपूरे
।
स्नात्वा
निपीय
सलिलं
विगतोष्णतापास्
तत्सेतुमूर्ध्नि
विलसन्ति
खगाः
सकान्ताः
॥९१॥
हे
कान्ते
प्रिये
!
सुधांशुमणिभिश्चन्द्रकान्तमणिभिर्बद्धे
नगानां
वृक्षाणामालवाले
जलाधारे
त्वद्वक्त्रचन्द्रस्य
उदयेन
जातो
जलपूरो
यत्र
।
स
कान्ताः
खगाः
स्नात्वा
पश्चात्सलिलं
निपीय,
विगतोष्णतापाः
सन्तस्तस्यालवालस्य
सेतुमूर्ध्नि
विलसन्ति
॥९१॥
राधाकृष्णौ
प्राह
ततस्तौ
सुबलोऽपि
प्रावृड्मञ्जुं
पश्यतमग्रे
वनभागम्
।
विद्युन्मेघौ
वामिह
मत्वा
प्रणयान्धौ
नृत्यत्यारान्मत्तमयूरव्रज
एषः
॥९२॥
सुबलः
प्रावृषा
वर्षर्तुना
मञ्जुं
वनभागमग्रे
पश्यतमिति
राधाकृष्णौ
प्राह
वां
युवां
विद्युन्मेघौ
मत्वा
मत्तमयूरव्रजो
नृत्यति
॥९२॥
मल्लीमतल्लीकुलपालिकानाम्
अङ्के
निषण्णान्भ्रमरान्सुलोलान।
स्वसौरभैः
पश्यतमात्तगर्वाः
कर्षन्त्यमुष्मिन्गणिका
हसन्त्यः
॥९३॥
अमुष्मिन्वनभागे
वर्षर्तौ
वा
मल्लीर्मतल्ल्यः
प्रशस्तमल्ल्यस्ता
एव
कुलपालिकाः
कुलस्त्रियस्तासामङ्के
क्रोडे
निषण्णान्स्थितान्सुलोलान्तासु
सुष्ठु
सतृष्णान्चुम्बनादावत्यासत्त्या
चञ्चलान्वापि
भ्रमरा
भृङ्गा
एव
भ्रमराः
कामुकास्तान।
आत्तगर्वाः
प्राप्तगर्वा
हसन्त्यो
गणिका
वेश्याः
स्वसौरभैः
कर्षन्ति
पश्यतम्
।
कुलस्त्री
कुलपालिका
इति,
गणिका
यूथिकाम्बष्ठा
इति,
वारस्त्री
गणिका
वेश्या
इत्यमरः
।
भ्रमरः
कामुके
भृङ्गे
इति
विश्वः
॥९३॥
अस्मिन्भृङ्गालिललिता
वर्षावर्षोर्जिताटवी
।
घनमेघावृता
भाति
यूथी
यूथीकृतालिका
॥९४॥
अस्मिन्वनभागे
अटवी
भाति
।
कीदृशी ?
वर्षासु
वर्षर्तौ
वर्षाभिर्वृष्टिभिरूर्जिता
वृद्धा,
स्त्रियां
प्रावृट्स्त्रियां
भूम्नि
वर्षा
इत्यमरः
।
पुनः
कीदृशी ?
भृङ्गश्रेणीभिर्ललिता
मनोहरा
घनीभूतमेघैरावृता
यूथीभिर्यूथीपुष्पैः
करणैः
यूथीकृता
एकत्रीकृता
अलयो
यया
सा
॥९४॥
अभ्रमभ्रावृतं
चास्मिन्भवनं
भुवनाप्लुतम्
।
ककुभः
ककुभैः
फुल्लैर्व्याप्ता
नीपकदम्बकैः
॥९५॥
अस्मिन्वने
ऋतौ
वा
अभ्रमाकाशमभ्रेण
मेघेनावृतम्
।
भुवनं
जगदिदं
भुवनेन
जलेनाप्लुतम्
।
ककुभो
दिशः
ककुभैरर्जुनवृक्षैस्तथा
नीपाः
कदम्बास्तेषां
समूहैर्नीपकदम्बयोः
पुष्पस्य
क्षुद्रस्थूलभेदाद्भेदोऽपि
ज्ञेयः,
तैर्व्याप्ताः
॥९५॥
आलालपीतीह
मुदा
पिकाली
दात्यूहमालापि
च
कोकवीति
।
संरारटीत्यत्र
हि
चातकालिः
शालूरवीथीः
परिरोरवीति
॥९६॥
इह
पिकश्रेणी
आलालपीति
पुनः
पुनरतिशयेन
वा
लपति
।
दात्यूहो
डाहुक
इत्याख्यस्तेषां
श्रेणी
कोकवीति
।
कुशब्दे
।
चातकाली
संरारटीति
।
शालूरो
भेकः,
तेषां
वीथी
परिरोरवीति
।
भेके
मण्डूकवर्षाभूशालूरप्लवदर्दुराः
इत्यमरः
।
सर्वत्र
पुनः
पुनरतिशयो
वा
अर्थयितव्यः
॥९६॥
विरारवीत्यत्र
बकालिरेषा
शिखावलश्रेण्यपि
दन्ध्वनीति
।
कोयष्टिकालि
प्रणिनानदीति
प्रसंस्वनीत्यत्र
च
मद्गुपङ्क्तिः
॥९७॥
बकालिर्विरारवीति
।
शिखावलश्रेणी
मयूरश्रेणी
दन्ध्वनीति
।
कोयष्टिकालि
पानिकुक्कुटीत्याख्यपक्षिश्रेणी
प्रणिनानदीति
मद्गुपङ्क्तिः
मरालीति
प्रसिद्धा
प्रसंस्वनीति
।
अत्रापि
पूर्ववत्पुनः
पुनरतिशयं
वा
शब्दं
करोतीत्यर्थः
॥९७॥
घनावली
नीलनिचोलसंवृता
बलाकिकामौक्तिकहारधारिणी
।
बलारिकोदण्डकमण्डनापुरः
प्रावृट्सखीवेच्छति
वां
निषेवितुम्
॥९८॥
प्रावृट्वर्षा
सखीव
वां
निषेवितुमिच्छति
।
उभयसाम्यमाह—
घनावली
सैव
नीलवस्त्रं
तेनावृता
।
बलाकिका
बकश्रेण्येव
मौक्तिकहारस्तं
धरति
या
सा
।
बलारिष्टकोदण्डमिन्द्रधनुस्तदेव
नीलपीतरक्तादिवर्णत्वात्नानाविधरत्नमण्डनं
यस्या
सा
॥९८॥
कदम्बैः
प्रालम्बान्कुटजकुसुमैर्गर्भक
वरान्किरीतान्केतक्या
दलसमुदयै
रङ्गणयुतैः
।
स्फुटद्यूथीपुष्पैरपि
विविधहारान्सककुभैर्
असौ
प्रावृड्लक्ष्मीश्चरणकमलेष्वर्पयति
वाम्
॥९९॥
असौ
प्रावृट्लक्ष्मीर्वा
यवयोश्चरणकमलेषु
प्रालम्बादीनर्पयति
।
कदम्बैः
प्रालम्बानृजुलम्बान्मालादीन।
कुटजकुसुमैः
कुडचि
इति
ख्यातैर्गर्भकवरान्,
केशमध्ये
तु
गर्भकः
इत्यमरः
।
केतक्या
किरीटान।
रङ्गणयुतैर्दलसमुदयैः
सककुभैरर्जुनपुष्पैर्सह
स्फुटत्यूथीपुष्पैरपि
विविधहारान॥९९॥
घुषृणमदविलिप्तोरोजयोः
पक्वतालैर्
लसदलकततीनां
पक्वजम्बूफलैः
सा
।
त्वयि
तव
दयितायाः
स्वङ्गुलीपर्वकाणाम्
उपमितिमभिधत्ते
पक्वखर्जूरकैश्च
॥१००॥
सा
प्रावृट्लक्ष्मीस्त्वयि
त्वन्निमित्ते
विषये
वा
तव
दयितायाः
कुङ्कुममृगमदलिप्तयोः
कुचयोरुपमितिम्,
पक्वतालैर्लसदलकततीनामुपमितिं,
पक्वजम्बूफलैः
स्वङ्गुलीपर्वकानामुपमितिं
पक्वखर्जूरकैरभिधत्ते
॥१००॥
कृष्णं
विना
सुलीलः
को
वा
व्रजं
ऋते
क्व
वा
लीला
भण्यत
।
इति
दात्यूहैः
को
वा
को
वा
क्व
वा
क्व
वा
विरुतैः
॥१०१॥
कृष्णं
विना
सुलीलशोभनलीलाकर्ता
को
नः
कोऽपीत्यर्थः
।
व्रजवनं
विना
क्व
वा
कुत्र
लीला
न
क्वापीत्यर्थः
।
दात्यूहैर्विरुतैर्विशिष्टशब्दैः
को
वा
को
वा
क्व
वा
क्व
वा
इति
भण्यते
॥१०१॥
कृष्णं
शश्वत्स्वलीलाघनरसवितरैः
प्रावृषं
संसृजन्तं
हित्वा
के
वा
पयोदाः
क्वचिदपि
च
कदाप्यम्बुवृष्टिं
ददानाः
।
प्रावृट्कालः
स
को
वा
षडृतुषु
गणितो
मासयुग्मप्रमाणः
केकानादैः
प्रहर्षादिति
दिशि
दिशि
तान्तं
च
निन्दन्ति
भेकाः
॥१०२॥
शश्वत्स्वस्य
लीलया
घनरसस्य
घनीभूतदास्यसख्यवात्सल्यशृङ्गारादिरसस्य
वितरैर्वितरणैर्दानैर्प्रावृषं
वृष्टिं
वर्षाकालं
च
संसृजन्तम्
।
कृष्णं
हित्वा
पयोदा
मेघाः
के
वा
कीदृशाः
क्वचिद्देशे
कदा
कस्मिन्वर्षादिकालेऽप्यम्बुवृष्टिं,
न
त्वन्यवृष्टिं
ददानाः
।
षडृतुषु
मध्ये
गणितो
मासयुग्मप्रमाणः
।
स
प्रावृट्कालः
को
वा
प्रहर्षात्भेकाः
केकानादैस्तान्पयोदान्तं
च
प्रावृट्कालो
निन्दन्ति
।
वर्षाकालीयमेघसमूहकृतजलवृष्टितोऽपि
कृष्णलीलावृष्टीनामाधिक्यं
तापादिहारित्वं
सुखादिजनत्वं
चानुभूय
तान्तं
च
गर्हयन्ति
॥१०२॥
वर्षायते
मधुस्रावो
मधुपाली
घनायते
।
पुरः
कदम्बबाटीयं
पश्य
तं
दुर्दिनायते
॥१०३॥
मधुना
स्रावः
क्षरणं
वर्षमिवाचरति
वर्षायते
मधुपानामाली
भ्रमरश्रेणी
वर्णसाम्यात्घन
इवाचरति
घनायते
।
इयं
कदम्बबाटी
दुर्दिनमिवाचरति
।
मेघच्छन्नेऽह्नि
दुर्दिनमित्यमरः
॥१०३॥
स्वप्रेष्ठयासौ
विलसन्शिखण्डी
शिखण्डिनीर्वीक्ष्य
पुरः
समेताः
।
आच्छादयंस्तां
निजपिञ्छतत्या
नृत्यत्यसौ
ताः
पुरतो
विधाय
॥१०४॥
इत्थं
पुष्णन्प्रावृषेण्यां
श्रियं
तां
राधा
शम्पालिङ्गितः
कृष्णमेघः
।
आली
चक्षुश्चातकान्सुष्ठु
धिन्वन्
विश्वं
सिञ्चत्येष
लीलामृतैः
स्वैः
॥१०५॥
असौ
शिखण्डी
मयूरः
स्वस्य
प्रेष्ठया
प्रियया
सह
विलसन्पुरः
समेता
मिलिताः
शिखण्डिनीर्वीक्ष्य
ताः
शिखण्डिनीः
पुरतो
विधाय
निजपिञ्छतत्या
तां
स्वप्रेष्ठाम्
।
राधैव
शम्पा
विद्युत्तया
लिङ्गितः
कृष्णमेघः
प्रावृषेण्यां
तां
श्रियमित्थं
पुष्णनालीनां
चक्षुश्चातकान्धिन्वन्प्रीणन्स्वैर्लीलामृतैर्विश्वं
सिञ्चति
।
भावार्थे
प्रावृष
एन्यप्रत्ययः
॥१०४१०५॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे
श्रीरघुनाथदासकृतिना
श्रीजीवसङ्गोद्गते
।
काव्ये
श्रीरघुनाथभट्टविरजे
गोविन्दलीलामृते
सर्गो
द्वादश
एष
सुष्ठु
निरगान्मध्याह्नलीलामनु
॥ओ॥
॥१२॥
.
(
१३
)
त्रयोदशः
सर्गः
ततस्तैरागतः
कृष्णः
सीमां
काननभागयोः
।
तच्छोभामाह
कान्तायै
ऋतुयुग्मश्रियान्विताम्
॥१॥
निर्यद्वर्षाख्यबाल्योद्यच्छरत्तरुणिमाङ्कुरा
।
किशोरीतनुवद्भाति
प्रिये
पश्याटवी
पुरः
॥२॥
कृष्णस्तैः
स्वजनैः
सह
प्रावृट्शरदीयकाननभागयोः
सीमामागतः
ऋतुयुग्मयोः
प्रावृट्शरदोः
श्रियान्वितां
तच्छोभां
वनशोभां
कान्तायै
आह
॥१॥
हे
प्रिये
!
किशोर्यास्तनुवतटवी
भाति
।
पश्य
उभयसाम्यमाह
।
निर्यत्निर्गच्छत्वर्षाख्यं
बाल्यं
यस्याः
सा
चासौ
उद्यच्छरद्रूपतरु;
निम्;
अङ्कुरो
यस्याः
सा
च
॥२॥
प्रविगतकुसुमां
काले
प्रवयसमिव
यूथिकां
हित्वा
।
प्रोद्यत्कुसुमां
जातीं
मुग्धामिव
संमिलत्यसौ
भ्रमरः
॥३॥
काले
प्रवयसं
प्राप्तवृद्धावस्थां,
अतः
प्रकर्षेण
विगतं
रहितं
कुसुमं
ऋतुकालो
यस्यास्ताम्
।
अविगतकुसुमां
नारीमिव
।
प्रवयसं
समयातीतां,
अतः
प्रविगतपुष्पां
यूथिकां
हित्वा
।
असौ
भ्रमरो
भ्रमर
इव
कामुकपुरुष
इव
मुग्धां
बालिकाम्,
अतः
प्रोद्यत्कुसुमां
प्रोद्यदृतुमुग्धां
प्राप्तसमयां,
अतः
प्रोद्यत्कुसुमां
जातीं
संमिलति
।
भ्रमरः
कामुके
भृङ्गे
इति
।
कुसुमं
स्त्रीरजोनेत्ररोगयोः
फलपुष्पयोरिति
च
मेदिनी
॥३॥
परिणतवरगुञ्जापुञ्जशोणाटवीयं
पतितशिखिशिखण्डा
काशपुष्पैः
सिता
भूः
।
शिखिततिरपि
मूका
वाग्मिनी
हंसपङ्क्तिः
कथयति
ऋतुलक्ष्मीः
शारदीमागतां
नः
॥४
॥
इयमटवी
नः
अस्मभ्यमागतां
शारदीं
ऋतुलक्ष्मीं
कथयति
।
चिह्नमाह—
कीदृशी
अटवी ?
परिणताः
पक्वा
या
वरगुञ्जास्तासां
पुञ्जेन
शोना
रक्ता
भूश्च
कथयति
।
कीदृशी
पतितानि
शिखिनां
मयूराणां
शिखण्डानि
पुच्छानि
यत्र
सा
।
पुनः
कीदृशी ?
काशानां
काशिया
इति
ख्यातानामुड्डीय
पतितपुष्पैः
सिता
शुक्ला
मूका
शिखिततिरपि
कथयति
।
वाग्मिनी
अतिवाक्युता
हंसपङ्क्तिः
कथयति
॥४॥
सेफालिकाकुसुमपालिमलिः
सतृष्णा
यां
यां
मुदा
स्पृशति
संस्खलति
स्म
सा
सा
।
आलीततिः
सुमुखि
यद्वदहं
तदानीं
यां
यां
ससार
चकितापससार
॥५॥
सतृष्णोऽलिर्भ्रमरः
यां
यां
शेफालिकापालिं
मुदा
स्पृशति,
सा
सा
संस्खलति
।
हे
सुमुखि
!
वंश्यन्वेषणसमये
यद्वत्तदानीं
यां
यामालीततिमहं
ससार,
सा
सा
चकिता
सती
अपससार
पलायनपरा
बभूव,
तद्वदित्यर्थः
॥५॥
अथावद्कुन्दलता
निचायतं
वृन्दावनेशौ
वनभागमग्रतः
।
इमं
शरच्चारुतयेह
विश्रुतं
वयस्यया
वां
शरदा
विभूषितम्
॥६॥
अथानन्तरं
कुन्दलताह—
हे
वृन्दावनेशौ
!
इहाग्रतोऽग्रे
इमं
वनभागं
निचायतं
पश्य
।
तं
कीदृशं ?
वां
युवयोर्वयस्यया
शरदा
कर्त्या
विभूषितम्
।
अतः
शरच्चारुतया
शरदि
शरदा
चारुरिति
शरच्चारुस्तस्या
भावेन
विश्रुतं
ख्यातम्
॥६॥
चञ्चत्खञ्जनलोचनाम्बुजमुखी
लोलालिमालालका
खेलत्कोककुचा
सिताभ्रसिचया
रक्तोत्पलौष्ठाधरा
।
कूजत्सारसपालिरम्यरसना
नीलोत्पलोत्तंसिका
नाथौ
पश्यतमत्र
वां
शरदियं
सेवोत्सुकास्ते
सखी
॥७॥
हे
नाथौ
!
इयं
शरत्सखीनां
युवयोः
सेवोत्सुकास्ते
युवां
पश्य
तं
सखी
रूपमाह—
चञ्चत्खञ्जनलोचने
यस्याः
सा
।
अम्बुजानि
मुखं
यस्याः,
चञ्चलभ्रमरश्रेणी
अलका
यस्याः
सा
।
खेलन्तः
कोकाश्चक्रवाकाः
कुचौ
यस्याः,
सितः
शुक्लो
मेघ
एव
।
सिचयं
वस्त्रं
यस्याः,
कुजन्ती
सा
रसपालिः
सारसश्रेणी
रम्या
रसना
काञ्ची
यस्याः,
नीलोत्पलानि
उत्तमाः
कर्णभूषा
यस्याः
सा
।
सखीपक्षे,
चञ्चत्खञ्जनाविव
लोचने
यस्याः
।
एवं
सर्वत्र
ज्ञेयम्
॥७॥
जातीभिः
सह
रङ्गणाभिरखिलाङ्गालङ्कृतीः
कैरवैर्
उत्तंसानवतंसकांश्च
सुभगौ
रक्तोत्पलेन्दीवरैः
।
शय्यां
कुञ्जगृहे
स्वयं
निपतितैः
शेफालिकासञ्चयैर्
निर्मायार्पयितुं
शरत्सहचरी
वां
वर्त्म
संवीक्ष्यते
॥८॥
शरत्सहचरी
इदं
सर्वं
निर्माय
वां
युवाभ्यामर्पयितुं
वर्त्म
युवयोर्वर्त्म
संवीक्ष्यते
।
किं
किं ?
तदाह—
रङ्गणपुष्पैः
सह
वर्तमाना
सह
रङ्गणास्ताभिः
जातीभिरखिलाङ्गानालङ्कृतीः
।
कैरवैः
कुमुदैरुत्तंसान्शिरोभूषणानि
।
रक्तोत्पलेन्दीवरैरवतंसकान्कर्णभूषणानि
शेफालिकाभिः
शय्याम्
॥८॥
प्रफुल्लसप्तच्छददानसौरभः
सिताम्बुदालीकुथसंवृताङ्गकः
।
काशप्रसूनावलिचारुचामरः
स्मरोन्मदोक्षालिविरावबृंहितः
॥९॥
स
एव
दानस्य
मदस्य
सौरभो
यत्र
सः
।
सिताम्बुदश्रेणी
कुथेन
कम्बलविशेषेण
संवृतमङ्गं
यस्य
सः
।
काशस्य
काश
इति
मुञ्जा
इत्याख्यस्य
प्रसूनावलिश्चारुचामरं
यत्र
सः
।
स्मरेण
उन्मदा
मत्ता
उक्षा
वृषा
अलयो
भ्रमरा
वयः
पक्षिण
एषां
रावः
शब्द
एव
बृंहितं
यत्र
सः
॥९॥
नभोनदत्सारसकिङ्किणीकलः
सोऽयं
शरत्कालमनोजवारणः
।
स्वनन्मरालादिकपत्रिनिस्वनद्
घण्टाचयो
दीव्यति
कानने
पुरः
॥१०॥
(
युग्मकम्
)
नभोनदत्सारसैः
किङ्किणीनां
कलमधुध्वनिर्यत्र
सः
।
यद्वा,
नभसि
नदन्तः
सारसा
एव
किङ्किण्यस्ताः
कलयतीति
सः
।
स्वनन्तो
मरालादिका
हंसादयः
पत्रिणः
पक्षिण
एव
निस्वनच्छब्दयुक्घण्टासमूहो
यस्य
सः
॥१०॥
कमलाकरलालिता
सदा
परमहंसकुलैकसंश्रया
।
विलसच्चक्ररुचिर्बभौ
पुरः
शरदेषा
भगवत्तनूरिव
॥११॥
भगवतस्तनूर्मूर्तिरिव
एषा
शरत्पुरोऽग्रे
बभौ
।
उभयसाम्यमाह—
कमलाया ÿ
स्मृत्याः
करेण
लालिता
सेविता
।
शरत्पक्षे,
कमलस्य
पद्मस्य
आकरेण
उत्पादकेन
सरोवरेण
शोभायुक्ता
।
परमहंसाश्रमयुतानामेकसंश्रया
।
पक्षे,
श्रेष्ठहंसपक्षिणामेकसंश्रया
।
विलसच्चक्ररूपचिह्नेन
चक्राख्यास्त्रेण
वा
रुचिर्यस्याः
सा
।
पक्षे,
चक्रवाकेण
॥११॥
अथ
ते
शुश्रुवुः
सर्वे
पक्वामृतफलद्रुमे
।
शुकानां
शारिकावृन्दैर्वितण्डां
तदधःस्थिताः
॥१२॥
अथानन्तरं
रे
सर्वे
पक्वामृतफलद्रुमे
शुकानां
सारिकावृन्दैः
सह
वितण्डां
शुश्रुवुः
।
किम्भूताः ?
तस्य
वृक्षस्याधःटाः
॥१२॥
वेदान्ताध्यापनाचार्या
अनूचाना
वयं
द्विजाः
।
स्त्रीभिरस्पृष्टवृक्षाणां
पतामः
फलभक्षणात॥१३॥
वनं
वृन्दावनेशेन
दत्तमेतत्प्रतुष्यता
।
अस्मभ्यं
शारिकास्तस्माद्गच्छतान्यत्र
दासिकाः
॥१४॥
युग्मकम्
।
शुकवाक्यम्
।
वयं
द्विजास्तत्रापि
वेदान्तशास्त्रस्याध्यापने
पाठने
आचार्याः
।
तत्रापि
अनूचाना
गुरोः
सर्ववेदाध्यापनकृतः
।
अनूचानः
प्रवचने
साङ्गेऽधीती
गुरोस्तु
यः
इत्यमरः
।
स्त्रीभिरसम्यक्स्पृष्टवृक्षाणां
फलभक्षणात्पतामः
॥१३॥
प्रत्युष्यता
वृन्दावनेशेन
कृष्णेन
एतद्वनमस्मभ्यं
दत्तम्
।
तस्माद्दासिकाः
शारिकाः
!
यूयमन्यत्र
गच्छत
॥१४॥
प्रभुद्विषः
प्रजा
यूयं
राधाइव
यद्वनेश्वरी
।
पुराणेष्विदमेवोक्तं
राधा
वृन्दावने
वने
॥१५॥
सारीवाक्यम्
।
प्रजा
यूयं
प्रभोः
श्रीराधायाः
द्विषः,
यद्यस्मात्वनेश्वरी
राधाइव
।
अत्र
शास्त्रप्रमाणमाह—
पुराणेष्वित्यादि
।
रुक्मिणी
द्वारवत्यां
तु
राधा
वृन्दावने
वने
इत्यादि
॥१५॥
श्रुत्या
कृष्णवनत्वेन
यदेतद्गीयते
वनम्
।
बाध्यते
हि
स्मृतिः
श्रुत्या
तद्विचारयत
स्वयम्
॥१६॥
शुकवाक्यम्—
श्रुत्या
कृष्णवनत्वेन
वृन्दावनं
गीयते
यत्,
तत्स्वयं
विचारयत
।
हे
सारिकाः
!
तत्किं
नो
वेत्थ
इति
पाठान्तरम्
।
हि
यस्मात।
श्रुत्या
स्मृतिर्बाध्यते,
तस्मात्कृष्णस्यैवेदं
वनम्
॥१६॥
हरेरियं
वनेशता
समस्तलोकविश्रुता
।
श्रुतिस्मृतिप्रमाणिका
जगन्मनःप्रमोदिका
॥१७॥
हरेरियं
वनेशता
वनेश्वरत्वं
समस्तलोकेषु
च
विश्रुता
ख्याता
।
किंभूता
श्रुतिः
स्मृतिश्च
प्रमाणं
यस्यां
सा
।
जगतां
मनः
प्रमोदा
यस्यां
.
तथाभूता
च
।
अतः
सर्वत्र
प्रसिद्ध्या
वेदादिसम्मत्या
च
श्रीकृष्णस्यैव
वनेशता
दृढेत्यर्थः
॥१७॥
नात्र
स्वस्वामिसम्बन्धो
राधायाः
केवलो
वने
।
अपि
चाङ्गाङ्गिसम्बन्धस्तदङ्गबिम्बतात्र
यत॥१८॥
वने
श्रीकृष्णैकान्ताधिकारश्रवणमसहमानाह्शार्य
आहुः—
अत्र
वने
युष्मदुक्तः
श्रीकृष्णस्य
स्वस्वामिसम्बन्ध
इव
श्रीराधायाः
केवलः
स्वस्वामिसम्बन्धो
न,
अपि
चाङ्गाङ्गिसम्बन्धो
वर्तते
।
अङ्गाङ्गिसम्बन्धमाह—
यद्यस्मादत्र
वने
तत्तस्याः
राधायाः
अङ्गबिम्बतास्ति
।
अतोऽस्मदीश्वर्या
एवेदं
वनम्
॥१८॥
अन्तःकौटिल्यमालिन्या
बहिर्वीक्षणरञ्जनाः
।
गोपाला
भान्त्यमी
पक्वमहाकालफलोपमाः
॥१९॥
इत्थं
वनाधिकारिविषये
शार्यः
शुकान्निर्वचनीकृत्य,
श्रीराधाया
उत्कर्षवर्णनावेशेन
गोपाला
इति
सामान्येन
कृष्णस्य
लघुत्वमुद्गारयन्त्य
आहुः—
अन्तरिति
।
पक्वमहाकालफलं
माखालाख्यं
फलमुपमा
येषां
तेऽमी
गोपाला
भान्ति
।
फलेन
साम्यमाहुः—
अन्तर्मध्ये
कौटिल्यरूपं
मालिन्यं
येषां
ते
।
बहिर्वीक्षणे
रञ्जना
मनोहराः
।
फलस्य
मध्ये
मालिन्यं
रक्तवर्णं
तु
बहिः
॥१९॥
वाम्यवल्कलसञ्छन्ना
दृढमानास्थिसंवृता
।
नारिकेलफलानां
वा
गोपिकानां
रसस्थितिः
॥२०॥
वाम्यरूपवल्कलेन
त्वचा
संछन्ना
सम्यगावृता
।
दृढमानरूपास्थिना
संवृता
।
नारिकेलफलानां
वा
इव
गोपिकानां
रसस्थितिरिति
।
वाशब्द
इवार्थे
॥२०॥
बहिरन्तश्चैकरूपा
दोषहेयांशवर्जिता
।
द्राक्षाफलोत्करस्येव
स्वामिनो
मे
रसस्थितिः
॥२१॥
शुकोक्तिः—
मे
स्वामिनः
कृष्णस्य
रसस्थितिः
द्राक्षाफलसमूहस्येव
।
साम्यमाह—
बहिरन्तश्चैकरूपा
दोषरूपहेयांशो
बल्कलाष्ठ्यादिस्तेन
वर्जिता
।
अत्र
बहूनामपि
शुकानां
कृष्णे
मदीयतां
दार्ढ्यादेकैकस्य
मे
इत्येकवचनम्
॥२१॥
अन्तः
सदा
रसमयोऽपि
बहिः
समुद्यत्
कौटिल्यधार्ष्ट्यवरवल्कलपर्वरुक्षः
।
मानाख्ययन्त्रणं
ऋते
न
रसप्रदोऽसाव्
इक्षुप्रकाण्ड
इव
वः
प्रभुरच्युताख्यः
॥२२॥
सारीवाक्यम्—
वो
युष्माकं
प्रभुरच्युताख्यः,
अन्तर्मध्ये
सदा
रसमयोऽपि
बहिः
समुद्यद्भिः
कौटिल्यधार्ष्ट्यरूपवरवल्कलपर्वभी
रुक्षो
नीरस
इक्षुप्रकाण्डो
यन्त्रजन्यं
यन्त्रणं
निष्पीडनं
विना
यथा
रसप्रदो
न,
तथा
मानाख्यो
यन्त्रणं
विना
असौ
वः
प्रभुः
रसप्रदो
न
भवति
॥२२॥
अन्तःस्निग्धाद्बहिःशाठ्यवल्कलात्स्नेहलम्भनम्
।
वाम्यनिष्पीडनादेव
कृष्णात्कृष्णतिलादिव
॥२३॥
स्वप्राप्त्या
पुनर्दृष्टान्तान्तरमाह—
अन्तः
स्निग्धाद्बहिः
शाठ्यरूपवल्कलं
यस्य
तस्मात्कृष्णातपादानात्वाम्यनिष्पीडनाद्धेतोः
स्नेहस्य
तैलस्य
लम्भनमिव
॥२३॥
गोपीश्रेणी
जवालीवासौरभा
बहिरुज्ज्वला
।
नीलोत्पलनिभः
कृष्णः
सुरुचिः
सौरभान्वितः
॥२४॥
शुकवाक्यं—
जवाश्रेणीव
गोपीश्रेणी
असौरभा
गुणहीना
केवलं
बहिरुज्ज्वला
कृष्णो
नीलकमलमिव
यथा
द्रष्टुं
सुरुचिस्तथा
साद्गुण्ययुक्तः
॥२४॥
मञ्जिष्ठेव
मदीशा
स्वान्तर्बहिरपि
सदैकरागेयम्
।
स्फटिकमणिवदीशस्ते
नवनवसङ्गाद्विभिन्नरागोऽयम्
॥२५॥
श्रीगोपीभ्यः
श्रीकृष्णोत्कर्षं
श्रुत्वा,
शार्य
उद्भटाः
सत्य
एकैकं
शुकं
प्रति
एकैकश
आहुः—
मञ्जिष्ठेति
।
मदीशा
राधा
मञ्जिष्ठारागो
यथा
तथान्तर्बहिः
सदैकरागा
।
ते
तव
ईशः
कृष्णः
स्फटिकमणिवन्नवनवसङ्गाद्विभिन्नरागः
॥२५॥
दाहिता
दैत्यशलभाः
प्रज्वाल्य
स्वबलानलम्
।
येन
येनोद्धृतोऽद्रीशस्तेन
साम्यं
क
आप्नुयात॥२६॥
शुकवाक्यं—
येन
कृष्णेन
स्वबलाग्निं
प्रज्वाल्य
दैत्यकीटा
दाहिता
भस्मीकृताः
।
येन
गोवर्धनो
धृतः
॥२६॥
व्रजेश्वराराधानतुष्टविष्णुना
कृष्णे
निधायाद्भुतशक्तिमात्मनः
।
बकी
बकाद्य
निहताः
सुरारयः
कृष्णेनभिज्ञैरिह
कीर्तिरर्पिता
॥२७॥
शारीवाक्यं—
नन्दस्याराधनेन
तुष्टो
यो
विष्णुस्तेनात्मनः
अद्भुतां
शक्तिं
कृष्णे
निधाय
पूतनाबकाद्या
निहताः
।
ईदृशे
कृष्णे
अज्ञैः
एततजानद्भिः
कीर्तिरर्पिता
॥२७॥
तुष्टोऽयमद्रिर्बलिभुग्व्रजस्य
स्वयं
समुत्थाय
नभस्यतिष्ठत।
अधोऽस्य
हस्तं
विनिधाय
कृष्णोद्
धरोद्धृतौ
कीर्तिमुरीचकार
॥२८॥
व्रजस्य
बलिः
पूजोपहारस्तद्भुगयमद्रिः
स्वयं
समुत्थाय
नभसि
आकाशेऽतिष्ठत।
अस्याद्रेरधो
हस्तं
विनिधाय
कृष्णो
धरोद्धृतौ
कीर्तिं
स्वीचकार
॥२८॥
सौन्दर्यं
ललनालिधैर्यदलनं
लीला
रमास्तम्भिनी
वीर्यं
कन्दुकिताद्रिवर्यममलाः
पारेपरार्धं
गुणाः
।
शीलं
सर्वजनानुरञ्जनमहो
यस्यायमस्मत्प्रभुर्
विश्वं
विश्वजनीनकीर्तिरवतात्कृष्णो
जगन्मोहनः
॥२९॥
शुकवाक्यं—
अस्मादृशां
स्वामी
जगन्मोहनः
विश्वमवतु
।
कीदृशः ?
विश्वजनीना
विश्वजनाय
हिता
कीर्तिर्यस्य
सः
।
अतः
हितार्थे
ईनः,
यस्य
सौन्दर्यः
ललनालेर्धैर्यं
दलतीति
धैर्यदलनम्
।
लीला
रमाया
लक्ष्म्याः
स्तम्भिनी
विस्मयादिना
स्तम्भकारिणी
।
वीर्यं
कन्दुकिनः
कन्दुकीकृतः
आद्रिवर्यो
गोवर्धनो
येन
तत।
गुणाः
परार्धतोऽप्यधिका
अमलाश्च
।
शीलं
सर्वजनाननुरञ्जयति
सुखयतीति
तत॥२९॥
श्रीराधिकायाः
प्रियता
सुरूपता
सुशीलता
नर्तनगानचातुरी
।
गुणालिसम्पत्कविता
च
राजते
जगन्मनोमोहनचित्तमोहिनी
॥३०॥
सारीवाक्यं—
श्रीराधिकायाः
प्रियता
प्रेम
।
प्रेमाना
प्रियता
हार्दं
प्रेम
स्नेहः
इत्यमरः
।
सुरूपता
सौन्दर्यं,
सुशीलता
सुस्वभावः,
नर्तने
गाने
च
चातुरी
चतुरत्वं,
गुणश्रेणीरूपा
सम्पत्,
कविता
च
पाज्ञानित्यं
च
राजते
।
कीदृशी
सती ?
जगन्मनोमोहनः
श्रीकृष्णस्तस्य
चित्तमोहिनी
॥३०॥
रसयति
राधा
कृष्णे
रसयति
तच्चरणसेवातिसौख्यम्
।
अलिरिव
मल्ल्यां
सोऽस्यां
रसयन्त्यां
रसयति
तदधरमात्रम्
॥३१॥
शुकवाक्यं—
कृष्णे
रसयति
रसं
परिहासालिङ्गनचुम्बनसम्भोगादिकं
कुर्वति
सति
।
राधा
तस्य
कृष्णस्य
चरणयोः
सेवारूपमतिसौख्यं
सुखं
रसयति
आस्वादयति
चरणसेवां
करोतीत्यर्थः
।
अस्यां
राधायां
रसयन्त्यां
रसं
रागमनुरागं
कुर्वत्यां
सत्यां
स
कृष्णस्तस्या
राधाया
अधरमात्रं
रसयति
आस्वादयति
पदसेवादिकं
तु
न
।
कस्यां
क
इव,
मल्ल्यां
रसयन्त्यां
रसं
गुणं
स्वसद्गुणं
विकाशं
कुर्वन्त्यामर्थाद्विकसन्त्यां
सत्यामलिर्भ्रमरस्तस्या
मधुमात्रमास्वादयति
न
मूलशाखोपशाखादिकं
किमपि
तथा
।
शृङ्गारादौ
विषे
वीर्ये
द्रवे
रागे
गुणे
रस
इति
विश्वः
।
द्रवकेलिपरिहासाः
इत्यमरः
।
रस
आस्वादने
धातुः
॥३१॥
कृष्णस्य
सङ्गमिह
नाथति
राधिका
तं
लब्धं
तु
नाथति
सुमानवृषार्कतापः
।
तत्प्रीतिसेवनततेरपि
नाथमाना
नाथत्यलं
विपिननीवृतिं
तस्य
चित्रम्
॥३२॥
सारीवाक्यं—
इह
वृन्दावने
राधिका
कृष्णस्य
सङ्गं
नाथयति
याचते
।
लब्धं
तं
कृष्णं
तु
पुनः
सुमानवृषार्कतापैः
सुष्ठु
मान
एव
ज्यैष्ठसूर्यतापस्तैर्नाथयति
उपतापयति
।
तत्तस्य
कृष्णस्य
प्रीतिसेवाततेर्नाथमाना
याचमाना
अपि
विपिननीवृतिं
वृन्दावनदेशे
तस्य
कृष्णस्य
अलं
नाथति
नाथ
इव
ईश्वरीव
आचरति
इति
चित्रम्
।
नाथृ
नाधृ
याच्ञोपतापैश्वर्याशीःषु
।
नीवृज्जनपदो
देश
इत्यमरः
॥३२॥
या
सरित्स्तम्भिनी
विश्वाकर्षिणी
सर्वमोहिनी
।
सद्धर्मोच्चाटिनी
स्त्रीणां
सा
वंशी
सङ्गिनी
हरेः
॥३३॥
सारीवाक्यं—
या
वंशी
सरितां
नदीनां
स्तम्भिनी,
स्त्रीणां
सद्धर्मोच्चाटिनी,
सा
वंशी
हरेः
सङ्गिनी
।
सङ्गदोषेण
साधूनामपि
दुष्टत्वं
स्यादेव
॥३३॥
कथयतु
महिमानं
को
नु
कृष्णस्य
वंश्यास्
तदितरपुरुषे
या
रागपङ्कं
विधूय
।
हृदि
जगदबलानां
नादपीयूषवृष्ट्या
सहजदयितकृष्णे
रागमाविष्करोति
॥३४॥
शुकवाक्यं—
कृष्णस्य
वंश्या
महिमानं
कः
कथयतु ?
या
वंशी
नादपीयूषवृष्ट्या
जगदबलानां
हृदि
तदितरपुरुषेषु
तस्मात्कृष्णादितरेषु
पुरुषेषु
स्वपतिषु
यो
राग
आसक्तिः
स
एव
पङ्कस्तं
विधूय
दूरीकृत्य
सहजदयिते
कृष्णे
।
कुर्वन्ति
हि
त्वयि
रतिं
कुशलाः
स्म
आत्मन्नित्यप्रिये
[
भा
.
पु
.
१०
.
२९
.
३३
]
इत्याद्युक्त्या
स्वतःप्रसिद्धप्राणनाथे
श्रीकृष्णे
रागं
जनयति
॥३४॥
अथ
कीराश्च
शार्यश्च
स्वेशयोः
प्रणयोन्मदाः
।
चक्रुः
प्रश्नोत्तरालापं
स्वस्वगोष्ठ्यां
मुदा
मिथः
॥३५॥
अथ
कीराश्च
शार्यश्च
राधाकृष्णयोः
प्रणयोन्मत्तता
मिथः
स्वस्वगोष्ठ्याम्
॥३५॥
बिभ्रत्करैकेन
नभस्यहार्यं
महेन्द्रगर्वाद्रिमधोऽनयत्कः
।
कः
कालियाहेः
फणवृन्दरङ्गे
ननर्त
तं
भो
वद
कृष्ण
एषः
॥३६॥
क
एकेन
करेण
नभस्य
हार्य
पर्वतं
बिभ्रत्सत्महेन्द्रस्य
गर्वरूपमद्रिं
पर्वतमधोऽनयत।
अहार्यधरपर्वताः
अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः
इत्यमरः
।
कः
पुनः
कालियफणसमूहरूपरङ्गभूमौ
ननर्त
।
तं
वदेति
प्रश्नं
शारीः
श्रावयति
।
कस्मिन्शुके
कं
प्रति
कुर्वति
सति
।
एष
कृष्ण
इत्युतंरं
तस्मै
सोऽवदत॥३६॥
निजहृदि
धृतवक्षोजाद्रियुग्मोपरिष्टाद्
गिरिधरमपि
लीलाम्भोजवत्का
बिभर्ति
।
भुजगदमनचेतोवृत्तिचञ्चद्भुजङ्गी
शिरसि
नटति
का
तां
ब्रूहि
सा
श्रीलराधा
॥३७॥
सारी
शुकं
प्रति
प्रश्नद्वयं
चकार
।
एष
कृष्ण
इति
द्वयोरुत्तं
शुकोऽवदत।
निजहृद्धृतस्तनपर्वतयुग्मोपरि
धृतगोवर्धनधरं
श्रीकृष्णं
नीलकमलमिव
का
बिभर्ति ?
भुजगदमनस्य
कृष्णस्य
चित्तवृत्तिः
सैव
भुजङ्गी
सर्पी
तस्याः
शिरसि
का
नटति ?
तां
ब्रूहीति
।
कस्याम्चित्शार्या
तथा
पृच्छन्त्यां
काचिदाह—
सा
श्रीलराधेति
॥३७॥
सदैव
मुक्ताश्च
तथातिमुक्ता
जाता
वनेऽस्मिन्परिफुल्लताङ्गाः
।
पुष्णन्ति
सारङ्गगणान्रसैः
स्वैः
कस्य
प्रभावाद्वद
माधवस्य
॥३८॥
शुकं
शुकः—
सदैव
मुक्ता
ब्रह्मैकनिष्ठाः
प्रेमगन्धरहिता
अपि
अस्मिन्वने
श्रीवृन्दावने
श्रीवृन्दावनविषये
परिफुल्लताङ्गाः
प्रेमपुष्टाः
सन्तो
जाताः,
जन्मप्राप्ताः
सन्तः
स्वैः
रसैः
प्रेमभिः
सारङ्गगणान्भक्तगणान्पुष्णन्ति
।
सारङ्गः
पुंसि
हरिणे
चातके
च
मतङ्गजे
।
सरले
त्रिषु
इत्यादि
मेदिनी
।
आस्तामेषां
जङ्गमानामयं
प्रेमविषयः
स्थावरा
अपि
अतिमुक्ता
माधव्यस्तिनिशवृक्षाश्च
तथा
सदैव
मुक्ता
इव
परिफुल्लताङ्गाः
पत्रपुष्पादिपूर्णस्तच्छलेन
प्रेमपुष्टा
जाताः
सन्तः
स्वैः
रसैर्मधुभिः,
तच्छलेन
प्रेमभिः
सारङ्गगणान्भ्रमरगणान्तच्छलेन
भक्तगणान्पुष्णन्ति
।
कस्य
प्रभावाद्वदेति
पृच्छन्तं
पृष्ट
आह—
माधवस्य
कृष्णस्य
प्रभावात।
मुक्ता
अपि
लीलया
विग्रहं
कृत्वा
भगवन्तं
भजन्ति
इति
प्रमाणात।
स्थावरपक्षे
तु,
वसन्तस्य
तच्छलेन
कृष्णस्येत्यर्थः
।
वनलतास्तरव
आत्मनि
विष्णुं
व्यञ्जयन्त्य
इव
पुष्पफलाढ्याः
।
प्रणतभारविटपा
मधुधाराः
प्रेमहृष्टतनवो
ववृषुः
स्म
॥
[
भा
.
पु
.
१०
.
३५
.
९
]
इत्याद्युक्तेः
।
अतिमुक्तः
पुण्ड्रकः
स्याद्वासन्ती
माधवीलता
इति,
तिनिशे
स्यन्दनो
नेमी
रथद्रुरतिमुक्तकः
इति
चामरः
॥३८॥
सदैव
मुक्ताश्च
तथातिमुक्ता
माध्वीककारा
मधुपालिसङ्गाः
।
उत्पद्य
जाता
वद
तत्र
हेतुं
कस्यापि
रामानुगतस्य
सङ्गात॥३९॥
एवं
श्रीकृष्णस्योत्कर्षं
श्रुत्वा
श्रीराधापक्षपातिन्यः
शार्योऽन्तरतिमुदिता
अपि
बहिरसहमाना
निकर्षन्त्यः
सत्यस्तमाहुः—
सारीं
सारी
।
सदैव
मुक्ताः
संसारातीता
अपि
माध्वीककारा
माध्वीकं
मधु
तद्वत्सर्वसारत्वात।
माध्वीकं
प्रेम
तच्छलेन
मद्यं
कुर्वन्तीति
माध्वीककारा
उत्पद्य,
अतो
मधुपालिसङ्गाः
मधुपा
इव
मधुपाः
सारग्राहिणो
भक्तास्तच्छलेन
मद्यपास्तेषां
श्रेणी
सङ्गाज्जाता
भवन्ति
।
तथा
अतिमुक्ता
माधवीति
निशाश्च
माध्वीकं
तच्छलेन
मद्यं
कुर्वन्तीति
ते
उत्पद्य
मधुपानां
भ्रमराणां,
तच्छलेन
मद्यपानां
श्रेणी
सङ्गाज्जाता
भवन्ति
।
तत्र
हेतुं
वदेति
पृच्छन्ती
पृष्टाह—
रामानुगतस्य
सङ्गात्रामः
श्रीबलरामस्यानुगतः
कनिष्ठत्वात्,
पश्चाद्गतः
श्रीकृष्णः
।
स्थावरपक्षे
तु,
आरामानुगतो
वसन्तः,
एकदेशविकृतमनन्यवदतिवचनात्,
स
तु
रामानुगतः,
अतो
नाम्ना
कृष्णमित्रं
श्लेषेण
कृष्ण
एव
वसन्त
एव
च
रामानुगतो
रामा
स्त्री
तदनुगतस्तत्सङ्गी
विषयिजनस्तस्य
सङ्गात।
यतो
योषित्सङ्गात्मुक्तानामपि
भ्रंशो
भवति
।
न
तथास्य
भवेन्मोहो
बन्धश्चान्यप्रसङ्गतः
।
योषित्सङ्गाद्यथा
पुंसो
यथा
तत्सङ्गिसङ्गतः
॥
[
भा
.
पु
.
३
.
३१
.
३५
]
इत्युक्तेः
॥३९॥
हृत्वांशुकं
पश्यति
कोट्टवीः
कः
साध्वीततेः
कः
सुकृतं
भिनत्ति
।
को
वा
स्त्रियं
वत्सवृषौ
च
निघ्नन्
न
लज्जते
तं
वद
कृष्ण
एषः
॥४०॥
कः
अंशुकं
वस्त्रं
हृत्वा
कोट्टवीर्नग्निकाः
पश्यति
।
कः
साध्वीततेः
सुकृतं
भिनत्ति ?
को
वा
स्त्रियं
पूतनां
वत्सासुरं
वृषासुरं
च
छलेन
स्त्रीवत्सवृषां
च
निघ्नन्न
लज्जते
तं
वद
।
तत्राह—
एष
कृष्णः
॥४०॥
तां
मातृकां
कः
किल
मातृकारकः
को
वत्सकं
वत्सकपालको
व्रजे
।
को
धेनुकं
धेनुकरक्षकोऽप्यलं
वृषं
च
निघ्नन्वृषवर्धनोऽभवत॥४१॥
शुकं
शुको
द्वाभ्याम्
।
को
व्रजे
तां
मातृकां
निघ्नन्मारयन्मातृकाया
मातैव
मातृका
तस्या
अबको
रक्षकः
सुखवर्धकः
।
यो
हन्ता
यस्य
स
एव
तस्य
रक्षक
इति
विरोधः
।
अत्र
विरोधाभासालङ्कारः
।
प्रथममातृकाशब्दोऽत्र
पूतनावाचकतया
विरोधवत्भासते,
न
तु
विरोधः
।
धेनुकं
धेनुकासुरं
निघ्नन्धेनुकरक्षकः
।
धेनुरेव
धेनुको
धेनुकं
वा
तेषां
रक्षकः
।
स्वार्थिकाः
प्रकृतितो
लिङ्गवचनान्यतिवर्तन्ते
इति
पाणिनीयसूत्रात।
स्वार्थे
कप्रत्यये
कृते
नित्यस्त्री
धेनुशब्दस्य
पुंस्त्वं
क्लीबत्वं
वा
।
यद्वा,
धेनूनां
कस्य
सुखस्य
रक्षको
वर्धकः,
वृषासुरं
निघ्नन्वृषं
सुकृतं
वर्धयतीति
वृषवर्धनोऽभवत।
पुण्यश्रेयसी
सुकृतं
वृष
इत्यमरः
॥४१॥
नीतिः
कुमारीवरणे
तदङ्ग
हृद्वाक्परीक्षेत्यकरोच्च
तां
कः
।
सतीत्वमाच्छिद्य
महासतीत्वं
चक्रेऽबलानां
वद
तं
स
कृष्णः
॥४२॥
कुमारीणां
वरणे
विवाहोद्यमे
तत्तासां
कुमारीणामङ्गहृद्वाक्परीक्षा
नीतिर्न्याय
इति
विचार्य,
नन्दगोपसुतं
देवि
पतिं
मे
कुरु
ते
नमः
[
भा
.
पु
.
१०
.
२२
.
४
]
इति
वृतः
सन्तासां
कुमारीणां
तां
नीतिं
कोऽकरोत्?
पुनः
कोऽबलानां
सतीत्वमाच्छिद्य
महासतीत्वं
चक्रे
।
तं
वदेति
प्रश्नोत्तर
एष
कृष्ण
इति
॥४२॥
इति
पटुविहगानां
वाग्विलासामृतानि
श्रवणचषकपूरं
तौ
पिबन्तौ
ससभ्यौ
।
निजनिजसुहृदं
तत्प्रीणनायाविशन्तौ
ततशरदृतुलक्ष्मीं
चेरतुर्लोकयन्तौ
॥४३॥
इत्यनेन
पटूनां
निपुणानां
विहगानां
पक्षिणां
वाग्विलासामृतानि
श्रवणरूपचषकस्य
पानपत्रस्य
पूरं
पूरणं
यथा
स्यात्तथा
पिबन्तौ
ससभ्यौ
तौ
राधाकृष्णौ
।
तत्तेषां
विहगानां,
दाडिमबीजादिभिः
प्रीणनाय
विशन्तौ
निजनिजसुहृदं
ललिता
सुबलं
च
दिशन्तौ
विस्तृतां
शरदृतुलक्ष्मीं
लोकयन्तौ
चेरतुः
॥४३॥
पक्वद्राक्षाबलजकं
शारिभ्यो
ललिता
ददौ
।
कीरेभ्यः
सुबलः
प्रादात्पक्वदाडिमबाटिकाम्
॥४४॥
ललिता
सारिभ्यः
पक्वद्राक्षाबलजकं
द्राक्षाक्षेत्रं
ददौ
।
सुबलः
कीरेभ्यः
पक्वदाडिमबाटिकां
प्रादात॥४४॥
नान्दीमुखी
तदनु
ताववदद्वनेशौ
निध्यायतं
स्वपुरतो
वनभागमेतम्
।
हेमन्तशन्तमतया
प्रथितं
निजैः
सत्
सम्पच्चयैश्चरणमर्चितुमुत्सुकं
वाम्
॥४५॥
तदनु
तत्पश्चात्नान्दीमुखी
तौ
राधाकृष्णौ
अवदत।
स्वपुरत
एतं
वनभागं
हेमन्तशन्तमतया
ख्यातं
निजैः
सत्सम्पत्तिसमूहैर्वा
युवयोश्चरणमर्चितुमुत्सुकम्
।
निध्यायतं
पश्य
तम्
॥४५॥
चित्राम्लानकुरुण्डकैः
फुल्लैर्लसत्सौरभा
माद्यत्तित्तिरिलावषट्पदकिखीकीरारवैर्मञ्जुला
।
हृद्या
पक्त्रिमनागरङ्गरुचकैः
शीता
तुषारानिलैः
सेयं
भाति
वनस्थलीह
भवतोः
पञ्चेन्द्रियाह्लादिनी
॥४६॥
भवतोः
पञ्चेन्द्रियाह्लादिनी
सेयं
वनस्थलीह
भाति,
अम्लानकुरुकण्टकैर्झिण्टीपुष्पैश्चित्रा
नेत्रस्य,
फुल्लैः
कुरुवकैः
रक्तझिण्टीभिर्लसत्सौरभा
नासायाः,
तित्तिर्यादीनां
रवैः
शब्दैर्मञ्जुला
कर्णस्य
।
तित्तिरिति,
लावः
गुड्गुडिति
षट्पदी
भ्रमरः
।
किखी
तिटा
सकुला
गौडे
प्रसिद्धा
यस्य
पक्षः
कर्णवेदनां
नाशयति
।
कीराः
शुकाः
।
पक्त्रिमनागरङ्गरुचकैः
नारङ्ग
इति
बीजपुर
इत्याख्यैर्हृद्या
रसनायाः
।
तुषारो
हिमकणा
तत्सहितपवनैस्त्वचः
।
सहा
कुमारी
तरणिरम्लानस्तु
महासहा
।
तत्र
शोणे
कुरबकस्तत्र
पीते
कुरकण्टकः
।
नीली
झिण्टी
द्वयोर्बाणा
दासी
चार्तगलश्च
सा
।
सैरेयकस्तु
झिण्टी
स्यातित्यमरः
॥४६॥
स्फुरितसहचरालीवेष्टितोऽम्लानकान्तिस्
ततकुसुमधनुर्मूर्च्छालिगोपीप्रगीतः
।
विकचकुसुमबाणः
कृष्ण
ते
देहतुल्यो
मुखरितशुकलीलो
भाति
हेमन्तकालः
॥४७॥
हे
कृष्ण
!
ते
देहतुल्यो
हेमन्तकालो
भाति
।
ते
देहपक्षे,
स्फुरितानां
मुदितानां
सहचराणां
सखीनामालीभिः
श्रेणिभिर्वेष्टितः
।
कालपक्षे,
पीता
झिण्टीं
तस्याः
श्रेणीभिर्वेष्टितः
।
देहपक्षे,
अम्लाना
कान्तिर्यस्य
सः
।
पक्षे,
अम्लानेन
झिण्टीपुष्पेण
शोभा
यत्र
सः
।
ततः
विस्तृतः
समृद्धः
कुसुमधनुः
कन्दर्पो
यस्मात।
कालपक्षेऽप्ययमेवार्थः
।
यद्वा,
ततानि
विस्तृतानि
कुसुमान्येव
धनुः
कन्दर्पधनुर्यत्र
सः
।
देहपक्षे,
मूर्च्छालिनीभिर्गोपीभिः
प्रगीतः
।
प्रवीत
इति
पाठे
प्रकर्षेण
वेष्टितः
।
गोपी
श्यामा
शारिका
स्यादित्यमरः
।
विकचः
प्रफुल्लः
कुसुमबाणः
कन्दर्पो
यतः
सः
।
अयमर्थः
कालपक्षेऽपि
।
यद्वा,,
विकचानि
कुसुमानि
एव
बाणाः
कन्दर्पबाणा
यत्र
सः
।
यद्वा,
ते
विकचानि
कुसुमानि
येषां
तथाभूता
बाणाः,
तत्पुष्पवृक्षा
यत्र
सः
।
नीलझिण्टी
द्वयोर्बाणाः
इत्यमरः
।
मुखरित
उच्चैर्बहुजल्पकीकृतः
शुकः
श्रीशुकदेवो
यया
।
किं
वा,
मुखरिताः
शुकाः
पूर्वोक्तशुका
यया,
तादृशीं
लीलां
यस्य
सः
।
कालपक्षे,
मुखरितशुकानां
लीला
यत्र
सः
॥४७॥
हिमऋतुलक्ष्मीमतिमुदितस्ताम्
।
हरिरथ
कान्तां
प्रतिकुरुते
स्म
॥४८
॥
अतिमुदितो
हरिस्तां
हिमऋतुलक्ष्मीं
कान्तां
राधां
प्रति
कुरुते
स्म,
उपमानान्तरेण
दर्श्यते
स्म
॥४८
॥
रुचिरविविधवर्णा
पक्वशाल्यंशुकाङ्गी
मदकलशुकपालीनादनान्दीमुखी
व
।
सुमुखि
परिणतोच्चैर्नागरङ्गस्तनीयं
कलय
वरनटीवाभाति
हेमन्तलक्ष्मीः
॥४९॥
इयं
हेमन्तलक्ष्मीर्वरनटी
इव
आभाति
।
कीदृशी
मनोज्ञो
विविधो
वर्णो
यस्या
सा
।
आपक्वा
ईषत्पक्वा
वा
शाली
चान्यमंशुकं
वस्त्रमङ्गे
यस्या
सा
।
मदकलानां
मोदोत्कटानां
शुकश्रेणीनां
नाद
एव
नान्दी
नाट्यारम्भे
कृता
स्तुतिर्यस्या
सा
।
हे
सुमुखि
!
परिणताः
पक्वा
नागरङ्गा
नारङ्ग
इत्याख्यफलानि
स्तनौ
यस्या
सा
॥४९॥
औष्ण्यं
हिमर्तुमनु
ते
हृदयाख्यदुर्गं
भानोः
समाश्रयति
साध्वि
तुषारभीत्या
।
तत्सङ्गमादनुपलब्धवियोगदुःखं
रात्रिन्दिवं
विलसति
स्तनकोकयुग्मम्
॥५०॥
हे
साध्वि
!
तुषारस्य
हिमस्य
भीत्या
हिमर्तुमनु
हिमऋतौ
भानोः
सूर्यस्य
औष्ण्यं
ते
हृदयाख्यं
दुर्गं
समाश्रयति
।
तत्सङ्गमात्भानोरौष्ण्यमसङ्गात।
भानुरस्तीति
बुद्ध्या
तव
स्तनरूपकोकयुग्ममनुपलब्धं
वियोगदुःखं
सूर्याभावजन्यं
द्वयोर्विच्छेदरूपं
येन
तादृशं
सत्रात्रिन्दिवं
विलसति
विशेषेण
लसति,
लसद्दीप्तौ
।
रात्रौ
चक्रवाकस्य
वियोगः
।
कूपोदकं
बटच्छाया
श्यामा
स्त्री
इष्टकालयम्
।
शीतकाले
भवेदुष्णमुष्णकाले
च
शीतलम्
॥
इति
प्रमाणात।
तप्तकाञ्चनवर्णाभ
इन्द्रनीलमणिद्युतिः
।
द्व्यर्थः
श्यामस्वरूपस्य
कविभिः
परिकीर्तितः
॥
इति
।
श्यामा
तु
कठिनस्तनी
इति
च
।
तस्याः
शीते
उष्णत्वं
च
प्रसिद्धम्
॥५०॥
ऋताविहाग्नेः
प्रबलोष्णभावा
भिया
हिमान्याः
परितो
द्रवन्तः
।
कूपाप्सु
केचिद्विनिपत्य
लीनाः
क्रोडे
द्रुमस्याद्रिदरीषु
चान्ये
॥५१॥
हिमान्याः
हिमसमूहस्य
भिया
इह
शीतऋतौ
अग्नेः
प्रबलोष्णभावाः
परितः
पलायनपराः
केचित्कूपजले
अन्ये
च
वृक्षक्रोडे
पर्वतकन्दरासु
च
विनिपत्य
लीना
अभवन।
हिमानी
हिमसंहतिः
इत्यमरः
॥५१॥
हिमानीडाकिनी
सेयमलक्षितमहर्निशम्
।
इह
भानुबृहद्भान्वोः
प्रपिबत्यौष्णशोणितम्
॥५२॥
सेयं
हिमानी
डाकिनी
इह
ऋतौ
अहर्निशं
सूर्यवह्न्योरौष्णशोणितं
प्रपिबति
॥५२॥
आलिङ्ग्य
कान्तां
तरुणैः
शयानैः
कुचोष्णतासङ्गविभङ्गदीनैः
।
आराधितोऽर्कः
कृपया
विलम्ब्य
प्रोद्यन्विधत्तेऽद्य
निशाभिवृद्धिम्
॥५३॥
कुचोष्णतासङ्ग
सङ्गस्य
विभङ्गेन
दीनैः
शयानैस्तरुणैः
आराधितोऽर्कः
सूर्यः
विलम्बं
कृत्वा
प्रोद्यतुदयं
कुर्वन्निशावृद्धिं
विधत्ते
॥५३॥
रासे
कुमारीगणकुङ्कुमाञ्चित
स्तनावली
यां
स्मृतिमानिनाय
नौ
।
सा
पक्वनारङ्गफलालिरग्रतस्
तत्स्मारकत्वं
स्वगुणं
व्यनक्त्यसौ
॥५४॥
रासे
कुमारीगणकुङ्कुमयुक्तस्तनावली
यां
पक्वनारङ्गफलावलिं
नावावयोः
स्मृतिमानिनाय
स्मृतिविषयीभूतां
चकार
।
इदानीमग्रतः
साहसौ
वनभागवर्तिनी
पक्वनारङ्गफलालिस्तत्स्मारकत्वं
रासे
कुमारीगणस्तनावलिस्मारकत्वं
स्वगुणं
स्वधर्मं
व्यनक्ति
पूर्व्कार्य॥५४॥
अथालोकयन्तौ
पुरोऽरण्यभागम्
।
समुत्कौ
निजेशाववादीद्वनेशा
॥५५॥
वनेशा
वृन्दा
।
पुरोऽग्रे
अरण्यभागं
लोकयन्तौ
समुत्कौ
निजेशौ
राधाकृष्णौ
॥५५॥
प्रविशदखिलजन्तूत्कम्परोमाञ्चकारी
क्वचिदलघुनगाधःकोष्णताशीतहारी
।
मृदुलितरविकान्तिर्दक्षिणाशागतार्कः
शिशिररुचिरनामा
भात्यरण्यैकदेशः
॥५६॥
शिशिररुचिरनामा
वनैकदेशो
भाति,
प्रविशतामखिलजन्तूनां
कम्पादिकारी
।
क्वापि
अलघूनां
बृहतां
नगानां
वृक्षाणामधःकोष्णता
अल्पोष्णता
तया
करणेन
शीतहारी
मृदुलिता
मृदुलामिव
आचरिता
सस्यऊर्यस्य
कान्तिर्यत्र
स
दक्षिणदिग्गतोऽर्को
यत्र
सः
॥५६॥
जवाबन्धूकाभारुणवरदुकूलं
दमनक
प्रभाचोलीं
कुन्दद्युतिसितनिचोलं
च
दधती
।
भरद्वाजश्रेणीविरुतियुतहारीतरुतिभिः
स्तुवन्तीव
प्रेम्ना
शिशिरऋतुलक्ष्मीर्मिलति
वाम्
॥५७॥
शिशिरऋतुलक्ष्मीर्वां
युवाभ्यां
प्रेम्ना
मिलति
।
कीदृशी ?
जवाबन्धूकपुष्पाणामाभया
कान्त्या
अरुणवर्णं
वरदुकूलं
श्रेष्ठवस्त्रं
दधती
।
दमनकप्रभया
चोलीं
कञ्चुकीं
दधती
।
कुन्दद्युतिभिः
सितनिचोलं
शुक्लोत्तरीयं
च
दधती
भरद्वाजपक्षिश्रेणीनां
विशिष्ट्रुतिभिः
शब्दैः
सह
हारीतपक्षिरुतिभिः
स्तुवन्तीव
॥५७॥
निविडदलतरूणां
वासराद्यन्तकाला
गतरविकरकोष्णे
सूर्यकान्ताञ्चितेऽङ्के
।
मृगततिरुपविष्टा
मन्दरोमन्थरम्या
प्रकटपुलकबाष्पा
वां
समीक्ष्याभ्युपैति
॥५८॥
निविडानि
दलानि
पत्राणि
येषां
तेषां
तरूणामङ्के
क्रोडे
।
कीदृशे ?
दिवसस्याद्यन्तकाले
प्रातरपराह्ने
चागतरविकिरणेन
कोष्णे
अल्पोष्णे
सूर्यकान्तमणिना
युते
उपविष्टा
मन्दरोमन्थेन
तृणस्य
मृदुचर्वणेन
रम्या
मृगततिर्वां
युवां
समीक्ष्य
प्रकटपुलकबाष्पा
सती
अभ्युपैति
समीपमायाति
॥५८॥
ऋतावस्मिन्तेजः
क्षतिरनुदिनं
प्राणसुहृदां
सरोजानां
नष्टिः
स्वसुखसमयाह्नोऽपि
लघुता
।
तुषारैश्चण्डांशोरपि
मृदुभिरुच्चैर्बत
कृता
विनैकं
विश्वेशं
भवति
न
हि
कः
कालवशगः
॥५९॥
एकं
विश्वेशं
विना
को
वा
कालवशगो
न
हि
भवति
।
अन्या
का
वार्ता
।
बत
आश्चर्ये
।
अस्मिन्शिशिरऋताव्मृदुभिस्तूषारैश्चण्डांशोः
सूर्यस्यापि
उच्चैस्तेजसः
क्षतिः
क्षयोऽनुदितं
कृता
।
चण्डांशोः
प्राणसुहृदां
सरोजानां
नष्टिर्नाशः
कृता
।
स्वसुखसमयदिवसस्य
लघुता
कृता
॥५९॥
प्रबलशिशिरभीत्या
भानुरौष्ण्यं
स्ववित्तं
स्तनयुगगिरिदुर्गे
बल्लवीनां
न्यधत्त
।
त्वरितमिदममूभिः
कृष्ण
भोगाय
क्ÿ
प्तं
प्रभवति
नहि
गाढप्रेम्नि
धर्माद्यपेक्षा
॥६०॥
भानुः
प्रबलशिशिरभीत्या
वल्लवीनां
स्तनयुगरूपगिरिदुर्गे
स्ववित्तमौष्ण्यं
न्यधत्त
।
अमूभिर्बल्लवीभिस्त्वरितं
तदौष्ण्यम्
।
हे
कृष्ण
!
भोगाय
तव
भोगाय
क्ÿ
प्तं
कृतं
तुभ्यं
दत्तम्
।
एकस्य
स्थापितं
धनमन्यस्मै
दाने
धर्मादिविरुद्धिः
स्यात्,
तत्राह—
गाढप्रेम्नि
धर्माद्यपेक्षा
न
हि
प्रभवति,
प्रभुः
समर्था
न
भवति
।
किं
वा,
प्रकर्षेण
न
हि
भवतीति
निषेधस्यैव
प्रकर्षः
किञ्चिदपि
न
भवतीति
फलितार्थः
॥६०॥
इति
तद्गिरा
प्रमुदितोऽत्र
शिशिरऋतुजां
वनश्रियम्
।
बकरिपुरथ
कलयन्स
तदा
ललितं
जगाद
निजप्रियाम्
॥६१॥
वृन्दागिरा
प्रमुदितः
कृष्णो
ललितं
यथा
स्यात्निजप्रियां
राधां
जगाद
।
शिशिरऋतुजामिति,
कौमुद्यां
ऋत्यकः
इति
सूत्रात्सन्धेर्विकल्पत्वम्
।
हरिनामामृते
च
ऋद्वयाद्वययोरृतीति
सूत्रात।
हिमऋतावपि
ताः
स्म
भृशस्विद
[
शि
.
व
.
६
.
६१
]
इति
माघः
॥६१॥
भ्रमदिन्दिन्दिरवृन्दं
सुन्दरि
शिशिरागमम्
।
दिशत्यत्र
मन्दादरमरविन्दे
विन्दति
कुन्दे
यदानन्दम्
॥६२॥
हे
सुन्दरि
!
अत्र
वनप्रदेशे
भ्रमदिन्दिन्दिराणां
भ्रमराणां
वृन्दं
यद्यस्मातरविन्दे
मन्दादरं
कुन्दे
आनन्दं
च
विन्दति,
तस्मात्शिशिरागमं
दिशति
॥६२॥
पश्येन्दिरेन्दिन्दिरवृन्दसंयुता
दन्दह्यमानं
प्रबलैर्हिमैर्निजम्
।
विहाय
सम्प्रत्यरविन्दमन्दिरं
कुन्दावलौ
सुन्दरि
मन्दिरीयति
॥६३॥
इन्दिन्दिरवृन्देन
भ्रमरसमूहेन
संयुता
इन्दिरा
लक्ष्मीः
प्रबलैर्हिमैर्सम्प्रति
दन्दह्यमानं
निजमरविन्दमन्दिरं
विहाय
त्यक्त्त्व
कुन्दावलौ
मन्दिरमिव
करोतीत्मन्दिरीयति
।
कमले
भ्रमरैः
सह
या
शोभा
आसीत्,
अधुना
कुन्दपुष्पे
अभूदित्यर्थः
॥६३॥
हिमानी
राहुसेनानी
सूर्यं
निर्जेतुमक्षमा
।
तस्मिन्प्रणयिनीं
ज्ञात्वाज्वालयत्पद्मिनीततिम्
॥६४॥
राहोः
सेनानीः
हिमानी
सूर्यं
निर्जेतुमसमर्था,
तस्मिन्सूर्ये
प्रणययुक्तां
पद्मिनीततिमज्वालयत॥६४॥
तोयोत्थिताया
व्रजकन्यकाततेः
स्तनावली
यां
स्मृतिमानिनाय
मे
।
पाकोन्मुखी
सद्बदरीफलावली
तामत्र
सा
मत्स्मृतिमानयत्यसौ
॥६५॥
वस्त्रहरणदिने
तोयादुत्थिताया
व्रजकन्यकाततेः
स्तनावली
यां
पाकोन्मुखीं
सद्बदरीफलावलीं,
सा
अत्र
वने
तां
स्तनावलीं
मम
स्मृतिमानयति
प्रापयति
॥६५॥
हरिरथ
दयिताया
वृन्दयानीय
दत्तौ
सितमृदुलजवान्तर्मञ्जरीकर्णपूरौ
।
सपुलककरकम्पं
कर्णयोः
संन्यधत्त
श्रुतियुगमनु
तस्यैषापि
कौन्दावतंसौ
॥६६॥
हरिर्वृन्दया
आनीय
दत्तौ
सितमृदुलजवा
सुगन्धपुष्पविशेषोऽन्तर्मध्ये
ययोस्तौ
।
मञ्जरीरूपकर्णपूरौ
कर्णभूषणे
सपुलककरकम्पं
यथा
स्यात्तथा
दयिताया
राधायाः
कर्णयोः
संन्यधत्त
।
एषा
राधापि
तस्य
कृष्णस्य
श्रुतियुगे
तथा
कौन्दावतंसौ
संन्यधत्त
॥६६॥
राधायाः
करपङ्कजेऽथ
निहिता
कौन्दी
मुदा
वृन्दया
या
माला
लघुलोहितोत्पलकुलस्रग्दीप्तिमेषा
दधे
।
सूक्ष्मेन्दीवरमाल्यरोचिरनया
कृष्णस्य
कण्ठेऽर्पिता
तेनास्या
हृदि
योजिता
सपुलके
चाम्पेयमाल्यद्युतिम्
॥६७॥
वृन्दया
राधायाः
करपङ्कजे
कौन्दी
कुन्दनिर्मिता
या
माला
निहिता,
एषा
माला
राधाकरस्यारुणिम्ना
लघुलोहितोत्पलकुलस्य
स्रग्दीप्तिं
दधे
।
अनया
राधया
कृष्णस्य
कण्ठे
सा
माला
अर्पिता
सती
कृष्णाङ्गकान्ता
सूक्ष्मेन्दीवरस्य
नीलोत्पलस्य
माल्यरोचिः
कान्तिं
दधे
।
तेन
कृष्णेन
सपुलके
अस्या
राधाया
हृदि
योजिता
सा
माला
राधाङ्गकान्त्या
चाम्पेयमाल्यद्युतिं
दधे
।
एका
कुन्दमाला
संसर्गजन्यवर्णत्रययुक्ता
अभूदित्यर्थः
॥६७॥
स्मेरा
विशाखाऽवददेतदद्भुतं
सुकोमला
पश्यत
कुन्दवल्लिका
।
एकैव
पुष्पिण्यनिशं
स्मरोन्मदैः
क्रमोत्क्रमाभ्यां
भ्रमरैः
प्रपीयते
॥६८॥
स्मेरा
विशाखाह
।
एतदद्भुतं
पश्यत
।
एकैव
सुकोमला
कुन्दवल्लिका
अनिशं
सदा
पुष्पिणी
स्मरोन्मदैः
स्मरोन्मत्तैः
भ्रमरैः
क्रमोत्क्रमाभ्यां
प्रपीयते
।
इति
कुन्दवल्लिकेति
परिहासाक्षिप्त
तन्नामगोपीपक्षे
।
अद्भुतं
तनुलता
पक्षे
।
गोपीपक्षे
तु
पुष्पिणी
ऋतुमती
।
भृङ्गैः
पुरुषैः
।
अद्भुतमिति
परिहासेन
निन्दा
॥६८॥
चित्राब्रवीत्साध्वि
न
चित्रमेतत्
सौभद्रमेषां
रमणं
यदस्याम्
।
विभात्यमीष्वत्यनुरागवत्यां
प्रचेतसामास
यथैव
वार्क्ष्याम्
॥६९॥
श्रीचित्रा
तद्द्रढयन्ती
सती
समादधाति—
हे
साध्वि
विशाखे
!
अमीषु
भ्रमरेषु
अनुरागवत्यामस्यां
कुन्दलतायामेषां
भ्रमराणामेतद्रमणं
यद्यस्मात्सौभद्रम्,
स्वार्थेऽण्
सुमङ्गलं
सुखदं
विभाति,
तस्माच्चित्रं
न
।
कथमिव ?
यथा
प्रचेतःस्वनुरागवत्यां
वार्क्ष्यां
कन्यायां
प्रचेतसां
रमणं
सुमङ्गलं,
तथा
गोपीपक्षे
तु,
सुभद्रोऽस्याः
पतिस्तस्य
रमणं
यस्मादस्यां
विभाति,
तस्मादेषां
भ्रमराणां,
श्लेषे
पुरुषाणामेतद्रमणं
सौभद्रं
रमणमस्यां
न
चित्रम्
।
सौभद्ररमणपात्र्यां
सौभद्ररमणमुचितमेवेत्यर्थः
।
एतत्सर्वं
लीलांशे,
सिद्धान्ततस्तु
श्रीकृष्णशक्तीनां
श्रीकृष्णैकान्तकान्तानां
श्रीमद्व्रजसुन्दरीणां
ऋत्वादिकः
सामान्यस्त्रीधर्मोऽपि
पतिसङ्गश्च
नास्ति
।
तथा
हि—
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य
एव
निजरूपतया
कलाभिः
[
ब्र
.
सं
.
५
.
४८
]
इति,
श्रियः
कान्ताः
कान्तः
परमपुरुषः
[
ब्र
.
सं
.
५
.
५६
]
इति,
नासूयन्खलु
कृष्णाय
मोहितास्तस्य
मायया
।
मन्यमानाः
स्वपार्श्वस्थान्स्वान्स्वान्दारान्व्रजौकसः
॥
[
भा
.
पु
.
१०
.
३३
.
३७
]
इति,
न
जातु
व्रजदेवीनां
पतिभिः
सह
सङ्गमः
[
उ
.
नी
.
३
.
३२
]
इत्यत्र
प्रमाणानि
प्रसिद्धानि
॥६९॥
कौन्द्याललाप
कलयाद्भुतमालि
फुल्लान्
स्वान्स्वान्निजान्तिकगतानपि
बन्धुजीवान।
सन्त्यज्य
धैर्यरहिता
नवबन्धुजीवम्
एकं
पिबन्ति
तमिमं
शतशो
भ्रमर्यः
॥७०॥
कौन्दी
सर्वाः
प्रत्याक्षिप्य
तां
चित्रामाललाप—
हे
आलि
चित्रे
!
अद्भुतं
पश्य,
शतशो
भ्रमर्यो
धैर्यरहिताः
सत्यः
फुल्लानपि
निजान्तिकगतान्,
अत
एव
स्वान्स्वान्बन्धुजीवान्बन्धुजीवपुष्पाणि
सन्त्यज्य,
एकमपि
तं
प्रसिद्धमिममङ्गुलीनिर्दिष्टं
नवं
बन्धुजीवं
पिबन्ति
।
श्लिष्टपक्षे,
शतशो
भ्रमर्य
इव
भ्रमर्यो
गोप्यो
अर्थादिमाः
फुल्लानपि
निजान्तिकगतान्निजगृहस्थितानपि
स्वान्स्वानपि
बन्धुजीवान्बन्धूनां
निजनिजकुलानां
जीवनतुल्यानपि
पतीन्पाणिग्राहकान्सन्त्यज्य,
एकमपि
तमिमं
बन्धुजीवं
बन्धुश्चासौ
जीवश्चेति
तम्
।
बन्ध्यते
अस्मिन्निति
बन्धुः
जीवस्य
बन्धुः
बन्धुजीवः
राजदन्तादिवत।
तं
श्रीकृष्णं
पिबन्ति
भजन्ति
॥७०॥
चित्राह
सारग्रहिलातिपूता
कृष्णत्विडुद्यन्मधुमात्रवृत्तिः
।
भृङ्गीततिः
पञ्चमगानगुर्वी
यत्रातिशुद्धं
मधु
तत्र
सक्ता
॥७१॥
चित्रा
प्रत्युत्तरमाह
।
कृष्णस्य
त्विडिव
त्विट्कान्तिर्यस्या
।
अत
एव
अतिपूता
कृष्णमुरलीगानवत।
पञ्चमगाने
गुर्वी
श्रेष्ठा
भृङ्गीततिः,
यत्रातिशुद्धं
मधु
तत्र
सक्ता
आसक्ता,
यतः
सारग्रहिला
सारग्राहिणी
।
उद्यन्ती
मधुमात्रवृत्तिर्जीवनोपायो
यस्या
सा
।
श्लिष्टपक्षे,
कृष्णा
त्विट्कान्तिर्यस्या
।
तडित
इव
तो
मेघचक्रे
विरेजुरिति
।
किं
वा,
कृष्णस्य
त्विट्कान्तिर्यस्या
सकाशात्तत्रातिशुशुभे
ताभिर्भगवान्देवकीसुतः
[
भा
.
पु
.
१०
.
३२
.
२
]
इति
।
किं
वा,
चन्द्रस्य
चन्द्रिकावत्कृष्णस्य
त्विट्कान्तिरूपा
सा
अतिपूता
पञ्चमगानगुर्वी
भृङ्गीततिर्गोपीततिः
।
यत्र
मधु
मधुवदास्वाद्यमानत्वात्सर्वसारत्वाच्च
मधु
प्रेम
तत्रासक्ता
।
यतः
सारग्रहिला,
प्रेममात्रं
वृत्तिः
प्राणधारणं
यस्या
सा
॥७१॥
तां
नर्मणाथ
दयितां
हरिराबभाषे
राधे
तवातुलगुणैर्विधुताभिमाना
।
श्रीः
सापि
नार्हति
तवानुगतिं
कुतोऽन्याः
श्रुत्वेति
सापि
हरिणा
सह
संललाप
॥७२॥
अथ
हरिस्तां
प्रसिद्धां
दयितां
श्रीराधां
परिहासेनाह—
हे
राधे
!
सा
प्रसिद्धा
श्रीर्लक्ष्मीरपि
तवातुलगुणैर्विधूताभिमाना
सती
तवानुगतिं
नार्हति
।
अन्याः
कुतः ?
नायं
श्रियोऽङ्ग
उ
नितान्तरतेः
प्रसादः
स्वर्योषितां
नलिनगन्धरुचां
कुतोऽन्याः
।
रासोत्सवेऽस्य
भुजदण्डगृहीतकण्ठ
लब्धाशिषां
य
उदगाद्व्रजवल्लभीनाम्
॥
[
भा
.
पु
.
१०
.
४७
.
६०
]
इति
श्रुत्वा
सा
श्रीराधा
हरिणा
सह
संललाप,
संलापी
भाषणं
मिथः
॥७२॥
सा
श्रीः
।
त्वत्स्त्री
॥७३॥
यत्त्वम्
।
सा
श्रीः
॥७४॥
छन्दोमञ्जर्युक्तचतुरक्षरादिछन्दो
वृद्धिक्रमेणाह—
श्रीराधाह—
सा
श्रीस्तव
स्त्री
॥७३॥
श्रीकृष्ण
आह—
यत्यस्मात्त्वम्,
सा
श्रीः
॥७४॥
गोपस्त्रीणाम्
।
श्रीत्वं
कस्मात॥७५॥
गोपस्त्रीशः
।
श्रीशो
यस्मात॥७६॥
श्रीराधाह—
गोपस्त्रीणामस्माकं
श्रीत्वं
लक्ष्मीत्वं
कस्मात्?
॥७५॥
श्रीकृष्ण
आह—
यस्माद्गोपस्त्रीशोऽहं
श्रीशः,
तस्माद्यूयं
श्रियः
॥७६॥
व्यक्तस्ते
नारीत्वे
।
लोलाया
रागोऽस्याः
॥७७॥
सत्यं
मे
नारित्वम्
।
प्राप्ता
सा
त्वद्रूपा
॥७८॥
श्रीराधाह—
अस्या
लोलायाश्चञ्चलायाः
लक्ष्म्यास्ते
नारीत्वे
देवीत्वं
विहाय
नवरूपस्य
तव
पत्नीत्वे
रागो
व्यक्तः
।
यद्वाञ्छया
श्रीर्ललनाचरत्तपो
विहाय
कामान्सुचिरं
धृतव्रता
[
भा
.
पु
.
१०
.
१६
.
३६
]
इत्यादि
॥७७॥
श्रीकृष्ण
आह—
त्वद्रूपा
सा
श्रीः
सत्यं
मे
नारीत्वं
प्राप्ता
॥७८॥
वेणुनाकर्षिता
।
मृग्यपि
त्वत्प्रिया
॥७९॥
त्वत्सदृग्लोचना
।
तन्मृगी
मत्प्रिया
॥८०॥
श्रीराधाह—
वेणुनाकर्षिता
मृग्यपि
तव
प्रिया
॥७९॥
श्रीकृष्ण
आह—
यस्मान्मृगी
तव
लोचनयोः
सदृशे
लोचने
यस्या
सा,
तस्मात्मम
प्रिया
॥८०॥
कान्त्या
नाम्ना
साम्यं
प्राप्ता
।
भास्वत्कन्या
सा
ते
कान्ता
॥८१॥
यालीयं
ते
शाखा
हीना
।
कान्तेयं
मे
सा
त्वद्रूपा
॥८२॥
श्रीराधाह—
भास्वत्कन्या
यमुना
कृष्णकान्त्या
कृष्णा
नाम्ना
च
साम्यं
प्राप्ता
॥८१॥
श्रीकृष्ण
आह—
ते
तव
या
इयमाली
शाखारहिता
विशाखा
इयम्
।
मे
कान्ता
सा
विशाखा
त्वद्रूपा
॥८२॥
वक्षसि
भृङ्गीपङ्क्तिरियं
ते
।
सा
स्रजि
सुप्तास्ते
रमणीव
॥८३॥
अलकावली
सदृशीह
ते
।
यदसौ
सदा
मम
तत्प्रिया
॥८४॥
श्रीराधाह—
प्रसिद्धेयं
सा
भृङ्गीपङ्क्तिस्ते
रमणीव
स्रजि
ते
वक्षसि
सुप्ता
अयित्वास्ते,
अत
इयं
ते
रमणी
॥८३॥
श्रीकृष्ण
आह—
असौ
भ्रमरपङ्क्तिर्यद्यस्मात्ते
अलकावल्याः
सदृशी,
यद्यस्मात्सदा
मम
प्रिया
॥८४॥
नीलोत्पलमृद्वी
मूर्तिस्तनुमध्या
।
सप्ताहमगं
ते
दध्रे
कथमेषा
॥८५॥
अञ्जः
कथमुच्चैर्हेमाचलयुग्मम्
।
मृद्वी
तव
मूर्तिर्धत्ते
हृदि
नित्यम्
॥८६॥
श्रीराधाह—
एषा
ते
मृद्वी
मूर्तिसगं
गोवर्धनं
कथं
दध्रे
॥८५॥
श्रीकृष्ण
आह—
मया
सप्ताहं
पर्वतो
धृत
एव
मृद्वी
मूर्तिर्नित्यं
सुमेरुयुग्मं
धत्ते
॥८६॥
वियोगासहिष्णुः
प्रिया
सोमराजी
।
कलाभिर्विभिन्ना
हृदि
भ्राजते
ते
॥८७॥
शशिवदनायास्तव
नखपङ्क्तिः
।
मनसि
धृता
मे
बहिरपि
साभूत॥८८॥
श्रीराधाह—
वियोगासहिष्णुः
कलाभिर्विभिन्ना
प्रिया
सोमराजी
तत्तुल्यस्वर्णरेखा
ते
हृदि
विराजते
॥८७॥
श्रीकृष्ण
आह—
मनसि
धृता
ते
नखपङ्क्तिः
मे
बहिरपि
साभूत॥८८॥
व्रततिततिरियं
सततमधुमती
।
भ्रमरयुगपि
ते
मुदमति
तनुते
॥८९॥
सदधरमिव
ते
किशलयनिचयम्
।
वहति
च
कुसुमं
स्मितमिव
यदियम्
॥९०॥
श्रीराधाह—
सदा
मधुयुता
इयं
व्रततिततिर्लताश्रेणी
भ्रमरयुगपि
ते
मुदमति
तनुते
॥८९॥
सदधरमिव
ते
किशलयनिचयम्
।
वहति
च
कुसुमं
स्मितमिव
यदियम्
॥९०॥
कुमार
ललितेयं
कुमारललिताङ्गी
।
सुमाररणशूरा
कुमारजननीव
॥९१॥
वचःसमरशूरा
सुकण्ठिललितेयम्
।
सुमाररणहूता
पलायनपरास्ते
॥९२॥
श्रीराधाह—
कुमारयति
क्रीडतीति
कुमारस्तत्सम्बोधनम्
।
कुमार्क्रीडायां
धातुः
।
हे
कुमार
!
इयं
ललिता
कुमारे
क्रीडायां,
किं
वा,
कुमारस्य
भावः
.
कुमारं
भावेऽण्
तस्याणित्त्वं,
कौमारमित्यर्थः
।
तदभिव्यप्य
ललितं
मनोज्ञमङ्गं
यस्यास्तथाभूतापि
शोभनं
यथा
स्यात्तथा
मारस्य
कन्दर्पस्य
रणे
शूरा
कुमारजननी
पर्वतीव
॥९१॥
श्रीकृष्ण
आह—
हे
सुकण्ठि
!
इयं
ललिता
वाचःसमरे
वाग्युद्धे
शूरा,
सुमाररणे
हूता
शोभनकन्दर्पयुद्धे
आहूता
सती,
पलायनपरा
आस्ते
भवति
॥९२॥
सौवर्णाम्बुजकोषे
लग्ना
भात्यलिपङ्क्तिः
।
वक्षोजोपरि
चित्रा
यद्वत्ते
मदलेखा
॥९३॥
सर्वेषामेव
व्रजवासिनां
यथायोग्यचेष्टामात्रस्य
कृष्णसुखतात्पर्यत्वेन
श्रीराधिकाया
उत्कर्षशास्त्रेन
श्रीकृष्णस्यापारसुखं
ज्ञात्वैव
यथा
सखीभिः
श्रीराधिकायाः
प्रत्यङ्गस्यानेकविधोपमाचातुर्यवैदग्ध्यादिभङ्ग्या
श्रीकृष्णवाञ्छापूर्तिः
क्रियते
।
तथैव
श्रीराधिकाया
अवज्ञाबोधकवाक्ये
ततोऽधिकसुखं
ज्ञात्वैव
श्रीराधायाः
प्रश्नः
कृतः
।
तेन
स्ववाञ्छापूर्तिं
कृत्वा
पुनस्तस्या
वाङ्माधुरी
नास्वादयितुं
स्वयं
श्रीकृष्णः
पृच्छति—
सौवर्णेति
।
श्रीकृष्ण
आह—
ते
वक्षोजोपरि
मृगमदस्य
यद्वत्चित्रा
मनोहरा
तथा
सुवर्णपद्मकोषे
लग्ना
भ्रमरपङ्क्तिर्भाति
॥९३॥
चित्रपदा
तव
वाणी
भाति
यथा
सुकृपाणी
।
इन्द्रियहृद्विहरन्तः
कृतन्ति
हृत्तरुणीनाम्
॥९४॥
श्रीराधाह—
चित्रपदा
तव
वाणी
सैव
सुष्ठु
कृपाणी
शाणितलघुखड्गो
भाति
।
अल्पार्थे
ईप।
साद्धर्म्यमाह—
सा
यथा
छेदभेदक्रियाभ्यां
बहिरन्तश्च
कृतन्ति,
तथा
ते
वाणी
बहिरिन्द्रियाणि
अन्तर्हृद्हृदयं
कृन्तति
।
इन्द्रियहृदोः
समाहारोऽत्र
॥९४॥
गायति
पञ्चममुच्चैर्यत्सहजं
पिक
एषः
।
दर्पकरुक्तरुणीनां
स्यादिह
कः
पिकदोषः
॥९५॥
श्रीकृष्ण
आह—
एष
पिकः
यत्सहजं
पञ्चमस्वमुच्चैर्गायति
।
तेन
तरुणीनां
दर्पकः
कन्दर्पस्तज्जन्या
रुक्रोगः
स्यात।
इह
स्थले
कः
पिकस्य
दोषः,
तथा
मे
वाण्याः
को
दोषः
॥९५॥
विधर्मशास्त्रशंसिका
तवातुला
सुवंशिका
।
कुकुट्टिनीक्रियापरा
जगद्वधूप्रमाणिका
॥९६॥
श्रीराधाह—
विगतो
धर्मो
लौकिको
वैदिकश्च
यस्मात्तत।
शास्त्रं
शंसितुं
शीलं
यस्या
सा
।
कुत्सितकुट्टिनीनां
क्रिया
सैव
परा
यस्या
सा
ते
सुष्ठु
वंशिका
।
असवः
प्राणास्तीव
वंशिका
अनुवंशिका
वा
अतिप्रियत्वात्,
असुः
असाधुर्वा
वंशिका
।
उत्क्रियायाः
सकाशात।
जगतां
वध्वः,
प्रमाणं
यस्या
सा
॥९६॥
योषिदालिदोषनाशहेतुरस्ति
वंशिकेह
।
धर्मशास्त्रशंसिकाद्य
मत्स्पृहासमानिका
हि
॥९७॥
श्रीकृष्ण
आह—
येन
केन
प्रकारेण
मनः
कृष्णे
निवेशयेतित्यादिधर्म्शास्त्रशंसिका
।
अन्यदपि
परमधर्ममाह—
योषिदालिदोषनाशहेतुर्योषितां
श्रेणीनां
को
दोषः
वंशीध्वनिना
विमोहिताः
सत्यः
कृष्णं
यान्तीत्यादि
रीत्या
स्वस्मिन्तासां
दोषं
नीत्वा
तासां
दोषनाशहेतुः
।
मे
या
याः
स्पृहा
जायन्ते
नासां
समानिकासदृशो
सिद्धिकर्त्री,
वा
किं
वा,
सम्यक्प्रापयित्री
नीञ्
प्रापणे
आनयतीति
आनीः
क्विबन्तः
स्वार्थे
कः
।
स्त्रीत्वादाफ्रस्वो
वा
इति
सूत्रेण
कापि
परे
ह्रस्वः
।
किं
वा,
तासां
सम्यकानिका
जीवयित्री
सकलीकर्त्री
।
अनप्राणने,
ञ्यन्तो
वुण्
॥९७॥
कात्यायनीव्रतपरा
मृदुला
कन्यकाततिः
।
सहते
कथमामर्दं
मत्तेभसदृशस्तव
॥९८॥
मृदुला
कन्यकाततिः
मत्तहस्तितुल्यस्य
ते
।
आमर्दं
कथं
केन
प्रकारेण
सहते
॥९८॥
गणिका
कलिकाप्राया
मत्तोऽयं
भ्रमरो
महान।
पुष्णाति
तं
तदामर्दं
सहमानाक्षता
न
किम्
॥९९॥
श्रीकृष्ण
आह—
कलिकाप्राया
गणिका
यूथिकापुष्पं
वेश्या
च
।
अयं
भ्रमरो
महान्मत्तः
।
तत्तस्य
भ्रमरस्य
भृङ्गस्य
कामुकस्य
च
आमर्दं
सहमाना
सती
अक्षया
सती,
तं
मत्तभ्रमरं
कामुकं
च
न
किं
पुष्णाति,
अपि
तु
पुष्णात्येव
।
गणिका
यूथिकाम्बष्ठा
इति
।
वारस्त्री
गणिका
वेश्या
इत्यमरः
।
भ्रमरः
कामुके
भृङ्गे
इति
विश्वः
॥९९॥
तव
नवकनकक्षौणी
भुजगशिशुसृतापीष्टा
।
इयमिह
तनु
रोमालीयुगुदरसदृशी
यत्ते
॥१००॥
तवेयं
नवकनकस्य
क्षौणी
पृथ्वी
यद्यस्मात्ते
रोमावलीयुक्तोदरसदृशी
तस्मादियं
भुजगशिशोः
सर्पबालकस्य
सृतं
सृतिर्गमनं
यत्र
तथाभूतापीष्टा
॥१००॥
तव
सा
प्रियाद्रिहाटकस्थल्यपि
भुजङ्गसङ्गता
।
यदियं
विभाति
वेणिकायुतपृष्ठपट्टिके
रतिः
॥१०१॥
तवेयं
सा
अद्रेः
पर्वतस्य
स्वर्णस्थली
यद्यस्मात्ते
वेणुयुता
पृष्ठ
एव
पट्टिका
सा
इव,
तस्मात्भुजङ्गसङ्गतापि
प्रिया
सती
विभाति
॥१०१॥
कथमियं
चकोरवीथिका
प्रिय
विहाय
चन्द्रसन्निधिम्
।
अहनि
सङ्गतेह
खेऽन्तिके
भ्रमति
नन्दिता
मनोरमा
॥१०२॥
श्रीराधाह—
हे
प्रिय
!
इयं
नन्दिता
मनोरमा
चकोरवीथिका
चन्द्रसन्निधिं
विहाय
इहान्तिके
खे
आकाशे
अहनि
सङ्गता
भ्रमति
॥१०२॥
हित्वा
खेन्दुं
क्षययुजमेषा
दृष्ट्वा
कल्पं
निजपरिपोषे
।
पीत्वा
तत्श्रीमुखविधुकान्ति
ज्योत्स्नां
मत्वा
सुखमिह
भाति
॥१०३॥
श्रीकृष्ण
आह—
राधे
!
खे
आकाशे
इन्दुः
खेन्दुस्तं
क्षययुक्तं
हित्वा
ते
मुखचन्द्रो
ज्योत्स्नां
पीत्वा
निजपरिपोषे
कल्पसमर्थ्यं
ते
मुखं
मत्वा
यथा
स्यात्तथा
इह
भाति
॥१०३॥
प्रश्नोत्तराभ्यामथ
नर्मभङ्ग्या
तत्तत्स्वभावस्तुतिगर्भपद्यैः
।
राधाच्युतौ
तत्प्रणयातिनिघ्नौ
विलज्जयामासतुरालिपालीः
॥१०४॥
तत्तासां
प्रणयेनातिनिघ्नौ
अत्यायत्तौ
राधाच्युतौ
प्रश्नोत्तराभ्यां
नर्मभङ्ग्या
परिहासच्छलेन
तत्येषां
स्वभावस्य
स्तुतिगर्भं
येषां
तैः
।
पद्यैरालिपालीः
सखीश्रेणीर्विलज्जयामासतुः
।
तादृशप्रश्नोत्तरे
सामर्थ्याभावात॥१०४॥
पटुवाक्प्रखरा
चण्ड्यपि
विषमेषु
रणे
पलायते
हूता
।
तत्रोत्कान्याश्चास्मान्
निवारयति
का
वदाशु
ललिता
सा
॥१०५॥
यथा
राधाकृष्णयोः
स्वरूपादिवर्णनं
कृत्वा
निर्वृतियुक्ताः
ललितादयो
भवन्ति
।
तथा
ललितादीनां
कृत्वा
राधाकृष्णौ
भवतः
।
इति
कृष्णप्रश्नराधोत्तराभ्यामाह—
पटुर्निपुणा
वाक्यस्या
प्रखरा
चण्डी
अपि
विषमेषुः
कन्दर्पस्तस्य
रणे
आहूता
पलायते
।
तत्र
रणे
उत्कण्ठिता
अन्याः
अस्मात्रणात्या
निवारयति
सा
का
आशु
वद,
तत्राह
ललिता
॥१०५॥
विषमशराहवविमुखी
कुचयुगकुङ्कुममदागुरुपटीरैः
।
क्वचिदाराधयतीष्ट
देवं
वद
का
विशाखेयम्
॥१०६॥
कन्दर्पयुद्धे
विमुखी
।
क्वचिदभीष्टदेवं
स्वकुचगतैः
कुङ्कुमादि
पटीरैः
सुगन्धचूर्णैराराधयति
का
इयं,
विशाखा
॥१०६॥
वल्ल्यपि
चङ्क्रममाणा
हित्वान्तिकगं
धवं
सुदूरस्थम्
।
समिता
कृष्णतमालं
विभाति
का
कथय
चम्पकलतेयम्
॥१०७॥
वल्ली
लता
तन्नाम्नी
च
चङ्क्रममाणा
गमनपरा
अन्तिकगं
धवं
कृष्णं
पतिं
च
हित्वा
सुदूरस्थं
कृष्णतमालवृक्षं
श्रीकृष्णं
च
सम्यकिता
प्राप्ता
का
विभाति
।
चम्पकलतेयम्
॥१०७॥
नानाचित्रे
निपुणा
बहुविधशृङ्गाररचनाभिः
।
मृदुरतिमानासहना
सुखयति
नः
केह
चित्रेयम्
॥१०८॥
बहुविधशृङ्गाररचनाभिः
सह
नानाचित्रे
निपुणा,
मृदुः
कोमला,
अतिभावं
न
सहते
।
अतिमानासहना
का
नोऽस्मान्सुखयति—
चित्रा
॥१०८॥
वल्ल्यपि
चङ्क्रममाणा
हित्वान्तिकगं
धवं
सुदूरस्थम्
।
समिता
कृष्णतमालं
विभाति
का
कथय
चम्पकलतेयम्
॥१०७॥
वल्ली
लता
तन्नाम्नी
च
चङ्क्रममाणा
गमनपरा
अन्तिकगं
धवं
कृष्णं
पतिं
च
हित्वा
सुदूरस्थं
कृष्णतमालवृक्षं
श्रीकृष्णं
च
सम्यकिता
प्राप्ता
का
विभाति
।
चम्पकलतेयम्
॥१०७॥
नानाचित्रे
निपुणा
बहुविधशृङ्गाररचनाभिः
।
मृदुरतिमानासहना
सुखयति
नः
केह
चित्रेयम्
॥१०८॥
बहुविधशृङ्गाररचनाभिः
सह
नानाचित्रे
निपुणा,
मृदुः
कोमला,
अतिभावं
न
सहते
।
अतिमानासहना
का
नोऽस्मान्सुखयति—
चित्रा
॥१०८॥
कन्दर्पागमविद्या
पटुरिह
निभृतं
स्वशिष्यस्य
।
स्वाङ्गान्यङ्गे
न्यस्यति
या
तां
कथयाशु
तुङ्गविद्येयम्
॥१०९॥
कन्दर्पागमस्य
कन्दर्पशास्त्रस्य
विद्यायां
पटुर्निभृतं
यथा
स्यात्तथा
स्वशिष्यस्य
स्वस्यास्तस्यास्तां
विद्यामर्थान्मम
अङ्गे
या
स्वाङ्गानि
न्यस्यति
तां
वद—
तुङ्गविद्या
।
गुरुत्वे
प्रमाणं,
सहाया
गुरवः
शिष्या
भुजिष्या
बान्धवाः
स्त्रियः
।
सत्यं
वदामि
ते
पार्थ
गोप्यः
किं
मे
भवन्ति
न
॥
इति
॥१०९॥
उदये
प्रकटितरागा
विशदापीह
कुटिला
स्वकलायाम्
।
मदनोदयजननेक्षा
का
तां
ब्रूहीन्दुलेखेयम्
॥११०॥
उदयसमये
प्रकटितरागो
यया
सा,
स्वस्याः
कलायाम्
।
गोपीपक्षे,
कामकलायाम्
।
चन्द्रपक्षे,
षोडशभागरूपकलायां
विशदापि
सुष्ठु
कुटिला
।
मदनोदयस्य
जननमुत्पत्तिरीक्षाया
दर्शनात्यस्या
सा
का ?
इन्दुलेखा
॥११०॥
रङ्गे
नटनैर्लास्यैर्
दीव्यन्ती
नः
सुखयति
सह
नृत्ये
।
वेवेष्टि
द्रुतगत्या
मामपि
केह
वद
रङ्गदेवीयम्
॥१११॥
रङ्गे
रङ्गभूमौ
सह
नृत्ये
नटनैर्लास्यैर्दीव्यन्ती
नोऽस्मान्सुखयति
।
द्रुतगत्या
मामपि
वेवेष्टि
।
रङ्गदेवी
॥१११॥
पाशककेलौ
निपुणा
चुम्बकरत्नं
पणीकृतं
जित्वा
।
मामपि
गृह्नात्यजये
दित्सति
नहि
का
सुदेवीयम्
॥११२॥
पाशककेलौ
निपुणा
मां
जित्वा
पणीकृतं
चुम्बकरत्नं
न
गृह्नाति
।
अजये
पराजये
च
चुम्बकरत्नं
का
नहि
दित्सति
दातुमिच्छति,
तां
वद
।
सुदेवी
॥११२॥
तृप्तावन्यजनस्य
तृप्तिमयिता
दुःखे
महादुःकिता
लब्धैः
स्वीयसुखालिदुःकनिचयैर्नो
हर्षबाधोदयाः
।
स्वेष्टाराधनतत्परा
इह
यथा
श्रीवैष्णवश्रेणयः
कास्ता
ब्रूहि
विचार्य
चन्द्रवदने
ता
मद्वयस्या
इमाः
॥११३॥
अन्यजनस्य
तृप्ताव्सत्यां
यास्तृप्तिमयितास्तृप्तिं
प्राप्ताः
।
अन्यजनस्य
दुःखे
प्राप्ते
स्वयं
महादुःखिताः
।
स्वीयसुखसमूहैनं
हर्षस्य
उदयो
दुःखसमूहैर्न
बाधोदयः
पीडाया
उदयो
यासां
ताः
।
स्वेष्टस्य
राधने
तत्पराः,
इह
स्थाने,
ताः
काः ?
हे
चन्द्रवदने
ब्रूहि
!
श्रीराधाह—
इमा
ललितादयो
मद्वयस्याः
।
यथा
श्रीवैष्णवश्रेणय
इत्यनेन
वैष्णवमात्रस्य
ग्रहणात्,
सकलवैष्णवेषु
सूक्ष्मरूपेण
एतेषां
गुणानां
स्थितावनुमानम्
।
स्थूलरूपेण
तु
श्रीनारदप्रह्लादादिषु
सर्वत्र
प्रसिद्धम्
।
सनातनगोस्वामिप्रभृतिषु
गुरुपरम्परया
श्रुतम्,
अधुना
श्रीगौरभक्तगणेषु
क्वापि
क्वापि
अन्यभगवद्भक्तेषु
च
क्वापि
क्वापि
दृष्टं,
भाग्यवशात्यथार्थानुभवं
भवति
॥११३॥
इत्थं
दीव्यन्नविकलकलाशालिसीमन्तिनीनां
नर्मच्छद्माधरकुचकरस्पर्शपुष्पार्चनाद्यैः
।
वल्लीनां
वा
किशलयफलास्वादमत्तः
पिकेशो
भ्रामं
भ्रामं
स
किल
ललितानन्ददं
कुञ्जमाप
॥११४॥
न
कृष्णः
वल्लीनां
किशलयादिफलास्वादेन
मत्तकोकिलो
वा
इव
दीव्यन्नविकलकलाशालिन्यः
पूर्णकलायुक्ता
याः
सीमन्तिन्यस्तासां
व्रजसुन्दरीणां
नर्मच्छलेनाधरकुचकरस्पर्शं
पुष्पार्चनाद्यैर्भूमिं
ललितानन्ददाख्यं
कुञ्जं
प्राप
॥११४॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे
श्रीरघुनाथदासकृतिना
श्रीजीवसङ्गोद्गते
।
काव्ये
श्रीरघुनाथभट्टविरजे
गोविन्दलीलामृते
सर्गोऽगाद्गणितस्त्रयोदशतया
मध्याह्नलीलामनु
॥ओ॥
गोविन्दलीलामृतस्य
मध्याह्न्वलीलायां
त्रयोदशतया
गणितः
सर्गः
समाप्तोऽभूत।
इति
सदानन्दविधायिन्यां
त्रयोदश
सर्गार्थः
॥१३॥
.
(
१४
)
चतुर्दशः
सर्गः
अथालिवर्गाननसौरभाहृतस्
ताभिर्मुखाब्जेषु
पतन्निवारितः
।
विन्दन्स
राधावदनाम्बुजं
रुवंस्
तद्गन्धमत्तः
परितोऽलिरञ्चति
॥१॥
अथालिवर्गाणामाननसौरभेणाहृत
आकृष्टोऽलिः
आलीनां
मुखाम्बुजेषु
पतन्ताभिरालिभिर्निवारितः
सन्,
सोऽली
राधामुखाम्बुजं
तद्गन्धमत्तो
रुवन्परितोऽञ्चति
॥१॥
नेत्रान्तोद्धुवनैश्च
कङ्कणझनत्कारोर्मिसन्तर्जनैस्
त्रासाद्दोलितपाणिपद्मधुवनैः
क्षिप्तोऽपि
भृङ्गो
यदा
।
लोभान्नापससार
तर्ह्यपसृता
श्रीराधिका
श्रीहरेः
संव्यानाञ्चलसंवृतास्यकमला
पार्श्वे
निलीय
स्थिता
॥२॥
श्रीराधिका
त्रासान्नेत्रान्तोद्धुवनैस्तथा
कङ्कणझनत्कारोर्मिभिः
सह
सन्तर्जनैस्तथा
दोलितपाणिपद्मधुवनैः
क्षिप्तोऽपि
भ्रमरो
यदा
लोभात्न
अपससार,
तदा
अपसृता
पलायिता
राधा
संव्यानमुत्तरीयवस्त्रं
तस्याञ्चलावृतमुखी
कृष्णपार्श्वे
निलीय
स्थिता
॥२॥
तस्मिन्गते
पद्मवनीमलौ
चले
तामाहुराल्यः
सखि
मा
भयं
कुरु
।
निवारितोऽस्माभिरसौ
रुवन्शठः
पद्मालिमुत्को
मधुसूदनो
गतः
॥३॥
तस्मिन्चले
चञ्चले
अलौ
भ्रमरे
पद्मवनीं
गते
सति
आल्यस्तां
राधामाहुः—
हे
सखि
!
भयं
मा
कुरु
।
अस्माभिर्वारितो
मधुसूदनोऽपि
पद्मालिं
गतः
॥३॥
आढ्यंकरण्या
सुभगंकरण्या
स्थूलंकरण्या
प्रणयोच्चलक्ष्म्या
।
अन्धंकरण्या
दयितं
पुरस्थं
नान्धीकृतासावनुसन्दधे
तम्
॥४॥
सखीभिर्मधुसूदनो
भ्रमरः
पद्मश्रेणीं
गतः
इत्युक्ते
राधा
तु
मधुसूदनः
कृष्णः
पद्मालिं
चन्द्रावलीं
गत
इतीति
बुद्ध्वा
।
प्रणयस्योच्चलक्ष्म्या
कीदृश्या ?
आढ्यं
घनान्वितं
करण्या
सुभगं
स्थूलमन्धमन्धीकृता
सा
राधा
पुरस्थं
तं
दयितं
कृष्णं
न
अनुसन्दधे
॥४॥
तावत्कृष्णेन
ताः
सख्य
इङ्गितज्ञेन
वारिताः
।
तत्पक्षं
जगृहुः
सख्या
विस्मिताः
प्रेमचेष्टितैः
॥५॥
सख्या
राधायाः
प्रेमचेष्टितैर्विस्मिताश्च
।
तावत्समये
ताः
सख्यः
कृष्णेन
वारिताः
।
कीदृशेन
कृष्णेन ?
इङ्गितज्ञेन
।
इङ्गिते
नेत्रान्तक्रियायां
ज्ञः
पण्डितस्तेन
इति
विशेषणादिङ्गितेन
वारिता
इति
बोध्यम्
।
यद्वा,
इङ्गितमेव
ज्ञः
स्वक्रियाकुशलस्तेनेति
करणेन
वारिताः
।
इङ्गितेनैव
वारिता
इति
पाठः
सुबोधः
।
तत्तस्य
कृष्णस्य
पक्षं
जगृहुः,
अत्रैव
कृष्णोऽस्तीति
उक्त्वा
राधां
न
निवारयामासुः
॥५॥
प्रेमवैचित्त्यविभ्रान्ता
कान्ता
कान्तान्तरं
गतम्
।
कान्तं
मत्वा
ततोऽभ्येत्य
रुष्टा
प्राह
धनिष्ठिकाम्
॥६॥
प्रेम्णा
वैचित्त्यं
विचित्तता
तेन
विभ्रान्ता
भ्रान्तियुता
कान्ता
राधा
कान्तं
कृष्णं
कान्तान्तरं
चन्द्रावलीं
गतं
मत्वा
रुष्टा
ततोऽभ्येत्य
धनिष्ठिकमागत्य
तामाह
॥६॥
धनिष्ठे
धृष्टस्ते
क्वनु
कपटनाटीनटि
नटस्
त्वदर्थं
स्वप्रेयान्कुसुममवचेतुं
सखि
गतः
।
गतोऽयं
पद्मालीं
कपटिनि
स
तामानयति
चेद्
भविष्यत्यप्येषा
तव
मुखरुचा
निर्जितरुचिः
॥७॥
धनिष्ठे
!
धृष्टस्ते
क्वनु
कपटनाटीनटि
!
नटस्त्वदर्थं
स्वप्रेयान्कुसुममवचेतुं
सखि
गतः
।
गतोऽयं
पद्मालीं
कपटिनि
स
तामानयति
चेद्भविष्यत्यप्येषा
तव
मुखरुचा
निर्जितरुचिः
॥७॥
दोषोऽत्र
ते
नास्त्यहमेव
मूढा
श्रुत्वापि
यातं
गहने
सशैब्यम्
।
विश्रभ्य
वाण्यां
तव
कूटदूत्या
यदागता
तस्य
शठस्य
पार्श्वम्
॥८॥
श्रीराधाह—
ते
दोषो
नास्ति
।
गहने
सशैब्यं
यातं
तत्श्रुत्वापि
कूटदूत्यास्तव
वाण्यां
विश्रभ्य
शठस्य
तस्य
पार्श्वमागताहमेव
भ्रान्ता
॥८॥
धनिष्ठैषाप्यस्मद्धृदयसदृशी
वञ्चयति
नः
स
चाप्यस्मानस्यन्विलसति
तया
मत्प्रियवने
।
इदं
चाप्यस्माकं
नयनविषयं
सम्प्रति
गतं
चिरं
जीवेद्योऽस्मिन्जगति
स
हि
वा
पश्यति
न
किम्
॥९॥
अतिदुःखेन
कामप्यनालोक्याधोमुखी
चिन्ताकुला
सत्याह—
धनिष्ठैषेत्यादि
श्लोकद्वयम्
।
अस्मद्धृदयसदृशी
एषा
धनिष्ठापि
नोऽस्मान्कृष्णोऽप्यस्मानस्यन्क्षिपनस्मान्त्यक्त्वा
इत्यर्थः
।
तया
पद्माल्या
सह
मत्प्रियवने
विलसति
।
इदं
च
मम
कुञ्जमध्ये
मम
प्रतिपक्षया
मत्प्रियस्य
रमणमस्माकमपि
नयनविषयं
गतं
प्राप्तम्
।
इह
जगति
चिरजीविजनः
किं
वा,
न
हि
पश्यति
।
अतो
मरणमेव
श्रये
इति
भावः
॥९॥
इदं
किं
सोढव्यं
भवति
यदयं
मत्प्रियसरो
निकुञ्जे
पद्मालीं
क्वचिदपि
निधायात्र
निभृतम्
।
समानाय्याप्यस्मान्क्षणमहह
सन्दर्श्य
शठधीर्
मुधालापारम्भं
न
इह
स
विहायागमदमूम्
॥१०॥
नन्वेवं
किमर्थं
वदसि
चेत्,
तत्राह—
अहह
इति
खेदे
।
अयं
कृष्णः
अत्र
मत्कुण्डस्य
कुञ्जे
क्वापि
निगूढस्थाने
पद्मालीं
निभृतं
निधाय
स्थापयित्वा
अस्मान्समानाय्य
क्षणं
मुधालापारम्भं
सन्दर्श्य
आचरित्वा
।
शठधीर्नोऽस्मान्विहाय
त्यक्त्वा
अमूं
पद्मालीमगमत।
यदिदं
किं
सोढव्यं
भवति ?
न
सोढव्यमिति
भावः
॥१०॥
ललिता
प्राह
तद्धार्ष्ट्यं
मया
दृष्टं
मुहुः
सखि
।
नावैषि
सरला
तत्त्वमेहि
यामः
स्वमन्दिरम्
॥११॥
कृष्णस्य
धार्ष्ट्यं
मया
मुहुः
दृष्टम्
।
सरला
त्वं
न
जानासि
।
एहि
स्वमन्दिरं
यामः
॥११॥
इति
तां
ललितापाणौ
धृत्वा
चक्रे
गृहोन्मुखीम्
।
सापि
तद्विरहाद्भीता
दीनार्तोत्का
जगाद
ताम्
॥१२॥
इत्युक्त्वा
ललितापाणौ
धृत्वा
तां
राधां
गृहोन्मुखीं
चक्रे
।
सा
राधापि
तद्विरहाद्भीता,
अत
एव
दीनार्ता
उत्कण्ठिता
सती
तां
ललितां
जगाद
॥१२॥
दृष्टान्दोषान्न
गृह्नाति
चिन्तयत्यसतो
गुणान।
दिदृक्षते
तादृशं
तं
वामं
चेतः
करोमि
किम्
॥१३॥
असतोऽविद्यमानानपि
गुणान्चिन्तयति
।
दृष्टानपि
दोषान्न
गृह्नाति
।
तत्र
हेतुमाह—
वामं
चेतः
तादृशमुक्तप्रकारं
तं
कृष्णं
दिदृक्षते
।
अत्र
किं
करोमि ?
॥१३॥
स्त्रीततेर्न
क्वचित्कामजाप्युर्जिता
लालसावल्लरी
दृश्यते
बाह्यगा
।
षष्ठिकाधान्यजातेरिवेतीरिता
सा
तया
तां
सखीं
राधिका
व्याहरत॥१४॥
षष्ठिकाधान्य
षाठीधान
इति
प्रसिद्धं
तस्य
जातेर्धानं
पक्वमपि
यथा
पत्रावृतं
तिष्ठति,
न
बहिर्गतं
भवति,
तथा
स्त्रीततेर्कामजा
कामजन्या
उर्जिता
वर्धितापि
लालसावल्लरी
न
क्वचिदपि
बाह्यगा
भूत्वा
न
दृश्यते
।
इति
सञ्चिन्त्य
तया
ललितया
ईरिता—
सखि
!
निजहृदयवृत्तिं
कथयेति
प्रेरिता
सती
सा
तां
राधिकासखीं
ललितां
व्याहरतवदत॥१४॥
त्यज
व्यर्थां
नारीचयनयकथां
कर्णतुदनीं
विनिर्यान्ति
प्राणाः
स्फुटति
मम
हृद्घूर्णति
वपुः
।
व्रजेन्नाशं
मानो
व्रजतु
महिमा
ह्रीश्च
सधृतिः
सखि
त्वां
वन्दे
हा
हृदयदयितं
दर्शय
लघु
॥१५॥
किमाह ?
व्यर्थां
नारीसमूहस्य
नीतिकथां
कर्णतुदनीं
कर्णव्यथाकरीं
त्यज
।
कर्णव्यथायां
हेतुमाह—
प्राणाः
विनिर्यान्ति,
हृत्स्फुटति,
वपुः
घूर्णति
।
एवं
चेत्मानादिर्न
स्थास्यति,
तत्राह—
मानो
नाशं
व्रजेत्,
विध्यर्थे
लिङ्,
व्रजत्वित्यर्थः
।
धृत्या
सह
महिमा
महत्त्वं
ह्रीर्लज्जा
च
व्रजतु
दूरीभवतु
।
हा
इति
कष्टे
।
हे
सखि
!
त्वां
वन्दे
लघु
शीघ्रं
हृदयदयितं
कृष्णं
दर्शय
॥१५॥
सारल्यं
ते
विविधरमणीलम्पटो
धृष्टभूपश्
चापल्यं
चाप्यनुपममिदं
क्वापि
रामास्वदृष्टम्
।
आलोक्येतोऽप्यधिकमहहो
वञ्चयिष्यत्यसौ
त्वां
त्वच्चारित्रैर्वयमिह
हताः
किं
पुनर्हंसि
वास्मान॥१६॥
श्रीललिताह—
स
धृष्टानां
राजा,
तत्रापि
विविधरमणीसुलम्पटः
।
ते
सारल्यं
ऋजुतां,
तथा
ते
चापल्यं
च
रामासु
क्वाप्यदृष्टमनुपमं
चालोक्यासौ
कृष्णस्त्वामितोऽप्यधिकं
वञ्चयिष्यति
।
त्वच्चरित्रैः
स्वार्थेऽण्,
तव
चरित्रैर्हता
वयं
किं
वा
पुनरस्मान्हंसि
॥१६॥
इतोऽपि
का
सास्त्यधिकात्र
वञ्चना
यया
शठोऽस्मान्स
कदर्थयिष्यति
।
इत्यालपन्ती
प्रियमैक्षताग्रतः
सालिङ्ग्य
काञ्चिद्दयितां
समागतम्
॥१७॥
इति
श्रुत्वा
श्रीराधातिकातरा
सत्याह—
इतोऽपीति
पद्यार्धम्
।
इतोऽप्यधिका
सा
का
वञ्चनास्ति,
यया
वञ्चनया
स
अस्मानतोऽधिकं
कदर्थयिष्यति ?
इत्यालपन्ती
सती
सा
राधा
अग्रतः
काञ्चिद्दयितामालिङ्ग्य
समागतं
प्रियं
श्रीकृष्णमैक्षत
॥१७॥
तां
वीक्ष्य
पश्चाद्दयितोपगूढां
स्वसंमुखीनां
प्रतिकुर्वतीं
स्वम्
।
पद्मासखीत्वेन
विनिर्णयन्ती
ह्रियेर्ष्यया
सा
विमुखी
चकम्पे
॥१८॥
तां
दयितामालिङ्गितां
नायिकां
कीदृशीं ?
पश्चात्पृष्ठदेशे
दयितेनालिङ्गिताम्
।
श्रीकृष्णस्याङ्गे
स्वप्रतिबिम्बस्य
तथैव
दर्शनात।
अत
एव
स्वसंमुखीनां
स्वसम्मुखे
स्थितानां
स्वं
प्रति
कुर्वतीं
स्वसदृशचेष्टां
कुर्वति
तां
वीक्ष्य
सा
राधा
पद्मासखीत्वेन
विनिर्णयन्ती
ह्रियेर्ष्यया
विमुखी
सती
क्रोधेन
चकम्पे
॥१८॥
वल्गूयन्तीं
समीक्ष्यामूं
मन्तूयन्तीह
राधिका
।
सा
कुन्दलतयाभाषि
कृष्णेनेरितया
दृशा
॥१९॥
वल्गूयन्तीं
विराजतीममूं
दयितवक्षोलग्नां
समीक्ष्य
मन्तूयन्ती
रुष्यन्ती
सती
सा
राधा
इह
समये
कृष्णेन
दृशा
ईरितया
कुन्दलतयाभाषि
।
वल्गू
पूजामाधुर्ययोः
।
माधुर्यं
शोभा,
मन्तु
रोषे,
एतौ
कण्ड्वादिधातुः
॥१९॥
कान्तं
द्रष्टुं
समुत्का
त्वमागतं
तं
समुत्सुकम्
।
द्रुतं
मिल
कथं
जातास्यकस्माद्विमुखी
रुषा
॥२०॥
हे
सखि
!
कान्तं
कृष्णं
द्रष्टुमुत्कण्ठिता
त्वं
त्वां
द्रष्टुमुत्सुकमागतं
तं
द्रुतं
मिल
।
कस्मात्हेतोः
रुषा
विमुखी
जातासि ?
॥२०॥
साप्याह
तां
हरेर्वक्षस्यमूं
किं
त्वं
न
पश्यसि
।
यां
प्रदर्शयितुं
गेहादानीताहं
त्वया
शठे
॥२१॥
सा
राधा
तामाह—
हरेर्वक्षसि
अमूं
पद्मालिं
किं
न
पश्यसि ?
हे
शठे
!
यां
कृष्णवक्षस्थां
पद्मालिं
प्रदर्शयितुमहं
त्वया
गेहादानीतास्मि ?
॥२१॥
कृष्णाब्रवीद्यां
मनुसे
न
सैषा
काप्यागतैकात्र
मयानुयुक्ता
।
राधावयस्या
वनदेवतास्मीत्य्
उक्त्वा
बलान्मां
परिरभ्य
सास्ते
॥२२॥
श्रीराधं
कृष्ण
आह—
हे
राधे
!
यां
मनुसे
एषा
सा
पद्माली
न,
एषा
काप्यनिर्वचनीया
एका
सत्यागता
मया
अनुयुक्तादृष्टैव, «
अहं
राधासखी
वनदेवता »
इत्युक्त्वा
बलान्मां
परिरभ्यालिङ्ग्यात्र
मद्वक्षसि
सास्ते
॥२२॥
आलिङ्ग्य
सञ्चुम्ब्य
च
मां
स्वविद्यया
पृष्ठेन
लग्नोरसि
मे
तथासकौ
।
यथा
न
निःसारयितुं
क्षमोऽस्म्यमूं
स्वयं
च
निःसर्तुमपि
प्रयत्नतः
॥२३॥
असकौ
वनदेवतां
मामालिङ्ग्य
सञ्चुम्ब्य
च
स्वविद्यया
मे
उरसि
पृष्टःएन
पृष्ठदेशेन
तथा
लग्ना
यथाहममूं
देवतां
प्रयत्नतोऽपि
निःसारयितुं
न
क्षमोऽस्मि
।
स्वयं
चासौ
प्रयत्नतोऽपि
निःसर्तुं
समर्था
न
भवति
॥२३॥
प्रार्थितापि
मया
नैषा
मां
जहात्यतिकामुकी
।
वारयैनां
निजसखीं
बलान्मां
पीडयत्यसौ
॥२४॥
एषा
मां
न
जहाति
।
एनां
वारय
॥२४॥
लग्नायां
ललितायां
तच्छ्रुतौ
सासीदधोमुखी
।
सकृष्णा
जहसुः
सभ्याः
कुन्दवल्ली
जगाद
ताम्
॥२५॥
तत्तस्याः
राधायाः
श्रुतौ
कर्णे
ललितायां
लग्नायां
कृष्णाङ्गे
तवैव
प्रतिबिम्बं
चन्द्रावली
न
इति
कथयन्त्यां
सत्यां
सा
राधामधोमुखी
आसीत।
सकृष्णाः
सभ्याः
सख्यो
जहसुः
।
कुन्दलता
राधां
जगाद
॥२५॥
नैवाक्षिलग्नं
दयितं
विलोकसे
छायां
निजामन्यजनीं
च
मन्यसे
।
सर्वत्र
चन्द्रावलिकां
विशङ्कसे
चित्रं
तवेदं
प्रणयाख्यनर्तनम्
॥२६॥
नेत्रगोचरं
कृष्णं
न
विलोकसे
निजां
छायामन्यां
मन्यसे
॥२६॥
तथाह
वृन्दा
व्रजमङ्गलाकरा
वालेपचित्रै
रुचिरां
सुविस्तृताम्
।
वसन्तलीलोत्सवरङ्गवेदिका
स्थलीमिमां
पश्यतमग्रतः
स्थिताम्
॥२७॥
हे
व्रजमङ्गलाकराः
!
आलेपानामगुरुप्रभृतीनां
चित्रैर्नानाविधै
रुचिरामग्रतः
स्थितां
वसन्तलीलोत्सवस्य
रङ्गो
यत्र
तां
वेदिकास्थलीं
पश्यतम्
॥२७॥
अगुरुघुसृणकस्तूरीन्दुसच्चन्दनानां
पृथगपृथगुदञ्चत्कर्दमाम्भःप्रपूर्णैः
।
विविधमणिचिताम्बुक्षेपयन्त्रैर्विराजद्
विततवदनकुम्भैरन्वितां
शातकुम्भैः
॥२८॥
वेदीं
कीदृशीं ?
अगुरुकेशरादीनां
पृथगभिन्नमपृथङ्मिश्रितं
च
यथा
तथा
उदञ्चतः
कर्दमस्य
जलेन
प्रपूर्णैः
शातकुम्भैः
स्वर्णकृतैर्विविधमणिनिर्मिताम्बुक्षेपयन्त्रैर्विराजन्ति
तेषां
संयोगादतिशोभमानानि
विततानि
विस्तृतानि
वदनानि
झटिति
जलग्रहणार्थं
येषां
तैः
कुम्भैरन्विताम्
॥२८॥
सैन्दूरकार्पूरकपौष्पकन्दुकैः
शरासनैर्बाणचयैश्च
कौसुमैः
।
ताम्बूलमाल्यैः
कुसुमाम्बुचन्दनैर्
आपूर्णसौवर्णकभाजनैर्युताम्
॥२९॥
सिन्दूरादिकृतैस्त्रिविधैः
कन्दुकैस्तथा
पुष्पकृतधनुर्बाणैस्तथा
ताम्बूलैर्माल्यैः
कुसुमैरम्बुभिश्चन्दनैरेतैर्भोगयोग्यैः
पञ्चभिश्चापूर्णैः
स्वर्णपात्रैर्युतां
वेदीम्
॥२९॥
कर्पूरकुङ्कुममदागुरुचन्दनानां
पङ्कैश्च
चूर्णनिकरैरतिपूरिताभिः
।
श्वासाभिलव्यमृदुजातुषकूपिकाभिर्
आपूर्णहैमततभाजनवृन्दयुक्ताम्
॥३०॥
कर्पूरादीनां
पङ्कैः
चूर्णनिकरैश्च
काश्चित्पङ्कैः
काश्चित्चूर्णैरिति
भेदेनातिपूरिताभिः
श्वासेनापि
अभिलव्या
भेद्याः
शोष्या
वा
भेत्तुं
शोषयितुं
वा
शक्याः
।
मृद्व्यः
कोमलाश्च
या
जातुष्यो
जतुनिर्मिताः
कूपिकास्ताभिरापूर्णानां
स्वर्णकृतविस्तृतभाजनानां
वृन्दैर्युक्ताम्
॥३०॥
आरुह्य
तां
श्रीरमणीचयो
भवंस्
तदैकतः
श्रीरमणोऽप्यथैकतः
।
गृहीततत्तज्जलयन्त्रकादिकः
परस्परं
प्रेमभरादरीरमत॥३१॥
श्रीरमणीसमूहस्तां
वेदिकास्थलीमारुह्य
एकतो
भवन्सन्श्रीकृष्णोऽपि
तामारुह्य
एकतो
भवन्सन्गृहीतं
तत्तत्पूर्वोक्तजलयन्त्रकादिकः,
आदिशब्देन
कर्पूरादिपङ्कपूरितचूर्णपूरितद्विविधजातुष्यः
कुप्यश्च,
एतत्सर्वं
क्रीडायोग्यं
वस्तु
येन
स
नारीचयो
रमणश्च
प्रेमातिशयात्परस्परमरीरमत॥३१॥
विधृतलघुसितांशुकौ
रम्यताम्बूलपूर्णाननौ
रतिपतिरणयान्त्रिकत्वं
गतौ
तोययन्त्रैर्धृतैः
।
चलनिशितकटाक्षकन्दर्पनाराचवृष्ट्या
समं
विसृजत
इह
यन्त्रमुक्ताम्बुवृष्टिं
मुदा
तौ
मिथः
॥३२॥
तौ
श्रीरमणीगणरमणौ
।
विधृतं
लघु
शुक्लवर्णमंशुकं
वस्त्रं
याभ्यां
तौ
।
रम्याणि
ताम्बूलपूर्णानि
आननानि
ययोस्तौ
।
धृतैस्तोययन्त्रै
रतिपतेः
कामस्य
रणयान्त्रिकत्वं
गतौ
।
चञ्चलकटाक्षा
एव
कन्दर्पस्य
नाराचा
बाणाः,
तेषां
वृष्ट्या
समं
यन्त्रमुक्ताम्बुवृष्टि
विसृजतः
॥३२॥
क्लिन्नातिसूक्ष्मवसनान्तरुदीर्णतत्तद्
अङ्गावलीमधुरिमामृतसत्प्रवाहैः
।
संसिक्तकान्तनयनाब्जमनस्तटीकास्
तस्यापि
तैरतिनिषिक्तवितृप्तनेत्राः
॥३३॥
तत्र
श्रीराधादिव्रजसुन्दरीणां
क्रीडासौष्ठवं
वर्णयति
चतुर्भिः
।
ताः
कथंभूताः ?
क्लिन्नातिसूक्ष्मवसनस्य
अन्तर्मध्ये
उदीर्णाङ्गावलीनां
मधुरिमामृतस्य
सत्प्रवाहैः
संसिक्तकान्तस्य
नयनाब्जे
मनस्तटीका
याभिस्ताः
।
तस्य
कान्तस्य
तैस्तादृशामृतसत्प्रवाहैरतिनिषिक्तानि
वितृप्तानि
अतृप्तानि
विशेषेण
तृप्तानि
नेत्राणि
यासां
ताः
॥३३॥
ताम्बूलचर्वितदरोच्छ्वसितैकगण्डाः
क्लिन्नालकालिवृतघर्मजलाञ्चिभालाः
।
विस्रस्तकेशविगलत्कुसुमावलिका
लोलत्कचांसयुगचारुकुचांशमध्याः
॥३४॥
ताम्बूलचर्वितेन
दरोच्छ्वसितं
स्वल्पोच्चमेकं
गण्डं
यथान्ताः
।
क्लिन्नालकाभिर्वृतं
च
तद्घर्मसमूहेनाञ्चि
युक्तं
च
भालं
कपालं
यासां
ताः
।
विस्रस्तकेशेभ्यो
विगलन्ती
कुसुमावली
यासां
ताः
।
लोलन्तश्चलन्तः
कचाः
केशा
अंसयुगे
स्कन्धयुगे
चारुकुचांशे
कुचयोरुपरिभागे
मध्ये
च
यासां
ताः
॥३४॥
वासोऽञ्चलीं
विविधगन्धसुचूर्णपूर्णां
काञ्च्यां
तिरःसुदृढशृङ्खलितां
दधानाः
।
कन्दर्पदीपनसनर्ममनोज्ञगानाः
कृष्णाभिषिक्तनिजगुप्तिषु
सावधानाः
॥३५॥
विविधगन्धद्रव्याणां
सुचूर्णैः
पूर्णां
वासोऽञ्चलीं
परिहितवस्त्रप्रान्तभागम्
।
कीदृशीं ?
काञ्च्यां
तिरोभूत्वा
वक्रीभूय
सुदृढशृङ्खलितां
सुदृढबद्धां
दधानाः
।
कन्दर्पस्य
दीपनं
यस्मात्
.
तथाभूतं
नर्मसहितं
मनोज्ञं
गानं
यासां
ताः
।
कृष्णस्याभिषिक्तस्ताभ्यो
निजगुप्तिषु
स्वरक्षासु
सावधानाः
॥३५॥
नानाप्रकारपटवासचयान्क्षिपन्त्यः
पौष्पादिकन्दूकगणान्मृदुकूपिकाश्च
।
प्रेम्णा
सुगन्धसलिलैर्जलयन्त्रमुक्तैः
श्रीराधिकाप्रभृतयः
सिषिचुः
स्वकान्तम्
॥३६॥
एवंभूताः
श्रीराधिकाप्रभृतयो
नानाप्रकारपटवासस्य
सुगन्धचूर्णस्य
चयान।
पौष्पसैन्दूरादिकन्दूकगणान्मृदुजातुषकूपिकाश्च
क्षिपन्त्यः
सत्यो
जलयन्त्रमुक्तैः
सुगन्धसलिलैः
प्रेम्णा
स्वकान्तं
सिषिचुः
॥३६॥
अंसालम्बितपौष्पकार्मुकलतां
बाणावलीं
कौसुमीं
वंशीं
चातुलतुन्दबन्धनिहितां
रत्नाम्बुयन्त्रं
करे
।
बिभ्रत्श्रीघटिकाण्चलं
च
निभृतं
पिष्टातकैः
श्रीहरिः
कान्तायन्त्रविमुक्तगन्धसलिलैः
सिञ्चन्निमा
दिव्यति
॥३७॥
श्रीहरिः
अंसे
स्कन्धे
आलम्बितं
पुष्पधनुर्बिभ्रत।
अतुलतुन्दबन्धे
तुलनारहितजठरपटबन्धे
कौसुमीं
कुसुमकृतां
बाणावलीं
वंशीं
च
बिभ्रत्करे
।
रत्नाम्बुयन्त्रं
रत्ननिर्मितं
पिचकारीति
ख्यातं
बिभ्रत।
पिष्टातकैः
सुगन्धचूर्णैर्निभृतं
पूर्णं
श्रीयुक्तघटिकां
चलं
च
बिभ्रत।
यन्त्रविमुक्तगन्धसलिलैरिमाः
कान्ताः
सिञ्चन्दीव्यति
क्रीडत॥३७॥
एकास्य
निःसरति
या
जलयन्त्रधारा
व्योमाध्वनीह
शतधा
च
सहस्रधा
च
।
आसन्नपातसमये
किल
लक्षधासौ
लक्ष्येषु
पातसमये
बत
कोटिधा
स्यात॥३८॥
अस्य
कृष्णस्य
या
जलयन्त्रधारा
जलयन्त्रान्निःसृता
जलधारा
।
किं
वा,
यन्त्रस्य
जलं
जलयन्त्रं
राजदन्तादिवत्,
तस्य
यन्त्रजलस्य
धारा
।
एका
सती
निःसरति
सा
धारा
व्योमाध्वनि
आकाशमार्गे
शतधा
च
ततः
सहस्रधा
च
स्यात।
असौ
धारा
आसन्नपातसमये
पतनपूर्वक्षणे
लक्षधा
स्यात।
लक्ष्येषु
पातसमये
श्रीव्रजाङ्गनानामङ्गेषु
पतनसमये
सा
धारा
कोटिधा
स्यात।
मथुरायां
जरासन्धसेनायां
श्रीकृष्णस्य
शर
इव
ज्ञेयम्
।
शरादिक्षेपोद्देश्यं
लक्ष्यम्
॥३८॥
जातुष्यो
या
गन्धचूर्णैः
प्रपूर्नाः
क्षिप्तास्ताभिस्तेन
वा
कूपिकास्ताः
।
भूमौ
पेतुः
क्षेपवेगैर्विशीर्णास्
तन्मध्यस्था
गोलिका
लक्ष्यमापुः
॥३९॥
ताभिः
श्रीराधिकादिभिः
।
तेन
श्रीकृष्णेन
वा
क्षिप्ता
या
गन्धचूर्णैः
प्रपूर्नाः
जातुष्यः
कूपिकास्ताः
क्षेपवेगैर्विशीर्णाः
भूमौ
पेतुः
।
तन्मध्यस्थाः
सिन्दूरादिगोलिका
लक्ष्यं
श्रीकृष्णस्याङ्गं
च
परस्परमवापुः
॥३९॥
तासां
तनौ
कुङ्कुमबिन्दुजाल
मध्ये
विराजन्मदबिन्दवस्ते
।
सुवर्णवल्लीततिपुष्पवृन्द
सुप्तालिसङ्घभ्रममुन्नयन्ति
॥४०॥
श्रीकृष्णस्य
जलयन्त्रादिभिः
कुङ्कुमानां
क्षेपेऽचिन्त्यकौशलमुक्त्वा
जातुषकूपिकाक्षेपणेऽप्यचिन्त्यकौशलमाह
।
तासां
श्रीराधिकादीनां
तनौ
कुङ्कुमबिन्दुसमूहमध्ये
विराजन्तो
मृगमदानां
ये
बिन्दवस्ते
।
सुवर्णलताततिसुपुष्पवृन्देषु
सुप्तानामलीनां
भ्रमराणां
सङ्घस्य
समूहस्य
भ्रममुन्नयन्ति
पूर्व्कार्य्२इ
।
तासां
तनुषु
स्वर्णलताभ्रमस्तनुसंलग्नकुङ्कुमबिन्दुषु
पुष्पभ्रमः
कुङ्कुमबिन्दुमध्यसंलग्नमृगमदबिन्दुषु
भृङ्गभ्रमश्च
जायते
।
तनुस्वर्णं
लतादीनामेकाकारत्वादित्यर्थः
॥४०॥
श्रीराधिकाप्रथमकीर्णसुसूक्ष्मरन्ध्र
सद्यन्त्रकुङ्कुमजलामलबिन्दुजालैः
।
व्याप्तं
परिस्फुरति
संहननं
बकारेर्
उद्यत्सुधाकिरणबिम्बशतैर्नभो
वा
॥४१॥
श्रीराधायाः
प्रथमक्षिप्तैः
सुसूक्ष्मरन्ध्रं
छिद्रं
यत्र
तस्य
यन्त्रस्य
कुङ्कुमजलबिन्दुसमूहैर्व्याप्तं
मुरारेः
संहननं
शरीरमुदयसमये
कुङ्कुमवर्णचन्द्रकिरणैर्नभ
इव
स्फुरति
।
वा
इवार्थे
॥४१॥
ताः
क्षेपवेगगलितावृतिकूपिकानां
कर्पूरनागजपरागजगोलिकाभिः
।
लग्नाभिरङ्गवसनेऽथ
सुगन्धितोयैः
पङ्कत्वमेत्य
विहिताः
शवलाङ्गभासः
॥४२॥
क्षेपस्य
वेगेन
गलिता
गता
आवृत्तिर्यासां
तासां
कूपिकानां
कर्पूरजन्याभिर्नागजं
सिन्दूरं
तज्जन्याभिः
पुष्पधूलिजन्याभिश्च
।
किं
वा,
कर्पूरसिन्दूराणां
परागाश्चूर्णास्तज्जन्याभिर्गोलिकाभिः
।
कीदृग्भिः ?
सुगन्धितोयैः
पङ्कत्वं
प्राप्य
तासामङ्गे
वसने
च
लग्नाभिस्ता
राधादयः
शवलाङ्गभासो
विहिताः
।
अनेकस्य
मिलनं
शवलम्
।
अनेकवर्णयुता
बभूवुरित्यर्थः
॥४२॥
नानावर्णैर्गन्धचूर्णैर्विकीर्णैर्
आदौ
भूर्द्यौर्व्यानशे
दिग्विदिक्च
।
गन्धाम्बूनां
वृष्टिसंछिन्नमूलैर्
लेभे
पश्चाच्चित्रचन्द्रातपत्वम्
॥४३॥
आदौ
विकीर्णैः
क्षिप्तैर्नानावर्णैश्चूर्णैर्भूः
पृथिवी
द्यौराकाशं
च
दिग्विदिक्च
व्यानशे
व्याप्ता
बभूवुः
।
गन्धचूर्णैर्भूर्द्यौर्गन्धाम्बूनां
वृष्टिसंछिन्नमूलैर्लेभे
पश्चात्यन्त्रनिर्गतगन्धजलवृष्टिभिः
सञ्छिन्नमूलैस्तैर्गन्धचूर्णैश्चित्रचन्द्रातपत्वं
लेभे
।
तासां
मध्ये
द्यौरेवेति
ज्ञेयम्
॥४३॥
तं
गन्धलेपनचलं
प्रियया
स्वहस्त
स्पर्शोत्थकुट्टमितया
कलहायमानम्
।
काचित्सुगन्धिसलिलैर्घटिकात्तमुक्तैः
सिञ्चन्त्युपेत्य
निभृतं
रमणं
चलाक्षी
॥४४॥
स्वस्य
कृष्णस्य
हस्तस्पर्शेनोत्थकुट्टमिताख्यां
भावो
यस्यास्तया
प्रियया
राधया
गन्धलेपनेन
कलहायमानं
तं
रमणं
काचित्चलाक्षी
निभृतमुपेत्य
घटिका
क्षुद्रघटस्तत्राद्यैरात्तैर्गृहीतैः
पश्चात्मुक्तैः
सुगन्धिसलिलैः
सिञ्चन्ति
॥४४॥
यका
सकाभ्येत्य
यतस्ततो
वपुष्य्
अवाकिरत्सत्पटवासकान्हरेः
।
यकां
तकां
सोऽप्यवरुध्य
वक्षसा
तदाननः
तैः
समरूषयन्पपौ
॥४५॥
यका
सका
या
सा
सामान्या
यतस्ततोऽभ्येत्य
आगत्य
हरेर्वपुषि
सत्पटवासकान्शोभसुगन्धचूर्णानवाकिरत।
स
कृष्णोऽपि
यकां
तकां
यां
तामपि
वक्षसावरुध्य
तैः
सुगन्धचूर्णैस्तस्या
आननं
समरुषयन्सङ्घर्षयन्पपौ
॥४५॥
राधां
किरन्तीं
पटवासकान्मुहुर्
निरोधितां
वीक्ष्य
बकारिणोरसा
।
सखीचयेऽकाण्डपटायितेऽभितस्
तेनापि
पूर्णत्वमनायि
वाञ्छितम्
॥४६॥
मुहुः
पटवासकान्सुगन्धचूर्णान्किरन्तीं
राधां
बकारिणोरसा
निरोधितां
वीक्ष्य
सखीजनेऽसमये
परितः
पटायिते
पटमिवाचरिते
सर्वदिक्षु
आवरणीभूते
सति
तेन
कृष्णेन
वाञ्छितं
पूर्णत्वमनायि
॥४६॥
कृष्णस्तीक्ष्णैरतनुविशिखैर्नर्ममन्त्रप्रवीणैस्
तासामासीन्मदनविवशो
विद्धमर्मा
कटाक्षैः
।
तत्प्रत्यस्त्रैः
स
दरहसितापाङ्गलोकाशुगैस्तान्
प्रत्यावर्त्य
व्यधदथ
ता
व्याकुलाः
सोऽपि
शश्वत॥४७॥
तासां
तीक्ष्णैर्नर्ममन्त्रेण
प्रवीणैः
कटाक्षैः
कन्दर्पबाणैर्विद्धमर्मा
कृष्णो
मदनविवश
आसीत।
सोऽपि
कृष्णः
दरहसितेन
सह
कटाक्षबाणैस्तत्प्रत्यस्त्रैस्तान्बाणान्प्रत्यावर्त्य
निवार्य
उत्तमनायिकानामयं
स्वभावः
स्वकृतकटाक्षे
नायककटाक्षपाते
सति
कटाक्षं
न
करोति,
ता
राधादयः
शश्वत्व्याकुला
व्यदधत्सोऽपि
कृष्णः
शश्वत्व्याकुलोऽभवत॥४७॥
मह्यां
मेघः
स
च
नरवपुस्तं
च
सिञ्चन्त्यजस्रं
शम्पास्तस्मात्पृथगितलसन्मूर्तयो
गन्धवाराम्
।
धारासारैः
सततममुना
सिच्यमाना
मुदास्मिन्
वृन्दादीनामपिबदमृतं
नेत्रवापीह
वर्गः
॥४८॥
मह्यां
मेघ
इति
चित्रं
स
च
मेघो
नरवपुरित्यतिचित्रम्
।
तं
मेघं
शम्पा
विद्युतोऽजस्रं
सिञ्चन्तीति,
ततोऽपि
चित्रम्
।
तस्मात्मेघात्पृथगिताः
पृथगिवाचरिताः
पृथग्भूताः
सत्यो
लसन्त्यो
मूर्तयो
यासां
ताः
शम्पा
गन्धवारां
गन्धजलानां
धारासारैर्धारासम्पातैस्तं
मेघमजस्रं
सिञ्चन्तीति
ततोऽपि
चित्रम्
।
ताः
कीदृश्यः
तेन
मेघेन
तैर्गन्धवारां
धारासारैः
सततं
सिच्यमानाः
सत्यः
।
अस्मिन्मुदा
वृन्दादीनां,
नेत्रवापीहवर्गः
चातकसमूहोऽमृतमपिबतित्यत्र
कृष्णो
मेघः
राधादयः
शम्पाः
॥४८॥
क्रीडन्नित्थमसावमूभिरगमद्दोलाब्जवेद्यन्तिकं
वृन्दा
कुन्दलते
दृगिङ्गितनयैः
कृत्वा
सहाये
हसन।
कान्तायाः
करपङ्कजात्कृतपयोयन्त्रापहारो
हरिर्
हिन्दोलाम्बुजमारुरोह
स
हठादाच्छिन्नवेणुस्तया
॥४९॥
असौ
हरिः
कृष्णोऽमूभिः
क्रीडन्हिन्दोलवेदीनिकटं
गत्वा
दृगिङ्गितैर्वृन्दा
कुन्दलते
सहाये
कृत्वा
राधाकरात्कृतं
जलयन्त्रस्यापहरणं
येन
सः
।
तया
राधया
हठादाच्छिन्नो
बलाद्गृहीतो
वेणुर्यस्य
.
तथाभूतः
सन्हिन्दोलाम्बुजमारुरोह
॥४९॥
अवददथ
हसन्ती
कुन्दवल्ली
त्वमस्मै
विसृज
सुमुखि
वंशीकुट्टिनीं
मा
स्पृशामूम्
।
त्वमपि
सलिलयन्त्रं
स्त्रीधनं
माधवास्यै
त्वरितमिति
तयोक्तं
तौ
विधातुं
प्रवृत्तौ
॥५०॥
कुन्दवल्ली
अवदत्,
हे
सुमुखि
!
अस्मै
कृष्णाय
कुट्टिनीं
वंशीं
विसृज
।
अमूं
वंशीं
मा
स्पृश
यतः
कुट्टनीम्
।
हे
माधव
!
त्वमप्यस्यै
राधायै
स्त्रीधनं
जलयन्त्रं
विसृज
।
तौ
तयोक्तं
कर्तुं
प्रवृत्तौ
भवतः
॥५०॥
यच्छन्नसव्येन
करेण
यन्त्रकं
सव्येन
गृह्नन्मुरलीं
तयार्पिताम्
।
ताभ्यां
निजाभ्यां
स
दधार
तच्छलात्
तत्तद्युते
तत्करपङ्कजे
हरिः
॥५१॥
हरिरसव्येन
दक्षिणेन
करेण
यन्त्रं
यच्छन्,
सव्येन
राधार्पितां
मुरलीं
गृह्नन्निजाभ्यां
ताभ्यां
कराभ्यां
तच्छलात्दानग्रहणच्छलात्तत्तद्युते
यन्त्रवंशीयुते
राधायाः
ते
करपङ्कजे
स
दधार
॥५१॥
अधस्ताद्वृन्दया
कुन्दवल्ल्या
चोत्थापितां
हरिः
।
दोलामारोहयामास
प्रतीपामपि
तां
बलात॥५२॥
अधस्ताद्वृन्दया
कुन्दवल्ल्या
चोत्थापितां
प्रतीपां
दोलारोहयणेऽनिच्छावतीमपि
तां
राधां
बलात्हरिर्दोलामारोहयामास
॥५२॥
हिन्दोलमध्यं
प्रियया
गतेऽच्युते
गायन्त्य
उच्चैर्मुदितस्तदालयः
।
पश्चाद्गताः
काश्चिदथाग्रतः
परा
हिन्दोलिकान्दोलनमुद्वितेनिरे
॥५३॥
हिन्दोलमध्यं
राधाकृष्णे
गते
सति
आलयः
काश्चित्पश्चाद्गताः,
परा
आग्रतः
स्थिता
गायन्त्यः
सत्यो
हिन्दोलिकायाः
आन्दोलनमुद्वितेनिरे
कृतवत्यः
॥५३॥
हिन्दोलिकायां
सहसालिवृन्दैर्
आन्दोलितायां
बलवच्चलन्त्याम्
।
उद्वेल्लिताङ्गी
किल
चञ्चलाक्षी
सालिङ्ग्य
कान्तं
ललना
ललम्बे
॥५४॥
सहसा
आलीवृन्दैरान्दोलितायां
तत
एव
बलवदतिचलन्त्यां
हिन्दोलिकायामुद्वेल्लितानि
अतिचालितानि
अङ्गानि
यस्या
सा
ललना
राधा
कान्तमालिङ्ग्य
ललम्बे
तमालम्ब्य
स्थिता
॥५४॥
तयोर्भ्रश्यत्कैश्यं
मिथ
इह
चलत्कुण्डलयुगे
तथा
चञ्चत्काञ्चीस्तवकपटलं
तत्समुदये
।
परिम्लायन्माल्यद्वयमपि
चलत्कङ्कणवरे
दृढं
दोलान्दोले
सति
सपदि
सन्दानितमभूत॥५५॥
दृढं
दोलान्दोले
सति
तयो
राधाकृष्णयोर्भ्रश्यत्कैश्यं
केशसमूहः
मिथः
परस्परं
चलत्कुण्डलयुगे
सन्दानितं
संयुक्तमभूत।
तथा
चञ्चत्काञ्च्याः
स्तवकपटलं
स्तवकसमूहस्तत्समुदये
काञ्चीसमुदये
सन्दानितमभूत।
परिम्लायन्माल्यद्वयं
कङ्कणवरे
सन्दानितमभूत॥५५॥
दोलायामतिलोलायां
राधा
चञ्चललोचना
।
सखी
साहाय्यमिच्छन्ती
व्यतर्कि
ताभिरिङ्गितैः
॥५६॥
राधा
सखासहाय्यमिच्छन्ती
ताभिः
सखीभिरिङ्गितैर्व्यतर्कि
॥५६॥
ताभिर्लोलितदोलामीशां
तामतिलोलाम्
आप्तात्मेप्सितशस्तां
गाढान्दोलविहस्ताम्
।
स्वालीनां
परिचर्यां
वाञ्छन्तीं
हृदि
वर्यां
प्रेङ्खोलीं
च
मुहुस्तामाज्ञायारुरुहुस्ताः
॥५७॥
वितर्कमाह
।
ताभिः
सखीभिर्मुहुर्लोलिता
दोला
यस्यास्तामीशामीश्वरीमाप्तात्मेप्सितेन
प्राप्तस्ववाञ्छितेन
शस्तां
प्रशस्ताम्
।
गाढान्दोलेन
विहस्तां
व्यग्राम्
।
हृदि
स्वसखीनां
परिचर्यां
वाञ्छन्तीं,
यतो
वर्यां
तां
राधामाज्ञाय
।
प्रेङ्खोलीं
चातिलालामाज्ञाय,
ताः
सख्यस्तां
प्रेङ्खोलीमारुरुहुः
॥५७॥
ताम्बूलवीटीर्ललिता
विशाखया
चम्पालिका
स
व्यजने
च
चित्रया
।
श्रीतुङ्गविद्या
सहितेन्दुलेखया
पानीयजाम्बूनदझर्झरीयुगम्
॥५८॥
परिचर्यासामग्र्या
सह
सखीनामारोहणमाह—
विशाखया
सह
ललिता
ताम्बूलवीटीर्गृहीत्वा
हिन्दोलिकामारुरोह
इति
परश्लोकस्थेनान्वयः
।
एवमग्रेऽपि
।
चित्रया
सह
चम्पालिका
व्यजने
गृहीत्वारुरोह
।
इन्दुलेखया
सह
श्रीतुङ्गविद्या
पानीयस्वर्णपात्रयुगम्
॥५८॥
सार्धं
सुदेव्या
किल
रङ्गदेवी
सुगन्धपङ्कान्पटवासकांश्च
।
प्रेम्ना
समुत्काति
मुदा
गृहीत्वा
हिन्दोलिकां
तूर्णमथारुरोह
॥५९॥
पटवासकान्सुगन्धचूर्णान॥५९॥
ताभिः
सेवितयोस्तैस्तैः
प्रेष्ठयोर्नयनेङ्गितैः
।
क्रमात्पूर्वादिदलगा
विरेजुर्ललितादयः
॥६०॥
ताभिस्तैस्तैस्ताम्बूलवीटिकादिभिः
सेवितयो
राधाकृष्णयोर्नयनेङ्गितैः
ललितादयोऽष्टदलकमलाकारदोलायाः
पूर्वादिदलगाः
सत्यः
विरेजुः
॥६०॥
तत्राश्चर्यमभूदेकं
राधाकृष्णौ
पुरः
स्थितौ
।
युगपद्ददृशुः
सर्वाः
स्वस्वाभिमुखतां
गतौ
॥६१॥
तत्रैकमाश्चर्यमभूत।
सर्वाः
सख्यः
युगपदेकदा
राधाकृष्णौ
स्वस्वाभिमुखतां
गतौ
ददृशुः
॥६१॥
पुनरान्दोलनात्ताभिर्वृन्दाकुन्दलतादिभिः
।
दोलायामतिलोलायां
चित्रमासीदिदं
परम्
॥६२॥
दोलायामिदं
परं
चित्रमभूत॥६२॥
तासां
दलाल्यां
परितः
स्थितानां
पार्श्वे
हरिः
स्वप्रतिबिम्बदम्भात।
तिष्ठन्नमूभिः
सहसोपगूढः
श्रीराधयान्याभिरपि
व्यलोकि
॥६३॥
चित्रामाह—
दलालीं
परितः
स्थितानां
तासां
सखीनां
पार्श्वे
हरिः
स्वप्रतिबिम्बच्छलात्तिष्ठन्सन्नमूभिः
सखीभिः
सहसा
शीघ्रमुपगूढ
आलिङ्गितोऽस्तीति
राधया
तथा
अन्याभिश्च
व्यलोकि
॥६३॥
अनाछन्नेऽम्भोदैर्दिवसकरबिम्बोपरि
स
चेन्
नवाम्भोदव्यूहः
प्रकटचलाभिः
सुवलितः
।
महावात्योद्भ्रान्तः
सततमभविष्यत्तत
इतस्
तदा
तस्याघारेरुपमितिमलप्स्यन्त
कवयः
॥६४॥
मेघैरनाछन्ने
सूर्यबिम्बोपरिभागे
प्रकटचलाभिः
स्थिरविद्युद्भिर्युतः
स
नवमेघस्य
व्यूहः
चेद्यदि
महावायुसमूहेन
उद्भ्रान्तः
सन्नितस्ततः
सततमभविष्यत्,
तदा
कवयस्तस्याघारेरुपमितिमलप्स्यन्त
।
दोलात्र
सूर्यबिम्बः,
कृष्णो
मेघः,
गोप्यस्तडितः
॥६४॥
राधादृगिङ्गितनयाल्ललितामघारिर्
आकृष्य
दक्षिणभुजं
विनिधाय
तस्याः
।
कण्ठे
परं
भुजमसौ
दयितांसदेशे
मध्ये
तयोः
स
विबभौ
तडितोरिवाब्दः
॥६५॥
अघारी
राधादृगिङ्गितनयाल्ललितामाकृष्य
तस्याः
कण्ठे
दक्षिणभुजं
विनिधाय
वामं
भुजं
राधाकण्ठे
निधाय
तडितोर्मध्ये
इव
मेघः
विबभौ
॥६५॥
कौन्द्यब्रवीत्पश्यताल्यो
ज्योतिश्चक्रे
चले
पुरः
।
राधानुराधयोर्मध्ये
पूर्णोऽयमुदितो
विधुः
॥६६॥
कुन्दलता
अब्रवीत्—
हे
आल्यः
!
पश्यत
पुरोऽग्रे
राधानुराधयोः
श्रीराधाललितयोर्मध्ये
पूर्णः
समस्तकेलिकलाकुशलो
विधुः
श्रीकृष्णोऽयमुदित
उदयति
॥६६॥
एवं
विशाखिकाद्यास्ताः
क्रमादाकृष्य
माधवः
।
आलिङ्ग्य
दक्षिणांसेऽमूर्हिन्दोलसुखमन्वभूत॥६७॥
माधवः
एवं
क्रमात्ता
विशाखिकाद्या
आकृष्य
दक्षिणांसे
अमूरालिङ्ग्य
हिन्दोलसुखमन्वभूत॥६७॥
अथावरुह्य
हिन्दोलाद्द्वाभ्यां
द्वाभ्यां
विराजतम्
।
विशाखाललितादिभ्यां
श्रीराधान्दोलयत्प्रियम्
॥६८॥
श्रीराधा
हिन्दोलादवरुह्य
द्वाभ्यां
विशाखाललितादिभ्यां
विराजतं
प्रियमान्दोलयत॥६८॥
ततोऽवरूढा
ललितादयस्तदा
राधेङ्गितैः
काञ्चनवल्लिकादिकाः
।
आरोहयामासुरधः
स्थिताः
सखीर्
हिन्दोलिकां
तां
क्रमशो
बलाच्छलैः
॥६९॥
राधाया
इङ्गितैर्हिन्दोलिकाया
अवरूढा
ललितादयोऽधःस्थिताः
काञ्चनवल्लिकादिकाः
सखीस्तां
हिन्दोलिकां
क्रमात्बलाच्छलैरारोहयामासुः
॥६९॥
तासां
द्वयीद्वयीपूर्णपार्श्वं
तं
क्रमशो
मुदा
।
गोविन्दं
दोलयामासुर्गायन्त्यस्ताः
सराधिकाः
॥७०॥
सराधिकास्ताः
ललितादयः
तासां
काञ्चनवल्लिकादीनां
द्वय्या
द्वय्या
द्वाभ्यां
द्वाभ्यां
पूर्णपार्श्वं
तं
कृष्णं
दोलयामासुः
॥७०॥
राधायाः
श्रुतिलग्नायां
ललितायां
हसन्त्यसौ
।
आरुह्य
दोलामालीनां
चकार
बहुमण्डलीः
॥७१॥
राधायाः
श्रुतौ
कर्णे
लग्नायां
कथयन्त्यां
ललितायामसौ
राधा
हसन्ती
दोलामारुह्यालीनां
बहुमण्डलीश्चकार
॥७१॥
तस्यां
स्थितायां
प्रियवामपार्श्वे
प्रान्दोलयन्तीषु
सखीषु
दोलाम्
।
एकं
पुनश्चित्रमभूदमूषां
द्वयोर्द्वयोरास
हरिः
स
मध्ये
॥७२॥
तस्यां
राधायां
प्रियस्य
वामपार्श्वे
स्थितायां
दोलां
सखीषु
प्रान्दोलयन्तीषु
एकं
चित्रं
पुनरभूत।
चित्रमाह—
अमूषां
सखीनां
द्वयोर्द्वयोर्मध्ये
स
हरिरास
बभूव
॥७२॥
तापिञ्छश्चेत्खेचरकनकक्ष्माभृदुत्थोऽभविष्यत्
प्रोत्फुल्लाङ्ग्या
पुरटलतया
वेष्टिताङ्गः
परीतः
।
तापिञ्छानां
कनककदलीसंयुजां
मण्डलीभिः
साम्यं
शौरेर्जगति
स
तदा
तादृशस्याप्यवाप्स्यत॥७३॥
जगति
प्रोत्फुल्लाङ्ग्या
पुरटलतया
वेष्टिताङ्गस्तापिञ्छश्तमालश्चेत्खेचर
आकाशगामी
कनकस्य
क्ष्माभृत्पर्वतस्तदुत्थोऽभविष्यत।
कनककदलीसंयुजां
तापिञ्छानां
मण्डलीभिः
परीतो
व्याप्तः
सन्कनकलतावेष्टितः
तापिञ्छोऽभविष्यत।
तदा
तादृशस्य
हरेः
साम्यमवाप्स्यत।
दोलायाः
खेचरपर्वतेन,
राधायाः
स्वर्णलतया,
कृष्णस्य
तापिञ्छेन
।
सखीभिः
सह
कृष्णस्य
मूर्तीनां
स्वर्णकदलीयुक्ततमालैः
साम्यम्
॥७३॥
अथारूढासु
विशाखिकेङ्गितैः
सखीषु
सख्यौ
ललितादयो
मुदा
।
राधाच्युतौ
सम्भ्रमयन्त्य
उच्चकैः
प्रेङ्खोलिकान्दोलनमाशु
चक्रिरे
॥७४॥
विशाखेङ्गितैः
सखीषु
दोलातो
भूमाववरूढासु
ललितादयः
सख्यः
मुदा
राधाकृष्णौ
सम्यग्भ्रमन्त्यः
प्रेङ्खोलिकायामान्दोलनमुच्चैराशु
चक्रिरे
॥७४॥
व्याकुलां
राधिकां
प्रेक्ष्य
गाढालिङ्गितवल्लभाम्
।
स्मेरास्वालीषु
गृह्णंस्तां
हसन्नवरुरोह
सः
॥७५॥
स
कृष्णो
व्याकुलां
राधिकां
वीक्ष्य
हसन्तां
गृह्णनवरुरोह
॥७५॥
अभीरीभिः
सच्छम्पाभिः
संवीताङ्गः
कृष्णाब्दः
कौन्दीवृन्दादीनां
चक्षुर्वापीहालीतृष्णाहृत।
लीलाकीलालालीधारापातैः
सिञ्चन्विश्वं
श्री
वृन्दारण्येऽसौ
जीयादेवं
दोलालीलाखेलः
॥७६॥
अभीरीभिः
सच्छम्पाभिः
शोभनविद्युद्भिः
संवीताङ्गः
वेष्टिताङ्गः
कृष्णमेघः
कौन्द्यादीनां
चक्षुर्वापीहाली
नेत्रचातकश्रेणी
तस्यां
तृष्णाहृत।
लीलारूपकीलालस्य
जलस्य
श्रेणीनां
धारापातैर्विश्वं
सिञ्चन्वृन्दावने
एवं
दोलालीलायां
खेला
यस्य,
सोऽसौ
कृष्णो
जीयात॥७६॥
अथ
ताभिः
समं
कृष्णो
माध्वीकपानकुट्टिमे
।
निविष्टः
शीतलच्छाये
विश्रामसुखमन्वभूत॥७७॥
मधुपानवेदिकायां
निविष्टः
कृष्णः
विश्रामसुखमन्वभूत॥७७॥
गोपीनामरविन्दसुन्दरदृशां
श्रीकृष्णपार्श्वद्वयाद्
आरभ्याग्रत
एव
मण्डलतया
तत्रोपवेशस्थितिम्
।
लब्धानां
पुरतः
स
राजति
धृतालङ्कारपीताम्बरो
रत्नालीखचितो
यथा
हरिमणिः
सौवर्णहारान्तरे
॥७८॥
श्रीकृष्णस्य
दक्षिणवामपार्श्वद्वयादारभ्याग्रत
एव
तत्र
वेद्यां
मण्डलाकारतया
उपवेशपूर्वकस्थितिं
लब्धानां
गोपीनां
पुरतो
धृतालङ्कारपीताम्बरः
स
कृष्णो
राजति
।
सौवर्णहारमध्ये
रत्नालीखचितो
हरिमणिरिन्द्रनीलमणिरिव
॥७८॥
अथालयः
स्वके
करे
सरोजसञ्चयाद्वरे
निधाय
पञ्चचामरं
चिता
भरैर्मुदामरम्
।
निविष्टमत्र
कान्तया
नितान्तकेलितान्तया
न्यवीजयन्निजं
प्रियं
रुचा
जितस्मरश्रियम्
॥७९॥
मुदां
भरैश्चिता
व्याप्ता
आलयः
सरोजसमूहाद्वरे
श्रेष्ठे
स्वके
करे
स्वीये
हस्ते
अरं
शीघ्रं
पञ्चचामरं
विस्तृतं
निधाय
।
अत्र
वेद्यां
नितान्तकेलिभिस्तान्तया
क्षीणया
प्रियया
सह
निविष्टरुचा
कान्त्या
चिता
स्मरस्य
श्रीः
शोभा
येन
तं
निजं
प्रियं
न्यवीजयत॥७९॥
गतश्रमेऽस्मिन्सगणे
सखीभिः
पदाब्जसंवाहनवीजनाद्यैः
।
माध्वीकपूर्णं
चषकं
पुरस्तात्
तयोः
समानीय
दधार
वृन्दा
॥८०॥
सखीभिः
पादसंवाहनवीजनैः
सगणेऽस्मिन्कृष्णे
गतश्रमे
सति,
वृन्दा
मधुपूर्णं
चषकं
पानपात्रमानीय
तयोरग्रे
दधार
॥८०॥
विकसितमनु
नृत्यत्खञ्जनाभ्यां
विराजत्
कनककमलमेकं
नीलराजीवमन्यत।
वरतनुबकशत्र्वोः
पश्यतोः
प्रादुरासीद्
अधि
चषकमकस्मात्पद्मयुग्मं
विचित्रम्
॥८१॥
पश्यतो
राधाकृष्णयोरधि
चषकं
चषकमध्ये
अकस्मात्विचित्रं
पद्मयुग्मं
तयोर्मुखप्रतिबिम्बयुग्मं
प्रादुरासीत।
कीदृशं ?
विकसितं
फुल्लमनु
लक्षीभूय
स्वस्मिन्नृत्यत्खञ्जनाभ्यां
विराजत।
एकं
कनककमलं
राधावदनमन्यत्नीलकमलं
कृष्णमुखम्
॥८१॥
नयनमधुपयुग्मं
राधिकायाः
प्रलुब्धं
झटिति
पतितमासीन्नीलपद्मेऽथ
तस्मात।
द्युतिभरमधुपूर्णान्नालमुत्थातुमासीत्
कनककमलमध्ये
तद्वदेवाच्युतस्य
॥८२॥
राधायाः
नेत्रभ्रमरयुग्मं
नीलपद्मे
झटिति
पतितमासीत।
कान्त्यतिशयमधुभिः
पूर्णात्तस्मात्नीलपद्मात्कृष्णमुखप्रतिबिम्बादुत्थातुं
नालं
न
समर्थमासीत।
तद्वदच्युतस्य
नेत्रभ्रमरयुग्मं
कनकपद्मे
राधामुखप्रतिबिम्बं
पतितं
तस्मादुत्थातुं
नालं
न
समर्थमभूत॥८२॥
सौन्दर्यं
मधुतां
मुखं
चषकतां
माध्वीकमादर्शतां
नेत्रद्वन्द्वमवाप
सन्मधुपतां
सर्वेन्द्रियं
नेत्रताम्
।
अन्याङ्गं
जडतां
तयोः
सपुलकं
चित्तं
स्मरोन्मत्ततां
सामग्र्येव
तदेतरेत्थमभवत्पानक्रियाप्तोन्नतिम्
॥८३॥
तयोः
राधाकृष्णयोः
सौन्दर्यं
मधुतां
पेयत्वमवाप
।
मुखं
चषकतां
पानपात्रत्वमवाप
।
माध्वीकमादर्शतां
दर्पणत्वमवाप
।
नेत्रद्वन्द्वं
सन्मधुपतां
भ्रमरत्वमवाप
।
सर्वेन्द्रियं
नेत्रतां
नेत्रधर्मं
दर्शनेच्छारूपमवाप
।
अन्याङ्गमिन्द्रियभिन्नाङ्गं
सपुलकं
जडतामवाप
।
चित्तं
स्मरोन्मत्ततामवाप
।
इत्थमनेन
प्रकारेण
मधुपानेनाप्ता
या
उन्नतिः,
तां
प्रतीतरा
सामग्र्येव
तदाभवत।
मधुपानजन्यभ्रमादिकं
मधुपानसामग्र्येवाभवदित्यर्थः
॥८३॥
कौन्द्यब्रवीत्पेयमिदं
स्वचक्षुषा
पीतं
युवाभ्यां
मधु
पङ्कजाननौ
।
नेत्रोत्पलास्याब्जसुवासितं
द्वयो
रसज्ञया
पेयमिदं
निपीयताम्
॥८४॥
हे
पङ्कजाननौ
!
पेयमिदं
मधु
युवाभ्यां
स्वचक्षुषा
पीतम्
।
द्वयोर्युवयोर्नेत्रोत्पलाभ्यां
सह
आस्यपद्माभ्यां
सुवासितमिदं
पेयं
रसनया
निपीयताम्
॥८४॥
आदाय
निन्ये
चषकं
बलानुजः
पिबेति
कान्तावदनाब्जसन्निधिम्
।
तिर्यङ्मुखी
तद्दयितापि
लज्जया
करेण
जग्राह
निजेन
तत्करात॥८५॥
बलानुजश्चषकमादाय
पिबेत्युक्त्वा
कान्तावदननिकटं
निन्ये
।
तद्दयिता
राधापि
लज्जया
तिर्यङ्मुखी
सती
तच्चषकं
तत्करात्निजेन
करेण
जग्राह
॥८५॥
आवृत्य
वक्त्रं
वसनाञ्चलेन
सा
माध्वीकमाघ्राय
सकृत्सुधामुखी
।
निजाधरस्पर्शसुवासितीकृतं
समर्पयामास
करे
प्रियस्य
सा
॥८६॥
सा
माध्वीकमाघ्राय
निजाधरस्पर्शसुवासितं
मधु
प्रियस्य
करे
ददौ
॥८६॥
प्रियाटवीवृक्षलतोद्भवं
प्रियं
प्रियाधरस्पर्शसुसौरभं
मधु
।
निजप्रियालीपरिहासवासितं
प्रियार्पितं
सस्पृहमापपौ
प्रियः
॥८७॥
प्रियाटवी
श्रीवृन्दाटवी
तस्या
वृक्षलतासूद्भवो
जम््म यस्य
तत्प्रियं
प्रियाया
अधरस्पर्शसुवासितं
मधु
प्रियः
सस्पृहमापपौ
॥८७॥
दयितागुणमेदुरेण
तद्
दयितापाणितलेऽमुनार्पितम्
।
दयिताधरवासितं
पपौ
दयिताप्यंशुकसंवृतानना
॥८८॥
दयितायाः
श्रीराधाया
गुणैर्मेदुरेण
स्निग्धेन
अमुना
कृष्णेन
दयितायाः
तस्या
राधायाः
पाणितलेऽर्पितम्
।
दयितस्य
कृष्णस्याधरेण
वासितं
तन्मधु
वस्त्रावृतमुखी
दयिता
सा
राधापि
पपौ
॥८८॥
तद्वक्त्रशेषामृतमिश्रितासवैः
पूर्णानि
कृत्वा
चषकाणि
सादरम्
।
वृन्दा
सवृन्दा
सहकुन्दवल्लिका
न्यधात्सखीनां
पूरतः
प्रमोदतः
॥८९॥
तयो
राधाकृष्णयोर्वक्त्रशेषामृतमिश्रितासवैस्तयोरधरामृतशेषमन्यमधुना
सह
मिश्रितं
कृत्वा
तैश्चषकाणि
पानपात्राणि
पूर्णानि
कृत्वा
वृन्दा
वृन्देन
स्वगणेन
कुन्दलतया
च
सहिता
सती
सखीनां
पूरतो
न्यधात॥८९॥
ताभिः
सखीनां
चषकेष्वथाग्रतो
न्यस्तेषु
कृष्णः
स्वविचित्रविद्यया
।
पार्श्वेऽखिलानां
युगपत्स
दक्षिणे
नालोकि
केनापि
परिस्फुरन्नपि
॥९०॥
ताभिर्वृन्दादिभिः
सखीनामग्रतस्तेषु
चषकेषु
न्यस्तेषु
सत्सु
श्रीकृष्णः
स्वस्य
विचित्रविद्यया
अखिलानां
सखीनां
दक्षिणे
पार्श्वे
स
परिस्फुरन्नपि
केनापि
नालोकि
॥९०॥
सख्यस्ताः
केवलं
स्वस्य
स्वस्यैव
पार्श्वमागतम्
।
पाययन्तं
पिबन्तं
च
मधु
तं
ददृशुः
प्रियम्
॥९१॥
ताः
सख्यः
स्वस्य
स्वस्य
पार्श्वमागतं
तं
कृष्णं
मधु
पाययन्तं
पिबन्तं
च
केवलं
ददृशुर्न
त्वन्याः
॥९१॥
कादम्बरीमदविघूर्णितशोणकोण
प्रोत्फुल्ललोचनसरोजविराजितानि
।
आमोदमोदितनिमन्त्रितषट्पदानि
हासेन्दुकान्तिवलिताधरपल्लवानि
॥९२॥
कृष्णस्य
नेत्ररसना
स्वदनीयभूरि
सौन्दर्यसल्लवणिमासवपूरितानि
।
तस्यातिपानमनु
तृट्परिपूरणाय
वक्राण्ययुश्चषकतां
सुदृशाममूषाम्
॥९३॥
अस्य
कृष्णस्यातिपाने
तृट्तृष्णा
तस्याः
परिपूरणाय
अमूषां
सुदृशां
वक्त्राणि
चषकतामयुः
प्रापुरिति
परश्लोकेनान्वयः
।
वक्त्राणि
विशिनष्टि—
कादम्बरीमदेन
विघूर्णितं
च
तच्छोणवर्णं
कोणं
च
यत्र
तादृशैः
प्रोत्फुल्ललोचनैर्विराजितानि
।
आमोदेन
सौरभेण
मोदितानि
च
तानि
निमन्त्रितषट्पदानि
च
यत्र
तानि
।
हासेन्दोः
कान्तिभिर्वलितानि
युक्तानि
अधरपल्लवानि
यत्र
तानि
।
कृष्णस्य
नेत्राभ्यां
रसनया
जिह्वया
च
सुष्ठु
अदनीयमास्वादनीयमास्वाद्यं
वा
भूरिसौन्दर्यं
सल्लवणिमा
चासवं
मधु
तेन
पूरितानि
वक्त्राणि
॥९२९३॥
स्मरयुजां
सरकाय
मृगीदृशां
सरकपानमदोन्मदचेतसः
।
सरकतामयिते
मुखपङ्कजे
सरकतां
समगादधरो
हरेः
॥९४॥
सरकपानमदेनोन्मदचेतसः
कृष्णस्य
सरकाय
पानार्थं
स्मरयुक्तानां
मृगीदृशां
मुखपङ्कजे
सरकतां
पानपात्रतामयिते
गते
सति
हरेरधरोऽपि
तासां
मृगीदृशां
सरकतामगात।
कृष्णेन
तासां
मुखपङ्कजे
पीते
सति,
ता
अपि
तस्याधरं
प्रापुरित्यर्थः
।
चषकोऽस्त्री
पानपात्रं
सरकोऽप्यनुतर्पणम्
॥९४॥
माध्वीकभेदान्विविधान्सवृन्दा
वृन्दाथ
वृन्दावननाथयोः
सा
।
नानाविदंशैः
सहितान्पुरस्तात्
समर्पयामास
तथा
सखीनाम्
॥९५॥
अथ
सा
वृन्दा
वृन्देन
स्वगणेन
सहिता
राधाकृष्णयोः
सखीनां
चाग्रे
नानाविदंशैर्मधुपानानन्तरभोज्यैः
सहितान्विविधान्माध्वीकभेदान्समर्पयामास
॥९५॥
तांस्तान्प्रपिबतां
तेषां
पानपायनमाधुरी
।
नेत्रोन्मादाय
वृन्दादेश्चिराय
मदिरायते
॥९६॥
तेषां
मिथुनानां
स्वकर्तृकपाने
अन्यकर्तृकपायने
माधुरी
वृन्दादेर्नेत्रोन्मादाय
चिराय
मदिरा
इवाचरति
मदिरायते
॥९६॥
अविरतमधुपाने
स्वादुकान्ताधरोष्ठं
सततमधरपाने
मध्वभूत्तद्विदंशः
।
मदनमधुमदाभ्यां
तृष्णया
पानभाजां
मिथ
इह
मिथुनानां
निश्चयो
नास
पाने
॥९७॥
अविरतमधुपाने
कृते
स्वादु
कान्ताधरोष्ठं
विदंशोऽभूत।
सततमधरपाने
कृते
सति,
तन्मधुमदाभ्यामितस्तृष्णया
मिथः
परस्परं
पानभाजां
मिथुनानां
श्रीकृष्णव्रजसुन्दरीणामिह
अधरमधुपाने
निश्चयो
नास
न
बभूव
।
किं
मधु
को
विदंश
इति
कः
कान्तः
का
कान्ता
इति
वा
निश्चयो
न
बभूव
॥९७॥
माधवागत्यनङ्गोत्थैर्मदैर्माधवपानजैः
।
माधवस्पर्शजैश्चासन्व्याकुलास्ताः
वराङ्गनाः
॥९८॥
माधवस्य
वसन्तस्यागतिरागमनं
तज्जन्यैरनङ्गोत्थैश्च
मदैः
।
माधवपानजैर्मधुपानजैर्मदैर्माधवस्य
कृष्णस्य
स्पर्शजैर्मदैस्ता
वराङ्गना
व्याकुला
आसन॥९८॥
स्खलितवसनभूषाङ्गाद्य
सम्भालनं
यत्स्फुटहसितमकाण्डेऽप्रश्नपूर्वोत्तरं
च
।
प्रलपितमणिदानं
चोत्थितं
वल्लवीनां
प्रथयति
मदमन्तर्वारुणीपानजं
तत॥९९॥
वल्लवीनां
वारुणीमदिरापानजं
तदन्तर्मदं
पूर्वोक्तं
प्रथयति
।
पूर्वोक्तं
तत्तदेवाह—
स्खलितवसनादेरसम्भालनमदर्शनमज्ञानमिति
यावत।
पुनरबन्धनादिना
अकाण्डे
कारणं
विना
असमये
स्फुटहसितम्
।
प्रश्नं
विनोत्तरं
निदानं
कारणं
विना
प्रलपितं
जल्पितमुत्थितं
च
॥९९॥
निधुवनमनु
पूर्वं
यत्प्रियेण
प्रियाणां
स्खलनमयनवासः
केशवाचां
विधेयम्
।
मधुमद
इह
कुर्वन्तद्वधूनाममूषाम्
अकुरुत
मुरशत्रोः
प्रीतिसाहाय्यमस्य
॥१००॥
निधुवनमनु
निधुवने
रहस्यलीलायां
पूर्वमादौ
प्रियेण
प्रियाणां
यतयनं
गमनं
तत।
गमनवासः
केशवाचां
चतुर्णां
स्खलनं
विधेयम्
।
इह
मधुपानकेलौ
मधुमदोऽमूषां
वधूनां
तत्तेषां
स्खलनं
कुर्वन्मुररिपोरस्य
प्रीत्याः
साहाय्यं
स्वयमेवाकुरुत
॥१००॥
उक्तौ
लोहलता
गतौ
स्खलितता
केशांशुके
स्रस्तता
नेत्रान्तेऽरुणता
मुखे
सुरभिता
नेत्रे
तथोद्घूर्णता
।
नर्मोक्तौ
स्फुटता
दृशि
भ्रमितता
तत्तत्कृतौ
धृष्टता
यायासीत्सुदृशां
तदा
त्रिसरकोत्पन्नाधिनोत्सा
प्रियम्
॥१०१॥
तदा
सुदृशां
त्रिसरकोत्पन्ना
।
त्रिभ्यो
वृक्षजगुडजपुष्पजेभ्यः
सरकेभ्यो
मधुभ्य
उत्पन्ना
या
या
चेष्टाभूत्,
सा
सा
प्रियं
कृष्णमधिनोत्प्रीणयामास
।
सा
सा
का ?
उक्तौ
लोहलता
गद्गदता,
गतौ
स्खलितता,
केशांशुके
स्रस्तता,
नेत्रान्तेऽरुणता,
मुखे
सुरभिता,
नेत्रे
उद्घूर्णता,
नर्मोक्तौ
स्फुटता
दृशि
भ्रमितता,
तत्तत्कृतौ
तत्तल्लीलादिचेष्टायां
धृष्टता
॥१०१॥
कृष्णे
व्रजाम्बुजदृशां
हृदि
गाढ
रागो
नारीस्वभावजह्रिया
विनिगूहितो
यः
।
आडम्बरं
मधुमदस्य
न
सोढुमीशो
नेत्रोत्पलेषु
बहिरेत्य
चकार
वासम्
॥१०२॥
व्रजाम्बुजदृशां
कृष्णे
यो
गाढरागः
स्त्रीस्वभावजह्रिया
विनिगूहितो
गुप्तोऽस्ति
।
सरागमधुमदस्याडम्बरं
सोढुं
नेशो
न
समर्थः
सन्,
बहिरेत्य
नेत्रोत्पलेषु
वासं
चकार
।
रागस्यारुणवर्णत्वं
नेत्रस्य
मदजन्यारुण्यं
च
प्रसिद्धम्
॥१०२॥
नवेन
मधुपानेन
काचिन्नवकिशोरिका
।
मदोद्रेकाद्भ्रान्तनेत्रा
प्रललापातिविह्वला
॥१०३॥
प्रललाप
प्रलापोऽनर्थकं
वचः
।
मधुपानस्य
वयसश्च
नव्यत्वेन
मदस्याधिक्येन
उद्भ्रान्तनेत्रा
अतिविह्वला
च
॥१०३॥
लललललिते
पपपपश्य
राधाच्युतौ
ससससह
वो
ममममण्डलैर्भ्राम्यतः
।
विविविविपिनं
ममममही
च
ताभ्यां
समं
गगगगगनं
लम्बते
हा
कथम्
॥१०४॥
ललिते
!
पश्य
राधाच्युतौ
वो
युष्माकं
मण्डलैः
सह
भ्राम्यतः
।
विपिनं
मही
च
ताभ्यां
राधाच्युताभ्यां
समं
गगनं
लम्बते
गच्छति
कथं ?
हा
इति
विस्मये
।
कथमेवं
भवति
।
पदमिदमादौ
सदर्थाभावात्सल्लग्नार्थं
न
।
तत्रापि
ललितादिशब्दकथने
अधिकलकारादेः
स्खलनं
सुतरामेव
व्यर्थम्
॥१०४॥
विसृत्वरामोदविकृष्टभृङ्ग
विकस्वराम्भोजविनिन्दिवक्त्रः
।
मध्वासवेष्टाधरसीधुपान
प्रोद्बुद्धकन्दर्पमदातिलोलः
॥१०५॥
अन्तर्विलोलालिसमीरवेल्लत्
प्रोत्फुल्लरक्तोत्पलजैत्रनेत्रः
।
ललास
लोलल्ललनासुधृष्णक्
कृष्णः
सतृष्णालिरिवाब्जिनीषु
॥१०६॥
(
युग्मकम्
)
अब्जनीषु
पद्मिनीषु
सतृष्णभ्रमर
इव
लोलल्ललनासु
चञ्चलगोपीषु
सुधृष्णक्कृष्णो
ललास
।
कीदृशः
कृष्णः ?
विसृत्वरामोदेन
दूरागामिसौगन्धेन
विकृष्टा
आकृष्टा
भृङ्गा
येन
तादृशं ?
विकस्वरं
प्रफुल्लमम्भोजं
विनिन्दितुं
शीलं
यस्य
तादृशं
मुखं
यस्य
सः
।
मध्वासवस्य
इष्टाधरामृतस्य
च
पानेन
प्रोद्बुद्धौ
यः
कन्दर्पमदस्तेनातिलोलः
।
अन्तर्मध्ये
विलोलोऽलिर्यत्र
तादृशं
च
तत्समीरेण
वायुना
वेल्लत्चालितं
प्रोत्फुल्लरक्तोत्पलं
तस्य
जैत्रं
जयशीलं
नेत्रं
यस्य
सः
॥१०५१०६॥
मदेरिताभ्यामथ
तौ
सखीभ्यां
रिरंसयान्तश्च
सुषुप्सया
च
।
निषेवितावासतुरालिपालिः
सुषुप्सया
केवलयाञ्चितासीत॥१०७॥
तौ
राधाकृष्णौ
मदेरिताभ्यां
सखीभ्यां
सखीरूपाभ्यां
रिरंसा
रमणेच्छा
सुषुप्सा
शयनेच्छा
ताभ्यां
निषेवितौ
आसतुर्बभूवतुः
।
आलिपालिः
सखीश्रेणी
केवलया
सुषुप्सयाञ्चिता
युतासीत॥१०७॥
तयोर्मदोत्पन्ननिगूढलीला
स्पृहाविदह्प्रेरणयाथ
कौन्द्याः
।
कान्तावतंसार्थमशोकपुष्प
गुच्छाय
गच्छत्यरविन्दनेत्रे
॥१०८॥
कान्तापि
घूर्णा
परिपूर्णिताक्षी
सेवापरालीततिसेव्यमाना
।
निकुञ्जकुञ्जाभिधकुञ्जराजे
सुष्वाप
पुष्पावलितल्पभाजि
॥१०९॥
(
युग्मकम्
)
तयो
राधाकृष्णयोर्मदोत्पन्ननिगूढलीलायां
या
स्पृहा
तां
जानाति
या
तस्याः
कौन्द्याः
प्रेरणया
कान्तायाः
राधायाः
अवतंसार्थं
कर्णभूषणार्थमशोकपुष्पगुच्छाय
अरविन्दनेत्रे
कृष्णे
गच्छति
सति,
कान्तापि
राधापि
घूर्णया
परिपूर्णिताक्षी
सेवापरालीनां
तस्या
सेव्यमाना
।
पुष्पावलितल्पभाजि
निकुञ्जकुञ्जाभिधकुञ्जराजे
।
निकुञ्जोऽयं
कुञ्जाभिधः
कुञ्जाकारत्वात्निकुञ्जकुञ्जाभिध
उत्तरपदविशेषणः
कर्मधारयः
।
स
एव
कुञ्जानां
कुञ्जेषु
वा
राधा
कुञ्ज्राजः
।
अवधारणपूर्वपदः
।
किं
वा,
निकुञ्जेषु
मध्ये
कुञ्जाभिधः
कुञ्जराजः
।
निकुञ्जकुञ्जाभिधकुञ्जराजस्तस्मिन्विशेषतः
पद्मकुल्यवर्णिते
श्रीमल्ललिताकुञ्जे
सुष्वाप
॥१०८१०९॥
गन्धोत्तमाः
परिमलाधिकवासितोद्यज्
जृम्भोद्गमास्यकमला
गलदम्बराङ्ग्यः
।
घूर्णायमाननयनाः
शयनाभिलाषाः
सख्योऽप्ययुस्तत
इतः
स्खलिताङ्घ्रिपाताः
॥११०॥
तथा
सख्योऽप्ययुः
कुञ्जान्गताः
।
कथंभूताः
सत्यः ?
गन्धेन
श्रीमदङ्गसौरभेणोत्तमाः
परिमलो
दूरगामिजनमनोहरगन्धेनाधिकं
यथा
स्यात्तथा
वासि
तानि
युक्तानि
च
तानि
उद्यत्जृम्भाया
उद्गमो
येषु
तादृशानि
चेति
।
किं
वा,
परिमलेनाधिकं
वासितः
सनुद्यत्जृम्भोद्गमो
येषु
तादृशानि
आस्यकमलानि
यासां
ताः
।
गलन्ति
अम्बराणि
अङ्गेभ्यो
यासां
ताः
घूर्णितनेत्राः
शयनेऽ
भिलाषो
यासां
ताः
।
तत
इतः
स्खलितानि
चरणानि
यासां
ताः
॥११०॥
तल्पोपकल्पनगृहीतदलालिकञ्ज
किञ्जल्कधूलिपरिपिञ्छरितान्तरेषु
।
संवर्तिकाब्जदलपल्लवपुष्पतल्प
पुञ्जेषु
चञ्चदलिगुञ्जितमञ्जुलेषु
॥१११॥
गुञ्जावलीकुसुममञ्जरिचित्रितेषु
ताम्बूलगन्धजलभाजनराजितेषु
।
कुञ्जेषु
कञ्जवदना
मदखञ्जनाक्ष्यः
सर्वाः
पृथक्पृथगिताः
सुषुपुर्वयस्याः
॥११२॥
(
युग्मकम्
)
सर्वा
वयस्याः
पृथक्पृथगिता
गताः
कुञ्जेषु
सुषुपुः
।
कीदृशेषु ?
तल्पानां
शय्यानामुपकल्पनाय
कारणाय
उपकल्पने
वा
गृहीता
ये
दलालिं
कोमलपत्रसमूहश्च
कञ्जानां
पद्मानां
किञ्जल्काः
केशराश्च
धूलयश्च
तैः
।
किं
वा,
गृहीता
या
दलालिश्च
पद्मकिञ्जल्कानां
धूलयः
सूक्ष्मचूर्णाश्च
ताभिः
परि
सर्वतः
परिपिञ्जरितं
व्याप्तमन्तरं
मध्ये
येषां
तेषु
।
पुनः
कीदृशेषु ?
नवीनपत्रपद्मदलपल्लवैश्च
पुष्पशय्यानां
पुञ्जः
समूहो येषु तेषु । चञ्चदलीनां पुञ्जितेन मनोज्ञेषु ॥१११॥
गुञ्जावलीभिः सह कुसुममञ्जरिभिश्चित्रितेषु । ताम्बूलस्य गन्धजलस्य । यद्वा,
चन्दनकेशरकस्तूर्यादिगन्धस्य जलस्य च भाजनानि पात्राणि तै राजितेषु ॥१११११२॥
श्रीचैतन्यपदारविन्दमधुपश्रीरूपसेवाफले
दिष्टे श्रीरघुनाथदासकृतिना श्रीजीवसङ्गोद्गते ।
काव्ये श्रीरघुनाथभट्टविरजे गोविन्दलीलामृते
सर्गोऽगाद्गणितस्चतुर्दशतया मध्याह्नलीलामनु ॥ओ॥
श्रीगोविन्दलीलामृतकाव्यस्य मध्याह्नलीलायां चतुर्दशतया गणितः सर्गः समाप्तोऽभूत। इति सदानन्दविधायिन्यां चतुर्दशसर्गार्थः ।ओ॥
॥१४॥
]