श्रीदैन्याष्टकम्
श्रीकृष्ण गोकुलाधीश नन्दगोपतनूद्भव ।
यशोदागर्भसम्भूत मयि दीने कृपां कुरु ॥ १॥
व्रजानन्द व्रजावास व्रजस्त्रीहृदयस्थित ।
व्रजलीलाकृतं नित्यं मयि दिने कृपां कुरु ॥ २॥
श्रीभागवतभावार्थरसात्मन् रसिकात्मक ।
नामलीलाविलासार्थं मयि दीने कृपां कुरु ॥ ३॥
यशोदाहृदयानन्द विहिताङ्गणरिङ्गण ।
अलकावृतवक्त्राब्ज मयि दीने कृपां कुरु ॥ ४॥
विरहार्तिव्रतस्थात्मन् गुणगानश्रुतिप्रिय ।
महादैन्यदयोद्भूत मयि दीने कृपां कुरु ॥ ५॥
अत्यासक्तजनासक्त परोक्षभजनप्रिय ।
परमानन्दसन्दोह मयि दीने कृपां कुरु ॥ ६॥
निरोधशुद्धहृदय दयितागीतमोहित ।
आत्यन्तिकवियोगात्मन् मयि दीने कृपां कुरु ॥ ७॥
स्वाचार्यहृदयस्थायिलीलाशतयुतप्रभो ।
सर्वथा शरणं याते मयि दीने कृपां कुरु ॥ ८॥
॥ इति श्रीहरिदासविरचितं दैन्याष्टकं समाप्तम् ॥