सकलावतारसाम्यरूपम्

सकलावतारसाम्यरूपम्

श्रीमदाचार्यचरणानां सकलावतारसाम्यरूपं निरूप्यते ।
(श्रीहरिरायचरणाः)

यथा श्रीमद्वराहेण दंष्ट्रया चोद्धृता मही ।
हिरण्याक्षश्च निहतो गोद्विजामरदुःखदः ॥ १॥

तथा श्रीवागधीशेन नष्टा भक्तिः समुद्धृता ।
निहत्य भक्तद्वेष्टारं दुष्टसङ्घं भयप्रदम् ॥ २॥

यतोऽथ वल्लभाधीशो विख्यातः पृथिवीतले ।
रोषदृक्पातसम्प्लुष्टभक्तद्विडिति नामतः ॥ ३॥

इति वाराहसाम्यम् ॥ १॥

सनन्दनादयो देवा ब्रह्मचर्यप्रकाशकाः ।
बभूवुर्ब्रह्मणः पुत्राः शुद्धमार्गप्रवर्तकाः ॥ ४॥

तथायमपि वागीशो ह्यन्यस्त्रीसङ्गमत्यजत् ।
अत एवास्य नामास्ति सुपूरितः रहःप्रियः ॥ ५॥

पतिव्रतापतिश्चेति तेन तद्वद्बभूव सः ।
ब्रह्मचर्यत्वसंसिद्धिस्तेन जाता महाप्रभोः ॥ ६॥

इति सनकादिसाम्यम् ॥ २॥

यथा श्रीनारदः पञ्चरात्रं व्यरचयत्प्रभुः ।
यस्मिन्सेवाप्रकारश्च स्फुटं श्रीमानकल्पयत् ॥ ७॥

भक्त्याचारोपदेष्टाभूत्कर्ममार्गप्रवर्त्तकः ॥ ८॥

येनाचारश्च यज्ञश्च पुष्टिमार्गः प्रवर्त्तितः ।
ततोऽयं यज्ञकर्ता च यज्ञभोक्तेति विश्रुतः ॥ ९॥

इति नारदसाम्यम् ॥ ३॥

यथा नारायणो देवो गन्धमादनवासभाक् ।
कामसेनां विजित्याशु तिष्ठत्येकान्त ईश्वरः ॥ १०॥

तथायमपि दुष्टौघं विजित्य करुणानिधिः ।
कृष्णप्रिये व्रजेऽवात्सीद्यतोऽयं श्रीव्रजप्रियः ॥ ११॥

इति नारायणसाम्यम् ॥ ४॥

यथा श्रीकपिलः साङ्ख्यमुक्त्वाऽज्ञानमपाहरत् ।
जीवानां दुष्टमनसां देवहूतीप्रियावहः ॥ १२॥

तथाणुभाष्यव्याख्यानादयमप्यखिलेश्वरः ।
विनाश्याज्ञानपटलं चरतां निजवर्त्मनि ॥ १३॥

बभौ सर्वत्र विजयी श्रीइलम्माप्रियावहः ।
अत एवास्य नामोक्तं सूत्रभाष्यप्रवर्त्तकः ॥ १४॥

इति कपिलसाम्यम् ॥ ५॥

आन्वीक्षिकीं यथा दत्तः प्रह्लादादिभ्य उक्तवान् ।
नानावाक्यप्रचारेण दृढीकृत्य सतां मतम् ॥ १५॥

तथायमपि वागीशः समाश्रित्य सतां मतम् ।
भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः ॥ १६॥

तदर्थमेव भगवान् कथयामास वै बहून् ।
स्तवान्कृष्णाश्रयाद्यांश्च प्रभुः श्रीकृष्णहार्दवित् ॥ १७॥

इतिदत्तसाम्यम् ॥ ६॥

यथा यज्ञावतारश्च यामादिद्वादशात्मजैः ।
सार्द्धं गुणगणाब्धिश्चारक्षत्स्वायम्भुवान्तरम् ॥ १८॥

तथा श्रीवल्लभाधीशः कुमाराभ्यां च नप्तृभिः ।
दूरीकृत्यासुरान् सर्वानपात्सारस्वतान्तरम् ॥ १९॥

इतियज्ञावतारसाम्यम् ॥ ७॥

यथा श्रीऋषभो देवः पुत्राणां ज्ञानदोऽभवत् ।
अज्ञानान्तर्द्धिरमलः पुंसां मोहाब्धिमज्जताम् ॥ २०॥

तथायं चाज्ञातलीलो नाम्ना ख्यातश्च भूतले ।
स्ववंशे स्थापिताशेषस्वमाहात्म्यश्च सोऽभवत् ॥ २१॥

इति ऋषभदेवसाम्यम् ॥ ८॥

यथा श्रीपृथुराजा च गोरूपोर्वीं दुदोह वै ।
सर्वजीवार्थमनघो महाराजोऽवसेवितः ॥ २२॥

तथा महेन्दिरास्वामी सामवेदसमुद्भवः ।
ऋग्धेनूः सन्दुदोहाथ भक्तेच्छापूरकाह्वयः ॥ २३॥

पुष्टिमार्गप्रचारार्थं शुद्धद्वैतमताप्तये ।
लीलामृतरसौघाद्रिकृताखिलशरीरभृत् ॥ २४॥

इति पृथुसाम्यम् ॥ ९॥

भक्तं यथैकं मत्स्यस्तु सत्यवन्तमपात्प्रभुः ।
जलात्प्रलयकालीनात् मात्स्यं संश्रावयञ्जनान् ॥ २५॥

तथा श्रीवल्लभेशस्तु संसारभयवारिधेः ।
भक्तानपाद्बहून् श्रीशः श्रावयित्वा सुबोधिनीम् ॥ २६॥

सुरासुराणामुदधिं मथ्नताममृतं यदा ।
भूतोऽप्राप्तामृतानां च क्लिश्यतां तेन कर्मणा ॥ २७॥

इति मत्स्यसाम्यम् ॥ १०॥

यथा श्रीकमठः साक्षाद्दधे मन्दरपर्वतम् ।
पुष्टे च हाटकमयं लक्षयोजनविस्तृते ॥ २८॥

तथैव दैवजीवानामसुराणां च वाक्पतिः ।
क्लिश्यतां भवसिन्धौ च मोक्षपीयूषहेतवे ॥ २९॥

गृहीत्वा ज्ञानसर्पस्य मुखपुच्छौ महाप्रभुः ।
तदा प्रलुप्तं निगमपर्वतं चोद्दधार ह ॥ ३०॥

दुष्टोत्थापितपाखण्डविषं भूरि पराक्रमम् ।
पत्रावलम्बनशिवरूपेणाथ पपौ मुदा ॥ ३१॥

इति कमठसाम्यम् ॥ ११॥

यथा धन्वतरिः पुंसां स्मृतिमात्रार्तिनाशनः ।
तथा सतामयमपि स्मृतिमात्रार्तिनाशकः ॥ ३२॥

इति धन्वतरिसाम्यम् ॥ १२॥

यथा श्रीमोहिनी दैत्यान् मोहयित्वाऽथ चाक्षुषैः ।
दैत्योत्सङ्गगतं पात्रं सुधायाः प्राप्य निर्मलम् ॥ ३३॥

सुरेभ्यश्चामृतं भूयो ददौ दैत्येभ्य एव न ।
पुरुषोऽपि महाविष्णुर्धृत्वा स्त्रीरूपमद्भुतम् ॥ ३४॥

एवं श्रीवल्लभोऽपीशो नष्टं वेदमनुत्तमम् ।
उद्धृत्य जगतां नाथो निजभक्तार्थमादरात् ॥ ३५॥

विरुद्धाश्रयतो दुष्टान् मोहयित्वा महाप्रभुः ।
तेन सम्मथ्य निगमगिरिणास्मिन्भवे शुभम् ॥ ३६॥

पुष्टिरूपामृतमयं निष्कास्य गुणवारिधिः ।
देवेभ्योऽदादसुरेभ्यो न ददौ भक्तवत्सलः ॥ ३७॥

पूर्वमासीत् स्वयमपि वल्लभोऽथ द्वितीयके ।
अवतारे सम्बभूव वाक्पतिः पुरुषाकृतिः ॥ ३८॥

इति मोहिनीसाम्यम् ॥ १३॥

अथ सकलजगदार्तितटिनीपतिवारको भगवान्नृसिंहो
यथा स्तम्भादाविर्भूय हिरण्यकशिपुं कराग्रेण विदार्य
निजभक्तं प्रह्लादं ररक्षैवं भगवान् श्रीवल्लभाधीशोऽपि
चम्पकारण्ये वीतिहोत्रात्प्रकटीभूयाखिलदुःखदातारं
जीवाज्ञानरूपमहादैत्यं सद्वाक्यप्रचारनखैर्भित्त्वा
प्रह्लादरूपवैष्णववृन्दमरक्षदित्यत एव उग्रप्रताप इति
नामनिर्देश इति ॥ ३९॥

इति नृसिंहसाम्यम् ॥ १४॥

अथ च यथाऽखिलगीर्वाणकदम्बसमीडितगरिष्ठ-
गुणगणपटलो भगवान् वामनः कश्यपसुतं आदौ
भिक्षुरूपं गृहीत्वा बलेः सर्वस्वमाच्छिद्य ववृधे पुनश्च
तेन सम्पूजितस्तमनुगृह्यान्तर्दधे तथैव भगवानिलापतिः
श्रीलक्ष्मणराजकुमारः शुद्धः भिलुकवद्रूपं समाश्रित्य
तत्र च महाभिमानिनं पण्डितसमूहं विजित्याचार्यपदवीं
च प्राप्य विद्यानगराधीश्वरमनुगृह्य तेषां निरुत्तराणां जयेन
पुष्टिमार्गमार्त्तण्डोदयं कृत्वा मातुलाभिमानं चाहत्य
कनकाभिषेकाप्तयशःप्रसारेण वृद्धिं प्राप्य पृथिवीं
पर्यक्रामदिति ॥ ४०॥

इति वामनसाम्यम् ॥ १५॥

यथा द्विजद्रोहकारान् जघान क्षत्रियान् बहून् ।
परश्वधेन तीक्ष्णेन रेणुकानन्दवर्धनः ॥ ४१॥

तथा श्रौतद्रोहकरान् यः स्मार्तानसुरान् प्रभुः ।
पत्रावलम्बखण्डेन जित्वा चक्रे निरुत्तरान् ॥ ४२॥

इति परशुरामसाम्यम् ॥ १६॥

कलिकालमलग्रस्तान् जीवानालोक्य दुर्मतीन् ।
मन्दभाग्यांस्तथा दुष्टान् श्रीमान् सत्यवतीसुतः ॥ ४३॥

श्रीमद्भागवतालापादुद्दधार दयापरः ।
पाषण्डतिमिराक्रान्तजीवजालं द्विधाऽकरोत् ॥ ४४॥

तथा महाप्रभुरपि दुष्टाध्वार्णवमज्जितान् ।
जीवानालोक्य भगवान् पुष्टिमार्गोपदेशतः ॥ ४५॥

अङ्गीकृत्य मन्त्रदानाच्चक्रे भयविवर्जितान् ।
पुत्रपौत्रप्रपौत्राद्यैः करोति च करिष्यति ॥ ४६॥

इति वेदव्याससाम्यम् ॥ १७॥

अयोध्याधिपती रामः सेतुं कृत्वा यथार्णवे ।
स्वसेनां स्थापयामास जिग्येऽसुरचमूर्द्रुतम् ॥ ४७॥

तथेलम्माकुमारोऽपि श्रीमद्भागवतार्णवे ।
सेतुं सुबोधिनीरूपं विधायातारयज्जनान् ॥ ४८॥

जिगायासुरवर्गं च वैष्णवद्वेषकारकम् ।
श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ ४९॥

इति दाशरथिरामसाम्यम् ॥ १८॥

अथ यथा सकलजगदभीष्टसम्पादकः श्रीभगवान्
श्रीनन्दराजकुमारो निजसहोदरेण श्रीरेवतीरमणेन
पूर्णारेवतीरमणसदृशेन सारस्वतकल्पेऽवतीर्य दुष्ट-
कदम्बरूपं भूभारमुज्जहार स्वहस्तमारणेन च तन्मोक्षं
चकारैवमसावपि भगवान् पुरुषोत्तमो नारायणादि-
दीक्षितानां सोमयागफलस्वरूपः श्रीलक्ष्मणाङ्गजः
कलाववतीर्य पुत्राभ्यां श्रीगोपीनाथविठ्ठलाभ्यां सहाष्टा-
क्षरदानेन निगददानेन च केनचिदपराधविशेषेण विनष्ट-
मतीन् अत एव गोलोकच्युतान् जीवानुद्दधारेति ॥ ५०॥

इति श्रीकृष्णसाम्यम् ॥ १९॥

यथा हलधरः श्रीमान् निजानन्दाब्धिमज्जितः ।
कृष्णसौख्यप्रयत्नात्मा रोहिण्यानन्दवर्धनः ॥ ५१॥

किञ्च-
निजभाण्डकारकाणामभीष्टदाताऽथ रेवतीश्रेष्ठः ।
श्रीपुष्टिमार्गसंस्थैः सद्भिः सेव्यो व्रजेशवन्नित्यम् ॥ ५२॥

तथायमपि वागीशो नामभिस्तत्सद्रक्षकैः ।
विख्यातस्त्रिषु लोकेषु कृष्णानुग्रहभोजनः ॥ ५३॥

आनन्दः परमानन्दः पूर्णानन्दो जगद्गुरुः ।
स्वानन्दतुन्दिलश्चेति इलम्मानन्दवर्धनः ॥ ५४॥

अदेयदानदक्षश्च श्रीअक्काप्राणवल्लभः ।
भक्तेच्छापूरकः कृष्णभक्तिकृन्निखिलेष्टदः ॥ ५५॥

इति हलधरसाम्यम् ॥ २०॥

अथ च यथा भगवान् बुद्धो देवकार्यार्थं सर्वान्
विनिन्द्य विश्ववैपरीत्यं कर्माचरन् सर्वान् दैत्यान्
मोहयामास तथयमपि भगवान् श्रीकृष्णाख्यः
प्राकृतानुकृतिव्याजमोहितासुरमानुषः इतिनामानु-
करणसम्पन्नो वैष्णवानां वैपरीत्यं कर्म प्रकाशयन्
निगूढहृदयत्त्वं च दर्शयन् सन्न्यासधारणमङ्गी-
कृत्यासुरस्य मोहलीलामाचचारेति ॥ ५६॥

इति बुद्धसाम्यम् ॥ २१॥

हयग्रीवो यथा नष्टवेदाविर्भावकारकः ।
तथायमपि वेदोक्तं नष्टमार्गमदशर्यत् ॥ ५७॥

इति हयग्रीवसाम्यम् ॥ २२॥

हंसो यथा च महतां पुत्राणां ब्रह्मणः पुरा ।
ज्ञानदः सम्बभूवेह ब्रह्मानुग्रहकारकः ॥ ५८॥

तथा महाप्रभुरपि महतां ज्ञानदोऽभवत् ।
हनुमत्सदृशानां च रामसन्तोषकारकः ॥ ५९॥

इति हंससाम्यम् ॥ २३॥

कल्किर्यथा कलेरन्ते जीवाज्ञानं विनाशयन् ।
भद्रप्रदश्च जीवानां सम्भविष्यति सर्वतः ॥ ६०॥

एवं वैश्वानरोऽपीशः कलिनष्टं च दुर्बलम् ।
पुष्टिमार्गं पुनः श्रीमान्द्योतयिष्यति निर्मलम् ॥ ६१॥

पुष्टिमार्गं तु भगवान् सर्वकाले तु रक्षति ।
पुत्रपौत्रादिरूपैश्च दुर्लभाङ्घ्रिसरोरुहः ॥ ६२॥

भूतेषु च भविष्येषु वर्त्तमानेष्वपीश्वरः ।
चतुर्युगेषु कृतभुग् मार्गं रक्षति रक्षति ॥ ६३॥

इति कल्किसाम्यम् ॥ २४॥

एवं सर्वावताराणां गुणकर्मपराक्रमान् ।
दधाति नितरां सन्तः श्रीमाँल्लक्ष्मणनन्दनः ॥ ६४॥

तस्मात्सर्वैर्वैष्णवैश्च त्रैलोक्ये विबुधेश्वरः ।
प्रकीर्तितः कृष्णरूपः श्रीपूर्णपुरुषोत्तमः ॥ ६५॥

अतः स एव संसेव्यो वैष्णवैः पापभीरुभिः ।
ध्यातव्यः स्मरणीयश्च तैलङ्गतिलकः प्रभुः ॥ ६६॥

आर्या-
अस्य श्रवणात्पाठात्प्रभवेत्पुंसामभेदत्वम् ।
श्रीमन्नन्दकुमारवाक्यत्योश्चापि नूनमुर्व्यां वै ॥ ६७॥

एतन्मदुदितं बालस्वभावाद्वंशवत्सलः ।
श्रीवल्लभाचार्यनामा प्रभुः क्षाम्यतु सर्वथा ॥ ६८॥

स्वकीयं श्रीवल्लभीयं मामानन्दनिधिर्हरिः ।
निःसाधनं च वृणुते स कृष्णः शरणं मम ॥ ६९॥

इति श्रीहरिदासविरचितं श्रीमहाप्रभुसर्वावतारसाम्यनिरूपणं
सम्पूर्णम् ।