विश्वास-प्रस्तुतिः
इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ २६१ ॥
मूलम्
इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ २६१ ॥
English (Padmini)
Indradyumna, the king of the land of Pandya, was a staunch devotee of Thee. Once, when he was engaged deeply in worshipping Thee, in the Malaya mountain, Sage Agastya, came there, expecting to be welcomed as an honoured guest by the king; but the king, his mind fully immersed in Thee, did not notice the sage at all.
विश्वास-प्रस्तुतिः
कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ २६२ ॥
मूलम्
कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ २६२ ॥
English (Padmini)
Sage Agastya, overcome by rage, cursed him to become an elephant of inferior intellect, for his arrogance, and went away. The king became the lord of elephants, but was graced with Thy remembrance as he had been thinking of Thee, when he was cursed thus.
विश्वास-प्रस्तुतिः
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।
सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ २६३ ॥
मूलम्
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।
सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ २६३ ॥
English (Padmini)
This king of elephants was engaged in romantic sports with the female elephants in the Trikuta mountain, situated in the middle of the ocean of milk, and was superior in strength to all other animals. Oh Lord, Thy devotees attain glory, wherever they go.
विश्वास-प्रस्तुतिः
स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ २६४ ॥
मूलम्
स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ २६४ ॥
English (Padmini)
Owing to the divinity of the place and his own natural strength, this elephant lord knew no hardship here. Yet, once, by Thy impulsion, being scorched by the heat of summer, he was playing with the other elephants, beside a lake on the mountain slope.
विश्वास-प्रस्तुतिः
हूहूस्तावद्देवलस्यापि शापत् ग्राहीभूतस्तज्जले वर्तमानः ।
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ २६५ ॥
मूलम्
हूहूस्तावद्देवलस्यापि शापत् ग्राहीभूतस्तज्जले वर्तमानः ।
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ २६५ ॥
English (Padmini)
At that time, a gandharva, named Huhu, having become a crocodile, due to the curse of Sage Devala, was present there. This crocodile caught hold of the elephant’s foot. Oh Lord, in order to give ultimate peace to Thy devotees, Thou tests them by putting them through trial and tribulation.
विश्वास-प्रस्तुतिः
त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ २६६ ॥
मूलम्
त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ २६६ ॥
English (Padmini)
Gajendra, (in his previous birth), due to the glory of Thy worship, had been continuously engaged in conflict, for a thousand years. Now, when the time had come for him, to attain liberation at Thy feet, Thou caused him to be afflicted by the crocodile.
विश्वास-प्रस्तुतिः
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् ।
पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन् ॥ २६७ ॥
मूलम्
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् ।
पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन् ॥ २६७ ॥
English (Padmini)
Oh Supreme Soul ! In his time of distress, Gajendra, remembered his devotion and knowledge of the previous birth; he began to worship Thee, offering lotuses with his trunk held aloft, and chanting the best of hymns, learnt by him in the past birth, extolling Thy Unqualified Supreme form.
विश्वास-प्रस्तुतिः
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ २६८ ॥
मूलम्
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ २६८ ॥
English (Padmini)
On hearing the entire hymn, describing the Unqualified nature of the Universal Being, Gods Brahma, Siva and others, knowing that it did not refer to them, did not come there. But Thou, who art all knowing, manifested before him, seated on Garuda, impelled by Thy flow of mercy.
विश्वास-प्रस्तुतिः
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ २६९ ॥
मूलम्
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ २६९ ॥
English (Padmini)
Then holding Gajendra in Thy lotuslike hand, Thou tore apart the ferocious crocodile, with Thy disc. The Gandharva, was then liberated from his curse and the elephant attained oneness with Thee, transcending all.
विश्वास-प्रस्तुतिः
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ २६१० ॥
मूलम्
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ २६१० ॥
English (Padmini)
Oh All pervading Lord, According to Thee, whoever sings this episode of Gajendra Moksham, at dawn and chants the name of Gajendra and Thee, will attain all wealth and prosperity. Having said this, Thou departed for Vaikunta, along with him. Oh Guruvayurappa ! May Thou protect me.