०४१


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ४११ ॥

मूलम्

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ४११ ॥

English (Padmini)

After listening to the ominous sayings of Vasudeva, the head of the cowherd clan, Nanda, was hurrying home with a heart full of apprehension. As he neared his house, he saw a huge apparition lying on the ground, with uprooted trees, fallen all round it. Fearing the worst, he took refuge in Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ४१२ ॥

मूलम्

निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ४१२ ॥

English (Padmini)

Hearing from their womenfolk, all that had happened, the cowherds were filled with amazement and fear. Then, chopping up the fearsome body, that Thou had flung down, they carried it far away and burnt it.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ ४१३ ॥

मूलम्

त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ ४१३ ॥

English (Padmini)

The fragrant fumes rising upward from her body, with its breast purified by Thy sucking, gave rise to doubt as to whether it was the perfume of agaru or sandal or guggulu . (Due to Thy divine touch, the smoke issuing from Poothana’s body became fragrant).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् ।
इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ ४१४ ॥

मूलम्

मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् ।
इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ ४१४ ॥

English (Padmini)

By imparting fragrance to Poothana’s body, Thou hinted to the wise cowherds that the fruit of Thy touch, was not far away, but easily accessible and it would soon be theirs too.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ४१५ ॥

मूलम्

चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ४१५ ॥

English (Padmini)

Marvelling that the infant was not killed by the demoness and that Vasudeva’s prediction had come true, the cowherds were overcome by the joy of seeing Thy face.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ ४१६॥

मूलम्

दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ ४१६॥

English (Padmini)

Oh Vaasudeva ! Owing to Thy living there, Gokula, grew more and more prosperous everyday. The joy and virtues of the people there was boundless.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ४१७ ॥

मूलम्

गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ४१७ ॥

English (Padmini)

The Gopis, talked delightedly only of Thy charming beauty and smile even while doing their household chores. After the day’s work was over, they came to see Thee and rejoiced greatly in Thy presence.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ ४१८ ॥

मूलम्

अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ ४१८ ॥

English (Padmini)

Oh Lord ! The gopis fondled and caressed Thee in numerous ways, vying with each other, claiming that the baby was looking or smiling only at each one of them in particular, and reaching out to lift Thee in their arms.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ४१९॥

मूलम्

भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ४१९॥

English (Padmini)

The gopis, ever eager to hold Thee in their arms, passed Thee round from hand to hand. Thou resembled a black bee, flitting from one flower to the other in a garland of red lotuses.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ ४११० ॥

मूलम्

निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ ४११० ॥

English (Padmini)

Oh Hari ! What immeasurable state of happiness Yasoda must have experienced as she held Thee in her lap, suckling Thee, seeing Thy smiling face ! Oh Guruvayurappa ! of such glory, May Thou protect me from disease.