०५४

विश्वास-प्रस्तुतिः

त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ ५४१ ॥

मूलम्

त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ ५४१ ॥

English (Padmini)

Long ago, a sage called Soubhari, who wished to serve Thee, was doing penance, immersed in the waters of the river Kaalindi, for twelve years. During this time he became deeply attached to the shoals of fish, indulging in romantic sports, in the waters around him. Then, one day he saw Garuda, in person, in front of him.

विश्वास-प्रस्तुतिः

त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ ५४२ ॥

मूलम्

त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ ५४२ ॥

English (Padmini)

Thy vehicle, Garuda, the son of Triksha, started eating the fish as he was very hungry. Enraged by this sight, the sage cursed Garuda to lose his life, if he tried to eat any living creature again, in that region.

विश्वास-प्रस्तुतिः

तस्मिन्काले काइयः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ ५४३ ॥

मूलम्

तस्मिन्काले काइयः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ ५४३ ॥

English (Padmini)

Meanwhile, the serpent, Kaaliya, who was very vain of the deadly poison in his body, ate the portion of food allotted to the enemy of serpents (viz. Garuda). Overcome by anger, Garuda, who is a devotee of Thy lotus-like feet, attacked him with his wings and chased him. So Kaaliya took refuge in that part of the river Kaalindi, which was out of bounds for Garuda, due to the sage’s curse.

विश्वास-प्रस्तुतिः

घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ ५४४ ॥

मूलम्

घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ ५४४ ॥

English (Padmini)

The waters of the river Yamuna, in the portion inhabited by the dreadful Kaaliya, became contaminated by the viciousness of his deadly poison, destroying the trees on the river bank, and causing the flights of birds, overflying it, to fall down dead. By all these events, Thy mind was filled with mercy.

विश्वास-प्रस्तुतिः

काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥ ५४५ ॥

मूलम्

काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥ ५४५ ॥

English (Padmini)

Once, Thou had gone to the forest region, near the river Yamuna, without Balarama. The cows and cowherds, feeling intensely thirsty, due to the unbearable summer heat, drank the poisonous water of the river, Yamuna.

विश्वास-प्रस्तुतिः

नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ५४६ ॥

मूलम्

नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ५४६ ॥

English (Padmini)

Oh Achyuta ! Seeing them all collapsing lifeless, on the ground, Thou, full of compassion, cast the nectar of Thy glances on them and resuscitated them at once.

विश्वास-प्रस्तुतिः

किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ ५४७ ॥

मूलम्

किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ ५४७ ॥

English (Padmini)

Revived thus, the hosts of cowherds, got up, and feeling thrills of rapture all over their body, marvelled at the turn of events. Seeing Thee in front of them, and, perceiving that it was another miracle of Thine, since they had witnessed many such before, they warmly embraced Thee.

विश्वास-प्रस्तुतिः

गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ५४८ ॥

मूलम्

गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ५४८ ॥

English (Padmini)

Similarly, the cows too, which had regained their lives, instantly, full of delight at seeing Thee in front of them, rallied round Thee, expressing their gratitude, by shedding tears of joy and mooing in soft tones.

विश्वास-प्रस्तुतिः

रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।
आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ५४९ ॥

मूलम्

रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।
आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ५४९ ॥

English (Padmini)

Oh Mukunda ! The cowherds, with their hairs standing on end and the thrills of ecstasy vibrating through their body, could not find words to express their feelings. They thought it was due to the strange effect of the poison. They praised and thanked Thee profusely, with joy.

विश्वास-प्रस्तुतिः

एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि ।
तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ ॥ ५४१० ॥

मूलम्

एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि ।
तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ ॥ ५४१० ॥

English (Padmini)

In this manner, Thou art capable of reviving Thy devotees, even if they are dead, and nourishing them back to health, with Thy gracious glances. Oh Guruvayurappa of such boundless mercy ! May Thou guard me against illness.