शिशुपालवधम्

०१ कृष्ण-नारद-संभाषणं

श्रियः पतिः श्रीमति शासितुं जगज्
जगन्-निवासो वसुदेव-सद्मनि ।
वसन् ददर्शावतरन् तमम्बराद्
+हिरण्य-गर्भाङ्ग-भुवं मुनिं हरिः ॥१॥
गतं तिरश्चीनम् अनूरु-सारथेः
प्रसिद्धम् ऊर्ध्व-ज्वलनं हविर्भुजः ।
पतत्य् अधो धाम विसारि सर्वतः
किमेतद् इत्य् आकुलम् ईक्षितं जनैः ॥२॥
चयस् त्विषाम् इत्य् अवधारितं पुरा
ततः शरीरीति विभाविताकृतिम् ।
विभुर् विभक्तावयवं पुमान् इति
क्रमाद् अमुं नारद इत्य् अबोधि सः ॥३॥
नवानधो ऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥४॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥६॥
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव ॥७॥
निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसब्दिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥८॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभ्रान्तमच्छस्फटिकाक्षमालया ॥९॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥१०॥
निवर्त्य सो ऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥११॥
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरो ऽस्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥१२॥
अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥१३॥
तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥१४॥
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत् ॥१५॥
महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसो ऽभिरामताम् ॥१६॥
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥१७॥
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥१८॥
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥१९॥
स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥२०॥
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥२१॥
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥२२॥
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥२३॥
निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटो ऽभवत् ॥२४॥
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥२५॥
हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥२६॥
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसङ्ख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥२७॥
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे ऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसम्पदामिव ॥२८॥
विलोकनेनैव तवामुना मुने कृतः कृतार्थो ऽस्मि निबर्हितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन तृप्यते ॥२९॥
गतस्पृहो ऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥३०॥
इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥३१॥
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ॥३२॥
उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥३३॥
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥३४॥
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरैः करोत्यधः ॥३५॥
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥३६॥
निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥३७॥
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥३८॥
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥३९॥
प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥४०॥
तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥४१॥
अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥४२॥
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् ।
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत ॥४३॥
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥४४॥
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥४५॥
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥४६॥
सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥४७॥
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥४८॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरो ऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥४९॥
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससम्भ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥५०॥
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥५१॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥
अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥५३॥
बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरम् ॥५४॥
विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥५५॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥५६॥
परेतभर्तुर्महिषो ऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते ऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः ॥५७॥
स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघर्मघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥५८॥
कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यमकारि नेन्दुना ॥५९॥
विदग्धलीलोचितदन्तपत्रिका विधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥६०॥
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुष लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥६१॥
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसा महीसाम् ।
बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥६२॥
परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥६३॥
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः ॥६४॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥६५॥
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकॢप्तिं दधतः सदर्तवः पुरे ऽस्य वास्तव्यकुटुम्बितां ययुः ॥६६॥
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः ॥६७॥
स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥६८॥
अथोपपत्तिं छलनापरो ऽपरामवाप्य शैलूष इवैष भूमिकाम् ।
तिरोहितात्मा शिशुपालसञ्ज्ञया प्रतीयते सम्प्रति सो ऽप्यसः परैः ॥६९॥
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः ॥७०॥
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥७१॥
बलावलेपादधुनापि पूर्ववत्प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥७२॥
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥७३॥
हृदयमरिवधोदयादुदूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥७४॥
ओमित्युक्तवतो ऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥७५॥
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।

०२ मन्त्रवर्णनम्

अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥१॥
सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥२॥
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥३॥
रत्नस्तम्भेषु सङ्क्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनो ऽपि परितः पौरुषेयवृता इव ॥४॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केशरिक्रान्तत्रिकूटशिखरोपमा ॥५॥
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥६॥
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥७॥
भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥८॥
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यस्मदलम्भूष्णुरिज्यायै तपसः सुतः ॥९॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥१०॥
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥११॥
मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारो ऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि ॥१२॥
यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥१३॥
ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥१४॥
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥१५॥
घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥१६॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥१७॥
दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्विषद्द्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥१८॥
प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥१९॥
ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥२०॥
जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२१॥
यद्वासुदेवेनादीनमनादीनवमीरितम् ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥२२॥
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् ॥२३॥
सङ्क्षिप्तस्याप्यतो ऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥२४॥
विरोधिवचसो मूकान्वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥२५॥
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसो ऽप्यलम् ॥२६॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥२७॥
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥२८॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥२९॥
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥३०॥
तृप्तियोगः परेणापि महिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तो ऽत्र महार्णवः ॥३१॥
सम्पदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥३२॥
समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥३३॥
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥३४॥
ध्रियते यावदेको ऽपि रिपुस्तावत्कुतः सुखम् ।
पुरः क्लिश्नाति सोमं हि सैंहिकेयो ऽसुरद्रुहाम् ॥३५॥
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्त्रे च सहजप्राकृतावपि ॥३६॥
उपकर्त्रारिणा सन्धिर्न मित्त्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥३७॥
त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥३८॥
त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥३९॥
आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः ॥४०॥
विराद्ध एवं भवता विराद्धा बहुधा च नः ।
निर्वर्त्यते ऽरिः क्रियया स श्रुतश्रवसः सुतः ॥४१॥
विधाय वैरं सामर्षे नरो ऽरौ य उदासते ।
प्रक्षिप्योदर्चिषं कक्षे शेरते ते ऽभिमारुतम् ॥४२॥
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥४३॥
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥४४॥
माजीवन्यः परावज्ञादुःखदग्धो ऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥४५॥
पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने ऽपि देहिनस्तद्वरं रजः ॥४६॥
असम्पादयतः कञ्चिदर्थं जातिक्रियागुणैः ।
यदृच्छाशब्दवत्पुंसः सञ्ज्ञायै जन्म केवलम् ॥४७॥
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥४८॥
तुल्ये ऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥४९॥
स्वयं प्रणमते ऽल्पे ऽपि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥५०॥
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥५१॥
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् ।
कथङ्कारमनालम्बा कीर्तिर्द्यामधिरोहति ॥५२॥
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केशरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥५३॥
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥५४॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥५५॥
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसञ्ज्ञिताः ॥५६॥
स्वशक्त्युपचये केचित्परस्य व्यसने ऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥५७॥
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥५८॥
विजयस्त्वयि सेनायाः साक्षिमात्रे ऽपदिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥५९॥
हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्त्रव्यसनी सुदमो दमघोषजः ॥६०॥
नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥६१॥
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥६२॥
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥६३॥
निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥६४॥
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥६५॥
प्राप्यतां विद्युतां सम्पत्सम्पर्कादर्करोचिषाम् ।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥६६॥
इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥६७॥
निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दृशा ॥६८॥
भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥६९॥
सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारिते ऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥७०॥
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥७१॥
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥७२॥
बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥७३॥
म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥७४॥
विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥७५॥
प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसम्पदः ॥७६॥
सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥७७॥
स्पृशन्ति शरवत्तीक्ष्णास्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥७८॥
आरभन्ते ऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥७९॥
उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थो ऽपि शयालुर्मृगयुर्मृगान् ॥८०॥
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥८१॥
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरुषः को ऽपि पार्थिवः ॥८२॥
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभावविदः कवेः ॥८३॥
कृतापचारो ऽपि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥८४॥
मृदुव्यवहितं तेजो भोक्तुमर्थान्प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥८५॥
नालम्बते दैष्टिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥८६॥
स्थायिनो ऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥८७॥
तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥८८॥
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥८९॥
अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः ।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥९०॥
अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥९१॥
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥९२॥
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम् ।
भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥९३॥
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् ।
अयथाबलमारम्भो निदानं क्षयसम्पदः ॥९४॥
तदीशितारं चेदीनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥९५॥
मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥९६॥
सम्पादितफलस्तेन सपक्षः परभेदनः ।
कार्मुकेणेव गुणिना बाणः सन्धानमेष्यति ॥९७॥
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्ते ऽप्येनं प्रदोषमनुयायिनः ॥९८॥
उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पो ऽपि साग्नीनेधानिवानिलः ॥९९॥
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥१००॥
तस्य मित्त्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥१०१॥
मखविघ्नाय सकलमित्थमुत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥१०२॥
सम्भाव्य त्वामतिभरक्षमस्कन्धं स बान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते ॥१०३॥
महात्मानो ऽनुगृह्णन्ति भजमानान्रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥१०४॥
चिरादपि बलात्कारो बलिनः सिद्धये ऽरिषु ।
छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः ॥१०५॥
मन्यसे ऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम् ॥१०६॥
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥१०७॥
सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया ।
प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥१०८॥
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ॥१०९॥
स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।
समयावधिमप्राप्य नान्तायालं भवानपि ॥११०॥
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदाङ्कुर्वन्तु महतस्तलं विद्विषदम्भसः ॥१११॥
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥११२॥
अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥११३॥
उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥११४॥
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥११५॥
य इहात्मविदो विपक्षमध्ये
सह संवृद्धियुजो ऽपि भूभुजः स्युः ।
बलिपुष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता तैः ॥११६॥
सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥११७॥
इति विशकलितार्थामौद्धवीं वाचमेना-
मनुगतनयमार्गामर्गलां दुर्नयस्य ।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरः-
स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥११८॥
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीणः ।

०३ यात्रावर्णनम्

अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥१॥
जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभराम्बभूवे ॥२॥
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः ।
भेजे ऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥३॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥४॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥५॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥६॥
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥७॥
उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥८॥
तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥९॥
मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥१०॥
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्चूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥११॥
प्रसाधितस्यास्य मधुद्विषो ऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषे ऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥१२॥
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥१३॥
प्राणच्छिदा दैत्यपतेर्नखानामुषेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ॥१४॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।
ननाम मध्यो ऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥१५॥
यां यां प्रियः प्रैक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जग्मरमुं कटाक्षैः ॥१६॥
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥१७॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥१८॥
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको ऽभूत् ॥१९॥
न नीतमन्येन नतिं कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्त्रमिव द्रढीयः ॥२०॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥२१॥
रराज सम्पादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥२२॥
ध्वजाग्रधामा ददृशे ऽथ शौरेः सङ्क्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ॥२३॥
यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान्पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तरान्यन्तरयाञ्चकार ॥२४॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो ऽधः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥२५॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् ॥२६॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥२७॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥२८॥
निरुध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।
ध्रुवं गुरून्मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥२९॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान्रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान्पथिभ्यः ॥३०॥
दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥३१॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभिः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥३२॥
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥३३॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥३४॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥३५॥
रथाङ्गभर्त्रे ऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥३६॥
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो ऽन्वहमन्वकारि ॥३७॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥३८॥
अम्भश्च्युतः कोमलरत्नराशीनपान्निधिः फेनपिनद्धभासः ।
यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः ॥३९॥
यच्छालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्मिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्यासगतैर्विलिल्ये ॥४०॥
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥४१॥
यदङ्गनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः ।
आराधितो ऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥४२॥
स्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्यराजन् ॥४३॥
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।
उच्चैरधःपातिपयोमुचो ऽपि समूहमूहुः पयसां प्रणाल्यः ॥४४॥
रतौ ह्रिया यत्र निशाम्य दीपाञ्जालागताभ्यो ऽधिगृहं गृहिण्यः ।
बिभ्युर्विडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥४५॥
यस्यामति श्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥४६॥
सावर्ण्यभाजा प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥४७॥
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥४८॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः ॥४९॥
बृहद्बलैरप्यतुलैर्वितानमालापिनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥५०॥
चिक्रंसया कृत्रिमपत्त्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥५१॥
क्षितिप्रतिष्ठो ऽपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ॥५२॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥५३॥
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥५४॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन्वयसां गणो ऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥५५॥
छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतो ऽपि ॥५६॥
यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयो ऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये ऽप्यमुच्यन्त विनीतमार्गाः ॥५७॥
परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥५८॥
क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदैव ।
अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसो ऽप्यगम्याः ॥५९॥
कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः ।
यां रेवतीजानिरियेष हातुं न रौहिणेयो न च रोहिणीशः ॥६०॥
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासाद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥६१॥
निषेव्यमाणेव शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥६२॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ॥६३॥
तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥६४॥
प्रजा इवाङ्गादरविन्दनाभेः शम्भोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥६५॥
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः ॥६६॥
निरन्तराले ऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसम्बाधमयाम्बभूवे ॥६७॥
शनैरनीयन्त रयात्पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ॥६८॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥६९॥
पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥७०॥
लक्ष्मीभृतो ऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः ।
लतावधूसम्प्रयुजो ऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥७१॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥७२॥
पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिं गते ऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचो ऽधिवेलं मुक्तावलीराकलयाङ्कार ॥७३॥
साटोपमुर्वीमविशं नदन्तो यैः प्लावयिष्यन्ति समन्ततो ऽमी ।
तान्येकदेशान्निभृतं पयोधेः सो ऽम्भांसि मेघान्पिबतो ददर्श ॥७४॥
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव सम्प्रणीताः ।
आलोकयामास हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥७५॥
विक्रीय दिश्यानि धनान्युरूणि दैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतो ऽभ्यनन्दत् ॥७६॥
उत्पित्सवो ऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥७७॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥७८॥
उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः स्वेदलवान्ममार्ज ।
तस्यानुवेलं व्रजतो ऽधिवेलमेलालतास्फालनलब्धगन्धः ॥७९॥
उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥८०॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥८१॥
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥८२॥
निःश्वासधूमं सह रत्नभाभिर्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।

०४ रैवतकवर्णनम्

नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥१॥
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुर्मार्गं पुना रोद्धुमिवोन्नमद्भिः ॥२॥
क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ।
श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥३॥
सहस्रसङ्ख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥५॥
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥६॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥७॥
विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥८॥
राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥९॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥१०॥
यतः परार्ध्यानि भृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि ।
आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥११॥
अखिद्यतासन्नमुदग्रतापं रविं दधाने ऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥१२॥
यत्राधिरूढेन महीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥१३॥
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥१४॥
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥१५॥
फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां सङ्क्रान्तिमाक्रान्तगुणातिरेकाम् ॥१६॥
दृष्टो ऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥१७॥
उच्चारणज्ञो ऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच ॥१८॥
आच्छादितायतदिगम्बरमुच्चकैर्गा-
माक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्नि स्खलत्तुहिनदीधितिकोटिमेन-
मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥१९॥
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥२०॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥२१॥
पाश्चात्यभागमिह सानुषु सन्निषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
सम्पूर्णलब्धललनालपनोपमान-
मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥२२॥
कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्वाणमत्र ॥२३॥
स्थगयन्त्यमूः शमितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिह स्फुरितचारुचामीकराः
सवितुः क्वचित्कपिशयन्ति चामी कराः ॥२४॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतीवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥२५॥
एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसो ऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥२६॥
इतस्ततो ऽस्मिन्विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥२७॥
उच्चैर्महारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारे-
रुद्वह्निलोचनललामललाटलीलाम् ॥२८॥
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥२९॥
धूमाकारं दधति पुरः सौवर्णे
वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहे ऽलीनां
लीनामालीमिह तरवो बिभ्राणाः ॥३०॥
व्योमस्पृशः प्रथयता कलधौतभित्ती-
रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभा-
मेतेन भारतमिलावृतवद्विभाति ॥३१॥
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विविधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥३२॥
कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः ॥३३॥
आसादितस्य तमसा नियतेर्नियोगा-
दाकाङ्क्षतः पुनरपक्रमणेन कालम् ।
पत्युस्त्विषामिह महौषधयः कलत्र-
स्थानं परैरनभिभूतममूर्वहन्ति ॥३४॥
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥३५॥
विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥३६॥
विद्वद्भिरागमपरैर्विवृतं कथञ्चि-
च्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं
गूढार्थमेष निधिमन्त्रगणं बिभर्ति ॥३७॥
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्र-
श्चुम्बन्तं मुखमिह किन्नरं प्रियायाः ।
श्लिष्यन्तं मुहुरितरो ऽपि तं निजस्त्री-
मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥३८॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लतालम् ॥३९॥
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः
सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनकोमलगण्डशैला
नार्यो ऽनुरूपमधिवासमधित्यकासु ॥४०॥
अनतिचिरोज्झितस्य जलदेन चिर-
स्थितबहुबुद्बुदस्य पयसो ऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकला-
मिह विदधाति धौतकलधौतमही ॥४१॥
वर्जयन्त्या जनैः सङ्गमेकान्तत-
स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया
सेव्यते ऽनेकया सन्नतापाङ्गया ॥४२॥
सङ्कीर्णकीचकवनस्खलितैकवाल-
विच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्र-
निर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥४३॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रै-
र्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
श्छायामच्छामृच्छति नीलीसलिलस्य ॥४४॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतमानम् ॥४५॥
भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्रसङ्ख्याम् ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥४६॥
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतयैष निम्नगाः ॥४७॥
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतो ऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४८॥
प्राग्भागतः पतदिहेदमुपत्यकासु
शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यते विविधरत्नकरानुविद्ध-
मूर्ध्वप्रसारितसुराधिपचापचारु ॥४९॥
दधति च विकसद्विचित्रकल्प-
द्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः
शिखरशिखाः शिखिशेखरानमुष्य ॥५०॥
सवधूकाः सुखिनो ऽस्मिन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्ननवरतममन्दरागतामरसदृशः ॥५१॥
आच्छाद्य पुष्पपटमेष महान्तमन्त-
रावर्तिभिर्गृहकपोतशिरोधराभैः ।
स्वाङ्गानि धूमरुचिमागुरवीं दधानै-
र्धूपायतीव पटलैर्नवनीरदानाम् ॥५२॥
अन्योन्यव्यतिकरचारुभिर्विचित्रै-
रत्रस्यन्नवमणिजन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मि-
न्नाकाशे रचितमभित्ति चित्रकर्म ॥५३॥
समीरशिशिरः शिरःसुवसता
सता जवनिका निकामसुखिनाम् ।
बिभर्ति जनयन्नयं मुदमपा-
मपायधवला बलाहकततीः ॥५४॥
मैत्त्र्यादिचित्तपरिकर्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य
वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥५५॥
मरकतमयमेदिनीषु भानो-
स्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मी-
मिह दधति स्फुरिताणुरेणुजालाः ॥५६॥
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमा ऽलया ।
नात्र कान्तमुपगीतया तया स्वानमानमति का ऽलिमालया ॥५७॥
सायं शशाङ्ककिरणाहतचन्द्रकान्त-
निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्ता-
स्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ॥५८॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः
सङ्क्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ॥५९॥
इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः
कनकरत्नभुवां च मरीचयः ॥६०॥
त्वक्साररन्ध्रपरिपूरणलब्धगीति-
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ॥६१॥
प्रीत्यै यूनां व्यवहिततपनाः
प्रौढध्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधति सुरत-
क्रीडायासश्रमशमपटवः ॥६२॥
भग्नो निवासो ऽयमिहास्य पुष्पैः
सदानतो येन विषाणिनागः ।
तीव्राणि तेनोज्झति कोपितो ऽसौ
सदानतोयेन विषाणि नागः ॥६३॥
प्रालेयशीतमचलेश्वरमीश्वरो ऽपि
सान्द्रेभचर्मवसनावरणो ऽधिशेते ।
सर्वर्तुनिर्वृतिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो ऽपि ॥६४॥
नवनगवनलेखाश्याममध्याभिराभिः
स्फटिककटकभूभिर्नाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागै-
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥६५॥
दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥६६॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसम्मुखो ऽपि रमणैरपहृतवसनाः
काञ्चनकन्दरासु तरुणीरिह नयति रविः ॥६७॥
अनुकृतशिखरौघश्रीभिरभ्यागते ऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥६८॥
इत्थं गिरः प्रियतमा इव सो ऽव्यलीकाः
शुश्राव सूततनयस्य तदा व्यलीकाः ।
रन्तुं निरन्तरमियेष ततो ऽवसाने

०५ सेनातदङ्गादिवर्णनम्

तासां गिरौ च वनराजिपटं वसाने ॥१॥
तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्ग-
मभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
विस्ताररुद्धवसुधो ऽन्वचलं चचाल
लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥
भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः
सापत्रपा इव महाजनदर्शनेन ।
संविव्युरम्बरविकासि चमूसमुत्थं
पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः
सम्पन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्मिभिरापतन्तः ॥४॥
आरक्षमग्रमवमत्य सृणिं शिताग्र-
मेकः पलायत जवेन कृतार्तनादः ।
अन्यः पुनर्मुहुरुदप्लवतास्तभार-
मन्योन्यतः पथि बताबिभितामिभोष्ट्रौ ॥५॥
आयस्तमैक्षत जनश्चटुलाग्रपादं
गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं
सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ॥६॥
त्रस्तः समस्तजनहासकरः करेणो-
स्तावत्खरः प्रखरमुल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्ब-
विस्रस्तवस्त्रमवरोधवधूः पपात ॥७॥
शैलोपशल्यनिपतद्रथनेमिधारा-
निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवो नभसि नद्धपयोदचक्रा-
श्चक्रीवदङ्गरुहधूम्ररुचो विसस्रुः ॥८॥
उद्यत्कृशानुशकलेषु खुराभिघाता-
द्भूमीसमायतशिलाफलकाचितेषु ।
पर्यन्तवर्त्मसु विचक्रमिरे महाश्वाः
शैलस्य दर्दुरपुटानिव वादयन्तः ॥९॥
तेजोनिरोधसमतावहितेन यन्त्रा
सम्यक्कशात्रयविचारवता नियुक्तः ।
आरट्टजश्चटुलनिष्ठुरपातमुच्चै-
श्चित्रं चकार पदमर्धपुलायितेन ॥१०॥
नीहारजालमलिनः पुनरुक्तसान्द्राः
कुर्वन्वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः
पांशुर्दिशां मुखमतुत्थयदुत्थितो ऽद्रेः ॥११॥
उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रा-
निन्द्रानुजानुचरभूपतयो ऽध्यवात्सुः ।
वन्येभमस्तकनिखातनखाग्रमुक्त-
मुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥१२॥
बिभ्राणया बहलयावकपङ्कपिङ्ग-
पिच्छावचूडमनुमाधवधाम जग्मुः ।
चञ्च्वग्रदष्टचटुलाहिपताकयान्ये
स्वावासभागमुरगाशनकेतुयष्ट्या ॥१३॥
छायामपास्य महतीमपि वर्तमाना-
मागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं
वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥१४॥
अग्रे गतेन वसतिं परिगृह्य रम्या-
मापात्य सैनिकनिराकरणाकुलेन ।
यान्तो ऽन्यतः प्लुतकृतस्वरमाशु दूरा-
दुद्बाहुना जुहुविरे मुहुरात्मवर्ग्याः ॥१५॥
सिक्ता इवामृतरसेन मुहुर्जनानां
क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः
कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥१६॥
यानाज्जनः परिजनैरवतार्यमाणा
राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
वक्रश्रियः सभयकौतुकमीक्षते स्म ॥१७॥
कण्ठावसक्तमृदुबाहुलतास्तुरङ्गा-
द्राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव
गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥१८॥
दृष्ट्वेव निर्जितकलापभरामधस्ता-
द्व्याकीर्णमाल्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रा-
त्सङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥१९॥
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा
वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायतनिरन्तरसन्निविष्टाः
पादा इवाभिबभुरावलयो रथानाम् ॥२०॥
छायाविधायिभिरनुज्झितभूतिशोभै-
रुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरिव क्षितिभृतां द्विरदैरुदार-
तारावलीविरचनैर्व्यरुचन्निवासाः ॥२१॥
उत्क्षिप्तकाण्डपटकान्तरलीयमान-
मन्दानिलप्रशमितश्रमघर्मतोयैः ।
दूर्वाप्रतानसहजास्तरणेषु भेजे
निद्रासुखं वसनसद्मसु राजदारैः ॥२२॥
प्रस्वेदवारिसविशेषविषक्तमङ्गे
कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्घनपयोधरबाहुमूला
शातोदरी युवदृशां क्षणमुत्सवो ऽभूत् ॥२३॥
यावत्स एव समयः सममेव ताव-
दव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्य-
पूर्णापणा विपणिनो विपणीर्विभेजुः ॥२४॥
अल्पप्रयोजनकृतोरुतरप्रयासै-
रुद्गूर्णलोष्टलगुडैः परितो ऽनुविद्धम् ।
उद्यातमुद्रुतमनोकहजालमध्या-
दन्यः शशं गुणमनल्पमवन्नवाप ॥२५॥
त्रासाकुलः परिपतन्परितो निकेता-
न्पुम्भिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनाना-
माकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥२६॥
आस्तीर्णतल्परचितावसथः क्षणेन
वेश्याजनः कृतनवप्रतिकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्या-
न्प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥२७॥
सस्नुः पयः पपुरनेनिजुरम्बराणि
जक्षुर्बिसं धृतविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकत्व-
दोषप्रवादममृजन्नगनिम्नगानाम् ॥२८॥
नाभिह्रदैः परिगृहीतरयाणि निम्नैः
स्त्रीणां बृहज्जघनसेतुनिवारितानि ।
जग्मुर्जलानि जलमड्डुकवाद्यवल्गु-
वल्गद्घनस्तनतटस्खलितानि मन्दम् ॥२९॥
आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-
मुक्षाम्बभूवुरभितो वपुरम्बुवर्षैः ।
खेदायत श्वसितवेगनिरस्तमुग्ध-
मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥३०॥
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते
ये ऽपीन्द्रपाणितुलितायुधलूनपक्षाः ।
ते जग्मुरद्रिपतयः सरसीर्विगाढु-
माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥३१॥
आत्मानमेव जलधेः प्रतिबिम्बिताङ्ग-
मूर्मौ महत्यभिमुखापतितं निरीक्ष्य ।
क्रोधादधावदपभीरभिहन्तुमन्य-
नागाभियुक्त इव युक्तमहो महेभः ॥३२॥
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं
धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे
रिक्तोदपात्रकरमास्त चिरं जनौघः ॥३३॥
पन्थानमाशु विजहीहि पुरः स्तनौ ते
पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः ।
स्तम्बेरमः परिणिनंसुरसावुपैति
षिड्गैरगद्यत ससम्भ्रममेव काचित् ॥३४॥
कीर्णं शनैरनुकपोलमनेकपानां
हस्तैर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकासिकाश-
नीकाशमाप समतां सितचामरस्य ॥३५॥
गण्डूषमुज्झितवता पयसः सरोषं
नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभाग-
रुद्धोरुदन्तमुसलप्रसरं निपेते ॥३६॥
दानं ददत्यपि जलैः सहसाधिरूढे
को विद्यमानगतिरासितुमुत्सहेत ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो-
र्मङ्क्षूदपाति परितः पटलैरलीनाम् ॥३७॥
अन्तर्जलौघमवगाढवतः कपोलौ
हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्याश्रयेष्वपि गणेषु रराज नीलो
वर्णः पृथग्गत इवालिगणो गजस्य ॥३८॥
संसर्पिभिः पयसि गैरिकरेणुरागै-
रम्भोजगर्भरससाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभा-
वन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥३९॥
यां चन्द्रकैर्मदजलस्य महानदीनां
नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो
धौताङ्गलग्ननवनीलपयोजपत्रैः ॥४०॥
प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्न-
निर्याणनिर्यदसृजं चलितं निषादी ।
रोद्धुं महेभमपरिव्रढिमानमागा-
दाक्रान्तितो न वशमेति महान्परस्य ॥४१॥
सेव्यो ऽपि सानुनयमाकलनाय यन्त्रा
नीतेन वन्यकरिदानकृताधिवासः ।
नाभाजि केवलमभाजि गजेन शाखी
नान्यस्य गन्धमपि मानभृतः सहन्ते ॥४२॥
अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाष-
सङ्क्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनै-
र्मम्ले यथागतमगामि कुलैरलीनाम् ॥४३॥
नोच्चैर्यदा तरुतलेषु ममुस्तदानी-
माधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुरिभास्तरसात्मनैव
नैवात्मनीनमथ वा क्रियते मदान्धैः ॥४४॥
उष्णोष्णशीकरसृजः प्रबलोष्मणो ऽन्त-
रुत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान्विशालशिरसो हरिचन्दनेषु
नागान्बबन्धुरपरान्मनुजा निरासुः ॥४५॥
कण्डूयतः कटभुवं करिणो मदेन
स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन
कण्ठेगुणत्वमलिनां वलयेन भेजे ॥४६॥
निर्धूतवीतमपि बालकमुल्ललन्तं
यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैर्वशमानिनाय
शास्त्रं हि निश्चितधियां क्व न सिद्धिमेति ॥४७॥
स्तम्भं महान्तमुचितं सहसा मुमोच
दानं ददावतितरां सरसाग्रहस्तः ।
बद्धापराणि परितो निगडान्यलावी-
त्स्वातन्त्र्यमुज्ज्वलमवाप करेणुराजः ॥४८॥
जज्ञे जनैर्मुकुलिताक्षमनाददाने
संरब्धहस्तिपकनिष्ठुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे
मन्दो ऽपि नाम न महानवगृह्य साध्यः ॥४९॥
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं
नापेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्ष-
मिच्छाविहारवनवासमहोत्सवानाम् ॥५०॥
दुःखेन भोजयितुमाशयिता शशाक
तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-
स्नेहस्रुतिस्नपितबाहुरिभाधिराजम् ॥५१॥
शुक्लांशुकोपरचितानि निरन्तराभि-
र्वेश्मानि रश्मिविततानि नराधिपानाम् ।
चन्द्राकृतीनि गजमण्डलिकाभिरुच्चै-
र्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥५२॥
गत्यूनमार्गगतयो ऽपि गतोरुमार्गाः
स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसार-
संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥५३॥
आजिघ्रति प्रणतमूर्धनि बाह्लिजे ऽश्वे
तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥५४॥
हेम्नः स्थलीषु परितः परिवृत्य वाजी
धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वालाकणारुणरुचा निकरेण रेणोः
शेषेण तेजस इवोल्लसता रराज ॥५५॥
दन्तालिकाधरणनिश्चलपाणियुग्म-
मर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन नाक्रमत वल्लभपालमुच्चैः
श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥५६॥
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्ति-
र्देवैरिवानिमिषदृष्टिभिरीक्ष्यमाणः ।
श्रीसन्निधानरमणीयतरो ऽश्व उच्चै-
रुच्चैःश्रवा जलनिधेरिव जातमात्रः ॥५७॥
अश्रावि भूमिपतिभिः क्षणवीतनिद्रै-
रश्नन्पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्किणिकानिनाद-
मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥५८॥
उत्खाय दर्पचलितेन सहैव रज्ज्वा
कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारिकटकस्तुरगेण तूर्ण-
मश्वेति विद्रुतमनुद्रवताश्वमन्यम् ॥५९॥
अव्याकुलं प्रकृतमुत्तरधेयकर्म
धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयाम्बभूव ॥६०॥
मुक्तास्तृणानि परितः कटकं चरन्त-
स्त्रुट्यद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा
दामाञ्चलस्खलितलोलपदं तुरङ्गाः ॥६१॥
उत्तीर्णभारलघुनाप्यलघूलपौघ-
सौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नमासां-
चक्रे निमीलदलसेक्षणमौक्षकेण ॥६२॥
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं
शृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः ।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
रोधांसि धीरमपचस्करिरे महोक्षाः ॥६३॥
मेदस्विनः सरभसोपगतानभीका-
न्भङ्क्त्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनु निःसपत्नं
जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥६४॥
बिभ्राणमायतिमतीमवृथा शिरोधिं
प्रत्यग्रतामतिरसामधिकं दधन्ति ।
लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणा-
मभ्रंलिहानि लिलिहे नवपल्लवानि ॥६५॥
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रै-
रास्यान्तरालगतमाम्रदलं म्रदीयः ।
दासेरकः सपदि संवलितं निषादै-
र्विप्रं पुरा पतगराडिव निर्जगार ॥६६॥
स्पष्टं बहिः स्थितवते ऽपि निवेदयन्त-
श्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चै-
र्भोगावलीः कलगिरो ऽवसरेषु पेठुः ॥६७॥
उन्नम्रताम्रपटमण्डपमण्डितं त-
दानीलनागकुलसङ्कुलमाबभासे ।
सन्ध्यांशुभिन्नघनकर्बुरितान्तरीक्ष-
लक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥६८॥
धरस्योद्धर्तासित्वमिति ननु सर्वत्र जगति
प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
बलाक्रान्तः क्रीडद्द्विरदमथितोर्वीरुहरवैः ॥६९॥
अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।

०६ रैवतक-सेना-तदङ्गादि-वर्णनम्

ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥२॥
विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥३॥
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ॥४॥
स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥५॥
स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥६॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगान्मधुपावलिः ॥७॥
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरया दुरयाचितमङ्गनाः ॥८॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव ।
कलतया वचसः परिवादिनी स्वरजिता रजिता वशमाययुः ॥९॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया ।
अविनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ॥१०॥
इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव ॥११॥
सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥१२॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥१३॥
वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशोभया ।
चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया ॥१४॥
अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरि ताः कुकुरस्त्रियः ॥१५॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तृकाः ॥१६॥
रुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावगिधमं धिगमङ्गलमश्रुणः ॥१७॥
त्यजति कष्टमसावचिरादसून्विरहवेदनयेत्यघशङ्किभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥१८॥
न खलु दूरगतो ऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥१९॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥२०॥
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥२१॥
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसम्पदः ॥२२॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥२३॥
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥२४॥
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाज्जगतीधरम् ॥२५॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥२६॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥२७॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥२८॥
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥२९॥
प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजनमनो नमनो घनमारुतः ॥३०॥
जलदपङ्क्तिरनर्तयदुन्मदं कलविलापिकलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसम्पदा ॥३१॥
नवकदम्बरजोरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥३२॥
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसाम् ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥३३॥
द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् ।
घनघनौघविघट्टनया दिवःकृशशिखं शशिखण्डमिव च्युतम् ॥३४॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥३५॥
नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमा शुभरजोभरजो ऽलिभिराददे ॥३६॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशाम् ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥३७॥
प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥३८॥
विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥३९॥
अरमयन्भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ॥४०॥
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपरथाप रथावयवायुधः ॥४१॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङ्कगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥४२॥
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्वच नारयः ॥४३॥
समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥४४॥
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः ॥४५॥
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणदलावलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥४६॥
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥४७॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥४८॥
विगतसस्यजिघत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमिषेक्षणमग्रतः ॥४९॥
कृतमदं निगदन्त इवाकुली कृतजगत्त्रयमूर्जमतङ्गजम् ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः ॥५०॥
विगतवारिधरावरणाः क्वचिद्ददृशुरुल्लसितासिलतासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदवो दिशः ॥५१॥
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुदक्षिपत् ॥५२॥
हरितपत्त्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥५३॥
स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहङ्गहसद्दिवम् ।
अकलयन्मुदितामिव सर्वतः स शरदं शरदन्तुरदिङ्मुखाम् ॥५४॥
गजपतिद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥५५॥
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान्सतु हिनस्तुहिनस्तु वियोगिनः ॥५६॥
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः ॥५७॥
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्णिवसितेव सितेन सुनिर्ववौ ॥५८॥
व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवातरणं हिममारुतैर्मृदुतया दुतयाधरलेखया ॥५९॥
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥६०॥
हिम ऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि ।
प्रकटयन्त्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥६१॥
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुङ्कृतिः ।
उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥६२॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहिमहाहिमहानिकरो ऽभवत् ॥६३॥
अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुदभूद्दिशः ॥६४॥
शिशिरमासमपास्य गुणो ऽस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान्प्रियाः ॥६५॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः ॥६६॥
अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥६७॥
नोज्झितं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥६८॥
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६९॥
स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्यवश्यम् ॥७०॥
वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरागमिता ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥७१॥
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रमतालिनीशिलीन्ध्रे सह सायन्तनदीपपाटलाभे ॥७२॥
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥७३॥
अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥७४॥
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥७५॥
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकाकुरुतेन ।
तत्सम्पर्कं प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥७६॥
कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनःसु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोषितेन ॥७७॥
गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥७८॥
कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैर्विरागमलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिराविहर्तुं
बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥७९॥
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।

०७ कुसुमक्रीडावर्णनम्

निरगमदभिराद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः ॥१॥
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ॥२॥
अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदो ऽङ्गनासु ॥३॥
नखरुचिरचितेन्द्रचापलेखं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥४॥
अतिशयपरिणाहवान्वितेने बहुतरमर्पितरत्नकिङ्किणीकः ।
अलघुनि जघनस्थले ऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥५॥
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥६॥
तव सपदि समीपमानये तामहमिति तस्य मयाग्रतो ऽभ्यधायि ।
अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥७॥
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जातुमद्वचो ऽसाविति च तथापि सखीषु मे ऽभिमानः ॥८॥
सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥९॥
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥१०॥
प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ।
चरणगतसखीवचो ऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ॥११॥
द्रुतपदमिति मा वयस्य यासीर्ननु सुतनुं परिपालयानुयान्तीम् ।
नहि न विदितखेदमेतदीयस्तनजघनोद्वहने तवापि चेतः ॥१२॥
इति वदति सखीजने ऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥१३॥
यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् ।
अनिभृतपदपातमापपात प्रियमिति कोपपदेन कापि सख्या ॥१४॥
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरस्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥१५॥
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिःस्तनेन ।
हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदुव्यतिविद्धमेकबाहुम् ॥१६॥
मुहुरसुसममाघ्नती नितान्तं प्रणदितकाञ्चिनितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरःस्थले निपीड्य ॥१७॥
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥१८॥
लघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्वियाय ॥१९॥
जघनमलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥२०॥
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥२१॥
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपादलेखाप्रतिमतयानुययावसंशयानः ॥२२॥
मदनरसमहौघपूर्णनाभीह्लदपरिवाहितरोमराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥२३॥
श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥२४॥
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः ॥२५॥
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
मरुदवनिरुहां रजो वधूभ्यः समुपहरन्विचकार कोरकाणि ॥२६॥
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनागणस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदो ऽग्रतःस्थाः ॥२७॥
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतो ऽभिधानम् ॥२८॥
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥२९॥
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥३०॥
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥३१॥
प्रियमभि कुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधें ऽशुकेन ॥३२॥
विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलवरोन्मुखलोचनावलग्नम् ॥३३॥
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिन्नतनूत्तरीयबन्धा ।
अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥३४॥
व्यवहितमविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥३५॥
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससम्भ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥३६॥
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥३७॥
अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतो ऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥३८॥
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गके निधेयाः ।
नखपदलिपयो ऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥३९॥
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥४०॥
अभिमुखमपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥४१॥
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥४२॥
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणो ऽङ्गनानाम् ॥४३॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या ॥४४॥
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥४५॥
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥४६॥
सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ॥४७॥
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरि निरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥४८॥
उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपो ऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥४९॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरो ऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥५०॥
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिके ऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभे ऽतिगुर्वी ॥५१॥
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ॥५२॥
न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥५३॥
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥५४॥
मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥५५॥
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥५६॥
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुपूरे ॥५७॥
स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्छत् ॥५८॥
समदनमवतंसिते ऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥५९॥
अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥६०॥
अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥६१॥
श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥६२॥
अधिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरश्मिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥६३॥
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तरक्तभाभिः ॥६४॥
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसङ्क्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥६५॥
अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥६६॥
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशविनिवेशवशात्परस्परस्य ॥६७॥
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवो ऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥६८॥
प्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ॥६९॥
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेव कामिनीनाम् ॥७०॥
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
विपुलतरनिरन्तरावलग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥७१॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥७२॥
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥७३॥
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः
क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्तः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोमकूपा-
न्स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥७४॥
प्रियकरपरिमार्गादङ्गनानां यदाभू-
त्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्-
वनविहरणखेदम्लानमम्लानशोभाः ॥७५॥
आयासादलघुतरस्तनैः स्तनद्भिः
श्रान्तानामविकचलोचनारविन्दैः ।

०८ जलविहारवर्णनम्

अभ्यम्भः कथमपि योषितां समूहै-
स्तैरुर्वीनिहितचलत्पदं प्रचेले ॥१॥
यान्तीनां सममसितभ्रुवां नतत्वा-
दंसानां महति नितान्तमन्तरे ऽपि ।
संसक्तैर्विपुलतया मिथो नितम्बैः
सम्बाधं बृहदपि तद्बभूव वर्त्म ॥२॥
नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः
साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां
शाखानामतुहिनरश्मिरन्तरालैः ॥३॥
एकस्यास्तपनकरैः करालिताया
बिभ्राणः सपदि सितोष्णवारणत्वम् ।
सेवायै वदनसरोजनिर्जितश्री-
रागत्य प्रियमिव चन्द्रमाश्चकार ॥४॥
स्वं रागादुपरि वितन्वतोत्तरीयं
कान्तेन प्रतिपदवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूहा-
च्छायासीदधिकतरा तदा परस्याः ॥५॥
संस्पर्शप्रभवसुखोपचीयमाने
सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं
सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥६॥
गच्छन्तीरलसमवेक्ष्य विस्मयिन्य-
स्तास्तन्वीर्न विदधिरे मतानि हंस्यः ।
बुद्ध्वा वा जितमपरेण काममावि-
ष्कुर्वीत स्वगुणमपत्रपः क एव ॥७॥
श्रीमद्भिर्जितपुलिनानि माधवीना-
मारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं
वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥८॥
मुक्ताभिः सलिलरयास्तशुक्तिपेशी
मुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं
पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥९॥
आघ्राय श्रमजमनिन्द्यगन्धबन्धुं
निश्वासश्वसनमसक्तमङ्गनानाम् ।
आरण्याः सुमनस ईषिरे न भृङ्गै-
रौचित्यं गणयति को विशेषकामः ॥१०॥
आयान्त्यां निजयुवतौ वनात्सशङ्कं
बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं
कामिन्यः श्रदधुरनार्जवं नरेषु ॥११॥
आलापैस्तुलितरवाणि माधवीनां
माधुर्यादमलपतत्रिणां कुलानि ।
अन्तर्धामुपययुरुत्पलावलीषु
प्रादुःष्यात्क इव जितः पुरः परेण ॥१२॥
मुग्धायाः स्मरललितेषु चक्रवाक्या
निःशङ्कं दयिततमेन चुम्बितायाः ।
प्राणेशानभि विदधुर्विधूतहस्ताः
सीत्कारं समुचितमुत्तरं तरुण्यः ॥१३॥
उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः
सस्नेहं विहगरुतैरिवालपन्ती ।
नारीणामथ सरसी सफेनहासा
प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥१४॥
नित्याया निजवसतेर्निरासिरेय-
द्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तत्वं नियतमनेन निन्युरस्याः
सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥१५॥
आस्कन्दन्कथमपि योषितो न याव-
द्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात्त्वरितममूस्तदम्बु ताव-
त्सङ्क्रान्तप्रतिमतया दधाविवान्तः ॥१६॥
ताः पूर्वं सचकितमागमय्य गाधं
कृत्वाथो मृदुपदमन्तराविशन्त्यः ।
कामिन्यो मन इव कामिना सरागै
रङ्गैस्तज्जलमनुरञ्जयाम्बभूवुः ॥१७॥
सङ्क्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् ॥१८॥
आसीना तटभुवि सस्मितेन भर्त्रा
रम्भोरूरवतरितुं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासा-
ञ्शीतालुः सलिलगतेन सिच्यते स्म ॥१९॥
नेच्छन्ती समममुना सरो ऽवगाढुं
रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लिक्षद्भयचकितेक्षणं नवोढा
वोढारं विपदि न दूषितातिभूमिः ॥२०॥
तिष्ठन्तं पयसि पुमांसमंसमात्रे
तद्दघ्नं तदवयती किलात्मनो ऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्या-
दाश्लेषि द्रुतममुना निमज्जतीति ॥२१॥
आनाभेः सरसि नतभ्रुवावगाढे
चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायि स्तनयुगमध्यरोहिलब्ध-
स्पर्शानां भवति कुतो ऽथवा व्यवस्था ॥२२॥
कान्तानां कुवलयमप्यपास्तमक्ष्णोः
शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गाय-
ल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥२३॥
त्रस्यन्ती चलशफरीविघट्टितोरू-
र्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतो-
र्लीलाभिः किमु सति कारणे रमण्यः ॥२४॥
आकृष्टप्रतनुवपुर्लतैस्तरद्भि-
स्तस्याम्भस्तदथ सरोमहार्णवस्य ।
अक्षोभि प्रसृतविलोलबाहुपक्षै-
र्योषाणामुरुभिरुरोजगण्डशैलैः ॥२५॥
गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः
सङ्क्षोभं जघनविघट्टनेन नीतः ।
अम्भोधिर्विकसितवारिजाननो ऽसौ
मर्यादां सपदि विलङ्घयाम्बभूव ॥२६॥
आदातुं दयितमिवावगाढमारा-
दूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको
लक्ष्मीवान्सरसि रराज केशहस्तः ॥२७॥
उन्निद्रप्रियकमनोरमं रमण्याः
संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै
नाक्रामन्नपि हि भवत्यलं जलौघः ॥२८॥
किं तावत्सरसि सरोजमेतदारा-
दाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चि-
द्विव्वोकैर्बकसहवासिनां परोक्षैः ॥२९॥
शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः
कौसुम्भं पृथु कुचकुम्भसङ्गि वासः ।
मार्द्वीकं प्रियतमसन्निधानमास-
न्नारीणामिति जलकेलिसाधनानि ॥३०॥
उत्तुङ्गादनिलचलांशुकास्तटान्ता-
च्चेतोभिः सह भयदर्शिनां प्रियाणाम् ।
श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्य-
स्तोयेषु द्रुततरमङ्गना निपेतुः ॥३१॥
मुग्धत्वादविदितकैतवप्रयोगा
गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ताः कान्तैः सह करपुष्करेरिताम्बु-
व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥३२॥
योगस्य त्रिनयनलोचनानलार्चि-
र्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः ।
कान्तायाः करकलशोद्यतैः पयोभि-
र्वक्त्रेन्दोरकृत महाभिषेकमेकः ॥३३॥
सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य
प्रेयांसं मनसिजदुःखदुर्बलायाः ।
सौवर्णं वलयमवागलत्कराग्रा-
ल्लावण्यश्रिय इव शेषमङ्गनायाः ॥३४॥
स्निह्यन्ती दृशमपरा निधाय पूर्णं
मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमनाः सखीसिसिक्षा-
लक्ष्येण प्रतियुवमञ्जलिं चकार ॥३५॥
आनन्दं दधति मुखे करोदकेन
श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प-
स्वेदाम्बुस्नपितमजायतेतरस्याः ॥३६॥
उद्वीक्ष्य प्रियकरकुड्मलापविद्धै-
र्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षा-
दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥३७॥
कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं
यैस्तोयैरसिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेरकारि दूरा-
त्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥३८॥
रागान्धीकृतनयनेन नामधेय-
व्यत्यासादभिमुखमीरितः प्रियेण ।
मानिन्या वपुषि पतन्निसर्गमन्दो
भिन्दानो हृदयमसाहि नोदवज्रः ॥३९॥
प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः
सन्तापं नवजलविप्रुषो गृहीत्वा ।
उद्धूताः कठिनकुचस्थलाभिघाता-
दासन्नां भृशमपराङ्गनामधाक्षुः ॥४०॥
सङ्क्रान्तं प्रियतमवक्षसो ऽङ्गरागं
साध्वस्याः सरसि हरिष्यते ऽधुनाम्भः ।
तुष्ट्वैवं सपदि हृते ऽपि तत्र तेपे
कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥४१॥
हूतायाः प्रतिसखि कामिनान्यनाम्ना
ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तर्धिं द्रुतमिव कर्तुमश्रुवर्षै-
र्भूमानं गमयितुमीषिरे पयांसि ॥४२॥
सिक्तायाः क्षणमभिषिच्य पूर्वमन्या-
मन्यस्याः प्रणयवता बताबलायाः ।
कालिम्ना समधित मन्युरेव वक्त्रं
प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥
उद्वोढुं कनकविभूषणान्यशक्तः
सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः
साधीयो गुरुरभवद्भुजस्तरुण्याः ॥४४॥
आबद्धप्रचुरपरार्ध्यकिङ्किणीको
रामाणामनवरतोदगाहभाजाम् ।
नारावं व्यतनुत मेखलाकलापः
कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥४५॥
पर्यच्छे सरसि हृतें ऽशुके पयोभि-
र्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।
सुश्रोण्या दलवसनेन वीचिहस्त-
न्यस्तेन द्रुतमकृताब्जिनी सखीत्वम् ॥४६॥
नारीभिर्गुरुजघनस्थलाहताना-
मास्यश्रीविजितविकासिवारिजानाम् ।
लोलत्वादपहरतां तदङ्गरागं
सञ्जज्ञे स कलुष आशयो जलानाम् ॥४७॥
सौगन्ध्यं दधदपि काममङ्गनानां
दूरत्वाद्गतमहमाननोपमानम् ।
नेदीयो जितमिति लज्जयेव तासा-
मालोले पयसि महोत्पलं ममज्ज ॥४८॥
प्रभ्रष्टैः सरभसमम्भसो ऽवगाह-
क्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूना-
मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥४९॥
आस्माकी युवतिदृशामसौ तनोति
छायैव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः
पानीयैरिति विदधाविरे ऽञ्जनानि ॥५०॥
निर्धौते सति हरिचन्दने जलौघै-
रापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयादुपेये
विच्छेदः सहृदययेव हारयष्ट्या ॥५१॥
अन्यूनं गुणममृतस्य धारयन्ती
सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा
रक्तत्वं व्यधित वधूदृशां सुरा च ॥५२॥
स्नान्तीनां बृहदमलोदबिन्दुचित्रौ
रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्ता-
दुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥५३॥
आरूढः पतित इति स्वसम्भवो ऽपि
स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां
वीचीभिस्तटमनु यन्निरासुरापः ॥५४॥
दन्तानामधरमयावकं पदानि
प्रत्यग्रास्तनुमविलेपनां नखाङ्काः ।
आनिन्युः श्रियमधितोयमङ्गनानां
शोभायै विपदि सदाश्रिता भवन्ति ॥५५॥
कस्याश्चिन्मुखमनु धौतपत्रलेखं
व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्जल्कव्यतिकरपिञ्जरान्तराभि-
श्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥५६॥
वक्षोभ्यो घनमनुलेपनं यदूना-
मुत्तंसानहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ
चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥५७॥
यो बाह्यः स खलु जलैर्निरासि रागो
यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्तः-
पातित्वादभिभवनीयतां परस्य ॥५८॥
फेनानामुरसिरुहेषु हारलीला
चेलश्रीर्जघनतलेषु शैवलानाम् ।
गण्डेषु स्फुटरचनाब्जपत्त्रवल्ली
पर्याप्तं पयसि विभूषणं वधूनाम् ॥५९॥
भ्रश्यद्भिर्जलमभि भूषणैर्वधूना-
मङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृते ऽवधीरिताना-
मप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥६०॥
आमृष्टास्तिलकरुचः स्रजो निरस्ता
नीरक्तं वसनमपाकृतो ऽङ्गरागः ।
कामः स्त्रीरनुशयवानिव स्वपक्ष-
व्याघातादिति सुतरां चकार चारूः ॥६१॥
शीतार्तिं बलवदुपेयुषेव नीरै-
रासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजो-
राश्लेषि स्तनतटयोर्नवांशुकेन ॥६२॥
श्च्योतद्भिः समधिकमात्तमङ्गसङ्गा-
ल्लावण्यं तनुमदिवाम्बु वाससो ऽन्तैः ।
उत्तेरे तरलतरङ्गरङ्गलीला-
निष्णातैरथ सरसः प्रियासमूहैः ॥६३॥
दिव्यानामपि कृतविस्मयां पुरस्ता-
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती-
मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥६४॥
श्लक्ष्णं यत्परिहितमेतयोः किलान्त-
र्धानार्थं तदुदकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या
भासान्तर्दधतुरुरू दुकूलमेव ॥६५॥
वासांसि न्यवसत यानि योषितस्ताः
शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि
स्थूलाश्रुस्रुतिभिररोदि तैः शुचेव ॥६६॥
आर्द्रत्वादतिशयिनीमुपेयिवद्भिः
संसक्तिं भृशमपि भूरिशो ऽवधूतैः ।
अङ्गेभ्यः कथमपि वामलोचनानां
विश्लेषो बत नवरक्तकैः प्रपेदे ॥६७॥
प्रत्यंसं विलुलितमूर्धजा चिराय
स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिके ऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥६८॥
सीमन्तं निजमनुबध्नती कराभ्या-
मालक्ष्य स्तनतटबाहुमूलभागा ।
भर्त्रान्या मुहुरभिलष्यता निदध्ये
नैवाहो विरमति कौतुकं प्रियेभ्यः ॥६९॥
स्वच्छाम्भः स्नपनविधौतमङ्गमोष्ठ-
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुणा न शून्यः ॥७०॥
इति धौतपुरन्ध्रिमत्सरान्त्सरसि मज्जनेन
श्रियमाप्तवतो ऽतिशायिनीमपमलाङ्गभासः ।
अवलोक्य तदैव यादवानपरवारिराशेः
शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥७१॥
अभितापसम्पदमथोष्णरुचिर्निजतेजसामसहमान इव ।

०९ प्रदोषवर्णनम्

पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥१॥
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् ।
मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥२॥
विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः ॥३॥
अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥४॥
उपसन्ध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तसमये ऽपि सतामुचितं खलूच्चतरमेव पदम् ॥५॥
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥६॥
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥७॥
गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे ऽवनतिम् ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥८॥
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥९॥
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥१०॥
अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।
विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥११॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥१२॥
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः ।
ज्वलनं त्विषः कथमिवेतरथा सुलभो ऽन्यजन्मनि स एव पतिः ॥१३॥
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झतापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥१४॥
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥१५॥
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥१६॥
दिवसो ऽनुमित्त्रमगमद्विलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति सन्ध्ययापि सपदि व्यगमि ॥१७॥
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥१८॥
व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥१९॥
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥२०॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥२१॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥२२॥
ददृशे ऽपि भास्कररुचाह्नि न यः स तमीं तमोभिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥२३॥
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥२४॥
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥२५॥
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥२६॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥२७॥
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥२८॥
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो ऽपि सहसोपचयम् ॥२९॥
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥३०॥
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥३१॥
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥३२॥
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् ।
अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम् ॥३३॥
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।
मुहुरामृशन्मृगधरो ऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ॥३४॥
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।
सुदृशोभिभर्तृ शशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥३५॥
अमृतद्रवैर्विदधदब्जदृशामपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषो ऽवतारयति मानविषम् ॥३६॥
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥३७॥
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
रजनीकरः किमिव चित्रमहो यदुरागिणां गणमनङ्गलघुम् ॥३८॥
भवनोदरेषु परिमन्दतया शयितो ऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥३९॥
अविभावितेषुविषयः प्रथमं मदनो ऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥४०॥
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणो ऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदे ऽङ्गनामनसि चावसरम् ॥४१॥
ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥४२॥
इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः ।
प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥४३॥
सममेकमेव दधतुः सुतनोरुरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥४४॥
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥४५॥
अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥४६॥
स्फुरदुज्ज्वलाधरदलैर्विलसदृशनांशुकेशरभरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः ॥४७॥
भजते विदेशमधिकेण जितस्तदनुप्रवेशमथ वा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥४८॥
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटे महति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम् ॥४९॥
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥५०॥
वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपमदः ॥५१॥
निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥५२॥
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥५३॥
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ॥५४॥
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥५५॥
न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति सन्दिदिशे ॥५६॥
दयिताय मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥५७॥
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियते ऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥५८॥
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥५९॥
तदुपेत्य मा स्म तमुपालभथाः किल दोषमस्य न हि विद्म वयम् ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसे ऽपि विससर्ज सखीम् ॥६०॥
ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः ॥६१॥
ब्रुवते स्म दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥६२॥
मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥६३॥
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥६४॥
उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥६५॥
दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमप्यभिदन् ॥६६॥
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः ॥६७॥
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतस्रुतो ऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥६८॥
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥६९॥
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरे ऽनुपदिभिः प्रयये ॥७०॥
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम् ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥७१॥
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥७२॥
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतो ऽतिभरात्कथमप्यपाति न वधूकरतः ॥७३॥
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥७४॥
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥७५॥
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद को ऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूर्न्यगदत् ॥७६॥
उदितोरुसादमतिवेपथुमत्सुदृशो ऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥७७॥
परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥७८॥
मधुरोन्नतभ्रु ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः ॥७९॥
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥८०॥
न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥८१॥
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्कलकाञ्चि काञ्चिदरुणत्तरुणः ॥८२॥
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
कलयन्नपि सव्यथो ऽवतस्थे ऽशकुनेन स्खलितः किलेतरो ऽपि ॥८३॥
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयाम्बभूवे मानस्य द्रुतमपयानमास्थितस्य ॥८४॥
सुदृशः सरसव्यलीकतप्तस्तरसाश्लिष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखम्पचः प्रियस्य ॥८५॥
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥८६॥
इत्थं नारीर्घटयितुमलं कामिभिः काममास-
न्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा
ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥८७॥

१० सुरतवर्णनम्

सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१॥
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ॥२॥
क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥३॥
कापिशायनसुगन्धि विघूर्णन्नुन्मदो ऽधिशयितुं समशेत ।
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्घ्रिः ॥४॥
बिम्बितं भृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥५॥
दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ।
यत्सुवर्णमुकुटांशुभिरासीच्चेतनाविरहितैरपि पीतम् ॥६॥
स्वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसो ऽत्र ।
अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥७॥
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥८॥
पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥९॥
कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे ऽभूत् ॥१०॥
पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥११॥
प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥१२॥
हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥१३॥
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥१४॥
सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे ।
विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥१५॥
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥१६॥
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ॥१७॥
या कथञ्चन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।
व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥१८॥
छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः ।
वारुणीमदविशङ्कमथाविश्चक्षुषो ऽभवदसाविव रागः ॥१९॥
आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥२०॥
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥२१॥
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।
सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥२२॥
दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥२३॥
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥२४॥
मानभङ्गपटुना सुरतेच्छां तन्वता ग्रथयता दृशि रागम् ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥२५॥
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥२६॥
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥२७॥
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥२८॥
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥२९॥
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥३०॥
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्चितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥३१॥
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंषि वपूंषि ॥३२॥
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः ॥३३॥
क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥३४॥
शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ॥३५॥
आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥३६॥
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमन्रमणेषु ॥३७॥
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥३८॥
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदशां सुरताय ।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥३९॥
यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥४०॥
सङ्कथेच्छुरभिधातुमनीशा सम्मुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ॥४१॥
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ॥४२॥
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥४३॥
सञ्जहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥४४॥
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ।
आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ॥४५॥
पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वमभवद्धृदयस्य ॥४६॥
दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥४७॥
सम्प्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥४८॥
स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥४९॥
न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।
यद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥५०॥
यत्प्रियव्यतिकराद्वनितानामङ्गजेन पुलकेन बभूवे ।
प्रापितेन भृशमुच्छ्वसिताभिर्नीविभिः सपदि बन्धनमोक्षः ॥५१॥
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥५२॥
पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥५३॥
केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥५४॥
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।
साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥५५॥
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥५६॥
कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः ।
अक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥५७॥
सोष्मणस्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।
उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते ॥५८॥
आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥५९॥
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥६०॥
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रकमरोत्परिधानम् ॥६१॥
अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ॥६२॥
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥६३॥
आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥६४॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥६५॥
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।
कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥६६॥
ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥६७॥
धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः ।
व्रीडितं ललितसौरतधार्ष्ट्यास्तेनिरे ऽभिरुचितेषु तरुण्यः ॥६८॥
पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदितं च सुखे ऽपि ॥६९॥
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥७०॥
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥७१॥
बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥७२॥
कान्तया सपदि को ऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥७३॥
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
त्र्युट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥७४॥
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥७५॥
उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥७६॥
ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥७७॥
प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः ।
दध्रिरे ऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः ॥७८॥
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् ।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥७९॥
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥८०॥
सङ्गताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य ॥८१॥
प्रेक्षणीयकमिव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः ।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥८२॥
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥८३॥
मृष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥८४॥
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।
मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः ॥८५॥
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु ।
दन्तवाससि समानगुणश्रीः सम्मुखो ऽपि परभागमवाप ॥८६॥
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव ॥८७॥
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥८८॥
आस्तृते ऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥८९॥
योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥९०॥
इति मदमदनाभ्यां रागिणः स्पष्टरागा-
ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता
रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥९१॥

११ प्रभातवर्णनम्

श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः
सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः
परिणतिमिति रात्रेर्मागधा माधवाय ॥१॥
रतिरभसविलासाभ्यासतान्तं न याव-
न्नयनयुगममीलत्तावदेवाहतो ऽसौ ।
रजनिविरतिशंसी कामिनीनां भविष्य-
द्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥२॥
स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य
स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ।
शकटमिव महीयः शैशवे शार्ङ्गपाणे-
श्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥३॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः
प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां
दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥४॥
विपुलतरनितम्बाभोगरुद्धे रमण्याः
शयितुमनधिगच्छञ्जीवितेशो ऽवकाशम् ।
रतिपरिचयनश्यन्नैद्रतन्द्रः कथञ्चि-
द्गमयति शयनीये शर्वरीं किं करोतु ॥५॥
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा-
नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः
कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥६॥
क्षितितटशयनान्तादुत्थितं दानपङ्क-
प्लुतबहुलशरीरं शाययत्येष भूयः ।
मृदुचलदपरान्तोदीरितान्दूनिनादं
गजपतिमधिरोहः पक्षकव्यत्ययेन ॥७॥
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
दधति दधनि धीरानारवान्वारिणीव ।
शशिनमिव सुरौघाः सारमुद्धर्तुमेते
कलशिमुदधिगुर्वीं बल्लवा लोडयन्ति ॥८॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची
रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री
मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥९॥
गतमनुगतवीणैरेकतां वेणुनादैः
कलमविकलतालं गायकैर्बोधहेतोः ।
असकृदनवगीतं गीतमाकर्णयन्तः
सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥१०॥
परिशिथिलितकर्णग्रीवमामीलिताक्षः
क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं
पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥११॥
उदयमुदितदीप्तिर्याति यः सङ्गतौ मे
पतति न वरमिन्दुः सो ऽपरामेष गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति
स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥१२॥
चिररतिपरिखेदप्राप्तनिद्रासुखानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणा-
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥१३॥
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चि-
न्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
हिमरुचिररुणिम्ना राजते रज्यमानै-
र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥१४॥
दधदसकलमेकं खण्डितामानमद्भिः
श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
कलरवमुपगीते षट्पदौघेन धत्तः
कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥१५॥
मदरुचिमरुणेनोद्गच्छता लम्भितस्य
त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।
वसनमिव मुखस्य स्रंसते सम्प्रतीदं
सितकरकरजालं वासवाशायुवत्याः ॥१६॥
अविरतरतलीलायासजातश्रमाणा-
मुपशममुपयान्तं निःसहे ऽङ्गे ऽङ्गनानाम् ।
पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य
ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥१७॥
अनिमिषमविरामा रागिणां सर्वरात्रं
नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसम्प-
न्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥१८॥
विकचकमलगन्धैरन्धयन्भृङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वातः ।
प्रमदमदनमाद्यद्यौवनोद्दामरामा-
रमणरभसखेदस्वेदविच्छेददक्षः ॥१९॥
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा
रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशा-
नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥२०॥
शिशिरकिरणकान्तं वासरान्ते ऽभिसार्य
श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः
परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥२१॥
नवकुमुदवनश्रीहासकेलिप्रसङ्गा-
दधिकरुचिरशेषामप्युषां जागरित्वा ।
अयमपरदिशो ऽङ्के मुञ्चति स्रस्तहस्तः
शिशयिषुरिव पाण्डुं म्लानमात्मानमिन्दुः ॥२२॥
सरभसपरिरम्भारम्भसंरम्भभाजा
यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।
वसनमपि निशान्ते नेष्यते तत्प्रदातुं
रथचरणविशालश्रोणिलोलेक्षणेन ॥२३॥
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि
क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दु-
र्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥२४॥
व्रजति विषयमक्ष्णामंशुमाली न याव-
त्तिमिरमखिलमस्तं तावदेवारुणेन ।
परपरिभवि तेजस्तन्वतामाशु कर्तुं
प्रभवति हि विपक्षोच्छेदमग्रेसरो ऽपि ॥२५॥
विगततिमिरपङ्कं पश्यति व्योम याव-
द्धुवति विरहखिन्नः पक्षती यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना
सरिदपरतटान्तादागता चक्रवाकी ॥२६॥
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे
रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते
युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥२७॥
विलुलितकमलौघः कीर्णवल्लीवितानः
प्रतिवनमवधूताशेषशाखिप्रसूनः ।
क्वचिदयमनवस्थः स्थास्नुतामेति वायु-
र्वधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु ॥२८॥
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः
क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनो ऽपि जातः
सुरतविलसितानां वर्णको वर्णको ऽसौ ॥२९॥
प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै-
रधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः ।
उपहसित इवासौ चन्द्रमाः कामिनीनां
परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥३०॥
सकलमपि निकामं कामलोलान्यनारी-
रतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।
इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न-
स्तव खलु मुखरागो यन्न भेदं प्रयातः ॥३१॥
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः
स्फुटमिति सविशङ्कं कान्तया तुल्यवर्णः ।
चरणतलसरोजाक्रान्तिसङ्क्रान्तयासौ
वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥३२॥
तदवितथमवादीर्यन्मम त्वं प्रियेति
प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्री-
र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥३३॥
नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥३४॥
इति कृतवचनायाः कश्चिदभ्येत्य बिभ्य-
द्गलितनयनवारेर्याति पादावनामम् ।
करुणमपि समर्थं मानिनां मानभेदे
रुदितमुदितमस्रं योषितां विग्रहेषु ॥३५॥
मदमदनविकासस्पष्टधार्ष्ट्योदयानां
रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
विदधति न गृहेषूत्फुल्लपुष्पोपहारं
विफलविनययत्नाः कामिनीनां वयस्याः ॥३६॥
करजदशनचिह्नं नैशमङ्गे ऽन्यनारी-
जनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥३७॥
कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ
परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु-
स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥३८॥
बहु जगद पुरस्तात्तस्य मत्ता किलाहं
चकर च किल चाटु प्रौढयोषिद्वदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥३९॥
अरुणजलजराजीमुग्धहस्ताग्रपादा
बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती
रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥४०॥
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां
विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौघध्वंसमध्वर्युवर्यै-
र्हुतमयमुपलीढे साधु सान्नाय्यमग्निः ॥४१॥
प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं
मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य
व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥४२॥
नवकनकपिशङ्गं वासराणां विधातुः
ककुभि कुलिशपाणेर्भाति भासां वितानम् ।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा
ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥४३॥
विततपृथुवरत्रातुल्यरूपैर्मयूखैः
कलश इव गरीयान्दिग्भिराकृष्यमाणः ।
कृतचपलविहङ्गालापकोलाहलाभि-
र्जलनिधिजलमध्यादेष उत्तार्यते ऽर्कः ॥४४॥
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
स्फुटमनिशमतापि ज्वालया वाडवाग्नेः ।
यदयमिदमिदानीमङ्गमुद्यन्दधाति
ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥४५॥
अतुहिनरुचिनासौ केवलं नोदयाद्रिः
क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
नवकरनिकरेण स्पष्टबन्धूकसून-
स्तबकरचितमेते शेखरं बिभ्रतीव ॥४६॥
उदयशिखरिशृङ्गप्राङ्गणेष्वेष रिङ्ग-
न्सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवो ऽङ्के हेलया बालसूर्यः ॥४७॥
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः
प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः
क्षितिधरतटपीठादुत्थितः सप्तसप्तिः ॥४८॥
परिणतमदिराभं भास्करेणांशुबाणै-
स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।
रुधिरमिव वहन्त्यो भान्ति बालातपेन
छुरितमुभयरोधोवारितं वारि नद्यः ॥४९॥
दधति परिपतन्त्यो जालवातायनेभ्य-
स्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं
कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥५०॥
अधिरजनि वधूभिः पीतमैरेयरिक्तं
कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्त-
र्मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥
सितरुचि शयनीये नक्तमेकान्तमुक्तं
दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
निजमिति रतिबन्धोर्जानतीमुत्तरीयं
परिहसति सखी स्त्रीमाददानां दिनादौ ॥५२॥
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
स्फटिकमयमराजद्राजताद्रिस्थलाभम् ।
अरुणितमकठोरैर्वेश्म काश्मीरजाम्भः-
स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥५३॥
सरसनखपदान्तर्दष्टकेशप्रमोकं
प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
विदधति दशनानां सीत्कृताविष्कृताना-
मभिनवरविभासः पद्मरागानुकारम् ॥५४॥
अविरतदयिताङ्गासङ्गसञ्चारितेन
छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखाकोमलं कामिनीनां
भवति वपुरवाप्तच्छायमेवातपे ऽपि ॥५५॥
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः
करनयनसहस्रं हेतुमालोकशक्तेः ।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं
हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥५६॥
अवतमसभिदायै भास्वताभ्युद्गतेन
प्रसभमुडुगणो ऽसौ दर्शनीयो ऽव्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण
श्रियमधिगतवन्तस्ते ऽपि हन्तव्यपक्षे ॥५७॥
प्रतिफलति करौघे सम्मुखावस्थितायां
रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
बहिरभिहतमद्रेः संहतं कन्दरान्त-
र्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥५८॥
बहिरपि विलसन्त्यः काममानिन्यिरे य-
द्दिवसकररुचो ऽन्तं ध्वान्तमन्तर्गृहेषु ।
नियतविषयवृत्तेरप्यनल्पप्रताप-
क्षतसकलविपक्षस्तेजसः स स्वभावः ॥५९॥
चिरमतिरसलौल्याद्बन्धनं लम्भितानां
पुनरयमुदयाय प्राप्य धाम स्वमेव ।
दलितदलकपाटः षट्पदानां सरोजे
सरभस इव गुप्तिस्फोटमर्कः करोति ॥६०॥
युगपदयुगसप्तिस्तुल्यसङ्ख्यैर्मयूखै-
र्दशशतदलभेदं कौतुकेनाशु कृत्वा ।
श्रियमलिकुलगीतैर्लालितां पङ्कजान्त-
र्भवनमधिशयानामादरात्पश्यतीव ॥६१॥
अदयमिव कराग्रैरेष निष्पीड्य सद्यः
शशधरमहरादौ रागवानुष्णरश्मिः ।
अवकिरति नितान्तं कान्तिनिर्यासमब्द-
स्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥६२॥
प्रविकसति चिराय द्योतिताशेषलोके
दशशतकरमूर्तावक्षिणीव द्वितीये ।
सितकरवपुषासौ लक्ष्यते सम्प्रति द्यौ-
र्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥६३॥
कुमुदवनपमश्रि श्रीमदम्भोजषण्डं
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्ते
हतविधिलसितानां ही विचित्रो विपाकः ॥६४॥
क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता-
दुपगतवति पाणिग्राहवद्दिग्वधूनाम् ।
द्रुततरमुपयाति स्रंसमानांशुको ऽसा-
वुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ॥६५॥
प्रलयमखिलतारालोकमह्नाय नीत्वा
श्रियमनतिशयश्रीः सानुरागां दधानः ।
गगनसलिलराशिं रात्रिकल्पावसाने
मधुरिपुरिव भास्वानेष एको ऽधिशेते ॥६६॥
कृतसकलजगद्विबोधो ऽवधूतान्धकारोदयः
क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती
तव वरद करोतु सुप्रातमह्नामयं नायकः ॥६७॥

१२ यात्रावर्णनम्

इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥१॥
स्वक्षं सुपत्रं कनकोज्ज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्यं नभसीव भूतले ययावनुद्घातसुखेन सो ऽध्वना ॥२॥
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शार्ङ्गिणमन्वयासिषुः ॥३॥
शुक्लैः सतारैर्मुकुलीकृतैः स्थुलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥४॥
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥५॥
स्वैरं कृतास्फालनलालितान्पुरःस्फुरत्तनून्दर्शितलाघवक्रियाः ।
वङ्कावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥६॥
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥७॥
गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥८॥
उत्थातुमिच्छन्विधृतः पुरोबलान्निधीयमाने भरभाजि यन्त्रके ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥९॥
नस्यागृहीतो ऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनेन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१०॥
नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥११॥
प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदो निषादिना ॥१२॥
सम्मूर्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥१३॥
कालीयकक्षोदविलेपनश्रियं दिशद्दिशामुल्लसदंशुभद्युति ।
खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ॥१४॥
मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
तारैर्बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरङ्गहेषितैः ॥१५॥
अन्वेतुकामो ऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः ।
स्थूलोच्चयेनागमदन्तिकागतां गजो ऽग्रयाताग्रकरः करेणुकाम् ॥१६॥
यान्तो ऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥१७॥
ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलघर्घरारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥१८॥
तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिवाद्रवत् ॥१९॥
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहो ऽवरोधिकाः ॥२०॥
पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।
भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥२१॥
दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥२२॥
भूभृद्भिरप्यस्खलिताः खलून्नतैरपह्नुवाना सरितः पृथूरपि ।
अन्वर्थसञ्ज्ञैव परं त्रिमार्गगा ययावसङ्ख्यैः पथिभिश्चमूरसौ ॥२३॥
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥२४॥
स्रस्ताङ्गसन्धौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥२५॥
धूर्भङ्गसङ्क्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥२६॥
भेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात्क्रियते स्म भूधरः ॥२७॥
वन्येभदानानिलगन्धदुर्धराः क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ॥२८॥
तैर्वैजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानदीशतैर्भुवो बलैरन्तरयाम्बभूविरे ॥२९॥
तस्थे मुहूर्तं हरिणीविलोचनैः सदृंशि दृष्ट्वा नयनानि योषिताम् ।
मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥३०॥
निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ।
उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥३१॥
अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥३२॥
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्त्रतया पताकिनी ॥३३॥
आगच्छतो ऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः ।
दूरादपावर्तितभारवाहणाः पथो ऽपसस्रुस्त्वरितं चमूचराः ॥३४॥
ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनो ऽनुज्झितगोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः ॥३५॥
निःशेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रो ऽपि समुज्झति स्थितिम् ।
ग्रामेषु सैन्यैरकरोदवारितः किमव्यवस्थां चलितो ऽपि केशवः ॥३६॥
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ॥३७॥
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥३८॥
पश्यन्कृतार्थैरपि बल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥३९॥
प्रीत्या नियुक्तांल्लिहतीः स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ॥४०॥
अभ्याजतो ऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः ।
वर्गाद्गवां हुङ्कृतिचारु निर्यतीमरिर्मधोरैक्षत गोमतल्लिकाम् ॥४१॥
स व्रीहिणां यावदपासितुं गताः
शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।
कैदारिकाणामभितः समाकुलाः
सहासमालोकयति स्म गोपिकाः ॥४२॥
व्यासेद्धुमस्मानवधानतः पुरा
चलत्यसावित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो
न नूनमत्तीति हरिर्व्यलोकयत् ॥४३॥
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपमपाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥४४॥
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥४५॥
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितो ऽध्यरोहयत् ॥४६॥
दन्ताग्रनिर्भिन्नपयोदमुन्मुखा शिलोच्चयानारुरुहुर्महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥४७॥
श्च्योतन्मदाम्भःकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नागेन नागेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥४८॥
भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥४९॥
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥५०॥
शैलाधिरोहाभ्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥५१॥
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजम्भवमन्यथाथवा ॥५२॥
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥५३॥
श्मश्रूयमाणे मधुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥५४॥
नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा ।
सञ्चेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवङ्गमाः ॥५५॥
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरानपि ।
साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥५६॥
स व्याप्तवत्या परितो ऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥५७॥
यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥५८॥
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्कं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥५९॥
रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।
कूलङ्कषौघाः सरितस्तथापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥६०॥
पद्मैरनन्वीतवधूमुखद्युतो गता न हंसैः श्रियमातपत्रजाम् ।
दूरे ऽभवन्भोजबलस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥६१॥
स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसम्पदां पुरां बहूनां परभागमाप सा ॥६२॥
प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥६३॥
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनो ऽलयः ॥६४॥
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥६५॥
उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यामुने रजः ॥६६॥
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी ॥६७॥
यस्या महानीलतटीरिव द्रुताः
प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
कालीरपस्ताभिरिवानुरञ्जिताः
क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥६८॥
व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गाङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥६९॥
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला नितरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥७०॥
लोलैररित्रैश्चरणैरिवाभितो जवाद्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥७१॥
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥७२॥
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥७३॥
तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥७४॥
सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः ।
सिन्दूरितानेकपकङ्कणाङ्किता तरङ्गिणीवेणिरिवायता भुवः ॥७५॥
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राघिमभिर्गरीयसः ।
नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥७६॥
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
रलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः ।
सदसि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलैः
स्खलितसलिलामुल्लङ्घ्यैनां जगाम वरूथिनी ॥७७॥

१३ श्रीकृष्णसमागमः

यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते ।
स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥१॥
यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितो ऽनुजन्मभिर्वसुधाधिपो ऽभिमुखमस्य निर्ययौ ॥२॥
रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसञ्ज्ञया ॥३॥
अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥४॥
द्रुतमध्वनन्नुपरिपाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥५॥
व्रजतोरपि प्रणयपूर्वमेकतां कुकुराधिनाथकुरुनाथसैन्ययोः ।
रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥६॥
अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥७॥
वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
भुवनैर्नतो ऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥८॥
मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥९॥
न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितो ऽभिषस्वजे ॥१०॥
गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।
कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहिमुरविद्विषः श्रिया ॥११॥
शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥१२॥
सुखवेदनाहृषितरोमकूपया शिथिलीकृते ऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३॥
इतरानपि क्षितिभुजो ऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभो ऽसभाजयत् ॥१४॥
समुपेत्य तुल्यमहसः शिलाघना-
न्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः
कुलिशात्परेण गिरयो गिरीनिव ॥१५॥
इभकुम्भतुङ्गघटितेतरेतरस्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥१६॥
रथवाजिपत्तिकरिणीसमाकुलं
तदनीकयोः समगत द्वयं मिथः ।
दधिरे पृथक्करिण एव दूरतो
महतां हि सर्वमथवा जनातिगम् ॥१७॥
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥१८॥
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥१९॥
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरधुवत्प्रकीर्णकम् ॥२०॥
विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥२१॥
पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥२२॥
वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥
मुदितैस्तदेति दितिजन्मनां रिपावविनीयसम्भ्रमविकासिभक्तिभिः ।
उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥२४॥
गतयोरभेदमिति सैन्ययोस्तयोरथ भानुजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥२५॥
मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥२६॥
प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥२७॥
असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥२८॥
तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥२९॥
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥३०॥
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरे ऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥३१॥
रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥३२॥
व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥३३॥
व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसङ्क्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥३४॥
अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ॥३५॥
अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥३६॥
करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥३७॥
हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥३८॥
धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति ।
मदनेन वीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥३९॥
विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥४०॥
अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥४१॥
परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥४२॥
नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥४३॥
वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥४४॥
निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥४५॥
अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥४६॥
अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥४७॥
अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।
अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥४८॥
नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयो ऽथ हरिणातिपेतिरे ॥४९॥
उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
विदधे ऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ॥५०॥
अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥५१॥
लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥५२॥
विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥५३॥
निलयेषु नक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्फुटागसः ।
मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जघ्निरे ॥५४॥
सुखिनः पुरो ऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥५५॥
तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥५६॥
विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।
यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥५७॥
उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥५८॥
नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥५९॥
हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥६०॥
अभितः सदो ऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥६१॥
तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥६२॥
नवहाटकेष्टकचितं ददर्श सः क्षितिपस्य पस्त्यमथ तत्र संसदि ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदस्मयत नाकिनामपि ॥६३॥
उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥६४॥
सुतरां सुखेन सकलक्लमच्छिदा सनिदाघगङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥६५॥
अनवद्यवाद्यलयगामि कोमलं
नवगीतमप्यनवगीततां दधत् ।
स्फुटसात्त्विकाङ्गिकमनृत्यदुज्ज्वलं
सविलासलासिकविलासिनीजनः ॥६६॥
सकले च तत्र गृहमागते हरौ नगरे ऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥६७॥
हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥६८॥
मर्त्यलोकदुरवापमवाप्तरसोदयं
नूतनत्वमतिरिक्ततयानुपदं दधत् ।
श्रीपतिः पतिरसाववनेश्च परस्परं
सङ्कथामृतमनेकमसिस्वदतामुभौ ॥६९॥

१४ कृष्णार्घदानम्

तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकद्वदो नृपः ॥१॥
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेति न तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥२॥
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचो ऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ॥३॥
बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥४॥
सा विभूतिरनुभावसम्पदां भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥५॥
सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ॥६॥
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥७॥
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मे ऽधुना ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥८॥
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।
तीर्थगामि करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥९॥
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१०॥
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।
शाधि शासक जगत्त्रयस्य मामाश्रवो ऽस्मि भवतः सहानुजः ॥११॥
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥१२॥
सादिताखिलनृपं महन्महः स्वम्प्रति स्वनयसम्पदैव ते ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥१३॥
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥१४॥
शासने ऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनधनं धनञ्जयादन्य एष इति मां च मावगाः ॥१५॥
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः ॥१६॥
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥१७॥
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥१८॥
तस्य साङ्ख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतो ऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥१९॥
शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदो ऽनुवाक्यया ।
याज्यया यजनकर्मिणो ऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥२०॥
सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥२१॥
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवाम्बभूविरे ॥२२॥
नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः ॥२३॥
संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥२४॥
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥२५॥
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥२६॥
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
गन्धतो ऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥२७॥
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥२८॥
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥२९॥
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयो ऽभवन्नप्रफुल्लसुरपादपस्रजः ॥३०॥
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
उद्धतानधिकमेधितौजसो दानवांश्च विबुधा विजिग्यिरे ॥३१॥
नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् ।
अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्च सम्पदः ॥३२॥
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥३३॥
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपो ऽवपत् ॥३४॥
किन्नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः प्राप्य ते ऽपि विमलं प्रतिग्रहम् ॥३५॥
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
आशशाङ्कतपनार्णवस्थितेर्विप्रसादकृतभूयसीर्भुवः ॥३६॥
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥३७॥
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥३८॥
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥३९॥
एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥४०॥
प्रीतिरस्य ददतो ऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥४१॥
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपो ऽपरैर्गौरवेण ददृशेतरामसौ ॥४२॥
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
वाचि रोपितवतामुना महीं राजकाय विषया विभेजिरे ॥४३॥
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।
तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखो ऽर्थिनः ॥४४॥
नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कामलाक्षिपत् ।
नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥४५॥
निर्गुणो ऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोभवत् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥४६॥
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥४७॥
दर्शनानुपदमेव कामतः स्वं वनीयकजने ऽधिगच्छति ।
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचो ऽतिसर्जने ॥४८॥
नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥४९॥
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥५०॥
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥५१॥
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥५२॥
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ धर्मजन्मना ।
अर्घदानमनु चोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥५३॥
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्न पृच्छसि त्वं क्रमो ऽयमिति तत्र कारणम् ॥५४॥
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥५५॥
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखं मुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥५६॥
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमो ऽथवा पूज्य इत्ययमपीष्यते विधिः ॥५७॥
अत्र चैष सकले ऽपि भाति मां प्रत्यशेषगुणबन्धुरर्हति ।
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥५८॥
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥५९॥
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ॥६०॥
पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थितिं नयन् ।
संहरन्हर इति श्रितस्तमस्त्रैधमेष भजति त्रिभिर्गुणैः ॥६१॥
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः ॥६२॥
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥६३॥
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥६४॥
आदितामजननाय देहिनामन्ततां च दधते ऽनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणो ऽप्युपरि तिष्ठते नमः ॥६५॥
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥६६॥
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।
तच्च कारणमभूद्धिरण्मयं ब्रह्मणो ऽसृजदसाविदं जगत् ॥६७॥
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥६८॥
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।
श्रीमुखेन्दुसविधे ऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥६९॥
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥७०॥
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥७१॥
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥७२॥
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥७३॥
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥७४॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥७५॥
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥७६॥
क्रामतो ऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥७७॥
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥७८॥
सम्प्रदायविगमादुपेयुषीरेष नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥७९॥
रेणुकातनयतामुपागतः शातितप्रचुरपत्त्रसंहतिः ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥८०॥
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥८१॥
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयम्भुवा ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥८२॥
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥८३॥
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
यो ऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥८४॥
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शम्भुविभ्रमम् ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥८५॥
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥८६॥
धन्यो ऽसि यस्य हरिरेष समक्ष एव
दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्त्वार्घमत्रभवते भुवनेषु याव-
त्संसारमण्डलमवाप्नुहि साधुवादम् ॥८७॥
भीष्मोक्तं तदिति वचो निशम्य सम्य-
क्साम्राज्यश्रियमधिगच्छता नृपेण ।
दत्ते ऽर्घे महति महीभृतां पुरो ऽपि
त्रैलोक्ये मधुभिदभूदनर्घ एव ॥८८॥

१५ शिशुपाल-युद्ध-प्रस्थानम्

अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥१॥
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥२॥
अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥३॥
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥४॥
स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥५॥
क्षणमाश्लिषद्घटितशैलशिखरकठिनांसमण्डनः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥६॥
कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥७॥
कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥८॥
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलतामवलम्बते स्म समया सखीमिव ॥९॥
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥१०॥
इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥११॥
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥१२॥
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरामसौ ॥१३॥
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥१४॥
यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥१५॥
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥१६॥
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।
भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥१७॥
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥१८॥
अथ वा न धर्ममसुबोधसमयमवयात बालिशाः ।
काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥१९॥
स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥२०॥
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥२१॥
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
कृष्ण कलय ननु को ऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥२२॥
असुरस्त्वया न्यवधि को ऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥२३॥
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः ॥२४॥
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥२५॥
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥२६॥
जगति श्रिया विरहितो ऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥२७॥
अभिशत्रु संयति कदाचिदविहितपराक्रमो ऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥२८॥
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥२९॥
तव धन्यतेयमपि सर्वनृपतितुलितो ऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥३०॥
त्वमशक्नुवन्नशुभकर्मनिरत परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसे ऽधिलोकमजयः सुतं भुवः ॥३१॥
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
व्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा ॥३२॥
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥३३॥
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवो ऽधिपाः ॥३४॥
अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥३५॥
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥३६॥
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥३७॥
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वामिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥३८॥
ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् ।
सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र को गुणः ॥३९॥
न महानयं न च बिभर्ति गुणसमतया प्रधानताम् ।
स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानता दधत् ॥४०॥
रहितं कलाभिरखिलाभिरकृतरसभावसंविदम् ।
क्षेत्रविदमपदिशन्ति जनाः पुरबाह्यमेलमगतं विदग्धताम् ॥४१॥
अतिभूयसापि सुकृतेन दुरुपचर एष शक्यते ।
भक्तिशुचिभिरुपचारपरैरपि न ग्रहीतुमभियोगिभिर्नृभिः ॥४२॥
व्रजति स्वतामनुचितो ऽपि सविनयमुपासितो जनैः ।
नित्यमपरिचितचित्ततया पर एव सर्वजगतस्तथाप्ययम् ॥४३॥
उपकारिणं निरुपकारमनरिमरिमप्रियं प्रियम् ।
साधुमितरमबुधं बुधमित्यविशेषतः सततमेष पश्यति ॥४४॥
उपकारकस्य दधतो ऽपि बहुगुणतया प्रधानताम् ।
दुःखमयमनिशमाप्तवतो न परस्य किञ्चिदुपकर्तुमिच्छति ॥४५॥
स्वयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः ।
भोक्तुमविरतमलज्जतया फलमीहते परकृतस्य कर्मणः ॥४६॥
य इमं समाश्रयति कश्चिदुदयविपदोर्निराकुलम् ।
तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमेयुषः ॥४७॥
गुणवन्तमप्ययमपास्य जनमखिलमव्यवस्थितैः ।
याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः ॥४८॥
सुकृतो ऽपि सेवकजनस्य बहुदिवसखिन्नचेतसः ।
सर्वजनविहितनिर्विदयं सकृदेव दर्शनमुपैति कस्यचित् ॥४९॥
स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि ।
स्नेहममृदुहृदयः क्षपयन्निरपेक्ष एष समुपैति निर्वृतिम् ॥५०॥
क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः ।
सत्त्वहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥५१॥
अभिहन्यते यदभिहन्ति परितपति यच्च तप्यते ।
नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव हीदृशी ॥५२॥
अतिसत्वयुक्त इति पुम्भिरयमतिशयेन वर्ण्यते ।
सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्वसङ्करम् ॥५३॥
प्रलयं परस्य महतो ऽपि सततमिह निःसुखे गुणाः ।
यान्ति जगदपि सदोषमदः स्वरुचैव पश्यति गुणान्द्विषन्नयम् ॥५४॥
क्षितिपीठमम्भसि निमग्नमुदहरत यः परः पुमान् ।
एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥५५॥
नरसिंहमूर्तिरयमेव दितिसुतमदारयन्नखैः ।
आप्तजनवचनमेतदपि प्रतिपत्तुमोमिति जनो ऽयमर्हति ॥५६॥
अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नीचताम् ।
स्वार्थकरणपटुरेष पुरा बलिना परेण सह सम्प्रयुज्यते ॥५७॥
क्रमते नभो रभसयैव विरचयति विश्वरूपताम् ।
सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥५८॥
किल रावणारिरयमेव किमिदमियदेव कथ्यते ।
सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥५९॥
चलतैष पादयुगलेन गुरु शकटमीषदस्पृशत् ।
दैवकलितमथ चोदलसद्दलितोरुभाण्डचयमात्मनैव तत् ॥६०॥
स्नुवतामुना स्तनयुगेन जनितजननीजनादरा ।
स्त्रीति सदयमविधाय मनस्तदकारि साधु यदघाति पूतना ॥६१॥
अभनक्तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् ।
बाढमिदमपि न बालकृतं ननु देवताविधिरयं विजृम्भते ॥६२॥
विहरन्वने विजन एव महति दधदेष गोपताम् ।
नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥६३॥
अविमृष्य गोवधसमुत्थमयमघममीमरद्रुषा ।
रिष्टमुपगु समुपोढमदं यदसौ किलासुर इति प्रमार्ष्टि तत् ॥६४॥
मुखकन्दरान्तरगतो ऽपि विकटदशनेन केशिना ।
नास्य सपदि यदखादि भुजस्तदहो तिरश्चि सहजैव मूढता ॥६५॥
यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् ।
भूरि सलिलमविषह्यमियं जलदे विमुञ्चति गवां सभाग्यता ॥६६॥
किमिवात्र चित्रमयमन्नमचलमहकल्पितं यदि ।
प्राश निखिलमखिले ऽपि जगत्युदरं गते बहुभुजो ऽस्य न व्यथा ॥६७॥
अमुना करेण पृथुदन्तमुसलमुदखानि दन्तिनः ।
तेन यदवधि स एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥६८॥
शिशुरेव शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् ।
मल्लमधुकठिनांसतटं न्यवधीद्यदेष तददृष्टकारितम् ॥६९॥
यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् ।
कंसमभियमयमभ्यभवत्समुदा जनेन तदपि प्रशंस्यते ॥७०॥
इति निन्दितुं कृतधियापि वचनममुना यदाददे ।
स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनो ऽभवत् ॥७१॥
यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरं द्विषन् ।
द्व्यर्थमपि सदसि चेदिपतेस्तदतो ऽपराधगणनामगाद्वचः ॥७२॥
इति वाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरो ऽसहनः स जहास दत्तकरतालमुच्चकैः ॥७३॥
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥७४॥
न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो ऽनुवर्तते ॥७५॥
विहितागसो मुहुरलङ्घ्यनिजवचनदामसंयतः ।
तस्य कथित इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥७६॥
स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥७७॥
नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥७८॥
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥७९॥
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥८०॥
इति भीष्मभाषितवचो ऽर्थमधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥८१॥
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥८२॥
प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमो ऽपर इवाभवद्द्रुमः ॥८३॥
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ॥८४॥
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥८५॥
कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्त्रमरिचक्रभीषणम् ॥८६॥
प्रतिघः कुतो ऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
यामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥८७॥
चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥८८॥
कुपितेषु राजसु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकान्दधौ ॥८९॥
गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥९०॥
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥९१॥
इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।
मारबलमिव भयङ्करतां हरिबोधिसत्त्वमभि राजमण्डलम् ॥९२॥
रभसादुदस्थुरथ युद्धमनुचितभियो ऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥९३॥
स्फुरमाणनेत्रकुसुमोष्ठदलमभृत भूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥९४॥
हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्न भूभृतः ॥९५॥
गुरु निःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥९६॥
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥९७॥
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलस्य मुखमीक्षितुं क्षमः ॥९८॥
विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥९९॥
अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पतता गणैः पिबतु सार्धमुर्वरा ॥१००॥
अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥१०१॥
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥१०२॥
चलितं ततो ऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥१०३॥
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापतिता वनिताश्चकार न सकामचेतसः ॥१०४॥
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥१०५॥
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सान्नहनिको ऽस्य वारिजः ॥१०६॥
जगदन्तकालसमवेतविषदविषमेरितारवम् ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥१०७॥
सहसा ससम्भ्रमविलोलसकलजनतासमाकुलम् ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥१०८॥
दधतो भयानकतरत्वमुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥१०९॥
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥११०॥
रणसम्मदोदयविकासिबलकलकलाकुलीकृते ।
शारिमशकदधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥१११॥
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥११२॥
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुरशनय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥११३॥
दधतः शशाङ्कितशशारुचि लसदुरश्छदं वपुः ।
चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीभृतः ॥११४॥
दयिताय सासवमुदस्तमपतदवसादिनः करात् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥११५॥
भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥११६॥
सुदृशः समीकगमनाय युवभिरथ सम्बभाषिरे ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥११७॥
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥११८॥
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिमवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥११९॥
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥१२०॥
व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविरुद्धमन्युना ॥१२१॥
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥१२२॥
ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥१२३॥
सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥१२४॥
क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रति क्षुतमिवोपशुश्रुवे ॥१२५॥
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥१२६॥
समरोन्मुखे नृपगणे ऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ॥१२७॥
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशमा दृशः पथः ॥१२८॥
सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥१२९॥
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥१३०॥

१६ शिशुपालसन्देशः

दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥१॥
अभिधाय तदा तदप्रियं शिशुपालो ऽनुशयं परं गतः ।
भवतो ऽभिमना समीहते सरुषः कर्तुमुपेत्य माननाम् ॥२॥
विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥३॥
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥४॥
अधिवह्नि पतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥५॥
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥६॥
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशो ऽन्यो गुणवानविस्मयः ॥७॥
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरके ऽपि सम्प्रति ।
प्रतिपत्तिरधः कृतैनसो जनताभिस्तव साधु वर्ण्यते ॥८॥
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥९॥
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥१०॥
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥११॥
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥१२॥
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः सगदः सम्प्रतिपत्तुमर्हसि ॥१३॥
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य सम्प्रति ।
सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥१४॥
विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥१५॥
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचो ऽथ चोदितश्चलितैकभ्रु रथाङ्गपाणिना ॥१६॥
मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥१७॥
अतिकोमलमेकतो ऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥१८॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतो ऽर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ॥१९॥
हरिमर्चितवान्स भूपतिर्यदि राज्ञस्तव को ऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥२०॥
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी क्षपयन्त्येव हि तन्मनीषिणः ॥२१॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥२२॥
परितप्यत एव नोत्तमः परितप्तो ऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयो ऽधमः ॥२३॥
अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥२४॥
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥२५॥
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥२६॥
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥२७॥
परितोषयिता न कश्चन स्वगतो यस्य गुणो ऽस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥२८॥
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥२९॥
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥३०॥
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
वदिता न लघीयसो ऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥३१॥
विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
दधतो ऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥३२॥
नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥३३॥
समनद्ध किमङ्ग भूपतिर्यदि सन्धित्सुरसौ सहामुना ।
हरिराक्रमणेन सन्नतिं किल बिभ्रीत भियेत्यसम्भवः ॥३४॥
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥३५॥
यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् ।
अथ सम्प्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥३६॥
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥३७॥
निशमय्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥३८॥
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥३९॥
विदुरेष्यदपायमात्मना परतः श्रद्दधते ऽथ वा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीते ऽनुभवादृते ऽल्पधीः ॥४०॥
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥४१॥
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥४२॥
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥४३॥
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतो ऽनुधावति ।
अपहाय महीशमार्चिचत्सदसि त्वां ननु भीमपूर्वजः ॥४४॥
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥४५॥
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौघमधत्त शङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥४६॥
अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥४७॥
अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥४८॥
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनको ऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥४९॥
अनिरूपितरूपसम्पदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥५०॥
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥५१॥
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥५२॥
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥५३॥
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥५४॥
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
भजते कुपितो ऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥५५॥
हितमप्रियमिच्छसि श्रुतं यदि सन्धत्स्व पुरा न नश्यसि ।
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥५६॥
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोदहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥५७॥
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति ॥५८॥
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥५९॥
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठमीक्षते वदनं सो ऽपि न जातु विद्विषाम् ॥६०॥
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधते ऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥६१॥
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैः खलु यस्याङ्घ्रियुगं विलिप्यते ॥६२॥
समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥६३॥
तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥६४॥
दधतो ऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥६५॥
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥६६॥
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरुद्धवर्त्मनः ।
अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥६७॥
न चिकीर्षति यः स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः ।
चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥६८॥
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥६९॥
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥७०॥
भृतभूतिरहीनभोगभाग्विजितानेकपुरो ऽपि विद्विषाम् ।
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥७१॥
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥७२॥
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥७३॥
घनपत्त्रभृतो ऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥७४॥
इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥७५॥
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥७६॥
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥७७॥
इति यस्य ससम्पदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥७८॥
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णां पृथिवीं करिष्यति ॥७९॥
परितः प्रमिताक्षरापि सर्वं विषयं प्राप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥८०॥
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेनोह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥८१॥
भूयांसः क्वचिदपि काममस्खलन्त-
स्तुङ्गत्वं दधति च यद्यपि द्वये ऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं
शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥८२॥
लोकालोकव्याहतं घर्मरश्मेः
शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥८३॥
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नो ऽधरो ऽलक्तकै-
रच्छाच्छे पतिताञ्जने च नयने श्रोण्यो लसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा-
मित्थं नित्यविभूषणा युवतयः सम्पत्सु चापत्स्वपि ॥८४॥
विनिहत्य भवन्तमूर्जितश्रीर्युधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यते ऽसौ ॥८५॥

१७ कृष्ण-दण्ड-यात्रा

इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
प्रचुक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥१॥
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥२॥
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।
समुल्लसच्छकलितपाटलोपलस्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥३॥
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् ॥४॥
यदुत्पतत्पृथुनरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।
बृहच्छिलातलकठिनांसघट्टितं ततो ऽभवद्भ्रमितमिवाखिलं सदः ॥५॥
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥६॥
प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।
समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥७॥
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
करद्वयं सपदि सुधन्वनो निजैरनारतम्रुतिभिरधाव्यताम्बुभिः ॥८॥
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसम्पदम् ।
अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धमाहुकिः ॥९॥
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्यया ।
ध्रुवं पुनः सशरममुं तृतीयया हरो ऽपि न व्यसहत वीक्षितुं दृशा ॥१०॥
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥११॥
विलङ्घितस्थितिमभिवीक्ष्य रूक्षया रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ।
जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥१२॥
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः ।
क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गौरिकारुणः ॥१३॥
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥१४॥
ससम्भ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥१५॥
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।
अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥१६॥
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥१७॥
समाकुले सदसि तथापि विक्रियां मनो ऽगमन्न मुरभिदः परोदितैः ।
घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥१८॥
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥१९॥
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥२०॥
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥२१॥
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति ।
महीभुजां महिमभृतां न सम्ममुर्मुदो ऽन्तरा वपुषि बहिश्च कञ्चुकाः ॥२२॥
सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥२३॥
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥२४॥
सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसम्पदः ।
रणैषिणां पुलकभृतो ऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥२५॥
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥२६॥
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥२७॥
उपेत्य च स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥२८॥
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥२९॥
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।
विकौतुकः प्रकृतमहाप्लवे ऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥३०॥
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।
असम्भवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥३१॥
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥३२॥
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।
अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥३३॥
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥३४॥
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।
गजाः सकृत्करतललोलनालिका हता मुहुःप्रणदितघण्टमाययुः ॥३५॥
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।
व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥३६॥
चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।
मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥३७॥
असिच्यत प्रशमितपांसुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।
अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥३८॥
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।
यतः पुरः प्रतिरिपुशार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥३९॥
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि ।
पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥४०॥
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।
पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥४१॥
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
यथा पुरः समरसमुद्यतद्विषद्बलानकध्वनिरुदकर्षयन्मनः ॥४२॥
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः ।
तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥४३॥
प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥४४॥
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥४५॥
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥४६॥
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥४७॥
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।
मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥४८॥
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
यदूनभिद्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥४९॥
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥५०॥
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥५१॥
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।
बलैश्चलच्चरणविधूतमुच्चरद्घनावलीरुदचरत क्षमारजः ॥५२॥
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।
चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥५३॥
गरीयसः प्रचुरमुखस्य रागिणो रजोभवद्व्यवहितसत्त्वमुत्कटम् ।
सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥५४॥
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥५५॥
क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥५६॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥५७॥
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥५८॥
सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।
यतः क्षितेरवयवसम्पदो ऽणवस्त्विषां निधेरपि वपुरावरीषत ॥५९॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजो ऽवगुण्ठितम् ।
युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥६०॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥६१॥
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ।
रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥६२॥
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥६३॥
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।
चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥६४॥
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।
नभस्तलं बहुलतरेण रेणुना ततो ऽगमत्त्रिजगदिवैकतां स्फुटम् ॥६५॥
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।
रहस्त्रपाविधुरवधूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥६६॥
गते मुखच्छदपटसादृशीं दृशः पथस्तिरो दधति घने रजस्यपि ।
मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥६७॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।
उपर्यवस्थितघनपांसुमण्डलानलोकयत्ततपटमण्डपानिव ॥६८॥
अन्यूनोन्नतयो ऽतिमात्रपृथवः पृथ्वीधरश्रीभृत-
स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः
काले कालियकायकालवपुषः पांसूङ्गजाम्भोमुचः ॥६९॥

१८ युद्धम्

सञ्जग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥१॥
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥२॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तो ऽभूदीशितेव प्रणादः ॥३॥
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥४॥
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।
रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥६॥
सङ्क्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥७॥
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताकाः ॥८॥
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥९॥
घण्टानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।
आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥१०॥
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥११॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।
हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥१२॥
शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः ।
अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥१३॥
आक्रम्याजेरग्रिमस्कन्दमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥१४॥
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मापितैः स्थावराणि ।
केचिद्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥१५॥
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥१६॥
आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशन्पुष्कराणि ॥१७॥
मिश्रीभूते तत्र सैन्यद्वये ऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।
आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती सम्मुखो यः परो ऽसौ ॥१८॥
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा ।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥१९॥
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥२०॥
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥२१॥
भित्त्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखो ऽपि ॥२२॥
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनो ह्रेपयन्ति ॥२३॥
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तो ऽधोलोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥२४॥
विष्वद्रीचीर्विक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥२५॥
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्ति चारीव्युत्थानज्ञो हस्तिचारी मदस्य ।
सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥२६॥
क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
घोरारावध्वानिताशेषदिक्के विष्के नागः पर्यणंसीत्स्व एव ॥२७॥
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदो ऽपि ।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षाञ्चक्रे नैव किञ्चिन्मदान्धः ॥२८॥
तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥२९॥
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
भग्नस्योच्चैर्बर्हभारेण शङ्कोरावव्राते वीक्षणे च क्षणेन ॥३०॥
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चित्यान्यश्चेतसा भावितेन ।
अन्त्यावस्थाकालयोग्योपयोगं दध्रे ऽभीष्टं नागमापद्धनं वा ॥३१॥
अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
उन्मूर्धानः सन्निपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥३२॥
द्राघीयांसः संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥३३॥
मातङ्गानां दन्तसङ्घट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः ।
लग्नो ऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥३४॥
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
यौगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥३५॥
सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥३६॥
आकम्प्राग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्तिस्म नागाः ॥३७॥
उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥३८॥
भग्ने ऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।
साकं यन्तुः सम्मदेनानुबन्धी दूनो ऽभीक्ष्णं वारणः प्रत्यरोधि ॥३९॥
व्याप्तं लोकैर्दुःखलभ्यापसारं संरम्भित्वादेत्य धीरो महीयः ।
सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥४०॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥४१॥
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥४२॥
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥४३॥
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥४४॥
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।
भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥४५॥
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतो ऽवाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥४६॥
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किञ्चिद्दन्तयोरन्तराले ।
ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥४७॥
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥४८॥
कञ्चिद्दूरादायतेन द्रढीयः प्रासप्रोतस्रोतसान्तःक्षतेन ।
हस्ताग्रेण प्राप्तमेवाग्रतो ऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥४९॥
तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन ।
दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥५०॥
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
सास्थिस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥५१॥
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥५२॥
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रे ऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥५३॥
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥५४॥
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तेराकिरन्ति स्म कञ्चित् ।
एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादैर्द्वयेपि ॥५५॥
बाणाक्षिप्तारोह शून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् ।
संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥५६॥
पौनःपुन्यादस्रगन्धेन मत्तो मृद्गङ्कोपाल्लोकमायोधनोर्व्याम् ।
पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७॥
कश्चिन्मूर्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्छ ॥५८॥
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥५९॥
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।
त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥६०॥
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः ।
प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥६१॥
स्वर्गे वासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥६२॥
गत्वा नूनं वैबुधं सद्म रम्यं मूर्छाभाजामाजगामान्तरात्मा ।
भूयो दृष्टप्रत्ययाः प्राप्तसञ्ज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥६३॥
कश्चिच्छस्त्रापातमूढो ऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥६४॥
भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ।
अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप्यभूताम् ॥६५॥
भिन्नानस्त्रैर्मोहभाजो ऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।
जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याज्जनेन ॥६६॥
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥६७॥
रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।
हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥६८॥
निम्नेष्वोघीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार ।
रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ॥६९॥
रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्त्रियास्रैः ।
रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्सङ्ख्ये ऽसङ्ख्याः प्रावहन्द्वीपवत्यः ॥७०॥
सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः ।
कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयो ऽसृङ्मयीणाम् ॥७१॥
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः ॥७२॥
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रमुः पत्त्रवाहाः ।
मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ॥७३॥
आतन्वद्भिर्दिक्षु पत्त्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्त्रिपूगैरपायि ॥७४॥
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥७५॥
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥७६॥
ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनच्च ॥७७॥
क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ।
आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्याददावाननानि ॥७८॥
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥७९॥
आयन्तीनामविरतरयं राजकानीकिनीना-
मित्थं सैन्यैः सममलघुभिः श्रीपतेरूर्मिमद्भिः ।
आसीदोघैर्मुहुरिव महद्वारिधेरापगानां
दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥८०॥

१९ शिशुपाल-सेना-नाशः

अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसङ्घर्षादग्निवद्वेणुदारिणा ॥१॥
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी ॥२॥
जजौजोजाजिजिज्जाजी तं ततो ऽतिततातितुत् ।
भाभो ऽभीभाभिभूभाभूरारारिररिरीररः ॥३॥
भवन्भयाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥४॥
रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितया महेष्वा स विचक्षणे ॥५॥
दिशमर्कमिवावाचीं मूर्छागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥६॥
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥७॥
उल्मुकेन द्रुमं प्राप्य सङ्कुचत्पत्रसञ्चयम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥८॥
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदा युधः ॥९॥
समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥११॥
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ।
बभौ बिभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥१२॥
प्राप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥१३॥
कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥१४॥
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम् ॥१५॥
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥१६॥
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥१७॥
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१८॥
तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥१९॥
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥२०॥
सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥२१॥
केशप्रचुरलोकस्य पर्यस्कारि विकासिता ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥२२॥
सादरं युध्यमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ॥२३॥
इत्यालिङ्गितमालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥२४॥
अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्गत्कलभसमानीचतुरङ्गया ॥२५॥
ततस्ततधनुर्मौर्वीविस्फारस्फारनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥२६॥
स का र ना ना र का स
का य सा द द सा य का ।
र सा ह वा वा ह सा र
ना द वा द द वा द ना ॥२७॥
लोलासिकालियकुला यमस्येव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥२८॥
सा से ना ग म ना र म्भे
र से ना सी द ना र ता ।
ता र ना द ज ना म त्त
धी र ना ग म ना म या ॥२९॥
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ॥३०॥
दिवमिच्छन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानो ऽसिलतां को ऽमलामलसं पदम् ॥३१॥
कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥३२॥
वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥३३॥
निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥३४॥
अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥३५॥
करेणुः प्रस्थितो ऽनेको रेणुर्घण्टाः सहस्रशः ।
करे ऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥३६॥
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः ।
सरोषसम्भ्रमैर्बभ्रे रौद्र एव रणे रसः ॥३७॥
न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥३८॥
बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥३९॥
नानाजाववजानाना सा जनौघघनौजसा ।
परानिहा ऽहानिराप तान्वियाततया ऽन्विता ॥४०॥
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिव महाकाव्यं व्यूहैस्तदभवद्बलम् ॥४१॥
संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिभा स्वरसेन या ॥४२॥
विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥४३॥
वारणागगभीरा सा सारा ऽभीगगणारवा ।
कारितारिवधा सेना नासेधा वरितारिका ॥४४॥
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥४५॥
प्र वृ त्ते वि क स द्ध्वा नं सा ध ने प्य वि षा दि भिः ।
व वृ षे वि क न द्दा नं यु ध मा प्य वि षा णि भिः ॥४६॥
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥४७॥
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रा ऽनवद्यता ॥४८॥
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥४९॥
अन्येन विदधे ऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविला ऽसिना ॥५०॥
सहस्रपूरणः कश्चिल्लूनमूर्धा ऽसिना द्विषः ।
तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥५१॥
शस्त्रव्रणमयश्रीमदलङ्करणभूषितः ।
ददृशे ऽन्यो रावणवदलङ्करणभूषितः ॥५२॥
द्विषद्विशसनच्छेदनिरस्तोरुयुगोपरः ।
सिक्तश्चास्रैरुभयथा बभूवारुणविग्रहः ॥५३॥
भीमतामपरो ऽम्भोधिसमे ऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥५४॥
दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥५५॥
रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६॥
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥५७॥
अयशोभिदुरालोके कोपधामरणादृते ।
अयशोभिदुरालोके कोपधा मरणादृते ॥५८॥
स्खलन्ती न क्वचित्तैक्ष्ण्यादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शाक्तीकैर्लोहजा न शरीरजा ॥५९॥
आपदि व्यापृतनयास्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ॥६०॥
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसामुचन् ॥६१॥
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरामध्यमविशन्द्रुतवाजिनः ॥६२॥
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रयशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥६३॥
रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ॥६४॥
रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥६५॥
भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥६६॥
निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्तताम् ॥६७॥
निपीडनादिव मिथो दानतोयमनारतम् ।
वपुषामदयापातादिभानामभितो ऽगलत् ॥६८॥
रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्त्रमलोडयत् ॥६९॥
शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥७०॥
अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥७१॥
अ भी क म ति के ने द्धे
भी ता न न्द स्य ना श ने ।
क न त्स का म से ना के
म न्द का म क म स्म ति ॥७२॥
दधतो ऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयमुपाययुः ॥७३॥
येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतो ऽमरैः ॥७४॥
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवालोकि धीरैस्तत्समराजिरम् ॥७५॥
अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥७६॥
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्त्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥७७॥
असृग्जनो ऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥७८॥
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतह्रदम् ।
पयोदजालमिव तद्वीराशंसनमाबभौ ॥७९॥
बन्धौ विपन्ने ऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥८०॥
कृत्तेः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥८१॥
युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥८२॥
अथ वक्षोमणिच्छायाछुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥८३॥
नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥८४॥
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥८५॥
विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥८६॥
उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥८७॥
तं श्रिया घनया ऽनस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनया ऽघनया श्रितम् ॥८८॥
विद्विषो ऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥८९॥
विदितं दिवि के ऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति न ॥९०॥
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगणं भर्त्रा कार्मुकमानमत् ॥९१॥
तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥९२॥
पश्चात्कृतानामप्यस्य नराणामिव पत्त्रिणाम् ।
यो यो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥९३॥
प्रापे रूपी परा ऽरेपाः परिपूरीपरः परैः ।
रोपैरपारैरुपरि पुपूरे ऽपि परोपरैः ॥९४॥
दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रादिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥९५॥
शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥९६॥
न केवलं जनैस्तस्य लघुसन्धायिनो धनुः ।
मण्डलीकृतमेकान्ताद्बलमैक्षि द्विषामपि ॥९७॥
लोकालोकी कलो ऽकल्ककलिलो ऽलिकुलालकः ।
कालो ऽकलो ऽकलिः काले कोलकेलिकिलः किल ॥९८॥
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं नहि तस्य शरासने ॥९९॥
वररो ऽविवरोवैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ॥१००॥
मुक्तानेकशरं प्राणानहरद्भूयसां द्विषाम् ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥१०१॥
राजराजीरुरोजाजेरजिरे ऽजो ऽजरो ऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥१०२॥
उद्धतान्द्विषतस्तस्य निघ्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥१०३॥
क्रूरारिकारी कोरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करो ऽर्करुक् ॥१०४॥
विधातुमवतीर्णो ऽपि लघिमानमसौ भुवः ।
अनेकमरिसङ्घातमकरोद्भूमिवर्धनम् ॥१०५॥
दारी दरदरिद्रो ऽरिदारूदारो ऽद्रिदूरदः ।
दूरादरौद्रो ऽददरद्रोदोरुद्दारुरादरी ॥१०६॥
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥१०७॥
शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशुरे ऽरिशिरः शरैः ॥१०८॥
व्यक्तासीदरितारीणां यत्तदीयास्तदा मुहुः ।
मनोहृतो ऽपि हृदये लेगुरेषां न पत्त्रिणः ॥१०९॥
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥११०॥
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥१११॥
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥११२॥
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥११३॥
दाददो दुद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददो ऽददः ॥११४॥
प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥११५॥
सदामदबलप्रायः समुद्धतरसो बभो ।
प्रतीतविक्रमः श्रीमान्हरिर्हरिरिवापरः ॥११६॥
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥११७॥
सदैव सम्पन्नवपू रणेषु स दैवसम्पन्नवपूरणेषु ।
महो दधे स्तारि महानितान्तं महोदधे ऽस्तारिमहा नितान्तम् ॥११८॥
इष्टं कृत्वार्थं पत्त्रिणः शार्ङ्गपाणे-
रेत्याधोमुख्यं प्राविशन्भूमिमाशु ।
शुद्ध्या युक्तानां वैरिवर्गस्य मध्ये
भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥११९॥
सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धुरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥१२०॥

२० द्वन्द्वयुद्धम्

मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्गतभीराह्वत चेदिराण्मुरारिम् ॥१॥
शितचक्रनिपातसम्प्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथो ऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥२॥
अभिचैद्यमगाद्रथो ऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।
गुरुनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥३॥
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥४॥
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥५॥
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥६॥
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण ।
चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥७॥
समकालमिवाभिलक्षणीयग्रहसन्धानविकर्षणापवर्गैः ।
अथ साभिसरं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमभ्यवर्षत् ॥८॥
ऋजुताफलशुद्धियोगभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।
गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥९॥
अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।
अरसद्धनुरुच्चकैर्दृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥१०॥
अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनो ऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥११॥
गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।
ददृशे कुपितान्तकोन्नमद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥१२॥
तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरोघैः ॥१३॥
शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् ।
स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥१४॥
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभःसदां वा ।
रुरुधे पिहिताहिमद्युतिर्द्यौर्विशिखैरन्तरिताच्युता धरित्री ॥१५॥
विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥१६॥
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।
वयसामिव चक्रमक्रियाकं परितो ऽरोधि विपाटपञ्जरेण ॥१७॥
इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।
अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥१८॥
प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।
ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥१९॥
उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।
क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥२०॥
ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसङ्ख्याः ।
इषवो धनुषः सशब्दमाशुन्यपतन्नम्बुधरादिवाम्बुधाराः ॥२१॥
शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितो ऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥२२॥
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।
विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥२३॥
दयितैरिव खण्डिता मुरारेर्विखिशैः सम्मुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥२४॥
प्रमुखे ऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः परितः कातरवत्प्रतीपमीयुः ॥२५॥
इतरेतरसन्निकर्षजन्मा फलसङ्घट्टविकीर्णविस्फुलिङ्गः ।
पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥२६॥
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।
विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥२७॥
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।
ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनैः सकृद्विसृष्टा ॥२८॥
भवति स्फुटमागतो विपक्षान्न सपक्षो ऽपि हि निर्वृतेर्विधाता ।
शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥२९॥
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलाङ्गभासः ।
विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥३०॥
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदो ऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥३१॥
विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥३२॥
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसञ्ज्ञम् ।
प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः ॥३३॥
गुरवो ऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।
क्षयितापदि जाग्रतो ऽपि नित्यं ननु तत्रैव हि ते ऽभवन्निषण्णाः ॥३४॥
श्लथतां व्रजतस्तथा परेषामगलद्धारणशक्तिमुज्झतः स्वाम् ।
सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ॥३५॥
उचितस्वपनो ऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदानीम् ।
भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥३६॥
अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् ।
पटु धाम ततो न चाद्रुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥३७॥
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुम्मुखेषु ।
व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥३८॥
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम् ।
तमसो ऽभिभवादपास्य मूर्छामुपजीवत्सहसैव जीवलोकः ॥३९॥
घनसन्तमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥४०॥
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे ।
रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥४१॥
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।
अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः ॥४२॥
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥४३॥
दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥४४॥
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।
उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥४५॥
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥४६॥
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।
दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥४७॥
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥४८॥
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।
दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥४९॥
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः ।
दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥५०॥
प्रसृतं रभसादयो ऽभिनीला प्रतिपादं परितो ऽभिवेष्टयन्ती ।
तनुरायतिशालिनी महाहेर्गजमन्दूरिव निश्चलं चकार ॥५१॥
अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥५२॥
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।
क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥५३॥
उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥५४॥
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।
सुतरामभवद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥५५॥
दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥५६॥
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।
जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥५७॥
प्रचलत्पतगेन्द्रपत्त्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥५८॥
स्वचरैः क्षयमक्षये ऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगार्चिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥५९॥
सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ।
विततायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥६०॥
चलितोद्धतधूमकेतनो ऽसौ रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥६१॥
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।
परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥६२॥
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासा ।
स्वमसारतया मषीभवन्तः पुनराकारमवापुरम्बुवाहाः ॥६३॥
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्त्रपीतभासः ।
क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥६४॥
निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् ।
प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥६५॥
चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥६६॥
ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम् ।
उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥६७॥
तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।
अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥६८॥
सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।
जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥६९॥
ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥७०॥
मधुरैरपि भूयसा स मेघ्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ।
पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥७१॥
परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥७२॥
प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ।
बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्त्रिपतेरिवैकपत्रम् ॥७३॥
व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः ।
उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥७४॥
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।
विगताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥७५॥
इति नरपतिरस्त्रं यद्यदाविश्चकार
प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।
भिषगिव गुरुदोषच्छेदिनोपक्रमेण
क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥७६॥
शुद्धिं गतैरपि परामृजुभिर्विदित्वा
बाणैरजय्यमविघट्टितमर्मभिस्तम् ।
मर्मातिगैरनृजुभिर्नितरामशुद्धै-
र्वाक्सायकैरथ तुतोद तदा विपक्षः ॥७७॥
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन-
व्यापारैकवितोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल-
ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥७८॥
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षै-
र्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।
प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्-
नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥७९॥