विश्वास-प्रस्तुतिः
चिन्ता-सन्तान-हन्तारो
यत्-पादाम्बुज-रेणवः।
स्वीयानां तान् निजाचार्यान्
प्रणमामि मुहुर्मुहुः ॥१॥
मूलम्
चिन्तासन्तानहन्तारो यत्पादाम्बुजरेणवः। स्वीयानां तान् निजाचार्यान् प्रणमामि मुहुर्मुहुः ॥१॥
विश्वास-प्रस्तुतिः
यदनुग्रहतो जन्तुः
सर्व-दुःखातिगो भवेत ।
तमहं सर्वदा वन्दे
श्रीमद्-वल्लभ-नन्दनम॥२॥
मूलम्
यदनुग्रहतो जन्तुः सर्व दुःखातिगो भवेत । तमहं सर्वदा वम्दे श्रीमद्वल्लभनन्दनम॥२॥
विश्वास-प्रस्तुतिः
अज्ञान-तिमिरान्धस्य
ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन
तस्मै श्री गुरुवै नमः ॥३॥
मूलम्
अज्ञान-तिमिरान्धस्य
ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन
तस्मै श्री गुरुवै नमः ॥३॥
विश्वास-प्रस्तुतिः
नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम । लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम॥४॥
मूलम्
नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम । लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम॥४॥
विश्वास-प्रस्तुतिः
चतुर्भिश्च चतुर्भिश्च
चतुर्भिश्च त्रिभिस्तथा ।
षड्भिर् विराजते योऽसौ
पञ्चधा हृदये ममः ॥५॥
मूलम्
चतुर्भिश्च चतुर्भिश्च
चतुर्भिश्च त्रिभिस्तथा ।
षड्भिर् विराजते योऽसौ
पञ्चधा हृदये ममः ॥५॥