स्वस्वामियुगलाष्टकम्

स्वस्वामियुगलाष्टकम्

आसातामेकशरणे विहिताकरणे हृदि ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ १॥

कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ २॥

प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ३॥

दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ४॥

कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ५॥

प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ६॥

आर्तिं निवारयेतां मे मस्तके हस्तधारणैः ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ७॥

मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ ।
स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम ॥ ८॥

इति श्रीमद्धरिदासोदितं स्वस्वामियुगलाष्टकं सम्पूर्णम् ।