[[सत्यापरिणयः Source: EB]]
[
॥ सत्यापरिणयः ॥
॥ ***प्रथमस्सर्गः*** ॥
श्रियः पतिस्सर्वजगन्महेश्वरो हरिः पुराणः पुरुषोऽब्जजन्मना।
धरावनार्थं बहुधार्थिताभवत् कुले यदोरानकदुन्दुभेः सुतः॥ 1 ॥
वसन्पुरे द्वारवतीसमाह्वये (1)खलार्दनं शिष्टजनैघरक्षणम्।
ततान सद्भक्तजनान्भवाम्बुधेः ररक्ष च स्वावगमोपदेशतः॥ 2 ॥
(2)शतक्रतुप्राप्तमनोरथव्रजा सनन्दना चामृतकल्पिताशना।
बभौ पुरे यत्र महासुरावलिः यथा (3)बुधालिर्गुरुशासने स्थिता॥ 3 ॥
अनन्तकाव्यादिकनिर्मिति(4)प्रथासमन्वितेयं न बहूचकार तम्।
पुरैकरामायणकाव्यनिर्मितिप्रवीणवल्मीकभवादिसत्कविम्॥ 4 ॥
नयान्विता सा विनयोज्ज्वलाप्यभूज्जिताभिलाषाप्यजितस्पृहा बभौ।
मतौ (5)गुरोर्वन्दनतत्परानिशं चकार वाचा हि गुरोः पराभवम्॥ 5 ॥
यथार्थवाचां गणिता च साग्रतः प्रपञ्चमिथ्या (6)प्रतिवादनप्रथाम्।
बभार विद्यास्थितिमप्युपेयुषी बभावविद्यास्थितिमभ्युपेयुषी॥ 6 ॥
विपक्षभिन्नक्षितिभृत्प्रदक्षिणप्रवीणपाणेर्बलविद्विषो (7)हरेः।
जहास यत्पत्तननिष्ठबाहुजव्रजो (8)विपक्षान्तकरो हि वैभवम्॥ 7 ॥
नितान्तभीष्मप्रमुखारिकर्णदुः सहाति विक्रान्ति विहारभासुरः।
(9)किलाभवत्यद्यबलारि दुर्जयो रराज धर्मानुगुण इवोज्ज्वलः॥ 8 ॥
अयं सहस्रं शुकदत्ततेजसो ननन्द चन्द्रस्य (10)न राजतां स्वयम्।
अलं सहस्रां शुकदानकर्कशं (11)द्विजातिसंघस्य समर्थतां गतः॥ 9 ॥
(12)पटुस्स्वयं मित्रसहस्रपोषणे जगत्रयेऽपि प्रथितां न राजताम्।
ननन्द भूपालचयो निशाकरे निशासु मित्रे प्रतिपाद्य तेजसि॥ 10 ॥
सुयोधनस्यैव न राजराजतां सधर्मवैरामुररी चकार न।
धनाधिपस्यापि (13)सुहृत्पुरद्विषो दिगम्बरत्वप्रतिषेधनक्षमाम्॥ 11 ॥
अयं (14)सुमेरोः प्रथितस्य धीरतागुणेऽपि धैर्यं यदलं निनिन्द तत्।
विचिन्त्य किं तस्य (15)विनम्रता त्रिधा पुरा (16)पुरारातिपुरत्रयीजते॥ 12 ॥
सपारिजातोऽपि वनीपिकावले(17)रपारिजातत्वमुपेविवान्बभौ।
गतोऽपि बाढं किल सार्वभौमतामवारणत्वं प्रतिपेदिवान् रणे॥ 13 ॥
मृधे कथं वै तदमित्रमण्डलीविभेदनास्त्रोद्भवेदहशालिनः।
नृपालसंघस्य च मित्रमण्डली (18)विभेदिता हेतुगुणातिरेकजा॥ 14 ॥
रथेमदेभे तुरगे धरातले शरासने (19)सत्फलके परश्वधे।
दिवा निशीथे विजने स सैनिके समासयोग्ये जयति स्म सङ्गरे॥ 15 ॥
विभाति यत्र स्म हसन्विशाङ्गणो विभूतिमीशस्य गतस्य लुब्धताम्।
मनोरथस्य प्रतिपादने पृथासुतस्य चार्थार्धमुपेयुषोऽर्थिताम्॥ 16 ॥
धरासुरान् रासचयेन-धन्यतां नयङ्करेण (20)क्षितिपालसंहतिम्।
(21)भृतिप्रदानेन च पादजन्मनो दधार (22)सेनस्य (23)गतार्यसत्पदम्॥ 17 ॥
बभार सत्यानृतभागपि स्वयं ससत्यवाचां पुरतो गणीयताम्।
धनाधिनाथत्वमुपेयिवानसौ न रज्यति स्माग्रसहायता गुणे॥ 18 ॥
फणीश्वरोद्यऽपि (24)च विश्रुताम्मणीनहो यदीयान् स्वफणाश्रयाधिकान्।
करोति संस्मृत्य कदापि कम्पनं शिरस्सु भूकम्प इतीर्यते तदा॥ 19 ॥
हरिर्मणीन् वीक्ष्य यथा फणस्थितानुरस्थलीभासुरहारमध्यंगम्।
ह्रियाप्यथात्वं किमु (25)सिन्धुसंभवं मणिं (26)रमाहृद्भरणक्रियाच्छलात्॥ 20 ॥
(27)मणिः सदृक्षं मणिकुण्डलद्वयी (28)स्पृहायुतं स्वस्य (29)मणेर्यदार्पणे।
हरिर्वियिन्वन्नपि तत्प्रकृष्टता लसन्मणिस्तोमयुतेन लब्धवान्॥ 21 ॥
यदङ्घ्रिजन्मप्रकरे च जाहनवी सहोदरे विक्रमजालशालिता।
अवस्थितो यद्बलिमस्तके बभाविति द्वयं हेतुगुणोद्भवं किमु॥ 22 ॥
पुराणजालश्रुतिसावधानता मुरारिसेवाधिकधर्मसंग्रहात्।
वृषग्रहार्थं (30)वृषलाभिधां गतो बभावयं योगवशान्नरूढि वः॥ 23 ॥
(31)महीसुरा यं तपसोऽभिरेभिरे (32)यमश्वमेधादिमखैश्च बाहुजाः।
(33)यमूरुजा दानचयेन तं वृषं जगाम धात्री सुरसेवनादयम्॥ 24 ॥
मुरान्तके यस्य न भक्तिरुत्तमा सशूद्र एवोत्तमवर्णभागपि।
न शूद्रता यस्य च सेति (34) शास्त्रतो न शूद्रता स्म प्रतिभाति वैष्णवे॥ 25 ॥
कथं नु (35)तत्पत्तनसामजव्रजो जितो भवेदन्यनृपालसिन्धुरैः।
गतो (36)यदाशागजतां बलद्विषा गजागजा तस्य जये निराशताम्॥ 26 ॥
सनूनमाशागजनाम संहताविति प्रभेदे सहतां गजव्रजः।
विभेद (37)तन्नामकमप्यनेकथा न पुण्रीकं कुमुदं यतो (38)बले॥ 27 ॥
मरुत्करी (39)तद्वरविक्रमश्रुतिं प्रभूतरोषः प्रथमेषु संगतः।
प्रभिन्नवन्तो बहुशो (40)पलायितैः तदादि याति स्म (41)सपुष्पदन्तताम्॥ 28 ॥
रराज योऽवग्रहयुक्ततां गतो (42)रणक्षमायां निरवग्रहोऽपि सन्।
हिमाद्रिहेमाद्रि (43)समानसारवान् चकास्ति (44)पत्रेऽस्य सपीलुतां गतः॥ 29 ॥
ववर्ष तत्रत्या(45)घनाघनावली घनात्र धारा बहु दानवारिणः।
अवग्रहाद्यापि यतोह्यनेक प्रव्रजामतो दानविधौ निरर्गलः॥ 30 ॥
गतोऽप्यहो सामजतां (46)गजव्रजो बिभेद सर्वं गुरुमुन्नतामगम्।
कथं नु मत्ते गणिकासुतोलुपे गुरौ हि भक्तिर्मधुपाय (47)संश्रये॥ 31 ॥
करीन्द्रसंघो निगमाश्रयोज्वला भृशं न (48)गेहे विटपालिसंगतिम्।
स शाखिनां नैवमहात्मना व्रजः (49)सहत्वभाक्पल्लविकातिसंगतौ॥ 32 ॥
न चित्रमेतत् कृतवीर्यसन्तति बिभेद यत्सो (50)भृगुसंततिंत्विति।
इदं हि चित्रं गजता चकार यद् (51)बलोन्महारामविभेदनं बहु॥ 33 ॥
बिभेद शृङ्गेण युतेन भूभृता घनाघनोऽयं भिदुरेण रोषतः।
बिभेद वृत्रं समरे क्रुथा बलान्वितं चा(52)जिष्णुत्वमुपेयुषो बलात्॥ 34 ॥
सदानवारित्वमुपेयिवान् यथा बिभेद सर्वं हि पलाशिनां कुलम्।
प्रपेदिवान् यद्घनवाहनत्वमप्यतो बिभेदैष धरां भृतां व्रजम्॥ 35 ॥
वरन्ति घण्टापथसीम्नि सामजास्सघण्टिका यत्र युताः प्रकीर्णकैः।
(53)समार्जिताभिः भवनत्रयेभसंजयेन मूर्ताभिरिव स्म कीर्तिभिः॥ 36 ॥
कथं नु (54)तत्पट्टनघोटकव्रज(55)स्यचो वचो (56)गोचरतामुपैष्यति।
मरूढ्गतो पत्सदगन्धवाहतां दधार नाम्ना भुवि गन्धवाहताम्॥ 37 ॥
करोति योग्यां पदनो यदाश्रयः स्यदेश्च योद्याऽपि सदा गतिच्छलात्।
अनन्तवर्त्मस्वपि चञ्चलोत्मनां निसर्ग(57)एवायमासाद्य कांक्षिता॥ 38 ॥
मरुज्जयेन प्रथितस्य मानसे जयः (58)कियानस्य च बाडवस्य या।
सुवर्णसंतापनिदानता कथा भरेण वेगस्य (59)कियस्य सा भवेत्॥ 39 ॥
तदीयवेगातिशयं मरुद्गणैर्विधाय वर्ण्यं बहुकर्मगोचरम्।
दधार देहे किमु मानसाधिना बलारि (60)वाहे निखिलेऽपि पाण्डुताम्॥ 40 ॥
(61)प्रवर्धतां बाडव विक्रमो(62)यथा (63)स सत्त्वमाक्रन्दनमद्य गोपतः।
तदा तदा सेत्वरवादिनीगणेश्वरस्य पत्राधिकजीवनक्षयः॥ 41 ॥
कथं भजेतेतरधोरणव्रजः समत्वमन्यप्रथितस्य (64)तस्य यता।
गता गतावेदतधीनतां रथव्रजागमद्वाहनचक्रवर्तिताम्॥ 42 ॥
इयेष पातालनिवासिनो बलेः पदन्नु कर्तुं शिरसि क्षमां यतः।
(65)खर्वैर्भिभेदकपथा स्पृशन्धरां वपां (66)हरित्वेन सविक्रमत्रयम्॥ 43 ॥
किमेष चक्रेषु चिराय संचरन् जगाम (67)तत्संगवशादमुं गुणम्।
यदेष बभ्राम सबाण्डतां गतो विहारदेशेष्वपि चक्रवद्बहु॥ 44 ॥
विभावमद्गेहविपक्षसंहति(68)क्षमान्वितो यत्र हसन् रवे कथम्।
कदापि मद्गेहजयाक्षमास्थितं रथव्रजा भूषणहारभाच्छलात्॥ 45 ॥
नृपा यमारुह्य जयन्त्ययत्नतः पुराण्यनेकानि कथं समो भवेत्।
धरा रथोऽनेन पुरत्रयी जये हरो यमारुह्य बहुप्रयत्नभाक्॥ 46 ॥
कथं शताङ्गव्रजमेनमास्थिता रणे भजेरन् प्रतिपक्षजप्यताम्।
हरिर्यदेकाङ्गरथाङ्गपाणितां (69)भजन्नजेयोऽर्ति न विद्विषां बलैः॥ 47 ॥
यदेष चक्रेऽप्यनिरुद्धतां गतो महा हवेष्वित्यपि युक्तमेव तत्।
तदा यतो व्यूहसमूहमध्यगो बभावतस्तत्र कथं नु विस्मयः॥ 48 ॥
अयं (70)स्म(71)दुर्योधनतामुपागतो यदा यदा प्राप ससैन्धवो जितात्।
रणक्षिति तद्वदवीर्यसंयुतस्तदा द्विपद्भीमबलं पलायते॥ 49 ॥
(72)तदातिसंद्ये न कथं समा भवेद्रथादि युग्मस्थितराजसंहतिः।
(73)यदेतदीयप्रथनेषु दुष्टवत्सुवाह सा पत्र पताञ्च विक्रमम्॥ 50 ॥
(74)भवान् समीकेषु पुरस्सरो यतः परश्वधाद्यायुधजालवर्षिभिः।
विभिद्यमानोऽप्यगवन्नकम्पते तदेष नाम्ना पदगत्वभागभूत्॥ 51 ॥
पदातितां प्राप्य(75)रघूद्वहो वने जद्यान युद्धे खरदूषणद्वयम्।
कथामिमां स श्रुतवान् सविस्मयं जगाम (76)भिन्दन् (77)खरदूषणौ बहु॥ 52 ॥
पुरे च तस्मिन् ववृधे निरोधने मनो दधानो (78)वरुणोरुणाध्वनः।
ततो विचिन्त्योऽपरराम किं भयात् (79)प्रशस्तविद्योन्नति संहृतिं मुनिः॥ 53 ॥
अयं गत(80)स्पृष्टमजाण्डमुन्नतं गतोऽपि दूरं विरराम वामनः।
सदैव पस्पर्श यदस्य पौरुषं कियद्भजामीति (81)शिरोऽभिमर्शनात्॥ 54 ॥
तदीय (82)चापेन जितेन भूभृतां गणेन सर्वोन्नततागुणेन किम्।
भिया कृताः कन्दरगर्भसंभवाः महीरुहास्तत्समनामधेयिनः॥ 55 ॥
सवाहिनीकं परभूभृतां गणं (83)नयत्यदृश्यत्वमति (84)व्यराजत।
पुरस्सरस्सत्वरि खातदन्तरे नृपालकोट्या समतामुपागता॥ 56 ॥
(85)यदिन्द्रनीलामलसौ धकीलितां पताकिकान्तद्युतिनीलितायुताम्।
विलोक्य तत्केतु धिया (86)पलायितौ दिवानिशेशावयनद्वयच्छलात्॥ 57 ॥
विभाति तत्र स्म सितापताकिकाः (87)विभीषु किवेन्दु मृगाय संयुता।
तदीयसौधाश्रयगारुडप्रभौषधिप्ररोहव्रजखादनैषिणे॥ 58 ॥
महेन्द्रनीलोपलदण्डकीलिता विलोक्य तत्कान्त्यसिताः पताकिकाः।
(88)घनाघनभ्रान्तियुतैः शरद्यपि प्रसार्य बर्हां ननृते शिखावलैः॥ 59 ॥
रराज यत्रारुणरत्नयष्टिसंयुता सितातद्युति (89)रक्ततायुता।
श्रियान्या(90)राजन्यपुरिजयार्जिता यथा प्रतापावलिरस्य मूर्तिभाक्॥ 60 ॥
(91)प्रियामुखाभ्याशगतो कपोलविभ्रमाद्विधासौधगतो युवा पिकः।
(92)व्यलेखि कस्तूरिकया च पत्र संचयं कृतं तस्य (93)कलङ्कितामयम्॥ 61 ॥
तथेन्द्रनीलोपलसौधमण्डलप्रदीप्तिरेखाञ्चितमण्डलं रविम्।
विलोक्य तस्यापि(94)कलङ्कितं कला(95)विधोरिवामंस्त पुरीजनव्रजः॥ 62 ॥
गतं यदर्को पलसौ धसन्निधिं तदीयभाच्छादितलाञ्छनं (96)विधुम्।
पुरीजनो वीक्ष्य कलङ्किता प्रथामहो यथार्थं मनुते स्म कर्हिचित्॥ 63 ॥
(97)विधुं यदीयारुणरत्नसौ धसंचयप्रभामण्डलमध्यगामिनम्।
विलोक्य रक्तां शुममुष्य शाश्वतीममंस्त शुभ्रां शुकतां जनो ध्रुवाम्॥ 64॥
यदिन्द्रनीलोपलकुट्टिमोदरे गतो रराज प्रतिबिम्बतां रविः।
समन्ततो (98)रात्रिरिवान्धकारसंचये न तस्य प्रतीकारकाङ्क्षिणी॥ 65 ॥
यदीयसौधाग्रतलेषु संबरन् (99)मणिस्फुरत्कुट्टिमबिम्बसंछलात्।
चकार यानाद्ययनाय सुन्दरी जनाङ्घ्रिसेवां किमु गोत्रभिद्गजः॥ 66 ॥
किं वर्णनेन बहुना पुरुषः पुराणस्तां द्वारकामधिवसन् कमलासहायः।
संसेवितो यदुगणैः सनकादितुल्यैः वैकुण्ठनाम्नि नगरे न मनश्चकारा॥ 67 ॥
एतां प्रधाननगरीं प्रविधाय सर्वां भूमिं प्रशासति रमादयितो वसन्तः।
कुर्वन् वने नगचयं सुमनो विकासपूर्णं निषेवितुमिवैनमुपाजगामा॥ 68 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काण्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगच्छदादिमस्सर्गः॥ 69 ॥
.
॥ द्वितीयः सर्गः ॥
समरपार्थ! दिगन्तमहीपतिप्रकरवर्णितसद्गुणसंहिते!।
समरमुख्य!(1)ऋतुत्रितये हरेः विहरणं शृणु माण्डमहीविभो!॥ 1 ॥
अथ वसन्तमशोकवनं घनं समधिगत्य (2)दधावतिरक्तताम्।
विषमबाणशरोत्करपूर्णतामधिगतं युवती मनसा समम्॥ 2 ॥
मधुरयं मधुरः खलु कस्य वा युवजनस्य (3)हृदाशु न रञ्जयेत्।
अतितरां यदयं समरञ्जयत् मधुरिपोरपि मानसमञ्जसा॥ 3 ॥
मदनयित्रऋतौ समुपागते भुवि न को रसिको वनितापरः।
अपि गतां जडतां (4)धरणीमहो (5)यदतिपल्लविकत्वमुपागतः॥ 4 ॥
मथितपान्थजनप्रकरे तथा भुवि न(6)को मदनेन जितो भजेत्।
भवति मुग्धतमापि वनावलिर्यदतिपल्लवसङ्घसमाकुला॥ 5 ॥
द्विषति (7)चेद्यदि (8)माधवमस्य को न भवति प्रतिपक्षजनो भृशम्।
अरुणवीक्षणवान्विपिनप्रियद्विजचयः पथिकं निरभर्त्सयत्॥ 6 ॥
मदनपावकहेतिसमैस्सुमैः विरहिसङ्द्यमिदं कृशतां नयत्।
बहु रराज पलाशवनं दधज्जगति योगवशेन पलाशताम्॥ 7 ॥
प्रसववानपि (9)पर्णमहीरुहो महिजनैरखिलैरपि (10)किशुकः।
इति मतेऽप्यथ यत्त्वधिकं हि को व्रजति दिष्टपिरोधिनि मित्रताम्॥ 8 ॥
मधुविभौ महिते मधुपावलिश्चरति (11)झंकृतिना हि सपञ्चमः।
बत पिको भजतां सुमवाटिका भवति (12)कालवशान्मलिनो बलिः॥ 9 ॥
व्रजति राज्ञि मधोरनुकूलतां परभृतो भजतोऽस्य सहायताम्।
(13)विरहिणां मदनोऽपि विरोधितां भवति राजभवे हि न को बली॥ 10 ॥
(14)ऋतुमते विपिनावलिरप्यहो (15)प्रसवमुक्ततया रुरुचे भृशम्।
अपि (16)वनीतलसंजनिता द्रुमास्सदवनीतलभूषणतां गताः॥ 11 ॥
अधिगते सहकारतरूत्करे सुरभिमात्मसमुद्भवकारणम्।
मनसिजेन दधार स नूनता(17)मतितरां च हृदाध्वगमण्डलम्॥ 12 ॥
मनसिजेन वियोगिजनोत्करः कुसुमबाणशतैरपि कीलितः।
(18)दृढमसूनतयैव युताऽभवत् न हि वियोगिकृतिर्विषयो मतेः॥ 13 ॥
विविधपुष्पितकाननमण्डली विहरणादिकतुन्दिलसौरभः।
उपययौ मलयाद्रिसमीरणो (19)घनतटाकपृषद्घनशीतलः॥ 14 ॥
मलयमारुतचोरवचश्चन् जगति मन्दतरं विकिरन् बहु।
समुपरागविमोहनचूर्णकं युवजनावलिधैर्यमपाहरत्॥ 15 ॥
(20)सुरभिणी सचिवेन समन्वितो मलयमारुतवाहनमस्थितः।
(21)सुमशरो जयति स्म जगत्रयीमधिकदृप्तवनप्रियसैनिकैः॥ 16 ॥
(22)विकचपद्ममुखैर्युवतीजनैर्वनविहारमुपेत्य रमापतिः।
क्षणमिवातिमुदा निरयापयत कुसुमबाणसखं समयाधिपम्॥ 17 ॥
अथ मधूपरति समयो गतो भजत तापयुतश्शुचितामयम्।
उपहसन् रुचिरा नवमल्लिका भृशमनुष्यमुदे (23)निमघद्विपः॥ 18 ॥
(224)कथमृतुस्त्वपरस्सदृशो मया (25)भुवनरसत्वमधुर्निखिला जनाः।
सरससङ्गरता मदनुग्रहादिति हसन्नवमल्लिकया बभौ॥ 19 ॥
रविरविन्दत एष्टत बान्धत प्रथितनाम तदाप्यखिलान् जनान्।
(26)अतितपन्नपि तद्वदयं तपः शुचिपदं वहते खलु तीक्ष्णता॥ 20 ॥
(27)दिनमणिर्भुवनत्रयविक्षुति मधिगतः किल सारसमित्रताम्।
अपजहार स(28)सारस जीवनं भवति तीक्ष्णकरे क्व नु (29)मित्रता॥ 21 ॥
युवजनो भृशतापनिपीडितो जलढसंघमनास्तदलाभतः।
(30)अतिघनौ (31)दयितोरुपयोधरौ हृदि निवेश्य जहौ समनामकौ॥ 22 ॥
अथ मधोर्विलयेन जिजीविषु द्विगुणतापमविन्दत वर्त्मगः।
अहनि भानुकरैर्निशि मल्लिकासुमशरैर्मदनेन समीरितैः॥ 23 ॥
(32)रुज नवत्वरितापि तमूष्मणा गतवतातिशयं भृशमातनोत्।
क्षितिजनं व्यजनं गतवेदनं सुहृदिवापि हतैस्स्वसमीरणैः॥ 24 ॥
(33)सुरभिमत् किमु शम्बर वैरिणं सुहृदमैच्छदयम् समुपाहरन्।
नवशिरीषशरान् पथिकार्तिदान् यदतनोत् बहु (34)शम्बघयर्षणम्॥ 25 ॥
अखिलतापकरस्य च मित्रतां (35)खरकरकरस्य (36)जनश्रमहारिणः।
जलनिधेश्च जडाशयतां वदन्नुपकृतेर्मनुजः क्व नु भाजनम्॥ 26 ॥
(37)निखिलतापहरे जलदागमादपि (38)हृदयमादधता (39)शशिनामकः।
उचिततां घनसारपदं तदा बहुदधा धरणीतलविश्रुतम्॥ 27 ॥
स हिमवालुकचन्दनरूषितं स्वदयितोरुपयोधरयोर्युगम्।
अथ (40)निपीतहृदा कमनव्रज(41)स्मरनिदाघजतापयुगं जहौ॥ 28 ॥
स्व दयिताभिरसौ कमलापते(42)र्वनरुहा करवारिविहारिणः।
सुखकरो निरगात्समयोऽखिलो भवति भाग्यवतां खलु शर्मदः॥ 29 ॥
अथ महाजनतापहरो दधत् (43)बहुलजीवनपूरितवाहिनीः।
मलिनवर्त्म विजृम्भणहृद्बभौ स धरणीपतिवज्जलदागमः॥ 30 ॥
भुवि (44)जलाशयमण्डलमादधत्सरसतामपि तीक्ष्णकरो रविः।
सपदि सौम्यकरत्वमुदावहद्भवति सद्गुणदो हि घनागमः॥ 31 ॥
(45)सततविष्णुपदाश्रयता जुषो विरचितासितकण्ठमनोमुदः।
कलयति स्म सदामृतदायिनो जलमुचो घनतामुचितां जनः॥ 32 ॥
निजमनोगतकाङ्क्षितसंततेर्निरुपधं (46)सफलीकरण (47)क्षमाम्।
जलमुचं (48)घनसौहृदवद्दृशामहितबन्धुमिवैक्षत कर्षकः॥ 33 ॥
विरचिते विषदेन सपङ्कके कृतपुरातनसेतुविभेदने।
उचिमतमत्र न वस्तु इति ध्रुवं क्षितितलं शुचिहंसगणो जहौ॥ 34 ॥
क्षणऋचो जनलोचनदुःसहाः प्रचुरक्षीतिकृदारव (49)हेतुकः।
रुरुचिरे दिवि दुष्टजनाश्रयश्रिय इवाधिकलोलविज्रम्भणाः॥ 35 ॥
रुचिरवासवगोपचयाचितं (50)हरितनव्यतृणं प्रथमं खिलम्।
क्षितितलं कुरुविन्दहरिन्मणिस्फुरितकुट्टिमकान्तिभरं दधौ॥ 36 ॥
भुवि कदम्बसुमव्रजसंभृता (51)सुमशरे मदनेऽधिकजृम्भणे।
(52)असुमवा अपि पान्थजनोत्करो न च बभूव तदा सुमना भृशम्॥ 37 ॥
स्वसमये सुखिमानवुदः सहा स्मरविकारभरे सजिजीविषम्।
विहरिणं समुदीक्ष्य घनागमो विकचजाजिमिषेण जहास किम्॥ 38 ॥
(53)धृतपिशङ्गपरिस्फुटकन्दलि सुमचयाघननव्यमहीभृतः।
(54)अलमुपायनमादधतेऽवसत् (55)कनकूनुचयं धरणी बभौ॥ 39 ॥
कलभदन्तरुचि सितकेतकी(56)कुसुमसंगतिमेत्य गतो (57)व्यथाम्।
कृत वियोगविलक्षनिजाङ्गनामणिकपोलरुचिस्मृतिरध्वगः॥ 40 ॥
भृतरजो (58)भरकैतकसंगतेरतितरामपि (59)कृष्णगुणाश्रया।
(60)भ्रमरराजिरगाद्व्रजसान्धतां जगति संगतिजा हि गुणागुणाः॥ 41 ॥
युवजनस्य जयेऽद्य पयोमुचा प्रभवति स्वयमेव निरर्थकम्।
इति तिसृष्टमथ (61)प्रसवेषुणा (62)धनुरिवैन्द्रधनुस्सदृशो दिव॥ 42 ॥
(63)नदगणोऽधिककुर्बुरसंपदा क्षणरुचा सहितेन वितीर्णया।
तरलया गतवानपि वेलतां प्रकृतिरेव हि नीचतराध्वनाम्॥ 43 ॥
निखिलदुर्दिनकारणजन्मनि द्विजपति (64)द्युतिवारणजृम्भणे।
त्वयि वियोगिजने करुणत्वमद्युचितमित्यशपत्वधिकोऽम्बुदम्॥ 44 ॥
कृत विकासभरे सुमनस्ततेरमृतसंभृतमूर्तिमति त्वयि।
किमुचितं मम पीडनमित्ययं सविनयं पथिकोन्यतरोऽब्रवीत्॥ 45 ॥
निजगृहेषु तनूभवसंभवे प्रतिदिनं गतवत्यपि (65)शायिनम्।
किमु हृदोप्यधनेधरणीभृतां अभजदत्र (66)निरुर्यमतां गुणः॥ 46 ॥
कीलालवर्षयुतमं न (67)पुञ्जतुल्यमभ्रंकषाकृतिमनल्पा(68)कठोरगर्जम्।
जीमृतमैक्षत भयेन सकूटचारं तं यातुधानमिव दीनतरो वियोगी॥ 47 ॥
कि गर्जितैः स्वभयकृत्तरवारिधारा सन्दर्शनैस्तववधूजनदर्शनेन।
तत्पौरुषं घनकठोरहृदि (69)प्रिये च (70)सन्दर्शयेति किल पान्थवधू जगाद॥ 48 ॥
तस्यां प्रावृत्ति धन्यमान वमनो हर्षं प्रदायामयं (71)गोविन्दोऽयमपूर्वचन्द्रवदनासन्दोहसंसेवितः।
विन्दन् जातिसुमातिसौरभयुतैर्मन्दैः कदम्बानिलैरानन्दं कृतकाद्रिसेवनमुखैः रेमे विहारैः शुभैः॥ 49 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगात् द्वितीयसर्गोऽयम्॥ 50 ॥
.
॥ तृतीय सर्गः ॥
अवहितेन हृदाकलय द्विजव्रजसुकल्पक!(1)माण्डमहीविभो!।
शरदृतुप्रमुखर्तु मनोज्ञतामुपवने विहृतिं च मुरद्विषः॥ 1 ॥
शमिता(2)पङ्कसमूहजडाशया न कलुषात्मकतां च (3)न्यन्बभौ।
जगति हंसगणैः प्रतिनन्दितस्सुजनसंगमवच्छरदागमः॥ 2 ॥
(4)अतनुवेदनया हि तया पुरा यदतनोद्विरहेष्वतिपाण्डुताम्।
जलधरोऽस्य विपाकवशादिव स्वयमुवाह तदा तनु पाण्डुताम्॥ 3 ॥
अखिलकर्बुरतर्पितभूजनो दिवि रराज कृशोऽपि बलाहकः।
कृतपरोप्रकृता कृशतापि भा(5)त्यधिकतुन्दिलतापि न लुब्धके॥ 4 ॥
(6)अखिलपान्थजनाधिकसंस्तुतः कमलशालिगणो नमिताननः।
कणिशभारमिषेण किलाभवत् प्रकृतिरेव हि साधुतरस्य सा॥ 5 ॥
कलरणत्कलहंसपरंपरावलयरम्यनदीपुलिनव्रजः।
मधुरशिञ्जितमेव हि मानिनी(7)जघनवन्नयनोत्सवकृद्बभौ॥ 6 ॥
धवलतां सममाप तदाधिकां फलितसस्यचयैर्धरणीतलम्।
गगनमम्बुधरैरपि पाण्डवैः ऋतुरयं सिततागुणकारणम्॥ 7 ॥
(8)स्फुटसुधाकरबिम्बहसन्मुखां लसदुडुव्रजहारगुणोज्ज्वलाः।
(9)हिमकरातपशुभ्रपटावृता (10)रुरुचिरे क्षणदाः (11)तरलेक्षणाः॥ 8 ॥
विशदशाद्वलखेलनमां सलो बहु ननर्द तथोन्मुखवान्युधे।
दृषगणाह्वयमान इवाम्बुदं स्मृत पुरानिशवर्षकृतभ्यथः॥ 9 ॥
क्व च न (12)रक्तकपुष्परुचायुता फलितसस्यचयैर्विशदा क्वचित्।
पदतले मृदुशाद्वलमेचकां (13)क्षितिरभादिव चित्रपटावृताः॥ 10 ॥
सुरभिसप्तपलाशरजोऽवहन् (14)स्फुटसरोजमरन्दपृषद्युतः।
(15)वहति यन्मृदुर्शारदमारुत श्रमहरो (16)धरणीतलमण्डले॥ 11 ॥
ऋतुपरस्परवादनिवृतये न हि (17)शरत्सदृशस्समयोऽपरः।
इति परं (18)प्रविवक्षुतया रविद्युतिरिवाशु तुलामधिरूढवान्॥ 12 ॥
मदनसैन्धवता प्रथितः शुकः कणिशमायतलम्बिनमुद्वहन्।
निजमुखे मदनेन सवल्गुतां गमितवद्रुरुचेऽधिरुरूक्षणा॥ 13 ॥
उपरतिं (19)सहबर्हि सुनर्तनैः उपययुर्गिरिनिर्झनिस्वनाः।
विशदतां कमलाकरवारिणा सह जगाम सुधाकरमण्डलम्॥ 14 ॥
विरहिणस्समुदीक्ष्य समुन्नतं (20)विकचजाजिसुमव्रजमत्र सन्।
प्रसवबाणसचामरकुन्त संचयविपर्ययपूर्णहृदन्विता॥ 15 ॥
कलमवप्रतलोद्गतयोत्थितं शुकपरंरया कणिशास्यया।
विरुरुचे शरदब्जमुखीमणेमणिगणोज्वलमेखलया यथा॥ 16 ॥
शरदि पञ्चशरासन रुक्मिणी(21)प्रमुखपद्ममुखीपरिवेष्टितः।
(22)यदुपतिर्विजहार सुधाकरद्युतिशितासु निशासु मुदान्वितः॥ 17 ॥
अथ युवव्रजधैर्यजिहीर्षया प्रसवबाण(23)महाप्रतिरोधिना।
घनविकीर्णविमोहनभूतिमत् (24)हिमचयं निखिलं जगदानशे॥ 18 ॥
(25)स्वजडता प्रविधातरि धातरि (26)कृधमिहादधदेष हिमव्रजः।
अपजहार समुद्भवकारणान्वयविराजि सरोजघनश्रियम्॥ 19 ॥
दिनकृतो बलभित्ककुबङ्गनां (27)जिगमिषुस्समयानुचरा हि ता।
यवनिकेव तदा रुरुचे भृशं दिनमुखे निविडा हिमसंहतिः॥ 20 ॥
कृतशरासनसंस्थितिरद्य संकुचितपादतया विबभौ रविः।
दिवि (28)तदीय सरोवरदेशसन् मकरवृश्चिकजातभयादिव॥ 21 ॥
दिनमणिर्निबिडां निजवल्लभाम्बुजवती विपदं (29)मिहिकाकृताम्।
असहमानतयैव निरीक्षितुं चिरमवाप तदास्तमयं द्रुतम्॥ 22 ॥
निजगृहं व्रजतो (30)गणिकामणेरुषसि वालचयन्मिहिकाकणाः।
पथि निशा यवसंजयहृष्टहृद्भवसमर्पिततारतुलां दधुः॥ 23 ॥
कृतहरिद्गणगाढपिधानया (31)मिहिकया दिनविरहस्थलम्।
(32)दददनल्पनिशाः प्रतिपादयन् ऋतुरयं कुलटौद्यमनन्दयत्॥ 24 ॥
निबिडया सितयाचितमन्तरे (33)मिहिकया शतपत्रभवाण्डकम्।
विरुरुचे समयाख्यवाणिग्वरा हितमवाद्य (34)सिताभ्रकरण्डकम्॥ 25 ॥
ऋतुरयं (35)गतवाक्यहिमान्विता ननु (36)वियोनिजनेत्वहिमान्विताम्।
विरुरुचेऽदिगतस्सुषवो भवा(37)नद्यषमत्वममुष्य गतान्यहो॥ 26 ॥
हिमऋतावरविन्दमुखोष्मवत् कुचकुभृत्परिरम्भणतत्परः।
(38)मुरहरो विजहार दिवाकरोपलविनिर्मित (39)हर्म्यतलाश्रितः॥ 27 ॥
हिममहामिहिका बहुकालसंगतिजवासनया च तदाप्ययम्।
अधिगतोऽन्वभजत्समयस्ततश्शिशिरतां युवतीयुतशर्मदाम्॥ 28 ॥
रचितरक्ततरां शुकसंवृते न मनुजं भुवि शीतमबाधत।
गत (40)इव स्वनिवर्तकतादिरोल्मुकसमूहविपर्ययनिर्भरम्॥ 29 ॥
दिनकरस्तुहिने स्वतिरस्कृतेनिबिडबैरमुवाह हृदा किमु।
यदयमद्य समेत्य तपोबलं हिमचयं (41)बिभिदेन्निजहेतिभिः॥ 30 ॥
खरकरश्शिशिरे सहमीनसंस्थितितया (42)भुवने सतपस्यताम्।
यदगमत्किमविन्ददयं ततो निखिलजन्तुच्येऽप्यतिसौम्यताम्॥ 31 ॥
(43)अतनुरागवशं निजमङ्गकं हिततरं विमृशंतमहर्मुखे।
पतिमिव प्रियमुत्पललोचना न (44)विजहौ शिशिरे नवमातपम्॥ 32 ॥
सपदि केऽधिकशीतभयेन संकुचितपादतया स्म न शेरते।
यदयमुष्णकरस्सवितापि संकुचितपादतयाद्य दिवि स्थितः॥ 33 ॥
(45)वनततिः (46)मरुदुद्धति संवलन्निबिडलोध्रपरागचयाचिता।
विततशीतभिया धवलांशुकावृतियुतेव तदा रुरुचेऽधिकम्॥ 34 ॥
ऋतुरयं घनशीतनिवृत्तये युवति सोष्मकुचद्वयमन्तरा।
मृगमदादिनोषेवणतत्परान् (47)विकचकुन्दमिषादिक सज्जनान्॥ 35 ॥
स्फुटलवङ्गसुमौघमरुत्समुद्धतरजो निचयो ददृशे जनैः।
(48)तद्रुतु दीनवियोगि (49)जनोऽधिको (50)व्यथनजातयशो व्रजवद्दिवि॥ 36 ॥
इति परस्परनिर्भरमत्सरा(51)न्विततयेव ऋतुष्वखिलेष्वपि।
निजहृदो वितरत्स्वतिरञ्जनं हरति एष वनश्रियमीक्षितुम्॥ 37 ॥
अथ कदाचन (52)भीष्मककन्यका(53)मुखशशाङ्कमुकीपरिवारितः।
दनुजदण्डधरोऽण्डजमण्डितं वनतलं प्रति(54)न प्रतिमं ययौ॥ 38 ॥
मुरहरं समयाज गृहद्वयं वनितयोरथ चामरयोर्युगम्।
स्वचिकुरव्रजनिर्जिततामसो ज्वरभरादिव पाण्डुतयान्वितम्॥ 39 ॥
दनुजवैरि तनुद्युतिमण्डलान्तरचलाचलचामरयुग्मकम्।
रविसुता सलिलान्तरखेलनाञ्चितमरालयुगश्रियमावहत्॥ 40 ॥
वनितयोन्नमितं (55)दनुजान्तकोपरि कयापि (56)सितातपवारणम्।
विरुरुचे शशिमण्डलमागतं सपदि राहुभयादिव सेवितुम्॥ 41 ॥
दनुजभिद्रमणीकुचनिर्जिता शरणमाप भिया कनकालुका।
किममुकां विलसत्करमस्तका तदवलम्बि भिया यतो दृढम्॥ 42 ॥
गुरुकुचद्वयसेऽपरया तदा वनितया विरराज पतद्ग्रहः।
करधृतोऽधरबिम्बरुचिव्रज(57)द्विगुणितस्वकशोणमणिप्रभः॥ 43 ॥
इतरया च सुदर्शनमाददे (58)स्वसमतैषिणि पूषणि रोषतः।
निजतनुप्रतिबिम्बमिषादधः प्रतिनिधिप्रसवार्धमिवोद्यतम्॥ 44 ॥
जलजलोचनयाऽपरयाधृतो नलिनलोचन!कम्बुवरो दधौ।
सपदि (59)तत्तनुकान्तिरङ्गिणी सितसरोरुहसमन्मुकुलश्रियम्॥ 45 ॥
दितिसुतान् विनिहत्य रणक्षितौ (60)सुरगणाधिपमानसनन्दनात्।
जगति नन्दकनाम परम्परास्मितमुखी करवालमुपाददे॥ 46 ॥
(61)समरभूमिषु या हरिणा धृता त्रिदशवैरि वरायुधपीडिता।
विलसति स्म गदाप्यगदा हि सा कमललोचनया परयाऽदधे॥ 47 ॥
यमधिकस्वनितं शरवर्षिणं बहु चकार निरीक्ष्य पलायनम्।
स रणकौशलहंसगणः (62)परः (63)तमपरा धनुरम्बुदमाददे॥ 48 ॥
इयमति प्रतिपक्षमपि भुवोरपि युगस्य निजस्य च शार्ङ्गके।
(64)गुणिनि सर्पिणि दोषगवेषणा (65)किमुचितेत्यवलम्बितवत्यदः॥ 49 ॥
जगदाजेहमगति प्रधितस्य मे न कुटिलेन सदा सह सङ्गतिः।
समुचिता धनुषेति विहाय तत् किमु शरव्रजसंश्रितमन्तरे॥ 50 ॥
शरधियुग्ममतिदृतमाददे (66)मुरहराय च (67)सत्वरयान्यया।
अपरया व्यजनं विदधे करे मणिमयोज्वलदण्डपरिष्कृतम्॥ 51 ॥
(68)अनधिगम्य सुदृग्जनदर्शितं (69)शुभपथं मनुजा वनभाक्कथम्।
इति स (70)बोधयतीव समस्तवित् सरणिमाप सुदृग्जनदर्शिताम्॥ 52 ॥
मुहुरहं परितः परिचक्रिरे कनकसुन्दरगात्ररुचोऽङ्गनाः।
अतरलां श्रियमाप्तुमिवागता गगनतस्तटिलोऽमुमुपासितम्॥ 53 ॥
मुरभिदो निकटे प्रमदाजनो विशदमौक्तिकभूषणभूषितः।
(71)विलसति स्म तमालमहीरुहान्तिकसमोज्वलवल्लिसमूहवत्॥ 54 ॥
(72)अमुमथावदधे परयौवतं कृतपरिष्करणादि (73)विडम्बनम्।
श्रमजनिश्वसनाधिकसौरभादभिमुखागतकाननषट्पदम्॥ 55 ॥
(74)दितुसुतारिरविन्दत चम्पकद्युतिमिलद्ध्वनितावलिमध्यगः।
सपदि काञ्चननिर्मितमालिका तरलवासवनीलमणिश्रियम्॥ 56 ॥
द्यनपलाशचयद्युतिमेचकं वनमगाहत वारिजलोचनः।
सदतयितो गगनं रुचिराचिरद्युतिवयैरिव (75)नव्यबलाहकः॥ 57 ॥
सुविजहार तदा सुमनोऽप्सरोगणयुते हरिचन्दनसेविते।
वनतले स वनप्रियसेविते मुरहस्सुरराडिव नन्दने॥ 58 ॥
अथ मुदार्जुरबाणनिवारिताः रुणभवाधिकहेतिजवेदनम्।
(76)सह शिखण्डिवनं (77)समुदैक्षत स्वजनपाण्डवसैन्यमिवाच्युतः॥ 59 ॥
(78)मृदुसमीरणकम्पितभूरुहच्युतसुमावलिरच्युतमूर्धनि।
परिणयोन्मनसेववनश्रियाञ्जलिसमीरिति (79)तारततिर्बभौ॥ 60 ॥
सुमचितान् वचपालिकया मरुन्नत शिखानगमान्विनिवेदितान्।
(80)हरिरवैक्षत नेत्रधरोदितान् करसुमान् (81)प्रणतानिव भृपतीन्॥ 61 ॥
निजमुदे सकलर्तुसमाहेतां सपदि वीक्ष्य (82)वन्श्रियमुज्ज्वलाम्।
निजसमीपगतामथ रुक्मिणीं (83)श्रितमुदां निजगाद यद्वद्वहः॥ 62 ॥
न गणिकापदमर्हति मागधी कथमियं नलिनाक्षि! यतो मम।
(84)निजवनावनिजस्तबकस्तनान्तिकमिलद्बहुपल्लवतल्लजा॥ 63 ॥
ध्रुवमिवाऽद्यलता निजमाधवीपदसहार्थकता करमोद्यता।
यदलघुस्तबकस्तनदर्शिनी हरति मे हृदयं प्रसवस्मितैः॥ 64 ॥
(85)वनमिदं गणनाधिकरम्भता विलसितं बहुशक्रनिषेवितम्।
मधुपगानमिषेण न तादृशं किमु विनिन्दति माघवनं वनम्॥ 65 ॥
द्रुमचयाद्वदनेऽम्बुजविभ्रमात् तव (86)समागतवत्यलिसंहतिः।
निकटमेत्य ततोऽजनि नासिका विकचचम्पकविभ्रमवारिता॥ 66 ॥
तव वशिरोरुहपक्षविनिर्जिता स्मितमुखि त्रपयेह हुताशनम्।
विशति (87)भृङ्गततिः किमु किंशुकस्तबकमध्यविहारमिषादियम्॥ 67 ॥
कदलिका तरुरेष विराजते करिकपोलमिवोरुविनिर्जितः।
तव गतोनमिताननतां फलस्तबकभारमिषेण किमु ह्रिया॥ 68 ॥
(88)मधुरवातिशयेन (89)निराकृतः तव (90)घनाघननीलसिरोरुहे।
दशति (91)पल्लवमत्र (92)नवोदितं परभृतस्तव पाणिसहोदरम्॥ 69 ॥
सुदति वीक्ष्य न कः स्मरपीडितो भवति चारुमिमां विपिनश्रियम्।
यदतिमुक्तकता प्रथितोऽप्ययं महिलया मिलितो वसतिद्रुमः॥ 70 ॥
त्यजति वीक्ष्य न कुत्र जन्स्त्रपां (93)स्वविधगां (94)तरुणीं पुरतो मम।
(95)मिलितवान् पुरुषोऽद्य (96)वयस्यया निकटसंस्थितया मरुतो मिषात्॥ 71 ॥
(97)क्षुरकनाम यथार्थमयं द्रुमो वहति मेचकनीरजलोचने।
विरहिमर्मनिकृन्तनमाचरन्नतितरां विकचप्रसवोज्ज्वलः॥ 72 ॥
इति वदन् धरणीपतिकन्यकामुपवने स विहृत्य चिरं हरिः।
विमलवारि (98)सरस्सविधं गतां (99)हिमकरोपलवेदिमविन्दता॥ 73 ॥
विपुलचूतमहीरुहमूलसन् मणिवितर्दिगते कनकासने।
यदुपतिर्निषसाद सुमव्रजस्तव तु मन्दमरन्दकणैर्हिमे॥ 74 ॥
तमरविन्दमरन्दकबिन्दु संवहनतुन्दिलशीतसरो मरुत्।
वदनचन्दिरनन्दितसुन्दरीनयनवृन्दममन्दमनन्दयत्॥ 75 ॥
मुरभिदङ्गनिषङ्गिसितेक्षणावलिवलक्षकटाक्षगणो (100)महान्।
सपदि मेरुवृषोपलकूटसं(101)चलदनल्पसुदांशुकरश्रियम्॥ 76 ॥
सव्ये भीष्मककन्यया तनयया वामे च सत्राजितो (102)देशेऽन्यैस्तरुणीजनैरगणितैः संसेव्यमानोऽभितः।
शृण्वन् (103)बालरसालपल्लवदलग्रासातिमाद्यत्पिक(104)श्रेणीमञ्जुलकूजितं (105)चिरमहो मोदञ्जगामाच्युतः॥ 77 ॥
अङ्कुशबूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगात तृतीयसर्गोऽयम्॥ 78 ॥
.
॥ चतुर्थः सर्गः ॥
शृणु विष्णुवर्धन! (1)सगोत्रविभूषण! प्रथिताङ्कुशावनितलीवरात्मज!।
हिमगोत्रदैर्य! धरमण्डभूवरोत्तम्! योगिनी हरिवचांसि सादरम्॥ 1 ॥
अथ शर्वसर्वसमयातिभावनाबलतो (2)गतोद्गमकिरीटसाम्यतः।
तदुदारमूर्तिमिव भाति पाण्डुरां दनुजान्तको (3)धुरि ददर्श योगिनीम्॥ 2 ॥
प्रतिपक्षपाणिजमरीचिसन्निधिं स्फटिकावलिं (4)गतवतीमिहोचिताम्।
न तवाधिवस्तुमिति सूचनोचतां (5)कृपयेव सादर तुदन्निजाङ्गुलिम्॥ 3 ॥
प्रतिपक्षकण्ठपरिगाढमत्सरं (6)वहतेह तच्छकलजालनिर्मिताम्।
घुटिकास्रजं भसितबाढपाण्डुरां वहता गलेन सरलेन भास्वतीम्॥ 4 ॥
निजगण्डचारुतरदीप्तिपेटिकाभ्यसनार्थमत्र निजरस्मिलक्ष्यतः।
किमु (7)चामरद्वयनिषेवणोन्मुखां दधतीं हिमांशु मणिकुण्डलद्वयीम्॥ 5 ॥
(8)पिककीरनिर्जयपटुस्वरस्वरान् प्रतिपक्षता विततमत्सरादिवा।
परिवादिनीं करसरोरुहस्थितां (9)तुदतीं निसातरजै(10)निर्जैर्मुहुः॥ 6 ॥
(11)बहुवासरार्जिततपोबलान्मदात् स्वशयस्य योजनमिषेण नीरसम्।
अपि वेत्रमाशु तपनायनिर्मितं सह पल्लवं विदधतीव स्थिताम्॥ 7 ॥
मणिपादुकान्वितपदान्बुजद्वयीं मणिबन्धवेशकृतभूतिभस्त्रिकाम्।
उपवीततोल्लसितयोगपट्टिकां विविधौषधावलिमिलत्कराञ्चिताम्॥ 8 ॥
तपसः श्रिया तरुणिमश्रिया चतां सहितां निरीक्ष्य सरसीरुहेक्षणाः।
पुरुषोत्तमस्य पुरतस्थितां (12)हठादभजन्त विस्मयमरालकुन्तलाः॥ 9 ॥
परिवादिनी कलितपाणिपङ्कजां परिपाण्डुराञ्च (13)भसितेव योगिनीम्।
नलिनेक्षणाश्वशुरदर्शनोत्सुकां रमणीममंसत सरोजजन्मनः॥ 10 ॥
समतां भजेत निहितेन फालकेञ्जलिना प्रणन्तुमनुरद्विषन्तया।
भुवनालयुग्मसहितत्वभासुरं यदि जातु कोकनदकुट्मलं भवेत्॥ 11 ॥
मुरवैरिदर्शनमुदश्रुसेचनैर्गतभूतिलेपनमुरोजयुग्मकम्।
(14)परितन्वती रदनकान्ति चन्द्रिको(15)ज्वलमाननेन्दुमिदमाह कुर्वती॥ 12 ॥
विजयीभव त्रिदशवैरिभूरि सं(16)तमसावसादनसहस्रदीधिते।
पदपद्मरश्मिपुनरुक्तितानम(17)द्विनतारिमौलि कुरुविन्ददीधिते॥ 13 ॥
जयपादपद्मपरिवाहवाहिनी तरुणीमणे मुनिमनस्तमोवृणे।
भवनाम (18)वारिनिधितीरयापने (19)तरुणे प्रतापपटुपावकारणे॥ 14 ॥
वदनस्रुतश्रुतिहतौ सुरद्विषाप्यनिवारण क्रमतयाब्ज संभवः।
बहुधारि (20)वह्निमुपयज्ञमानदद्भुवनत्रये किमजनाम विश्रुतम्॥ 15 ॥
समये तदा सलिलराशि संस्थितं विनिहत्य दानवमधागमव्रजम्।
दधत्ते (21)पुनर्दलितपद्मजारये भवते नमोस्तु (22)धृतमीनमूर्तयो॥ 16 ॥
नलिना बुधैरपि ममावलम्बनं प्रतिपद्यतेऽमृतमितीव वेदयन्।
कमठस्वरूपमधिगत्य मंदरं सलिले (23)निमग्नमवहत्पुरा भवान्॥ 17 ॥
सलिलान्तरं गतवती (24)त्वयोधृता धरणी पुरावहति दंष्ट्रिकाग्रगा।
कनकाम्बुजातमुकुलाग्रसंस्थिता भ्रमरीश्रियं तव (25)वर्हरूपिनः॥ 18 ॥
कमला मदा (26)हृदयधारणव्यथायुतेमेदिनी युवति रोषपेषणम्।
किमु कर्तुमारभत तां निजे दधत् दने (27)तदोद्धर्णलक्ष्यतो भवान्॥ 19 ॥
यदि भक्तमात्रपरवान्युतश्रिया भवतीह (28)पुण्यजनपीडनोद्यतः।
न चतुष्पदेषु न नरेषु वा बुधैः परिगण्यते स इति बोधनाय किम्॥ 20 ॥
निजभृत्यवर्यपरिरक्षरक्षणं वहते हिरण्यकशिपुं विनिन्दते।
(29)करजैर्निशातकरवालिजित्वरैर्भवते नमोऽथ नरसिंहमूर्तये॥ 21 ॥
बलिवञ्नार्थमतिखर्वमूर्ततां (30)वहतेप्यतिखर्वतरमूर्तये ततः।
लसतेऽपि विक्रमशतेन विक्रमत्रयमेव ते धृतवते नमस्कृतिः॥ 22 ॥
(31)मनुजालिधर्मरिपुभूपमण्डलं बहुशो महापरशुना विभिन्दते।
कदलीवनी सदृशमश्रमान्नमस्कृतिरस्तु ते (32)परशुरामरूपिणे॥ 23 ॥
कृतवीर्य भूपसुतभूरिचापनि(33)र्गतमार्गणा युगपदेव बन्दिताः।
शरवत्त्वया परशुना शराह्वयं तदुपक्रमं किमदधुर्नजिह्मगा॥ 24 ॥
(34)परभामिनीं हृतवतो न जीवनं सरितां पतेर्गतवतोऽपि मध्यमम्।
इति बोधयन्भुवनमब्धिध्यगं (35)न्यरुणद्भवानरिमुपेत्य रामताम्॥ 25 ॥
समुपागतामिव कलिन्दजां पुन(36)र्निजलाङ्गलक्षति भयान्निषेवितुम्।
(37)दधते नवीनघनमेचकाम्बरं भवते नमोस्तु बलरामरूपिणे॥ 26 ॥
शरणं व्रजे त्रिपुरदैत्यभामिनी व्रतपालनाय (38)धृतबुद्धरूपिणः।
चरणद्वयं तव चिरत्नवाक्चय(39)प्रतिपादितोरुमहिमात्मरूपिणः॥ 27 ॥
यवनव्रजं (40)विहितवर्मसंकरं बलिनं (41)दलाववसिते हनिष्यतः।
तव कल्किरूपमधिगत्य सन्ततं प्रणमामि पादसरसीरुहद्वयम्॥ 28 ॥
(42)महिलोकशात्रवदैत्यभार संहरणाय ते गतवतोऽद्यकृष्णताम्।
भिदुरस्य दुष्टकुभृतां करस्य तत् किमिति स्तवानि वद (43)कंसभोदिनम्॥ 29 ॥
कवयस्तवन्तु निजलोचनस्रवत्प्रमदाश्रवः प्रतिनिधिप्रकल्पनम्।
तव गोगणस्य विधिना हृतस्य तत् न वयं स्तुमो (44) यदमुमप्यजीजनः॥ 30 ॥
अवधीद्भवान्यदघमेकभर्तुकस्तदलं न मे हृदि तनोति विस्मयम्।
मनुजस्य (45)कृत्पदयुगं यत स्मरन् भवतो हिनस्त्यगणिताऽद्यसंहितम्॥ 31 ॥
भवता यदिन्द्रमदभञ्जनार्थमुद्धरणं गिरेः कृतमिदं (46)कियन्नुते।
तव (47)सरोमकूपभजमानगण्यतारहिताण्डषण्डपरिमण्डितात्मनः॥ 32 ॥
निरकासि कालियफणीकलिन्दजा सलिलात्त्वयैति बहवः स्तुवन्त्वमुम्।
वयमन्यतोऽप्यनुचराद्गरुत्मतः (48)ग्रसतो जयं किमिति (49)पौरुषं स्तुमः॥ 33 ॥
शिशुपालसैन्यपरिखण्डनं त्वया यदकारि रुक्मिनृपसोदरी हृतौ।
सकलास्त्रपण्डितसुरालिमण्डली परिखण्डिनः कियदिति स्तवं व्रजेत्॥ 34 ॥
अधिगत्य योगभव! धर्मयोगतो नरकस्य भेदनमनागतं (50)भृते।
न विलक्षतां तव पदसृतेर्जलात् नरकान्न बिभ्यति यतो हि मादशः॥ 35 ॥
अपरे स्तुवन्तु तव मायया(51)जडं गिरिशस्य बाणसुहृदो विमोहनम्।
श्रुतिबोध्य तद्भवदभेदभावना बलतस्तथा (52)प्रसरति स्तुतिर्नमे॥ 36 ॥
बहुना किमीश!जगदुद्भवस्थितिप्रलयेषु ते गतवतो निदानताम्।
न तनोति दैत्यहननादि पौरुषं मम मानसेऽल्पमपि विस्मयं हरे॥ 37 ॥
जनयन्ति याचि नमस्ति धातवो नतिङो यद्वद्वह!कदापि कर्तरि।
त्वयि किन्तु कर्मणि परत्र तु द्वयोर्जनयन्ति पद्मजमुखेषु खिन्निषु॥ 38 ॥
त्वयि (53)निर्गुणे गुणमतोऽनुभावतो गुणसंयुते सति तदाऽप्रसिद्धतः।
(54)करवाण्यहं यदुपते! कथं स्तितिं सदसद्गुणौघपरिकीर्तनात्मिकाम्॥ 39 ॥
भवतो गुणावलि (55)ममस्तवो निखिलां कथं नु विषयी करिष्यति।
निजगाम यत्प्रणितिरप्यसेषसंस्तवतां सहस्रवदनैः (56)पणीशितुः॥ 40 ॥
विरचप्य संस्तवमिति (57)श्रियः पतिः र्विरराम (58)तद्गुणगणार्णवे चिरम्।
निजमानसस्य परिखेलन श्रमं (59)विननीषुतामधिगतेव योगिनि॥ 41 ॥
निजगाद नीररुहलोचनस्सितैः रदनां शुभिस्तनुमहां सि योजयन्।
प्रमदाय तीर्थ परियोगिनी हृदो रचयन् प्रयोगमिव तत्पुरो भुवि॥ 42 ॥
कमलाक्षि!का भवसि?(60)कुङ्कुमादिकं प्रविहाय रूपयुततोचितं कुतः?।
भसितं बिभर्षि तनुमुज्वलामिमां न परिष्करोषि मणिमण्डनैरपि॥ 43 ॥
विहृतिः परार्थ करणी तवेदृशी जनयन्ति कर्तरि जनेभवादृशी।
न संनयतो हि नलिनाक्षि! धातवो न स योग्यतामितमृते गुबादिकम्॥ 44 ॥
वद तत्कृशो परिजनस्य कस्य वा मनसो हितं सपदि कर्तुंमिच्छसि।
(61)मदपेक्षिणं यदि भजे सहायतां विशदैव यद्भुवि भवादृशो मतिः॥ 45 ॥
नलिनोदरस्य वचनं निशम्य सा प्रमदेन सम्यगपदानमात्मनः।
नलिनेक्षणो द्विजमरीचिमण्डलै(62)र्जनयत्यसौ कृतकचन्द्रन्द्रिकाः॥ 46 ॥
(63)नलिनेक्षणाहयविदितं जगत्रये (64)तव नेति वेद्मि कथयाम्यथाप्यहम्।
(65)अनुयुज्यमानमनुजीविनी कुलं (66)न खलु क्षमे क्रतुविभुं परीक्षितुम्॥ 47 ॥
कमलाक्ष बाहुजकुले मयाऽजनि श्रुतवृत्तवित्तभुवनौघविश्रुतौ।
अपि शैशवादि कृपयायुतां द्विजाः प्रवदन्ति मामहिरथान्तरङ्गिणीम्॥ 48 ॥
गतजन्मसंभृततपोबलान्ममाजनि (67)हेयभावमितरत्र संसृतौ।
सुरवन्दितेन जनकस्य मन्दिरं मम वामदेव मुनिना ततो गतम्॥ 49 ॥
जनकेन मे विहित पूजनो मुनिर्नलिनाक्ष!तस्य परिवीक्ष्य सौम्यताम्।
(68)अतिथिव्रजेषु कतिचिद्दिनान्ययं परिवस्तुमैच्छददसीयमन्दिरे॥ 50 ॥
(69)न्यदिशच्च तात ऋषि सेवनाय मामपि कन्यकां (70)अतिविनीतिशालिनीम्।
प्रतिवासरं विहितया (71)मुनिर्मया (72)वरिवस्यया मुदमन्वविन्दता॥ 51 ॥
विषयव्रजेष्वतिविरक्तमानसामपि कन्यकात्वमधिगत्य मां मुनिः।
प्रमदं भजन् रहसि सुभ्रुवोऽपि मे वरयोगसिदधिमदिशत्तपोबलात्॥ 52 ॥
अथ (73)वामदेवमुनिराट् ततैव तं (74)शिवमीक्षितुं तुहिनभूधरं ययौ।
अहमप्यवाप्तवरयोगपद्धतिर्भुवनत्रयेऽपि विचलाम्यवारणा॥ 53 ॥
विरचन्त्यहं निखिलराजमण्डिता प्रसिता महीं गतवती मनोहरान्।
पथिकोसलान् महित नग्नजिन्महीपतिपट्टणोपवनमद्य यासिषम्॥ 54 ॥
तस्यान्तरालभुवितामरसायताक्षीं मध्ये सखीजनमदर्शमरालकेशीम्।
जाम्बूनदाभतनुमब्जसमानकण्ठां मध्येप्सरोगणमिवाम्बुधिराजपुत्रीम्॥ 55 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगाच्चतुर्थ सर्गोऽयम्॥ 56 ॥
.
॥ पञ्चम सर्गः ॥
अखिलावनीपतिकिरीटनिष्ठसन्मणिकान्तिरञ्जितपदाम्बुज(1)द्वय!।
शृणु माण्डभूपवर! योगिनि स्तुतामथ (2)नग्नभूपसुताङ्गमाधुरीम्॥ 1 ॥
मनुलोचनद्वयमरोमुखद्युतिं (3)यदजन्यवस्तुविमुखं तदा विभो!।
(4)अभवच्चकार मिथुनं समीहते किमु चन्द्रिकां परिविहाय (5)काञ्चिकम्॥ 2 ॥
पृथुलस्तनस्तबकभारकिञ्चिदा(6)नमितां तदीयतनुवल्लिकां गतम्।
परितोऽभिजिघ्रदपि लोचनद्वयी(7)मदभृङ्गयुग्ममगमन्न तृप्तताम्॥ 3 ॥
तरुणीं (8)तवेदृगतिरूपसंपदं प्रविरत्सुरब्जभवश्लिप्युपायनम्।
प्रविधाय किं प्रथममप्सरोगणं जलधौ रुषाधित न हृष्यता हृदा॥ 4 ॥
गमितेक्षणेन नमिता रुषं पदा किमु जाह्नवी (9)प्रसवजं महद्यशः।
तव हर्तुमद्य स्वजिति द्वयेन सा पदयोर्नखद्युतिमिषेण जाह्नवी॥ 5 ॥
किमु चन्द्रिकास्मितविनिर्जिता (10)तया सभयागता शरणमिन्दिराविभो!।
(11)विलसत्तदीयनखरोचिषां मिषाच्चरणद्वयाम्बुजयुगं निषेवते॥ 6 ॥
किमु कोसलाधिपसुता पदद्वयं (12)स्थलजारविन्दविततेः पराजयम्।
प्रविधायनिर्मलनखद्युतिच्छलादनिशं बिभर्ति (13)सहमूर्तिमद्यशः॥ 7 ॥
(14)तरुणीमणेर्वदननिर्जितं भिया शरणं गतं चरणमिन्दिराविभो!।
सरसीरुहं (15)तलविलग्नरेखिकामिषमेत्य किन्नु सततं निषेवते॥ 8 ॥
तरुणीमणेश्चरणयोरलक्तकः प्रतिपक्षपल्लव (16)सरोरुहव्रजा।
कमलायताक्ष! गतवान् विवृद्धतां प्रतिभाति मूर्त इव काद्रसद्रसः॥ 9 ॥
गमनेन तत्पदयुगेन चारुणा शतशो मरालनिचयो जितोप्यलम्।
अधिगत्य (17)मौर्ख्यमुपमामुशन् पुनर्भुवि धार्तराष्ट्रपदमासद ध्रुवम्॥ 10 ॥
कमठो (18)महीरमणकन्यकामणेः प्रपदेन किन्नु (19)जितकर्परोऽभवत्।
(20)बिभराम्भभूव बहुलामपत्रपां जठरे (21)विकर्षति हि यन्मुहुर्मुखम्॥ 11 ॥
कुरुविन्ददीधिति मिषेण (22)चारुता ज्वलनं तदंघ्रिकटकद्वयेन किम्।
नलिनाक्ष! सिञ्जतमिषेण घुष्यते न समं तदीय (23)पादयोर्जगत्स्विति॥ 12 ॥
(24)पदनूपुराञ्चितविशुद्धमौक्तिकव्रजकान्ति नीरपरिपोषितं (25)हरे!।
मदनेन शलिवरगर्भयुग्मकं किमु भूमिभृद्दुहितृ जंघिका द्वयम्॥ 13 ॥
रतिनाथकेलिवरगेहसन्निधिस्थितचारुसक्थिकदलीप्रकाण्डयोः।
परिणद्धदर्फणयुगं (26)परिष्कृतं प्रमदोरुपर्वयुगलं (27)प्रणन्दति॥ 14 ॥
(28)खुरलीस्थलान्तधरणीनिखात्तया (29)अनवद्यहेममयकाण्डयोर्युगम्।
स्मरभूभृतोरण विशेष सन्तताभ्यसनाय निन्दति तदूरुयुग्मकम्॥ 15 ॥
कदलीतदूरुयुगलेन निर्जिता कमलाक्षपत्रसहिता विराजते।
अनिशं युता किमु (30)भिया पलायनस्पृहया रणाय किमु (31)दृष्टतायुता॥ 16 ॥
(32)मधुकैटभान्तक! महीशकन्यकामणिचारुसक्थियुगलेन (33)निर्जिताः।
दधतः (34)कराश्च करिणामपत्रपामधिकां स्फुटं जहति जीवनं मुहुः॥ 17 ॥
मदनेन संप्रति भवज्जयेषिणा परिबिभृता तव (35)सुदर्शनात्किमु।
प्रतिशस्त्रमर्जित मदोनितम्बयोर्युगलं (36)रथावयवनामकं धृवम्॥ 18 ॥
यदुनाथ! मत्तगजगामिनीमणेर्महतानितम्बयुगलेन निर्जिता।
नितरां रथावयवसंहतिर्भया सहिता परिध्वनति विस्वरान्वितम्॥ 19 ॥
(37)सिकतामयानि रमणीनितम्बयोर्युगली जितानि नितरां विरक्तताम्।
अधिगत्य किन्नु सततं वितन्वते कमलाविभो! परमहंससङ्गतिम्॥ 20 ॥
(38)रशना विभाति (39)गजराजगामिनी जघने विशालपुलिने जिघृक्षुणा।
अति तृष्णतागत (40)मनोमृगं तव प्रसवायुधेन निहितेव वागुरा॥ 21 ॥
फणिराजतल्प! नलिनायतेक्षणा नतनाभिचारुकुहरं जिघृक्षुणा।
भवदीयमानसमतङ्गजं मनोनिलयेनखातमिव राजते बिलम्॥ 22 ॥
तदुरोज केलि धरणीभूतोर्युगं मदनस्य (41)निर्मितवतानुयायिना।
वयसा निखातमिव राजते बिलं तरुणीललाम नतनाभिगह्वरम्॥ 23 ॥
(42)जितशैलयुग्मतदुरोजयोर्दुता वसहं भृशं (43)कृशवलग्नमित्यमूम्।
निदधाति नीलमणियष्टिकां विधिर्निकटे मिषेण किमु रोमसन्ततेः॥ 24 ॥
तदुरोजयुग्ममुपधानयोर्द्वयं प्रविधाय (44)सर्वजगतामधीशितुः।
किमुपायनं तव चिकीर्षति स्मरो मृदुरोमराजि फणिराजतल्पकम्॥ 25 ॥
वयसैव शम्बरमुचा (45)प्रवर्धिते द्युति निझरे विशति (46)नाभिपल्वलम्।
किमधस्थितो (47)विशदरोमरेखिका फणिराडुरोजगिरिमारुरूक्षति॥ 26 ॥
नतनाभिरत्र विशदालवालकं स्फुटरोमराजिरपि तालभूरुहः।
फलयुग्ममत्र (48)तदुरोजयोर्द्वयं दलसंहतिर्विविधपत्रनिर्मितिः॥ 27 ॥
निकटस्थितस्तननितम्बसंश्रितं पृथुतामवेक्ष्य नितरामविन्दत।
कृशतां वलग्नममुया कथन्नु तत् (49)गतितारतम्यमनुवर्त्यते न चेत्॥ 28 ॥
प्रतिवेशितो बलवतो विधीयते यदिमध्यमेन निकटे लयं व्रजेत्।
यदिदं (50)पयोधरनितम्बमध्यतः कृशयत्यलं निकटगामि मध्यमम्॥ 29 ॥
तरुणीवलग्नतलसंवलद्वलित्रितयं तदीय तनुकान्तिनिर्झर।
नलिनायताक्ष! वितनोति विभ्रमं नितरामभङ्गकतरङ्गसन्ततेः॥ 30 ॥
बहुतीर्थपर्यटन संभृताद्वघनात् सुकृतादुपेत्य तरुणीशिखमणेः।
कुचतां रथाङ्गमिथुनं दिवाऽनिशं भजतेऽधिकं किमवियोगजं सुखम्॥ 31 ॥
वयसा कुलालपतिना चिकीर्षुणा त्वदुपायनं परिणये (51)वधूमणेः।
शुभचित्रसान्द्रकलशद्वयं कृतं किमु चित्रपत्रसहितं स्तनद्वयम्॥ 32 ॥
प्रतिपक्षतामधिगतस्य (52)दर्शने निखिले घटस्य च निदर्शनात्मताम्।
किमु (53)भूमिभृद्गुरुपयोधरद्वयं भजते स्वयं मदनशास्त्रसारताम्॥ 33 ॥
भुवनत्रयीविजय! सिद्धये मनोभवशक्तिदर्शनहस्य वेदिना।
किमु पूर्णकुम्भयुगलं प्रपूज्यते (54)तरुणीपयोधरमिषेण सम्प्रति॥ 34 ॥
(55)सुभगाश्रयेन सदृशेषु गौरवं वहता हरे! विमलवृत्तहारिणा।
स्तनयोर्युगेन समतां सुराधटप्रतिवेशि तालफलमाप्नुयात्कथम्॥ 35 ॥
यदुनाथ! पार्श्वरुचिवाहिनी महा(56)परिखावृतं मदनमेदिनीपतिः।
युवतीपयोधरमहीध्रुदुर्गयोर्युगमाश्रितो जयति विष्टपत्रयम्॥ 36 ॥
(57)ललनापयोधरयुगो हि कान्तरे प्रणिधाय रिक्तमखिलं कुटुम्बिराट्।
मदनो मणीघटकयोर्द्वयेन ते पिहिते करोति किमु (58)चूचुके पथे॥ 37 ॥
करिराजकुम्भयुग मङ्कुशाद्भिया युवती पयोधरतया व्यजायत।
भवदीयतीक्ष्णनखराङ्कुशं भवा(59)न्तरवासनादिव लप्स्यते पुनः॥ 38 ॥
(60)अधिकामितोऽपि परिवर्धतां पर(61)स्परगर्वभागपि सदा गमिष्यति।
रमणीपयोधरयुगं (62)श्रियायतो न दधाति किञ्चन (63)परार्थमन्तरम्॥ 39 ॥
तरुणीपयोधरतटेगतं विभो! विशदोत्तरीयमणुतन्तुनिर्मितम्।
कनकाद्रिकूटयुगली लगन्निशाकरचन्द्रिकाकररुचि बिभर्त्यलम्॥ 40 ॥
(64)तरुणीपयोधरतटे विराजते रुचिरा चिरत्नकुरुविन्दमालिका।
मिलिता पयोधरवचो भ्रमागता रुचिरे (65)विरक्ततटितां परम्परा॥ 41 ॥
पृधुपद्मरागमणिहारकान्तिभिः परितोऽरुणौ तरलदृक्पयोधरौ।
कुरुत स्वपार्श्वयुगकान्तिवाहिनीगत चारुकोकनदकुड्मलभ्रमम्॥ 42 ॥
हरिणेक्षणामणिपयोधर द्वयी तटसीम्नि भाति (66)पृथुमौक्तिकावलिः।
उडुरेखिकेव तपनीयभूमिभृ(67)च्छिखरभ्रमाद्विदधती प्रदक्षिणम्॥ 43 ॥
तरुणीललाम मृदुबाहुवल्लरी परिनिर्जिता गतवती हृदि व्यथाम्।
भजते ध्रुवं निजतनौवलक्ष्मतामधिकां यदूद्वह! (68)मृणालसंहतिः॥ 44 ॥
(69)श्रुतिनुषणावसदनर्घदीधितिव्रजदानवारी सरिदन्तरे हरे।
विदधाति काञ्चन मृणालविभ्रमं नृपकन्यकामृदुलबाहुयुग्मकम्॥ 45 ॥
(70)विमलाङ्गदाश्रितमहेन्द्रनीलभामिषमेत्य किन्नु चकितो दिवाकरात्।
(71)तमसां व्रजो वसति शूरकन्यका भुजमेत्य निर्भयतया दिवानिशम्॥ 46 ॥
सुरराज नीलमहिताङ्गुलीयकं नृपकन्यकामणि करे विराजते।
तपनीयपङ्कज विपर्ययागतो जगतीशमेदुरमिलिन्दराडिवा॥ 47 ॥
(72)गमनोद्यतस्य सरसीजमण्डली विजयाय तत्करयुगस्य च ध्वनेः।
मिषतोपदानमनुवन्दि (73)संहतिस्तुवतीव भाति मणिकङ्कणावलिः॥ 48 ॥
जलजं निरस्तमपि कामिनीमणेश्चरणेन तत्करयुगोपमां यदि।
दृदयेऽभिलष्यति कदापि तद्गताजडता स्वकारणगुणोद्भवा ध्रुवम्॥ 49 ॥
हरिणेक्षणा करयुगेन निर्जितं (74)कमलाविभो! किसलयं वनान्तरे।
नितरां भयेन लभते मुहुर्मुहुः पवमानताडनमिषेण (75)वेपनम्॥ 50 ॥
तमसो भयेन तुहिनां शुरापतन्नखतां तथाऽपि तमसापि धीयते।
करभूषणेन्द्रमणिरोचिषां मिषान्नजहाति पूर्वजनुषो हि वासना॥ 51 ॥
विजिते शशाङ्क (76)सरसीरुहेब्जता सहिते निरीक्ष्य रुषमब्जतायुते।
कलयन्मुखस्य किमु कम्बुरब्जनि(77)र्भयमेत्य तद्गलमिषेण सेवते॥ 52 ॥
तरुणीगलस्य (78)तव पाञ्चजन्यके ववृधे ध्रुवं हृदयसीम्नि मत्सरः।
निखिलश्रियं यदपहृत्य तद्भवत्मुखचुम्बनश्रियमयं जिहीर्षति॥ 53 ॥
मधुरस्वरोल्लसितगानरीतिभिः विदधे (79)जगत्रयवधूवनप्रियम्।
स्थिति भूमिसीमततिमत्र तद्गले किमुरेखिकात्रयमिषेण विश्वसृट्॥ 54 ॥
न च नारदं जयति पर्वतञ्च सा तरुणी परं महितगीतसम्पदा।
निजेकेशपाशरुचिभिः पयोधरद्वयगौरवेण (80)तदुभावपि क्रमात्॥ 55 ॥
(81)सरसीरुहं नलिनलोचनामणेर्वदनैकदेश नयनद्वयी जितम्।
अमुनोपमामभिलषेद्यदि ध्रुवं (82)मधुपायि संगति भवा तदाज्ञता॥ 56 ॥
न मुखेन निर्जयति केवलं महीपतिकन्यका भुवनजातमात्मनः।
कमलाक्ष! किन्तु कनकातिशायिना निखिलप्रतीक निचयेन (83)सुन्दती॥ 57 ॥
मदनोऽद्य (84)शम्बरजसंहतिः नयत परिभूततान्तरललोचनामुखम्।
अधिगत्य मित्रतरमाप्त संमदो भुवनत्रयं विजयते तत्प्रयत्नतः॥ 58 ॥
किमु निश्चिकाय (85)नृपकन्यकामणिः कमलालयां निजसभर्तुकां हृदि।
कमलं तदीयमधुना (86)पराभवं नयते विशिष्य वदनेन (87)यद्यशम्॥ 59 ॥
तुहिनद्युतिर्निजवसुप्रदानतो द्विजमण्डलाय सततं मृगीदृशः।
अधिगत्य किं वदनजन्म नश्वरेतरया श्रिया स्फुरति संप्रति (88)प्रभो !॥ 60 ॥
मणिदीधितिर्निजकला वितीर्य कि बुधमण्डलाय (89)गणितास्तदार्जितात्।
(90)सुकृतादजायत मृगीदृशामुखं (91)रुचिरेतरेतरकलानिकेतनम्॥ 61 ॥
तरलेक्षणा (92)वदननिर्जितश्शशी परितापमाप बहुलं तनौ स्फुटम्।
(93)यदि अम्बुजास्तमयदम्भतो हरे! प्रतिवासरं जलनिधौ निमज्जति॥ 62 ॥
वदने मनोज्ञतरतामृताम्बुसंहति (94)निर्झरस्य परिविश्रमाय किम्।
कमलाक्ष निम्नुभुवमब्जसम्भवस्तरुणीललाम (95)चुबुके विनिर्ममे॥ 63 ॥
मृदुरक्तता मधुरिमादि सद्गुणौ(96)रधिकां तुलां न धरतो यतो भुवि।
भवतस्ततोऽवनि महेन्द्रकन्यका रदनच्छदावधरनामशालिनौ॥ 64 ॥
मृदुनस्तुलां युवतिदन्तवाससो न समोऽपि निस्त्रपतया यदीच्छति।
उचितं प्रवालपदमश्नुते पशु(97)व्रजघन्यतावयवनाम विद्रुमः॥ 65 ॥
विपिने द्विजक्षति भियामुकाधरोऽजनि बिम्बमत्र च भज द्विजक्षतिम्।
(98)प्रतिलप्स्यते जगति (99)यद्भविष्यतां रतवानवैमि मतिमानिति स्फुटम्॥ 66 ॥
प्रणिधाय कि मधुरसारमात्मभू(100)रमृतादुपान्तमधरं मृगीदृशः।
कुरुविन्दबिम्बफलबन्धु (101)जीविकाद्युति सारभाग (102)निचयैर्विनिर्ममे॥ 67 ॥
भुवनत्रये रुचिरवस्तु निर्जयार्जित कीर्ति पौरुषयुगं मृगीदृशः।
वदनं दधाति रदनाधरद्युतिव्रज कैतवेन कमलाविभो! किमु॥ 68 ॥
उडुपुष्पसूनमसितोत्पलेक्षणा (103)रदनच्छदेन विजितं विरक्तताम्।
अधिगत्य (104)तीर्थतटसीम्नि सन्ततं जपनाज्जपेति पदमासद ध्रुवम्॥ 69 ॥
गगनस्थितं हिमरुचि कलङ्किनं प्रविहाय गत्तगजगामिनीमणेः।
किमु निष्कलङ्कवदनामृतद्युतिं परिषेवते स्मितमिषेण चन्द्रिका॥ 70 ॥
तरुणीललाम रसनाञ्चलस्फुरत् (105)सरसीजसम्भववधूतनुद्युतिः।
वदनान्तरात्किमु बहु विनिर्गता स्मितरूपतामधिगता विदृम्भते॥ 71 ॥
करकेरुषं (106)किमवहत्स्वपागतिप्रतिपक्षकीरमुखपक्षि (107)पोषके।
(108)स्तनरोपहृत्य यदियं बहि श्रियं हरति द्विजैरहह! बीजसंहतेः॥ 72 ॥
यदमीद्विजा अपि समेत्य तीक्ष्णता महरन्त तत्करकबीजद्विजसंहतेः।
अनिमित्तकं श्रिमिदं(109)परश्रियो (110)हरणैषिणं किमधरेण सङ्गतेः॥ 73 ॥
कमलाविभो! कुवलयेक्षणामणेर्मधुमाधुरीभरलसद्वचोजिताः।
अधिगत्य निर्भरमपत्रपां शुकाः गरलं गिलन्ति किमु (111)जम्बवो पथे॥ 74 ॥
वचसा तया परभृतो जितो भिया (112)न तु वेष्यते तव निरामयेति किम्।
(113)अरुणाम्रपल्लवदलाशनच्छलात गिलनं प्रमाणयति जातवेदसः॥ 75 ॥
नलिनायताक्ष! नतनाभि नासिकाञ्चलसीम्नि वर्तुललाममौक्तिकम्।
वहते मुखामृतमयूकमाधुरी(114)व्रजनिर्ढराभिनवबुद्भुदश्रियम्॥ 76 ॥
(115)कनकप्रसूनमवनीन्द्रकन्यकामणिनासिका विजितमेत्य मत्सरम्।
(116)अदसीयकुन्तलसरोदरेहत्यति शार्वरत्नमलिनाङ्गणे ध्रुवम्॥ 77 ॥
मलयानिलस्मितमुखीललामनिश्वसनेन (117)निर्जितपरो न हर्षम्।
दृदये (118)भवद्विरहखेदमन्तरं परिलब्धवान् प्रतिकरोति सम्प्रति॥ 78 ॥
नतमध्यमुन्मदमृगीदृशोभृवोः किमु मण्डलं प्रसवबाणधन्विनः।
नयनद्विरेफगुणयुक्तनासिका(119)तिलसूनमार्गणमनोज्ञशार्ङ्गकम्॥ 79 ॥
नलिनाक्ष! (120)निर्जितमहोत्पलावलेर्नयनद्वयस्य दुहितुर्महीपतेः।
विशदेतरोत्पलजयः कियानित तपनीयतामवनिसीमनि व्रजेत्॥ 80 ॥
हरिणीदृगब्जमुखवस्तुमण्डलं तरुणीविलोचनयुगं निकृष्टताम्।
नयते यतो नयननाम सार्थकं वहते ततो नलिनलोचन! ध्रुवम्॥ 81 ॥
तरुणीचलाचलविलोचनद्वयं कुरुते तदीय (121)मुखकान्तिनिर्झरे।
कमलायताक्ष! (122)कलहार्थमुद्यमं शफरीयुगस्य परितन्वतो भ्रमम्॥ 82 ॥
(123)नलिनोदरैतदरविन्दलोचनाविशदप्रभाञ्चितकटाक्षपङ्क्तयः।
(124)विलसन्त्यनङ्गपरिमुक्तनिस्सरन्नवमल्लिकाशरपरम्परा इव॥ 83 ॥
तरुणीकपोलपरिचुम्बिमेचकद्युतिमण्डितं श्रुतिललाममुत्पलम्।
कृतचुम्बनं व्रजवधूकपोलयोः (125)स्तवरूपमावहति डिम्भरूपिणः॥ 84 ॥
गजगामिनीमणि कपोलपालिकाद्युति संहतिर्दितितनूजमर्दितः।
पुनरुक्ततां नयति (126)कर्णभूषणस्थितहारमौक्तिकरुचिं (127)विहारिणीम्॥ 85 ॥
(128)परिलभ्य तद्युवतिकर्णिकाकृतिं कुरुविन्ददीधिति मिषात्सुदर्शनम्।
तव (129)नूनमुद्गिरति दैत्यमण्डली गलभेदनावसर पीतलोहितम्॥ 86 ॥
किमु भावि तुल्यपतिकाग्रजे विधौ वहति क्रुधं यदतिपूर्णतां यतः।
मुखतोपहृत्य ललनास्य च श्रियं (130)हरतेऽलि केन शकलाकृतेरपि॥ 87 ॥
ललना ललाटकपटे स पद्मभूर्भुवने द्वितीयवरसुन्दरीत्वियम्।
(131)इति बोधकोऽर्थ हिमभानुरेखिकां व्यलिखत्किमेक गणना प्रबोधिनीम्॥ 88 ॥
वदनं तदीयमजनिष्ट चन्द्रमाः परिहर्तुमुत्सुकतया (132)कलङ्कताम्।
अधुनापि तत्रमृगनाभि निर्मितं लभते (133)विशेषकमहो! कलङ्कताम्॥ 89 ॥
कबरी विभाति (134)गजगामिनीमणेर्नवमल्लिकादि सुमजालमध्यमा।
पुरुहूतनीलमणिनिर्मिता यथा (135)प्रसवायुधप्रहरणौघशालिका॥ 90 ॥
नतमध्यमा चिकुरबृन्दनिर्जितो नवनीरदो विपुलमाप साध्वसम्।
किमु दैत्यदण्डधर! विस्वरं स्वनन् बहुधा जहाति निजनीवनं यतः॥ 91 ॥
परिपन्धिदुर्हृदतिमित्रता प्रदा विशदा मयात्र परिदृश्यते शिखी।
यदयं तदीय कचनिन्दतोऽमुक(136)प्रतिपक्षनित्यजलदं (137)प्रणन्दति॥ 92 ॥
शशिना (138)पुरान्धतमसं प्रपीडतं शरणं गतं सपदि सुन्दरीमुखम्।
अधिकं ततोऽपि चिकुरव्रजच्छलान्नलिनाक्ष! निर्भयतया विराजते॥ 93 ॥
कबरीमिषेण युवतेर्विधुन्तुदः समुपेत्य शिष्टमपि कि सुधारसम्।
भवतो भियोद्गिरति (139)कैतवाच्छिरोरुहपद्धति प्रकटमौक्तिकावलेः॥ 94 ॥
लावण्यं भुवनत्रयेऽपि न समं दृष्ट्वा तदीयं भवानस्यां यास्यति न द्वितीयललना साधारणं प्रेमताम्।
इत्युद्वेगमवाप्य तापमहितालोके (140)प्रसूनश्रियं पद्म सागरमेखलाञ्च भजते नूनं धरा सुन्दरी॥ 95 ॥
निजतनुरुचिविद्युन्मालिका चारुवीक्षा (141)भ्रमरविलसिताढ्या चन्द्ररेखाभिरामा।
कचजलधरमालामालतीमल्लिकाभृत्कृतिरिव लसतीयं मञ्जुभाषिण्युदारा॥ 96 ॥
पाताले धरणीतले दिवि मया पूर्णेन्दुबिम्बानना दृष्टा योगपथेन न (142)प्रतिहतं नित्यं चरन्त्या मिताः।
लावण्यान्वयवृत्तिविश्रुततरास्ता नीरजातेक्षणानैतत्पादिकनिष्ठिकानखरुचि गन्तुं क्षमन्तेऽखिलाः॥ 97 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगाच्च पञ्चमः सर्गः॥ 98 ॥
.
॥ षष्ठः सर्गः ॥
माण्डभूशतमखाकलय त्वं (1)योगिनीं प्रति कयाचन सख्या।
नग्नजिन्नृपतिपुंगवपुत्रया जल्पितं (2)जननमादिमुदन्तम्॥ 1 ॥
तामथ क्षितिपतेः प्रियपुत्रीं मीनकेतनशराहति (3)खिन्नाम्।
(4)आलयं (5)प्रमनसः धुरि कर्तुं प्रारभन्त (6)मणिकन्दुककेलीम्॥ 2 ॥
कन्दुको निपतितो विपुलायामप्यसावुदपतत सहसैव।
तूर्णमुत्पतति (7)यद्गुणपूर्णः प्राप्नुवन्नपि निपातमधस्तात्॥ 3 ॥
कन्दुकं घ्नति (8)तदा वनितौघे नेदमर्हति सुवृत्त इतीव।
वारयन् बहुगृहीतकरस्सन्न स्वनत् कनककङ्कणसंघः॥ 4 ॥
कन्दुके विनिहते कमलाक्ष्या (9)हर्षयुक्तमिव ताण्डवमाप।
तत्पयोधरयुगं प्रतिपक्षताडितेन (10)परिनृत्यति को हि॥ 5 ॥
कन्दुके करहते (11)कमलाक्ष्या तामहन्नुरसि (12)हारसमूहः।
पक्षपातमधिकं गुणिनो हि प्राप्नुवन्ति ससतं गुणवत्सु॥ 6 ॥
कन्दुके वनितया कचपक्षताडितेऽधिकमविन्दत (13)नाद्य।
पीडितोऽपि न कृतात्मविरोधे नर्तनं हि मलिनस्य (14)निसर्गम्॥ 7 ॥
कन्दुकस्य हननं विदधत्या निर्दयं जवमुपेत्य परस्याम्।
(15)धातु संश्रयणार्हलि येन प्रापतन् मसुमनसश्चिकुरेभ्यः॥ 8 ॥
लोलकुण्डलयुगं श्रमयोगान्निश्वसद्विलुलिताकबृन्दम्।
(16)स्विन्नमद्य दिवोपरि रत्यां क्रीडनेऽस्य वदनं वनितायाः॥ 9 ॥
कन्दुको बहुविधं तरलाक्ष्या ताडितोऽपि (17)रमणीयमनर्तत्।
येनकेनचिदधो वनितायाः स्पर्शने परमलाभधियेव॥ 10 ॥
कामिनीकरहतोऽपि सतृर्णं तत्समीपमगमत्सहसैवा सन्निकृष्टगमनं हि लघौ नैसर्गिकं (18)बहुनिराकरणेन॥ 11 ॥
(19)काचिदङ्कविनिवेशिततुम्बीमद्य वादयत साधु (20)विपञ्चीम्।
आत्मगीतपरिभूततयालं नम्रितात्मवदनां त्रपयेव॥ 12 ॥
(21)आत्मतत्त्वचयनोर्मधुरिम्णः तारतम्यमिव (22)तत्सदृशोऽग्रे।
संविवेक्तुमधुना जितवाचं (23)भाषितैश्शुकमभाषयतान्याम्॥ 13 ॥
वृत्तचारुमपि काचन पाणिस्वीकृतां भ्रमरिकां भ्रमयित्वा।
सद्गुणां निजवधूमिव वेश्यातत्परो भृशमपातयदुर्व्याम्॥ 14 ॥
आलिभिर्विविधकेलिविशेषेष्वेवमादि रचितेष्वपि बादम्।
पञ्चसूनशरविह्वलचित्ता (24)नाभ्यनन्ददवनीपतिपुत्री॥ 15 ॥
तां निरीक्ष्य न (25)कृतक्षणचित्तामोजनुर्मम दयापरिशीले।
मानसेऽजनि निदानबुभुत्सा तद्दशातिशयविह्वलतायाः॥ 16 ॥
वर्त्मनोहमवतीर्य सुराणां कां चिदब्जवदनां (26)वनमध्ये।
(27)द्रागवोचयमवनीपतिपुत्री (28)विप्रकृष्टतरुमूलनिषण्णाम्॥ 17 ॥
(29)केयमिन्दुवदने वद नाम्ना कस्य भूमिदयितस्य च पुत्री।
किनिमित्तमधिगच्छति तापं येन निन्दति (30)सखीजनकेलीम्॥ 18 ॥
योगिनीति मयि गौरवबुद्धिरुत्थिता मम वचां सि निशम्य।
साऽब्रवीन्निसनाभिवचो भ्रान्त्यागतोपवनिकाशुकजालम्॥ 19 ॥
योगलोचनजुषात्र भवत्या न त्वयास्त्यविदितं भुवनेषु।
किं तु कर्तुमधनाकृत (31)संविद्भाषणेन तव (32)मामनुयोगम्॥ 20 ॥
एष मामकसखीपरितापः त्वत् कटाक्षपतनावधिरेव।
अल्पभानुकिरणप्रसृतावप्यस्ति गाढतिमिरं किमु भूमौ॥ 21 ॥
आदितोद्य कथयामि यथावत् सावधानमनसाकलय त्वम्।
(33)शिक्षिताक्षनिकरं भवदुक्तप्रश्नवाक्यलसदुत्तरजातम्॥ 22 ॥
अस्ति नग्नजिदिति क्षितिनाथो येन निन्दति दिवं (34)नगदीयम्।
पालिता ससुखसुप्तिजनाद्यां स्वप्ननेशरहितैर्हरिनाथा॥ 23 ॥
यद्यशो धवलितेषु जगत्सु क्ष्वेडभृङ्गा(35)वसनाङ्कमिषेण।
भेदकान् प्रविदधे किमु (36)धाता शर्वपङ्कज हलास्त्रविधूनाम्॥ 24 ॥
यत्प्रतापपरितप्ततया किं सायमस्तमययानमिषेण।
उष्णदीधितिरुपेत्य निमज्जत्यन्वहं सुदति पश्चिमवार्धौ॥ 25 ॥
इष्टदानयतुरस्य समानस्तस्य नैव (37)विषदस्तनयित्नुः।
स्पर्शने रचितपल्लवदाना पात्रदातुरपि (38)कल्पमहीजः॥ 26 ॥
शिक्षितास्तदवनीतला(39)भर्त्रासाध्वसेन समुपेत्य निवृत्तिम्।
(40)यागदूषणतमिषात्किमधर्माद्दानवा दधति पुण्यजनाख्याम्॥ 27 ॥
तस्य कोशलपतेरभिधानं नग्नजित्पदमनन्य निवासम्।
वेदमस्तकविचारमुखेषु (41)प्रौढिमाप निखिलेषु नयेषु॥ 28 ॥
मित्रमण्डलभिदा रचिता भून्नेतदाहतमृतादिभिरेव।
किन्तु जीवितयुतौ युधि कैश्चित् साध्वसात्स्वपरभेदनविज्ञः॥ 29 ॥
तन्महीतलपतेरजनि श्रीरम्बुधेरिव हिमाचलभर्तुः।
पार्वतीव सरसीरुहनेत्रा पुत्रिकेयमसमान (42)गुणौकः॥ 30 ॥
पुण्यऋक्षसहितेऽहनि सत्यानामधेयमकरोज्जनकोऽस्याः।
(43)ऐन्दवीदिव कलेव निवेश भूपतेरियमवर्धत (44)तन्वी॥ 31 ॥
(45)पञ्चसायकसहायवयोढक्षोणिपाणितनयामणिमूर्तिम्।
अत्यशोभयत शारदरात्रिं चन्द्रिकेव सरसीरुहनेत्रे॥ 32 ॥
लज्जया सह विवृद्धिमुरोजद्वन्द्वमीक्षणततिः सहवाग्भिः।
बुद्धिसंयुत विसारमवाप (46)मन्दताञ्च हसितैः सह यानम्॥ 33 ॥
तन्मुखे (47)भ्रमरका निचकासुः भुग्नतामधिगता मदनस्य।
वागुरा इव विधातुमतेच्छोराजपुत्रिकमनो मृग बन्धम्॥ 34 ॥
यौवनेन धरणीपतिपुत्र्याः वीक्षणानि च मदत्वयुतानि।
(48)श्रुत्यतिक्रमणसक्तिनेव प्रायशस्समभजन्नयनान्तम्॥ 35 ॥
प्राप (49)कार्श्यमधिकं तनुयष्टिः भूमहेन्द्रदुहितश्च वलग्नम्।
तन्नितम्बजघनं तु महत्वं तादृशी हि (50)चतुराननसृष्टिः॥ 36 ॥
तां वीक्ष्य कोसलपतिर्नयनाभिरामां सेवार्थमागतवतीं सविधं कदाचित्।
पुत्रीं महीपतिसुतां (51)युवराय कस्मै देयेत्यवाप हृदि दीर्घतरं विमर्शम्॥ 37 ॥
क्षोणीशस्सपदि पुरोहितप्रधानैः संयुक्तो विजदुहितुर्वरं विचिन्वन्।
नाविन्दन्नृपतनयं तु(52)योग्यमर्ह्यः (53)श्रीरामा हिममहिभृत्सुता समायाः॥ 38 ॥
उर्वीशपुत्र! बलशौर्यपरीक्षणाय राजा विचिन्त्य पणबन्धमिदं चकार।
बध्नाति यस्तु युगपद्वलसप्तभद्रानेतान्वरो भवतु मद्दुहितुस्सशूरः॥ 39 ॥
क्षुत्वा पणं पिरचितं बहवो नृपालाः साहंकृतीनि वचनानि परिब्रुवाणाः।
आगत्य वीक्षितुमपि क्षमतां न जग्मुः भद्रान् (54)गजायुतबलानिव तीक्ष्णशृङ्गान्॥ 40 ॥
(55)क्रोधादेनान्वीक्षणाभ्यामलक्ष्यान् (56)शौचिष्केशान् भीषणान् कुञ्चितास्याः।
दृष्ट्वा वेगाद्धावतो नर्दतोऽन्ये दूरादेव प्राद्रवन् मेदिनीशाः॥ 41 ॥
आयाताः (57)शूरवर्याः कतिचिदभिजनं विसृतं पौरुषैस्वं संचिन्त्य (58)प्राप्यमाणायुधमहितबलैस्सङ्गतास्सौरभेयैः।
पद्भ्यां क्षुण्णा विषाणैर्दलितजठर (59)कण्ठास्यवक्षप्रदेशा व्रीडां सन्त्यज्य बाढं युतवसनतया (60)दुद्रुवुर्भिन्नदर्पाः॥ 42 ॥
इत्थं गतेषु विमुखेषु महीधवेषु सर्वेषु कोसलपतिस्तनयां निरीक्ष्य।
पूर्णेन्दुबिम्बवदनां विमना बभूव कन्या हि कस्य वितनोति न वैमनस्यम्॥ 43 ॥
अत्रान्तरे नरपतिं तनयानुरूपं भूनाथसूनुमनवेक्ष्य विषण्णचित्तम्।
द्रष्टुं (61)तदीयजननान्तरभाग्ययोगादागच्छदस्य सदनं प्रति नारदर्षिः॥ 44 ॥
अङ्कुशभूपतिसूनोः माण्डवनि नायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगाच्च षष्ठसर्गोऽयम्॥ 45 ॥
.
॥ सप्तमः सर्गः ॥
माण्डावनीश! परिपन्थिनृपालभूभृत्! लेखर्षभाखिलजगन्नुसाधुकीतौ।
तीव्रप्रतापजिततीक्ष्णरुचे! श्रुणु त्वं देवर्षिकोसलधराधिपभाषितानि॥ 1 ॥
(1)गानेन सन्ततमुरारियसोविशालयोगादिव (2)भ्रमरकीटनिदर्शनेन।
शुभ्राकृतिः सुरमुनिर्नगरं नृपस्य (3)संप्राप्नुवत्सपदि शारदनीरदोऽभ्रम्॥ 2 ॥
सर्वज्ञ (4)शीर्षमणिमञ्जनपुञ्जतुल्य (5)वातायुचर्मपरिधानपटेनयुक्तम्।
(6)वर्षासु मेचकतरेण बलाहकेन सञ्छादितं तुहितभानुमिवाऽर्थसीम्नि॥ 3 ॥
चन्द्रातपातिधवलेन चमूरुरम्यचर्मोत्तरीयवसनेन विराजमानम्।
दैतेयवैरितटिनी विशदप्रवाह संशोभमान तुहिनाचल भर्तुतुल्यम्॥ 4 ॥
उद्धूलितेन (7)भसितेन निजप्रतीक द्योतव्रजेनलसितं (8)पुनरुत्थितेन।
भूतेशमौलिनिलयस्य निशाकरस्य रूप्याचलेन्द्रमिव चन्द्रिकया परीतम्॥ 5 ॥
रुद्राक्षसंघ (9)कृतया जपमालया सं(10)युक्तेन मेचकरुचा सरसीरुहस्य।
भ्रान्त्या (11)समापतितया (12)मदचञ्रीकश्रेण्येव दीर्घतरया लसितं करेणा॥ 6 ॥
दैतेय वैरि (13)निकटस्थितगायकेषु सोऽहं प्रवीम इति बोधयितुं समस्तान्।
(14)बिभ्राणमेनमिव विश्रुतनामधेयां वीणां नखाग्रहननैर्महतीं रणन्तीम्॥ 7 ॥
अन्तः प्रपूर्णमसहत्वमवाप्यसत्वं मन्दस्मितद्युतिमिषादिव संवमन्तम्।
दृष्ट्वाब्जसंभवसुतं रवितुल्यभासं वैलक्ष्यमन्वभजताखिलपौरवर्गः॥ 8 ॥
(15)कामद्विषन् किमयमस्य गले न नैल्यं शीतद्युतिः किमयमस्य मृगो न (16)चिह्नम्।
नीलाम्बरः किमयमेष न तस्य वेषो डोलायमानमनसेति जजल्पुरन्ये॥ 9 ॥
निश्चित्य कैश्चन पुराणकथाप्रसिद्धैः चिह्नैर्मुनिं (17)कतिचिदात्मभवं विधातुः।
गत्वा (18)जवेन धरणीतलनायकञ्च भद्रासनं परिगतं समवेदयन्ता॥ 10 ॥
श्रुत्वा हठान्मुनिमुपागतमासनात्स उत्थाय विस्मय (19)मुदान्वितमानसोऽयम्।
सामात्यबान्धवपुरोहितपौरवर्गः प्रत्युद्ययौ गुरुमिव त्रिदिवस्यनाथः॥ 11 ॥
राजा हि सर्वसहरश्शिव (20)चार्यभिख्यां (21)तन्मौलिवज्रमणणिजालरुचस्तदागुः पुष्पन्धयत्वमृषिपादसरोजयुग्मो॥ 12 ॥
पृथ्वीपति (22)प्रणतवन्तमनन्दयत्तमाशीर्भि (23)रिन्द्रमुरुदिक्पतिदुर्ल्लभाभिः।
वाचंयमोऽपि (24)मुनिराजवरावभातां तौ संगताविव (25)हिमाचलरत्नसानू॥ 13 ॥
उत्थाय कोसलपतिः पुरतो व्रजन्तं वाचंयमं सविनयादरमन्वियाय।
(26)बद्धाञ्जलिहतगणैरिव किं नरेशो गौरीपतिं निजपुरान्तरसीम्नि यातम्॥ 14 ॥
गच्छन् ददर्श रचितं स्फटिकाश्मसंद्यैः अभ्रंकषं विवधरत्नरुचा स्फुरन्तम्।
प्रासादमग्रभुवि भूमिपतेर्मुनीन्द्रो रूप्याद्रिकूटमिव धातुरुचा परीतम्॥ 15 ॥
कल्याणरत्नपरिनिर्मितमेकभेदप्रासादजाल परिवारविराजमानम्।
(27)हेमक्षमाधरमुखैर्विवधै (28)र्महीध्रैः (29)गौरीगुरुं (30)गिरिमिवाभिनिषेव्यमाणम्॥ 16 ॥
मध्ये चरन् सुरपथस्य यदीयशुभ्रा(31)भ्रासां समूहमधिगत्य विशाल सान्द्रम्।
क्षीराम्बुधेः स्वजनकस्य निषेवणेन प्रालेयभासुर (32)सुवासरमेति हर्षम्॥ 17 ॥
प्रातः प्रदोषसमयद्वयवद्दिनेश तारेशयो रचयता नवसन्ध्यरागम्।
दिषअटे परत्र कुरुविन्दमयेन सत्वा केलीधरेण लसितं निकटस्थितेना॥ 18 ॥
(33)कालागुरुप्रमुख (34)धूपकजन्यधूमं वातायनैर्बहुभिरुज्ज्वलमुद्वमद्भिः।
हालाहलस्य (35)गलनाद्वदनव्रजेन (36)धूमन्तमेनमिव दक्षमखं द्विषन्तम्॥ 19 ॥
दृष्ट्वा महीन्द्रभवनं महसो मिषेण बाढं हसन्तमिव तं सुरपङ्कजाक्षी!।
तद्रामणीयकभरेण विलक्षिचत्तो धुन्वन् मुहुर्निजशिरोऽभ्यधिकं ननन्द॥ 20 ॥
राज्ञा प्रदर्शितपथो भवनं विवेश नीहारभानुरिव सारदवारिवाहम्।
पावेशयन् (37)मुनिरथैष निजावरोधं पौरान् विसृज्य मितबन्धुजनेन युक्तः॥ 21 ॥
दत्ते (38)महीशतमखेन सुवर्णपीठे नानामणिद्युतियुते निषसाद मौनी।
आक्षालयन्मुनिपदे कलशार्पितेन धाराजलेन निजवल्लभया नरेन्द्रः॥ 22 ॥
कृत्वा यथा वदयमस्य भयेन भक्त्या पूजामवाप्य निषसाद मुनेरनुज्ञाम्।
(39)भद्रासनेऽबिमुखमेतदुभावभूतां (40)पद्माक्षि! पर्वणी यथा दिवि पुष्पवन्तौ॥ 23 ॥
राजा विसृत्वर निजद्विजराजरोचि संघातपूर्णविनयाञ्जलिराबभाषे।
वाचंयमं विकचनूतन (41)मल्लिकाली सूनाञ्जलि (42)प्रवितरन्नवसोदरोऽस्मै॥ 24 ॥
अन्तर्बहिश्च तमसोपहृतौ समर्थं नक्तं दिवं समतिदान (43)तनुप्रभाभ्याम्।
त्वां संविहाय विधुवह्निघृणि तमोनुनाम्ना वदन् जनति (44)कोशहृदज्ञवर्यः॥ 25 ॥
ये नारदागमनवद्दिनदुर्दिनत्व(45)मूचुर्विसंशयवैम्यमनीषिणस्तान्।
यन्नारदाद्य मम ते सुखवन्दितस्य योगादिदं दिनमभूत्सुदिनाग्रगण्यम्॥ 26 ॥
तिष्ठन्तु दीर्घतपसो बहवो मुनीन्द्राः किं ते वहन्ति तुलनां तव कोऽपि मौनी।
यत्त्वां विना कमलया (46)परिहासकाले (47)कायन्नवाप सविधं न (48)विभोरमीषु॥ 27 ॥
नाद्य त्वदागमनमेन (49)ममोत्तमं न श्रेयो द्वितीयमपि दैत्यभिदागमाख्यम्।
(50)मद्भक्तगानभुवि सन्निहितो भवामीत्याह स्वयं तव पुरो (51)मधुसूदनोऽयम्॥ 28 ॥
लोगाद्य संहरण (52)योगतया त्वदङ्गगङ्गे ससर्ज विधिरुकमण्डलुभ्याम्।
पूर्वं पुनाति जनमीक्षणमात्रजुष्टमन्यातु पानपरिगाहनतर्पणाद्यैः॥ 29 ॥
आस्व स्वकार्यकथनं द्रुहिणादयोऽपि कृत्वार्थनां तव गुणानुपगातुमग्रे।
गानात्प्रहृष्टमनसा किल दानवारिं विज्ञाप्य कार्यमभजन् (53)सकलेप्सितार्थान्॥ 30 ॥
क्षीराम्बधौ कामलया शयितो मुरारिच्छायामगाद्भवति गातरि यां फणानाम्।
(54)उक्षिप्तसर्वफणवृत्तयुतस्य भोगी (55)राजन्य नैव भजतिस्म (56)तदन्यदिष्टेः॥ 31 ॥
(57)इन्द्रादयोऽपि पृथयत्कर निष्ठवेत्रा घातक्रिया समभिहारविभग्न (58)दर्पाः।
आपुर्निवृत्तिमथ तेऽपि जयादयस्माभ्यर्णं नयन्ति सभयाञ्जलयो हरेस्त्वाम्॥ 32 ॥
तस्येदृशस्तव दयासुरकांक्षितेय(59)मज्ञे मयि प्रसरतीति विनापि यत्नम्।
चित्रं किमु ध्वनि भगीरथ यत्नसाध्या गङ्गा पुनाति न तु जानपदान्जनाग्निम्॥ 33 ॥
यन्मन्दिरं नरपते बुधसेवितं स(60)द्धर्मोज्वलं कुलिशभृत्पवनोपमं तत्।
यच्छासनैकरत भीषणदण्डपाणि र्भृत्यैर्युतं पदमिदं निरयेण तुल्यम्॥ 34 ॥
येषां भवद्विधपदाम्बुजपूजनेन संसार एति भुवि (61)संजनमेकदापि।
नैष व्रजेत् समिति शब्दयुतं परेषामर्हत्ययं निरेति पूर्वपदस्य योगम्॥ 35 ॥
भानुप्रभेण भवता सह सङ्गमेन तापत्रयान्धतमसस्य (62)निशान्तता यत्।
मद्गेहमर्हति निशान्तपदप्रयोगमद्यैव पूर्वसमये (63)सदनोक्तियोगम्॥ 36 ॥
नैसर्गिकं तदुभयं तु सुदर्शनं ते मच्छोकदैत्य हरणेऽद्य सुदर्शनत्वम्।
याति त्वदीय (64)पदवाक्यघदारुभेदे यातीति यत्पपरिलसत्तरवारिताञ्च॥ 37 ॥
श्रेयस्ततेः परमहेतुरूपाधि शून्या साधारणत्वरहिताधिगता मयेदृक्।
चित्र दया तव भविष्यति पट्व्यदृष्टां तत्वं गतापि निखिलेप्सित (65)साध्यलाभे॥ 38 ॥
(66)तुल्यो भवेदधिगतेन मया तवाद्य संदर्शनेन दिविजैरपि दुर्लभेन।
लब्धं हठादुपरि सञ्चितभाग्ययोगात् गङ्गाप्रवाहपतगं यदि (67)तद्गुनास्यात॥ 39 ॥
(68)आर्दं महीपतिवचो विनयादराभ्यां युक्तं निशम्य मुनिराट् (69)परिहृष्टचेतः।
एकं जगाद निजदन्तरुचाङ्गकान्तिमुत्तेजयन्विरचयन् कुशलानुयोगम्॥ 40 ॥
(70)माहाकुले भवति (71)कोशलशासकेय! (72)अस्मादृशेषु विनयादरपूर्तिरित्थम्।
नो विस्मयं परितनोति (73)सुगन्धितैव स्वाभाविकी मलयशैलभवे महीजे॥ 41 ॥
किं वा मही समुदमारचयस्युदारस्त्वं (74)लोकसंकटमपाऽस्य च पङ्कजातम्।
निघ्नन् करोति कुमुदावनमेष एव जैवातृको भवति राजपदेन राजन्॥ 42 ॥
किं वा गुणं त्रिषु गणेषु विहाय दूरात् राजन् तृतीयमधिसूचितमेव दिष्टम्।
ज्ञात्वा तनोषि गुणषट्कमपि त्रिवर्गः सम्पादित (75)किमितीरतरोरथ शून्यम्॥ 43 ॥
मौहूर्निको भवति (76)यस्त्वकृतान्तचारश्चित्रं तमेव जगतीश कृतान्तचारम्।
धीरा वदन्ति तदुदर्कमसौ प्रवक्ता किं (77)तात्रिको भवति साधुभृतस्त्वयालम॥ 44 ॥
भूपालकः प्रणिधिना श्रवणेन यस्तु नित्यम्परामृशति साधुतरम्प्रयाति।
निश्श्रेयसं सविजितारिगणे नरेन्द्र योगीव (78)किञ्चरगणोऽपि भृतस्त्वया तत्॥ 45 ॥
भूपाल! जीतिनयजालकमाहुरार्या न्यायप्रधानमिव (79)यौतमशास्त्रमस्मात्।
अस्य त्वमारचयसे परिपालनं किं येन प्रसिद्धयति निजेप्सित साध्यजातम्॥ 46 ॥
स प्रत्ययेन सचिवेन विचक्षणेन धात्रीपते किमु करोषि विचार्य कार्यम्।
यो मन्त्रिणा विरहितो हि (80)भवत्युदासं कर्तुं हि लभ्यति स मूढजनाग्रगण्यः॥ 47 ॥
जानासि धर्ममधिकं पुरुषार्थमध्ये किं वा विभो शतमखायुधमण्डलीवत्।
किं वा भवान् नयति काममदेहितां च दाक्षायणी पतिरिवाति शुचीक्षणेन॥ 48 ॥
हीनेषु किं नु परिपन्थिषु कोलसेन्द्र! सामात्यजस्य वरवर्णयुतेष्विव त्वम्।
दानं य तेषु किमधीतिवद्राक् दण्डं दधासि किमु (81)दुष्टपशुष्विवेषु॥ 49 ॥
किं मन्त्रयस्यऽविरोह (82)द्विविधो हि (83)मन्त्रः ब्रह्मा ससर्ज परिदृष्टमदृष्टमाप्तुम्।
एकस्तयोर्न परिगुप्ततया हिनस्ति कर्तारमेव रहितस्तु परस्परेण॥ 50 ॥
लोकप्रतीत कुलजन्मनि नीतिशास्त्रपारस्य बोधविभवादृशि (84)नैवकार्यः।
प्रश्नो विसंशयतयापि तथानुयोगक्षेमस्य कार्य इति भूप! मया कृतोऽयम्॥ 51 ॥
राजन् तवेदृगतिथिव्रजवत्सलस्य (85)निस्संशयो हि निखिलेप्सितकार्यसिद्धिः।
ध्याये रतो हृदयसीम्नि किमर्थमद्य (86)येनेक्षसेति मनस्कतया मया त्वम्॥ 52 ॥
राजाथ पद्मजतनूभवमाबभाषे वद्दर्शनेन विगतं मम दौर्मनस्यम्।
लब्धे वरस्य पुरषस्य निरीक्षणेपि किं बाधते भवविभावसु जन्यतापः॥ 53 ॥
कन्या मया कनकमूनदलोज्ज्वलाङ्गी प्रासापि चन्द्रपदना रमया सनामा।
नाज्ञाशिषं (87)पतिमथ सदृशं विचिन्वन् भूपेषु कञ्चन (88)मयैकपणौन्वबन्धि॥ 54 ॥
आगत्य राज तनयाः बहवो समर्थाः जेतुं पणं प्रतिययुः स्वपुराणि सर्वे।
हीणत्वमेत्य तदहं तरुणीं कुमारीं वीक्ष्यास्मि पद्मजतनूज! विषण्णचित्तः॥ 55 ॥
मौनीन्द्र! दुस्तररेत्र विषादवार्धौ (89)सम्मजताधिक भवान्तरपुण्ययोगात्।
लब्धा मया सपदि तावकपादपद्मसेवातरीरितरभूरमणैर्दरापा॥ 56 ॥
भूरमणं प्रवदन्तमधीतत्थं निर्जरमौनिवरो निजगाद।
वीक्ष्य (90)सयोगदृशा क्षणमात्रं तद्दुहितुर्दयितं हृदि जानन्॥ 57 ॥
आङ्कुशभूपतिसुनोः माण्डावनि नायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते निरगाच्च सप्तमस्सर्गः॥ 58 ॥
.
॥ अष्टम सर्गः ॥
युवति मन्मथसङ्गरभार्गव प्रथितमाण्डमहीश श्रुणुष्वताम्।
निगदिता नृपतिं प्रति मौनिना (1)हरिकथारिकथा सह शौर्यया॥ 1 ॥
क्षितिपते न कुरुष्व विचिन्तनं श्रुणु वदामि तमुज्वल पौरुषम्।
अधिगमिष्यति यस्य रमा समा (2)तव सुता वसुतामसितेक्षणाः॥ 2 ॥
इति नुतैरवनीपति जन्मभिर्विकरुणैरतिभारमुपेयुषि।
(3)धृतवती सुरभेश्च तनुं ययौ बत रसा तरसा शरणं विधिम्॥ 3 ॥
कमलजैप्यथ (4)दुग्धपयोनिधिं सह सुरैरधिगत्य परिष्टुवन्।
उपनिषाद्भरवैक्षत तद्गतं मधुरिपुं धुरि पुञ्जमिव त्विषाम्॥ 4 ॥
अथ सरोज भवस्य (5)गिरा महे महितभारमवेत्य दयाकुलः।
अवततार निघादयितुं यदा स जनने जनने प्रभिदा सुरान्॥ 5 ॥
तमसि कंसभिया प्रतिपादितस्वजनकेन सनन्दनिकेतनम्।
वनधिजारमणो ववृधेतरामजनतो जनतोत्सवमावहन्॥ 6 ॥
शकटभेदन तालनिपातन प्रमुखमानुषदुष्करकर्मभिः।
मनसि विस्मयमापुरलं शिशोर्व्रजगता जगतामवितुर्जनाः॥ 7 ॥
रविसुतातटसीमनि माधवो (6)व्रचयत् किल (7)धैनुकपालनम्।
मधुरवेणुरवैर्व्रजसुन्दरी(8)द्रुतनुता तनुतापनिपीडिताः॥ 8 ॥
प्रमनसो कुरुते व्रजसुन्दरी(9)र्बहुविधैरुपगूहनचुम्बनैः।
मदनवेदनया शरणं निजं (10)पदमिता दमितामरशात्रवः॥ 9 ॥
मधुभिदा रमिता (11)व्यजहन्नतम् मधुरतेक्षणवर्धितमन्मथाः।
न परितृप्ततयैनमुपागता रहसिता हसितान्वित सन्मुखम्॥ 10 ॥
व्रजवधूभिरयं (12)विहरन् कदाचिदपि धानमवाप न वञ्चयन्।
(13)परिहसन् सहसा यमूनातटीन्युपवने पवनेरितशाखिनि॥ 11 ॥
तमनवेक्ष्य विषादभारर्दिताः विपिनसीमनि नार्गण तत्परा।
निजगदुर्विविधं जडवत्तदा स मदना (14)मदनागनतां स्तरून्॥ 12 ॥
महितवञ्जुल नो विरहार्दिता विगतशोकभरा रचयन्भज।
ऋतुमशोकपदं (15)कथनादरेत्वमधुना मधुनाम सुरद्विषः॥ 13 ॥
(16)विरहदुस्तरखेदपयोनिधि मुनिमहीज! पिबन् परियास्यसि।
ऋतुमगस्त्यपदं यदपूर्णिमाब्जवदनो वद नो भवतीक्षितः॥ 14 ॥
तव रसालतरो सहकारता समुचितैव (17)तथा प्रथिता भुवि।
यदि भवेत्कथितो यमुनातटेहृदनुजो दनुजोत्करमर्दनः॥ 15 ॥
पियक! यत्प्रथितोऽसि हरेः प्रियो ध्रवमतः (18)परिपीनतया तव।
वसति कोटरसीमनि माधवो सरमणी रमणीजनमन्मथः॥ 16 ॥
सुरभिणा भवता किमु चन्दनद्रमुभुजङ्गमसङ्गमतोऽनिशम्।
(19)विदयताधिगता युदपेक्षसे वारतनूरतनूरु निपीडिताः॥ 17 ॥
मधुरसे ननु नोऽधरनिर्जयः पुलततेस्तव मन्तुरुपेक्ष्यताम्।
कथय तिष्ठति कुत्र (20)हरिर्हसन् न पिहितो पिहितो भवदत्र सः॥ 18 ॥
मधुरतायुतसारमवाचकं मधुकशब्दमिदं कथमर्हति?।
कटुतया प्रतिभात्यवदघतोद्य मधुकं मधुकण्ठहरस्थितम्॥ 19 ॥
(21)वहति गाढरुषं युवतीमणे किमु पुरातननिर्जितसत्पला।
मदनबाणहता यदमूर्महा (22)चलकुचालकुचालिरुपेक्षते॥ 20 ॥
द्रुत परं बत! गच्छत वञ्चकः किमनया मुरभित्परिवीक्षितः।
यदधुना निजपल्लवपाणिना विचलता च लताऽह्वयतीव नः॥ 21 ॥
अलिकुलैरिव रोदिषि(23)बिभ्रसि (24)मधुमिषाश्रुकणानि च वञ्चनम्।
अकुरुत त्वयि किं महिलामणे सुरहितो रहितो दयया फली॥ 22 ॥
स हि विवेकलवो मदना हता वसति कुत्र च तद्युवती गणः।
इति वदन्नवाप्यत (25)दुस्तरं बत रुषं तरुषण्डमुपादधौ॥ 23 ॥
अथ रुषारुणवञ्जुलशाखिनां (26)पदहतिं (27)महतीं निजदोहदम्।
युवतिभिर्भजतां निचयो बभौ सुमसृजामसृजां वमनादिव॥ 24 ॥
अपरया मुखसीधुहतो रुषा परुषया शरणं गतवानिव।
अजनि (28)नम्रशिरा नितरां महा सुमधुरो मधुरो वकुलद्रुमः॥ 25 ॥
अपरया गमितः परिरम्भणं मुरहरं कथयेत्यथ पुष्पितः।
विधुभयादिव वारणमातनोत् कुरवको स्वकोटियुतोऽलिनाम्॥ 26 ॥
इतरयातिरुषा परिवीक्षितो न कथनेन विधोः प्रसवैरभूत्।
भयभरादिव कर्तुमुपायनं सतिलको तिलकोटिमतां परः॥ 27 ॥
अपरया मदनेन (29)शराहतो न कथयन् हरिमाम्रतरूस्सुमैः।
स्मरशतैरिव भीषयितुं दधौ द्रुततमं (30)ततमञ्जुलमञ्जरिः॥ 28 ॥
मधुमदारुणलोलविलोचना मुरभिदाकथनेन (31)रुषायते।
निजसमीपभुवं (32)धुरि वीक्ष्यता व्रजवधूर्जवधूर्जलता गुणाः॥ 29 ॥
दरभरादिव (33)साप्तपदीनमारचयिषुः (34)कनकप्रसवस्सुमैः।
तदलकप्रतिपक्षशिलीमुखानुदवधीदवधीरितहेमभिः॥ 30 ॥
अपरया (35)कथितेह हि वञ्चने तनुऋचास्य विपक्षमलिं रुचा।
ससृजिरे दधताः किमुकर्णिकारतरुणातरुणानि सुमान्यहो॥ 31 ॥
इति विचिन्त्य तरुं नृपसिन्धुरो निजसमीपगते सति यौवते।
मधुमरुद्भ्रमतोऽस्य सुमाचितोप्यलसता लसता श्वसितेष्विव॥ 32 ॥
गहनदेश परिभ्रमणालसन् स्मरविवृद्धिमिता समुपेत्यताः।
(36)वटमहीधरमूलधरास्थली मजगुरुं जगुरुन्नतनिस्वनम्॥ 33 ॥
सपदि (37)गानपरिश्रवणं गतः स्तनुभवः (38)परिमृष्टसुमैश्शरैः।
निजधनुः पदमत्र समातनो द्रतमयं तमयन्युवतीगणम्॥ 34 ॥
इति हसन्तमहेतु निषेधिनी तव न मेर्वभिधामपकारिणः।
युवति संघमयं सुमितोरुषार्तमकरोन्मकरोन्नत (39)केतुना॥ 35 ॥
(40)इति वने चरतो दयया हरिर्व्रजवधूटिसरस्य दृशोर्गतः।
(41)विषयतां निजभक्तजनव्रजा सुमहितो महितोत्सवमातनोत्॥ 36 ॥
विधुमुखीनिकरेण तदीक्षणो न्नतभरादृतमुत्पतिते न सः।
कृतपराकृत संस्मृतिना (42)जुषां निजगदे जगदेकगुरुः पुरः॥ 37 ॥
प्रतिभये (43)प्रभवत्पदपङ्कजैत्र शरणांयदसि प्रविहाय नः।
विकरुणा विपिने (44)परिमृश्यतामधिगतोऽधिगतो भवति स्पृहाम्॥ 38 ॥
ननु जनार्दन नाम तवोचितं बत कथं न जगत्रयविश्रुतम्।
(45)अतिहितास्वबलासु कृतं त्वया वद यतो दयतोऽधिकपीडनम्॥ 39 ॥
विदयिता (46)सहसा वनिताजने तव विशिष्य पुरा रघुरामताम्।
समधिगत्य खरस्वशृनासिकातनयनं नयनन्दितकारितम्॥ 40 ॥
इति वदद्व्रज यौवतमर्दितं सुमशरेण (47)निकुञ्जगृहेष्वलम्।
करुणया रमणेन बभूव मुद्भरमितं रमितं भुरवैरिणा॥ 41 ॥
इति वने विहरन्त (48)ममुं हरिं निजपुरीमथ (49)कंसखलाग्रणिः।
अनयदेनमयातयदन्तकृद्वशमयं शमयन्वि पदं क्षितेः॥ 42 ॥
तदनुजांश्च निहत्य विमुच्यतन्निगल संयतमार्तजनाश्रयः।
अकुरुताऽस्य ततो मधुरापतिं (50)स्वजनकं जनकम्पनशासनम्॥ 43 ॥
समधुराममुना परिशासयन् मधुरिपुर्महिभारजिहीर्षया।
क्षितिपकैतवयातुततीरहन्नविनता विनतासुतवाहनः॥ 44 ॥
बलयुतेन जरातनयेन तन्पुरमरुध्यत कंसनिषूदनात्।
प्रकुलितेन नरेन्द्रबलद्विषस्तमनुजं मनुजं परिजानता॥ 45 ॥
हतबलेऽथ जरातनये निजं (51)पुरमतित्रपयाऽधिकयान्विते।
हलभृता मुरदानव (52)भेदिनेप्युभयतो मयतोल्लसिता पुरि॥ 46 ॥
यदुपतेरनुपद्रवमिच्छुना (53)भवनतो हरिणा गदितोत्तरे।
जलनिधेस्सुरशिल्प्यसृजत्पुरं वरचयं रचयन्नयनोत्सवम्॥ 47 ॥
यवनमेष पलायनकैतवात् मुररिपुर्मुचकुन्दमहीपतेः।
तनुभवेन विनिस्सरताग्निना नयनतो य नतोऽमुमदीदहत्॥ 48 ॥
अपहरन्मिषतां धरणीभृतां महि पुरन्दर रुक्मि (54)सहोदरम्।
गमयति स्म सचैद्यसहृत्कुभृत् बलवनं लवनं निजहेतिभिः॥ 49 ॥
नानारत्नप्रोज्वलद्वारकान्तां सेवायातक्षोणिभृद्वारकान्ताम्।
इत्थं पाति श्रीसुहृद्वारकान्तां रम्भारूपप्रोल्लसद्वारकान्ताम्॥ 50 ॥
पुत्रीं सरोरुहनिजौ वसया बलेन स्थित्वा गुणैस्तव पुरा वहते बलेन।
आनद्य शाक्वरवरान् द्विरजेन्द्रसत्वा(55)नादाय मोदसहितं महिचन्द्रसत्वा॥ 51 ॥
अङ्कुशभूपतिसूनोः माण्डवनि नायकस्य काव्येऽस्मिन् सत्यापरिणयनाम्नि प्रधितेनिरगच्छदष्टमस्सर्गः॥ 52 ॥
.
॥ नवमः सर्गः ॥
श्रीराणान्वय! जलराशिशीतकान्ते! र्माण्डक्ष्मावर! कविलोककल्पभूज!।
श्रोतव्यो (1)मदनकृतामहीभृत्पुत्र्या हरिगुणसंश्रितत्वभूपा॥ 1 ॥
इत्युक्त्वा प्रमुदितमानसं (2)नरेन्द्रं मामन्त्र्य प्रभुमथ तेन सत्कृतस्मन् नालीकासनतनयो (3)नभोजगाहे कुर्वन् (4)प्रेक्षकहृदयेषु हंसशङ्काम्॥ 2 ॥
दैत्यारेर्गुणनिकरो न द्रुष्टपूर्वो यो राज्ञो निकटमवाप्य तस्य पुत्र्याः।
शृण्वन्त्यास्त्वमजतनूभवादमुष्मिन्(5) चेतोऽस्याः परमचलाचलं न्यबन्धीत्॥ 3 ॥
कंसारौ निजदयितेऽनुषक्तचित्तामेनां किं व्यधयितुमिन्दिरा स्वसूनुम्।
प्रायुङ्क्ते प्रसवशरं पृथाकुमारीं भूभर्तुः प्रहरति सप्रकाममस्त्रैः॥ 4 ॥
दत्वा किं निजतनुकान्तिमम्बुजाक्ष्यै पङ्केजासनतनयो जगाम यस्मात्।
अङ्गेषु प्रतिदिवसं प्रवर्धमानं पाण्डुत्वं कनकसमेष्वियं बिभर्ति॥ 5 ॥
दैत्यारिं विषयविरक्तहृदयत्वेन ज्ञात्वालं सुलभमियं महेशमुत्री।
ध्यायन्ती निजहृदये तमेव नित्यं वैराग्यं वहति समस्त वस्तुजाते॥ 6 ॥
कंसारेः हृदयगतस्य राजपुत्री निष्क्रान्तेर्भयमधिगत्य किं सखीभिः।
नोदत्ते (6)शशिवदना तु कञ्चिदर्थं पृष्टापि प्रतिवचनं सहस्रकृत्वः॥ 7 ॥
गोशीर्षे निजसविधं सखीगणेनानीत्यसौ स्फुटमपि (7)जानपि मृगाक्षी।
पृच्छन्ती (8)हरिपदपूर्ववन्दनार्हं रज्यन्ती वदति श्रुणोति तत्र हर्षात्॥ 8 ॥
प्राणेभ्यः (9)प्रियमपि कीरमम्बुजाक्षी नो धत्ते सपदि कदापि पञ्चशाखे।
नो विधव्यति परिवादिनीं नखाग्रैः (10)कण्डूयामपि विदधाति नो पृषत्याः॥ 9 ॥
एणाक्ष्या मुरिभिदं चिन्तयोपनीतं नैश्चल्यं निजमनसस्मरस्य यातम्।
साहाय्यं (11)भुवितरलेरच्छक्यं सौलभ्यं भजते धनुष्मतो विभोत्तुम्॥ 10 ॥
लोलाक्ष्या हृदयगतो विधुस्त्वपूर्वो योऽमुष्याश्समयते धैर्यवारिराशिम्।
संवृद्धिं गमयति रागमन्धकारं (12)हन्त्यक्ष्यम्बुरुहनिमीलनं क्षपासु॥ 11 ॥
तापार्थं लसति कुचद्वयान्तराले विन्यस्तं (13)मलयजलेपक्षस्मराशिः।
निर्भिन्नादिव हृत्तदन्तरस्था योगाब्धे स्तु समुदिता च (14)फेनराजिः॥ 12 ॥
नियवसा अधिपतयचिन्तयाय तत्वं भारत्वं प्रति वचसा च मण्डनानि।
हासैः प्रोंझनमभजन्नपाङ्गवीक्षा सल्लापेस्सह विरतिञ्य केलयोऽस्याः॥ 13 ॥
मानं निर्मितमनयत्प्रसून बाणब्रह्मान्यत्किमु समये वियोगभाजाम्।
एणाक्ष्या दिवसगणो युगत्वमद्य प्रत्येकम व्रजति सदा (15)विचिन्तयत्याः॥ 14 ॥
अद्वैतं किमु कृपयाप्यबोधयत्वं ध्यायन्ती हृदयगतो हरिर्मृगाक्षीम्।
अन्तर्विक्षणनिरता पुरःप्रपञ्चे मिथ्यात्वं कलयति (16)योगिनीव तन्वी॥ 15 ॥
संतप्ते प्रसवशराग्निना मृगाक्ष्या निक्षिप्तं निजहृदयेभिः सप्रसूनम्।
मन्दाक्षादिव सविधे निरीक्षणेन सृंज्जेतुं स्फुरितमदामुखस्य (17)मल्लौ॥ 16 ॥
निक्षिप्तं कुचयुगले (18)पटीरमाद्रं संतप्ते विरहकृशानुना भृशोष्णाः।
निश्वासा बत! शतजीवनं वितेनुः सौरभ्यप्रतिभटतान्तमत्सारात्किम्॥ 17 ॥
तत्तन्व्यां ध्रुवमकिरत्तदा वयस्या बृन्दश्चोत्तमद्यनसारपूर्णदम्भात्।
दृश्यत्वेतरगतखेदकृन्मनोभूः किं तस्यापनयनकां क्षया (19)विभूतिमि॥ 18 ॥
सञ्जातं फलमपहाय दावतापात् भीत्यास्वं (20)वनमधिरोहि बिम्बिकायाः।
सन्तापाद्भजति ततो गिराविदानीं म्लानत्वं बत! विषमास्त्रवह्निजन्यात्॥ 19 ॥
शय्यायां मृदुलरसालपल्लवैरास्तीर्णायां किमु शयनस्य कैतवेन।
(21)अग्नौ प्रज्वलती निवेदयत्यनन्यस्वां तत्वं मुरभिदमन्तरेण सा स्वम्॥ 20 ॥
लावण्याद्वदनविनिर्जितेन भीत्या (22)गत्योपायनरचितं निशाकरेण।
धत्ते किं धरणितलेश्वरस्य पुत्र्यै पाण्डुत्वं बहुलतरं (23)कपोलयुग्मे॥ 21 ॥
एनां (24)यत्पृथयति मन्मथेन खिन्नां ताराणां पतिरधिकं निसीथिनीषु।
युक्तं तद्यदियमदो विपक्षमद्य भीत्यालं वसति मृगाक्षि कृष्णपक्षम्॥ 22 ॥
विद्यत्यम्बुज!नयतां प्रसूनबाणो यद्बाढं विगतदयस्तनूभवोऽपि।
तल्लोकप्रथितगुरुद्रुहे मुनेन्दोस्सादृस्यात्किं मुनिजमातुलस्य लब्धम्॥ 23 ॥
निक्षिप्तं स्पुरति मनोभवाग्नितापात् अम्भोजं नृपतनयोरसि व्यनर्तेत्।
म्लानत्वं (25)सुविजयिनस्तदामुखस्य (26)प्रोद्गाढादिवसविधे निरीक्ष्य हर्षात्॥ 24 ॥
रोषात्किं प्रसवशरे तदीयकेतु प्रद्योतन्मकरसनाभिरूपभाजाम्।
पत्राणां विभवमजस्रमश्र्रुर्षै(27)रेणाक्षी हरति पयोधरश्रितानाम्॥ 25 ॥
तप्ताया विरहहुताशनस्य तस्यानीलाम्भोरुयुगलं वतंसितं सत्।
आलीभिः श्रवणयुगे स्वमित्रनेत्रमास त्वं किमु परिवीक्ष्य (28)मंक्षुमल्लौ॥ 26 ॥
भातीयं द्रुतबिसहारिणी मृगाक्षी दैत्यारेरुपयममास्यभोगिराजे।
संशेतुं विभजत एव तेन योग्यां तन्वाना फणिभिरलं सदाविहारात्॥ 27 ॥
यद्भुङ्क्ते मदनभवं फलं ततः किं कृत्येष व्रजति च विसृतिं बिभर्ति।
यद्गोत्रं निजहृदये जगद्गुरुं सा निश्वासात्किमु विदधाति तेन सान्द्रान्॥ 28 ॥
श्रीवत्सान्वित हृदयं निजस्वरूपं ध्यायन्तीं निकिलवराधिकं मुरारिः।
मन्वानो मनसि सरूपताप्रदानं श्रीवत्सान्वितहृदयां (29)पदङ्गरोति॥ 29 ॥
प्रद्युम्ने विगदयं निजैपृषत्कैः आत्मानं हृदि परिविद्यते प्रखिन्ना।
अश्रूणां नयनयुगेन (30)संवमन्ती सन्दोहं कृशतनुरद्यवोचदेनम्॥ 30 ॥
कर्तारं मदनमहागसौ ररक्ष च क्षाभ्यं दनुजमपि स्वपादपद्मम्।
प्राप्तं यश्शरणममुष्य तेन सूनो(31)व्यक्तं मे व्यधनदुनागसो बलायाः॥ 31 ॥
धातापि प्रभवति सर्जनेन्तरात्वां (32)नैवालो भवति तवोचितं चरस्य।
सृष्टस्या तनुभवतेव हिंसनं नो किं युक्ता स्ववनतरोपरि (33)प्रपीडा॥ 32 ॥
वाग्देवीं निजहृदये बिभर्ति धाता दैत्यारिः हृदयतले दधाति पद्माम्।
देहार्धे वहति धरात्मजां गिरीशो (34)लब्धवाज्ञां स्मर तव का कथा परेषाम्॥ 33 ॥
तप्तस्ते वसति जपच्छलान्महास्त्रैः धातालं हरिसुतामानसस्य तीरे।
शेतेब्धौ हरिरपि जाह्नवीं महेशस्सन्दत्ते शिरसि पराक्रमस्तवेदृक्॥ 34 ॥
ब्रह्मापि प्रभवति सृष्टिमात्र एव श्री भामापतिरपि रक्षणार्थमेव।
संहारे प्रभवति चैव (35)शङ्करोऽपि त्वं सृष्टिस्थितिविलयेषु साधुशक्तः॥ 35 ॥
सूत्रामा लिखितसहस्र (36)नेत्रजालव्याजप्रस्फुटतरवर्णङ्क्तियुक्तः।
स्तम्भत्वं वहति जयस्य ते तदा नं (37)प्राकट्यं मदननयन्निरीक्षणेन॥ 36 ॥
दिक्पाला बलरिपुचित्रभानुमुख्या (38)विन्देरन्न यदि भवत्कृपाकटाक्षम्।
एतावत्समयममी हृताधिकारामारोग्रच्छतमुनिभिर्न किं भवेयुः॥ 37 ॥
शौर्यन्ते कथयति नामधेयमेतत् प्रद्युम्नेत्यखिल जगत्सु नान्यवृत्तिः।
तिष्ठत्येयुधनिकरे प्रसूनजालैरस्थित्वं वदति दयावदग्रणीत्वम्॥ 38 ॥
पंचास्त्रप्रवरहतो महावियोगी स्वान्तेषु स्थितिमधिगच्छतो नितान्तम्।
प्रद्युम्नाण्डज! कति तत्वजस्य को वा दैत्यारेस्तव जनकस्य ते च भेदः॥ 39 ॥
तस्मात्वं जनक इति प्रसूनधन्वन् एकान्तं शरणगता च न (39)प्रधानः।
कस्मान्मां शरणगतामतीव दीनामुग्रास्त्रैः व्यधयसि निर्दयत्वयुक्तः॥ 40 ॥
इत्थं सा कृपम तरं बहु स्तुवन्ती पंचास्त्रं क्षणमपि नैवशर्मलेशम्।
संप्रप्ता कृथमधिगत्य राजपुत्री निश्वस्यारुणनयना (40)जगाद भूयः॥ 41 ॥
त्वं नाम्ना मदन शमं यदि प्रयाता सर्वज्ञः (41)परमकृपायुतान्तरङ्गः।
त्वय्येवं प्रियसुहृदात्मजे प्रयुज्यातदेवः किं परुषहृदा तुरीययोगम्॥ 42 ॥
दुष्टस्य प्रियवचनाद्युपायजालं नो शान्तिं परिवितनोति शम्बरारे!।
किं दुग्धप्रवितरणाद्युपासनाभिस्साधुत्वं व्रजति फणाधरोऽणुमात्रम्॥ 43 ॥
दैत्यारेरपि जननं न सत्वमूर्तेः साधुत्वं तव वितनोति मीनकेतो।
क्षीराब्धेरमृतमयान्न किं प्रजातो लोकोपद्रवजननाय कालकूटः॥ 44 ॥
लोकोपद्रवकर (42)घोरकालकूट(43)स्रस्टुस्त्वं जलधितनूभवाश्रयं यत्।
तं मन्ये जनकगुणप्रभूतमेवं नोचेत्कीदृश तनयः क्व लोकमाता॥ 45 ॥
सन्तानो न भवति कीर्त्यकीर्तिमूलं (44)सद्वासो मदन! गुणागुणाढ्य एव।
प्रहलादप्रथितपदं सुरारिसूनुर्यातित्वं हरितनयाऽपि मारनामा॥ 46 ॥
एकोऽपि व्रजति तनूभवो गुणैस्वैरुत्कर्षं निजजनकान्निकर्षमन्यः।
(45)भूतोघप्रभुतनयो सुरारिसेना (46)निष्यन्दो हरितनयस्त्वमङ्गहीनः॥ 47 ॥
पंचास्त्रात्फलकृतमार्गणस्य नित्यं संवृद्धिं निशि भजतो वियोगि पीडाम्।
आधातुर्मनसि (47)महोग्रवैरिणस्ते दैवारेरि करुणावसेत कथं वा॥ 48 ॥
गात्रं हृच्छदयमयं भवापकारव्याजेनाकृतभवतो महोपकारम्।
येनेदं (48)भुवनमदृश्यतामवाप्य त्वं (49)बाणैर्व्यथयसि मेघनादतुल्यम्॥ 49 ॥
यत्नं नोत्तम—–रुषस्तनो—ढा कर्मणीत्यतु विपदं निवृतमेति।
अन्यस्त्वं पुरहरतोऽपि दण्डमाप्तो नो यातो विरति मतोऽधमाग्रगण्यः॥ 50 ॥
मारस्त्वं मंधुरिधिकं पलाशबन्धुः सामन्तः सुहृदपि चन्द्रमाः कलङ्की।
सेनाते बत! गहनप्रियो विधाता सन्धाने निपुणतरः परस्परस्या॥ 51 ॥
त्वामाहुर्जडमतयः प्रसूनबाणं (50)बाढं त्वं मनसिज! वज्रबाणा एव।
धैर्यक्ष्माभृत (51)भुवि माशुभिन्द्यात् नो चेन्मे कथमधुना (52)तवाब्जकोशः॥ 52 ॥
दौर्भाग्यं विरहि जनस्य कः प्रवक्तुं शक्तो यन्नयनहुताशनेन शम्भोः।
(53)संदग्धं लयसमये चराचराघं (54)दग्धोऽपि प्रसवपृषत्क! जीवसि त्वम्॥ 53 ॥
इत्थं प्रसवशरो विकत्थितोऽपि क्षोणीभृन्मणि सुतया तुतोद भूयः।
तां बाणैः स्तुतिपतिहेलनादिदुष्टं स्वान्तं किं भुवि सुजनं विधातुमीष्टे॥ 54 ॥
माधुर्यं (55)सपदि लभेत निम्बवृक्षः सौम्यत्वं जगति जहीत पन्नगोऽपि।
यायाद्वा दॉषदपि मार्दवं प्रयत्नैः सौजन्यं न तु कुजनो लभेत जातु॥ 55 ॥
मित्रं यद्यपथमुपाश्रयेन्निषेधेत् दक्षश्चेत सपदि बुधो न चेत समीपात्।
(56)निर्गच्छेत्तदनुसृतिस्सतो न युक्ता ज्ञात्वेत्थं तमनुगतं निनिन्द सेन्दुम्॥ 56 ॥
अर्थेऽस्मिन् बत! (57)कथमोषधीशसर्वज्ञत्वं संकुचितमभूत्पुरां विभेत्तुः।
(58)यत्पान्थाहतिदुरितं कलङ्कद्म्भात् मूर्तं त्वां दधतमयं बिभर्ति मूर्ध्नि॥ 57 ॥
मत्वा (59)सा स्मरमधुना विधो! सखायं यासि त्वं परमसहायताममुष्य।
(60)एनेदं तव गुरुतल्पगत्व निन्दा को हेतुः स्मर तव राजयक्ष्मणो वा॥ 58 ॥
ये नाम्नाऽमृतकिरणं भवन्तमाहुस्ते मूढाः विषकिरणप्रथा तवार्हा।
यद्मात्रे शितकरवालकूटतुल्यं सन्तापं मम जनयन्ति ते मयूखाः॥ 59 ॥
सामर्थ्यं परिकलये नतु क्रियायां पद्मारे! तव गरलन्सयूखजाले।
पानाद्यैर्ननु गरलं निहन्ति लोकं दृष्टं सत्तव तु मयूखबृन्दमेतत्॥ 60 ॥
नक्षत्राधिपति इति (61)नाम ते प्रसिद्धं नक्षत्राधिपति इति कर्मधारयस्य।
अर्हं यन्मदनपतत्रिपीडिताया (62)न त्राणं मम वितनोषि किन्तु बाधाम्॥ 61 ॥
आधाता कुमुदविकासमार्षे धाता नाथ स्त्री हृदि हृतसारसप्रवर्षः।
गन्ता त्वं (63)सवनद्यनैस्तिरस्त्रियाया राजत्वं जड नार्हसे प्रसिद्धः॥ 62 ॥
दैत्यारेरपि करुणामृदो हृतस्ते संभूतिः परुषतरस्य नैवचित्रा।
नेत्रात्सन्ततकरुणातिशीतवीक्षात् तस्यैव प्रभवति किं न चण्डभानुः॥ 63 ॥
मा गर्वं (64)निरसा पुरत्रयारिर्धत्तेमामिति हृदये कलानिधे! त्वम्।
कृद्धस्योत्पथगतदक्षसत्पतन्तौ तस्यैव स्मरहृदिति (65)प्रपाद धातम्॥ 64 ॥
उत्कर्षं तव विदधाति नैव मूर्ध्ना शर्वेणाभरणतया भृतिः कलङ्किन्।
दत्ते सा दनुशचिकरोऽपि (66)मारिकां किं तन्निष्ठं मनसि विमृश्य पुष्कलत्वम्॥ 65 ॥
दोषाकरस्य तमसा विभवङ्गतस्य चक्रार्तिरस्य विपराशिसमुद्भवस्य।
उग्राश्रयस्य च हलाहल (67)जन्मनोनु क्रोशः कथं नु तव चाध्वगवैरिणः स्यात्॥ 66 ॥
इत्थं सेन्दुविनिन्दनं कृतवती क्षोणीपतेर्नन्दिनी वीरालापमिव स्मरस्य मधुरालापं पिकानां वने।
झङ्कारं मधुपायिनां च धनुषष्टङ्कारमेत्कृतं मन्वाना निजगाद (68)माधवमतः सामन्तमस्य प्रियम्॥ 67 ॥
अङ्कुशभूपति सूनोः माण्डवनिनायकस्य काव्येऽस्मिन् सत्यापरिणयनाम्नि प्रथिते नवमश्च निर्गतस्सर्गः॥ 68 ॥
.
॥ दशमः शर्गः ॥
मुरारिपादाम्बजचञ्रीक! मनोयुताकर्णय माण्डभूप!।
मध्वादि निन्दाञ्च महीशपुत्री दयातरङ्गिण्यभिभाषितानि॥ 1 ॥
मनोभवाज्ञां (1)मधुपो दधातु पिकव्रजः पल्लवतत्परो वा।
(2)निशाकरो ग्लौस्सकलागमेषु सञ्चारिणस्ते सुरभेन युक्तम्॥ 2 ॥
(3)सुपर्णवाहा विपिनीप्रियाणां सुहृद्द्विजानां प्रसवाधिगम्यः।
भवान् कृपालुर्यदि विष्णुवत्स्यादर्हत्यलं माधवनाम (4)तच्चा॥ 3 ॥
दिष्टाधिप त्वं कलकण्ठगानैरन्यागमः तत्र समृद्धियुक्तः।
जन्मावनो दक्षिण भूमिभृत्कः संसेव्यमानस्सुमनोभिरामः॥ 4 ॥
सन्तन्वतीत्थं (5)बहुसान्त्ववादं न विन्दती (6)स्थैर्यमपीह किञ्चित्।
विशेषमेषातिकषायिताक्षी रुषायुता माधवमाबभाषे॥ 5 ॥
(7)पलाश्बन्धोर्मधुपावनस्य सूनावलेरुत्तमकारणस्य।
(8)मालैकबन्धो मम सान्त्ववादैः कथं दया चेतसि ते जजन्यात्॥ 6 ॥
वियोगि भाग्य व्ययतो (9)भवेन दग्धो यथा जीवति मन्मथोऽपि।
जीवन् तथा किं हरिणा हतोऽपि जनार्तिदस्त्वं मधुनाम दैत्यः॥ 7 ॥
अजस्र पान्थाहति (10)जन्यपापविनष्टसत्वं हृदयं कथं ते।
दयाङ्कुरारम्भकमग्निदग्धं किं (11)शालिबीजं जनिताङ्कुरं स्यात्॥ 8 ॥
मधुं विनिन्द्येति महोत्पलाक्षी विवर्धयन्तं विषमाशुगाग्निम्।
(12)धैर्यापहं दक्षिणगोत्रजातं समीरणं (13)साध्वसतोऽवदत्सा॥ 9 ॥
समानतां (14)जन्मिषु त प्रयातु मनोभवाधीनतयाऽबलानाम्।
(15)निसूदनं साधु समीरणस्य विहाय कारुण्यमिदं न युक्तम्॥ 10 ॥
सद्गोत्रजातस्य सदागमस्य धर्मस्यकाष्ठां परमाङ्गतस्या।
या चक्रिभक्तस्य च (16)मज्जिघां सा परं (17)जगत्प्राण ममैव भाग्यम्॥ 11 ॥
दयालुताऽनेन तव स्फुटा या प्रभञ्जनं त्वां प्रवदन्ति सर्वे।
प्रभञ्जनाच्चेतनमानसाधुरेतत्पदं यत्वयि नान्यवृत्ति॥ 12 ॥
इत्थं नुतोप्यम्बुजनेत्रयाऽभूददक्षिणो दक्षिणमातरिश्वा।
विहाय धैर्यं बहुधा (18)स्तवेऽपि न सौम्यतां याति हि गन्धवाहः॥ 13 ॥
स्तवे कृतेऽपि द्विगुणं पुरस्तात् सन्तापयन्तं सरसीजनेत्रा।
अवोचदित्थं खलगन्धवाहं (19)रुषान्विता निष्ठुर भाषितानि॥ 14 ॥
चिरायुषो दोषजुषां यदार्था प्रभाविधु त्वां च विहाय किं वा।
वियोगि हिंसा वृजिन (20)प्रपूर्णाफणीन्द्रवक्त्रे पतितोऽपि जीवेत्॥ 15 ॥
वदन्ति (21)मित्रात्कुटिलादरातिं (22)वरं बुधा निष्कपटो नभस्वान्।
त्वं प्राणिनां प्राणतया विभासि पुष्णा हीनप्यसि दुष्टवत्सभा॥ 16 ॥
यदेककार्योऽद्य तयोर्नभस्वन्नलं प्रसिद्धा भुवनेषु मैत्री।
तस्मान्न सन्तापकरो यदिस्याः विभावसोस्ते च कथं सखित्वम्॥ 17 ॥
इति प्रणिन्दत्यरविन्दचन्द्रकन्दर्पमन्दानिलचन्दनादीन्।
आनन्दमिन्दीवरसुन्दराक्षीनाविन्दतेऽयं निजमन्दिरस्था॥ 18 ॥
मनोजतापेन न शक्नुवन्ती स्थातुं निवेशे जनकादनुज्ञाम्।
अवाप्य (23)साकं स्वसखीजनेन क्रीडार्थमुद्यानमुपागतेयम्॥ 19 ॥
द्विरेफगीतात्कलकण्ठकण्ठकलस्वनात (24)कीरसमीरणेभअयः।
अत्रापि च त्रासमुपेत्य भर्तुम्मलतोज्वलाङ्गी लभते न शर्म॥ 20 ॥
हृष्टां विधित्सन्ति विनोदकर्मनर्मो क्तिभिर्मर्मविदो वयस्याः।
(25)प्रसूनधर्माशुगभिन्नधैर्यवर्माणमन्तर्मनसं मृगाक्षीम्॥ 21॥
निवृत्तयेऽस्याः मदनव्यथायाः भवन्ति (26)नारीजनचेषअटितानि।
निर्वापणा यत्र भवन्ति वह्नेस्समेधितस्याज्य पृषन्ति किन्नु॥ 22 ॥
तदार्तिरेषा कमलेक्षणायाः निवृत्तिमेत्यप्यचिरेण सत्यम्।
(27)अपाङ्गवीक्षालि तरङ्गसङ्गमङ्गीकरोति स्म (28)यतस्त्वदीयम्॥ 23 ॥
दयाकटाक्षे तव भावितेऽपि हृदि व्यथाऽस्या न निवर्तते चेत्।
पद्मादयावीक्षण (29)सङ्गतेऽपि दारिद्रयशङ्का न कथं जनस्या॥ 24 ॥
इत्थं वदन्त्या वचनं मृगाक्ष्यापरिभ्रमन्ती वनवीक्षणाय।
उपागमद्भूमिमहेन्द्रपुत्री मदन्तिकं मध्यगतासखीनाम्॥ 25 ॥
(30)निरीक्ष्य मां तक्षणमम्बुजाक्षी कृतक्षणा सा प्रणनाम साधु।
आजन्मसिद्धो विनयोऽबलासु सद्वंशजातासु न (31)शिक्षणीयः॥ 26 ॥
ततो ममैनां परिवादिनीं स्वकण्ठस्य माधुर्यभरेण साधु।
(32)यथार्थनामान्वित नन्दयन्ती सानन्दिनी (33)नग्नजिती न्यगादीत्॥ 27 ॥
विद्याधरी वा फणिकन्यका वा सुत्रामलोकाम्बुरुहेक्षणा वा।
का त्वं वदेन्दीवरजैत्रनेत्रे! न रूपमेतन्महि भामिनीषु॥ 28 ॥
ईदृग्धरा सप्रतिमानरूपमहोज्वलाया मणिमण्डनानि।
विहाय मे तामरसायताक्षी तनोति मे विस्मयमेषवेषः॥ 29 ॥
क्वेदं तवाङ्गं हरिचन्दनार्हं भिक्षूचितोऽयं क्व विभूति वेषः।
क्वेमौ कुचौ हारविहारयोग्यौ क्व कम्बुजन्य (34)स्फटिकास्रजो वा॥ 30 ॥
अहो! निवृत्तं मम दौर्मनस्यमवेक्षणेणैव मृगाक्षि! दूरात्।
तवाधुना (35)धामिनिधेरथाङ्गं नाम प्रियाया इव वीक्षणेन॥ 31 ॥
परिस्फुरत्संप्रति वामनेत्रं इदं मदीयं कथयत्यदूरात्।
भविष्यतीमीप्सितकार्यसिद्धिं त्वत्तस्फुटं मत्तमरालयाने!॥ 32 ॥
त्वत्तस्ततो मत्तचकोरनेत्रे! मदीप्सितं (36)सिद्धयति नात्र शङ्का।
न हि व्यथा तिष्ठति सर्वदेति जनप्रवादो भुवि किं न (37)सत्यम्॥ 33 ॥
इतीरिता बालिकया प्रहर्षफुल्लाननाम्भोरुहया तदाहम्।
(38)मदीयवृत्तान्तमसेषमेनमश्रावयं त्वामिव कंसभेदिन्!॥ 34 ॥
शृत्वा वचो मे नरनाथपुत्री विज्ञाय मद्योग (39)बलं मुरारे!।
सर्वेषु लोकेष्वनिरुद्धचारं (40)अनर्द्यमानन्दमविन्दतेऽयम्॥ 35 ॥
कार्यस्य कस्यापि मिषेण बाला विसृज्य दूरं निखिला वयस्याः।
मामुक्तवक्त्यैव (41)पुरः स्ववार्तां सख्यैकया मर्मविदा (42)समस्ताम्॥ 36 ॥
ह्रिया सदा नम्रमुखी शुकानां वनप्रियाणामपि भाषितानाम्।
कण्ठस्य माधुर्यभरेण बाला विनीततां सा ग्रथयन्त्यवादीत्॥ 37 ॥
ज्ञानप्रमत्ताखिलदुष्कृतानां भवादृशीनां प्रणवस्य (43)भूमौ।
विहाय तीर्थाचरणच्छलेन माद्यक्वति त्रिकरणं न साध्यम्॥ 38 ॥
सर्वज्ञतां योगबलाद्गतायागतेति नोदाय भवेन्म…क्तौ।
प्रवीणतां किं प्लवनं प्रकर्षो मरुत्तनूजस्य च (44)मत्प्रियायै॥ 39 ॥
सर्वं ततो भाविनि (45)जानतीनां भवादृशीनां पुरतो विभूषा।
अस्मादृशां मौनमिति प्रथा हि विभूषणं मौनमपण्डितानाम्॥ 40 ॥
तथा हि मां तामरसायताक्षी मन्दस्मितोऽयं मदनस्तनोति।
करोति वाचालतरां प्रसिद्धिः कामातुराणां न भयं न लज्जा॥ 41 ॥
वृद्धा ददत्यर्थमिमं (46)समस्तशास्त्रेषु सारं शफरीनिभाक्षी।
परोपकारस्सुकृतस्य हेतुः परस्य पीडा वृजिनस्य चेति॥ 42 ॥
उक्त्वा शतं वाप्यनृतानि कार्यः विचक्षणेनाशु विवाह एकः।
न ते न कर्ता समुपैति पापमिति प्रवादो जगति प्रसिद्धः॥ 43 ॥
ततो मदीय मदनव्यथेऽयं यथा निवर्तेत तथा यतस्व।
(47)श्रुतैव मत्प्राणवयस्ययोक्ता त्वया (48)मदुक्तिः पुनरुक्तिरेव॥ 44 ॥
वयस्यया त्वां कथितं (49)समस्तं मया भ्रमन्या श्रुतमम्बुजाक्षी।
तन्मास्तु योगस्य बलेन सर्वं त्वया (50)विदन्त्याऽविदितं किमस्ति॥ 45 ॥
(51)तद्वारका नाम (52)पुरीमुपेत्य मुरद्विषं वेदयमत्प्रवृत्तिम्।
घटेत (53)तीर्थाचरणेन धर्मः परोपकारेण (54)स्वयं मृगाक्षि!॥ 46 ॥
जनो यदि प्राप्य (55)सरोजनेत्रे! भवादृशी व्यर्तमनोरथः स्यात्।
(56)दधीचिगन्धर्वकपोतमुख्यदातृत्वमुद्रापि कथं यथार्था॥ 47 ॥
इतीरिताऽहं विनयेन दैन्यं तूलौघवह्निर्वनजायताक्ष्या।
दयार्द्रचित्तापि मनस्तदीयं ज्ञातुं तदा वाचमवोचमित्थम्॥ 48 ॥
तिष्ठन्ति भामे! निकटे सहस्रं तवाङ्ना विश्वकला प्रवीणाः।
विहायता मे परिशीलितायाः संप्रेषणं चिन्तय किन्नु युक्तम्॥ 49 ॥
अब्जाक्षि! गच्छेयमथाऽपि (57)बाले!त्वयाऽर्थिताहं नगरं मुरारेः।
(58)अथाऽपि दौवारिकसङ्कुलेऽस्य भवेत्कथं मे भवने प्रवेशः॥ 50 ॥
अपि प्रवेशो प्रभवेन प्रयत्नात् राजाधिराज (59)प्रणताङ्घ्रिपद्मः।
पद्मासहायो नलिनायताक्षी भाषेतमां किं (60)श्रितभिक्षुवेषाम्॥ 51 ॥
इत्थमिदं नरनाथतनूजा योगिनि जल्पितमेव निशम्य।
भूरिमरुच्चलिता कदली वा वेपत कार्य न सिद्धि भयेन॥ 52 ॥
अङ्कुशभूपतिसूनोः माण्डावनि नायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि प्रथिते दशमश्य निर्गतः सर्गः॥ 53 ॥
.
॥ एकादशः सर्गः ॥
दयाम्बुराशे! खलतूलबृन्दहुताश! माण्डक्षितिपालवर्य!।
महेशपुत्री वचनं श्रुणुष्व दयातरङ्गिण्युररीकृति त्वम्॥ 1 ॥
ततो विवेकेन यथा कथञ्चित् मनस्समाधाय महोत्पलाक्षी।
विमृश्य तेषामुचितोत्तराणि क्रमेण सा मद्वचसामवादीत्॥ 2 ॥
परश्शता भामिनि! मत्यमीपे वसन्ति नूनं (1)वनजायताक्ष्या।
पुरं मुकुन्दस्य नितानतदूरं द्रुतं क्षमन्ते न हि गन्तुमेताः॥ 3 ॥
वसन्तत्यसंख्या निकटे पितुर्मे मृगाक्षि! (2)जंघालततिस्तथापि।
अयं प्रतिख्याति भियामुरारेर्न मानवान्प्रेषयते समीपम्॥ 4 ॥
ममासवो माधववीक्षणस्य न तु क्षमन्ते विपुलं विलम्बम्।
त्वदाशया (3)मत्तचकोरनेत्रि! दिनं न वत्स्यन्त्यमुकं न विद्मः॥ 5 ॥
वसन्तु वा दुःखमिमे भजन्तश्चिरं पुरा संभृतकर्मबद्धाः।
तथाऽपि कार्यस्य मृगाक्षि! सिद्धिर्न निश्चिता प्रेषितयापि सख्या॥ 6 ॥
विनाशितं (4)यज्जलजाक्षि! कार्यं भवेज्जनेनानिपुणैर्वचोभिः।
न तत्प्ररोहं प्रलभेत बीजं यथा शिखिज्वालविनष्टसारम्॥ 7 ॥
निमेषमात्रेण भवेः क्षमा त्वं मुरद्विषो योगबलात्प्रयातुम्।
(5)पुरीमिदानीं मृगराजमध्ये न संशयं चार्हति कार्यसिद्धिः॥ 8 ॥
निशासु भानोरुदयं विधातुं उडुप्रकाशं च दिनेषु कर्तम्।
मरालयाने! भवती समर्था भवादृशीनां किमसाध्यमस्ति॥ 9 ॥
(6)तवोचितं मे परिशीलितायाः न चाधुना प्रेषणमित्यवोचः।
(7)जडादिवत्वं भवदीयशीलं दयातरङ्गिण्यविदा व्यनक्ति॥ 10 ॥
कथन्नु कंसारि निवेशवेशो ममेति मां वञ्चयसे (8)किमर्थम्।
मृगाक्षि! वैकुण्ठतलेप्यकुण्ठगतेस्तवामुत्र कियान्प्रवेशः॥ 11 ॥
(9)भवादृशाः योगबलेन साधु परिभ्रमन्त्या भुवनत्रयेऽपि।
न देशतो भामिनि! दिष्टतो वा सुरादि गेहेषु गतेर्निरोधः॥ 12 ॥
कथं वदेन्मां कमलासहाय इति न्यगादीः भवति प्रसन्नः।
विचिन्त्य यो (10)योगजुषं मुरारिः स्वयङ्गतां त्वास कथं न (11)विद्यान्॥ 13 ॥
अहं गता सम्प्रति भिक्षुतामित्यहो! महाज्ञामिव मामवोच।
यदि त्वमैषिष्व इमं निपात्य परं महेन्द्रं त्रिदिवे करिष्यः॥ 14 ॥
कथं परानन्दरसैकतृप्तहृदा श्रियानन्दलवोऽत्र रुच्यः॥
(12)मधूकसूनं मनुजः किमिच्छेद्विहाय पीयूषरसस्य (13)लाभो॥ 15 ॥
तदीदृशीं त्वामपि लब्धवत्याः ममापि न स्याद्यदि कार्यसिद्धिः।
निधि महान्तं निलयेऽपि (14)लब्ध्वा दरिद्रतामेव जनोऽधिगच्छेत्॥ 16 ॥
वदामि सत्यं (15)मनुजद्विजेव महासवो मत्तमरालयाने!।
असुप्रदानादपि किन्न पुण्यं मुरारिणा (16)योजय मां तु तस्मात्॥ 17 ॥
पुनर्वचो मे यदि पूर्व वृत्तं ददासि पद्माक्षि! निराशतायाः।
ततो (17)भवत्रीं ममतामवस्थां निरीक्ष्य तापं परमं भजेथाः॥ 18 ॥
इति ब्रुवन्त्याऽश्रुपरिप्लुताक्ष्या तथा ममागत्य जवेन पादौ।
कुचद्वयगौरवकम्पमाना(18)वलग्नमायादिव पस्पृशाते॥ 19 ॥
तथा विधायास्तरुणीव्यथायाः निरीक्षणेनाक्षमतामुपेत्य।
दयाब्धिमग्नं किमु दातुमेव जगाम चेष्टां न हृदुत्तरं मे॥ 20 ॥
निवार्य तां पादयुगे प्रणम्रामहं वचोभिः मयि(19)शापरूपैः।
विमृज्य नेत्रे विपुले तदीये विवक्षुरागां हृदयेऽनुतापम्॥ 21 ॥
अहो विवेको विगतो मदीयो यतोऽधुना खिद्यति मे वचोभिः।
महेशपुत्री परिपीडनाय विमुक्तसङ्गाहमपि प्रवृत्ता॥ 22 ॥
परत्र देशेऽपि किमस्ति कार्यं ममाधुना द्वारवतीं व्रजेऽयम्।
(20)परार्थमिच्छोस्सदनं ह्यदो मे यतो मुकुन्देक्षणमात्र (21)लोभः॥ 23 ॥
दयार्द्रचित्तेति तदीयकार्यं अवश्यकर्तव्यतया विचार्य।
(22)स्मराग्नितप्तं हृदयं तदीयं वचोमृतैश्शीतलयन्त्यवोचम्॥ 24 ॥
त्वदीय चित्तस्य निबोधनार्थमवोचमेवं महीपालपुत्रि!।
(23)रता हितो ते मधुसूदनस्य पुरं गमिष्यमि बिभीहि न त्वम्॥ 25 ॥
महामहीपालसुते! विधातुं तवोपकारं (24)कियती भवामि।
मया तु (25)यावद्वचनेन साध्यमहं करिष्ये जलजाक्षि! तावत्॥ 26 ॥
त्वया यतो मे रचितः प्रणामममोघमाशीर्वचनं मृगाक्षी।
मया कतं प्राप्य ततोऽविलम्बं मुकुन्दपाणिग्रहणं भजस्वा॥ 27 ॥
नरेन्द्रदुग्धाम्बुनिधिप्रसूता न संशयस्त्वं कमलालयैव।
न चेत्कथं भद्रतमोऽभिलाषो मुरारिपाणिग्रहणे जजन्यात्॥ 28 ॥
विना मुरारिं (26)जलजाक्षि! पाणौ परोग्रहेतुं भवतीं किमर्हः।
विना महेशं विशदेन्दुरेखां परो विधर्तुं मकुटे किमर्हः॥ 29 ॥
अयं निदध्याद्यदि दानवारि(27)निजोरसि त्वां कमलालया वत्।
तदा परं सार्थकतां भजेत विशालता तस्य विशालनेत्रे॥ 30 ॥
(28)उरो विशालं (29)श्रितया मुरारेरहं भवत्या च (30)जगज्जनन्या।
कदा कलिं दक्षिणसव्यभागनिवासहेतुं प्रशमं नयिष्ये॥ 31 ॥
इति स्थितो मे हृदयेऽभिलाषः तदद्य गच्छामि पुरं मुरारेः।
वचो वद त्वं वचनीयमाशुमहोत्पलाक्षस्य मनोज्ञवाणि!॥ 32 ॥
निशम्य वाक्यं मम कीरवाणी प्रहर्षसम्फुल्लतरेक्षणाब्जा।
मुकुन्दमन्दस्मितसुन्दरास्य विचार्य (31)किञ्चिन्निपुणं ह्यवोचत्॥ 33 ॥
इदं वचस्तद्धरये वदेति मृगाक्षि! सर्वज्ञ शिरोमणे! ते।
ममाद्य शिक्षा न समा भवेत्किं पितामहस्यापि न शिक्षणेन॥ 34 ॥
विचिन्त्य ते भाषणपण्डितत्वं वलक्षभावं भजते फणीन्द्रः।
निरीक्ष्य (32)सार्वज्ञगुणप्रकर्षं तथा महेशोऽपि मनोज्वरेण॥ 35 ॥
तदीय वाग्भिर्मधुरत्व काष्टा जिता हिया (33)मग्नतयैव तस्थौ।
(34)सुधासम्बुधावुद्धततामवाप्य कथञ्चिदेषा व्यथया सपाण्डुः॥ 36 ॥
त्वदीय वाग्भिर्द्विजितोपि लज्जां विहाय वाचस्पति नाम जीवः।
बिभर्ति यश्चित्र शिखण्डिजत्वादयं गुणो हेतु गुणोद्भवोऽस्य॥ 37 ॥
वचो विताने भवतीन्द्रवीणां विधिर्विनिर्माय ततः स्वजैत्रीम्।
अवेत्य पश्चादनुतापमेत्य मृगाक्षि! नूनं कमलासनोऽभूत्॥ 38 ॥
तथापि तद्यामिभयाद्भवत्या इदं वचः तन्वि निवेदयैनम्।
उपेक्षसे मां यदि पङ्कजाक्षः भजेत (35)भामानथ पातकं त्वाम्॥ 39 ॥
पुराकरीन्द्रं मकरादरक्षदिति (36)प्रथा ते भुवनत्रयेऽपि।
क्व वा गता सा करुणाम्बुजाक्ष! न रक्षसि त्वं मकरादनङ्गात्॥ 40 ॥
भवानकार्षीत्किल भानुपुत्र्या हदं निवार्योद्धतपन्नगेन्द्रम्।
विदोषमेवं न कुत (37)स्मरा हि निवार्य मे (38)हृद्विशदं न कुर्याः॥ 41 ॥
दर्पं निहत्य किल सर्व नृपालकानां त्वं भीष्मक क्षितिपतेस्तनयामहार्षीः।
तद्वन्मुकुन्द! बलिनामपि भद्रकाणां दर्पं निवार्य नय मां चरणं त्वदीयम्॥ 42 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन् सत्यापरिणयनाम्नि प्रथितेचैकादशस्सुसर्गोऽगात्॥ 43 ॥
.
॥ द्वादशः सर्गः ॥
शृणुष्व (1)माण्डक्षितिपालवर्य! दयातटिन्याश्च हरेर्वचासि।
ततः कृतं निग्रहणं वृषाणां सत्याविवाहं हरिणा मनोज्ञम्॥ 1 ॥
इदं वचोऽपि (2)प्रणिवेदयैनं पुरातने राद्यवजन्मनि त्वम्।
विरोधिनो भ्रातरमप्यरक्षस्त्वदेकभावां किमुपेक्षसे माम्॥ 2 ॥
भवानरक्षत्किल याज्ञसेनीं स्मृतो हरे! तत्क्षणमेव दीनाम्।
सदा स्मरन्तीमपि ते पदाब्जमुपेक्षसे माधव! मां किमर्थम्॥ 3 ॥
मया (3)तवाज्ञामविलङ्घ्य वाक्यमिदं (4)वदेत्यम्बुजलोचनाय।
निवेदितं भामिनि! भाषितानि त्वमेव जानासि तदोचितानि॥ 4 ॥
न मे भयं सम्प्रति (5)यत्त्वदाप्तं महत्तवाशीर्वचनं मृगाक्षि!।
न चेत्वदीयं वचनं (6)त्वमोघं कथं श्रुतिर्विश्वसनाय योग्या॥ 5 ॥
(7)अतो हि गच्छाद्य पुरं मुरारेः क्षणं विलम्ब न (8)कुरुष्वमार्गे।
सरोजपत्राक्षि! शुभस्य शीघ्रमिति प्रवादो जगति प्रसिद्धः॥ 6 ॥
इतीरिताहं नरनाथपुत्र्या व्यथामियं यास्यति (9)संशयो न।
(10)मदागमादेव विचिन्त्य हृष्टां प्रकुर्वती वाचमिमामवोचम्॥ 7 ॥
(11)न सशयो याहि फलस्य सिद्धौ गुणान् त्वदीयानुपवर्णयित्वा।
मधुद्विषोऽग्रे नगरं नयिष्ये परश्व एवैनमहं त्वदीयम्॥ 8 ॥
कथं नु लावण्यमिदं मृगाक्षि! तवासदृक्षं जगतां त्रयेऽपि।
अलं यदि श्रोष्यति दानवारिस्तदा न विन्देन्मदनेन तापम्॥ 9 ॥
मम प्रतिज्ञां श्रुणु पङ्कजाक्षि! त्वदीयभर्तारममुं करिष्ये।
न चेदमुं योगपथं विहाय परं गमिष्यामि भवस्य मार्गम्॥ 10 ॥
वचो निशम्येति (12)ममातिमात्रं तदा प्रहृष्टस्य तदाननस्य।
कथं (13)मुरारे! (14)कलयाधिगन्तुं समानतामर्हति पूर्णचन्द्रः॥ 11 ॥
ततो (15)मृगाक्ष्या विविधोपचारप्रपूजितापृच्छ्य समीपमैच्छम्।
तव प्रयातुं कथमप्यमुञ्चद्विचिन्त्य कार्यं तरुणी सहार्द्रा॥ 12 ॥
(16)नभोऽथ यानेन मया व्रजन्त्या भवत्समीपं कलशाब्धिशायिन्!।
बहूनि मध्ये शकुनान्यवेक्ष्य करस्थिताऽमन्यत कार्यसिद्धिः॥ 13 ॥
इदं परं सूचकतामुपैति फलस्य (17)सिद्धेरुरगेन्द्रशायिन्!।
द्रुतं मया कार्य निवेदनस्य तवैष लब्धोऽवसरो महान् यत्॥ 14 ॥
प्रतिशृतं स्याद्यदि यन्मयोक्तं भवत्पदद्वन्द्वनिषेविकायाः।
भवेत प्रतिज्ञा सफलीकृता मे परोऽपि लाभो वनिता मणेस्तु॥ 15 ॥
तवापि लावण्यमिदं विनैतां न राजते कोसलराजपुत्रीं।
ह्रदस्य किं निर्मलकान्तिपूरो विराजते पुष्करिणीं विनापि॥ 16 ॥
विना त्वया (18)तामरसाक्ष! सापि न राजते कोसलराजपुत्री।
विना मृगाङ्कं विशदापि बाढं विराजते किं शरदि त्रियामा॥ 17 ॥
तवानया सङ्गतिरुत्सवस्य गमिष्यति प्रेक्षकवीक्षणानाम्।
निदानतां वार्षिकनीरदस्य तटित्प्रभा (19)रेखिकयेव योगः॥ 18 ॥
व्रजेयमन्योन्य समागमोत्थं निरीक्ष्य युष्माकमदं प्रहर्षम्।
परं प्रमोदं प्रमदो मदीयो यतो हि मादृग्विजिताक्ष! हर्षः॥ 19 ॥
तदीय विज्ञापनमाकलप्य पुरं वरं नग्नजितोऽद्य याहि।
(20)वृषालिबन्धात्मपणोद्ववहस्य क्षणं विलम्बं क्षमते न बाला॥ 20 ॥
उदीर्य वाचं (21)वनितेति भूमौ प्रणम्य साष्टाङ्गमयं प्रणामः।
(22)किमर्थमुद्दिष्टमुरारिणापि समीरिता साध्वपि नोदतिष्ठत्॥ 21 ॥
व्रजेयमद्यैव चकोरनेत्रे! पुरीमहं क्षोणिपतेरिति त्वम्।
ब्रवीषि चेदुद्धतिमद्यकुर्यामुदीर्य सिद्धिं प्रणतैव तस्थौ॥ 22 ॥
ततोऽसदृक्षे (23)भुवनत्रयेऽपि निरीक्ष्य (24)लावण्यमिदं तदीयम्।
विरागयोगं विषये व्रजे च विचिन्त्य चक्रे मनसा विमर्शम्॥ 23 ॥
अहो विधाता परमो जनानां यदीदृशीं मत्तचकोरनेत्राम्।
परं विनिर्माय कथञ्चिदस्याः न (25)निर्ममे चारुतरं पतिं सः॥ 24 ॥
चरत्यलं मां (26)प्रतियुण्यशीलो यथार्थ नामाद्य तपो यदुग्रम्।
समानसीलागृहिणीं परीप्सुः स एव योग्यः परिणेतुमेनाम्॥ 25 ॥
(27)इयं च लावण्यवती तपस्वी कुमारकोऽयं मदनेन योग्यः।
तदेनयोस्सम्मत एव योगो यथा भविष्यन्मम राजपुत्र्या॥ 26 ॥
(28)वृतेन यो साधु (29)विवाहकृत्यै लभेत रूपं सफलत्वमस्याः।
तपस्वि पुत्राय वरप्रदानमपि प्रसिद्धेत् (30)मदवस्य कृत्यम्॥ 27 ॥
विचिन्त्य शौरिर्मनयीत्थमेनां जगाद भूयो प्रणतां मृगाक्षीम्।
मदुक्तमूरीकुरुषे यदि त्वं त्वदुक्तमूरीकरवाणि चाहम्॥ 28 ॥
(31)अथोत्थिता मत्तमरालयाना स्ववाक्यमङ्गीकृतमाशु बुध्वा।
प्रहर्षफुल्लाननवारिजाता मुरारिमात्माशयमद्यवोचत्॥ 29 ॥
विरिञ्चि मुख्यामरमण्डलेन (32)भवन्निदेशो न विलङ्घनीयः।
रमामनोवल्लभमादृशीनां न लंघ इत्यत्र किमस्ति शङ्का॥ 30 ॥
मयाधुना यत्करणीयमस्ति द्रुतं तदाज्ञापय दानवारे!।
करोमि राज्ञः पु भेदनं त्वं सबान्धवो नग्नजितोऽद्य याहि॥ 31 ॥
(33)भवन्निदेशस्य कृतिं किमर्थं मुकुन्द! सोपाधितया ब्रवीषि॥
न चेदयं किं (34)भवतो निदेशो मयादरान्न क्रियतेदाराद्वा॥ 32 ॥
स्वकीयमाकूपमथाऽविदित्वा तदुक्तवत्याः वचनं निशम्य।
(35)दरस्मितां तद्वदनारविन्दो जगाद वाक्यं जगदेकनाथः॥ 33 ॥
भवादृशां सत्यपरावणानां मुखाद्यदा पद्मपलाशनेत्री।
विनिस्सरेजल्पितमत्र कार्ये न (36)संशयस्तद्धितदैवजातम्॥ 34 ॥
चरत्यलं मां प्रति पुण्यशीलस्तपो बदर्याश्रमनाम्नि पुण्ये।
वनेऽधुना साधु गृहिण्यपेक्षी वृणीष्व तं दस्रजयन्ततुल्यम्॥ 35 ॥
समानरूपो मदनेन सोऽपि सदृक्षरूपा भवती च रत्या।
(37)अनूनशीलस्समुनिर्वशिष्ठादरुन्धतीतुल्यगुणोज्वल त्वम्॥ 36 ॥
ततोऽनुरूपस्य तवाशु तस्य गृहाण पाणि तरलायताक्षी।
विधि समुत्तारय तुल्यरूप(38)वराविधनोत्थजनापवादात्॥ 37 ॥
अपुत्रतायां सपरोऽपि लोके मृगाक्षि! सम्पादय सन्ततिं तत्।
विशिष्य सन्तान विहीनतेऽयं विगर्हिता नीरजलोचनानाम्॥ 38 ॥
निशम्य वाक्यं यदुपुङ्गवस्य गतेव भामाक्षरदाङ्गमध्यम्।
अवाप्य (39)खेदं सुचिरं विचार्य मनस्त्ववष्टभ्य जगाद धैर्यम्॥ 39 ॥
वदन्ति सर्वे नलिनोदर! त्वां भवाख्यपाथो निधिकर्णधारम्।
किमर्थमद्यैवममुत्र वाधौ करोषि मामज्जयितुं (40)प्रयत्नम्॥ 40 ॥
निरीक्षणं ते भवतीतरेषां जगज्जनानां (41)भवशोकहत्यै।
ममाधुना तस्य विपर्ययाय वदानि किं त्वा मम भाग्यमेतत्॥ 41 ॥
निशम्य तद्वाक्यमुवाच शौरिः वचोव्रजो मे हृदयं तव स्थिरम्।
सुलोचने! मेरुगिरं भवेत्किं प्रभञ्जनश्चालयितुं समर्थः॥ 42 ॥
महीशपुत्र्यां तव नाग्नजित्यां हृदि स्थितां वत्सलतां विवित्सुः।
तथाऽवदं सिद्धयति ते यदिच्छा सत्प्रार्थनां को हि तिरस्करोति?॥ 43 ॥
मा चिन्तय त्वं सबलो गमिष्यासम्यद्यैव तत्कोसलराजधानीम्।
महोद्धतान् सप्तवृषानवश्यं निगृह्य सत्यामहमुद्वहामि॥ 44 ॥
सा योगिनी तद्वचन सुधाभं प्रहृष्टचित्ता प्रययौ निशम्य।
ततः पुरीं नाग्नजितः ससैन्यः मुरान्तकोऽगात खलदैत्यहन्ता॥ 45 ॥
विज्ञाय तस्यागमनं सहर्षः स नग्नजित् कोसलभूमिपालः।
यथाविधि स्वागतमर्पयित्वा संतोषयामास हरिं विनीतः॥ 46 ॥
स्वतीक्ष्णश्रुङ्गाहतवीरगन्धव्रजस्य दुर्धर्षमदोद्धतस्य।
खलस्य तद्गोवृषसप्तकस्य जयः पणो नाग्नजिती विवाहे॥ 47 ॥
इत्यब्जनेत्रः परिचिन्त्य राज्ञाऽनुज्ञात उक्षोद्धतिनिग्रहाय।
समाययौ युद्धधरां विशालां लीलानराकाधरो मुरारिः॥ 48 ॥
शितैर्विशाणैरतिभीकरान् तान् खुराहतक्षोणितलान् रुषाक्षान्।
दपोद्धतान् सप्तवृषान् समीक्ष्य प्रधावतः स्वाभिमुखं मुकुन्दः॥ 49 ॥
लीलां वितन्वन् परिधाय सप्त रूपाणि कृत्वा निहतावलेपान्।
बद्धवा च तान् दामभिराचकर्ष बालो यथा दारुविनिर्मितान् सः॥ 50 ॥
ततः प्रहृष्टः प्रशशंस राजा खलान्तकं वीरशिरोमणिं तम्।
यथा पणं नाग्नजिती तनूजां प्रदातुमुद्युक्त उवाच तस्मै॥ 51 ॥
मदात्मजेयं कमलासमाना सत्याभिधाना हरिरेव देव!।
भवानतो वा मनुबन्ध एषः भवेन्मणीकाञ्चनयोगरम्यः॥ 52 ॥
सीतेव रामं गिरिजेव शम्भुं ज्योत्स्नेव चन्द्रं द्युनदीव वार्धिम्।
मया प्रदत्ता भगवन! मुरारे! भवन्तमेषा भजतु प्रकामम्॥ 53 ॥
मन्दस्मितेनाङ्ग्यकरोन्महीभृत्संप्रार्थनां संश्रितकल्पभूजः।
हरिस्तदा नाग्नजिती ननाम तां योगिनीं चेतसि संस्मरन्ती॥ 54 ॥
देवर्षिमुख्याः कुसुमान्यवर्षन् सुराङ्नाश्चक्रुरमन्दनृत्यम्।
नृपाः प्रजाः प्रापुरन्तमादं सत्यामुरार्युद्वहने मनोज्ञे॥ 55 ॥
सत्यामुरारिपरिणयवैभवसंदर्शनेन धन्यम्मन्या।
आत्मानमुवाचेदं योगिन्यन्योपकारनिरता वाक्यम्॥ 56 ॥
धर्मे रता खलु धीः सततं प्रजानां दुष्टैकशिक्षणविधिः स्तुतिमेतु राज्ञाम्।
सस्यान्विताऽस्तु धरणीह विभातु शान्तिः सत्याहरी च दिशतां जगते शुभानि॥ 57 ॥
अङ्कुशभूपतिसूनोः माण्डावनिनायकस्य काव्येऽस्मिन्।
सत्यापरिणयनाम्नि द्वादशसगो रसोज्जवलो जातः॥ 58 ॥
॥ **मङ्गलं महतः** ॥
]