विश्वास-प्रस्तुतिः
सर्व-साधन-हीनस्य
पराधीनस्य सर्वतः ।
पाप-पीनस्य दीनस्य
श्रीकृष्णः शरणं मम ॥ १॥
मूलम्
सर्वसाधनहीनस्य पराधीनस्य सर्वतः ।
पापपीनस्य दीनस्य श्रीकृष्णः शरणं मम ॥ १॥
विश्वास-प्रस्तुतिः
संसार-सुख-सम्प्राप्ति-
सन्-मुखस्य विशेषतः ।
बहिर्-मुखस्य सततं
श्रीकृष्णः शरणं मम ॥ २॥
मूलम्
संसारसुखसम्प्राप्तिसन्मुखस्य विशेषतः ।
वहिर्मुखस्य सततं श्रीकृष्णः शरणं मम ॥ २॥
विश्वास-प्रस्तुतिः
सदा विषय-कामस्य
देहारामस्य सर्वथा ।
दुष्ट-स्वभाव-वामस्य
श्रीकृष्णः शरणं मम ॥ ३॥
मूलम्
सदा विषयकामस्य देहारामस्य सर्वथा ।
दुष्टस्वभाववामस्य श्रीकृष्णः शरणं मम ॥ ३॥
विश्वास-प्रस्तुतिः
संसार-सर्व-दुष्टस्य
धर्म-भ्रष्टस्य दुर्मतेः ।
लौकिक-प्राप्ति-कामस्य
श्रीकृष्णः शरणं मम ॥ ४॥
मूलम्
संसारसर्वदुष्टस्य धर्मभ्रष्टस्य दुर्मतेः ।
लौकिकप्राप्तिकामस्य श्रीकृष्णः शरणं मम ॥ ४॥
विश्वास-प्रस्तुतिः
विस्मृत-स्वीय-धर्मस्य
कर्म-मोहित-चेतसः ।
स्वरूप-ज्ञान-शून्यस्य
श्रीकृष्णः शरणं मम ॥ ५॥
मूलम्
विस्मृतस्वीयधर्मस्य कर्ममोहितचेतसः ।
स्वरूपज्ञानशून्यस्य श्रीकृष्णः शरणं मम ॥ ५॥
विश्वास-प्रस्तुतिः
संसार-सिन्धु-मग्नस्य
भग्न-भावस्य दुष्कृतेः ।
दुर्भाव-लग्न-मनसः
श्रीकृष्णः शरणं मम ॥ ६॥
मूलम्
संसारसिन्धुमग्नस्य भग्नभावस्य दुष्कृतेः ।
दुर्भावलग्नमनसः श्रीकृष्णः शरणं मम ॥ ६॥
विश्वास-प्रस्तुतिः
विवेक-धैर्य-भक्त्य्-आदि-
रहितस्य निरन्तरम् ।
विरुद्ध-करणासक्तेः
श्रीकृष्णः शरणं मम ॥ ७॥
मूलम्
विवेकधैर्यभक्त्यादिरहितस्य निरन्तरम् ।
विरुद्धकरणासक्तेः श्रीकृष्णः शरणं मम ॥ ७॥
विश्वास-प्रस्तुतिः
विषयाक्रान्त-देहस्य
वैमुख्य-हृत-सन्-मतेः ।
इन्द्रियाश्व-गृहितस्य
श्रीकृष्णः शरणं मम ॥ ८॥
मूलम्
विषयाक्रान्तदेहस्य वैमुख्यहृतसन्मतेः ।
इन्द्रियाश्वगृहितस्य श्रीकृष्णः शरणं मम ॥ ८॥
विश्वास-प्रस्तुतिः
एतद्-अष्टक-पाठेन
ह्य् एतद्-उक्तार्थ-भावनात् ।
निजाचार्य-पदाम्भोज-
सेवको दैन्यम् आप्नुयात् ॥ ९॥
मूलम्
एतदष्टकपाठेन ह्येतदुक्तार्थभावनात् ।
निजाचार्यपदाम्भोजसेवको दैन्यमाप्नुयात् ॥ ९॥
॥ इति हरिदासवर्यविरचितं श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥