प्रथमोद्ध्यायः
व्यास उवाच-
उल्प्पत्तिस्थितिनाशेषु रजस्सत्वतमोजुषे
अगुणाय महातापनाशनायात्मने नमः १
ऋषिमङ्गिरसं कौत्सः कदाचित् साधु पृष्टवान्
कलिं दुर्व्विषहं लोकः कथं लघु तरिष्यति २
तदा खलु पुराणानां प्रचारो वा भवेदपि
तांस्तांश्च महतो ग्रन्थान् श्रोतुं कश्शक्नुयाज्जनः ३
अङ्गिर उवाच-
ज्ञानेनात्मनि पश्यामि तव प्रश्नस्य निर्ण्णयम्
व्यासवाक्येन तल्सर्व्वं वक्ष्यामि श्रुणु साम्प्रतम् ४
व्यास उवाच-
पावनीमिलिता यत्र गङ्गा यमुनया सह
तत्र पुण्यतमे देशे कदाचिदृषिसत्तमाः ५
तपोनिरस्तदुरिता दयावन्तस्सुनिर्म्मला
जगतां हितमिच्छन्तस्सततं व्रतशालिनः ६
कलिदोषप्रशमनं निःश्रेयसकरं परम्
बहुवत्सरनिर्व्वर्त्यं महासत्रं वितेनिरे ७
समस्तदुरितच्छेदि भवामयमहौषधम्
सर्व्वलोकहितं बुद्ध्वा वर्त्तमानं तदद्भुतम् ८
शिष्यो महर्षेर्व्यासस्य सूतः सर्व्वपुराणवित्
कौतुकादागतस्तत्र दिद्यक्षुर्म्मुनिमण्डलम् ९
ते च तत्र समायान्तं मुनयो हर्षतुन्दिला
निरीक्ष्य सत्वरतराः सदकुर्व्वत साधु तम् १०
प्रगृह्य च समासीनं सपर्यां प्रीतमानसम्
प्रोचुश्च मुनिवर्यास्ते वचनं विनयान्विताः ११
ऋषय ऊचुः
हे सूत स्वागतं तेस्तु सुदिनं जातमद्य नः
धन्याश्च वयमेते त्वं सहसा यदिहागतः १२
व्यासस्य प्रियशिष्यत्वाद्विचित्राणां त्वमाकरः
कथानां चारुमहसां मणीनामिव सागरः १३
यच्च भूतं यच्च भावि वर्त्तमानं च भाति यत्
त्वया नाविदितं किञ्चिदस्ति लोकेषु साम्प्रतम् १४
अस्मद् भाग्यमहिम्नैव सम्प्रत्यागतवानसि
शुभाशुभेद्य लोकानां श्रोतव्यं किञ्चिदस्ति नः १५
कलाविह युगे घोरे सम्प्राप्ते दुरिताकरे
वर्णाश्रमाचाररिपौ विष्णुभक्तिविघातिनि १६
कुकर्म्मनिरतो नित्यं स्वार्त्थपूरणतल्परः
निपतेन्निरये लोको नैति जातु परां गतिम् १७
न कोपि सुकृतं कर्त्तुं शक्नोति कलिवैभवाद्
अतः किमत्र नः कार्यं वक्तव्यं तदिदं त्वया १८
श्री सूत उवाच-
सदृशं भवतामेतज् जगतां हितमिच्छताम्
कदाचिज् ज्ञातमप्यर्त्थं परं पृच्छन्ति पण्डिताः १९
यदर्त्थमनुयुक्तोहमिदं साधु वदामि वः
श्यणुतावहितास्सन्तस्संशयानां निरस्तये २०
अस्ति भागवतं नाम पुराणं गुरुणा कृतम्
निःश्रेयसकरं सन्तः कलौ कलुषचेतसाम् २१
समेपि यान्ति तच्छ्ऱुत्वा सप्ताहेन परां गतिम्
तन्नान्वेष्टव्यमपरं सत्यस्मिन् सर्व्वसिद्धिदे २२
सहस्रब्रह्महा वापि यच्छ्ऱुत्वा याति सद्गतिम्
तन्नान्वेष्टव्यमपरं सत्यस्मिन् सर्व्वसिद्धिदे २३
ऋषय ऊचुः-
यदभ्यधायि भवता सत्यमेतन्न संशय
इदमेवात्र पर्याप्तं लोकानां शिवसिद्धये २४
किन्तु कालेन कियता कलौ प्रबलतां गते
भविष्यन्ति जनास्सर्वे ललनामद्यतत्पराः २५
परापकारनिरताः परदारापहारिणः
विमुक्तस्वकुलाचारा नास्तिकाः पण्डितब्रुवाः २६
अनधीतागमा व्यग्राश्चपला मारकिङ्कराः
सत्क्कर्म्मविमुखाः पापा विष्णुभक्तिविवर्जिताः २७
पुरातनं कविकुलं हसन्तो मन्दबुद्धयः
श्रुतिस्मृतिपुराणानि निन्दन्तो निरपत्रपाः २८
कुकर्म्मनिरतास्सन्तो नरकादपि निर्भया
भूमेर्भारायमाणाश्च भ्रमिष्यन्ति ततस्ततः २९
विस्तीर्ण्णमर्त्थबहुळमिदं भागवतं तदा
श्रोतुं जना न शक्ष्यन्ति निखिलेनाकुलाशयाः ३०
अतः किमत्र कर्त्तव्यं तदा श्रेयस्करं नृणाम्
लघु चान्यदशक्यं वा विधातुं सर्व्वमुच्यताम् ३१
सूत उवाच-
इदमेव भृशं नास्ति परं परमपावनम्
विधातुं किञ्चिदन्यत्तु गुरुणापि न शक्यते ३२
तथापि मुनयश्चित्ते चिन्तां कुरुत मा चिरम्
यतस्स भगवानेव पातीदं सचराचरम् ३३
इदमेव सुसङ्क्षिप्तं व्यासः काले करिष्यत्य्
एकाहेनैव सकलं श्रोतुं शक्यं यथा जनैः ३४
नारायणेन विभुना तथाज्ञप्तस्स मद्गुरुर्
अतो भवत्भिरधुना विचारो न विधीयताम् ३५
यदा धर्म्मः क्षयं याति वृद्धिमेति तथेतरस्
तदा तु भगवानत्र किं न तं पाति शाश्वतम् ३६
ऋषय ऊचुः
सूत सूत महाभाग व्यासशिष्य दयानिधे
न यामस्तृप्तिमधुना ततस्सर्व्वं वदस्व नः ३७
मन्दा नयन्ति तं कालं चिन्तयैव दुरन्तया
अमन्दा हि कथां साधु शृण्वन्तस्सज्जनोदिताम् ३८
नारायणस्स भगवान् मुनिं सत्यवतीसुतम्
आदिष्टवान् यथा तच्च श्रोतुं कौतुकमस्ति नः ३९
सूत उवाच
भवद्भिः साधु पृष्टं तत् कार्त्स्न्येनैव वदामि वः
पृच्छतामेव वक्तव्यमिति मे गुरुणोदितम् ४०
वन्दमानं दयामूर्त्तिं व्यासमाहूय जातुचिन्
नारायणस्स भगवानुवाच प्राञ्जलिं वचः ४१
नारायण उवाच-
मुने भागवतं नाम पुराणं यत्त्वया कृतम्
मद्भक्तिजनकं पुण्यं मत्प्रीतिकरमुत्तमम् ४२
कलौ सल्क्कर्म्महीनानां सर्व्वसिद्धिकरं नृणाम्
सप्ताहेन श्रुतमिदं भविता नात्र संशयः ४३
उपबर्हणगन्धर्व्वः शापग्रस्तोभवत् पुरा
पश्चादिदं तु श्रुत्वैव सद्भ्यो मज्जनतां गतः ४४
कलौ पापमये चात्र भूयो मूर्च्छति विस्तृतम्
श्रोतुं न निखिलेनेदं शक्ष्यन्ति हतबुद्धयः ४५
अतो भवानेतदेव सङ्क्षिप्तं तन्तुमर्हति
विवशैरपि सम्पूर्ण्णं श्रुयेतैकाहतो यथा ४६
सहस्रोत्तरपद्याढ्यं नानावृत्तविराजितम्
प्रसादगुणसम्पन्नं यमकाद्यैरलङ्कृतम् ४७
मनःप्रह्लादनं सद्यः सरसं काव्यसम्मितं लळितैर्ल्लौकिकैश्शब्दैः कर्त्तव्यं भवताखिलम् ४८
पुराणसञ्ज्ञमेतत्तु स्तोत्रसञ्ज्ञं तदा भवेत्
कदा विधीयतामेतद् बाहुल्येन तदुच्यते ४९
चतुस्सहस्रे शरदां व्यतीते त्रिशताधिके
कलौ मत्कलया युक्तो निळातीरे द्विजान्वये ५०
ममैव नाम्ना विख्यातो भविष्यति भवान् पुनस्
तदा मयोक्तं कर्त्तव्यं वच्मि किञ्चिदपि स्फुटम् ५१
भुवमेत्य भवान्नूनं मम मायाविमोहितः
विज्ञोपि विषयी तत्र कालं कञ्चन नेष्यति ५२
तथापि सुबहून् ग्रन्थान् विद्वत्सूतमनःप्रियान्
रचयन् पवनव्याधिपीडितोथ भविष्यति ५३
ततो रामानुजाख्येन केरळेषु यशोवता
मद्भक्तेनोपदिष्ट्टस्त्वं मद्वाक्यं संस्मरिष्यसि ५४
ततो विना विळम्बेन पूते गुरुमरुत्पुरे
वसतो मेग्रतः स्थित्वा कुरु कार्यमिदं शुभम् ५५
नारायणाभिसम्बन्धाद् द्वेधा स्तोत्रमिदं महन्
नारायणीयमित्येव सर्व्वत्र विदितं भवेत् ५६
सर्व्वपापहरं पुण्यं कलौ कलुषितात्मनाम्
निःश्रेयसकरं चापि भविष्यति न संशयः ५७
सूत उवाच
इति श्रुत्वा मम गुरुः साक्षान्नारायणोदितम्
श्रोतुं च किञ्चित्तस्यैव तस्थौ प्राञ्जलिरग्रतः ५८
पृष्टं भवद्भिरधुना ननु सावधानै-
र्यत्तन्मया गुरुमुखश्रुतमीरितं वः ५९
एतावता तु भवतां यदि नाप्यलन्ता
पृच्छन्तु साधु मुनयः कथयामि सर्व्वम् ६०
इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये नारायणीयोल्पत्तिकथनं नाम प्रथमोद्ध्यायः ।