०७१


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥ ७११॥

मूलम्

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥ ७११॥

English (rAmasvAmI)

A close friend of Kamsa, a demon by name Kesi, who had never suffered defeat in any enterprise, approached Thee in the guise of a horse born in the land of Sindhu (Sind), thinking, as it were, that Thou wert easily accessible to anyone born of the Sindhu (ocean), like Goddess Lakshmi.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ ७१२॥

मूलम्

गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ ७१२॥

English (rAmasvAmI)

That wicked demon, though appearing in the form of a Gandharva (celestial musician) and also horse, made frightening noises and damaged the hamlets of the Gopas, until he saw Thee, and then, charged at Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ७१३॥

मूलम्

तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ७१३॥

English (rAmasvAmI)

That demon in the guise of Tharkshya, (horse) kicked on the chest, Thee, whose feet were placed on Tharkshya (Garuda), Thy vehicle. Perhaps having heard of the episode of Sage Bhrigu kicking Thee on the chest, he thought he too could do so with impunity.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् ।
संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ ७१४॥

मूलम्

प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् ।
संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ ७१४॥

English (rAmasvAmI)

Evading his kick, Thou didst immediately hurl him to a great distance. Though rendered unconscious for a moment, he soon rushed at Thee with increased rage, to eat Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ७१५॥

मूलम्

त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ७१५॥

English (rAmasvAmI)

Having decided to punish him, Thou didst thrust Thy arm, sturdy as a club, into that horse’s mouth, where it grew to an immense size, obstructing his breath, and choked him to death. Though he was only a horse (Sapthi, which also means ‘seven’), he attained oneness with Thee (liberation).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥ ७१६॥

मूलम्

आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥ ७१६॥

English (rAmasvAmI)

By killing that horse (the sacrificial animal in the Aswamedha Yajna), Thou didst perform a new kind of Aswamedha (shorn of its rituals). The celestials, in their delight at Thy deed, praised Thee by Thy new appellation, “Kesava” (slayer of Kesi).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ ७१७॥

मूलम्

कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ ७१७॥

English (rAmasvAmI)

Narada, who had dissuaded Kamsa when he was on the point of killing Vasudeva on his being apprised (by Narada) that Thou wert Vasudeva’s son, came to Gokula soon after the killing of Kesi, and extolled Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ७१८॥

मूलम्

कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ७१८॥

English (rAmasvAmI)

Once, when Thou wert playing the game of “hide-and-seek” with the Gopas in the forest, Vyoma, son of Maya (architect of Asuras), possessed of unlimited magical powers and an enemy of the celestials, approached Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ७१९॥

मूलम्

स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ७१९॥

English (rAmasvAmI)

Mingling with the Gopa boys, who had assumed (for the purpose of the game) the roles of thieves (some) and watchmen (some others), Vyoma, in the guise of a thief, confined some of the boys and cows in a cave, and blocked its entrance with rocks. Coming to know of this, Thou didst kill him.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः ॥ ७११०॥

मूलम्

एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः ॥ ७११०॥

English (rAmasvAmI)

O Supreme Lord of Guruvayur, may Thou, who didst, every now and then, enhance the incomparable and unlimited joy of the people of Vraja by Thy manifold, marvellous, sportive exploits, deign to protect me.