०४२


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ ४२१ ॥

मूलम्

कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ ४२१ ॥

English (Padmini)

Oh Lord ! Once on Thy birth day, Yasoda, the queen of Vraja, had invited the womenfolk, relatives and Brahmins for a feast in her house. Leaving Thee near a big cart, she was busy in the kitchen, preparing the dishes and making arrangements to receive the guests.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ ४२२ ॥

मूलम्

ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ ४२२ ॥

English (Padmini)

Then from Thy proximity, there came the grating sound of crashing wood mingled with the confused and frightened shouts of the children, engaged to take care of Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ ४२३ ॥

मूलम्

ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ ४२३ ॥

English (Padmini)

Hearing these deafening sounds the womenfolk came racing with breasts heaving, due to their agitation and found Thee lying amidst the shattered pieces of wood, strewn all round.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ ४२४ ॥

मूलम्

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ ४२४ ॥

English (Padmini)

Nanda, the cowherds and the Brahmins came rushing there, with tears flowing down their eyes, wailing loudly about the child’s fate; seeing Thee safe in Yasoda’s hands, they sighed happily in relief.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ ४२५ ॥

मूलम्

कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ ४२५ ॥

English (Padmini)

Wonderstruck at who could have done this and what could have caused such a wide and big cart to shatter to pieces, they stood with fingers on their noses, looking at Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥ ४२६ ॥

मूलम्

कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥ ४२६ ॥

English (Padmini)

Oh Lord ! The children who had been taking care of Thee, averred that the baby, crying for breast milk, had kicked the cart with its beautiful lotus feet and thus the cart was upset and fell down and that they had all seen it happen.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ ४२७ ॥

मूलम्

भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ ४२७ ॥

English (Padmini)

The people assembled there knew little of Thy greatness. So they treated the children’s version of the episode as an outcome of their fear and ignorance, and dismissed it lightly as unlikely and unreliable. But those (like Nanda), who had seen Poothana, suspected that there may be something amiss.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ४२८ ॥

मूलम्

प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ४२८ ॥

English (Padmini)

The women of Vraja, full of solace, caressed Thy body, cooing softly, whether Thy coral-coloured red feet were hurt, or Thy lotus-like soft hands were bruised.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ ४२९ ॥

मूलम्

अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ ४२९ ॥

English (Padmini)

Thy father, requesting the Gopi to give him his son, who had been saved by the grace of the lord of the universe, embraced Thy little body repeatedly, with hairs standing on end, unable to control his emotions.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् ॥ ४२१० ॥

मूलम्

अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् ॥ ४२१० ॥

English (Padmini)

The demon who came in the disguise of a cart to kill Thee, was himself destroyed by Thee. How come even the dust of his body was not to be seen? Most certainly, he must have been absorbed in Thy Sublime Purity.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥ ४२११ ॥

मूलम्

प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥ ४२११ ॥

English (Padmini)

Oh Guruvayurappa ! May Thou who wert then showered with special auspicious blessings by highly revered Brahmins and May Thou who delighted Vraja with Thy childhood pranks, remove all my sorrows.