शिक्षाश्लोकाः

शिक्षाश्लोकाः

यदा बहिर्मुखा यूयं भविष्यथ कथञ्चन ।
तदा कलाप्रवाहस्था देहचित्तादयोऽप्युत ॥ १॥

सर्वथा भक्षयिष्यन्ति युष्मानिति मतिर्मम ।
न लौकिकः प्रभुः कृष्णो मनुते नैव लौकिकम् ॥ २॥

भावस्तत्राप्यस्मदीयः सर्वस्वश्चैहिकश्च सः ।
परलोकश्च तेनायं सर्वभावेन सर्वथा ।
सेव्यः स एव गोपीशो विधास्यत्यखिलं हि नः ॥ ३॥

इति श्रीवल्लभाचार्यविरचिताः शिक्षाश्लोकाः समाप्ताः ।