गोपीजनवल्लभाष्टकम्

श्रीगोपीजनवल्लभाष्टकम्

॥ अथ श्रीगोपीजनवल्लभाष्टकम् ॥

सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय ।
उदारहासाय ससन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥

आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय ।
मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥

गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय ।
भक्तैकगम्याय नवप्रियाय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥

मन्थानभाण्डाखिलभञ्जनाय हैयङ्गवीनाशनरञ्जनाय ।
गोस्वादुदुग्धामृतपोषिताय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥

कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय ।
पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥

धराधराभाय धराधराय शृङ्गारहारावलिशोभिताय ।
समस्तगर्गोक्तिसुलक्षणाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६॥

इभेन्द्रकुम्भस्थलखण्डनाय विदेशवृन्दावनमण्डनाय ।
हंसाय कंसासुरमर्दनाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७॥

श्रीदेवकीसूनुविमोक्षणाय क्षत्तोद्धवाक्रूरवरप्रदाय ।
गदारिशङ्खाब्जचतुर्भुजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८॥

॥ इति श्रीवल्लभाचार्यविरचितं श्रीगोपीजनवल्लभाष्टकं सम्पूर्णम् ॥