[[राधाविनोदः Source: EB]]
[
श्रीः
रामचन्द्रकविविरचितः
राधाविनोदः
प्रकाशव्याख्योपेतः
मालीनो
बलमाली
मालीनो
घनमाली॥
मालीनो
वनमाली
मालीनोऽवतु
माली॥
1
॥
कुशेशयदलाकारशयशायिनि
मौक्तिके॥
मुहुर्मुहुरुदासीनामासीनामाश्रये
श्रियम्
॥
1
॥
राधाविनोदकाव्यस्य
प्रकाशः
परितन्यते॥
सुधिया
रामचन्द्रेण
भास्वतेव
सरोरुहाम्॥
2
॥
प्रारीप्सितस्य
निष्प्रत्यूहसमाप्तिकामनया
कृतस्वेष्टदेवताकीर्तनात्मकं
मङ्गलं
शिष्यशिक्षायै
निबध्नन्काव्यलक्षणे
श्रुतामाशिषं
प्रतिजानीते॥
'
आशीर्नमस्क्रिये
'
ति
स्मरणात्
॥
ननु
सर्गबन्धो
महाकाव्यमित्याद्यधिकृत्याशीर्नमस्क्रियेत्याद्युक्तमिति
कथमस्याः
काव्यलक्षणत्वमिति
चेन्न॥
एतदेवाधिकृत्य
'
न्यूनमप्यत्रयैः
कैश्चिदङ्गैः
काव्यं
न
दुष्यती
'
त्युक्तेः।
किञ्च
सर्गबन्धो
महाकाव्यमित्यनेन
सर्गं
विना
कृतस्य
काव्यत्वं
अक्षकतमेव
विशेषणेन
विना
कृतस्य
सामान्यत्वात्
॥
वस्तुतः
काव्यमन्यदेव
यत्र
रसादिचिन्तेति
वस्तृतमन्यत्र॥
मालीन
इति॥
माली
वनमाली
हरिर्नोस्मान्
ग्रन्थकर्तॄन्
श्रोतॄंश्च
अवत्वित्यन्वयः॥
किंविधः।
वनमाली।
मेघश्यामइत्यर्थः।
तथा
बलमाली
बलेन
रामेण
मालत
इति
सः।
यद्वा
सामर्थ्यवान्
।
ननु
शक्त्याविना
कृतस्य
नास्य
रक्षणक्षमत्वमित्यतआह।
मालीन
इति।
यद्वा
नन्वस्य
काव्यस्य
शृङ्गारित्वात्तादृश
एव
हरिः
कीर्तनीय
इत्यत
आह
मालीन
इति।
मायां
श्रियां
लीनो
रसेन
तन्मय
इत्यर्थः
मा
आलीना
यत्रति
वार्थः।
मे
शिवे
आअत्यन्तं
लीन
इति
वा।
'
मः
शिवे
मा
रमायां
चे
'
ति
विश्वः
तथा
मालीनः
मे
शिवे
आलीनस्तदभिन्न
इत्यर्थः
एतेनानयोर्भेद
इति
प्रत्युक्तम्
।
यद्वा।
मोब्रह्यैवालिर्भृङ्गस्तस्येनः
प्रभुः
ब्रह्मणो
भृङ्गत्वं
कमलानुषङ्गित्वात्तत्सङ्गित्वे
सति
मुखरत्वाद्वोपचर्यते॥
तथा
च
नाभिकमलनिलीनचतुरानन
इत्यर्थः।
यद्वा
मारः
कामः
सोस्त्येषां
ते
मारिणः
तेप्विनः
श्रेष्ठः
रलयोरभेदात्।
कृष्णावतारस्य
तदर्थमुपक्रमात्
।
'
मः
शिवश्चन्द्रमा
वेधा
'
इत्येकाक्षरः।
तथा
मालीनः
मालन्ते
ते
मालिनो
देवाः
सत्पुरुषा
वा
तेषामिनः
प्रभुः
'
इनः
स्वामिनि
सूर्ये
चे
'
त्यमरः॥
वनमाली
पुष्पदामवान्
'
माला
पुष्पादिदामनी
'
ति
विश्वः।
अतएव
मालीशो
भवान्
इत्यर्थः।
यद्वा
अवनमालीति
पदच्छेदः
अवनेन
जगद्रक्षणेन
मालते
शोभतेसौतथाविधः।
अथ
वा
दशावतारधरं
हर्रि
प्रत्येकं
कीर्तयति
वनमाली
वने
जले
मालत
इति
मत्स्यः
कूर्मश्च
पायात्
।
किंविधः
घनेति
घनं
निबिडं
मालत
इति
सः।
तथा
बलमाली
शंखासुरोन्मूलनकरेण
बलेन
भासमानः।
अन्यत्समं
सर्वत्र।
एवं
वनमाली
कूर्मरूपी
हरिर्नोव्यात्
बलमालीसकलभूमप्डलभरमरणानिष्पन्दफणामण्डलानन्तोद्वहनकारणेन
बलेन
शोभमानः।
एवं
वने
कानने
मालते
स
वराहो
रक्षतु।
कीदृक्
घनमाली
घनेन
सदृशस्तद्वत्
श्यामो
वेत्यर्थः।
तथा
बलमाली
सागरनिमग्नमहीमण्डलोद्धरणकारणेन
बलेन
मालत
इति॥
मालीनो
वनमाली
लक्ष्मीनृसिंहः
नः
पायात्
।
कीदृक्
।
बलमाली
हिरण्यकशिपुसमुन्मूलनकारणेन
बलेन
मालत
इति।
एवं
अघनमाली
घनशब्दो
घनत्वपरः
तथा
च
अघनत्वेन
ह्रस्वत्वेन
मालते
स
वामनो
नः
पायात्
।
अघनो
ह्रस्वो
माली
शोभमान
इति
विशेषणसमास
इति
वा।
कीदृक्
।
बलमाली
बलिच्छलनानुकूलेन
बलेन
मालत
इति।
एवं
च
माली
सकलशत्रोन्मूलनकारणेन
बलेन
मालते
स
परशुरामोऽव्यात्
।
तथा।
बलमाली
पौलस्त्योच्छेदकारणेन
बलेन
मालते
स
रामचन्द्रो
नः
पायात्
।
तथा
वनमाली
वने
विचरमाणः।
एवं
बलेन
कालिन्दीकर्षणकारणेन
मालते
स
बलभद्रः
पायात्
।
तथा
अवनमाली
अवनेन
सर्वप्राण्यहिंसया
मालते
स
बौद्धो
रक्षतु।
एवं
बलेन
म्लेच्छोन्मूलनकारणेन
मालते
स
कल्की
नः
अवतु।
एवं
दशावतारधरो
हरिर्नः
पातु।
तदुक्तं
'
वनजौ
वनजौ
खर्वस्त्रिरामा
सकृपोकृपः।
अवतारादशैवेते
कृष्णस्तु
भगवान्स्वयम्
'
॥
संमोहनकाममन्त्रोद्धापक्षे
तु
संमोहनकाममन्त्रमयस्वरूपो
वनमाली
नो
अवतु
मन्त्रमयस्वरूपत्वं
विशिनष्टि
किंविधः।
मा
शक्तिः
सा
मान्यते
न
(
?)
स्वरास्तेषु
आलीनाः
ककारादयः
तद्गतत्वेनैवोच्चारसहत्वात्तेन
प्रथमातिक्रमोन
कारणाभावादिति
न्यायेन
ककार
एव
तथा
च
तत्स्वरूपः।
तथा
घनमाली
इन्द्रस्तेन
कारामकः
तथा
मालीनः
मायां
ईकारे
लीनः
तता
मालीनः।
मे
चन्द्रे
विलीनः
मश्चन्द्र
आलीनो
यत्रेति
बहुव्रीहिरगन्याहितवत्साधुरिति
सर्वत्रायमेव
सकेत
इति
केचित्
।
एवं
च
कामबीजमुद्धृत्तं
भवतीति।
तदुक्तं
शारदातिलके
'
ब्रह्मभूम्यसमासीनः
शान्तिबिन्दुविभूषितः।
बीजं
मनोशिवः
प्रोक्तजगत्र्रितयमोहनं
'
इति।
ननु
मालीन
इत्यत्र
मशब्दस्य
भिन्नार्थत्वेपि
आलीनपदसमानार्थत्वमेव।
अथ
मशब्दस्य
तथात्वेपि
मालीन
इत्यस्य
भिन्नार्थत्वमेवेति
चेन्नाअतुल।
कालोत्रेति
ब्रूमः।
किं
त्वनुप्रासालङ्कारार्थत्वे
सति
अनुपूर्विविशेषविशिष्टनिपतव्यञ्जनसमुदायस्य
यमकव्यवहारजनकत्वादिति
चेत्
उच्य
विधुसुहृद्विरहानलपीडिता
विधुसुहृत्तरलानलपीडिता॥
विधुसुहृद्वदनाऽऽलिमपीडिता
विधुसुहृत्सुगिरोऽकिरदीडिता॥
2
॥
उदयते
दयते
दयते
शशी
सखि
करैरकरैस्तिमिराकरैः॥
दिशमिमां
चर
मां
च
रमारमं
कमलकोमललोलविलोचनम्
॥
3
॥
ते।
नहि
यमकालङ्कारोत्रेति
ब्रूमः।
किं
त्वनुप्रासालङ्कारः।
वर्णसाम्यस्यानुप्रासत्वात्
।
मदलेखाख्यं
वृत्तम्
।
इतिदिक्
॥
1
॥
काव्यार्थमाह।
विध्विति।
विधोश्चन्द्रस्य
सुहृत्सरूपं
वदनं
यस्याः
तथा
राधा
आलिं
सखीं
प्रति
विधोश्चन्द्रस्य
सुहृदः
तद्वदुज्जवलाः
शीतला
चासौ
शोभमानाः
गिरो
वाणीः
अकिरत्
विस्तारयति
स्म।
विधोः
श्रीवत्सलाञ्छनस्य
सुहृत्मित्रं
राधा
सुगिरोऽकिरदिति
वा।
कीदृशी
ईडिता
स्तुता।
पुनः
कीदृशी
अपीडिता
न
विद्यते
पीडिता
यस्याः
सकाशादित्यपीडिता
अतिपीडितेत्यर्थः।
उत्तमे
अनुत्तमं
च
स्यादितिवत्
।
यद्वा
एन
विष्णुना
स्वविरहद्वारा
पीडिता।
पुनः
कीदृशी
विवुरिव
यः
सुहृन्निर्मलहृदयो
नायकः
श्रीकृष्णस्तद्विरहानलेन
वियोगाग्निना
पीडिता
यद्वा।
विधूरेव
विष्णुरेव
यः
सुहृत्तद्विरहानलेन
पीडिता
'
पिधुः
श्रीवत्सलाञ्छन
'
इत्यमरः।
यद्वा।
विधुसुहृदः
कन्दर्पस्य
सम्बन्धी
योनलस्तेन
पीडिता।
पुनः
कीदृशी
विधुश्चन्द्रः
स
सहायो
यस्य
तादृशः
तेन
तरलेन
चञ्चलेनानलेन
पीडिता।
'
तरलं
चञ्चले
भृङ्गे
हारमध्यमणावपी
'
ति
विश्वः।
सुहृदा
कामेत
तरलेति
पृथक्पदं
वा॥
2
॥
किमुवाचेत्याह।
उदयतइति।
हेसखि
शशिः
चन्द्रः
कुमुदबन्धुरबन्धुरबन्धुरः
न
तनुते
तनुते
तनुते
ततः॥
हिमकरो
हिमतां
हि
मतां
नतां
किममुमां
सदृशं
सदृशं
विधोः॥
4
॥
हस्तनिर्देश्यां
दिशं
प्रति
उदयते
उदितो
भवति।
रमायां
लक्ष्म्यां
रमते
इति
रमारमस्तं
दयतेऽनुकम्पयते
यतः
स
रमारमः
नित्यं
सन्निहितलक्ष्मीकः
अतस्तं
दयते
न
व्यथयते।
येन
मद्विरहेपि
चन्द्रोदयेपि
सः
मत्तंनिधौ
नायातीतिभावः।
कीदृशं
रमारमं
कमलवत्कोमलेलोलविलोचने
यस्य
तत्तथा
तं।
मां
च
करैर
दयते
अकारः
पृथक्
निषेधार्थः
'
अ
मा
नो
ना
प्रतिषेधे
,
मां
न
दयते
येन
अतिपीडयति
यद्वा
मां
च
दयते
हिनस्ति।
'
दये
दानगतिरक्षणहिंसादानेषु।
भौवादिकः।
कीदृशैः
करैः
अकरैः
अकस्य
दुःखस्य
रैः
पावकैः
'
अकं
पापे
च
दुःखे
चे
'
त
विश्वः
'
रः
पावके
च
तीक्ष्णे
चेति
'
विश्वः।
दुःखजनकत्वेन
दाहजनकैरित्यर्थः।
पुनः
कीदृशैः
तिमिरस्यान्धकारस्य
अकरैः
अकारकैः
तन्नाशकत्वादिति
भावः
तिमिरं
आसमन्तात्कृण्वन्ति
हिसन्ति
ते
तथातैरिति
वा।
'
कृञ्
हिसाया
'
पचाद्यच
त्वं
चर
गच्छ
त्वत्सन्निधिमपि
न
सहामीतिभावः।
यद्वा
अदयते
अदयते
इति
क्षोभेण
वीपसा
त्वं
रमारमं
लक्ष्मीरणणं
प्रति
चर
गच्छ
तदानयनायेत्यर्थः।
कीदृशं
रमारमं
कमलेत्यादि॥
3
॥
कुमुदेति।
कखि
हिमकरः
प्रसिद्धः
शीतलकिरणः
हीतिनिश्चयेन
तां
मतां
प्रियसान्निध्ये
अभिमतां
हिमतां
शीतलतां
मामुद्दिश्य
न
तनुते।
तस्मात्कारणात्तनुते
शरीरकार्श्यं
मनोदौर्बल्यं
चेति
द्वे
कृशते
तनुते
विस्तारयति।
यद्वा।
हिमकरः
न
तां
नम्रीभूतां
मतां
मम्रत्वेन
ज्ञातां
मम
त्वहिमतां
उच्चत्वं
तनुते।
कमलिनीमलनीमलिनालिना
विचलता
चलता
च
लतासु
भाम्
॥
विधुतभां
विधुतां
विभानुभि
-
र्नयनयोरनयोर्नयसीनयोः॥
5
॥
तत्किंविधो
विधोश्चन्द्रस्य
सदृशं
उचितं।
कीदृशः
अतनुतां
महत्वं
इतः
प्राप्तः
अतनुतेतः
नुता
चासौ
ईश्च
लक्ष्मीश्च
नुतः
तया
ततः
व्याप्तः
नुते
ततः
अतनुते
'
तश्चासौ
नुतेतश्च
स
तथाअतिमहांस्तुत्यलक्ष्मीव्याप्तश्चेत्यर्थः।
'
ईकारोब्जदले
लक्ष्म्यां
वाण्यां
कमलकेसर
'
इत्येकाक्षरः।
कीदृशः
कुमुदानां
बन्धुः
अबन्धुः
शत्रुः
अर्थादस्मादीनां
अत
एव
अबन्धुरः
असुन्दरः
न
विद्यते
बन्धुरः
सुन्दरो
यस्मादित्यसुन्दर
इति
वा।
यद्वा
कुमुदानां
बन्धुरः
सुन्दरो
बन्धुः
'
बन्धूरो
बन्धूरो
रम्ये
'
इति
विश्वः।
अपां
जलानां
अमृतरूपाणां
अन्धुः
कूपः
'
पुंस्येवान्धुः
प्रहिःकूप
'
इत्यमरः।
तं
रातीति
भावप्रधाननिर्देशेन
तत्त्वं
राति
प्राप्नोतीत्यर्थः।
इदं
विधोश्चन्द्रस्य
किं
सदृशं
उचितं।
यद्वा
किंसदृशं
मा
सदृशं
प्रियसमागमे
तद्बिरहे
च
तुल्यरूपा
दृक्
यस्यास्तां
तथा
यद्वा
दर्शन
ज्ञानेन
सहिता
सदृक्
तांतथा
'
दृक्
ज्ञाने
ज्ञातरि
त्रिष्वि
'
त्यमरः।
यद्वा
ततो
विस्तृतः
यद्वा
तत्
किं
विधोः
सदृशं
यद्वा
रलयोरभेदादबन्धुलः
'
न
विद्यते
बन्धुलो
यस्मादित्यबन्धुलः
उक्तं
च
नृच्छकटिके
'
परगृहललितापरान्नपुष्टा
परपुरुषैर्जनिता
पराङ्गनासु।
परधननिरता
गुणेष्ववाच्या
करिकलभाइव
बन्धुलाविलासाः
'
॥
4
॥
कमलिनीति।
हेसखे
त्वं
इनयोःश्रेष्ठयोरनयोर्नयनयोःकमलिनीं
नयसि
प्रापयसि।
काक्वा
न
नयसि
वेति
प्रश्नः।
कीदृशी
लतासु
विचलता
विशेषेणतस्ततो
भ्रमता
चञ्चलेनालिना
भ्रमरेण
सखि
विभाति
विभातिविभाविनी
न
सरसी
सरसासरसारसैः॥
अतिकुलैर्विधुता
विधुताधुता
-
विनमदिन्दुमुखी
विमुखी
स्थिता॥
6
॥
मलिनीमतः
कृप्णत्वं
यस्यास्तादृशी।
पाठान्तरे
मलिनश्चासौ
अलिश्च
मलिनालिः
तेन
मलिनां।
पुनः
कीदृशीं
लतावत्सुष्ठुशोभना
भा
दीप्तिर्यस्याः
तादृशीं।
पुनः
कीदृशीं
विधुतां
चन्द्रकरत्पर्शेनाचेतनापि
कमलिनी
मालिन्यं
आश्रयते
किं
पुनर्मम
सचेतनाया
हरिवियोगे
मालिन्यसन्तापादीनि
इतिव्यङ्ग्यं
तथा
च।
तथा
त्वया
यतनीयं
यथा
झटिति
हरिरायातीति
भावः॥
5
॥
सखीति।
हे
सखि
सरसी
न
विभाति
न
शोभते।
यद्वा।
विभाति
न
इति
विभाति
प्रतिभासते।
कीदृशी
विगतो
भावो
यस्याः
सा
विभाविनी
विद्यमानह
(
रि
)
रहितेत्यर्थः।
तादृशी
भावना
यत्याः
सा
विगतकान्तिरित्यर्थः।
सरसी
न
भाति।
कीदृशी
वीनां
पक्षिणां
भाभिरतिविभाविनी
अतिविभाव्यमाना
भादीप्तिर्यस्यां
सा
तथा।
पुनः
कीदृशी
रसैः
जलैः
सरसा
परिपूर्णा
पुनः
कीदृशी
अलिकुलैर्विधुता
केचित्तु
सरसं
सहर्षं
आसरन्ति
ते
सरसासरास्तादृशा
ये
सारसास्तैः
सहालिकुलैर्विधुतेति
व्याचक्षते।
पुनः
कीदृशी
विधुताविधुता
विशेषेण
विधुतानि
तथा
आ
इषद्धुतानि
विधुतानि
तादृशानि
आसमन्ताद्विनमन्त्यवजानि
कमलान्येव
मुखानि
यस्याः
सा
तत्र
रूपकं
विमुखीस्थिता
पराङ्मुखी
नायिकेत्यर्थः।
विधुनाधुतेति
पाठान्तरे
चन्द्रेण
भर्त्सिता
विगतश्रीकृतेत्यर्थः
'
धुतं
भर्त्सितं
कम्पितमि
'
ति
विश्वः॥
6
॥
कुमुदिनीदयितो
दयितोनित।
निजकरैरकरैर्दहति
स्फुटम्
॥
यदयमेकपदे
विपदेऽभव
-
द्विकचपुष्करिणीहरिणीदृशाम्
॥
7
॥
विधुरिताधुरिता
वनिता
दहन्विविधुरयं
जनितो
जनितोङ्कभृत्
इह
मदक्षिगतेक्षिगतेब्जिनीरविमतिर्विमतर्निमिमीलिता॥
8
॥
कुमुदिनीदयितेति।
अयं
कुमुदिनीदयितश्चन्द्रः
दयितोनि
ताः
दयितेन
भर्त्रा
ऊनिताः
विरहिताः
करैः
किरणैः
स्फुटं
दहति।
कीदृशैः
अकरैः
करो
राजग्राह्यभागस्तद्रहितैः
अवद्यैरित्यर्थः।
अकं
दुःखं
राति
आददते
तथा
दुःखदैरित्यर्थ
हति
वा।
यद्यस्मात्कारणात्
अयं
विकचानि
विकसतानि
पुष्कराणि
कमलानि
यासु
ताः
विकचपुप्करिण्यः
कमलयुक्ताः
सरसाश्च
हरिणीदृशश्च
ता
एव
वा
हरिणीसदृशास्तासां
विपदे
दुःखाय
एकपदे
युगपदभिभवति
स्फुटं
सर्वप्रसिद्धमिति
वा।
सूर्यस्य
द्वीपान्तरनगमने
सरसीनां
विरहिणीत्वेन
तन्मुखतुल्यानां
कमलानां
म्लानता
ता
सांवियज्जमकत्वं
(
?)
चन्द्रस्येति
भावः॥
7
॥
विध्विति।
विधुरितानां
विरहिणीनां
धुरं
इता
प्राप्ताः
विधुरिताधुरिताः
तादृशीः
वनिता
दहन्सन्तापयन्
अयं
विधुः
जनितः
जन्मतः
प्रभृति
'
जनिरुत्पत्तिरुद्भव
'
इत्यमरः।
अङ्कभृत्कलङ्की
जनितः
इहास्मिश्चन्द्रे
मदक्षिगते
मम
द्वेष्योजातः।
'
भवेदक्षिमतो
द्वेप्य
'
इत्यमरः।
अक्षिगते
नयनविषये
सति
अब्जिनी
रविमतिः
हिमकरोरप्यस्मिन्नुष्णीकरइतिबुद्धिमती।
अतएव
विमतिः
विरुद्धबुद्धिमती
सा
कमलिनी
निमिमीलिता
मीलितवती।
अयं
भावः
यश्चन्द्रालोके
कमलिमी
कमलसङ्कोचमाचरति
तत्सम्तापकत्वेनातस्मिन्विबुद्ध्या
सन्तोषेणाक्षिसङ्कोचं
विदधाति॥
8
॥
मलयपन्नगपन्नगमण्डलीकवलिती
वलितीनु
वनानिलः॥
हृदयमङ्ग
मदङ्गमदङ्गकं
दयति
यच्छ्रमयन्भ्रमयन्नयम्
॥
9
॥
अयि
रसालवनीनवनीरनी
-
रनवनीनवनीपवनीमतम्
॥
अलिकुलालिकुलालिकुलाकुला
प्रति
हिमामहिमामहिमाहिमा॥
10
॥
मलयेति।
मलयस्य
मलयाद्रेः
यदि
श्रत्यन्तपर्वते
ये
नगा
वृक्षाश्चन्दना
इति
यावत्
तेषु
ये
पन्नगाः
सर्पाः
तेषां
मप्डल्या
समूहेन
कवलितो
भक्षितः
सन्नयं
वनानिलः
वनसम्बन्धी
वायुः
नु
इति
वितर्के
वलितः।
कलतीवलतिकामद्यनु
आपतित
इत्यर्थः।
यद्यस्मात्कारणात्
अदयं
निर्दयं
यथा
स्यादेवं
अङ्गानि
मथ्नातात्यङ्गमत्
मन्मथः
सोङ्गेषु
हस्तपादाद्यवयवेषु
यस्य
तादृशं
मदङ्गकं
भ्रामयन्
सन्
अयंदयति
सन्तापयति।
यद्वा
अङ्गे
तिसम्बुद्धौ
अङ्गानि
मथ्नातीत्यङ्गमत्
अङ्गमथनक्रर्ता
वायुः
मदङ्गकं
दहति
सर्पकवलनं
विनाऽनुष्णाशीतस्यास्य
वायोः
कुतः
सन्तापकत्वमितिभावः।
श्रमं
श्रमणं
यातीति
श्रमयन्नपि
केचित्
॥
9
॥
अयीति।
अयि
सखि
हीति
निश्चयेन
रसालानां
आम्राणां
वनीनां
प्रत्यहिता
शत्रुभूता
दुःखदायिनीत्यर्थः।
अहिमेतिपाठे
हिमा
शीतला
अतापदायिनीत्यर्थः।
कीदृशीं
नीरं
नयति
प्रतिवृक्षं
प्रापपयति
सा
नीरनीः
न
नवा
नीरनीर्यस्यां
सा
नवनीरनीः
नवनीरनी
सा
रनीमतीत्यर्थः।
पुनः
कीदृशी
नवानां
नीपानां
कदम्बानां
वन्यां
मतिं
सद्बृद्धिं
अनवनी
अरक्षमाणा
तिरस्कारिणीत्यर्थः।
पुनः
कीदृशी
अलिकुलानां
भ्रमसमूहानां
आलिकुलानां
समूहानां
च
यानि
आलिकुलानि
सखिसमूहास्तैवा
(
कुलाव्या
)
बकुलमाकुल
मालि
परागतं
मधु
परागपरागपरालिभिः॥
विशदशारदशारदशारदः
शशकलङ्ककलङ्ककलंकितम्
॥
19
॥
प्ता
पुनः
कीदृसी।
महिम्नातमाहात्म्येन
हिता
कृता
धारामाहात्न्यवतीत्यर्थः।
पाठान्तरे।
महिम्रा
महत्त्वेन
वृक्षबाहुल्येन
आसमन्ताद्धिमा
शीतला
हिमाहिमा
अन्ये
तु
रसालवनीनां
विरहोताम्यमानींप्रति
रनी
रं
वावकं
नयति
प्रापयति
सा
रनीः
सन्तापयित्रीत्यर्थः।
कीदृशी
नवनीः
नवं
भावप्रधाननिर्देशेन
नूतनत्वं
नयति
सात्तयोक्ता
नूतनेत्यर्थः।
कीदृशी
अनवनी
अरक्षमाणा
मामितिशेषः।
पुनः
कीदृशी
नवनीपवनी
नवानां
नीपानां
या
वनी
तद्वती
तद्युकाता
ष्टुनः
कीदृशी
अलकुलालिकला
अलीनां
कुलस्थानं
आम्रः
तां
लातिस्वीकुर्वन्तेलिकुला
कोकिलास्तेषां
अल्यः
श्रेण्यः
तासां
कुलानि
समूहाः
यस्यां
सा
तथा।
पुनः
कीदृशी
अलिकुलैर्भ्रमरसमूहैः
आकुला
व्याप्ता
अलिकुलाकुला।
पुनः
कीदृशी
अहिमा
अहेः
कृष्णसर्पस्येव
मा
यस्याः
सा
तथा
अतिश्यमा
भयानकेत्यर्थः
महिमाहिमेत्यर्थः।
तु
उक्त
एव
व्याचक्षते॥
10
॥
बकुलमिति
हि
अलि
त्वं
बकुलं
प्रति
शश
गच्छेत्यर्थः।
कीदृशं
वकुलं
परागपरागा
विद्यन्ते
यस्मिन्
तत्
तथा
मधुर्मकरन्दः
परागाः
पुप्पधबलयश्च
तत्र
परा
अङ्गेषु
पराः
मधुपरागपरागपराश्च
ते
तथा
तैराकुलं
व्याकुलं
व्याप्तमिति
यावत्
।
पाठान्तरे
पतन्तः
मधु
च
परागाश्च
तान्
षिबन्तितै
मधुपरागपाः
तादृशाश्च
ते
परागपराश्च
ते
तथा
तादृशाश्च
तेऽलयश्चतैराकुलं।
पुनः
कीदृशं
विशदोनिर्भयः
शारदः
शरदि
भवोऽर्थाच्चन्द्र
इति
यावत्
।
शारदंभावप्रधानं
निर्देशेन
शारदात्त्व
शशारं
वहुत्वं
दद्राति
स
शारदः
पृषोदरादित्वेनानुस्वारलोपः
नवमशोकमशोकयशोकदे
सुरभितारमितालिरतारतम्
।
सखि
त्वमाश्रमयमाश्रयमाश्रयः
कमलिनीमलिनीप
इवागताः॥
12
॥
विशदशारदशारदश्चासौ
शारदश्च
सतादृशस्तं।
पुनः
कीदृशः
कलङ्कस्य
चन्द्रलाच्छनस्य
कलङ्केन
पेलेनेव
कलङ्कितं
श्यामल
इत्यर्थः।
अन्ये
तु
हे
सखि
तद्दूराद्दृश्यमानं
बकूलं
बकूलपुष्पं
त्वं
पश्येत्यादिशेषः।
पुनः
कीदृसं
विशदशारद
शारदशारदं
विगतं
शं
सुखं
यस्याः
सा
विशा
विशा
दशा
येषां
ते
विशदशास्तान्
रदति
विलिखति
तद्वद्विशदशारदं
शं
आसमन्ताद्रातिआदत्ते
सा
शारा
सा
चासौ
दशा
च
सा
तथा
तां
रान्ति
आददते
ते
शाराःझ
तां
दयति
तत्त्था
विशदरदं
च
तत्
शारदशारदं
च
तत्तथा
विरहिजनदुःखदं
चेत्यर्थ
-
।
पुनः
कीद्दक्
शशकलङ्ककलं
शशकलंकस्य
चन्द्रस्य
कलेव
कलाकान्तिर्यस्य
तत्तथा।
पुनः
कीद्दक्
कलङ्कितं
केन
वायुना
लङ्कितं
इषदान्दोल्यमानं
'
को
ब्रह्मातामा
निर्लोकषुं
'
इत्यमरः॥
11
॥
इत्युक्त्वा
सखी
राधां
प्रतिवदति।
नवमिति।
हेअशोकदे
शोकं
द्यति
खण्ड्यति
सा
शोकदा
तस्याः
सम्बुद्धौ
हे
अशोकदे
सखि
त्वं
नूतनं
अशोकं
तन्नामानं
वृक्षं
श्रय
तन्निकटप्रवर्तिनी
भव।
कीदृशं
अशोकं
न
विद्यते
शोको
यत्र
तं
तथा
तथा
च
तत्समाश्रयणेनैव
तव
शोकापनयो
भविष्यतीति
भावः
पुनः
कीदृशं
सुरभितया
सौरभेण
रभिताः
रभसयुक्ताः
वेगवन्तो
हर्षवन्तो
वा
ये
अलयस्तेषां
रतेन
क्रीडितेन
आ
ईषत्
रतं
सन्तोषो
यया
तत्
तथा
रभरभसइतिनामधातोरितप्रत्ययान्तस्य
रभितेतिरूपं
रभयस्तद्रतेन
आरतां।
मा
इति
मां
श्रय
मदाश्रिकता
भव।
सखिहितासिहितासिमतात्थमां
नवमशोकमशोकमशोकदम्
॥
तदिह
मामवमामवमाममी
-
व्रजहरिं
नवनीरदनीरदम्
॥
13
॥
माया
लक्ष्म्या
आश्रयो
लक्ष्मीपतिरित्यर्थः
आगतः
वर्तमानसामीप्ये
वर्तमानवद्वेतिआगतप्राय
इतिभावः।
कः
कामिव।
अलिनीं
भ्रमरीं
पातीत्यलनीपो
भ्रमरः
समलिमिव
12
सखीवचनश्रवणोपजातखेदा
राधा
वदति।
हेसखि
त्वं
हिता
मद्धितकारिणी
असि।
अहं
यद्यपि
त्वद्धितकारिणी
तथापि
तत्वेन
मां
न
जानासीत्यतआह।
हिता
मता
असि
हितत्वेन
मया
ज्ञातासि
मतासि
मतत्थेतिपाठे
असिं
खङ्गस्य
मतं
परिच्छे
दकर्तृत्वं
तमसिमतं
यस्याः
सा
परिच्छेदकर्त्रीत्यर्थः।
नवमशोकमशोकमशोकपुष्पं
अशोकदं
शोकाभावप्रदं
इत्यशोकं
न
विद्यते
शोको
यत्र
अविचारिणीयमिति
मामात्थ
ब्रवीषि
किमेवं
ब्रवीषि
अत
एतत्त्वं
असमता
असिवत्खङ्गवर्द्धिसकत्वेन
मताविरहोद्वापकत्वेन
शोकदमिति
वदन्त्यास्तव
शङ्गवृद्धिसकत्वमिति
भावः।
तदिहास्मिन्विषये
मामव
रक्ष
अव
मामां
गृहीत्वेतिशेषः
हरिं
व्रज।
अवगता
चासौ
मा
च
लक्ष्मीश्च
अवमाया
अवमामेति।
संबन्धशून्या
तामकिञ्चनां
मलिनामिति
यावत्
।
कीदृशं
हरिं
नवो
नीरं
जलं
ददाति
तादृशो
यो
मेघस्तं
सजलदनीलमित्यर्थः।
अन्ये
तु
हे
सखि
त्वं
हितासि
कीदृशी
मता
मान्या
तथाऽसि
मता
असिवत्खङ्गवन्मम
तस्याः
सा
तथा
यतः
अशोकं
तन्नामानं
वृक्षं
अशोकं
हितं
अस्य
ब्रवीषि।
पूर्वश्लोके
अशोकं
श्रयेत्युक्तः।
कीदृशं
मां
अशोकदं
अस्य
विष्णोः
शोकं
ददाति
स्मात्मान
इत्यर्थात्
।
तां
तथा
इति
सखी
गदितागदितादिता
नवनगमव
रा
यवरायवा॥
इति
गिरं
कलया
कलयाकला
-
पटुगिरा
मृदुतामृदुतादुता॥
14
॥
शोकदा
शोक्राश्रयणवत्कर्तृत्वेन
तवासि
ममत्वं
स्पष्टमिति
भावः।
तत्
।
अम्
इति
सम्बद्वौ
त्वं
ह।
इः
कामः
तंजहि
ते
गच्छति
इहस्तं
कामप्रापकमित्यर्थः।
तादृशं
हरिं
व्रज।
जय
मां
वृथाजीवितां
मां
अवं
पाहि।
कीदृशीं
मां
न
विद्यते
मो
शोभा
यस्याः
सा।
तथा
कीदृशं
हरिं
नवानां
नीरदानां
मेघानां
शोभां
रदति
प्राप्नोति
सनवनीरदनीदस्तं
मेघश्यामं
इत्यर्थः
इति
व्याचक्षते
13
॥
राधावचनश्रवणानन्तरं
सखी
प्राह।
इतीति।
सखी
पूर्वोक्तप्रकारेण
गदितार्थाद्राधया
उक्तासती
गदिता
गदो
रोगः
संजातो
यस्याः
सा
गदिता
पीडिता।
कलया
च
तूर्यविशेषेण
गिरं
गदितवती।
कीदृशं
गिरं
अवराय
अधमाय
श्रोष्ठाय
वाऽनवनेन
अवनं
रक्षणं
तदभावेन
रां
षावकरूपां।
कीदृशी
सखी
कलया
कान्त्या
कला
गम्भीरकान्त्यतिशयवतीत्यर्थः
कीदृशा
षटुगिरायाः
पूर्वोक्तायाः
समर्थवाण्याः
मृदुतया
कोमलत्वेनामृदुतया
कठोरत्वेन
च
दुःखितारिवं
खिन्ना
अन्ये
तु
कल
तन्नाम्नी
सखी
इति
पूर्वोक्तप्रकारेण
अर्थाद्राधया
गदता
उक्ता
सती
अनवः
पुरातनो
यो
नरः
पुराणपुरुषो
यो
नरः
हरिस्तस्मै
इतिवक्ष्यमाणं
गिरं
पटुगिरा
अर्थसमर्थकवाण्या
कलया
चातुर्येण
अदित
दत्तवती
कीदृश्या
गिरा
कं
सुखं
लाति
ददाति
तयासुखकारिण्येत्यर्थ॥
मृदुता
चामृदुता
च
ताभ्यां
दुनोति
साता
मृदुत्तमृदुतादुत्तादृश्याः।
कीदृशाय
अनवराथवयश्चासावयं
तेन
वरः
श्रेष्ठस्तस्मै।
अयः
शुक्षवहो
विधिः।
वा
शब्द
उपमानार्थे।
कीदृशीव
गदितेव
पीडितेव
अगदिते
वानुक्तेवेति॥
14
॥
मलयजं
तनुते
तनुते
तनौ
सहचरी
नलिनी
नलिनीदलम्
॥
सुनयनानलदं
नलदं
च
सा
तदपि
सीदति
सीदति
बन्धुना॥
15
॥
समुदिते
मुदिते
मुदितेक्षणे
हिमकरे
मकरे
मकरेश्रुती॥
पिकरवेरवरेरवरेति
सा
हरिणलाच्छनलाच्छनलाच्छना॥
16
॥
किमुवाचेत्याह।
मलयजमिति।
हेहरे
ते
तव
सहचरी
सखी
राधा
तनौ
शरीरे
अतनु
अस्वल्पं
मलय
तनुते
विवेशयति
नलिनी
नन्नाम्नी
सखी
नलिनीदलं
तनुते
सुनयना
अन्वर्थनाम्नी
सखा
अनलं
संतापं
द्यति
खण्डयति
तादृश्यं
नलदं
उशीरं
तनुते
सुनयना
अन्वर्थनाम्नो
सखी
अनलं
सन्तापं
प्रति
खण्डयति
तादृश्यं
नलदं
उशीरं
तनुत
तदपि
तथापि
सा
सीदति
दुःखितां
भवति
बन्धुसमूहो
वास्मदादिं
सीदति॥
15
॥
पुनः
किमुवाचेत्याह॥
समुदित
इति।
हे
ईश्वर
ई
लक्ष्मी
तस्याः
वर
लक्ष्मीकान्तः
सा
राधा
हिमकरे
समुदिते
सति
ईक्षणे
नयने
समुदिते
हृष्टे
मुद्रिते
इति
यावत्
राति
प्राप्नोति।
कीदृशी
अमुदिताऽप्रहृष्टा।
वा
शब्दश्चार्थे
च
इत्यमरः।
पिकरवे
कोकिलस्वने
समुदिते
सति
श्रुती
कर्णौ
अमुदिते
एति
अङ्गुल्यादिनां
पिदधातीति।
कीदृशे
हिमकरे
मकरे
नास्य
मकरस्वामिनो
मकरध्वजत्य
कारके
तद्बद्धके
इत्यर्थः।
यद्वा
मकराणां
मीनस्य
यादोनाथस्य
कं
सुखं
राति
आदत्ते
स
तथा
तस्यापि
जलवॄद्धिकरेत्यर्थः।
कीदृशी
अवरवा
अव
त्राहीति
रवः
शब्दो
यस्याः
सा
तथा।
पुनः
कीदृशी
हरिणलाञ्छनश्चन्द्रस्तस्य
लाञ्छनं
पाण्डुत्वं
तल्लाञ्छनं
चिह्नं
यस्याः
सा
परिपाण्डुरित्यर्थः।
यद्वा
हरिणलाञ्छमश्चन्द्रः
नसहतेसह
ते
सहते
सखी
तव
वियोगवियोग
वियोगहृत्
॥
सपदि
तां
तरुणिं
सरणिं
मणिं
किरतु
नाम
नवं
नवनीवनम्
॥
17
॥
अथनया
कलया
कलया
शुभां
वनजदामजदामजदीप्तिवान्
॥
स
लाच्छनं
यस्य
तादृशः
शिवः
लाञ्छनं
यस्याः
तया
सर्वदा
शिवशिवेतिवादिनीत्यर्थः॥
16
॥
नसहेति।
अयोगहृत्
अयसोलोहरयागाः
पर्वता
तद्वत्
हृदयं
यस्य
स
तथा
तस्य
सम्बोधनं
हे
लोहपर्वतहृदय
अतिकठोराङ्ग
करण।
त
तव
सखी
तव
सहचरी
तववियोगं
विरहं
वेर्गरुडस्य
योगं
अन्यत्र
गमनसाधनभूतमिति
वा
न
सहते।
किं
तु।
अयोगं
अस्य
तेव
विष्णोर्यागं
सङ्गं
न
विद्यते
योगो
यस्मादित्ययोगस्तं
वां
सहते॥
असहेत्ति
सम्बोन्धनं
वाऽरेऽसहप्रेमकलहासविष्णो
वियोगवियोगमिति
पाठेवेर्गरूडस्य
योगो
यस्य
स
तथा
सम्बोधनं
गरुडवाहन
वियोगहृत्
अयोगं
वियोगं
तं
हरति
तत्
अयोगहृत्
तादृशं
सहते
इति
वा
व्याख्येयं।
अत्र
च
भवानित्यध्याहार्यं
तथा
च
भवान्
तां
तरुणीं
सपदि
किरतु
त्यजतु।
यत्रान्यस्यामभिरमसे
तां
षरहरत्वित्यर्थः॥
तां
सरणीं
किरतु
नाम
इति
निश्चयेन
नवनीरजं
नतन
जीवाजानन्तं
वर्तमानमित
यावन्माणिं
किरतु
मवं
मोक्षं
विधात्वित्यर्थः।
कीदृशं
मणिं
नवं
अद्य
यावदभुक्तमित्यर्थः॥
'
शैल्वृक्षावगौनगौ
'
इत्यमरः॥
'
अकारो
वासुदेवास्यादि
'
त्ये
काक्षरः॥
17
॥
अथेति॥
अथेत्यन्तरं
बनजानां
जलदानां
दाम
पङ्क्तिस्तस्यां
जातं
यद्वा
मला
तज्जाता
या
दीप्तिस्तद्वान्स
तथा
हरिस्तयां
कलया
तन्नाम्न्या
सख्यां
सह
शुभां
सुन्दरीं
राधां
प्रति
अगात्
कीदृश्या
हिरगात्तमगात्तमगा
च
सा
मुदमतीव्रमतीव्रदृशोस्थिता॥
18
॥
रामचन्द्रकविना
कविनादः
पूरुषोत्तमसुतेन
सुतेन॥
राधिका
हृदयशोकदमासी
-
द्राधिकाहृदयशोकदमासीत्
॥
19
॥
कं
सुखं
लातिकला
तया
कलया
चातुर्यशेषेण
कान्त्यानुपलक्षित
इति
वा।
सा
राधा
तं
आगतं
आ
आधारितः
अगः
पर्वतो
गोवर्द्धनः
सयेन
तं
तथाऽतीव्रदृशोः
अतीव्रे
प्रियलाभेन
सौम्ये
ये
दृशौ
तयोः
स्थितं
प्राप्योतिशेषः।
मुदमगात्प्राप।
'
मुत्प्रीतिः
प्रमदोहर्ष
'
इत्यमरः
अतीव्रं
अतिसौम्यं
प्रेमकलहकोपापनयेनप्रेमावगमनेन
च
त्यक्तक्रूरभावमित
भावः॥
18
॥
रामचन्द्रेति।
राधिकाहृदयशोकं
द्यति
खण्डयति
तत्ताद्दंशः
मदः
काव्यं
कविना
पण्डितेन
रामचन्द्रकवना
आसीत्
तेन
कृतमित्यर्थः।
कीदृशेन
पुरुषोत्तमसुतो
जनार्दनस्तस्येनः
श्रेष्ठः
तेन
ज्येष्ठपुत्रेणेत्यर्थः॥
आरात्समीपे
श्रुतमात्रमिति
भावः
राधिका
हृदये
यस्य
सतता
श्रीकृष्णस्य
इति
यावत्तस्य
यः
शोकः
दतप्राप्तिर्निबन्धनं
दुःखं
तद्व्यति
खण्डयति
तत्तादृशम्
॥
19
॥
इति
श्रीरामचन्द्रकविविरचितं
राधाविनोदाख्यं
काव्यं
सम्पूर्णम्
।
शुकदेवसमाख्यस्य
पण्डतश्रीशिरोमणेः॥
नयस्य
निदेशेन
भट्टनारायणो
बुधः॥
1
॥
राधाविनोदकाव्यस्य
व्याख्यानं
स्वयमव्यधात्
॥
परोपकाररसिकाः
शोधयन्तु
तदादरात्
॥
2
॥
]