कन्दुकस्तुतिः

अम्बर-गङ्गा-चुम्बित-पादः
पद-तल-विदलित-गुरुतर-शकटः ।
कालिय-नाग-क्ष्वेल(=कम्पन)-निहन्ता
सरसिज-नव-दल-विकसित-नयनः॥१॥

काल-घनाली-कर्बुर(=शबल)-कायः
शर-शत-शकलित-सुर-रिपु-निवहः ।
सन्ततम् अस्मान् पातु मुरारिः
सतत-ग-सम-जव-खग-पति-निरतः॥ २॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता कन्दुकस्तुतिः॥ (श्रीकृष्णपद्यम्)