श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीनारायण ऋषिः - अनुष्टुप् छन्दः -
गोलोकनाथः कृष्णपरमात्मा देवता।
गोलोकनाथो१ गोविन्दो२ गोपिकाजनवल्लभः३
राधिकारमणो४ रम्यो५ राजीवदळलोचनः६ १७
करुणासागरः७ कृष्णः८ कामकोटिमनोहरः९
सर्व्वकर्त्ता१० सर्व्वहर्त्ता११ सच्चिदानन्दविग्रहः१२ १८
वेदवेद्यो१३ विराड्रूपो१४ विरिञ्चिहरवन्दितः१५
वैकुण्ठनिलयो१६विष्णुर्१७व्वासुदेवो१८ विराट्ध्वजः१९ १९
पयःपयोधिमद्ध्यस्थः२० पन्नगाधिपतल्पगः२१
सर्व्वभूतगुहावासः२२ सूर्येन्दुनयनः२३ स्वराट्२४ २०
शार्ङ्गधन्वा२५ शङ्खचक्रगदाम्बुजलसद्भुजः२६
श्रिताभीष्टदमन्दारः२७ शरण्यः२८ श्रीधराधवः२९ २१
नवनीलघनच्छायो३० नरनारायणात्मकः३१
मुमुक्षुसेव्यो३२ मायेशो३३ मुकुन्दो३४ मधुसूदनः३५ २२
मत्स्यरूपधरो३६ मायी३७ मनुरूपो३८ मनुस्तुतः३९
कठोरपृष्ठविधृतमन्दरः४० कमठाकृतिः४१ २३
हेलाधृतक्रोडतनु४२र्हिरण्याक्षनिहा४३ हरिः४४ अद्ध्वरात्मा४५ चलोद्धर्त्ता४६ऽच्युतो४७ऽनुपमवैभवः४८ २४
नरसिंहाकृति४९र्न्नादनिराकृतमहासुरः ५०
भक्तप्रह्लादवरदो५१ भवसागरतारकः५२ २५
वलभित्सहजो५३ वन्द्यो५४ वामनो५५ बलिदर्प्पहा५६
त्रिक्रमाक्रान्तभुवन५७स्त्रिदिवेड्य५८स्त्रिविक्रमः५९ २६
भगवान्६० भार्ग्गवो रामो६१ भीमकर्म्मा६२ भवप्रियः६३
दशास्यहन्ता६४ दुर्द्धर्षो६५ रामो दशरथात्मजः६६ २७
भव्यो६७ भरतशत्रुघ्नलक्ष्मणाग्रिमसोदरः६८ वसिष्ठविश्वामित्रादिगुर्व्वाज्ञापरिपालकः६९ २८
जानकीमानसोल्लासी७० जटायुस्वर्ग्गदायकः७१
वैवस्वतसखो७२ बालिहन्ता७३ वायुसुतप्रियः७४ २९
शबरीसल्कृतिप्रीतः७५ शाखामृगसहायवान्७६
रोहिणीनन्दनो रामो७७ रेवतीप्राणवल्लभः७८ ३०
सूरजाभेदनः७९ सीरमुसलाद्युद्यदायुधः ८०
देवकीनन्दनो८१ दामोदरो८२ दरविनाशनः८३ ३१
वृन्दावनचरो८४ वत्सबकाघाद्यसुरान्तकः८५
योगेशो८६ यादवाधीशो८७ यशोदानन्दनन्दनः८८ ३२
गोप्ता८९ गोवर्द्धनोद्धर्त्ता९० गुर्व्वभीष्टप्रदायकः९१
काळियाहीन्द्रदर्प्पघ्नः९२ कलेशः९३ कालनेमिहा९४ ३३
विदुरोद्धवभीष्मादिवन्द्यो९५ बाणमदापहः९६
पाकारिनन्दनसखः९७ पाकशासनशासकः९८ ३४
सुदामसब्रह्मचारी९९ सीरपाणिसहोदरः१००
भैष्म्याद्यष्टाधिकद्व्यष्टसहस्रस्त्रीवरेश्वरः१०१ ३५
सद्गीयमानसत्कीर्त्तिः१०२ सत्यकामः१०३ सताङ्गतिः१०४
पुराणपुरुषः१०५ पूर्ण्णः१०६ पावनः१०७ परमेश्वरः१०८ ३६