०६४


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ ६४१ ॥

मूलम्

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ ६४१ ॥

English (rAmasvAmI)

Considering Thy superhuman deeds, such as the lifting of the Govardhana mountain, the Gopas were convinced about Thy being the Lord of the Universe Himself, and, hence, they asked Nanda repeatedly about Thy horoscope.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ ६४२॥

मूलम्

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ ६४२॥

English (rAmasvAmI)

Being apprised by Thy father (Nanda) of what Sage Garga had narrated to him earlier about Thy greatness, the Gopas’ respect and devotion to Thee increased manifold.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ ६४३ ॥

मूलम्

ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ ६४३ ॥

English (rAmasvAmI)

Then Indra, having realised the truth about Thee after his utter humiliation and being purged of his pride, approached Thee with reverence, bringing the divine cow, Kamadhenu (as an offering to Thee) and touching Thy lotus-feet with his jewelled crown, extolled Thy greatness.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ६४४ ॥

मूलम्

स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ६४४ ॥

English (rAmasvAmI)

The divine cow, Surabhi, then bathed Thee with the milk gushing out of her udders, due to her deep love for Thee, and anointed Thee with the name “Govinda “. Indra too, with great enthusiasm, bathed Thee in the waters of the celestial Ganga, brought by his elephant, Airavata.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः ।
नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ६४५ ॥

मूलम्

जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः ।
नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ६४५ ॥

English (rAmasvAmI)

On Thee, the Lord of the Three Worlds, being crowned as Lord of the Cows (Lord of Gokula), that land of Gokula did, on account of Thy glory, attain prosperity and status, unattainable even in heaven or Vaikunttha itself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६४६ ॥

मूलम्

कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६४६ ॥

English (rAmasvAmI)

Once, going for a bath in the river Yamuna at a very early hour (which is against the code), Thy father, Nanda, was led away to Varuna’s abode by an attendant of his, for this transgression. Thereupon, Thou didst pay a visit to the abode of that Lord of the Waters, to redeem Thy father, as Thy incarnation in human form had a definite purpose behind it, namely, to uphold Dharma.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥ ६४७ ॥

मूलम्

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥ ६४७ ॥

English (rAmasvAmI)

Being welcomed with great respect by Varuna (who was taken aback by Thy unexpected visit) and duly honoured by him, Thou didst reclaim Thy father and bring him home. This incident was, then, narrated by Nanda to his people.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ६४८ ॥

मूलम्

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ६४८ ॥

English (rAmasvAmI)

The Gopas, being firmly assured in their heart of hearts that Thou wert Hari Himself, thirsted for experiencing Thy state of Supreme Bliss. Thereupon, O All-pervading Lord ! Thou didst reveal to them that Supreme abode of Thine, unattainable to others.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥ ६४९ ॥

मूलम्

स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥ ६४९ ॥

English (rAmasvAmI)

O Infinite One ! That family of Gopas did, indeed, remain submerged for a long time in the ocean of Sat-Chit-Anand (Existence-Consciousness-Bliss-Absolute), and was, then, restored to their normal worldly state by Thyself alone.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

करबदरवदेवं देव कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात्परात्मा
पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥ ६४१०॥

मूलम्

करबदरवदेवं देव कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात्परात्मा
पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥ ६४१०॥

English (rAmasvAmI)

In which other incarnation, O Lord! Have Thy devotees been granted a vision of Thy unattainable Supreme Abode, as clearly as if it were a badara fruit (berry) in one’s palm? Without doubt, in Thy manifestation as a cowherd, Thou art, verily, the Supreme Soul. O Lord of Guruvayur! Protect me from my ailments.