चतुःश्लोकी २

चतुःश्लोकी २

निजाचार्येषु सततं मनस्तत्प्रियसूनुषु ।
स्थापनीयं न चान्येषु सममत्या कदाचन ॥ १॥

विधेया कृष्णसेवैव स्वमार्गेण स्वभावतः ।
अन्याश्रयः परित्याज्यो ह्यसमर्पितभक्षणम् ॥ २॥

स्वमार्गे वसतामेव सतां सङ्गो विधीयताम् ।
मनसा नाऽसता कार्यो बलवद्बाधकत्वतः ॥ ३॥

निवेदनानुसन्धानं देहादेरन्ययोगतः ।
जातान्यथाभावबाधभावाय क्रियतां वशी ॥ ४॥

इति श्रीहरिदासोदिता चतुःश्लोकी समाप्ता ।