०६१

विश्वास-प्रस्तुतिः

ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ ६११ ॥

मूलम्

ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ ६११ ॥

English (rAmasvAmI)

Thereafter, Thou, accompanied by the cowherd boys and herds of cattle, didst go to a distant forest, with the (undisclosed) intention of blessing a group of Brahmana womenfolk who were greatly devoted to Thee.

विश्वास-प्रस्तुतिः

ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ ६१२ ॥

मूलम्

ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ ६१२ ॥

English (rAmasvAmI)

Finding that the boys were exhausted by hunger and thirst in that uninhabited forest, Thou didst instruct them to approach a group of Brahmanas who were conducting a Yagna nearby, and ask for food.

विश्वास-प्रस्तुतिः

गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ६१३ ॥

मूलम्

गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ६१३ ॥

English (rAmasvAmI)

When the boys accordingly sought food from them in Thy name, those Brahmanas, though well-versed in the scriptures, ignored them altogether and failed to respond.

विश्वास-प्रस्तुतिः

अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ ६१४ ॥

मूलम्

अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ ६१४ ॥

English (rAmasvAmI)

The boys returned, depressed by the unsympathetic treatment at the hands of those Brahmanas. Is it any wonder that pure ritualists, totally devoid of devotion, behaved in this manner ?

विश्वास-प्रस्तुतिः

निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ६१५ ॥

मूलम्

निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ६१५ ॥

English (rAmasvAmI)

Thou didst then tell them, with a tender smile, to approach the wives of those Brahmanas and tell them of Thy presence in the vicinity and request for food, which they would certainly give, being very kindhearted.

विश्वास-प्रस्तुतिः

गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ ६१६ ॥

मूलम्

गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ ६१६ ॥

English (rAmasvAmI)

Greatly excited on hearing the mention of Thy name, those women, who were yearning for long to see Thee, rushed to Thee bearing all four varieties of victuals (chewables, drinkables, suckables and lickables), despite being obstructed by their husbands.

विश्वास-प्रस्तुतिः

विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ ६१७ ॥

मूलम्

विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ ६१७ ॥

English (rAmasvAmI)

With infinite joy, they perceived Thee standing with peacock-feathers quivering in Thy locks, bright ear ornaments reflected on Thy cheeks, meltingly tender looks and arms resting on a friend’s shoulder.

विश्वास-प्रस्तुतिः

तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ ६१८ ॥

मूलम्

तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ ६१८ ॥

English (rAmasvAmI)

One of the women, who was physically prevented by her husband from coming near Thee, meditated on Thee with intense devotion and, in an instant, attained salvation (union with Thee). How fortunate, indeed, she was !

विश्वास-प्रस्तुतिः

आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ ६१९ ॥

मूलम्

आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ ६१९ ॥

English (rAmasvAmI)

Having accepted their offer of food and blessed them, Thou didst send them back to their homes (which they had left unattended in their eagerness to see Thee) with instructions to attend to their wifely duties, and also removed any resentment towards them in the minds of their husbands.

विश्वास-प्रस्तुतिः

निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥ ६११० ॥

मूलम्

निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥ ६११० ॥

English (rAmasvAmI)

The Brahmanas, on reflection, realised their fault and also the signiificance of their wives’ devotion to Thee. O Lord of Guruvayur ! Dispel all my afflictions.