प्रेमामृइतरसायनस्तोत्रम्

प्रेमामृतरसायनस्तोत्रम्
प्रेमावतारश्रीमन्महाप्रभुकृष्णचैतन्यदेव
मुखपद्मविनिर्गतम्

एकदा कृष्णविरहाद्ध्यायन्ती प्रियसङ्गमम् ।
मनोबाष्पनिरासाय जल्पतीदं मुहुर्मुहुः ॥ १॥

कृष्णः कृष्णेन्दुरानन्दो गोविन्दो गोकुलोत्सवः ।
गोपालो गोपगोपीशो वल्लवेन्द्रो व्रजेश्वरः ॥ २॥

प्रत्यहं नूतनतरस्तरुणानन्दविग्रहः ।
आनन्दैकसुखस्वामी सन्तोषाक्षयकोषभूः ॥ ३॥

आभीराभिनवानन्दः परमानन्दकन्दलः ।
वृन्दावनकलानाथो व्रजानङ्गनवाङ्कुरः ॥ ४॥ व्रजानन्द

नयनानन्दकुसुमो व्रजभाग्यफलोदयः ।
प्रतिक्षणातिसुखदो मोहनो मधुरद्युतिः ॥ ५॥

सुधानिर्यासनिचयः सुन्दरः शीतलाकृतिः । श्यामलाकृतिः
नवयौवनसम्भिन्नश्यामामृतरसार्णवः ॥ ६॥

इन्द्रनीलमणिस्वच्छो दलिताञ्जनचिक्कणः ।
इन्दीवरसुखस्पर्शो नीरदस्निग्धसुन्दरः ॥ ७॥

कर्पूरागरुकस्तूरीकुङ्कुमाक्ताङ्गधूसरः ।
सुकुञ्चितकचग्रस्तोल्लसच्चारुशिखण्डकः ॥ ८॥

मत्तालिविभ्रमत्पारिजातपुष्पावतंसकः । मत्तालिविलसत्
आननेन्दुजितानन्तपूर्णशारदचन्द्रमाः ॥ ९॥

श्रीमल्ललाटपाटीरतिलकालकरञ्जितः ।
लीलोन्नतभ्रूविलासो मदालसविलोचनः ॥ १०॥

आकर्णारक्तसौन्दर्यलहरीदृष्टिमन्थरः ।
घूर्णायमाननयनः साचीक्षणविचक्षणः ॥ ११॥

अपाङ्गेङ्गितसौभाग्यतरलीकृतचेतनः ।
ईषन्मुद्रितलोलाक्षः सुनासापुटसुन्दरः ॥ १२॥

गण्डप्रान्तोल्लसत्कर्णमकराकृतिकुण्डलः ।
प्रसन्नानन्दवदनो जगदाह्लादकाननः ॥ १३॥ जगदाह्लादकारकः

सुस्मेराधृतलावण्यप्रकाशीकृतदिङ्मुखः । धृतसौन्दर्य
सिन्दूरारुणसुस्निग्धमाणिक्यदशनच्छदः ॥ १४॥

पीयूषाधिकमाध्वीकसूक्तः श्रुतिरसायनः । सूक्ति
त्रिभङ्गललितस्तिर्यग्ग्रीवस्त्रैलोक्यमोहनः ॥ १५॥

कुञ्चिताधरसंसिक्तकूजद्वेणुविनोदवान् । सासक्तकूज
कङ्कणाङ्गदकेयूरमुद्रिकादिलसद्भुजः ॥ १६॥ मुद्रिकाविलसद्

स्वर्णसूत्रसुविन्यस्तकौस्तुभामुक्तकन्धरः ।
मुक्ताहारोल्लसद्वक्षः स्फुरच्छ्रीवत्सलाञ्छनः ॥ १७॥

आपीनहृदयो नीपमाल्यवान् बन्धुरोदरः ।
संवीतपीतवसनो रशनाविलसत्कटिः ॥ १८॥

अन्तरीयघटीबन्धप्रपदान्दोलिताञ्चलः ।
अरविन्दपदद्वन्द्वकलक्वणितनूपुरः ॥ १९॥ क्वणत्कारितनूपुरः

बन्धूकारुणमाधुर्यसुकुमारपदाम्बुजः । पल्लवारुण
नखचन्द्रजिताशेषदर्पणेन्दुमणिप्रभः ॥ २०॥

ध्वजवज्राङ्कुशाम्भोजराजच्चरणपल्लवः ।
त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरः ॥ २१॥

साक्षात्केलिकलामूर्तिः परिहासरसार्णवः ।
यमुनोपवनश्रेणीविहारी व्रजनागरः ॥ २२॥ श्रेणीविलासे

गोपाङ्गनाजनासक्तो वृन्दारण्यपुरन्दरः ।
आभीरनागरीप्राणनायकः कामशेखरः ॥ २३॥

यमुनानाविको गोपीपारावारकृतोद्यमः ।
राधावरुन्धनरतः कदम्बवनमन्दिरः ॥ २४॥ राधावरोधन

व्रजयोषित्सदाहृद्यो गोपीलोचनतारकः ।
जीवनानन्दरसिकः पूर्णानन्दकुतूहलः ॥ २५॥ यमुनानन्द

गोपिकाकुचकस्तूरीपङ्किलः केलिलालसः ।
अलक्षितकुटीरस्थो राधासर्वस्वसम्पुटः ॥ २६॥

वल्लवीवदनाम्भोजमधुमत्तमधुव्रतः ।
निगूढरसविद्गोपीचित्ताह्लादककाननः ॥ २७॥ चित्ताह्लादकलानिधिः

कालिन्दीपुलिनानन्दी क्रीडाताण्डवपण्डितः ।
आभीरिकानवानङ्गरङ्गभूमिसुधाकरः ॥ २८॥ जनानङ्ग

विदग्धगोपवनिताचित्ताकूतविनोदकृत् ।
नानोपायनपाणिस्थगोपनारीगणावृतः ॥ २९॥

वाञ्छाकल्पतरुः कामकलारसशिरोमणिः ।
कन्दर्पकोटिलावण्यः कोटीन्दुललितद्युतिः ॥ ३०॥

जगत्त्रयमनोमोहकरो मन्मथमन्मथः ।
गोपसीमन्तिनीशश्वद्भावापेक्षापरायणः ॥ ३१॥

नवीनमधुरस्नेहः प्रेयसीप्रेमसञ्चयः ।
गोपीमनोरथाक्रान्तो नाट्यलीलाविशारदः ॥ ३२॥

प्रत्यङ्गरभसावेशप्रमदाप्राणवल्लभः ।
रासोल्लासमदोन्मत्तो राधिकारतिलम्पटः ॥ ३३॥

खेलालीलापरिश्रान्तः स्वेदाङ्कुरचिताननः । हेलालीला
गोपिकाङ्कालसः श्रीमान् मलयानिलसेवितः ॥ ३४॥

(सकृत्प्रपन्नजनतासंरक्षणधुरन्धरः ।
सुप्रसन्ने वासुदेवो गोपिकाजनवल्लभः ॥)
इत्येवं प्राणनाथस्य प्रेमामृतरसायनम् ।
यः पठेच्छरावयेद् वापि स प्रेम्णि प्रमिलेद् ध्रुवम् ॥ ३५॥

इति श्रीवल्लभाचार्यविरचितं कृष्णप्रेमामृतरसायनस्तोत्रम् सम्पूर्णम् ।

Encoded by Malika Das
Proofread by Malika Das, Shankara, NA
There are variations from Vishnustutimanjari 1
Also, some attribute this to chaitanyamahApravhu as well.