विश्वास-प्रस्तुतिः
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ ३२१ ॥
मूलम्
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ ३२१ ॥
English (Padmini)
Very long ago, during the second deluge, at the end of the sixth Manwantara, the great demon Hayagreeva, stole the Vedas from the mouth (meaning the mind and memory) of Brahma, who was about to fall asleep. In order to retrieve the Vedas, Thou wished to assume the form of a fish.
विश्वास-प्रस्तुतिः
सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ ३२२ ॥
मूलम्
सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ ३२२ ॥
English (Padmini)
Thou manifested as a small, radiant fish, within the cupped palms of King Satyavrata, of Dramida, just as he was offering libations to his ancestors in the waters of the river.
विश्वास-प्रस्तुतिः
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ ३२३ ॥
मूलम्
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ ३२३ ॥
English (Padmini)
Oh Thou Omnipresent One ! Seeing Thee trembling as if in fear, when put back in the water, the royal sage took Thee home in his water bowl; in a few days time Thou grew in size to fill the water bowl and then to the size of a well, still again to the size of a tank and finally Thou wert big enough to fill a lake.
विश्वास-प्रस्तुतिः
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ ३२४ ॥
मूलम्
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ ३२४ ॥
English (Padmini)
Then at Thy own behest, the sage, by his yogic power, took Thee to the ocean. Perceiving that this fish form was a divine incarnation of Thine, the sage wished to see the deluge and requested Thy consent. Asking him to wait for seven days, Thou vanished.
विश्वास-प्रस्तुतिः
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ३२५ ॥
मूलम्
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ३२५ ॥
English (Padmini)
As promised by Thee, on the seventh day, the rains came and the entire earth was submerged in the waters of the deluge. The royal sage, along with the Saptharshis, being tossed and turned in the boundless waters, took refuge in Thee.
विश्वास-प्रस्तुतिः
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ३२६ ॥
मूलम्
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ३२६ ॥
English (Padmini)
Then by Thy command, the earth came there in the form of a boat and they climbed on to it, still trembling and frightened by the tossing and rolling of the boat. Then Thou appeared before them from the ocean in the form of a big fish.
विश्वास-प्रस्तुतिः
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः ॥ ३२७ ॥
मूलम्
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः ॥ ३२७ ॥
English (Padmini)
Seeing Thy fish form which was one lakh yojanas in length and exceedingly brilliant the sages were overjoyed and obeying Thy instruction, tied the boat to Thy lofty horn.
विश्वास-प्रस्तुतिः
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ३२८ ॥
मूलम्
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ३२८ ॥
English (Padmini)
Thou towed the boat in the flood waters, showing the group of sages all parts of the world, and roamed about, teaching the renowned sage the supreme knowledge of Self, while he was singing Thy praises.
विश्वास-प्रस्तुतिः
कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ३२९ ॥
मूलम्
कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ३२९ ॥
English (Padmini)
As the kalpa neared its end, Thou reinstalled the seven sages in their respective places and appointed King Satyavrata as Vaivaswatha Manu for the next Manvantara. Then with rage, Thou went after Hayagreeva.
विश्वास-प्रस्तुतिः
स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ ३२१० ॥
मूलम्
स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ ३२१० ॥
English (Padmini)
With Thy lofty horn, Thou tore apart the demon’s breast, struck him down and retrieved the Vedas. Thou presented them to Brahma, who was filled with joy. Oh Gurvayurappa ! May Thou protect me.