श्रीमन्नारायणीयमाहात्म्यम्
विस्तारः (द्रष्टुं नोद्यम्)
Typed/Transliterated by Mohan Chettoor
ध्यानम् - १
विश्वास-प्रस्तुतिः
श्रीमन्नारायणीये निहित-निज-तनुं नित्यमार्त्तिं हरन्तं
बालान् आनन्दयन्तं गुरु-पवन-पुराधीशम् आर्द्रान्तरङ्गम्
बाहुभ्यां धारयन्तं प्रियतर-नवनीतामृतं चात्मलीला-
पूर्णं ग्रन्थं च भान्तं जन-हृदय-नभश्-चन्द्रम् एकं भजे ऽहम् !
मूलम्
श्रीमन्नारायणीये निहितनिजतनुं नित्यमार्त्तिं हरन्तं
बालानानन्दयन्तं गुरुपवनपुराधीशमार्द्रान्तरङ्गम्
बाहुभ्यां धारयन्तं प्रियतर नवनीतामृतं चात्मलीला-
पूर्ण्णं ग्रन्थं च भान्तं जनहृदयनभश्चन्द्रमेकं भजेहम् !
ध्यानम् - २
विश्वास-प्रस्तुतिः
श्रीकृष्ण कमला-कान्त करुणा-वरुणालय
वयं त्वां शरणं यामो हर नो निखिलामयान्।
गुरु-रूप-महाभाग कथा-कथन-कोविद
कर्त्तव्यं बोधयित्वा नो जीवितं सफलं कुरु।
मूलम्
श्रीकृष्णकमलाकान्त करुणावरुणालय
वयं त्वां शरणं यामो हर नो निखिलामयान्।
गुरुरूपमहाभाग कथाकथनकोविद
कर्त्तव्यं बोधयित्वा नो जीवितं सफलं कुरु।