श्री-कृष्ण-कर्णामृतम्

[[श्री-कृष्ण-कर्णामृतम् Source: EB]]

[

श्री-कृष्ण-कर्णामृतम्

नातितिरोहितं भक्तानां सहृदयानां च यत् संस्कृत-स्तुति-काव्येषु बिल्वमङ्गलापराभिधस्य श्री-कृष्ण-लीला-शुक-मुनेः कृतिः कृष्ण-कर्णामृतं नां शिरोरत्नायते । श्री-कृष्ण-लीला-शुक-मुनेर् आविर्भाव-स्थान-विषये यद्यपि स-प्रमाणं न किम् अपि ज्ञायते, आ बङ्गेभ्यः केरलान् यावत् तत्र-तत्रत्यैर् जनैः स्व-स्व-स्थानानि कवेर् अस्य जन्म-स्थानतया निर्दिश्यन्ते च, तथापि केरलेष्व् एव तद्-आविर्भावोऽभूद् इत्य् अयं पक्षः समीचीनतया प्रतिभाति । “कोझिक्वोड”-नाम्नि स्थाने जनिम् आसाद्य अनन्त-शयन-स्थित-पद्मनाभ-मन्दिर-परिसरे वसन्न् अयं कविः कृष्ण-कर्णामृतं रचयामासेत्य् एका किंवदन्ती । अपरा च स त्रिशूर-स्थित-शङ्कर-मठे श्रीमत्-पद्मपादाचार्य-शिष्यत्वम् अङ्गीकृत्योवासेति विवृणोति । श्रीमत्-पद्मपादाचार्याः श्रीमद्-भगवत्-पादाः क्रैस्तवाष्टम-शताब्द्यां स्वाविर्भावेन भारतावनिं पावयामासुर् इत्य् ऐथासिका आमनन्ति । तदीय-प्रशिष्यत्वे कृष्ण-लीला-शुकोऽपि तस्याम् एव शताब्द्याम् उत्पन्नोऽभूद् इत्य् अर्थाद् आपतति । तत्र फर्कूहर-महोदयो विप्रतिपद्यते । तन्-मतेन तु कविर् अयं क्रैस्तव-पञ्चदश-शताब्द्याम् उत्पन्नो विष्णु-स्वामि-सम्प्रदायानुयायी चासीत् इति । तन्-मतेऽस्माकं विप्रतिपत्तिम् अग्रे दर्शयिष्यामः । विशेषत इदम् अवधारणीयं यत् कविर् अयम् आत्मानं सोमगिरेः शिष्यत्वेन परिचाययति । अतः स स्वयं दशनामि-सम्प्रदायान्तर्गत-गिरि-शाखागतः सन्न्यास्य् आसीद् इत्य् एवोपपत्ति-सहम् । कविः स्वयं प्रथमाश्वासस्य ११०-तमे श्लोके श्लेषेण माता-पित्रोर् नीवी-दामोदरेति नामनी उल्लिखतीति श्री-कृष्ण-दास-कविराज-महाशयो व्याचष्टे । तत्र प्रस्तुत-संस्करण-सम्पादकानां डा. श्री-सुशील-कुमार-देव-विद्वन्-मूर्धन्यानाम् अपि सम्मतिः ।

श्री-कृष्ण-लीला-शुक-मुनेश् चरित्र-विषये बह्व्यो दन्त-कथा सर्वत्रैव लब्ध-प्रसरा वर्तन्ते । तासाम् एका वक्ष्यमाण-रूपा अन्ध्र-बङ्गोत्कलादिषु प्रदेशेष्व् आकर्ण्यते । सा यथा—श्री-कृष्ण-लीला-शुको यौवने कृष्णवेण्वा-नद्याः पश्चिम-तीरम् अध्युवास । स तदानीं पूर्व-तीर-वासिन्यां चिन्तामणि-नाम्न्यां कस्याम्चिद् रूपवत्यां गणिकायां सुतरां प्रेमासक्तः प्रति-रात्रिं तद्-दर्शनार्थं नावा सरितम् उत्तीर्य गच्छति स्म । एकदा तु सन्ध्या-समये घोर-दुर्दिने समापतति, प्रवहन्त्यां प्रबल-वात्यायां नाव-लाभेन चिन्तामणि-दर्शनोत्सुकता-परतन्त्रो, नदी-स्रोतसा वाह्यमानं शवं काष्ठ-खण्ड-भ्रमेणाश्रित्य नदीं सन्तीर्य गणिकाया गृह-द्वारं प्राप्नोत् । द्वारं पिहितम् अवलोक्य भितेर् लम्बमानं विषधरम् अजगरं रज्जु-भ्रमेणावलम्ब्य भित्तिम् उल्लङ्घ्य च चिन्तामणि-सकाशम् उपतस्थौ । तं तद् अवस्थं प्रेम-वशाद् उन्मत्त-प्रायं चावलोक्य चिन्तामणिः प्राह—“यथा त्वम् अनन्य-मनाः सन् मयि समासक्तः, यदि तथा भगवति श्री-कृष्णेऽभविष्यस् तर्हि अधत्वे तदीय-दर्शनेन निःश्रेयसम् अलप्स्यः ।”

जन्मान्तरीण-सुकृति-हेतोर् गणिका-वचः श्रवणाद् एव कृष्णलीला-शुकस्य हृदये विवेकोऽजागः । अथ सोऽव्यव्हितोत्तर-काल एव सोमगिरेः संन्यास-दीक्षाम् आसाद्य प्रव्रजितः । स्वेष्ट-देव-दर्शन-काङ्क्षया वृन्दावनाय च प्रतस्थे । वृन्दावनं प्रति गच्छन् पथि प्रत्यहं स्व-हृदयेऽनुभूयमानं कृष्ण-स्वरूपं भक्ति-रस-पूरितैः श्लोकैर् निबबन्ध । इयं कथा श्री-कृष्ण-दास-कविराजेन स्व-कृत-कृष्ण-कर्णामृत-टीका-प्रारम्भे निबद्धा ।

कथाया अस्याः प्रकामं रोचकत्वेऽपि सर्वेऽस्यास् तथात्वे न विश्वसन्ति । अन्यष् टीका-कृत् श्री-गोपाल-भट्टः कष्टम् इमां कल्पित-कथात्वेन निरास्यत् । किन्तु कथेयं स्तोकाद् भिन्न-रूपोऽपि पापयल्लयसूरि-रामचन्द्र-प्रभृतिभिर् अपि टीका-कृद्भिर् विदिताभूत् । भक्तमाल-ग्रन्थेऽपि कथेयं विस्तरेणोपवर्णिता । आन्ध्र-भाषायां बङ्ग-भाषायां चेदं कथा-वस्तूपजीव्य-रमणीयानि नाटकानि निर्ममिरे । कथाया अस्या उद्गमस् तु चिन्तामणिर् जयति सोमगिरिर् गुरुर् मे इत्य् अस्मात् प्रथम-श्लोके सोमगिरिर् एव तदीय-गुरुत्वेन स्मृतः । किन्तु, ईशान-देव-चरणाभरणेन इत्य्-आदौ ११०-तमे श्लोके ईशान-देव-नामा गुरुर् एव स्तुत इत्य् अप्य् एके तर्कयन्ति । कस् तावद् असौ ईशानदेव इति पृच्छायाम् ईशान-शिव-गुरुदेव-पद्धति-नाम्नस् तन्त्र-ग्रन्थस्य कर्ता ईशान-शिव-गुरु-नामाचार्य इत्य् अन्ये । श्री-कृष्ण-दास-कविराजस् तु श्लोकस्यास्य व्याख्यानावसरे ईशान-देव-सोमगिर्योर् एक-पुरुषत्वम् असाधयत् ।

कृष्ण-विग्रहस्य पुरत आसीनः कृष्ण-लीला-शुको भक्ति-भाव-पूरितान्तःकरणः श्लोकान् अनेकान् उदीरयामास । तेषु श्लोकेषु ये खलु कृष्ण-विग्रहेणानुमतास् त एव कवेर् अनुचरैर् लिखित्वा सण्गृहीता इति किंवदन्ती केरलेषु प्रसिद्धा । वृन्दावनं प्रति गच्छन् कविः पथि भावावेश-वशाच् छ्लोकान् अगायद् इति कृष्णदास-कविराजः प्रतिपादयति । एतद्-विषये तत्त्वं त्व् अद्यत्वे दुर्निर्णयम् इति तद्-अर्थं यत्नो नाधीयते ।

कृष्ण-कर्णामृतस्य कविः बिल्वमङ्गल-लीलाशुक-कृष्णलीलाशुकेत्य् एतैर् नामभिर् व्यपदिश्यन्ते । किं तावद् अस्मिन् नाम-बहुत्वे निदानम् इति जिज्ञासायां के-कुञ्जुण्णिराज-महोदया इत्थम् उत्प्रेक्षन्ते—बिल्वमङ्गलं विल्वमङ्गलं वेति कवेः कुल-नाम, यथाद्यापि केरलोद्भवा नम्बुदिरि-ब्राह्मणाः मेल्पुत्तूर्-महिषमङ्गलम् इत्य् आदिभिः कुल-नामभिः परिचीयन्ते । कृष्ण इति तस्य पितृ-दत्तं नाम, लीलाशुक इति च पुनः गुरु-दत्तं संन्यास-नामेति ।

बिल्वमङ्गल-कृष्णलीलाशुकयोर् एक-पुरुषत्वे जन-श्रीइ-मात्रं निदानम् इत्य् अस्मिन् डा.-श्री-सुशील-कुमार-देव-सिद्धान्ते विप्रतिपद्यन्ते श्री-कुञ्जुण्णिराज-महोदयाः—“कवि-विरचित-बाल-गोपाल-स्तुतौ कृष्ण-कर्णामृतस्य सर्वेषाम् एव त्रयाणाम् आश्वासानां श्लोका दृश्यन्ते । ग्रन्थान्ते च, इति परमहंस-परिव्राजक-श्रीपाद-बिल्वमङ्गल-विरचिते श्री-गोपाल-स्तुतिः इति पुष्पिका पठ्यते । शार्ङ्गधर-पद्धतौ च कृष्ण-कर्णामृत-गताः श्लोका बिल्वमङ्गल-कृतित्वेनोद्ध्रियन्ते । अतः बिल्वमङ्गल-कृष्णलीलाशुकयोर् अभेद इति निर्विवादम् इति प्रतिपादयन्तः ।

कृष्णलीलाशुको न केवलं प्रतिभा-जुष्टः सुकविः, अपि तु शास्त्रान्तरेष्व् अनेकेष्व् अपि कृत-भूरि-परिश्रम आसीत् । तेन दैव इत्य् आख्यस्य व्याकरण-ग्रन्थस्य पुरुषाकार-नाम्नी टीकाकारि । सुवन्त-साम्राज्य-तिङ्ङन्त-साम्राज्य-नामानाव् अपि व्याकरण-ग्रन्थौ तेन निर्मितौ । भोज-कृतस्य सरस्वती-कण्ठाभरणस्य तत्-कृता टीका कृष्ण-लीला-विनोद-नाम्नी परिज्ञायते । प्राकृत-वाच्य् अपि लीलाशुकः परं निष्णात आसीत् । तेन गोविन्दाभिषेकापर-नाम सिरि-चिन्ध-कब्बम् इति प्राकृत-काव्यं व्यरचि । यत्र वररुचि-कृत-प्राकृत-प्रकाश-सूत्राणाम् उदाहरणानि प्रस्तुतानि । द्वादश-सर्गात्मकस्यास्य प्राकृत-काव्यस्य अष्टौ सर्गाः स्वयं तेन रचिताः, शिष्टाश् चत्वारः सर्गास् तदीय-शिष्येण टीका-कृता च श्री-दुर्गा-प्रसाद-यतिना पूरिता इति विदुषाम् अभिप्रायः ।

कृष्ण-कर्णामृतं नाम कोश-काव्यम् इदम् । अत्र श्लोकाः प्राधान्येन भगवतः कृष्णस्य दिव्य-रूप-वर्णन-पराः । परस्पर-निरपेक्षत्वेऽपि शृङ्गारात्मक-भक्ति-भावः कवेर् हृद्-गतो दिव्योन्मादश् च कुसुम-सदृशान् श्लोकान् अन्तः-प्रविष्ट-सूत्र-रूपेण ग्रथ्नीतः । सर्वत्रेष्ट-दर्शनार्थं भक्तस्याकूतिः प्रपत्तिश् च प्रकटीभवतः । कविर् मानस-नेत्रेण कृष्णस्य दिव्य-रूपम् अवलोकयति स्मेति श्लोकेभ्यः सुव्यक्तम् अनुभूयते । कृष्णलीलाशुकश् छन्दो-रचनायाम् अलङ्कार-संयोजने चानन्य-साधारणं नैपुण्यं प्रदर्शयति । केवले प्रथमाश्वास एव तेन अष्टाविंशतिश् छन्दांसि गुम्फितानि । सुश्रव-शब्दानां मधुरिमा छन्दसां च सुश्लिष्टा घटना कोश-काव्यम् इदं सङ्गीत-रूपेण विपर्णमयतः । किं बहुना, संस्कृत-स्तोत्र-वाङ्मये विरल-विरलैवेदृशी रचना ।

कृष्ण-कर्णामृतस्य द्वे पाठ-परम्परे स्तः । तत्रैका प्रथमाश्वास-मात्रात्मिका बङ्गेषु प्रसिद्धा । अपरा तु दाक्षिणात्य-प्रसिद्धा आश्वास-त्रयात्मिका । द्वितीय-तृतीयाश्वासौ प्रक्षिप्ताव् इति डा.-श्री-सुशील-कुमार-देव-महोदय-मतं न मनोरमम्, सर्वेषाम् एव त्रयाणाम् आश्वासानां समानतया काव्योत्कर्षात्, दाक्षिणात्येऽनेक-कालात् प्रचुर-प्रचारत्वात्, कतिपयैष् टीका-कृद्भिर् व्याख्यातत्वाच् च । डा-कुञ्जुण्णिराज-महोदयैर् अस्मिन् विषये बहु विमृष्टं तदीये वैदुष्य-जुष्टे (*) इत्य्-आख्ये ग्रन्थे । पिष्ट-पेषणा-भिया नास्माभिर् अत्र विस्तरे प्रसज्यते ।

अस्मद्-आचार्य-देशीयैः सुगृहीत-नामभिः साहित्य-शास्त्र-मर्मज्ञैर् इदानीं द्यु-लोकम् अधिवसद्भिः डा-श्री-सुशील-कुमार-देव-महोदयैः संशोधितस्य परमोत्कृष्टस्य संस्करणस्य पुनर् मुद्रणम् इदम् । अस्मिन् संस्करणेऽनेक-हस्त-लिखित-पुस्तकाधारेण प्रथमाश्वासस्य शुद्धः पाठः, पाठान्तराणि, गौडीय-वैष्णव-सम्प्रदाय-प्रचलितास् तिस्रष् टीका विन्यस्तानि । टीका-कृतां टीकानां च विवरणं डा.-देव-महोदयैः स्वीकृताङ्गल-भूमिकायां विस्तरेणोपन्यस्तं, तत् तत्रैवावलोकनीयं जिज्ञासुभिः ।

कृतम् अतिपल्लवितेन वाचाम् इति निवेदयति विदुषाम् आश्रवः,

भारद्वाज-कुलोत्पन्नः श्री-हरिपद-शर्म-सूनुः,

सातकडि-मुखोपाध्याय-शर्मा (साहित्य-अकादेमी-स्थः

देहली-नगर्यां, स्वातन्त्र्य-दिवसे, १९८९-तमे क्रैस्तव-संवत्सरे ।

(१)

चिन्तामणिर् जयति सोमगिरिर् गुरुर् मे

शिक्षा-गुरुश् च भगवान् शिखि-पिञ्छ-मौलिः ।

यत्-पाद-कल्प-तरु-पल्लव-शेखरेषु

लीला-स्वयंवर-रसं लभते जय-श्रीः ॥१॥

कृष्ण-वल्लभा॒

चूडा-चुम्बित-चारु-चन्द्रक-चमत्कार-व्रज-भ्राजितं

दीव्यन्-मञ्जु-मरन्द-प्नयनाञ्चल-वञ्चितं.-प्रियं प्रीणये ॥

कृष्ण-कर्णामृतस्यैतां टीकां श्री-कृष्ण-वल्लभाम् ।

गोपाल-भट्टः कुरुते द्राविदावनि-निर्जरः ॥

अथ निखिल-गोप-नितम्बिनी-निकुरम्बावलम्बि-रास-विहारि-श्री-कृष्ण-परम-भावाविष्टः परम-भागवतो लीला-शुकाभिधानः कवीन्द्रः श्री-कृष्ण-कर्णामृताख्यं स्तोत्र-रत्नं चिकीर्षुः शिखि-पिच्छ-मौल्य्-अलङ्कृत-श्री-कृष्ण-चन्द्रेष्ट-देवानुस्मरण-रूपं मङ्गलम् आचरति—चिन्तामणिर् इति । भगवान् जयति सर्वोत्कर्षेण वर्तते । भगवच्-छब्द-वाच्यः श्री-कृष्ण एव । एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा.पु. १.३.२८] इत्य् उक्तं श्री-भागवते प्रथम-स्कन्धे । तथा चोक्तं ब्रह्माण्डे ब्रह्म-स्तवे—

यो वैकुण्ठे चतुर्बाहुर् भगवान् पुरुषोत्तमः ।

स एव श्वेतद्वीपेशो नरो नारायणश् च सः ॥

स एव वृन्दावन-भू-विहारी नन्द-नन्दनः ।

एतस्यैव परेऽनन्ता अवतारा मनोरमाः ॥

मानसस्येव सरसो गर्ताः शत-सहस्रशः ।

महाग्रेर् इव यद्वत् स्युर् उल्काः शत-सहस्रशः ।

तत्रैव लीना एकत्वं व्रजेयुस् ते हरौ तथा ॥ इति ।

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञान-.विशेषयोश् चैव षण्णां भग इतीङ्गना ॥ [वि.पु. ६.५.७४]

ऐश्वर्यादीनाम् एतेषां समम् एकस्मिन् वर्तमानत्वं भगवतोऽन्यत्र न सम्भवति, अन्योन्य-विरुद्धत्वात् । भगवतस् तु अणु-बृहत्-कृश-स्थूलेत्य्-आदिवद् विरुद्धाविरुद्धयोर् धर्मयोर् एवाश्रयत्वात् । विशेषण-मर्यादया सर्वं स्फुटीक्रियते । किं-भूतो भगवान्—चिन्तामणिः । चिन्तनं चिन्ता । चिन्तानां चिन्त्यमानानां धर्मादि-रसमय-तत्-तल्-लीला-पर्यन्तानां मणिः । मणिर् इव प्रकाशकः । तेनास्मच्-चिन्तितम् अपि प्रकाशयिष्यतीति भावः । यद् वा, चिन्ता परम-भावेन चिन्तनं सैव मणिः प्रकाशकां यस्य सः । परम-भागवतैश् चिन्त्यमानानि तत्-तत्-स्वरूपाणि तेषां मणिः श्रेष्ठ इति वा । चिन्तामणिर् इत्य् अत्र श्री-कीर्ति-वीर्यादि-प्रदत्वात् ।

पुनः कीदृशं ? सोमगिरिः । सोमस्यामृतस्य गिरिः पर्वत इव । बहु-प्रकारास्वाद्य-परमानन्द-रसमय इत्य् अर्थः । यद् वा, उमया सह वर्तत इति सोमः श्री-महेशो गिरिवद् यत्र । प्रेम्णा स्तम्भ-लक्षण-सात्त्विक-भाव-युक्त इत्य् अर्थः । सोमस्य श्री-महेशस्य गिरिः पूज्य इति वा । गिरिर् नेत्रे च रुग्भदि । अद्रौ गैरेयके योषिद्-दीप्तौ पूज्ये पुनस् त्रिषु इति मेदिनिः । एतेनैश्वर्यम् ।

पुनः कीदृशं ? मे मम गुरुः । बुद्धि-वृत्ति-प्रवर्तनेन निज-महा-भक्ति-रस-पदवी-समुपदेष्टेत्य् अर्थः । इत्य् अनेन ज्ञान-.विशेष-प्रदत्वम् । न केवलम् उपदेष्टा, शिक्षा-गुरुश् च ।

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।

यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति श्रीमद्-भगवद्-गीतोक्तेः ।

गुरुर् ह्य् उपदेश-मात्रं करोति । शिक्षा-गुरुस् तूपासनादि-प्रकारं ज्ञापयति । अतो मे भगवान् इष्ट-देवतोपदेष्टा शिक्षा-गुरुश् चेत्य् अर्थ-त्रयं व्यनक्ति ।

सौन्दर्यातिशयेन सर्व-मनोहरत्वम् आह—शिखि-पिञ्छ-मौलिर् इति । शिखि-पिच्छ-युक्तो मौलिः किरीटं यस्य । शिखि-पिञ्छानां मौलिर् यस्येति वा सः । किरीटे मौलिर् अक्लीबे चूडा-संयत-केशयोः इति विश्वः । शिखि-पिञ्छ-मौलिर् इत्य् अनेन सत्स्व् अपि स्वर्णालङ्कारेषु शिखि-पिञ्छ-गुञ्जा-धतु-राग-पल्लवादि-धारणेन श्री-वृन्दावने किशोर-वयो-विलासवत्त्वं सूचितम् । कैशोर एव शिखि-पिञ्छाभरणत्वात् । शिखिनो हि स-तडिद्-घन-बुद्ध्या समुल्लसितास् तं व्रज-सुन्दरी-समालिङ्गितं दृष्ट्वा नृत्यन्ति । ततः प्रेम्णा च तच्-छिरसि धृतम् । व्रज-सुन्दरीणां केश-कलाप-स्मारकत्वाच् च स्वं पश्यन्तीनां गोपाङ्गनानां निर्निमेष-नयन-रूपत्वाच् च चन्द्रकानां शिरसि धारणम् । पिच्छस्य शिखि-पिच्छ-वाचकत्वाच् छिखि-शब्दो विशिष्ट-शिखि-प्राप्त्य्-अर्थः । विशिष्टाश् च श्री-वृन्दावन-शिखिन एव, य महा-मुनीश्वर-दुरवगाह-विशुद्ध-श्री-कृष्ण-प्रेमाणः । उक्तं च श्री-भागवते दशम-स्कन्धे पञ्चदशाध्याये श्री-बलदेवोक्तिः श्री-कृष्णं प्रति—

नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः

कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन ।

सूक्तैश् च कोकिल-गणा गृहम् आगताय

धन्या वनौकस इयान् हि सतां निसर्गः ॥ [भा.पु. १०.१५.७]

तत्रैवान्यत्र—

प्रायो बताम्ब मुनयो विहगा वनेऽस्मिन्

कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् ।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रबालान्

शृण्वन्ति मीलित-दृशो विगतान्य-वाचः ॥ [भा.पु. १०.२१.१४] इति ।

वैदग्ध्यातिशयेन सर्वोत्तमत्वम् आह—यत्-पादेत्य् आदि । यस्य श्री-कृष्णस्य पादाव् एव कल्प-तरू । सकल-मनोरथ-सम्पादनत्वात् । तयोः पल्लवाह् पल्लव-सदृशाङ्गुलयस् तेषां शेखरेष्व् अग्रेषु स्वयंवरणं तस्य रसो रागस् तं लभते प्राप्नोति । पल्लवोऽस्त्री किसलयं, शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्य् अमरः । यद् वा, पादाव् एव कल्प-तरु-पल्लवौ शेखरः शिरो-भूषणं येषां तेषु तच्-चरण-भक्तेषु जय-श्री-शालित्वम् । तस्य पुनः किम् इति परमोत्कर्ष-चमत्कारः ।

केचिद् अत्र चिन्तामणिर् वेश्या सोमगिरिर् मे गुरुर् भगवांश् च जयतीति कल्प्तया कथया व्याख्यानं कुरुते । तत् तेभ्य एव ज्ञातव्यम् । अलम् अतिविस्तरेण ।

वसन्त-तिलकं छन्दः—ज्ञेयं वसन्त-तिलकं तभजा जगौ गः [छन्दो-मञ्जरी २] ॥१॥

गोपाल-भट्टः (२) ॒ श्री-गोपी-जन-वल्लभाय नमः ।

श्री-गोपी-जन-वल्लभस्य चरणाम्भोजं भजे रञ्जितं

गोपीनां कुच-कुङ्कुमेन विनदन्-माणिक्य-मञ्जीरम् ।

वृन्दारण्य-निकुञ्ज-पुञ्ज-सरणी-गत्य्-एक-लब्ध-व्रतं

कालिन्दी-तट-रास-लास्य-ललित-प्रोद्दण्ड-नृत्य-प्रियम् ॥

यत्-पाद-वारिज-रजः-कणिकैक-बन्धुर्

मूकोऽपि शास्त्र-विदुषां पदवीं प्रयाति ।

अस्मद्-विधैक-शरणं करुणा-करं तं

नारायणं गुरुम् अहं सततं नमामि ॥

गोपाल-रूप-विस्फूर्तिं सर्व-मङ्गल-मङ्गला ।

सदा मे हृदये भूयाद् भाव-भर-भाविते ॥

शिखण्ड-कृत-शेखरे व्रज-वधू-जनानां प्रिये

मनोज्ञ-मुरली-धरे नव-किशोर-वेषे ।

यदीय-मनसो रति-सूपमा व्रजेन्द्रात्मजे

सदैव हृदि पञ्जरे वसतु मे स लीलाशुकः ॥

कर्णामृतं विविध-भाव-रसोरसापि

लीलाशुकेन रचितं यद् इदं मुकुन्द ।

कारुण्यतस् तव ममास्तु सुखेन तद् यस्

तस्यान्वयार्थ-पद-भाव-विशेष-बोधः ॥

श्री-कृष्ण-पाद-कमल-द्वय-भक्तिमन्तो

भक्ता व्रजेन्द्र-सुत-कीर्ति-तरङ्गिणी-स्थाः ।

स्वल्पं गुणं बहुलतां किम् उ केवलं ते

वैगुण्य-राशिम् अपि सद्-गुणतां नयन्ति ॥

श्री-कृष्ण-चरणाम्भोज-मधु-पान-मधुव्रतान् ।

धर्मार्थ-काम-मोक्षादि-निःस्पृहान् वैष्णवान् नुमः ॥

श्री-बिल्वमङ्गलेनेदं कृतं कर्णामृतं हि यत् ।

तस्य पद्यार्थ-भावादीन् ज्ञातुं कः क्षमते बुधः ॥

यथा-मति तथाप्य् अत्र शास्त्राह्लादिनीम् अहम् ।

टीकां करोमि गोविन्द-सेवकानां महा-मुदे ॥

अथेह भगवज्-जन-मुख-कमल-निःसृतैवं किं-वदन्ती श्रूयते । *ब-नामा कश्चिद् ब्राह्मणः काशी-निकट-सुर-तरङ्गिणी-तट-ग्राम-वासी बभूव । स तु निज-पूर्वादृष्टतश् चिन्तामणिर् इति प्रसिद्धां काञ्चन चरणाद्रि-निवासिनीं वेश्याम् अनुरक्तो बभूव । तत्-प्रेम-भराकृष्ट-हृदयः प्रत्यहं कृष्णाम् उत्तीर्य तद्-गृह-गमनम् अकरोच् च सः । एवं तस्याम् अनुरक्तस्य तस्यैकदा पितृ-श्राद्ध-दिन-भागतं स चात्यन्त-काम्य् अपि लोक-लज्जया मात्राद्य्-अनुरोधेन श्राद्धं कृत्वा ब्राह्मणान् संभोज्य पश्चात् स्वयम् अपि बुभुजे । एतस्मिन्न् एवान्तरे दिन-मणिर् अस्तं जगाम । स च तदैव तस्याः पार्श्वे गन्तुकामोऽपि लोकः, पर्हसिष्यतीति चतस्रः पञ्च वा त्रि-घटिकाः कथम् अप्य् अतिवाह्य गाढान्धकारे जाते, केनाप्य् अनवलोकितो गङ्गा-तीरं गतः । तत्र नौकाम् अप्रेक्ष्य मिलत्-कामः स्वक्ञाम्बराणि मूर्ध्नि कृत्वा निज-बाहु-युगलेनैव कियत्-प्रमाणं गङ्गा-प्रवाहं ततार । पुनश् च गङ्गा-मध्य-गतोऽतिश्रान्तस् तत्र प्लवमानं कञ्चन मृतकं दृष्ट्वा तद्-उपरि स्थित्वा पारे-गङ्गं गतः । तत्रापि पुनर् एवम् उपरि स्थित्वा प्रातर् गृहं गमिष्यतीति तं मृतकं तीरे निधाय वेपमानः सार्द्राम्बर एव चरणाद्रेर् अधित्यकायां तस्याः परम-रमणीयं सदनं प्राप्तः । सा च तथा-भूतं समागतं वीक्ष्य सहसोत्थायाग्निं प्रज्वाल्य शुष्क-वसनानि च दत्त्वा तस्य शीत-जनित-कम्पादिकं दूरीचकार । पुनश् च स्वस्थ-शरीरं प्रति स-स्मितं सा मधुरया गिरेत्य् उवाच—भोः कामिन् ! एतावत्-कालं तत्र किम् अकार्षीस् त्वम् । कथं नौकां विना त्वया गङ्गा तीर्णा । स च तद्-वचः श्रुत्वा तां प्रत्य् एवम् अवदत्—भोः प्रिये ! मम पितुर् अद्य श्राद्ध-दिनम् । तद्-अर्थं द्विजान् निमन्त्रितान् सम्भोज्यमानस्य मे रजनिः समजनि । पुनश् च तद्-अनुसक्तस्य मे मनस् तव पार्श्वम् आगन्तुम् उत्कण्ठितम् अभूत् । तत्र गङ्गा-तीरं प्राप्तोऽहं नौकाम् अनवोकमानो बाहूभ्याम् एव तरिष्यामीति गङ्गा-प्रवाहे पतितोऽतिश्रान्तस् तत्र प्लवमानं कथञ्चन काष्ठम् आरुह्य तेन ततो गङ्गाम् उत्तीर्य प्रातर् गृहं गमिष्यामीति तं काष्ठं तीरे विधाय । सा च तस्यैव वचो निशम्य तदैव भगवतान्तर्यामिणा प्रेरिता गङ्गा-तीरे तम् उपदेष्टु-कामा दीपं करे गृहीत्वा कष्ठं मह्यम् अपि परदर्शयेति तं प्रत्युवाच । स च तद्-वचः श्रुत्वा तं काष्ठं प्रदर्शयामीति यत्र मृतकं प्रास्थाप्यात्र गतस् तत्र तया सह जगाम । सा च दीप-प्रकाशेन तं दृष्ट्वा मृतकोऽयम् इति परम-.विशेष-युक्ता स-रोषं तं प्रति स-करुणम् इत्य् अवदत्—भो पापिष्ठ ! कामान्ध ! परम-कारुणिकं महा-पतित-पावनं भक्त-जन-वत्सलं व्रज-राज-कुमारं हरिं कृष्णं विहाय विण्-मूत्र-मांस-मञ्जूषिकायां मय्य् एवम् अनुरागम् अकरोस् त्वं, यन् मृतकम् अधिरुह्य कामान्धो मम पार्श्वम् आगतः । गुरूपदिष्ट-भगवद्-ध्यानादिकं चिन्तयन् सः कियत्-कालं श्री-गुरु-चरण-संनिधाने निवासम् अकरोत् । पुनश् चोत्पन्न-श्री-राधा-रमण-नन्द-किशोर-गोविन्द-पदारविन्द-द्वन्द्वानुरागो गुरु-चरण-समीपतो निदेशम् अवगृह्य कियता कालेन परम-रमणीयं श्री-वृन्दावनम् आलोक्य तत्र तत्र भगवल्-लीला-स्थलान्य् अपि समीक्ष्य जाताह्लादो राधा-रेमण-श्री-कृष्ण-विषयक-गाढ-भाव-शवलितान्तः-करणो भगवल्-लीला-वर्णन-कामो गुरु-द्वय-नाम-स्मरण-पूर्वकम् एतत्-स्तोत्र-प्रतिपाद्य-श्री-कृष्ण-स्मरण-मङ्गलम् आचरति—चिन्तामणिर् इति ॥ एतत्-पर्यन्तं दे-महोदयेन दत्तं. शेष-श्लोकस्य टीकापि द्रष्टव्यम्.

सुबोधिनी ॒

कृपा-सुधा-सरिद् यस्य विश्वम् आप्लावयन्त्य् अपि ।

नीचगैव सदा भाति तं श्री-चैतन्यम् आश्रये ॥

मन्दोऽपि कश्चिच् चैतन्य-दास-नामा समासतः ।

कृष्ण-कर्णामृत-व्याख्यां वितनोति सतां मुदे ॥

कृष्ण-सम्बन्ध-मात्रेऽपि प्रीतिर् येषां सदा भवेत् ।

तैर् एव शोध्यताम् एषा टीका नाम्ना सुबोधिनी ॥

अथ सकल-गुण-धामा श्री-लीलाशुक-नामा परमोत्कण्ठया निजेष्ट-दैवत-लीला-भूमि-दिदृक्षया श्री-वृन्दावनं गच्छन् पथि पथि प्रतिदिनं प्रस्थान-समये निजातिप्रिय-प्रातः-शय्योत्थित-राधा-कृष्ण-तत्-कालीन-लीला-विशेष-स्फूर्त्य्-उच्छलित-रागावेश-वैवश्येन यद् यज् जगाद तत् तत् सत्-सङ्गिभिः क्रमेण व्यालेखि ।

तत्र प्रथम-प्रस्थान-मङ्गल-दिने दैन्येन स्वाभाव्येन कथं ममायोग्यस्य तद्-दर्शनं सेत्स्यतीति चिन्ता-व्याकुलस् तद् एव स्फुरित-स्व-गुरोश् चरण-प्रभाव-स्मरण-रूप-मङ्गलम् आचरति—चिन्तामणिर् इति । सोमगिरि-नामा मे गुरु जयति सर्वोत्कर्षेण वर्तते । यतश् चिन्तामणिः । चिन्ता-मात्रेण सर्वाभीष्ट-पूरकतयास्य चिन्तामणित्वं सर्वोत्कर्षता च । किं वा, जयति तं प्रति प्रणतोऽस्मीत्य् अर्थः । एवं स्वायोग्यतां सम्भाव्य तत्-प्रभावेनैव स्वेष्ट-देवताप्य् अनुकूला स्याद् इत्य् आह—आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति [भा.पु. ११.२९.६] इति न्यायेन शिक्षा-गुरु भगवांश् च जयति ।

कोऽसौ भगवान् इत्य् आशङ्क्याह—शिखि-पिच्छो मौलिः शिरो-भूषणं यस्य सः । अनेन श्री-वृन्दावन-विहारित्व-सूचनया स्वयं-भगवत्त्वं ज्ञापितम् । तत्रैव तद्-आदि-प्रसिद्धेः । जयतीति वर्तमान-प्रयोगेन नित्यता चास्य ।

तच्-छिक्षा-रूपानुकूल्येनैवात्मनो दुर्लभाम् अप्य् अभीष्ट-सिद्धिं सम्पादयन्न् आह—यत्-पादेति । यस्याचिन्त्यानन्त-शक्तेः श्री-कृष्णस्य पादाव् एव सर्व-सङ्कल्प-सम्पादकतया कल्प-तरू । तयोर् ये पल्लवा अङ्गुलयस् तेषां शेखरेष्व् अग्रेषु जय-श्रीर् लीलासु द्युत-नर्म-जल-केल्य्-आदिषु स्वयंवरस् तद्-गुण-गणैर् वशीभूयानन्य-गतिकत्वेनाश्रयणं तद्-रसं तज्-जन्यं सुखं लभते । स्व-सेवावसरं प्राप्नोतीत्य् अर्थः । जया सर्वोत्कृष्टा चासौ श्रियाम् अप्य् अंशीनीत्वाच् छ्रीश् चेति जय-श्रीः श्री-राधैव लीलायां स्वयंवर-रसं लभते । तद्-आलम्बनताम् आप्नोतीति स्वाभीष्टार्थः ॥२॥

सारङ्ग-रङ्गदा ॒

यद्-भाव-भावित-धियः प्रणयोत्थ-वाचां

मुद्रापि दुर्गमतमा मुनि-पुङ्गवानाम् ।

रासोत्सुकं मदन-मोहनम् अच्युतं तं

राधा-समेधित-रसोल्लसितं नतोऽस्मि ॥

कृपा-सुधा-सरिद् यस्य विश्वम् आप्लावयन्त्य् अपि ।

नीचगैव सदा भाति तं श्री-चैतन्यम् आश्रये ॥

रसन्ती कृष्ण-माधुर्य-केलि-सौन्दर्य-सम्पदम् ।

कैश्चिन् न भावजा सम्यग् ज्ञेया लीलाशुकस्य गीः ॥

मन्दोऽपि कश्चिच् छ्री-रूप-पादाम्भोज-मधून्मदः ।

कृष्ण-कर्णामृताख्यां विवृणोति यथा-मति ॥

स्पष्टे बाह्य-दशोक्त्य्-अर्थे निर्बन्धं परिमुञ्चता ।

निगूढोऽन्तर्-दशोक्त्य्-अर्थो व्याख्येयः साग्रहं मया ॥

मदास्यमरु-सञ्चार-खिन्नां गां गोकुलोन्मुखीम् ।

सन्तः पुष्णन्त्व् इमां स्निग्धाः कर्ण-कासार-संनिधौ ॥

सद्-भक्त-भाव-गन्धर्व-गान्धर्व-रस-लम्पटैः ।

सारङ्गैः शोध्यताम् एषा टीका सारङ्ग-रङ्गदा ॥

अथ दाक्षिणात्यः कृष्ण-वेण्वा-पश्चिम-तीर-वासी पण्डित-कवीन्द्रः श्री-बिल्वमङ्गल-नामा कश्चिद् ब्राह्मणः किलासीत् । स च पूर्व-दुर्वासना-प्रेरितस् तत्-पूर्व-तीर-वासिन्यां सङ्गीत-विद्या-धिक्कृत-किन्नरी-निकरायां कस्यांश्चिच् चिन्तामणि-नाम्न्यां वेश्यायाम् अतीवासक्तो बभूव । स च कदाचित् प्रावृट्-तमिस्रायां जीमूत-मन्द्र-गर्जित-जात-हृच्छयोऽन्ध इवागणित-गमन-प्रत्यूह-चयः स्व-गृहान् निर्गत्य तां नदीं हस्ताभ्यां शवालम्बनेनोत्तीर्य कीलित-कवाटं तद्-आवास-द्वारम् आससाद । तत्रापि तत्रत्यैर् अश्रुत-फूत्कार-शत इतस् ततो भ्रमन् भित्ति-गर्तेऽर्ध-प्रविष्ट-कृष्ण-भुजङ्ग-पुच्छम् आलम्ब्य भित्तिम् उल्लङ्घ्य प्रणालिका-मध्ये निपतन् मूर्च्छितो बभूव ।

ततः सा सखीभिः सह विद्युद्-रोचिषा तं दृष्ट्वा हा कष्टम् इति वदन्ती तम् आनीयोपचारैः सुस्थं चक्रे । ततस् तेन कथितं तद्-आगमन-वृत्तान्तं श्रुत्वा जात-वेपथुः सा स-निर्वेदं तम् आह—“अहो सकल-शास्त्रज्ञम् अपि भवन्तं मूढं विना को<न्यः परिणति-विरस-रस-लेशार्थम् आत्मानं घातयेत् ? हा धिग् धिग् अस्तु मां याहं पापीयसी कपट-भावैः पुरुषान् प्रतार्य तेषां मनो-धनानि चाहरम् । अहो एस्थित्य् आसक्तिर् यदि भगवति श्री-कृष्णे जायते तदा किं न स्यात्, श्वः सर्वं परित्यज्य श्री-कृष्ण-भजनम् एव मया कार्यम् ।” इति निश्चित्य तां रात्रिं तं शुश्रूषमाणा, सखीभिः सह श्री-कृष्णस्य श्री-राधया सह रास-कुञ्जादि-लीला-मय-गीतान्य् अगासीत् ।

स चापि तद्-वाक्यम् आकर्ण्य जात-निर्वेदः स्वं भर्त्सयन्, “मयापि श्वः सर्वं त्यक्त्वा भगवद्-भजनम् एव कार्यम्” इति चिन्तयन्न् उन्निद्र एव तद्-गीत-श्रवण-मात्रेण प्रोद्बुद्ध-पूर्व-सिद्ध-प्रेमाङ्कुरस् तं राधा-कान्तम् एव प्राण-कोटि-दयितं दयितं मन्यमानः प्रातस् तां नमस्कृत्य तेनैव पथा तन्-नदी-तीर-स्थं सोमगिरि-नामानं वैष्णवोत्तमम् आसाद्य निवेदित-स्व-वृत्तान्तस् तस्माच् छ्रीमद्-गोपाल-मन्त्र-राजम् अग्रहीत् । गृहीत-मन्त्र एव प्रोद्बुद्धानुरागः कम्पाश्रु-पुलकादि-व्याकुलः श्री-वृन्दावन-गमनोत्कण्ठितोऽपि गुरु-सेवार्थं कतिचिद् दिनानि तत्रैवावात्सीत् । तथापि श्री-कृष्ण-लील्दि-वर्णन-मय-ग्रन्थांश् चकार । तद् दृष्ट्वा गुरुणा लीलाशुक इति ख्यापितोऽभूत् । तत्र स्वीयैर् उपद्रुतस् तत एव एव सन्न्यासं चक्रे । ततः परोत्कण्ठया श्री-गुरुं विज्ञाप्य श्री-वृन्दावनाय प्रतस्थे ।

गच्छंश् च पथि पथि प्रथमं तत्-स्फूर्ति-समुच्छलित-प्रेम-प्रवाहजोत्कण्ठा-कल्लोल-पतितं शून्यम् इवात्मानं मत्वा तत्-तल्-लीला-विशिष्टस्य तस्य स्फूर्तिं प्रार्थयन्, ततो मथुरा-मण्डलागतो लीला-विशेष-स्फूर्त्य्-उच्छलितानुराग-सिन्धूद्गत-लालसावर्त-ग्रसितस् तद्-दर्शनं प्रार्थयन्, ततो मथुरागतस् तत्-स्फूर्तौ साक्षात्कारं मन्वानः, ततो वृन्दावनागतस् तं साक्षाद् दृष्ट्वा वाङ्मनसागोचरत्वेन तं वर्णयंश् च यद् यत् प्रललाप तत् तत् सर्वं तत्-सङ्गि-वैष्णवैस् तदा तदैव लिखित्वा स्थापितम् आसीत् । ततो वृन्दावने कतिचिद् दिनान्य् अवात्सीत् । पश्चात् कृष्णेन स्व-लीलां प्रवेशितः । इति गुरु-परम्परागता सार्वलौकिकी प्रसिद्धिर् इति ॥

अथ प्रेमोन्मत्तः स्वालयाच् छ्री-वृन्दावनाय प्रस्थानं कुर्वन्न् एव श्री-लीलाशुकः स्व-गुरोः स्व-गुरुत्वेनैव स्वेष्ट-दैवतस्य च सङ्कीर्तन-रूपं मङ्गलम् आचरति । इदं मङ्गलाचरणम् अन्येषां ग्रन्थ-काराणाम् इवेप्सित-पूर्ति-विघ्न-निरसन-प्रयोजनं न भवति । प्रेमोन्माद-प्रलापेऽस्मिन् ग्रन्थ-करण-प्रस्तावाभावात् । तत्रापि दाक्षिणात्यानां सामान्यानाम् एव संस्कृतोक्तिर् इत्य् अस्य तु कवीन्द्रत्वात् पद्योक्तिः । किं तु शुद्ध-वैष्णवानां स्वभावोऽयं यच् छयन-भोजन-गमनादिषु गुर्व्-इष्ट-देव-स्मरणम् । तद् यथा—चिन्तामणिर् इति । सोमगिरिस् तन्-नामा मे मम गुरुर् जयति सर्वोत्कर्षेण वर्तते ।

कीदृक् ? चिन्तामणिः । आश्रय-मात्रेणाभीष्ट-पूरकत्वाच् चिन्तामणित्वं सर्वोत्कर्षता चास्य । किं वा, जयति तं प्रति प्रणतोऽस्मीत्य् अर्थः । तथा हि काव्य-प्रकाशे—जयत्य्-अर्थेन नमस्कार आक्षिप्यते । अतस् तं प्रति प्रणतोऽस्मीत्य् अर्थ इति ।

तथा ममेष्ट-देवतो भगवांश् च जयति । कोऽयं भगवान् ? इत्य् आह—शिखिपिच्छ-मौलिः । शिखिपिच्छैस् तान्य् एव वा मौलिः शिरो-भूषणं यस्य स इति श्री-वृन्दावन-विहारी श्री-कृष्ण एव । जयतीति वर्तमान-प्रयोगेन नित्य-लीला सूचिता । आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति [भा.पु. ११.२९.६] इति, ददामि बुद्धि-योगं तं [गीता १०.१०] इत्य् आदि, आचार्यं मां विजानीयात् [भा.पु. ११.१७.२७] इत्य् आदि-दिशा । तथा—

कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया

पत्युर् वञ्चन-चातुरी गुणनिका कुञ्ज-प्रयाणे निशि ।

वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान्

कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते ॥ [भ.र.सि. २.१.३३३]

इत्य् आदि-दिशा च तस्य तत्-तन्-माधुर्याद्य्-अनुभवादौ स एव मे गुरुर् इत्य् आह । स कीदृक् मे शिक्षा-गुरुः ? लक्ष्यते चैतत्—प्रेमदं च मे [अत्र १०४] इत्य् आदौ । शिखिपिच्छ-मौलिर् इति तच्-छ्री-विग्रह-स्फूर्त्या, साक्षान्-मन्मथ-मन्मथ [भा.पु. १०.३२.२] इत्य् आदिना, यन्-मर्त्य-लीलौपायिकं [भा.पु. ३.२.१२] इत्य् आदिना, गोप्यस् तपः किम् अचरन् [भा.पु. १०.४४.१४] इत्य् आदिना च वर्णित-तत्-तन्-माधुर्यम् अनुभूय तत्-तद्-अङ्गोपमान-योग्य-पदार्थान् मनसि विचिन्त्य तेषाम् अतीवायोग्यताम् आलोच्य तत्-पद-नख-शोभयैव ते निर्जिता इति स्फूर्त्या, तथा श्री-राधायास् तन्-माधुर्याकृष्ट-चित्तता-स्फूर्त्या च शब्द-श्लेषेण समादधद् आह—यत्-पादेति । यस्य श्री-कृष्णस्य पादाव् एव कौमल्यारुण्य-सर्वाभीष्ट-पूरकत्वादिना कल्प-तरु-पल्लवौ, तयोः शेखरेषु तद्-अङ्गुलि-नखाग्रेषु लीलया यः स्वयंवरः, तद्-रसं तज्-जन्य-सुखं जय-श्रीर् लभते । तद् एव वक्ष्यते—कमल-विपिन-वीथी-गर्व-सर्वं-कषाभ्यां [अत्र १२], वदनेन्दु-विनिर्जितः शशी [अत्र ९६] इत्य् आदौ बहुत्र । श्लेषेण द्यूत-नर्म-जल-केलि-सुरतादिषु च जयेनोत्कर्षेण श्रीः शोभा यस्या । किं वा, सौन्दर्यादि-पातिव्रत्यादि-सौभाग्य-वैदग्ध्यादिभिर् गौर्य्-आद्यैर् अरुन्धत्य्-आदि-व्रज-किशोरिका-कुलादयोऽपि निर्जिता यया सा । जय-योगाज् जया सा चासौ श्रियोऽप्य् अंशिनीत्वाच् छ्रीश् च जय-श्रीः श्री-राधैव । नारायणस् त्वं [भा.पु. १०.१४.१४] इत्य् आदौ, नारायणोऽङ्गं [तत्रैव] इत्य् आदि-दिशा, विष्णुर् महा स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि [ब्र.सं. ५.४८] इत्य् आदि-दिशा च कृष्णस्य मूल-नारायणत्वेन तत्-प्रेयस्यास् तस्या अपि मूल-लक्ष्मीत्वात् ।

ईदृशी सापि स्वस्य लज्जा-शीलत्वात् सदैवाधोमुख-स्थितया प्रथमं तच्-छ्री-चरण-नख-दर्शनात् तच्-छोभाब्धि-मग्न-नेत्रा मोहिता सती लीलया गाढानुरागेण ये भावोद्गार-विशेषास् तैर् धर्म-मर्यादा-लज्जादि-त्याग-पूर्वको यः स्वयंवरस् तद्-रसं लभते । तन्-माधुर्याणां स्वानुरागस्य च प्रतिक्षणं नव-नवत्वेनानुभवाद् वर्तमान-प्रयोगः ।

केषांचिन् मते सोमगिरेर् अपि विशेषणं यत्-पादेत्य् आदि । अत्र कामाद्य्-अरि-षड्-वर्ग-चक्षुर्-आदीन्द्रिय-पञ्च-क्लेशोत्थ-द्विषष्ठ्य्-अन्तरायाणां जय-सम्पत्तिर् यत्-पाद-नखावल्म्बिनीत्य् अर्थः । किं वा, वर्त्मोद्देश-गुरुर् मन्त्र-गुरुः शिक्षा-गुरुर् इति गुरु-त्रयेष्ट-देव-स्मरणम् इति ।

केचिद् आहुः—अत्र चिन्तामणिः सा वेश्या जयति । तद्-वाङ्-मात्रेण स्वस्य जातानुरागत्वात् तस्याः सर्वोत्कर्षता ॥१॥

—ओ)०(ओ—

(२)

अस्ति स्वस्-तरुणी-कराग्र-विगलत्-कल्प-प्रसूनाप्लुतं

वस्तु प्रस्तुत-वेणु-नाद-लहरी-निर्वाण-निर्व्याकुलम् ।

स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्-गोपी-सहस्रावृतं

हस्त-न्यस्त-नतापवर्गम् अखिलोदारं किशोराकृति ॥२॥

कृष्ण-वल्लभा ॒ एवं भगवतः श्री-कृष्णस्य जय-रूपं मङ्गलं निरूप्य लीलाशुक-नामा कविः सम्प्रति वर्णनीय-परम-रहस्य-लीला-तद्-रूप-करण-सहितस्य सच्-चिद्-आनन्द-सान्द्रैक-रस-घन-विग्रहस्य किशोराकृतेस् तस्यैव परम-पुरुषार्थ-शिरोमणितां दर्शयितुं प्रतिजानीते—अस्तीति । वस्त्व् अस्तीति सम्बन्धः । वसति भक्तानां हृदये, तत्रैवाविर्भावात् । तथा चोक्तं बिल्वमङ्गले—

गोपालाङ्गन-कर्दमे विहरसे विप्राध्वरे लज्जसे

ब्रूषे गो-शत-हुङ्कृतैः स्तुति-शतैर् मौनं विधत्से सताम् ।

दास्यं गोकुल-सुन्दरीषु कुरुषे स्वाम्यं न दान्तात्मसु

ज्ञातं कृष्ण तवाङ्घ्रि-पङ्कज-युगं प्रेम्णैक-लभ्यं परम् ॥ [२.८३]

यद् वा, वस्त आच्छादयति व्याप्नोति सर्वम् । एतेन पूर्णम् । वसयन्ति स्वरूपतो रस-चमत्कारतः प्रभातिश्याच् च स्तम्भोपलक्षित-सात्त्विक-महा-भावालिङ्गिताः सर्व एव भवन्ति यस्माद् इति वा । वस निवासे, वस आच्छादने, वसु स्तम्भे धातवः । वसेर् औणादिक-स्तुन् । वस्तु परमार्थ-भूतं ताप-त्रयोन्मूलनात् । विनाच्युताद् वस्तुतरां न वाच्यं [भा.पु. १०.४६.४३], वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनं [भा.पु. १.१.२] इति च श्री-भागवते ।

अस्ति त्रिकालाबाध्य-रूपेण वर्तते । न हि पूर्ण-भक्तानां कदाचिद् अपि तद् अभातं भवति । तर्हि किं वेदान्त-वेद्यं निराकारं ब्रह्मैव प्रतिज्ञायते ? न, किशोराकृति । किशोरी कैशोर-विशिष्टाकृतिः श्री-मूर्तिर् यस्य तत् ।

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

कैशोरम् आ पञ्चदशाद् यौवनं तु ततः परम् ॥ [भ.र.सि. १.२.३०९]

तत्र—

आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥३१२॥

तत्राद्यं कैशोरं—

वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुण-च्छविः ।

रोमावलि-प्रकटता कैशोरे प्रथमे सति ॥३१३॥

अथ मध्यमं—

वैजयन्ती-शिखण्डादि-नट-प्रवर-वेशता ।

वंशी-मधुरिमा वस्त्र-शोभा चात्र परिच्छदः ॥३१५॥

अथ शेषं—

खरतात्र नखाग्राणां धनुर् आन्दोलिता भ्रुवोः ।

रदानां रञ्जनं राग-चूर्णैर् इत्य् आदि चेष्टितम् ॥३१७॥ इति रसामृत-सिन्धौ ।

यद् वा, किशोरं च तद् अकृति चेति । न विद्यते कृतिः करणं यत्र तद् अकृति, नित्यानन्द-विग्रहत्वात् । किशोरं च तद् आकृति चेति वा । आ ईषत् क्रियते ब्रह्मानन्द-पर्यन्तम् अनेनेत्य् आकृति । ब्रह्मानन्दस्याभेदेनास्वाद्यमानत्वाद् भगवद्-आनन्दस्य तु भेदेनास्वाद्यमानत्वाद् ब्रह्मानन्दाद् भगवद्-आनन्द-सिन्धौ परमोत्कर्ष-चमत्कारः शर्करा-तद्-भोजिनोर् इवेति भावः । तथोक्तं चतुर्थे—

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-

ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।

सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्

किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भा.पु. ४.९.१०]

तथा च श्रुतयः—

दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्

चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।

न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते

चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ [भा.पु. १०.८७.२१]

केचिद् इति एवं-भूता भक्ति-रसिका विरलाः इति व्याख्यातं श्रीधर-स्वामिभिः । व्याख्यातं च सर्वज्ञैर् भाष्यकृद्भिः—मुक्ता अपि लीला-विग्रहं कृत्वा भजन्ते इति । मधुद्विट्-सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः [भा.पु. ५.१४.४४] इति पञ्चमे ।

तस्य सौन्दर्यस्यातिमनोहरत्वम् आह—स्वस्-तरुणी-कराग्र-विगलत्-कल्प-प्रसूनाप्लुतम् । स्वर् इति । स्वस्-तरुण्यः स्वर्ग-तरुण्यः शची-प्रभृतयस् तासां करेभ्यो विगलन्ति यानि कल्प-प्रसूनानि । कल्पः कल्प-तरुः, भीमो भीमसेनवत् । तस्य प्रसूनानि पुष्पाणि । तैर् आप्लुतं व्याप्तम् । यद् वा,

यन् न दुःखेन सम्भिन्नं न च ग्रस्तम् अनन्तरम् ।

अभिलाषोपनीतं च तत् सुखं स्वः-पदास्पदम् ॥

इत्य् उक्तेः स्वः-शब्देन तृतीय-लोकम् आरभ्योपरितनाः सर्व एव लोका गृहीताः । तेन तद्-वर्ति-तरुण्यः सुख-रूपा लक्ष्म्य्-आद्यास् तासां करेभ्यो विगलन्ति यानि कल्प-प्रसूनानि । कल्प्यन्तेऽमलाद्य्-आकारेणेति कल्पानि तद्-रूपाणि च यानि प्रसूनानि तैर् आ समन्तात् प्लुतं स्नातम् ।

विगलद् इत्य् अस्यायं भावः—परम्परयापि श्री-कृष्ण-स्पर्शो भवेद् इति बुद्ध्या तत्-सङ्गम-कामनया वा तद्-आराधनायाञ्जलिषु पुष्पाणि गृहीतानि, तदैवोपरि-निहित-लोचन-श्री-कृष्ण-मुखावलोकनेन जनित-परमानन्द-निःस्यन-सात्त्विक-भावानां स्व-चिकीर्षित-प्रसून-वर्ष-विस्मृतौ कराग्रात् प्रसूनानां विगलनं, भगवतश् च भक्त-काम-पूरकत्वाद् विगलताम् अपि प्रसूनानां स्वीकारः ।

सम्प्रति वेणु-नादेन विश्व-मोहकत्वम् आह—प्रस्तुत-वेणु-नाद-लहरी-निर्वाण-निर्व्याकुलम् । प्रस्तुतः प्रारब्धस् तत्-तद्-विचित्र-रागादि-रूपाण्य् उत्थापयितुम् । प्रस्तुतस् तत्-तत्-प्रस्तावोचितो वा । सङ्केत-नर्मादौ यो वेणु-नादो वेणोर् वंशी-भेदस्य नादस् तस्य लहरी ग्रामस् तत्र यन् निर्वाणं मूर्च्छना, तेन निर्व्याकुलं नितरां व्याकुलयति मोहयति तत् । निर्वाणं च सुखे मोक्षे मूर्च्छनायां च मुक्तके इति नानार्थः । लहरी सुव्यवस्थित-समूहः—स्वराणां सुव्यवस्थानां समूहो ग्राम इष्यते इति । स च त्रिधा—षड्ज-ग्रामो मध्यम-ग्रामो गान्धार-ग्रामश् चेति । षड्जः स्वराणां जनको यतः स्यात् ग्रामे ततो मुख्यतयैष एव । रागेषु स-ग्राम-जनित्वम् एव दृष्टं ततो ग्राम-युगं न हीष्टम् । आरोहणं च क्रमशोऽवरोहः सप्त-स्वराणाम् इति मूर्च्छनोक्ता ॥

तथा च—

सप्त स्वरास् त्रयो ग्रामा मूर्च्छनास् त्व् एकविंशतिः ।

न स्वरो यः श्रुति-स्थाने स्वनन् हृदय-रञ्जकः ॥

स्वरः संमूर्च्छितो यत्र रागतां प्रतिपद्यते ।

मूर्च्छनाम् इति ताम् आह भरतो ग्राम-सम्भवात् ॥ इति ।

तत्र वंशो, यथा—

वर्तुलः सरलश् चैव पर्व-दोष-विवर्जितः ।

वैणवः खादिरो वापि रक्त-चन्दनजोऽथवा ।

शक्थण्डजोऽथ सौवर्णो हस्ति-दन्त-मयोऽथवा ।

राजतस् ताम्रजो वापि लोहजः स्फाटिकोऽथवा ।

कनिष्ठाङ्गुलि-तुल्येन गर्भ-रन्ध्रेण शोधितः ।

वंश-भेदास् तु बहवो लिख्यन्ते विस्तरान् नहि ॥ इति ।

तत्र चत्वार उत्तमा वंशाः—

महित्य् अमरःस् तथा नन्दो विजयोऽथ जयस् तथा ।

चत्वार उत्तमा वंशा मातङ्ग-मुनि-सम्मताः ॥

दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ।

द्वादशाङ्गुल-मानस् तु विजयः परिकीर्तितः ।

चतुर्दशाङ्गुलम् इतो जय इत्य् अभिधीयते ॥

एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि ॥

तत्र वेणुः—

पाविकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ॥

मुरली—

हस्त-द्वय-मितायामा मुख-रन्ध्र-समन्विता ।

चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिनी ॥

वंशी—

अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् ।

ततोऽङ्गुलान्तरे यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥

शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ।

नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥

दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः ।

महानन्देति विख्याता तथा संमोहिनीति च ॥

भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता ।

आनन्दिनी तथा वंशी भवेद् इन्द्रान्तरा यदि ॥

गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।

क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥ [भ.र.सि. २.१.३६५-३७२] इति ।

यद् वा, वस्तुतः प्रकृष्टतया स्तुतो गोपीभिर् वेणुर् इति । अयं वेणुर् धन्यो यः स्वच्छन्दं श्री-गोविन्दाधर-रसं पिबन् मदो मुहुर् मुहुर् मधुरं शब्दायते । यथा चोक्तं श्री-भागवते—

गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर्

दामोदराधर-सुधाम् अपि गोपिकानाम् ।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो

हृष्यत्-त्वचोऽश्रु मुमुचुस् तरवो यथार्याः ॥ [भा.पु. १०.२१.९] इति ।

तस्य वेणोर् नादस् तस्य लहरीभिस् तरङ्गैर् निर्बाणा मुक्ताः । निर्गतो बाणो वेधको येभ्यः । येषां हृदयं वेद्धुं केऽपि न शक्नुवन्ति तेऽपि । निर्व्याकुला नितरां व्याकुला यस्मात् । उक्तं च श्री-दशमे—

विविध-गोप-चरणेषु विदग्धो

वेणु-वाद्य उरुधा निज-शिक्षाः ।

तव सुतः सति यदाधर-बिम्बे

दत्त-वेणुर् अनयत् स्वर-जातीः ॥ [भा.पु. १०.३५.१४]

सति यशोदे ! स्वर-जातीर् निषादर्षभादि-स्वरालाप-भेदान् (भावार्थ-दीपिका) ।

सवनशस् तद्-उपधार्य सुरेशाः

शक्र-शर्व-परमेष्ठि-पुरोगाः ।

कवय आनत-कन्धर-चित्ताः

कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ [भा.पु. १०.३५.१५] इति ।

तत् ताः स्वर-जातीः सवनशो मन्द्र-मध्य-तार-भेदेन (भावार्थ-दीपिका) ।

तस्य परम-रसिकत्वम् आह—स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्-गोपी-सहस्रावृतम् । स्रस्ता स्रस्ता श्री-कृष्ण-सौन्दर्यावलोकनान् महा-काम-विवशतया पुनः पुनः स्रस्ता निरुद्धा च या नीविर् वस्त्र-ग्रन्थिस् तया विलसन्तीनां विशेषेण लसन्तीनां शोभमानानां गोपीनां सहस्रैर् आवृतम्, आ समन्ताद् वृतं वेष्टितम् । निरुद्धेत्य् अनेन ग्रन्थि-मोचने जाते पुनर् बन्धन-सामर्थ्यं नास्त्य् एवेति करेण रोध-मात्रम् उक्तम् । उक्तं हि श्री-दशम-स्कन्ध-पञ्चाध्याय्यां—

बाहु-प्रसार-परिरम्भ-करालकोरु-

नीवी-स्तनालभन-नर्म-नखाग्र-पातैः ।

क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणां

उत्तम्भयन् रति-पतिं रमयाञ्चकार ॥ [भा.पु. १०.२९.४६] इति ।

तस्य परम-पुरुषार्थ-प्रदत्वम् आह—हस्त-न्यस्त-नतापवर्गम् । हस्ते न्यस्तो नतानां भक्तानाम् अपवर्गो मोक्षः कार्यावसान-साकल्यं वा येन तत् । परम-कारुणिकत्वेन भक्त-काम-पूरकत्वात् । यद् वा, नतानां भक्तानां हस्ते नस्तोऽर्पितोऽपवर्गो मोक्षो येन । मद्-भक्ता अपि मोक्षं दातुं समर्था इति भावः । स्याद् अपवर्गस् त्यागे मोक्षे कार्यावसान-साकल्ये इति मेदिनी ।

सर्व-प्रकारेणोत्कृष्टत्वम् आह—अखिलोदारम् । अखिलेभ्यो ब्रह्म-रुद्रादिभ्य उदारं महत् । तत् सेव्यम् इत्य् अर्थः, सर्व-शक्तिमत्त्वात् । यद् वा, अखिलस्य सर्वस्योदारं ज्ञातृ, सर्वज्ञम् इत्य् अर्थः । प्रकरणाद् अखिलासु सर्वासु गोपीषूदारं दक्षिणं वा । उदारो ज्ञातृ-महतोर् दक्षिणेऽपि च इति मेदिनी ।

शार्दूल-विक्रीडितं छन्दः—अर्काश्वैर् यदि मः सजौ सततगाः शार्दूल-विक्रीडितं [छन्दो-मञ्जरी] ॥२॥

सुबोधिनी ॒ एवं ब्रुवन्न् अन्तर् उद्यद् उत्कण्ठावेशात् पुरः स्फुरन्तं सपरिकरं श्री-कृष्णं पश्यन्न् इवाह—अस्तीति । वस्त्व् अस्ति । वसन्त्य् अस्मिन्न् अन्तर् भवन्ति प्राकृताप्राकृताः सर्व इति वस्तु सर्वाश्रयं किम् अपि । अस्ति नित्यं विराजते । वृन्दावन इति शेषः । किं निर्विशेषं ब्रह्म ? न, किशोरी प्रोद्यन्-नव-यौवनाकृतिः स्वरूपं यस्य तत् । तर्हि किं नारायणः ? न, अखिलेष्व् अवतारेषूदारं तद् अवतारि महत् । तद् एव विशेषयन्न् आह—प्रस्तुता वादिता ये वेणोर् नादास् तेषां लहर्यः स्वर-ग्राम-मूर्च्छनादि-रूपास् तरङ्गास् तासु निर्वाणं मन-आदीनां लयस् तेन निर्व्याकुलं तद्-आनन्दावेशेन विवशम् इत्य् अर्थः । वेणु-वादन-वैशिष्ट्येन विशेषान्तरम् आह—तद्-आकृष्टानां स्वः-स्त्रीणां तद्-दर्शन-विवशानां कम्पमान-कराग्रेभ्यो विगलन्ति यानि कल्प-प्रसूनानि तैर् आप्लुतं परितोऽन्वितम् । तथैव सर्वोपमर्द्य-साधारण-वैशिष्ट्यम् आह—स्रस्ता वेणु-नाद-श्रवणावेशेन स्थानाद् गलिताः पुनर् बद्धा अपि स्रस्ताः, अतः करेण निरुद्धा नीव्यो यासां ताश् च । वयः-सौन्दर्य-वैदग्ध्यानुरागाद्यैर् विलसन्त्यश् च या गोप्यस् तासां सहस्रैर् आवृतम् । अतः स्वस्य लीला-विशिष्टतया हस्ते न्यस्तोऽर्पितो नतानां भक्तानाम् आधुनिकाश्रित-समाधानार्थम् अपवर्गो मोक्षो भक्ति-योगश् च येन ॥२॥

सारङ्ग-रङ्गदा ॒ अथ पथि पथ्य् आगच्छतोऽस्य बाह्य-दशायां साधक-रीत्योत्कण्ठया भक्ति-सिद्धान्तोद्गारिणी तत्-कालम् एवान्तरावेशात् सिद्धवल् लालसया केवल-रसोद्गारिण्य् उक्तिः । अतस् तद्-दशा-द्वय-वासित्वाद् एकैव सार्थ-द्वयम् उद्गिरति । तत्रान्तर्-दशोत्थार्थो विवृत्य बाह्य-दशोत्थार्थस् तु सङ्क्षिप्य मया दर्शयितव्यः । यद्यप्य् उन्माद-प्रलयेऽत्र तस्य तत्-तद्-अनुसन्धानादिकं नास्ति, तथापि शुद्ध-प्रेमैव भक्ति-सिद्धान्तं रसं चाविरुद्धम् एव स्फोरयति । शुद्ध-प्रेम्णः स्वभावोऽयं यत् सिद्धान्त-विरुद्धं रसाभासं वा मोहोन्मादादाव् अपि न स्पृशति ।

तत्र प्रथमं गच्छन्तं तम् अनुगच्छतां वैष्णवानां “स्वामिन्, किम्-अर्थं त्वया गम्यते ? किं तत्रास्ति ?” इति प्रश्नात् तान् प्रति प्राभव-वैभवांशावतार-शक्त्य्-आवेशावतारादि-स्व-विलास-बाल्य-पौगण्डादि-स्व-प्रकाश-रूप-स्व-स्वरूपाणां, तथा चिच्-छक्तेस् तद्-विलासानन्त-वैकुण्ठानां, माया-शक्तेस् तद्-वैभवानन्त-ब्रह्माण्डानां, जीव-शक्तेश् च परमाश्रय-भूतं तं श्री-भागवत्दाव् आश्रयत्वेनोक्तं सर्वोत्तमं सर्व-भजनीयं पर-तत्त्वरूपं वस्तु निरूपयंस् तत्-कालम् एवान्तरावेशात् तादृशं श्री-कृष्णं पुरः स्फुरन्तं विलोक्य प्रलपन्न् आह—अस्तीति ।

अस्य बाह्यार्थः—किम् अपि वस्त्व् अस्ति सदा विराजते, श्री-वृन्दावन इति शेषः । वसन्त्य् अस्मिन् प्राग्-उक्तानि, तथा वसति काल-त्रयेऽप्य् एक-रूपतया दीव्यति इत्य् अर्थ-द्वयेऽप्य् औणादिक-तुन्-प्रत्ययाद् वस्तु । सामान्य-निर्देशान् नपुंसकत्वम् ।

ननु किं निराकारं ब्रह्म ? नेत्य् आह—किशोराकृति । किशोरी प्रोद्यन्-नव-यौवनाकृतिः स्वरूपं यस्येति जीववद् देह-देहि-भेदो निरस्तः । तथा हि श्री-भागवते—वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनं [भा.पु. १.१.२] इति, विनाच्युताद् वस्तुतरां न वाच्यं [भा.पु. १०.४६.४३], नातः परं परम यद् भवतः स्वरूपं [भा.पु. ३.९.३] इति च ।

ननु भगवद्-रूपाणि सर्वाण्य् एव किशोराकृतीनि तत्र कतरद् इदं ? इत्य् अत्राह—प्रस्तुत-वेण्व् इति । रासे व्रज-सुन्दरीणाम् आकर्षणार्थं प्रस्तुता ये वेणोर् नादास् तेषां या लहर्यः स्वर-ग्राम-मूर्छनादि-रूपास् तरङ्गास् तज्-जन्यं यन् निर्वाणं परमानन्दः, तासु मन-आदीनां लयो वा तेन निर्व्याकुलम् । निर् इत्य् अव्ययम् अभावार्थः, अव्याकुलम् इत्य् अर्थः । निर्मक्षिकवद् व्याकुलेभ्यो निर्गतम् इति वा । तत्र मग्न-चित्तादित्वान् निश्चलम् इत्य् अर्थः । निर्वाणं सुख-मोक्षयोः इति विश्वात् ।

तथा, सायं पुष्पाण्य् अवचिन्वत्यस् तन्-नादाकृष्टा याः स्वस्-तरुण्यस् तासां तन्-माधुर्य-दर्शन-विवशानां कम्पमान-कराग्रेभ्यो विगलन्ति यानि कल्प-प्रसूनानि कल्प-तरु-पुष्पाणि तैर् आप्लुतम् । प्रेम-वैवश्यात् कल्प-तरु-स्थाने कल्प इत्य् उक्तिः । किं वा, साहचर्य-बलाद् एक-देशेनापि पदार्थो बोध्यते ।

तथा, स्रस्त-स्रस्ता वेणु-नाद-श्रवणाद् गुरु-भर्तृ-पुरत एव स्रस्ता लज्जा-भयतः स्व-स्थाने बद्धा अपि पुनः स्रस्ताः, अतः करेण रुद्धाः । कासांचित् तद्-बन्धन-काल-विलम्बासहिष्णुत्वात् कराभ्यां निरुद्धा नीव्यो यासां ताश् च वयः-सौन्दर्य-वैदग्ध्यानुरागाद्यैर् विलसन्त्यश् च या गोप्यः, तासां सहस्रैर् आवृतं परितो वेष्टितम् । अतः श्री-भागवतोक्त-रास-विलासारम्भि श्री-कृष्ण-रूपं तद् वस्तु, न त्व् आगम-ध्यानोक्तम् । अन्येषाम् आवरणानाम् अत्राग्रेऽप्य् अनुक्तत्वात् ।

तथा, हस्ते न्यस्तो नतानां स्व-भजनोन्मुखानाम् अपवर्गः स्व-पार्षद-रूपानन्द-देह-दानेन लिङ्ग-देह-भङ्गो येन । तद् उक्तं—मर्त्यो यदा त्यक्त-समस्त-कर्मा [भा.पु. ११.२९.३४] इत्य् आदौ । यद् वा, अपवर्गः प्रेम-भक्ति-योगो येन । तथा पञ्चम-स्कन्धे गद्यं यथा-वर्ण-विधानम् अपवर्गश् चापि भवति [भा.पु. ५.१९.१९] इत्य् अत्र भक्ति-योग-लक्षण इति । तथैव व्याख्यानं श्री-स्वामि-चरणैः ।

तथाखिलेभ्यः कल्प-वृक्षादिभ्य उदारम्, वाञ्छातिरिक्त-दातृत्वात् । तथा हि—स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवं [भा.पु. ५.१९.२७] इति । किं वा, अखिलैर् भजनीय-नायक-सद्-गुणैर् उदारम् उत्तमम् ।

अन्तर्-दशोत्थार्थस् त्व् एवम्—इदं किम् अपि वस्त्व् अस्ति पुरो विराजते । वसन्त्य् अस्मिन् सौन्दर्य-माधुर्य-वैदग्ध्यादि-सद्-गुणादीनीति वस्तु । यद् वा, वस्ते स्व-माधुर्य-वेणु-गीतादि-जनित-मोह-मूर्छादि-भावैर् आत्मारामाद्य्-अप्राणि-पर्यन्तानां विशेषतः स्त्रीणां ततोऽपि नितरां व्रज-सुन्दरीणां चित्तम् आच्छादयतीति वस्तु । कीदृशं ? किशोराकृति । तथा साध्व्यः परतन्त्रा गोप्यः कथम् एष्यन्ति ? कथं वा रासो भवेद् इति व्याकुलम् अपि वेणु-नाद-लहरीभिर् यन् निर्वाणं तद्-आकृष्ट-वल्लवीनां काञ्ची-नूपुरादि-ध्वनि-श्रवणजानन्दः, तेन निर्वाकुलम् अव्याकुलम् ।

तथा, हस्ते न्यस्त इच्छया वेणु-नादेनैव सम्पादितो नतानां स्व-चरणाश्रयोन्मुखीनां तासां गुर्व्-आदि-वारण-धर्म-लज्जादि-शृङ्खलाभ्यो मोक्षो येन । तद् उक्तं—या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य [भा.पु. १०.३२.२२] इत्य् आदौ ।

अखिलासु वल्लवीषूदारं तत्-तद्-अभीष्ट-विलास-पूर्त्या सर्व-मनोरथ-दातृ । तद् उक्तं श्री-जयदेवैः—विश्वेषाम् अनुरञ्जनेन [गी.गो. १.४८] इत्य् आदौ । किं वा, अखिलैर् भजनीय-सद्-गुणैर् उदारं महद् अत्युत्तमम् इत्य् अर्थः । अन्यत् समानम् ।

आकृष्य राधां व्रज-सुभ्रुवां गणाद्

भङ्ग्या तया गूढ-विलास-लाभतः ।

कुञ्जे रसास्वाद-विशेष-लब्धये

प्रारम्भि रासो रसिकेन्द्र-मौलिना ॥

पश्चान् मया बाह्य-दशोत्थम् अर्थं

संगृह्णतादाव् अपि वक्तुम् अर्हम् ।

अन्तर्-दशोत्थः स-विशेषम् अर्थः

पूर्वं निजेष्टः किल कथ्यतेऽसौ ॥

अथास्य तद्-वेश्या-वक्त्राच् छ्री-राधायाः श्री-कृष्णानुरागादि-श्रवण-जात-लोभत्वाद् रागानुगा-मार्गेणैव भजनम् । तत्र रागानुगा-मार्गेऽनुत्पन्न-रति-साधक-भक्तैर् अपि स्वेप्सित-सिद्ध-देहं मनसि परिकल्प्य भगवत्-सेवादिकं क्रियते । जात-रतीनां तु स्वयम् एव तद्-देह-स्फूर्तिः । अस्य तूत्पन्ना मधुर-जातीया रतिः क्रमेणानुराग-दशां प्राप्तास्ति, अतस् तद्-देह-स्फूर्तिः सदैव । यथा भक्ति-रस्सर्वौ—

इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।

तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ [भ.र.सि. १.२.२७२]

विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।

रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥ [भ.र.सि. १.२.२७०]

रागात्मिकैक-निष्ठा ये व्रज-वासि-जनादयः ।

तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥ [भ.र.सि. १.२.२९१]

तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।

नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणम् ॥ [भ.र.सि. १.२.२९२] इति ।

तथा उज्ज्वल-नीलमणौ—

स्याद् दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमाद् अयम् ।

स्यान् मानः प्रणयो रागोऽनुरागो भाव इत्य् अपि ॥

बीजम् इक्षुः स च रसः स गुडः खण्ड एव सः ।

स शर्करा सिता सा च सा यथा स्यात् सितोपला ॥ [उ.नी. १४.५९-६०] इति ।

तत्रानुराग-लक्षणं—

सदानुभूतम् अपि यः कुर्यान् नव-नवं प्रियम् ।

रागो भवन् नव-नवः सोऽनुराग इतीर्यते ॥ [उ.नी. १४.१४६] इति ।

तथैवाग्रे व्यक्तीभविष्यति ॥२॥

—ओ)०(ओ—

(३)

चातुर्यैक-निदान -सीम-चपलापाङ्ग-च्छटा-मन्थरं

लावण्यामृत-वीचि-लोलित -दृशं लक्ष्मी-कटाक्षादृतम् ।

कालिन्दी-पुलिनाङ्गन-प्रणयिनं कामावताराङ्कुरं

बालं नीलम् अमी वयं मधुरिम-स्वाराज्यम् आराध्नुमः ॥३॥

कृष्ण-वल्लभा॒ इदानीं प्रतिज्ञातस्यैव सच्-चिद्-आनन्द-सान्द्रैक-रस-घन-मूर्तेः श्री-कृष्णस्य परमाराध्यत्वं दर्शयति—चातुर्येति । अमी वयं नीलं बालम् आराध्नुमः । अमी इति भावनावेशेन हृदि साक्षात्-कृत-परमानन्द-विग्रहाः । वयम् इति सहचराः, एक-यूथाभिप्रायेण । नीलं श्यामं फुल्लेन्दीवर-कान्तम् । शृङ्गार-रस-सर्वस्वम् इत्य् अर्थः, शृङ्गार-रसस्य श्यामत्वात् । शृङ्गारः श्याम-वर्णोऽयं कथितः कृष्ण-देवतः इति सङ्गीते । बालं किशोरम्, आ षोडशाद् भवेद् बालः इत्य् उक्तेः । बलते सम्भजते गोपी-कदम्बम् इति वा । ज्वलादित्वाद् अण् [पा. ३.१.१४०] । आराध्नुमः आराधयामः ।

कीदृशं ? चातुर्यैक-निदान-सीम-चपलापाङ्ग-च्छटा-मन्थरम् । चातुर्यं चतुरता तस्यैकं मुख्यं निदानं कारणं तस्य सीमावधि-भूता चासौ चपलापाङ्ग-च्छटा नेत्रान्त-कान्ति-परम्परा, तया मन्थरयति स्तम्भयति व्रज-वल्लवीस् तम् । स्तम्भोपलक्षित-सात्त्विक-भाव-युताः करोतीत्य् अर्थः । यद् वा, चातुर्यम् एकं मुख्यं निदानं कारणं तस्य सीमा अवधि-भूता याश् चपलापाङ्ग-च्छटाः । चपलावद् विद्युद् इव वर्तमानानां गोप-सुन्दरीणाम् अपाङ्गास् तेषां छटास् तरङ्गाः । छुट छेदार्थः । औणादिक-प्रत्यये उदच् चेति उ-कारस्या-कारः सिद्धः । ताभिर् मन्थरं मन्थान-द्रव्यवत् सङ्क्षुब्धम् । एतेन लीला-विग्रहस्य दधि-पात्रता ध्वन्यते ।

मथरः कोष-फलयोर् बन्धे मन्थान-शैलयोः ।

कुसुम्भ्यां न द्वयोर् मन्दे पृथौ वक्रेऽभिधेयवत् ॥ इति मेदिनी ।

अथवा, चातुर्यस्यैकं निदानं व्रज-सुन्दरी-सङ्घस् तस्मिन् सीमा, अर्थात् राधा । तस्याश् चपलापाङ्ग-च्छटा-मन्थरम् । सीमा त्व् आदि-पुराणे—

त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुरी ।

तत्रापि गोपिकाः पार्थ तत्र राधा तनुर् मम ॥ इति ।

पुनः कीदृशं ? लावण्यामृत-वीचि-लोलित-दृशम् । लावण्यम् एवामृतं तस्य वीचिभिस् तरङ्गैर् लोलिते विमर्दिते दृशौ यस्य । यद् वा, लावण्यामृतस्य वीचिर् ययोस् तादृश्यौ लोलिते च दृशौ यस्य तम् । लुल विमर्दे [पा. १.३३६] सौत्रः । णिचि सिद्धम् । अत्र स्निग्धा दृष्टिः, यथा—

विकाशि-स्निग्ध-मधुरा चतुरे बिभ्रती भ्रुवौ ।

कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाभिधीयते ॥ [सङ्गीत-रत्नाकरे ७.३९७]

लावण्य-लक्षणं, यथा रसामृत-सिन्धौ—

मुक्ता-फलेषु छायायास् तरलत्वम् इवान्तरा ।

प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥ [उ.नी.]

पुनः कीदृशं ? लक्ष्मी-कटाक्षादृतम् । लक्ष्मीः श्री-राधा । उक्तं च मत्स्य-पुराणे—

वारणास्यां विशालाक्षी विमला पुरुषोत्तमे ।

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ इति ।

तस्या कटाक्षेणादृतं महा-गौरव-पात्री-कृतम् । राधाया कटाक्षेण परमादरं मन्यत इत्य् अर्थः । अपाङ्गौ नेत्रयोर् अन्तः कटाक्षोऽपाङ्ग-दर्शने इत्य् अमरः । तथा च सङ्गीत-रत्नाकरे—

यद्-गतागत-विश्रान्ति-वैचित्र्येण विवर्तनम् ।

तारकायाः कलाभिज्ञास् तं कटाक्षं प्रचक्षते ॥ इति ।

यद् वा, लक्ष्मीं कटाक्षयन्ति स्व-सौभाग्येनेति लक्ष्मी-कटाक्षाः श्री-राधाद्या गोप्यस् ताभिर् आदृतम् । दृग्-अङ्ग-भङ्गीभिः सेवितम् इत्य् अर्थः । तथा च श्री-दशमे पञ्चदशाध्याये श्री-कृष्णोक्तिः—

धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्-

पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः ।

नद्योऽद्रयः खग-मृगाः सदयावलोकैर्

गोप्योऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥ [भा.पु. १०.१५.८]

तत्रैवान्यत्रोद्धव-वाक्यं, यथा—

नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः

स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-

लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा.पु. १०.४७.६०] इति ।

पुनः कीदृशं ? कालिन्दी-पुलिनाङ्गन-प्रणयिनम् । कलिं ध्यति खण्डयतीति यमुना-जनकत्वात् कलिन्दः पर्वतः । पृषोदरादित्वात् [पा. ६.३.१०९] निपातः । तद्-भवा कालिन्दी यमुना । तस्या पुलिनम् एवाङ्गनं विहरण-स्थानं तत्र प्रणयः स्नेहो यस्य तम् । तत्रैव स्थितत्वात् । तम् आराधयाम इति भावः ।

पुनः कीदृशं ? कामावताराङ्कुरम् । कामावतारस्य अङ्कुरो यस्मात् । यद् वा, कामस्यावतारा भाव-हाव-कटाक्ष-लीला-दृक्-पातादयः, तेषाम् अङ्कुरं प्रोद्गम-स्थानम् ।

पुनः कीदृशं ? मधुरिम-स्वाराज्यं, मधुरिम्णो माधुर्यातिशयस्य स्वाराज्यम् अशेष-वैभवम् । रूपं किम् अप्य् अनिर्वाच्यं तनोर् माधुर्यम् उच्यते [उ.नी. ११.३५] । यद् वा, मधुरिम्णि स्वाराज्यम् अनन्याधीनत्वं यस्य, मधुरिमा मधुर-रसः स एव स्वाराज्यं यस्येति वा, तम् । मधुर-रस-रूपम् इत्य् अर्थः ।

शार्दूल-विक्रीडितं छन्दः ॥३॥

सुबोधिनी ॒ अथैतत् स्फूर्त्य्-आनन्दावेशेन स्व-सङ्गिनः स्वान्तर्-भाव्य-गोपी-गण-मुख्य-निजाश्रयं व्यञ्जयन् वयम् अपि तद् एवाराधयाम इत्य् आह—अमी वयं बालं किशोरम् आराधयामः । पूर्वं किशोरत्वेनोक्तत्वात्, बाल्यम् आषोडशाब्दान्तम् इत्य् उक्तेर् बाल-शब्द-प्रयोगः केवल-क्रीडैक-परता-ज्ञापकः । स्व-पूर्व-दशा-स्फूर्त्यादसः प्रयोगः । कथं तम् एवाराधयथ ? मधुरिम्णां स्वाराज्यम् । तत् सर्वम् अत्रैव सुलभम् इत्य् अर्थः । कीदृशं बालं ? इन्द्रनील-मणि-स्वच्छम् । किशोरत्वम् आपादयन्न् आह—चातुर्याणाम् इङ्गित-मात्रेणाभीष्ट-ज्ञापकानां यानि मुख्यान्य् आदि-कारणानि, तेषाम् अवधि-रूपो यस् तम् ।

कथं चरणयतिआवगतिः ? चपलापाङ्गस्य या छटा तां मन्थयति स्व-विषयक-भावोद्दीपनैः स्तब्धां करोतीति तम् । तन्-मन्थरी-करणम् अपि किम्-अर्थं ? तस्या लावण्यामृत-तरङ्गेन लोलिते स-तृष्णी-कृते दृशौ यस्य तम् । अत एव लक्ष्म्याः श्री-राधाया कटाक्षे आदृतं सादरम् । साभिलाषम् इत्य् अर्थः । यमुना-पुलिन-स्थस्य तस्य राधिका-साहचर्यस्य युक्तत्वात् । देवत्वे देव-देहा सा मानुषत्वे च मानुषी [वि.पु. १.९.१४३] इत्य्-आदि-विष्णु-पुराणे तथोक्तेः ।

कथं वा तद्-अभिलाषो ज्ञातः ? कालिन्द्याः पुलिनम् एवाङ्गनं तत्र प्रणयिनम् । तद्-आशया तत्र सदा स्थितम् इत्य् अर्थः । स्वाभिलाष-मात्रेण कथं तत्-सिद्धिः ? कामस्य स्व-विषयाभिलाषस्य योऽवतारः प्राकट्यं तस्याङ्कुरः प्ररोहो यस्मात् तम् ॥३॥

सारङ्ग-रङ्गदा ॒ ततः श्री-कृष्ण-पार्श्वे सर्व-मुख्याया पूर्व-श्रुतानुराग-सौभाग्यायाः राधाया पार्श्व-स्थ-सखीनां तद्-उपासिकानां मध्ये आत्मानं तादृशीम् एकां जानन्न् आह—चरणयतिएति । अमी वयं तत्-परिवार-रूपा बालं किशोरम् आराध्नुमश् चामरान्दोलन-ताम्बूल-दानादिना सेवामहे । पूर्वं किशोराकृतित्वेन निरूपितत्वाद् अग्रेऽपि तल्-लीलाया एव वर्णितत्वात् स्मृत्य्-अलङ्कारादिषु त्रिविध-वयो-विवेचने बाल्यम् आषोडशाब्दान्तम् इति प्रसिद्धेश् च बाल-शब्देनात्र किशोर एवोच्यते । अन्यथा व्याख्यायां कामावताराङ्कुरत्वासम्भवात् ।

कीदृशं ? नीलम् इन्द्र-नील-मणिवच् छ्यामम्, मूर्तं शृङ्गार-रसम् इत्य् अर्थः । यद् उक्तं—शृङ्गारः सखि मूर्तिमान् [गी.गो. १.४८] इति । तथा रास-रङ्ग-कालिन्दी-पुलिनम् एव माधवी-चतुः-शालिकाया अङ्गनं तत्र प्रणयिनम्, सदा तत्र विलसन्तम् इत्य् अर्थः । तथा प्रबल-लज्जा-वाम्याभ्यां परमोत्कण्ठायाम् अप्य् अधो-मुखतया स्थिताया लक्ष्म्याः श्री-राधायाः कटाक्षे तत्-प्राप्ताव् आदृतं सादरम् । तथा परितः स्थितास्व् अप्य् अन्यासु श्री-राधाया एव लावण्यामृत-वीचिभिर् लोलिते स-तृष्णीकृते दृशौ यस्य तम् । अतोऽन्यास् त्यक्त्वा तया सह रहो-लीलोत्कण्ठया सर्व-समाधान-पूर्वकम् अन्यालक्षित-प्रेरणया तन्-निष्क्रमण-स्व-निष्क्रमणादिषु तस्य तत्-तच्-चातुरी-स्फूर्त्याह—चरणयतिएति । चरणयतिआणां नेत्रान्तादि-द्वारैव तत्-तज्-ज्ञापन-रूपाणां यानि मुख्यानि निदानान्य् आदि-कारणानि तेषां सीमावधि-रूपश् चपलश् च योऽपाङ्गस् तस्य छटया तां मन्थरयति स्तब्धां करोतीति तम् । अतो लक्ष्म्यास् तस्याः कटाक्षे आदृतं सादरम् । सङ्केत-ज्ञानम् इदं ज्ञापयत्व् इयम् इति तद् अभिलपन्तम् इत्य् अर्थः ।

यद् वा, श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र.सं. ५.५६] इत्य् आदि, लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं [ब्र.सं. ५.२९] इत्य् आदि ब्रह्म-संहिताद्य्-अनुसारेण लक्ष्मीणां व्रज-देवीनां कटाक्षैर् आदृतम् अपि चरणयतिऐक-निदान-सीमायास् तल्-लीलार्थं जात-चरणयतिआयाः श्री-राधाया योऽपाङ्गस् तच्-छटाभिर् मन्थरं जात-स्तब्धतया तत्-तत्-क्रियादिष्व् अप्य् अशक्तम् । तथा—प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् इत्य् आदि-अनुसारेण कामस्य तद्-विषयक-प्रेम-विशेषस्य योऽवतारः प्राकट्यं तस्याङ्कुरः प्ररोहो यस्मात् तम् । सर्व-माधुर्यम् अनुभूयाह—मध्व् इति । मधुरिम्णां स्वाराज्यम्, तत् सर्वम् अत्रैव सुलभम् इत्य् अर्थः । तत्रास्य तस्याः सख्येनानुगतिः । राधा-पयोधरोत्सङ्ग [कृ.क. ७९] इत्य् आदौ, ये वा शैशव-चापल्य-व्यतिकरा राधावरोधोन्मुखाः [कृ.क. १०९] इत्य् आदौ च सुव्यक्तैव ।

बाह्य-दशार्थस् त्व् एवम्—स्व-सङ्गिनः प्रत्य् एव न केवलं तादृशं वस्त्व् अस्त्य् एव वयम् अपि तद् उपास्मह इत्य् आह—अमी वयम् । जानन्त एव जानन्तु [भा.पु. १०.१४.३८] इत्य् आदिना, नायं सुखापो भगवान् [भा.पु. १०.९.२१] इत्य् आदिना च विधि-शुक्रादिभिः स्तुतं बालम् आराध्नुम इति । स्वर-वैकृत्येनाश्चर्य-द्योतनम् । स्वस्य तद्-बहिर्मुख-पूर्व-दशा-स्मृत्यादसः प्रयोगः । तान् क्रोडीकृत्य बहुत्व-प्रयोगश् च । तम् एवाश्रयणीय-नायक-सद्-गुणैर् विशिनष्टि । तत्र कालिन्दीति सदा विलासित्वम् उक्तम् । मधुरिमेति रुचिरत्वम् । तासाम् आकर्षणे उपेक्षा-प्रत्यायक-वाग्-भङ्गी-प्रार्थनादि-चातुरी-स्फूर्त्याह—चरणयतिएति । अनेन वैदग्ध्यम् । चपलेति मोहनत्वम् । चपलानां तासाम् अपाङ्ग-च्छटाभिर् मन्थरं स्तब्धम् इति प्रेम-वश्यत्वम् । तस्या मुखेन्दु-दर्शनाद् उच्छलितो यो लावण्यामृतार्णवस् तद्-अमृत-वीचिभिर् लोलिताः स-तृष्णीकृतास् तस्याः पश्यतां च दृशो येनेति सौन्दर्यम् । वेणु-नादाकृष्टाया नभः-स्थिताया लक्ष्म्या अपि कटाक्षैर् आदृतं सादरं स-लालसम् ईक्ष्यमाणम् इति नारी-गण-मनो-हारित्वम् । कामानां चतुर्-व्यूहान्तर्गत-प्रद्युम्नाख्य-स्व-स्वरूपाणां शाखा-स्थानीयानां तद्-अंश-लेशाभास-रूपाणाम् अनन्त-ब्रह्माण्डान्तर्गत-प्राकृत-कामानां पत्र-स्थानीयानाम् अवतारस्य प्राकट्यस्याङ्कुरं प्रथमोद्भिन्न-कोमल-स्कन्धांशम् । प्राकृताप्राकृत-कन्दर्प-निदान-वृन्दावनाभिनव-कन्दर्पम् इत्य् आदि । आगमादौ काम-गायत्र्या काम-बीजेन च तस्य तद्-रूपेणोपास्यत्वात् । कोटि-मदन-विमोहनाशेष-चित्ताकर्षक-सहज-मधुरतम-लावण्यामृत-पारार्णवेन महानुभाव-चयानुभूयमान-तत्-तन्-महा-प्रभाव-निवहेन श्री-मदन-गोपाल-रूपेणाधुनापि वृन्दावने विराजमानत्वाच् च । अनेन सर्वावतार-बीजत्व-सर्व-माधुर्ये उक्ते ।

रास-लीला जयत्य् एषा यया संयुज्यतेऽनिशम् ।

हरेर् विदग्धता-भेर्या राधा-सौभाग्य-दुन्दुभिः ॥

—ओ)०(ओ—

(४)

बर्होत्तंस-विलास -कुन्तल-भरं माधुर्य-मग्नाननं

प्रोन्मीलन्-नव-यौवनं प्रविलसद्-वेणु-प्रणादामृतम् ।

आपीन-स्तन-कुट्मलाभिर् अभितो गोपीभिर् आराधितं

ज्योतिश् चेतसि नश् चकास्तु जगताम् एकाभिरामाद्भुतम् ॥४॥

कृष्ण-वल्लभा ॒ इदानीं हृदि तत्-स्फूर्तिम् आशास्ते—बर्हेति । ज्योतिः प्रकाशकम् । यत्-प्रकाशेन सर्वं प्रकाशते तद् इत्य् अर्थः । एतेन सर्वोज्ज्वलत्वं दर्शितम् । नोऽस्माकं चेतसि चकास्तु प्रकाशताम् । ज्योतिर् इति किं ब्रह्म ? न, गोपीभिर् आराधितं सेवितम् । ब्रह्मापि स्त्रीणाम् आराधितं भवति, न तथा आपीन-स्तन-कुड्मलाभिर् आपीना अतिकठिनाः स्तना एव पद्म-कुड्मला यासां ताभिः । नव-किशोरीभिर् इत्य् अर्थः । यद् वा, आ ईषत् पीना नव-किशोरीत्वात् स्तन-कुड्मला यासां ताभिः । अन्यापि देवता कुड्मलैर् आराध्यते । कुड्मलो मुकुलोऽस्त्रियाम् इत्य् अमरः ।

सर्वतः परमानन्द-रूपत्वं चाह—जगताम् एकाभिरामाद्भुतम् । जगतां जगद्-वर्तिनां मध्ये एकं मुखम् । अभिरामम् अभिर्मयत्य् आनन्दयति तच् चाद्भुतं चेति । एतादृश-सौन्दर्यम् अन्यत्र कुत्रापि नास्ति । अत्रैवोपक्षीणम् इत्य् अर्थः । तद् उक्तं तृतीये—

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषण-भूषणाङ्गं [भा.पु. ३.२.१२] इति ।

तत्राप्य् अद्भुतम् आश्चर्यानन्त-चमत्कार-रूपत्वाद् इति तद् एव ज्योतिर् अवयव-विभागेन विशिनष्टि—बर्होत्तंस-विलास-कुन्तल-भरम् । बर्ह-निर्मितेनोत्तंसेन शिरो-भूषणेन विलासो यस्य । तथा-भूतः कुन्तल-भरो यस्येति पुनर् बहु-व्रीहिः । यद् वा, वर्ह-लाञ्छितो यो नाना-कुसुम-रचित उत्तंसः शिरो-भूषणं तस्य विलासो येन । तथा-भूतः कुन्तल-भरो यस्य तत् । चिकुरः कुन्तलो बालः इत्य् अमरः । विलास-लक्षणं यथा रसामृत-सिन्धौ—

गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ।

तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उ.नी. ११.३१]

पुनः कीदृशं ? माधुर्य-मग्नाननम् । माधुर्ये मधुर-रसे मग्नम् इव कृत-मज्जनम् इवाननं यस्य तत् । सर्वावस्थान-विशेषेषु माधुर्यं रमणीयता [सा.द. ३.९७] । यद् वा, माधुर्ये रसे मग्नानां भक्तानाम् अननं जीवनम् । प्रकर्षेणोन्मीलद्-आविर्भवन् नव-यौवनं यस्य तत् । उन्मीलद् इति नित्य-प्रवृत्त-वर्तमाने शत्र्-अन्तम् । अनवस्थयेव तस्य नव-यौवनम् इति भावः ।

पुनः कीदृशं ? प्रविलसद्-वेणु-प्रणादामृतम् । प्रकर्षेण विलसन् शोभमानो यो वेणुस् तस्य प्रकृष्टो नाद एवामृतं यत्र । ज्योतिष्यामृतारोपाच् चन्द्रत्वं व्यङ्ग्यम् । शार्दूल-विक्रीडितम् ॥४॥

सुबोधिनी ॒ तत्रायं क्रमः—एकेन स्व-नियम-कथनम् । ततस् तद्-दर्शन-प्रार्थनं त्रयस्त्रिंशता । ततः स्फूर्ति-साक्षात्कारयोर् भ्रमः पञ्चभिः । पुनर् दर्शनोत्कण्ठा सप्तभिः । ततः साक्षाद्-दर्शनात् तद्-वर्णनम् अष्टाविंशत्या । ततस् तेन सहोक्तिः सप्तदशभिः ।

ततः स्फूर्त्य्-अपगमे दैन्योदयात् सोत्कण्ठं प्रार्थयते—नश् चेतसि ज्योतिः कान्ति-पुञ्ज आविर्भवतु । कीदृशं ? जगताम् एकं केवलम् अभिरामं च तद् अद्भुतं च यत् । तद् एव व्यनक्ति—प्रकर्षेणोन्मीलन्-नव-यौवनं चरम-कैशोरं यस्य तत् । एतज् ज्ञानं कुतः ? माधुर्ये मग्नं कृत-मज्जनम् आननं यस्य । तत्रापि वैशिष्ट्यम् आह—बर्होत्तंसस्य यो विलासो मन्दानिलान्दोलनं तद् युक्तः कुन्तल-कलापो यस्य । अन्यच् च—प्रविलसन्तो ये वेणोः प्रणादास् त एवामृतानि यस्मिन् । ततोऽपि विशिष्टं तम् आह—गोपीभिः स्व-स्वाभिरुचितया सेवितम् । कीदृशीभिः—अतिनिविडानि स्तन-मुकुलानि यासां ताभिः । अनेन लक्ष्म्याः परिजन-साहित्यं व्यञ्जितम् ॥४॥

सारङ्ग-रङ्गदा ॒ अथास्य बाह्ये तिस्रो दशा दृश्यन्ते । प्रथम-स्फूर्तौ स्फूर्ति-ज्ञानम् । ततः स्फूर्ति-साक्षात्कारयोर् भ्रमः । ततः साक्षात्कारः । इति । तत्रास्य मधुर-जातीय-भावाश्रत्वात् पूर्वराग-विप्रलम्भोत्पन्न-लालसा-दशोत्पन्नास्ति । तथान्तः-स्फूर्ताव् अपि बाह्य-दशोत्थ-दैन्य-वैकल्यादि-वासित-मनस्तया रास-विलासिनस् तस्य स्फूर्ति-प्रार्थनम् एवाष्टादशभिः । तानि स्पर्श-सुखानि ते च तरलाः [गी.गो. ३.१५] इत्य् आदौ,

सा बिम्बाधर-माधुरीति विषयासङ्गेऽपि चेन् मानसं

तस्यां लग्न-समाधि हन्त विरह-व्याधिः कथं वर्धते ॥ इतिवत् ।

तत एकेन स्व-निश्चय-कथनम् । ततो गोपीनां रासान्तर्हित-कृष्ण-दर्शनोत्कण्ठा-प्रलाप-स्फूर्त्या तद्-दर्शन-प्रार्थनं त्रयस्त्रिंशता । ततः स्फूर्ति-साक्षात्कारयोर् भ्रमः पञ्चभिः । ततः पुनर् दर्शन-प्रार्थनं सप्तभिः । ततः साक्षाद्-दर्शनाद् वाङ्-मनसागोचरत्वेन तद्-वर्णनम् अष्टाविंशत्या । ततस् तेन सहोक्तिः प्रत्युक्तिः सप्ददशभिर् इति क्रमः ।

तत्रादौ तया सह निभृत-लीलोत्कण्ठया सर्व-समाधानार्थं, बाहु-प्रसार [भा.पु. १०.२९.४६] इत्य् आदिवत्, तथा तस्यास् तासां च तद्-उत्कण्ठतां वर्धयितुम्, उत्तम्भयन् रतिपतिं [तत्रैव] इत्य् आदिवच् च ताभिः सह विलसतस् तस्य स्फूर्त्या स्व-समान-सखीः प्रत्य् आह—बर्होत्तंसेत्य् आदि । प्रथमं तल्-लावण्य-च्छटोच्छलित-तद्-भूषणाम्बर-गोपी-लावण्य-भूषणादि-ज्योतिः-पुञ्जं निर्विशेषतयानुभूयेव जाताह्लादो लोभात् स-सम्भ्रमम् आह—इदं ज्योतिः स्व-पर-प्रकाशकं मनो-नेत्र-रसायनं वस्तु नश् चेतसि चकास्तु ।

ईषद्-विशेष-स्फूर्त्याह—प्रकर्षेणोन्मीलन्-नव-यौवनं चरम-कैशोरं यस्य तत् । तथा बर्होत्तंसस्य यो विलासो नृत्य-गत्या मन्दानिलेन चान्दोलनं तद्-युक्तः कुन्तल-भरस् तत्-कलापो यस्य ।

तथा, स्वरालापादि-भङ्गीभिः प्रकर्षेण विलसन्तो ये वेणोः प्रकृष्टा नादास् त एवातिमधुरत्वाच् छुष्क-स्थावरादि-जीवदत्वाच् चामृतानि यस्मिन् ।

तथा, गोपीभिर् अभितश् चुम्बनालिङ्गनादिभिर् आराधितं सेवितम् । आपीतानि स्तन-कुट्मलानि यासां ताभिः । तथा, जगतां तत्-स्पर्श-तृष्णयाभितः कुटिलं भ्रमन्तीनां तासां मध्य एकस्यां श्री-राधायाम् अभि सर्वतो-भावेन यो रामो रमणं तेन पश्यतां स्मरतां चाद्भुतं चमत्कार-कारकम् । तया सह मिथः स्कन्ध-न्यस्त-हस्ततया कृत-नृत्यत्वात् ।

बाह्ये—तान्य् एवाह । अर्थः स एव । किं वा, त्रिजगतां यद् एकं प्रधानम् अभिरामम् अद्भुतं च तत् ॥४॥

(५)

मधुरतर-स्मितामृत-विमुग्ध-मुखाम्बुरुहं

मद-शिखि-पिञ्छित-मनोज्ञ-कच-प्रचयम् ।

विषय-विषामिष-ग्रसन-गृध्नुनि चेतसि मे

विपुल-विलोचनं किम् अपि धाम चकास्तु चिरम् ॥५॥

कृष्ण-वल्लभा ॒ पुनर् अपि श्री-कृष्ण-विग्रह-स्फूर्तिं प्रार्थयते—मधुरतरेति द्वाभ्याम् । किम् अप्य् अद्भुतं धाम ज्योतिर् अनुभवैक-मात्र-गम्यं मे मम चेतसि चिरं चिर-कालं चकास्तु प्रकाशताम् । असभावनायां लोट् ।

असम्भावनाम् आह—कथं-भूते चेतसि ? विषय-विषामिष-ग्रसन-गृध्नुनि । विशेषेण सिन्वन्ति बन्ध्ननीति विषयाः । वि-पूर्वक-षिञ् बन्धने धातुः । हिरण्यगर्भ-पदवी-पर्यन्तेन्द्रिय-भोग्यानि, त एव विषामिषाणि विष-सम्पृक्त-पललानि, मांसानि विष-रूपाणि वा । यद् वा, त एव विषाणि तान्य् एवामिषाणि लोभ्य-वस्तूनि । तेषां ग्रसनायादनाय गृध्नुन्य् अभिकाङ्क्षावति । ग्रस अदने, गृधु अभिकाङ्क्षायां च धातुः । आमिषं पलले लोभ्ये सम्भोगेऽपि च इति मेदिनी ।

तद्-धाम निराकृति साकृति वा तत्राह—मधुरतर-स्मितामृत-विमुग्ध-मुखाम्बुरुहम् । अतिशयेन मधुरं मधुरतरं यत् स्मितं हास्य-भेदस् तद् एवामृतं तेन विमुग्धं विशेषेण मुग्धं सुन्दरं मुखम् एवाम्बुरुहं कमलं यस्य तत् । मुग्धः सुन्दर-मूढयोः इति विश्वः । स्मित-लक्षणं यथा नाट्य-लोचने—

ईषद्-विकशितैर् गण्डैः कटाक्षैः सौष्ठवान्वितैः ।

अलक्षित-द्विज-द्वारम् उत्तमानां स्मितं भवेत् ॥

पुनः कीदृशं ? मद-शिखि-पिञ्छित-मनोज्ञ-कच-प्रचयम् । मदा मत्ता ये शिहिनो मयूरास् तेषां पिच्छैर् लाञ्छितोऽङ्कितो मनोज्ञानां सुन्दराणां कचानां केशानां प्रचयः समूहो यस्मिंस् तत् । माद्यच्-छिखित्वेन पिच्छस्य स्फीतता व्यज्यते । माद्यति रसेन मदयति गोप-सुन्दरीर् वा मदः । स चासौ शिखि-पिच्छ-लाञ्छित-मनोज्ञ-कच-प्रचयश् चेति यस्येति वा ।

पुनः कीदृशं ? विपुल-विलोचनम् । विपुले विशाले विशिष्टे विलोलता-मद-घूर्ण-तारुण्यादिना लोचने यस्य तत् । प्राक् समस्ताङ्गम् अनुभूय श्री-मुख-निरीक्षणं कृतम्, तत्र स्मितामृतादिष्व् एव मनो निमग्नम् इति समुदायार्थः ॥

कोकिलकं छन्दः । हय-ऋतु-सागरैर् यति-युतं यदि कोकिलकम् ॥ [छन्दो-मञ्जरी २] ॥५॥

सुबोधिनी ॒ पुनः स्व-चेतसोऽयोग्यतां निवेदयंस् तथैव स-लालसं प्रार्थयते—मम चेतसि किम् अपि पूर्वोक्तानिर्वचनीयं धाम कान्ति-पुञ्जश् चिर-कालं व्याप्योदेतु । कीदृशे ? विषय एव विषवद् दाहकत्वाद् विषम् । तथाप्य् अमृतवद् आमिषं लोभ्यम्, तस्य ग्रसने गृध्नु लम्पटं यत् तस्मिन् । तर्हि कथं प्रार्थनेत्य् आशङ्क्य तस्यैव तन्-निदानत्वं व्यञ्जयन्न् आह—मधुरतरं यत् स्मितं तद् एवामृतं तेन विमुग्धम् अतिमनोहरं मुखाम्बुजं यस्य । तथा, विपुले विलोचने यस्य । किं च, यौवन-मद-युक्तानां शिखिनां पिच्छैर् लाञ्छितश् चिह्नितः स्वभावतो मनोज्ञश् च केश-समूहो यस्य । शिखिनां मदनोत्क-पिञ्छानां स्फीतत्वम् । तन्-माधुर्यस्य सर्व-लोभनीयत्वात् प्रार्थ्यत इत्य् अर्थः ॥५॥

सारङ्ग-रङ्गदा ॒ पुनर् अतिमाधुर्य-स्फूर्त्या ताः प्रति स-लालसम् आह—मधुरतरेति । पूर्व-रीत्येदं किम् अप्य् अनिर्वचनीयं धाम मम चेतसि चिरं चकास्तु । ननु चित्त-सन्तापकस्यास्य स्मृति-लालसयालम् इत्य् अत्र चित्तं तच् च दूषयन्न् आह । कीदृशे ? विशेषेण सिनोति स्व-माधुर्य-मधुनि मनो-भृङ्गं बध्नातीति विषयम् । तच् च विषवद् दाहकत्वाद् विषं च । तथाप्य् अमृतवद् आमिषं लोभ्यं यद् एतद् धाम तस्य यद् ग्रसनं झटित्य् आत्म-सात्करणं तत्र गृध्नु लम्पटं यत् तस्मिन् । तद् उक्तं—

पीडाभिर् नव-काल-कूट-कटुता-गर्वस्य निर्वासनो

निःस्यन्देन मुदां सुधा-माधुरीमाहङ्कार-सङ्कोचनः ।

प्रेमा सुन्दरि नन्द-नन्दन-परो जागर्ति यस्यान्तरे

ज्ञायन्ते स्फुटम् अस्य वक्र-मधुरास् तेनैव विक्रान्तयः ॥ [वि.मा. २.१८] इत्य् आदौ ।

तत्र हेतुम् आह—मधुरतरं यत् स्मितामृतं तेन विमुग्धं मनोहरं मुखाम्बुरुहं यस्य । तथा, विपुले विलोचने यस्य । तथा, अस्मत्-पिच्छान्य् एवायम् अवतंसयतीति सौभाग्य-मद-युक्तास् तथा नव-घन-निनिदित-तत्-कान्ति-दर्शनोत्गतानङ्ग-मद-युक्ताश् च ये शिखिनस् तेषां पिञ्छैर् लाञ्छितः स्वभाव-मनोज्ञश् च कच-प्रचयो यस्य । मध्य-पद-लोपी समासः । मदातिशयात्त एव मद-रूपा इति वा । शिखिनां मत्ततोक्त्या पिञ्छानां स्फीततोक्ता ।

बाह्ये तु—विषयो वनितादिः । अन्यत् समम् । अतः स एव कृपया चेत् स्फुरति आयां तत्-स्फुरणम् । अन्यथा तद् अपि दुर्लभम् इति दैन्यम् । आमिषं पलले लोभ्ये इति मेदिनी । लोभ्य-वस्तुनि इति कोशः ॥५॥

—ओ)०(ओ—

(६)

मुकुलायमान-नयनाम्बुजं विभो

मुरली-निनाद-मकरन्द-निर्भरम् ।

मुकुरायमाण-मृदु-गण्ड-मण्डलं

मुख-पङ्कजं मनसि मे विजृम्भताम् ॥६॥

कृष्ण-वल्लभा ॒ अपि च, विभोर् अस्यैव सकल-सौन्दर्य-निधेर् मुख-पङ्कजं मे मनसि विजृम्भतां प्रकाशताम् । एतेन निज-मनसः सरो-रूपता व्यज्यते । तद् विशिनष्टि—मुरली-निनाद-मकरन्द-निर्भरम्, मुरल्या निनाद एव मकरन्दस् तेन निर्भरं पूर्णम् । अन्यद् अपि पङ्कजं मकरन्द-भरितं भवति । यद् वा, मुरली-निनाद-मकरन्देन नितरां बिभर्ति पोषयति । निज-परिवारम् आनन्दयतीत्य् अर्थः । पुनः कीदृशं ? मुकुलायमान-नयनाम्बुजं मुकुलायमाने मुरली-निनाद-विशेष-सञ्जातातितोषतस् तत्-तद्-आनन्देन मुकुलाये भवती नयनाम्बुजे यस्य । अम्बुज-समानतया स्व-मुखस्य चन्द्रता ध्वन्यते । चन्द्र-सम्बन्धाद् अम्बुजस्य मुद्रणम् उचितम् एव । पुनः कीदृशं ? मुकुरायमाण-मृदु-गण्ड-मण्डलं मुकुरायमाणे दर्पण-प्राये प्रैबिम्ब-ग्राहित्वान् मृदुणी कोमले गण्ड-मण्डले यस्य । दर्पणे मुकुरादर्शौ, गण्डौ कपोलौ इत्य् अमरः ॥ मञ्जु-भाषिणी छन्दः । सजसा जगौ च यदि मञ्जु-भाषिणी [छन्दो-मञ्जरी २] ॥६॥

सुबोधिनी ॒ अथ तन्-मुखाब्ज एव लग्न-मनस्कतया तद्-आविर्भावं प्रार्थयते—विभोर् मुख-पङ्कजं म मनसि विशेषेण प्रकाशताम् । विभोर् मुख-पङ्कजम् इत्य् अनिर्वचनीयत्वम् । पङ्कजत्वं व्यनक्ति—मुरली-निनाद एव मकरन्दस् तेन पूर्णम् । पुनर् अप्य् अनिर्वचनीयत्वम् आह—मुकुले इवाचरती नयनाम्बुजे यस्मिन् । अनेन विलास-रस-मग्नत्वं ध्वनितम् । अब्जेऽब्ज-द्वय-भावाद् अद्भुतोपमेयम् । न केवलम् इदम् अन्यद् अपि—मुकुरे इवाचरती प्रतिबिम्ब-ग्राहिणी कोमले गण्ड-मण्डले यस्मिन् । प्रथम-पद्ये प्रकाशतां, द्वितीये चिरम्, तृतीये विशेषेणेति क्रमेणोत्कण्ठाधिक्यम् एवोक्तम् । एवम् अग्रेऽपि ॥६॥

सारङ्ग-रङ्गदा ॒ अथ तच्-छ्री-मुखाब्ज-लग्न-मनस्तया स-लालसम् आह—विभोस् तन्-माधुर्य-चरणयतिअ-सम्पत्-पूर्णस्य मुख-पङ्कजं मे मनसि मनः-सरसि विजृमभताम् । कीदृशं ? मुरली-निनाद एव मकरन्दस् तेन निर्भरं पूर्णम् । तथा, प्रोज्ज्वलेन्द्रनील-मणि-मुकुर इवाचरती मुकुरायमाने मृदुनी गण्ड-मण्डले यस्मिन् । स्फुट-पद्मोपरि दर-विकसित-पद्म-युगलं चेत् स्यात् तत्-समम् इत्य् अद्भुतोपमेयम् । किं वा, श्री-गण्ड-मुकुर-सङ्क्रमितानि तेन मुख-पङ्कजेन सह सख्यं कर्तुम् इवागतानि तासां भावोद्गार-मुकुलायमान-नयनाम्बुजानि, श्री-राधायास् तादृशे नयनाम्बुजे खञ्जरीट-स्थानीये वा, यस्मिन् । बाह्यार्थः स्पष्ट एव । प्रथमे प्रकाशतां, द्वितीये चिरम्, तृतीये विशेषेनेति श्लोक-त्रये क्रमेणोत्कण्ठाधिक्यम् । एवम् अग्रेऽपि ज्ञेयम् ॥६॥

—ओ)०(ओ—

(७)

कमनीय-किशोर-मुग्ध-मूर्तेः

कल-वेणु-क्वणितादृताननेन्दोः ।

मम वाचि विजृम्भतां मुरारेर्

मधुरिमः कणिकापि कापि कापि ॥

कृष्ण-वल्लभा ॒ अथ कीर्तन एव तन्-मधुरिमाणम् इच्छन्, धन्यास् ते येषां निर्मले मनसि विह्बु-मुख-पङ्कजं प्रकाशते, मम पुनः केवलम् इदम् एव प्रार्थनीयम् इत्य् आह—कमनीयेति । मुरारेः श्री-कृष्णस्य मधुरिम्णः कणिकापि । अल्पा कणा कणिका सापि । अल्पार्थे कन् । प्रत्यय-स्थात् [पा. ७.३.४४] इति सूत्रेण । पूर्वस्यात इत् । मम वाचि विजृम्भतां प्रकाशताम् । प्रार्थनायां लोट् ।

ननु, इक्षु-क्षीर-गुडादीनां माधुर्यस्यान्तरं महत् इति मधुर-द्रव्यस्यैव माधुर्यं निर्वक्तुम् अशक्यम्, श्री-कृष्णस्य तु मधुरिमा कथम् उच्यताम्, तत्राह—कापि कापि या काचित्, सर्वा मास्त्व् इत्य् अर्थः । मुरारिर् इत्य् आदि-नामानि न केवलं यौगिकानि, मुर-वधात् पूर्वम् अपि तच्-छ्रुतेः । यथा, गोविन्दाभिषेचन-समय एव गोविन्द-नाम्ना प्रचारे तत्-पूर्वम् अपि, शयानं पातु गोविन्दः इति गोविन्द-नाम-श्रवणात् । तेन सर्वेषाम् एव नाम्नां क्रियते । मुर-दैत्यस्यारिर् इत्य् अनेन वीर्योत्कर्ष-चमत्कारः । यद् वा, मुर बन्धने धातुः । मुरति बध्नातीति मुराविद्या, तस्या अरिः शत्रुस् तस्य ।

कृत्भावस्य मुरारेः ? कमनीय-किशोर-मुग्ध-मूर्तेः । कमनीया कान्तिमती काम्या वा । स्पृहणीयेति यावत् । किशोरी कैशोर-विशिष्टा मुग्धा सुन्दरी मूर्तिर् यस्य तस्य । कमनाः कामुक्यो गोप्यस् तासां सम्बन्धिनीयं, तद्-एक-लक्ष्यत्वात् । सा चासौ किशोरी मुग्धा चेति मूर्तिर् यस्य तस्येति वा ।

पुनः कीदृशस्य—कल-वेणु-क्वणितादृताननेन्दोः । कलं मधुरास्फुटं यद् वेणोः क्वणितं तेनादृत आननेन्दुर् यस्य । कल-वेणु-क्वणितम् आदृतं येन तथा-भूत आननेन्दुर् यस्य वा । यद् वा, कलयति वशीकरोति गोप-सुन्दरीः स्व-नादेन यो वेणुस् तस्य यत् क्वणितं तेन हेतुनादर-च्छलेन स्पर्शाद्य्-अर्थं स-स्मित-स-भाव-साभिलाष-स-चुम्बनादिभिर् आदृत आननेन्दुर् याभिः प्रेम-रूपाभिर् गोपीभिस् तस्य । तथा च गीत-गोविन्दे—

साधु त्वद्-वदनं सुधामयम् इति व्याहृत्य गीत-स्तुति-

व्याजाद् उद्भट-चुम्बित-स्मित-मनोहारी हरिः पातु वः ॥ [गी.गो. १.४९] इति ॥

औपच्छन्दसिकं छन्दः । तल्-लक्षणं—

षड्-विषमेऽष्टौ समे कलास् ताश् च समे स्युर् नो निरन्तराः ।

न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ।

तत्रैवान्तेऽधिके गुरौ स्याद् औपच्छन्दसिकं कवीन्द्र-हृद्यम् ॥७॥

सुबोधिनी ॒ ततस् तन्-मूर्ति-माधुर्य-स्फूर्त्या स-दैन्यम् आह—मुरारेर् मधुरिम्णः कणिकाप्य् अत्यल्प-कणोऽपि मम वाच्य् आविर्भवतु । मनस्य् आविर्भावस् तावद् आस्ताम् । तथापि कापि कापीत्य् अतिदैन्यम् । तथा प्रार्थने हेतवः—कमनीया किशोरी मुग्धा मनोहरा मूर्तिर् यस्य । तथा कल-वेणु-क्वणितैर् आदृतः सर्वतः प्रशस्तो मुखेन्दुर् यस्य ॥७॥

सारङ्ग-रङ्गदा ॒ अथ तन्-माधुर्याब्धि-स्फूर्त्य्-आदि-रसेऽप्य् एतद्-वर्णनेन कृष्णादर्शन-विप्लवां प्रिय-सखी प्रीणयामीति तद् अभ्यस्यंस् तद्-आनन्त्य-स्फूर्त्या स्तम्भितः सन्न् आह—मुरारेर् मुरा कुत्सा तद्-अरेस् तद्-रहितस्य परम-सुन्दरस्यास्य मधुरिम्णः कणिकापि मम वाचि विजृम्भताम् । अल्प-कणः कणी । पश्चाद् अत्यल्पार्थे कः कणिका । सातिसूक्ष्मेत्य् अर्थः । तत्रापि कापि कापि कैशोर-सौष्ठव-स-वेणु-मुख-सम्बन्धिनीत्य् अर्थः । तां ताम् एव प्रकाशयति । कीदृशः ? कमनीया किशोरी मुग्धा मनोहरा च मूर्तिर् यस्य । तथा कल-वेणु-क्वणितैर् आदृतः सेवितः, तैः प्रशस्यो वा, मुखेन्दुर् यस्य ॥

बाह्ये—दैन्योदयाच् चित्ते स्फूर्तिस् तावद् आस्तां, वाच्य् अपि । तत्राप्य् अतिदैन्यात्, न तु स माधुरीणाम् आकरः, स एव किं तु तन्-मधुरिमा । तत्राप्य् अतितरां दैन्योदयात्, न तु स मधुरिम-सिन्धुः, किं तु तत्-कणिकापि, ययाखिल-ब्रह्माण्डम् एवाप्लावितं स्यात् । ततोऽप्य् अतितमां दैन्योदयात्, कापि कापि सा कापीत्य् उक्तिः ॥७॥

—ओ)०(ओ—

(८)

मद-शिखण्डि-शिखण्द-विभूषणं

मदन-मन्थर-मुग्ध-मुखाम्बुजम् ।

व्रज-वधू-नयनाञ्जन-रञ्जितं

विजयतां मम वाङ्-मय-जीवितम् ॥

कृष्ण-वल्लभा ॒ एवं श्री-कृष्ण-मधुरिमाणं भावयंस् तत्-साक्षात्कारं प्रार्थ्यते—मदेति । मम वाङ्मय-जीवितं वस्तु विजयतां सर्वोत्कर्ष-स्वरूपावस्थाम् आविष्करोत्व् इत्य् अर्थः । विजयताम् इति विषराभ्यां जेः [पा. १.३.१९] इत्य् आत्मनेपदम् । वाङ्मयं वाग्-आत्मकम् । यथा मम तद्-रस-केलि-गुणाद्य्-अभिधायिनी वाक् तथैवाविर्भवेद् इत्य् अर्थः । वाग्-अधीनम् इति वा । यदैवाहं तन्-नामादि कीर्तयामि प्रीत्या तदैवाहूतम् इव हृद्य् आयाति । तादृशं च जीवितं प्राण-रूपं च । प्राण-तुल्यम् इति नोक्तम्, तस्यैव प्राणानाम् अपि प्राणत्वात्, वस्तुतोऽतिप्रेमास्पदत्वात् । अत एवास्य कीर्तनं विना न जीवनं सफलम् इति । यद् वा, वाङ्मयं जीवितं यस्मात् तत् । निज-रस-विलास-वर्णनेआस्वाद-गोचरीभूय जीवन-प्रदम् इत्य् अर्थः ।

तत् किं ? विशेषण-मर्यादया विशेषयन्न् आह—मद-शिखण्डि-शिखण्द-विभूषणम् । माद्यतीति मदः । मदो हर्षे । स चासौ शिखण्डी च । प्रशंसायाम् इन् । तस्य यः शिखण्डः पिच्छं तेन विशिष्टं भूषणम् अलङ्कृतिर् यस्य तत् । शिखण्डस् तु पिच्छ-बर्हे नपुंसके इत्य् अमरः । एतेन विच्छित्ति-नामा हावो दर्शितः—आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् [उ.नी. ११.३४] इति । तथा च हरि-वंशे—

एकेनामल-पत्रेण कण्ठ-सूत्रावलम्बिना ।

रराज बर्हि-पत्रेण मन्द-मारुत-कम्पिना ॥ [ह.वं. २.११.१०] इति ।

मद-शिखण्डि-शिखण्दस्य विभूषणम् अलङ्कृतिर् यस्माद् वा । तत् तु तत्रैवाधिकं शोभत इत्य् अर्थः ।

पुनः कीदृशं ? मदन-मन्थर-मुग्ध-मुखाम्बुजम् । मदयति हर्षयतीति मदनम् । मथ्नाति मनांसीति मन्थरम् । तच् च तव तन्-मुग्धं सुन्दरं मुखाम्बुजं यस्य तत् । यद् वा, मदनं कामं मन्थरयति मन्थ-द्रव्यवद् अकुलयति । मन्थरवत् तत् स्तम्भयति वा । मदन-मन्थरं तन् मुग्धं मुखाम्बुजं यस्य । मदनोऽपि यन् मुख-लावण्यम् आलोक्य मन्थरो जात इति वाक्यार्थः । साक्षान् मन्मथ-मन्मथः इति भागवतेऽप्य् उक्तम् ।

पुनः कीदृशं ? व्रज-वधू-नयनाञ्जन-रञ्जितम् । चुम्बनाद् अधर-लग्न-तन्-नयनाञ्जनम् इत्य् अर्थः । तथा च गीत-गोविन्दे—कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपं [गी.गो. ८.३] इति । यद् वा, व्रज-वधूभिर् नयनाञ्जनवद् रञ्जितम् अनुराग-विषयीकृतम् । तन्-नयनाञ्जने रञ्जितम् अञ्जन-च्छद्मनानुरक्तं वा । यद् वा, सर्वतः स्थितानां व्रज-वधूनां सर्वाङ्ग-प्रतिबिम्बितेषु तत्-कज्जल-प्रतिबिम्बात् । अथवा व्रज-वधू-नयनानाम् अञ्जना कान्तिमती गतिर् भाव-हाव-सहित-दृक्-पात-कटाक्ष-रूपा तया रञ्जितं हर्ष-युक्तम् । अञ्जू व्यक्ति-म्रक्षण-कान्ति-गतिषु ॥

द्रुत-विलम्बितं छन्दः—द्रुत-विलम्बितम् आह नभौ भरौ [छन्दो-मञ्जरी २] ॥८॥

सुबोधिनी ॒ तत्-तन्-माधुर्य-मय-स्व-वाचां तत्-तत्-स्वरूपत्वेन स्फूर्त्या स-हर्षम् आह—मम वाङ्मय-जीवितं विजयतां स्व-विषयक-वचन-रूपत्वेन विराजताम् । कीदृशं ? मदेति । पूर्ववत् तस्य रत्य्-अङ्क-चिह्न-स्फूर्त्याह—मदनेन प्रियाधर-मधु-पान-ज-हर्षेण मन्थरं सालसम् । अत एव मुग्धं मुखाम्बुजं यस्य । तद् एव व्यनक्ति—व्रज-वध्वाः श्री-राधाया नयनाञ्जनेन रञ्जितं चित्रितम् ॥८॥

सारङ्ग-रङ्गदा ॒ अथ मनसि तन्-माधुर्यं वर्णयंस् तस्य तया सह रहो-लीलोत्कण्ठा-स्फूर्त्या तद्-दर्शनोत्कण्ठया स-हर्षम् आह—तद्-वर्णन-वासित-मनस्तया वाग्-वाच्ययोर् एकता-स्फूर्त्येदं मम वाङ्मय-जीवितं विजयताम् । तल्-लीलार्थं गच्छत्व् इत्य् अर्थः । यद् वा, मम वाङ्मयं च तस्या जीवितं जीवन-हेतुश् च तद् विजयताम् । का मम चिन्तेत्य् अर्थः । आयुर् घृतम् इतिवत् । कीदृशं ? मदेति । पूर्ववद् धृद्य् उच्छलित-मदनेन मन्थरं तत्-तत्-क्रियासु सालसं मुग्धं च मुखाम्बुजं यस्य । मदनम् अपि मन्थरयति स्तम्भयति मुग्धं मुखाम्बुजं यस्येति वा । मिथश् चुम्बनेन व्रज-वधूनां नयनाञ्जने रञ्जितम् ।

नयन-गल-कपोलं दन्त-वासो मुखान्तः-

स्तन-युगल-ललाटं चुम्बन-स्थानम् आहुः ॥ इति ।

बाह्ये—तद् दौर्लभ्यं कथयतः स्वान् प्रति । कृद्-विहितो भावो द्रव्यवत् प्रकाशते [महा-भाष्य, पा. ३.१.६७] इति न्यायात् । तन्-माधुर्यमय-स्व-वाचां तत्-स्वरूपत्वेन स्फूर्त्या सहर्षम् आह—इदं विजयताम् । का मम चिन्तेत्य् अर्थः ॥८॥

—ओ)०(ओ—

(९)

पल्लवारुण-पाणि-पङ्कज-सङ्गि-वेणु-रवाकुलं

फुल्ल-पाटल-पाटली-परिवादि-पाद-सरोरुहम् ।

उल्लसन्-मधुराधर-द्युति-मञ्जरी-सरसाननं

वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलं प्रभुम् आश्रये ॥

कृष्ण-वल्लभा ॒ अथ परमोज्ज्वल-भावाविष्टः कविर् व्रज-सुन्दरी-रमणं संश्रयते—पल्लवेति । प्रभुं प्रकर्षेण भवन्ति सर्वे कामा यस्माद् इति तम् आश्रये सम्यक् सेवे ।

कीदृशं ? पल्लवारुण-पाणि-पङ्कज-सङ्गि-वेणु-रवाकुलम् । पल्लववत् पल्लवाद् अपि वारुणो यः पाणिः स एव पङ्कजं, सुगन्ध-शीलत्वात् । तत्-सङ्गी यो वेणुस् तस्य रवेण ध्वनिनाकुलयति सर्व-व्रज-तरुणीर् इति । ण्यन्तात् पचाद्यच् [पा. ३.१.१३४] । यद् वा, तत्-सङ्गी तद्-आसक्ति-मान्यो वेणुस् तस्य रवः, स एव आकुलः कुल-मर्यादा-त्याजको यत्र । पाणेः पङ्कजत्वेन निरूपणाद् वेणोः कलहंसता श्री-कृष्णस्यामृत-सरस्ता च व्यञ्जिता ।

पुनः कीदृशं ? फुल्ल-पाटल-पाटली-परिवादि-पाद-सरोरुहं फुल्ला विकशिता या पाटला रक्ता पाटली पाटली-पुष्पम् । पुष्प-मूलं बहुलं [वार्तिक, पा. ४.३.१६६] इति सूत्रेणाण्-प्रत्ययस्य लुक् । अतिरक्त-लाभाय रक्तेति । तां परिवदितुं निन्दितुं शीलं यस्य तत् तथा-भूतं पाद-रूपं सरोरुहं रक्त-कमलं यस्य तम् । पङ्कजत्वेन कदाचिन् मुद्रिततापि स्यात्, अत उक्तं—फुल्लेति ।

पुनः कीदृशं ? उल्लसन्-मधुराधर-द्युति-मञ्जरी सरसाननम्, उल्लसन्त्य उद्रच्छन्त्यो या मधुराधरे द्युतयः कान्तयस् तासां मञ्जरीभिः, ता एव मञ्जर्यो वा, ताभिः सरसं रसो माधुर्यादिस् तत्-सहितम् आननं यस्य । यद् वा, उल्लसद् उच्चैर् लसच् छोभमानं मधु मादकं वस्तु तद् राति ददाति, सा चासाव् अधर-द्युति-मञ्जरी चेति अन्यापि मञ्जरी मधु प्रयच्छतीति प्रसिद्धम् । तया सरसा रस-सहिता गोपीर् आ समन्दाद् अनिति जीवयतीति तम् ।

पुनः कीदृशं ? वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलं, वल्लवीनां गोप-सुन्दरीणां कुच-कुम्भ-गत-कुङ्कुमेन पङ्किलम् । कुङ्कुमम् इत्य् उपलक्षणम् । कर्पूरागुरु-कस्तूरी-कर्दमित-कलेवरम् इत्य् अर्थः । इदं तु किशोराकृति श्री-कृष्ण-चन्द्रस्य लीला-वपुर् गोप-सुन्दरीणाम् एवेति ताभिः स्व-कुच-गत-कुङ्कुमेन मुद्रा दत्तेति भावः । पङ्किलम् इत्य् अनेन खेलन्-मन्मथ-परिश्रम-खेदामृत-रस-प्रवाह-रूप-परिरम्भणातिशयो व्यज्यते । हस्तयोः पादयोर् अधरस्य च द्युतीनां रागेण वल्लवी-कुच-कुङ्कुम-पङ्किलतया च सर्वाङ्ग-राग-युक्तेन तेन तन्-मनो-रागो द्वि-गुणी-कृतः । तेन तद्-आश्रयं विना न जीवामीति भावः ॥

चच्चरी छन्दः । तल्-लक्षणं—रसजा जभराश् च चच्चरी ॥९॥

सुबोधिनी ॒ तस्य स्व-वाङ्मयत्वम् अप्य् असंभाव्य शरणापत्ति-मात्रं प्रार्थयन् पूर्वोक्तं विवृणोति—प्रभुम् अयोग्यम् अपि योग्यं कर्तुं समर्थम् आश्रये । कीदृशं ? पल्लवाद् अप्य् अरुणयोः पाणि-पङ्कजयोः सङ्गी यो वेणुस् तस्य रवैर् आकुलं तद्-आवेश-विवशम् । प्रियोरश् चन्दनाक्त-चरण-स्फूर्त्याह—फुल्लानि पाटलानि पुष्पाणि यस्यां तां पाटलीं परिवदितुं स्व-श्वेतारुणम् अपि प्रियोरश् चन्दनाक्ततया पाटलत्वम् । तथा, उल्लसन्ती तन्-नेत्र-चुम्बन-लग्नाञ्जन-मधुराधर-द्युति-मञ्जरी, तया सरसम् आननं यस्य । तद् एव व्यनक्ति—वल्लव्यास् तस्याः कुच-कुम्भ-कुङ्कुमैः पङ्किलं चर्चिताङ्गम् ॥९॥

सारङ्ग-रङ्गदा ॒ अथ रास-विलासिनस् तस्य तत्-तन्-माधुर्य-स्फूर्त्या प्रेम-वैवश्याद् अपूर्वम् इव तं मत्वा बाह्य-दशावासित-मनस्तया स्फूर्ति-प्रार्थवत् स-लालसम् आह द्वाभ्याम् । प्रभुम् एकेन वपुषैवानन्त-गोपी-वाञ्छा-पूर्ति-समर्थम् अहम् आश्रये ।

कीदृशं ? पल्लवाद् अप्य् अरुणयोः पाणि-पङ्कजयोः सङ्गी यो वेणुस् तस्य रवैः स्वरोल्लासैस् ता आकुलयतीति तम् । तद् उक्तं—तद्-अनङ्ग-वर्धनं [भा.पु. १०.२९.४] इति । नृत्ये ताभिर् अनङ्ग-तप्त-कुचेषु न्यस्तत्वाद् अपूर्व-कान्ति-श्री-चरण-स्फूर्त्याह—तद्-उरोज-स्पर्शात् फुल्लं च सहजारुणम् अपि स्तन-चरण-प्रस्वेद-पङ्किल-तत्-कर्पूर-मिश्रित-चन्दन-रूषितत्वात् पाटलं च तत् । श्वेत-रक्तस् तु पाटलः [अमरः] इत्य् उक्तेस् तच् च । अतः पाटलीं परिवदितुं शीलं यस्य तादृशं पाद-सरोरुहं यस्य तम् । फुल्लानि पाटलानि यस्यां तां पाटलीम् इति वा । पाटल-पाटल्योर् ईषद् भेदो वा ज्ञेयः ।

तथा, तन्-नेत्र-चुम्बन-लग्नाञ्जनेन स्मित-कान्त्या चोल्लसन्ती सुधा-साराद् अपि मधुरा च याधरस्य सित-श्यामारुणा द्युति-मञ्जरी तया सरसम् आननं यस्य ।

तथा, वल्लवीनां कुच-कुम्भ-कुङ्कुमैः पङ्किलं चर्चिताङ्गम् । वेणु-नादैस् ता व्याकुलीकृत्य ताभिश् चुम्बनालिङ्गनादिकं कृतवान् इति भावः ।

बाह्यार्थः स्पष्टः ॥९॥

—ओ)०(ओ—

(१०)

अपाङ्ग-रेखाभिर् अभङ्गुराभिर्

अनङ्ग-रेखा -रस-रञ्जिताभिः ।

अनुक्षणं वल्लव-सुन्दरीभिर्

अभ्यस्यमानं विभुम् आश्रयामः ॥

कृष्ण-वल्लभा ॒ सम्प्रति स्वाभिमत-रूपेणाविर्भावार्थम् आह—अपाङ्गेति । विविध-रूपेण भक्तानुग्रहार्थम् आविर्भवतीति विभुस् तम् आश्रयामः शरणं व्रजामः । बहु-वचनेन भगवच्-छरणाय सजातीय-सङ्गोऽपि परम-साधनम् इति सूचितम् । कथं-भूतं ? वल्लवानां गोपानां सुन्दरीभिर् विशिष्ट-स्त्रीभिः । तथा चामर-सिंहे—

विशेषास् त्व् अङ्गना भीरुः कामिनी वाम-लोचना ।

प्रमदा मानिनी कान्ता ललना च नितम्बिनी ।

सुन्दरी रमणी रामा इति ।

अपाङ्ग-लेखाभिः करण-रूपाभिः । अपाङ्गानां नेत्रान्तानां लेखाभिः रेखाभिः, र-लयोर् ऐक्यात् । श्रेणी-लेखास् तु राजयः इत्य् अमरः । यद् वा, अपाङ्गेषु रेखावत् कज्जल-रेखावत् स्थिता दीर्घी-भूता दृष्टयस् ताभिः । अनुक्षणं क्षणे क्षणेऽभस्यमानं विषयी-क्रियमाणम् । गच्छागच्छ तिष्ठोत्तिष्ठेत्य् आदिवद् वशीक्रियमाणम् इत्य् अर्थः । सन्तत-दृष्टितोऽपि तृप्तौ जातायां विरतिः स्यात्, सा तु नास्तीत्य् आह—अभङ्गुराभिर् अविच्छिन्न-प्रवाह-रूपाभिः । स्वतस् तृप्त्या भज्यते न, किं तु विषयस्यान्यतो-गमनादिनैवेति भावः । यद् वा, अभ्यस्तोऽभ्यस्यनीयो मानो यस्मिंस् तम् । तन्-मुख-मधुरिमावलोकनान् मानस्यानवस्थितेः । तथा च शरणः—

मुरारिं पश्यन्त्याः सखि सकलम् अङ्गं न नयनं

कृतं यच् छृण्वन्त्याः हरि-गुण-गणं श्रोत्र-निचितम् ।

समं तेनालापं सपदि रचयन्त्या मुखम् अयं

विधातुर् नैवायं घटन-परिपाटी-मधुरिमा ॥ [पद्या. २३५] इति ।

यस्या अपाङ्ग-रेखा यादृशी तद् आह—अनङ्ग-रेखा-रस-रञ्जिताभिः, अनङ्गः कामस् तस्य लेखा परम्परा तया यो रसस् तेन रञ्जिताभिः, रसाभिव्यञ्जिकाभिर् इत्य् अर्थः । ताभिर् हि नानाश्चर्य-विनोदैः कोटिशो महाद्भुता अनङ्गा आवर्त्यन्त इत्य् अत्र कान्ता दृष्टिः स्निग्धा च, यथा—

आपिबन्तीव दृश्यं या स-विकाशातिनिर्मला ।

स-भ्रू-क्षेप-कटाक्षा सा कान्ता मन्मथ-वर्धिनी ॥

स्निग्ध-लक्षणं पूर्वम् एवोक्तम् । अनङ्गेति वल्लवी-विशेषणं वा । अनङ्ग-लेखः काम-लेखः श्री-कृष्णं प्रति, तत्र य आ सर्वतो रसस् तेन रञ्जिताभिः । अनङ्गेन कामेन कृतो लेखो निज-वक्षो-रुहादौ कस्तूरिकया श्री-कृष्ण-मूर्तेर् आ सम्यक् लेखनं तेनैवोद्भूतो यो रसस् तेन रञ्जिताभिर् वा । श्री-कृष्ण-प्रेषितानङ्ग-लेखेन रस-रञ्जिताभिर् वा । तत्र काम-लेखो, यथा रसामृत-सिन्धौ —

स लेखः काम-लेखः स्यात् यः स्व-प्रेम-प्रकाशकः ।

युवत्या यूनि यूना च युवत्यां सम्प्रहीयते ।

निरक्षरः साक्षरश् च काम-लेखो द्विधा भवेत् ॥ [उ.नी. १५.६३-६४] ।

तत्र च निरक्षरः—

सुरक्त-पल्लव-मयश् चन्द्रार्धादि-नखाङ्क-भाक् ।

वर्ण-विन्यास-रहितो भवेद् एष निरक्षरः ॥ [उ.नी. १५.६५]

अथ साक्षरः—

गाथा-मयी लिपिर् यत्र स्व-हस्ताङ्कैष साक्षरः ॥ [उ.नी. १५.६७]

यथा जगन्नाथ-वल्लभे (२.६)—

सुइरं विज्झसि हिअं लम्भ{इ} मणो क्खु दुज्जसः बलिअम् ।

दीससि सल-दिसासुं दीस{इ} मणो ण कुत्ताबि ॥ [उ.नी. १५.६८] इति ॥१०॥

सुबोधिनी ॒ पुनस् तत्-सखीभिः स-लालसम् ईक्ष्यमाणम् आश्रयन्न् आह—पूर्ववद् विभुम् आश्रयामः । तद्-ईक्षणीयत्वं व्यनक्ति—वल्लव-सुन्दरीभिर् निरन्तरम् अपाङ्ग-रेखाभिर् अविच्छिन्न-नेत्रान्त-दृष्टि-धाराभिः पुष्पाद्य्-आहरण-काले नेत्राग्रे तत्-स्फूर्त्य्-अर्थं मुहुर् आवर्त्यमानम् । सखी-स्वभावाचरितम् आह—अनङ्गस्य स्व-सखी-विषयक-प्रेम्णो योऽविच्छिन्नता-रसस् तेन भाविताभिः । सखीत्वं सम्पादयन्न् आह—अभङ्गुराभिः । नायिकात्वे वक्र-दृष्ट्यौचित्यात् ॥१०॥

सारङ्ग-रङ्गदा ॒ पुनस् ताभिः स-लालसम् ईक्ष्यमाणस्य स्फूर्त्या पूर्ववद् आह—पूर्ववद् विभुम् आश्रयामः । कीदृशं ? वल्लव-सुन्दरीभिर् अनुक्षणं निरन्तरम् अपाङ्ग-रेखाभिर् अविच्छिन्न-नेत्रान्त-दृष्टि-धाराभिर् अभ्यस्यमानं तृषित-नेत्रान्त-नल-नालिकाभिर् गभीरामृताभिम् इव कियद्-दूराद् आस्वाद्यमानम् । किं वा, वियोग-भीत्या दिवसेऽपि नेत्राग्रे तत्-स्फूर्तयेऽभ्यस्यमानम् । अभङ्गुराभिर् अवक्राभिः । नेत्र-भ्रुवोर् वक्रता, दृष्टि-धारा तु ऋज्वीत्य् अर्थः । अप्रतिहताभिर् इति वा । तथानङ्ग-रेखायास् तत्-परम्पराया यो रसस् तेन रञ्जिताभिर् भाविताभिः । कोटि-कन्दर्प-रसोद्गारिकाभिर् इत्य् अर्थः । भङ्ग्या बाण-श्रेणीभिर् लक्ष्यम् इव कटाक्ष-धाराभिर् अभ्यस्यमानं काम-रस-हिङ्गुलादि-रञ्जिताभिः । यद् वा, कीदृशीभिस् ताभिः ? अपाङ्गान्तरेऽरुणा रेखा, बाह्ये त्वज्-जन-रेखा, यासां ताभिः । अभङ्गुराभिः पराजयम् अप्राप्ताभिर् इत्य् अर्थः । काम-श्रेणी-रस-भाविताभिश् च ॥ बाह्यार्थः स्पष्ट एव ॥१०॥

—ओ)०(ओ—

(११)

हृदये मम हृद्य-विभ्रमाणां

हृदयं हर्ष-विशाल-लोल-नेत्रम् ।

तरुणं व्रज-बाल-सुन्दरीणां

तरलं किञ्चन धाम संनिधत्ताम् ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-भावेन भूषणिताशयो विप्रलम्भ-रसम् अतिदुःसहं मन्यमानो हृदये तल्-लीला-स्फूर्तिम् एवाशास्ते—हृदय इति । किञ्चन धाम कर्तृ कापि मूर्तिः । अतिरहस्यत्वात् सर्वोपनिषद्द्-आदि-निगूढत्वाद् वा तन्-नामाग्रहणम् । मम हृदये चेतसि संनिधत्तां संनिहितं भवतु । कीदृशं ? हृद्य-विभ्रमाणां हृदय-प्रिया ये विभ्रमा विलासादयो हावास् तेषां हृदयं मूल-भूतम् । यावन्तो हि रस-मय-विलासास् तेषां बीज-भूतम् इत्य् अर्थः । तेषां जीवनं वा । ते हि परमानन्द-सान्द्र-मूर्तिं प्राप्य जीवन्ति । यद् वा, हृद्या विभ्रमा भाव-हावालङ्कारा यासां तासां व्रज-सुन्दरीणां हृदयं सर्वस्वम् । हृन् मन अयते प्रविशतीति वा । तत्रालङ्कारा उज्ज्वल-नीलमणौ—

यौवने सत्त्वजास् तासाम् अलङ्कारास् तु विंशतिः ।

उदयन्त्य् अद्भुताः कान्ते सर्वथाभिनिवेशतः ॥२॥

भावो हावश् च हेला च प्रोक्तास् तत्र त्रयोऽङ्गजाः ॥३॥

शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता ।

औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥४॥

लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।

विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥५॥

तत्र भावः—

प्रादुर्भावं व्रजत्य् एव रत्य्-आख्ये भाव उज्ज्वले ।

निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥६॥

अथ हावः—

ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् ।

भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥९॥

अथ हेला—

हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः ॥११॥

अथ अयत्नजाः । तत्र शोभा—-

सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् ॥१३॥

अथ कान्तिः—

शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥१५॥

अथ दीप्तिः—

कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ॥

उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते ॥१७॥

अथ माधुर्यम्—-

माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥१९॥

अथ प्रगल्भता—-

निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता ॥२१॥

अथ औदार्यम्—

औदार्यं विनयं प्राहुः सर्वावस्था-गतं बुधाः ॥२३॥

अथ धैर्यम्—

स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति कीर्त्यते ॥२६॥

अथ स्वभावजाः । तत्र लीला—

प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः ॥२८॥

यथा विष्णु-पुराणे (५.१३.२७)—

दुष्ट-कालिय तिष्ठाद्य कृष्णोऽहम् इति चापरा ।

बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे ॥२९॥

अथ विलासः—

गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ।

तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥३१॥

अथ विच्छित्तिः—

आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥३४॥

सखी-यत्नाद् इव धृतिर् मण्डनानां प्रियागसि ।

सेर्ष्यावज्ञा वर-स्त्रीभिर् विच्छित्तिर् इति केचन ॥३७॥

अथ विभ्रमः—

वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।

विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥३९॥

अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् ।

विभ्रमो वामतोद्रेकात् स्याद् इत्य् आख्याति कश्चन ॥४२॥

अथ किलकिञ्चितम्—

गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।

सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥४४॥

अथ मोट्टायितम्—

कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।

प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते ॥४७॥

अथ कुट्टमितम्—

स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।

बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥४९॥

अथ बिब्बोकः—-

बिब्बोको मान-गर्वाभ्यां स्याद् अभीष्टेऽप्य् अनादरः ॥५२॥

अथ ललितम्—

विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।

सुकुमारा भवेद् यत्र ललितं तद् उदीरितम् ॥५६॥

अथ विकृतम्—

ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् ।

व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥५८॥

अलङ्कारा निगदिता विंशतिर् गात्र-चित्त-जाः ।

अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥६३॥

कैश्चिद् अन्येऽप्य् अलङ्काराः प्रोक्ता नात्र मयोदिताः ।

मुनेर् असम्मतत्वेन किन्तु द्वितयम् उच्यते ।

मौग्ध्यं च चकितं चेति किञ्चिन् माधुर्य-पोषणात् ॥६४॥

तत्र मौग्ध्यम्—

ज्ञातस्याप्य् अज्ञवत् पृच्छा प्रियाग्रे मौग्ध्यम् ईरितम् ॥६५॥

तथा—

मुक्ता-फलं तरोः कस्येत्य् आद्यार्जव-प्रकाशनम् ॥ इति ।

चकितम्—

प्रियाग्रे चकितं भीतेर् अस्थानेऽपि भयं महत् ॥६७॥ इति ।

पुनः कीदृशं ?—हर्ष-विशाल-लोल-नेत्रम्, हर्षेण विशाले सहज-विस्ताराद् अधिकतर-विस्तारे लोले प्रेयसीनां तत्-तद्-अङ्ग-विलोकनाय चञ्चले नेत्रे यस्य तत् । अत्र विभ्रान्ता दृष्टिः, यथा—

या तु क्वचिद् अविश्रान्तम् अविष्टब्ध-विलोकने ।

विस्तीर्णा चञ्चलोत्फुल्ल-तारा सा दृष्टिर् उच्यते ॥ [सङ्गीत-रत्नाकर ७.४२९]

अविष्टब्धम् अनवरतम् ।

विभ्रान्ता विभ्रमे वेगे सम्भ्रमे च भवेद् असौ ॥

पुनः कीदृशं ? तरुणम् । रस-विलास-चमत्कार-चेष्टा-रूपं, किशोरत्वेऽपि शृङ्गार-रस-विलासातिप्रागल्भ्यात् तरुणम् इत्य् उक्तम् ।

पुनः कीदृशं ? व्रज-विलास-सुन्दरीणां तरलम् । व्रजे या बाला मृद्-वङ्ग्यः किशोर्यो वा ताश् चाकृत्या प्रकृत्या च सुन्दर्यः । तासां मध्ये तरलं वस्त्र-हरणादिना चञ्चल-स्वभावम् । यद् वा, तासां तरलं—तरलो हार-मध्यगः, तत्-सदृशम् । सादृश्येऽर्श-आदिर् अच् [पा. ५.२.१२७]

तरलं चञ्चले पिङ्गे स्वभावेऽपि त्रिलिङ्गकम् ।

हार-मध्य-मणौ पुंसि यवागू-सूरयोः स्त्रियाम् ॥

औपच्छन्दसिकं छन्दः ॥११॥

सुबोधिनी ॒ अथात्मनस् तद्-अनुगतत्वेन स्व-हृदि तथैव स्फूर्तिं स-दैन्यम् आशास्ते । मम हृदये किञ्चन धाम पूर्व-निर्दिष्टानिर्वचनीयं माधुर्यं संनिधत्ताम् । संनिधाव् अप्य् उदेत्व् इति दैन्यम् । कीदृशं ? तरुणम् । तारुण्यांशे स्थितम् । तद् व्यञ्जयति—हृदयङमानां विलासानां हृदयम् आश्रयम् । तद् एवाह—अपाङ्ग-रेखाभिर् अभ्यस्यमानत्वेन यो हर्षस् तेन विस्तीर्णे स-तृष्णे नेत्रे यस्य । अत एव व्रज-बाल-सुन्दरीणां तरलं हार-मध्य-नायकवद् अतीव स्फुरन्तम् ॥११॥

सारङ्ग-रङ्गदा ॒ अथ रसिक-शेखरत्वाद् वैदग्ध्यात् तासाम् उत्कण्ठां संवर्ध्य ता हित्वा तया सह रहो-लीलोत्कण्ठया सर्व-समाधानार्थं, श्लिष्यति काम् अपि [गी.गो. १.४६] इत्य् आदिवत् ताभिः सह विलसन्तं तम् आलोक्य तद्-दिदृक्षया सौत्सुक्यम् आह पूर्व-रीत्या—इदं किञ्चन ज्योतिः-पुञ्जम् अपि चङ्क्रमतीत्य् अनिर्वचनीयं धाम मम हृदये, मञ्चाः क्रोशन्ति [काव्य-प्रकाश २.७ वृत्ति] इति न्यायाद् धृत्-स्थित-लीला-विशेषे संनिधत्ताम् । तद्-अर्थम् एता हित्वा तया सह शीघ्रं तत्र गच्छत्व् इत्य् अर्थः । हृदये तत्-तुल्यान्तरीणे श्री-राधा-यूथ एवेति वा ।

कीदृशं ? तरुणं नव-किशोरम् । तथा, व्रज-बाल-सुन्दरीणां व्रज-नव-किशोरीणां हृदयति जानाति हृदयम् । गत्य्-अर्थानां ज्ञानार्थत्वात् । यद् वा, तासां हृदोऽयः शुभ-विधिः । सौभाग्यम् इत्य् अर्थः । कीदृशं ? हृद्या विभ्रमा यासां तासाम् । तथा तरलं नृत्य-गत्या सर्व-समाधानार्थं चञ्चलम् । तासाम् एव तरलं हृन्-नायक-नील-मणिवत् । तन्-निकट-स्थितं वा । तथा हर्षेण विशाले प्रोत्फुल्ले लोले च नेत्रे यस्य । तासां हृद्या हृदि भवा ये विभ्रमास् तेषां हृदयं तद्-रहस्य् अज्ञम् इति वा ।

बाह्ये तु—प्रकाशताम् । अन्यत् समम् ॥११॥

—ओ)०(ओ—

(१२)

निखिल-भुवन-लक्ष्मी-नित्य-लीलास्पदाभ्यां

कमल-विपिन-वीथी-गर्व-सर्वं-कषाभ्याम् ।

प्रणमद्-अभय-दान-प्रौढि-गाढादृताभ्यां

किम् अपि वहतु चेतः कृष्ण-पादाम्बुजाभ्याम् ॥

कृष्ण-वल्लभा ॒ कृत-पुण्य-पुञ्जास् ते ये तत्-सांनिध्यम् अभिलषन्ति, मम पुनर् इदं भूयद् इति श्री-कृष्ण-महिमानम् अत्याश्चर्यं मनसि निधायाभिमतम् आशास्ते—निखिलेति । चेतः कर्तृ । कृष्ण-पादाम्बुजाभ्यां तत्-सकाशात् । यद् वा, कृष्ण-पादाम्बुजं प्राप्य । ल्यब्-लोपे पञ्चमी [वार्तिक १.५.३१], तादर्थ्ये चतुर्थी [वार्तिक १.४.४४] इति वा । किम् अपि यन् मम हृदि प्रेम-विशेषैर् माधुर्यं तद् वहतु धारयतु । कृष्ण-पादाम्बुजे तथा प्रसीदेतां यथा तस्मिन्न् अनुराग एव ममोदेति ।

कीदृशाभ्यां ? निखिल-भुवन-लक्ष्मी-नित्य-लीलास्पदाभ्याम् । निखिल-भुवनस्य प्राकृताप्राकृत-समस्त-लोकस्य या लक्ष्मीः शोभा सम्पत्तिर् वा तस्या नित्यं लीलास्पदाभ्यां केलि-गृहाभ्याम् । यद् वा, निखिल-भुवनस्य लक्ष्मीर् ययैवं-भूता या नित्य-लीला तस्या आस्पदाभ्याम् ।

पुनः कीदृशाभ्यां ? कमल-विपिन-वीथी-गर्व-सर्वं-कषाभ्याम् । कमल-वन-श्रेणीनां गर्वस्य वयम् अतिसुरभयो लक्ष्मी-निवास-भूता इत्य्-आदेः सर्वं-कषाभ्यां सर्व-निर्मूल-कराभ्याम् । सौगन्ध्यारुण्य-मार्दव-शैत्यादि-गर्वाणां नाशकाभ्याम् इति भावः ।

एवं विशेषण-द्वयेन लीला-शोभा-सौरभ्य-सौकुमार्य-शैत्य-मकरन्दादेर् अतिशयत्वम् उक्त्वा प्रणामारम्भ-मात्रेण सर्व-प्रदत्वम् आह—प्रणमद्-अभय-दान-प्रौढि-गाढादृताभ्यां, प्रणमतां नति-मात्रं कुर्वताम् एवाभय-दाने या प्रौढिः, तया गाढम् अत्यर्थम् आड्र्ताभ्याम् । उद्यताभ्याम् इति पाठे—प्रणमत्सु प्रणति-परेष्व् अभय-दाने प्रौढिर् यासां ता निज-रस-मय-लीला-मग्न-श्री-कृष्ण-शक्तयो गाढं दृढम् उद्यता ययोस् ताभ्याम् । तथा चोक्तं—

अतन्द्रित-चमू-पति-प्रहित-हस्तम् अस्वीकृत-

प्रणीत-मणि-पादुकं किम् इति विस्मृतान्तः-पुरम् ।

अवाहन-परिष्क्रियं पतग-राजम् आरोहतः

करि-प्रवर-बृंहिते भगवतस् त्वरायै नमः ॥ [पद्या. ५०]

मालिनी-छन्दः—

न-न-म-य-य-युतेयं मालिनी भोगि-लौकैः ॥ [छन्दो-मञ्जरी] ॥१२॥

सुबोधिनी ॒ ततोऽत्युत्कण्ठया स्फुरित-पादाब्ज-सुखाविष्टस् तद् एव प्रार्थयते—मम चेतः कृष्ण-पादाम्बुजाभ्यां किम् अपि सुखं निरतरम् आप्नोतु । कीदृग्भ्यां—वैकुण्ठादि-सर्व-लोकेषु या शोभा-सम्पत्तयस् तासां +आनांलक्षणा-गृहं ये ताभ्याम् । अत एव तत्रत्य-कमल-वन-श्रेणीनां कौमल्यादि-गुणैर् यो गर्वस् तस्य सर्वं-कषे छेदके ये ताभ्याम् । एवं चेत् कथं ताभ्यां तद्-आप्तिः ? प्रणमद्भ्यः कृत-प्रणाम-मात्रेभ्यो यद् अभय-दानं तत्र या प्रौढिर् असाधारण-गर्वाविष्करणं तयात्यादृते ये ताभ्याम् ॥१२॥

सारङ्ग-रङ्गदा ॒ अथ अन्या तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् [भा.पु. १०.३२.५] इतिवत् कयापि हृदि न्यस्तं तत्-पद-कमलं दृष्ट्वा सहर्ष-लालसम् आह—चेतः । श्री-राधाया इति शेषः । मदीय-हृदयेऽरुण-पाद-सरोरुहाभ्याम् आक्रीडतां (१५) इत्य्-अग्रेऽप्य् उक्ते । कृष्ण-पादाम्बुजाभ्यां किम् अपि तत्-स्पर्श-सुखं वहतु । कीदृग्भ्यां—कमल-विपिन-वीथीनां तच्-छ्रेणीनां पञ्चेन्द्रियाह्लादकानां शैत्य-सौगन्ध्य-कौमल्य-सौन्दर्य-मकरन्दालि-ध्वनि-मत्तादि-गुणैर् यो गर्वस् तस्य सर्वं-कषे छेदके ये ताभ्याम् । तथा, निखिले भुवने या लक्ष्म्यः शोभा-सम्पत्तयस् तासां +आनांलक्षणास्पदे केलि-गृह-रूपे ये ताभ्याम् । तथा, प्रकर्षेण नमन्तीनां हृदि तद्-अर्पणार्थम् उपविशन्तीनां तासां कन्दर्प-तापादिभ्यो यद् अभय-दानं तत्र या प्रौढिस् तया गाढादृते ये ताभ्याम् । किं वा, तया सह रहो-लीलान्ते तत्-संवाहनं कुर्वतो मम चेत इति ।

बाह्ये तु—ताभ्यां किम् अपि तत्-प्राप्ति-सुखं वहतु । वैकुण्ठादीनां निखिल-भुवनानां या लक्ष्म्यः सम्पत्तयस् तासां तादृग्भ्याम् । किं वा, नारायणादि-तद्-अंशानां प्रेयस्यो या लक्ष्म्यस् तासां तत्-प्राप्त्य्-उत्कण्ठया मानसी या रासादि-लीला, तत्-प्राप्तये ध्येयत्वेन मनस आश्रयाभ्यां, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा.पु. १०.१६.३६] इत्य् उक्तेः । भक्तानाम् अभय-दाने—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।

अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥ [रा. ६.१८.३३]

इत्य् आदि-रूपा या प्रौढिस् तत्रादृताभ्याम् । अन्यत् समम् ॥१२॥

—ओ)०(ओ—

(१३)

प्रणय-परिणताभ्यां श्री-भरा लम्बनाभ्यां

प्रतिपद-ललिताभ्यां प्रत्यहं नूतनाभ्याम् ।

प्रतिमुहुर् अधिकाभ्यां प्रस्फुरल् -लोचनाभ्यां

प्रवहतु हृदये नः प्राणनाथः किशोरः ॥

कृष्ण-वल्लभा ॒ इदानीं श्री-कृष्णस्य मधुरतर-लीला-विलोल-विलोचन-माधुरीम् अग्र-चेतास् तस्य भाव-गर्भित-विलोचन-खेलन-परम्परां स्वस्मिन् प्रार्थयते—प्रणयेति । नोऽस्माकं स्वीयाभिप्रायेण स्व-बहु-मानाद् वा हृदये प्राणनाथत्वेन वर्तमानः किशोरः प्रस्फुरल्-लोचनाभ्यां प्रकर्षेण स्फुरद्भ्यां लोचनाभ्यां सहाति-साकाङ्क्षत्वात् प्रवहतु प्रकर्षेण वर्तताम् । सम्यग् अपरोक्ष-स्फूर्ति-धारा-विषयोऽस्त्व् इत्य् अर्थः । यद् वा, किशोरः कीदृशः ? एवं-भूताभ्यां विशिष्टः । विशेषेण तृतीया । प्रस्फुरल्-लोचनाभ्याम् इत्य् अत्राद्भुता विभ्रान्ता वा दृष्टिः । यथा—

प्रसन्न-शुद्ध-शुभ्रांशान्तर्-बहिर्-गामि-तारका ।

ईषत्-कुञ्चित-पक्ष्माग्राद्भुतापाङ्ग-विकाशिनी ॥ [सङ्गीत-रत्नाकर ७.३९५]

प्रसन्नः शुद्धः शुभ्रोऽंशोऽपाङ्गो यस्या, अन्तर् बहिश् च गामिनी तारका यस्या सा । विभ्रान्ता-लक्षणं च पूर्वम् एवोक्तम् ।

लोचने विशिनष्टि—प्रणय-परिणताभ्याम् । प्रणयः प्रेम तेन परिणताभ्यां परिणाम-विशेषं प्राप्ताभ्याम् । यद् वा, प्रणयो गोपीनां सहज-सिद्धः परिणतः प्रवृद्धो याभ्याम् । प्रणयेन प्रेम्णा परितो नमनं याभ्याम् इति वा । यत्र यत्र दृष्टिः पतति, तत्र तत्र चैतन्य-मात्रस्य प्रेम-विह्वलतया कृष्णैक-प्रह्वता भवतीत्य् अर्थः । अत्र स्निग्धा दृष्टिः, तल्-लक्षणं चोक्तम् ।

पुनर् विशिनष्टि—श्री-भरालम्बनाभ्याम् । श्रीः शोभा तस्या भरोऽतिशयस् तद्-आलम्बनाभ्यां परम-विश्राम-स्थलाभ्याम् । अत्र कान्ता दृष्टिः, तल्-लक्षणं चोक्तम् एव ।

पुनर् विशिनष्टि—प्रतिपद-ललिताभ्याम् । पदं व्यवसितिर् विविध-केलि-रूपो व्यवसायः, तं प्रति, पदं पदं प्रति वा, ललिताभ्याम् । एतेन सदा सर्व-विषय-पूर्ण-सुखमद्भ्याम् इत्य् अर्थः । पदं व्यवसिति-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुषु इत्य् अमरः । अत्र ललिता दृष्टिः । यथा—

मधुरा कुञ्चितापाङ्गा स-भ्रू-क्षेपा स्मितान्विता ।

मन्मथोन्मथिता दृष्टिर् ललिता ललिते मता ॥ [स.र. ७.४२२]

पुनः—प्रत्यहं नूतनाभ्याम् । प्रत्यहं प्रतिदिनम् । उपलक्षणं चैतत् क्षण-लवादीनाम् । नूतनाभ्यां नवाभ्याम् । अहन्य् अहनि पूर्वानुभूत-सौन्दर्य-चमत्काराभ्याम् इत्य् अर्थः । प्रतिक्षणं नूतनत्वेऽपि प्रत्यहम् इत्य् उक्तं लीला-विशेषाभिप्रायेण । अत्र वीरा दृष्टिः, यथा—

अचञ्चला विकशिता गम्भीरा सम-तारका ।

दीप्ता सञ्कुचितापाङ्गा वीरा धीरैर् उदाहृता ॥

औदार्य-धैर्य-माधुर्य-गाम्भीर्य-ललितान्य् अपि ।

तेजः शोभा-विशेषांश् च सत्त्व-भेदान् विवृण्वती ॥ [स.र. ७.३९१-२]

पुनर् विशिनष्टि— प्रतिमुहुर् अधिकाभ्याम् । मुहुर् मुहुः प्रतिमुहुः प्रतिवारम् अधि कम् अधिकं सुखं याभ्यां ययोर् वा । सुख-शीर्ष-जलेषु कम् इति मेदिनी । अत्रापि कान्ता दृष्टिः । मालिनी छन्दः ॥१३॥

सुबोधिनी ॒ ततस् तन्-नेत्र-स्फूर्त्य्-अनुरञ्जितस् तत्रातृप्यन् स-लालसं प्रार्थयते—प्राणेशः किशोरो नः सर्वेषाम् अस्माकं हृदये प्रस्फुरन् नेत्राभ्याम् अविच्छिन्नं स्फुरतु । श्री-राधा-विषयक-प्रेम्णैव परिणताभ्याम् । अत एव श्रियः स-स्मितेक्षणादि-शोभा-सम्पत्तेर् भरस्यातिशयस्याश्रयाभ्याम् । कथं तत्-प्रेम्णोऽवगतिः ? प्रत्यहं दिने दिने नूतनाभ्याम् । पुनः साश्चर्यम् आह—प्रतिपदं क्षणे क्षणे ललिताभ्याम् । तद् अपि कुतः ? प्रतिमुहुर् वारं वारं, निमिषे निमिषे इत्य् अर्थः, अधिकाभ्याम् । अनुराग-स्वभाव्येन नव-नवानुभवोऽयम् ॥१३॥

सारङ्ग-रङ्गदा ॒ अथान्यालक्षित-तदृग्-भङ्ग्या निकुञ्जाय तां प्रेरयन्तं तम् आलोक्य साश्चर्य-हर्षोत्कण्ठम् आह—अयं प्राणनाथः किशोरो नः सर्वासां सखीनां हृदये प्रस्फुरल्-लोचनाभ्यां श्री-राधा-विषयक-प्रणय-रस-प्रवाह-रूपेण प्रवहतु । सर्वा आप्लावयत्व् इत्य् अर्थः । हृदये तत्-तुल्यायां श्री-राधायाम् इति वा । लोचनाभ्यां स्फुरन्न् इति वा । अत्र सानुस्वारोच्चारणम् । कीदृग्भ्यां ? श्री-राधा-विषयक-प्रणयैर् एव परिणताभ्यां घटिताभ्याम् । श्रीः शोभा तद्-भरस्यालम्बनाभ्याम् आश्रयाभ्याम् । पुनः स-विचारम् आह—प्रत्यहं नूतनाभ्याम् । ह्यो ये दृष्टे ततोऽप्य् अतिसुन्दरे इत्य् अर्थः । पुनः स-विमर्शम् आह—प्रतिमुहुः क्षणे क्षणेऽधिकाभ्यां प्रणय-शोभादिभिर् उच्छलिताभ्याम् । अद्यैव तदानीं ये दृष्टे ततोऽप्य् अतिमधुरे इत्य् अर्थः । पुनः स-शङ्कम् आह—प्रतिपदं पदे पदे निमिषे निमिषे ललिताभ्याम् । इदानीं निमिषान्तरे ये दृष्टे, ततोऽप्य् अतिमनोहरे इत्य् अर्थः । अनुराग-स्वभावोऽयं यत् स्व-विषयं नवं नवम् इवानुभावयति । तथा हि—प्रतिसवाभिनवं [भा.पु. १०.४४.१४] इति । तथापि, तस्याङ्घ्रि-युगं नवं नवं [भा.पु. १.११.३३] इति वा । बाह्ये तु—श्रीः सर्व-सम्पत्तिः । तत्-कटाक्षेणैव तत्-प्राप्तेः । अन्यत् समम् ॥१३॥

—ओ)०(ओ—

(१४)

माधुर्य-वारिधि-मदाम्बु -तरङ्ग-भङ्गी-

शृङ्गार-सङ्कुलित -शीत-किशोर-वेषम् ।

आमन्द-हास-ललितानन-चन्द्र-बिम्बम्

आनन्द-सम्प्लवम् अनु प्लवतां मनो मे ॥१४॥

कृष्ण-वल्लभा ॒ इदानीम् अतिप्रेमौत्कण्ठ्याद् इतर-विषय-मात्रासहिष्णुः श्री-कृष्ण-चन्द्रामृत-वारिधौ मनो-निमग्नत्वं प्रार्थयते—माधुर्येति । मे मम मन आनन्द-सम्प्लवम् अनवच्छिन्नैक-महानन्द-पूरम् अनु लक्षीकृत्य । अनुर् लक्षणे [पा. १.४.८४] इति द्वितीया । प्लवतां मज्जतु, अवगाहताम् इति यावत् । आनन्द-पूरस्यानन्तत्वात् कुत्रापि निमग्नं भवत्व् इत्य् अर्थः । अन्व् अनु वारं वारं प्लवताम् इति वा ।

तर्हि किं ब्रह्मानन्दः ? नेत्य् आह—माधुर्य-वारिधि-मदाम्बु-तरङ्ग-भङ्गी-शृङ्गार-सङ्कुलित-शीत-किशोर-वेषम् । स्वभावत एव चित्ताकर्षकता माधुर्यम् । तस्य वारिधिस् तद्-रूप-जलभृन् महा-समुद्रस् तन् नैवान्तर्गतं यन् मदाम्बु मत्तता-रूपम् अम्बु । मादकं माधुर्यम् इत्य् अर्थः । येनाकृष्टं मनो मद-विह्वलम् इतर-विस्मृति-युक्तं सद् इतस् ततः स्रोतः-शैलवत् सञ्चरतीत्य् अर्थः । तस्य ये तरङ्गा उच्छलद्-रूपास् तेषां भङ्ग्यः प्रकार-विशेषाः । मादक-विशेषाद् धि मद-विकार-विशेषा भवन्ति । तद्-रूपो यः शृङ्गारः शृङ्गार-रस-मय-विलासस् तेन सङ्कुलितो व्याप्तः शीतश् च महा-दुरन्त-कामोपताप-निर्वापकः । एवं-भूतश् चासौ किशोर-वेषश् च किशोर-वयो-विशिष्टाकारवांस् तम् । यद् वा, श्री-कृष्णस्य माधुर्यम् एव वारिधिः, व्रज-सुन्दरीणां मद एवाम्बु सौभाग्य-यौवनाद्य्-अवलेप-रूपं, तयोर् ये तरङ्ग-भङ्ग्यौ ताभ्यां यः शृङ्गारस् तेन सङ्कुलितः सम्पूरितः । अन्यत् पूर्ववत् ।

सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ।

मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः ॥ [सा.द. ३.९७, १०५]

पुनः कीदृशं ? आमन्द-हास-ललितानन-चन्द्र-बिम्बम् । आ ईषन् मन्देन हासेन । स्मितेनेत्य् अर्थः । ललितं मनोहरम् आननं चन्द्र-मण्डलं यस्य तम् । आ समन्तान् मन्द-हासस्य ललितं विलासो यस्मात् तादृश आनन-चन्द्रो बिम्ब-भूतो यस्य तम् । लुलितानन-चन्द्र-बिम्बम् इति पाठे लुलितो विमर्दितः, व्याप्त इति यावत् । पूर्ववद् अन्यत् । वसन्त-तिलकं छन्दः ॥१४॥

सुबोधिनी ॒ पुनस् तन्-माय-समुद्रस्य पारावार-रहितत्वम् अनुभवन्-मनोऽवगाहन-मात्रं प्रार्थयते—मे मम मन आनन्द-सम्प्लवं सर्व-प्लावकानन्द-पूरम् अनु निरन्तरं प्लवतां निमज्जनन्-मज्जनादिभिर् अत्रैव क्रीडताम् । तद् उपपादयन्न् आह—आ ईषन् मन्द-हासेन ललितम् आनन-चन्द्र-बिम्बं यस्य । प्रियापाङ्गालोकोद्यन्-मनो-विकाशान् मन्द-हसितम् इदम् । अत एवास्य चन्द्रांशूच्छलितो यो माधुर्य-वारिधिस् तत्रोद्गतो यो मदो जगन्-मोहकता स एवाम्बु । मनो-नयनार्द्री-करणात् । तस्य ये तरङ्गा अधिकाधिकोच्छलानि तैर् या भङ्गी परिपाटी तत्र तादृशेन शृङ्गारेण शृङ्गार-रसेन सङ्कुलितो व्याप्तः, अत एव शीतः सर्व-ताप-शमकः किशोरोचितो वेषो यस्य ॥१४॥

सारङ्ग-रङ्गदा ॒ तथा स-स्मित-मुखोद्गत-भावादिना तां प्रेरयन्तं तद्-आनन्दोच्छलितं तं वीक्ष्य स-हर्षम् आह—इदम् आनन्द-सम्प्लवं सर्वाप्लावकोच्छलितानन्द-प्रवाहं मे मनोऽनु प्लवतां निमज्जनादिभिर् अत्रैवाक्रीडताम् । कीदृशं ? आमन्दोऽतिमन्दस् तयैव गम्यो यो हासस् तेन ललितम् आनन-चन्द्र-बिम्बं यस्य । तथा तच्-चन्द्रांशूच्छलितो यो माधुर्य-वारिधिस् तत्रोद्गता ये कन्दर्प-मदास् त एवाम्बु-तरङ्गा यस्मिन् । तादृशाश् च भङ्ग्या यः शृङ्गारो वेष-रचनं तेन सङ्कुलितो युक्तश् च शीतः सर्व-ताप-हरश् च किशोर-वेषस् तद्-वपुर् यस्य, वेषो वपुषि च इति कोशात् । तत्-तरङ्ग-भङ्ग्यैव शृङ्गारो वा । तत्-तरङ्ग-भङ्गी-शृङ्गाराभ्यां सङ्कुलित इति वा । बाह्ये—सम एवार्थः ॥१४॥

—ओ)०(ओ—

(१५)

अव्याज-मञ्जुल-मुखाम्बुज-मुग्ध-भावैर्

आस्वाद्यमान-निज-वेणु-विनोद-नादम् ।

आक्रीडताम् अरुण-पाद-सरोरुहाभ्याम्

आर्द्रे मदीय-हृदये भुवनार्द्रम् ओजः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्णस्य वृन्दावन-गिरि-कन्दर-कालिन्दी-तट-व्रज-वीथ्य्-आदिषु स-प्रेम-चरण-सञ्चारेण विरचित-विचित्र-मधुर-क्रीडस्य चरण-स्फूर्तिं हृदि प्रार्थयते—अव्याजेति । ओजः किम् अपि तेजो-रूपं वस्तु । बलावष्टम्भयोर् ओजः क्लीबं दीप्ति-प्रकाशयोः इति । मदीय-हृदये अरुण-पाद-सरोरुहाभ्याम् । अरुणे ये पाद-सरोरुहे ताभ्यां करण-भूताभ्याम् आक्रीडताम् । क्रीड विहारे, नृत्यत्व् इत्य् अर्थः । क्रीड आङ्-परिभ्यां [पा. १.३.२०-२१] इत्य् आत्मने-पदम् ।

ननु कथं कठिने हृदये ताभ्यां सुकुमाराभ्यां क्रीडनं ? तत्राह—आर्द्रे तत्-प्रेम-रसेन स्निग्धी-भूते । किम्-भूतम् ओजः—भुवनार्द्रम्, भुवनम् एवार्द्रं येन । तत्-सम्पर्काद् भुवनम् आर्द्रीभवति, मद्-धृदयस्य का गणना ? यत् प्रेमार्द्रता-लवेन भुवनेषु महा-प्रेमार्द्रता तस्य साक्षात्-प्रेमार्द्रता का वक्तव्या ? यद् वा, भुवनं जलं तद्वद् आर्द्रम् इति । जल-योगात् कठिनं लोष्टाद्य् आर्द्री-भवति ।

पुनः किंभूतं ? अव्याज-मञ्जुल-मुखाम्बुज-मुग्ध-भावैर् आस्वाद्यमान-निज-वेणु-विनोद-नादम् । अव्याजा निष्कपटाः सहजानुराग-विलसिता मञ्जुले मनोहरे मुखाम्बुजे मुग्धाः सुन्दरा ये भावा हास्य-कटाक्ष-भ्रू-विभङ्गादयस् तैः । सहेति वा । आस्वाद्यमाना मधुरान् मधुरतरोऽयम् इत्य् अनुभूयमाना निज-वेणोः सङ्केत-परिहास-नर्मादि-शंसिनो ये विनोदाः स्वर-ग्राम-मूर्च्छनास् तान् आदि-रूपा वा तद्-युक्तो नादो येन तत् ।

अथवैवं योजना—अरुण-पाद-सरोरुहाभ्याम् उपलक्षितम् ओजो मदीय-हृदये आक्रीडताम् । कथं कठिने हृदये तस्याक्रीडः । अत आह—तद्-भावैर् आर्द्रे । किं-भूतम् ओजः ? आस्वाद्यमानोऽर्थाद् गोपीभिर् निज-वेणोर् विनोद-युक्तो नादो यस्य । अन्यत् पूर्ववत् । वसन्त-तिलकं छन्दः ॥१५॥

सुबोधिनी ॒ तद्-आनन्दाप्लवं स्वयम् अनुभूय स्व-सङ्गि-हृद्य् अपि तथाशास्ते—ओजः पूर्वोक्तानन्द-सम्प्लवं मदीयानाम् अपि हृदये । आ सम्यक् क्रीडताम् । तत्र तद्-योग्यताम् आह—अरुण-पाद-सरोरुहाभ्याम् आर्द्रे । आश्रय-मात्रेण तद्-योग्य-कृते । हृदयस्य प्राकृतत्वम् आशङ्क्य समादधाति—भुवनम् अप्य् आर्द्रयितुं समर्थम् । तत्र हेतुः—अव्याज-मञ्जुलं सहज-सुन्दरं यन्-मुखाम्बुजं तस्य ये मनोहरा भावा भाव-प्रकाशन-रूपाः कटाक्षादयस् तैः सह तयास्वाद्यमानो निजोऽसाधारणो यो वेणोर् विनोद-नादो निगूढ-प्रेरण-रूपो नादो यस्य तत् ॥१५॥

सारङ्ग-रङ्गदा ॒ अथ तयैव गम्यैः सङ्केत-वेणु-नादाद्यैर् नीरज-राजित-यमुना-नीर-निकट-तीर-वानीर-कुञ्जाय तां प्रेरयन्तं तं विलोक्य स-श्लाघम् आह—पूर्व-रीत्येदम् ओजो मदीयानां सखी-जनानां हृदये तत्-तुल्यायां राधायां तद्-गुण एव वारुण-पाद-सरोरुहाभ्याम् आ सम्यक् क्रीडताम् । कीदृशे ? आर्द्रे तत्-प्रेम-स्निग्धे । ताभ्याम् आर्द्रे वा । विच्छेदे प्रतप्त-हृदस् तत्-स्पर्शेनैव स्निग्धतोत्पत्तेः । तद् उक्तं—ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयं [भा.पु. १०.३१.७] इति । तत्र हेतुः—भुवनेति । भुवनम् एवार्द्रं यस्मात् । वेणु-नादाद्यैस् तद् आर्द्रयतीति वा । तथा, अव्याज-मञ्जुलं यत् कृष्ण-मुखाम्बुजं तस्य सङ्केत-रूप-भ्रू-नेत्रान्त-चालन-निरक्षर-कथनादि-रूप-मुग्ध-भावैः सह श्री-राधयैवास्वाद्यमानो निजः स्व-प्रेरण-निमित्तको वेणोर् विनोद-नादः ।

काञ्चन-वल्लि-सङ्गिनि त्वरयाब्ज-वनीं विहाय ता भ्रमरीः ।

मधुपि मधुसूदनस् त्वां रमयितुम् एष्यत्य् असौ निभृतम् ॥

इत्य् आदि-गूढ-प्रेरण-रूपो नादो यस्य । किं वा, तस्यास् तत्-प्रेरण-ज्ञान-ज्ञापक-तादृश-मुखाम्बुज-भावैः सहास्वाद्यमानो निज-वेणोस् तादृश-नादो येन ।

बाह्ये—मम हृदये प्रकाशताम् । हृदयस्य प्राकृतत्वम् आशङ्क्य समादधाति—तत्-पादाब्जाभ्याम् आर्द्रे तत् प्रकाश-योग्यतां नीते । अन्यत् समानम् ॥१५॥

—ओ)०(ओ—

(१६)

मणि-नूपुर-वाचालं

वन्दे तच्-चरणं विभोः ।

ललितानि यदीयानि

लक्ष्माणि व्रज-वीथिषु ॥

कृष्ण-वल्लभा ॒ पाद-सरोरुहाभ्याम् आक्रीडताम् इत्य् उक्तम् । सम्प्रति श्री-कृष्ण-चन्द्रस्य परम-सुन्दरत्वात् तच्-चरणं स्तुवन् स्वान्तर्-भाव-विलसितम् आविष्करोति—मणीति । विभोः श्री-कृष्णस्य तच्-चरणम् अनिरूप्य-माधुर्याद्य्-एक-देश-च्छटा-कोट्यां सौभाग्यस्यापि महता यत्नेनापि हृद्य् अस्फुरणाद् वन्दे स्तौमि नमामि च ।

कीदृशं तच् चरणं ? मणि-नूपुर-वाचालम् । मणि-मयौ नूपुरौ वाचालौ बहु-भाषिणौ यत्र तत् । आल-जाट-चौ बहु-भाषिणि [पा. ५.२.१२५] इति सूत्रम् । तत्र कुत्सायां वाच्यं [वार्तिक] । सा त्व् अन्यत्र भगवद्-व्यतिरिक्ते वस्तुनि सङ्गच्छते । तौ हि चरणाम्बुज-रस-मत्तौ मधुर-मधुरं नदत इति भावः । यद् वा, मणि-मय-नूपुर-वाचाम् अलं भूषणम् । तास् तत्रैवाधिकं शोभन्त इत्य् अर्थः । मणि-नूपुरौ वेन प्रेमामृतेनाचलौ निःस्यन्दौ यत्र वा । एतेन वंशी-वादन-समयो व्यज्यते । तेन श्री-कृष्णस्य वस्त्र-भूषण-मालादीनि स-चेतनानि श्री-कृष्ण-रसम् अनुभवन्तीत्य् उक्तम् ।

अनुभूतं तच्-चरणम् अभिनयवद् दर्शयति—यदीयानि यस्य चरणस्येमानि लक्ष्माणि चिह्नानि ध्वज-वज्राङ्कुशाम्भोज-रूपाणि व्रजस्य वीथिषु वर्त्मसु ललितानि महोहराणि । दृश्यन्त इति शेषः । यदीयानि लक्ष्माणि एवातिसुन्दराणि तस्य चरणस्य सौन्दर्यं कथं वर्णनीयं मयेति भावः । अनुष्टुप् छन्दः ॥१६॥

सुबोधिनी ॒ अथ चरण-वर्णनोद्यल्-लीला-विशेष-स्फूर्त्या तद्-वर्णनायादौ तद्-अभिसारोत्तरलं चरणं प्रणमति—भोः सर्व-समाधान-पूर्वकाभिसरण-समर्थस्य तच्-चरणम् अत्यौत्सुक्येन शीघ्र-गमनायोत्तरलं वन्दे । तद् व्यनक्ति—मणि-नूपुराभ्यां वाचालं द्रुत-गत्या मुखरम् । अत एव तदीयानि चिह्नानि व्रज-वीथिष्व् अभिसरण-मार्गेषु विराजन्ते । यैर् अध्वभिर् आगतस् तान् अपि वन्द इत्य् अर्थः ॥१६॥

सारङ्ग-रङ्गदा ॒ अथ तज् ज्ञात्वा कुञ्ज-गतां ताम् अन्यालक्षितम् अनुगच्छन्तं तं पश्चाद् दूरतोऽनुगच्छत इव स्वस्य तन्तू-पुर-ध्वनि-श्रवण-स्फूर्त्या स-हर्षम् आह—विभोस् तादृग् अलक्षित-गति-समर्थस्य तत् तादृशं ताम् अनुगच्छच्-चरणं वन्दे । कीदृशं ? मणि-नूपुराभ्यां वाचालम् । मार्गे तच्-चिह्नानि दृष्ट्वाह—यदीयानि लक्ष्माणि न केवलम् अत्रैव सर्वासु व्रज-वीथिष्व् अपि । विराजन्त इति शेषः । कीदृशानि ? ध्वज-वज्रादिभिर् ललितानि । बाह्यार्थः स्पष्ट एव ॥१६॥

—ओ)०(ओ—

(१७)

मम चेतसि स्फुरतु वल्लवी-विभोर्

मणि-नूपुर-प्रणयि मञ्जु शिञ्जितम् ।

कमला-वनेचर-कलिन्द-कन्यका-

कलहंस-कण्ठ-कल-कूजितादृतम् ॥

कृष्ण-वल्लभा ॒ ततश् चातिमनोहरत्वेन तच्-चरण-नूपुर-शिञ्जितं वर्णयेयम् इति मन्वानस् तत्-स्फूर्तिम् आशास्ते—मम चेतसीति । वल्लवी-विभोर् वल्लवीनां गोप-स्त्रीणां विभोः । तद्-अनुराग-तारतम्येन विविधो भवतीति विभुस् तस्य । वल्लवी-सहितस्य विभोर् वा । मञ्जु मनोहरं कर्ण-रम्यं शिञ्जितं भूषण-ध्वनिः । भूषणाणां तु शिञ्जितम् इत्य् अमरः । मम चेतसि स्फुरतु । तच्-छिञ्जित-श्रवणानन्दानुभवः स्फुरत्व् इति प्रार्थायां लोट् ।

कीदृशं शिञ्जितं ? मणि-नूपुर-प्रणयि, मणि-हीरकस् तन्-मययोर् नूपुरयोः प्रणयि प्रेम-पात्रम् । ताभ्यां प्रणयि स्निग्धं वा ।

पुनः कीदृशं ? कमला-वनेचर-कलिन्द-कन्यका-कलहंस-कण्ठ-कल-कूजितादृतम् । कमला लक्ष्मीस् तन्-निवास-भूतं वनं कमला-वनं पद्म-वनं तत्र चरन्तीति । चरेष्टः [पा. ३.२.१६] इति टः । तत्-पुरुषे कृति बहुलं [पा. ६.३.१४] इति सप्तम्या अलुक् । कमला-वनेचराः । ते च ते कलिन्द-कन्यका यमुना तत्-सम्बन्धिनस् तत्र स्थिता वा ये कलहंसाः । कलहंस्यश् च कलहंसाश् चेत्य् एक-शेषः । हंस-विशेषाः । कादम्बः कलहंसः स्यात् इत्य् अमरः । तेषां यत् कण्ठ-स्थितम् अत एव कलम् अव्यक्त-मधुरं यत् कूजितं ध्वनिस् तेनादृतं कृतादरम् । अत्युत्कृष्टतया कृत-गौरवम् इत्य् अर्थः । पद्म-वन-चारित्वेन मृणालादि-भक्षणेन मत्तता ध्वनि-रम्यता च सूचिता । कालिन्दी-सम्बन्धोक्त्या ते हंसा नान्यत्र गच्छन्त्य् उत्कृष्ट-जलाशयत्वाभावाद् इति सूचितम् । चरण-कमलयोः पद्मौपम्यं, कलिन्द-कन्यकेति चरणोपरि-भागयोर् हंस-तुल्यतेति यथा-यथं ऊह्यम् । अनेन चरणारविन्द-सौभाग्यातिशय-नूपुर-शोभातिशय-ध्वनि-मनोहरत्वादिकम् इति ध्वनितम् । तथा श्री-वृन्दावन-कुञ्ज-मञ्जुतर-वीथि-सङ्केतेन प्रतिचलतो नूपुर-ध्वनिः स्फुरत्व् इति निर्गलितार्थः ॥१७॥

सुबोधिनी ॒ तल्-लक्षणाया रहस्यत्वाब्द्य्-अङ्ग्येनैव ताम् आह—वल्लव्याः श्री-राधाया विभोर् युगपद्-अनेक-क्रिया-प्रवीण-रमणस्य मनोहर-भूषणानां ध्वनिर् मम चेतसि स्फुरतु । तल्-लीला-व्यञ्जकम् आह—मणि-नूपुरयोः प्रणयोऽस्ति यत्र तत् । वल्लव्या नूपुर-ध्वनि-मिश्रितम् इत्य् अर्थः । अनेन लीला-विशेषः सूचितः । किं च, कमलायाः श्री-राधाया वने चरन्तो ये तत्-पालिताः कालिन्दी-कलहंसास् तेषां तदीयत्वेनानन्दाविष्टतया कण्ठ-स्थित-मधुरास्फुट-ध्वनिभिर् आदृतम् । तच्-छिञ्जितानुगत्या स्थितम् इत्य् अर्थः ॥१७॥

सारङ्ग-रङ्गदा ॒ अथ पद्म-षण्ड-मण्डित-यमुनासन्न-वानीर-कुञ्जे तया सह रममाणस्य तस्य नूपुरयोर् ध्वनिं सखीभिः सहागत्य बहिः स्थित्वा शृण्वन्न् इव स-लालसम् आह—वल्लवी तच्-छ्रेष्ठा श्री-राधा तस्य विभो रमणस्य शिञ्जितं भूषण-ध्वनिर् मम चेतसि स्फुरतु । कस्य भूषणस्येत्य् आह—मणि-नूपुर-प्रणयि । केलि-विशेषेणोर्ध्व-स्थित-श्री-चरणयोर् नूपुरोद्भवम् इत्य् अर्थः । अतो मञ्जु मनोज्ञम् । किं वा, तस्याः प्रणयः सूच्यत्वेन विद्यते यस्य तत् प्रणयि । तच् च मञ्जु मनोज्ञं च । तत् तादृशं मणि-नूपुरयोर् यच् छिञ्जितं तत् । तथा, कमला लक्ष्मीस् तस्या वनेचराः पद्म-वनेचरा ये कलिन्द-कन्यकायाः कलहंसास् तैः कल-कण्ठ-कूजितैर् आदृतं तत्-साम्य-शिक्षार्थम् आदरेणाभ्यसितम् । तेषां कल-कूजितैः श्लाघितं वा ॥ बाह्ये—तत्-स्फूर्त्योक्तिः । अर्थः स एव ॥१७॥

—ओ)०(ओ—

(१८)

तरुणारुण-करुणामय-विपुलायत-नयनं

कमला-कुच-कलशी-भर-विपुली -कृत-पुलकम् ।

मुरली-रव-तरलीकृत-मुनि-मानस-नलिनं

मम खेलतु मद-चेतसि-मधुराधरम् अमृतम् ॥

कृष्ण-वल्लभा ॒ अथात्यद्भुत-परम-महानुभाव-भक्ति-भाविते मनसि सम्यग्-आविर्भावं प्रार्थयते तरुणेति । किम् अप्य् अमृतं नित्य-परिपूर्ण-परानन्दैक-रस-सार-सर्वस्वं वस्तु मम मद-चेतसि प्रेम-रस-माध्वीक-मत्त-चित्ते खेलतु । धारावाहिकतया पुङ्ख्यानुपुङ्ख-न्यायेन क्रीडत्व् इत्य् अर्थः । तस्य दिव्यावयवत्वाच् च हृद्यम् अमृतम् इत्य् आह—मधुराधरम् । मधुरोऽधरो यत्र । यद्यप्य् अमृतत्वात् सर्वम् एव मधुरं, तथापि माधुर्य-विशेषत्वाद् एवम् उक्तिः । यद् वा, मधुर-वस्तूनि यावन्ति प्रसिद्धान्य् अधरयति निकृष्टानि करोतीति । तथा, मधुरं रसं कम् अप्य् अनिरूप्यम् आ समन्तात् सर्वावयवेषु स्वस्यान्यस्य च धारयतीति वा । यद् एवाङ्गं दृश्यते श्रूयते वा तद् एव महा-मादकं परम-रसदम् इत्य् अर्थः । तथा चोक्तम्—

श्याम-श्रीर् मधु यस्य यस्य मधु तत्-कैशोरम् अत्यद्भुतं

क्रीडा यस्य मधूनि यस्य च मधून्य् एकादशाक्ष-क्रियाः ।

माध्वी यस्य विलोकनाङ्ग-वचसां भङ्गी यदीयं वपू

रूपं मध्व् अथ भूषणादि च मधु व्यामोहयेत् कं न सः ॥

पुनः कीदृशं ? तद् अमृतं ? तद् आह—तरुणारुण-करुणा-मय-विपुलायत-नयनम् । तरुणे स्फीते । स्व-भक्तोत्कर्ष-श्रवणेन सदा प्रफुल्लत्वात् । अरुणे स्वभावतो लोहिते नेत्रान्ते । यद् वा, तरुणारुणेऽत्यरुणे करुणा-मये प्रिय-जनस्य दुःखासहिष्णुनी विपुले विशाले । पुल महत्त्वे धातुः । विशेषेण पुलतो महती भवत इति । आयतेऽतिदीर्घे नयने यत्र ।

सर्वाङ्ग-गत-माधुरीम् आह—कमला-कुच-कलशी-भर-विपुली-कृत-पुलकम् । कमला वर-स्त्री राधिका । कमला श्री-वर-स्त्रियोः इति विश्वः । यद् वा, कं कृष्ण-प्रेम-सुखं तेनालम् अतिपर्याप्ता पूर्णा भवतीति कमला । तस्याः कुचाव् एव कलश्याव् अल्प-कलशौ । कैशोर-व्यञ्जकत्वात् । तयोर् भरणं धरणं स्पर्शनम् इति यावत् । तस्माद् विपुलीकृताः पुलका यस्य । कुच-कलशी-भरेण वा विपुलीकृताः पुलका येन ।

पुनः कीदृशं ? मुरली-रव-तरली-कृत-मुनि-मानस-नलिनम् । मुरली-रवेण तरली-कृतं ब्रह्म-समाधेश् चञ्चली-कृतं मुनीनां मनन-शीलानाम् अपि मानस-रूपं नलिनं येन । वायुना हि कमलं चञ्चलं भवति, मुरली-रवोऽपि फूत्कारात्मक-वायु-रूप एव । मुनि-मानसस्य नलिनता मुरली-नाद-श्रवण-मात्र-संजात-कृष्ण-प्रेम-रस-भरत्वात् । कृष्ण-भृङ्ग-कान्तत्वाच् च तन् मानसं ब्रह्माद्य्-अनुसन्धान-मात्र-त्यक्तम् अभवद् इति । यद् वा, मुरली-रवेण तरली-कृता ये मुनयस् ते मानस-नलिने यस्य । तादृश-मुनिषु मानस-नलिनं यस्येति वा ।

ललित-गतिश् छन्दः—स-न-ज-न-भ-सा ललित-गतिः ॥१८॥

सुबोधिनी ॒ अथ तत्-केलि-कलावसान-स्फूर्त्या प्रिया-श्रमावलोकन-व्यग्रतायाम् अपि तत्-कालीन-तद्-अङ्ग-शोभा-विशेषालोकोत्सुकतया लज्जा-शैथिल्याय वंशी-वाद्यम् उरीकृतस्याविर्भावम् आशास्ते—इदम् अमृतं मम हर्ष-युक्ते चेतसीदृग् एव विलसतु । स्वाश्रय-राधानन्द-स्फूर्त्या चेतसो हर्षः । कुतोऽमृतत्वं—तच्-चुमनाक्ततया मधुरोऽधरो यत्र । किं च, तरुणे रत्य्-अन्तेऽप्य् आविष्कृत-कटाक्षादिके जागराद् अरुणे प्रिया-श्रमेक्षया करुणा-प्रचुरे प्रत्यङ्गाद्भुत-शोभा-लोक-विस्मयाद् विपुले तद्-वीक्षणायायते नयने यस्य ।

अन्यद् अपि—कमलायाः श्री-राधायाः कुच-कलशयोर् भरेण शोभातिशयेन विस्तारितः पुलको यस्य । अतस् तद्-वीक्षणार्थं मुरली-रवेण लज्जातः शिथिली-कृतं मुनेर् लज्जा-मौनायास् तस्या मानस-नलिनं येन ॥१८॥

सारङ्ग-रङ्गदा ॒ अथ सुरतान्तं ज्ञात्वा सखीभिः सह कुञ्ज-रन्ध्रे मुखं दत्त्वा तं पुष्प-तल्पोपर्य् उपविश्य तस्याः श्रमापनोदनं पुनर् मदनोद्दीपनं च कुर्वन्तं पश्यन्न् इवानन्दोन्मत्तस् तम् अमृतं मत्वाह—इदम् अमृतं मम स्व-सखी-सौभाग्यित्य् अर्थः-मद-युक्ते चेतसि खेलत्व् ईदृग् एव विलसतु । अमृत-साराद् अपि मधुरः स्वादुः प्रियो मनोहरश् चाधरो यस्य । मधुरं रसवत् स्वादु प्रियेष्व् अपि मनोहरे इति विश्वात् ।

तथा, तरुणे मदन-मदोद्गारिणी स्वतो मधु-पानेन चारुणे च वीजनादिना तच्-छ्रमापनोदनार्थं हृद्य् उद्गता या करुणा तन्-मये तद्-उद्गारिणी स्वतस् तत्-प्राप्त्य्-आनन्देन च विपुले प्रोत्फुल्ले च स्वतस् तन्-माधुरी-दर्शनाद् आयतेऽतिविस्तीर्णे च नयने यस्य । अङ्क-निषण्णायाः पूर्व-रीत्या श्री-राधायाः कुच-कलश्योर् भरेण स्पर्शातिशयेन विपुलीकृतः पुलको यस्य ।

तथा, तच्-छ्रमापनोदं कृत्वा पुनः केलि-लालसोत्पादनाय मुरलीं मृदु वादयन्तं तं वीक्ष्य कैमुत्येनाह—मुरली-रवेण तरलीकृतानिक् मुनीनां पाद-पतितेऽपि तस्मिन् मौन-शीलानां ग्रहिल-मानिनी-जनानां मानस-नलिनानि येन । किम् उत तादृश्यास् तस्या इत्य् अर्थः ।

बाह्ये तु, मुनीनां ज्ञानिनां मेरुवत् स्थिर-कठिनान्य् अपि मानसानि नलिनवत् कोमलानि चञ्चलानि कृतानि येनेत्य् अर्थः । अन्यत् समम् ॥१८॥

—ओ)०(ओ—

(१९)

आमुग्धम् अर्ध-नयनाम्बुज-चुम्ब्यमान-

हर्षाकुल-व्रज-वधू-मधुराननेन्दोः ।

आरब्ध-वेणु-रवम् आत्त -किशोर-मूर्तेर्

आविर्भवन्तु मम चेतसि केऽपि भावाः ॥

कृष्ण-वल्लभा ॒ अथ श्री-राधा-रमण-किशोर-मूर्तः केषाञ्चिन् मधुरातिमधुर-विलासानां स्वरूपाविर्भावम् आशास्ते—आमुग्धेति । आत्त-किशोर-मूर्तेर् आरब्ध-वेणु-रवं भावाः केऽपि मम चेतस्य् आविर्भवन्त्व् इत्य् अन्वयः । आशंसायां लोट् । आत्ता प्रकटिता किशोरी मूर्तिर् येन तस्य । आरब्धो वेणु-रवो यस्मिन् कर्मणि तद् यथा स्यात् तथा । यद् वा, किशोर्यश् च ता मूर्तयश् चेति । आत्ता वशीकृताः किशोर-मूर्तयो राधाद्या येन । तस्य भावा इत्य् अर्थः । स्तम्भ-स्वेदाश्रु-कम्प-पुलकादयः सात्त्विका भावाः । ते च पूर्ण-परमानन्द-रूपस्यापि श्री-राधाद्य्-अनुराग-विशेष-विलसितत्वात् केप्य् आश्चर्य-रूपा इति । हर्षादयो व्यभिचारिणो वा भावाः । रताख्य-स्थायि-भावा वा । यद् वा, भाव-हाव-हेलास् त्रयोऽङ्गजाः ।

शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता ।

औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥ [उ.नी. ११.३] इति ।

दश पुंसां च भवन्ति । उक्तं च—दश पुंसा भवन्त्य् अपि [सा.द. ३.९३] । तथा च बहुविधा एव भावाः श्री-किशोर-मूर्तेस् तत्र च मम चेतसि केऽपि कियन्तोऽपि प्रकाशान्तम् इति । कीदृशस्य ? आमुग्धम् आ समन्तान् मुग्धं सुन्दरं यथा तथा, अर्ध-नयनाम्बुज-चुम्ब्यमान-हर्षाकुल-व्रज-वधू-मधुराननेन्दोः ।

अर्ध-नयनम् अम्बुजवद् यत्र मुखेन्दु-चुम्बने । तथा-भूतं यथा स्यात् तथा चुम्ब्यमानो हर्षेणाकुलानां व्रज-वधूनां मधुराननेन्दुर् येन । व्रज-वधूनां मध्ये मधुराया राधाया आननेन्दुर् येनेति वा । तस्य परमानन्द-प्लावित-चुम्बनेन मयनार्धस्य मुकुलीभावत्वाद् अम्बुज-तुल्यत्वम् । मुख-चन्द्र-दर्शनानन्देन विकशितत्वं चेति । यद् वा, आरब्ध-वेणु-रवं यथा स्यात्, आमुग्धं पूर्ववत्, नयनाम्बुजयोर् अर्धेऽर्ध-नयनाम्बुजे, ताभ्यां चुम्ब्यमानो हर्षाकुल-व्रज-वधू-मधुराननेन्दुर् येन तस्य । वेणु-वादनारम्भ-पूर्वक-सातिलालसा-पेपीयमान-परम-प्रेयसी-वदन-चन्द्रस्येत्य् अर्थः । अथवा, आरब्ध-वेणु-रवं यथा स्यात् आमुग्धम् आ समन्तान् मुग्धा महा-रसोदयान् मोहं प्राप्ता यस्मिन् कर्मणि तद् यथा स्यात् तथा, अर्ध-नयनाम्बुजैश् चुम्ब्यमान अत एव हर्षाकुल आनन्द-व्याप्तो व्रज-वधूभिर् मधुराननेन्दुर् यस्य । चुम्बनं वक्त्र-संयोगे । नयन-तादात्म्यम् एव तदा मुखम् अपि प्राप्तम् एवेति कृत्वैवम् उक्तम् एव । तथा च—

न जाने सम्मुखायाते प्रियाणि वदति प्रिये ।

प्रयान्ति मम गात्राणि श्रोत्रतां किम् उ नेत्रताम् ॥ [पद्या. २३४] इति ।

एवं वंशी-गीतेन मुग्धीकृत-सर्व-सुन्दरी-कदम्बास् ते भावा मयि स्फुरन्तु । मनसि प्रतिभानम् एव नास्ति, आशंसे परं कथं वर्णयामीति निर्गलितार्थः । वसन्त-तिलकं छन्दः ॥१९॥

सुबोधिनी ॒ तद्-दर्शनैक-निदान-मुरली-रवम् एव विवृणोति—आ सम्यग् आरब्ध-वेणु-रवं यथा स्यात् तथात्ता प्रकटीकृता किशोरी मूर्तिस् तद्-उचित-चेष्टा येन तस्य केऽपि भावा हर्ष-गर्वादयो मम चेतस्य् आविर्भवन्तु । तच्-चेष्टां व्यनक्ति—आ सम्यङ् मनोहरं यथा स्यात् तथार्ध-नयनाम्बुजेन चुम्ब्यमानो हर्षाविष्टाया व्रज-वध्वास् तस्या मधुराननेन्दुर् येन । तां वेणु-नादाविष्टां विधाय तत्-प्रत्यङ्गम् ऐक्षतेत्य् अर्थः ॥१९॥

सारङ्ग-रङ्गदा ॒ अथ पुनर् जात-केलि-लालसां ताम् उत्थाप्य वाम-पार्श्वे निषण्णां तद्-अर्ध-नेत्रान्तेन पश्यन्तं तं वीक्ष्याह—अस्य केऽप्य् अनिर्वाच्या इमे भावा मम चेतस्य् आविर्भवन्तु । कीदृशः ? पूर्वतोऽतिमधुरत्वेनारब्ध-वेणु-रवं यथा स्यात् तथात्ता कोटि-मन्मथ-मन्मथत्वेन प्रकाशिता किशोर-मूर्तिर् येन । तथा, आ सम्यङ् मुग्धं यथा स्यात् तथार्ध-नयनाम्बुजेन चुम्ब्यमानो हर्षाकुलाया व्रज-वध्वास् तच्-छ्रेष्ठायास् तस्या मधुराननेन्दुर् येन ।

बाह्ये स्पष्ट एवार्थः ॥१९॥

—ओ)०(ओ—

(२०)

कल-क्वणित-कङ्कणं कर-निरुद्ध-पीताम्बरं

क्लम -प्रसृत -कुन्तलं गलित-बर्ह-भूषं विभोः ।

पुनः प्रकृति-चापलं प्रणयिनी-भुजायन्त्रितं

मम स्फुरतु मानसे मदन-केलि-शय्योत्थितम् ॥

कृष्ण-वल्लभा ॒ अथ नव-गोप-किशोरी-सङ्ग-सञ्जात-सम्भोग-रूपां लीलां वर्णयति—कलेति । विभोः श्री-कृष्णस्य मदन-केलि-शय्यात उत्थितम् उत्थानम्ं मम मानसे चेतसि स्फुरतु प्रकाशताम् । प्रार्थनायां लोट् । उत्थितम् इति भावे क्तः । कीदृशम् उत्थितं ? कलं मधुरास्फुट-ध्वनि क्वणितं कङ्कणं यत्र तद् यथा स्यात् तथा । प्रणयिणी-भुजा-यन्त्रितं प्रणयिनी-भुजाभ्याम् आ ईषद् यन्त्रितं बद्धं, कम्पोपलक्षित-सात्त्विक-भावात् । प्रणयिन्या भुजौ यन्त्रितौ येनेति वा । ध्वनौ तु मधुरास्फुटे कलम् इत्य् अमरः ।

पुनः कीदृशं ? कर-निरुद्ध-पीताम्बरम् । करेण निरुद्धं स्खलितं पीताम्बरं यत्र । यद् वा, करेण निरुद्धं पीताया गौर्या राधाया अम्बरं येन । पीतो गौरेऽरुणे सिते इति वैजयन्ती ।

पुनः कीदृशं ? क्लम-प्रसृत-कुन्तलम् । क्लमेनातिरति-श्रम-जाताङ्ग-ग्लान्या प्रसृता इतस् ततश् चलिताः कुन्तलाः केशा यत्र । रति-रसाविष्टस्य मनसोऽनवस्थानात् सम्यक् पीताम्बर-परिधान-केश-बन्धनाशक्तेः । अत एव गलिता बर्ह-रूपा भूषालङ्कृतिर् यत्र । यद् वा, गलिता बर्ह-भूषा भूषणानि माला-हारादयो यत्र ।

पुनः कीदृशं ? पुनः प्रकृति-चापलम् । पुनः कृत्वापि बहुल-केलि-कौतुकं प्रकृत्या रसाविष्टैक-स्वभावत्वेन चापलं चपलता रति-सम्भ्रमेणास्तव्यस्तता यत्र । प्रकृतिर् गुण-साम्येऽपि स्वभावामात्ययोर् अपि, स्त्रीषु पौरेषु इति मेदिनी । प्रकृष्टतया कृतौ केलि-करणे वा चापलं यस्य तत् । एवं प्रभात-समय उपसन्ने व्रजेन्द्र-द्वारि गोप-कुमाराणां तुमुल-वेणु-नाद-कोलाहले गृहे गृहे च दधि-मन्थन-ध्वनि-कोलाहले प्रगल्भ-सखीनां रात्रिर् गता लोका सञ्चरन्ति कथम् अद्यापि न जागरितम् इत्य् आदि-परिहास-वचनैः स-सम्भ्रमेण मदन-केलि-शयनाच् छ्री-कृष्णस्योत्थानम् इति निर्गलितार्थः ।

पृथ्वी छन्दः—पृथ्वी ज-सौ ज-स-य-ला गुरुः [छन्दो-मञ्जरी २] ॥२०॥

सुबोधिनी ॒ अथ तत्-केलि-शय्योत्थान-स्फूर्तिम् आशास्ते । विभोर् अखण्ड-लीलस्य मदन-केलि-शय्यात उत्थितम् उत्थानं मम मानसे स्फुरतु । भावे क्तः । कीदृशं ? वस्त्रादि-सम्भालनात् कल-क्वणितानि कङ्कणानि यत्र । अनेन प्रणयिन्या उत्थानं द्योतितम् । करेण निरुद्धं पीताम्बरं यत्र । अनेन श्री-कृष्णस्य । एवम् अग्रेऽपि । तथा, क्लमेन रति-श्रान्त्या प्रसृता विगलिताः केशा यत्र । गलिता बर्ह-भूषा यत्र । किं च, पुनः केल्य्-अवसानेऽपि प्रकृत्या नायक-स्वभावेन चापलं कपोल-स्पर्शादिकं यत्र । अत एव प्रणयिन्या कराभ्यां निरोधो यत्र ॥२०॥

सारङ्ग-रङ्गदा ॒ अथ तस्या केलि-लालसां वीक्ष्य रसिक-शेखरत्वात् पुनस् ताम् अत्युद्दीपयितुं तद्-उत्कण्ठा-चेष्टितं द्रष्टुं च रास-स्थान-गमन-च्छद्मना तद्-उत्थ्पनं तया तन्-निरोधनं च दृष्ट्वाह—विभोस् तत्-तत्-केलि-समर्थस्य मदन-केलि-शय्यात उत्थितम् उत्थानं मम मानसे स्फुरतु । भावे क्तः ।

कीदृशं ? पूर्व-कृत-लीला-विशेषे वेष-परिवर्तनेन तया परिहित-पीताम्बरस्य तेनाकर्षणात् तया रोछनाच् च द्वयोः करैर् निरुद्धं पीताम्बरं यस्मिन् । अतः कल-क्वणितानि द्वयोः कङ्कणानि यस्मिन् । पूर्वं सृता अपि क्लमेन प्रकर्षेण सृता विलुलितास् तस्याश् चूडात्वेन तस्य वेणीत्वेन बद्धाः कुन्तला यस्मिन् । अतो गलिते स्रंसिते तयोर् बर्ह-भूषे यत्र तत्र । तस्याश् चूडायां बर्हं तस्य वेणी-मूलेऽवतंस-रत्नं ज्ञेयम् । तथा, प्रकृत्या स्वभावेन द्वयोश् चापलं यस्मिन् । तया वस्त्रं त्यक्त्वा भुजाभ्यां कण्ठे गृहीत्वा तल्प उपवेशितः स इत्य् अर्थः । यद् वा, प्रकृष्टा कृतिः प्रकृतिः स्तनाधरादि-ग्रहणं तत्र चापलं कृष्णस्य यत्र ।

अतः प्रोद्यत्-कुट्टमिताख्यानुभावेन प्रणयिनी-भुजाभ्याम् अविरोधित-वाञ्छं यथा तथा कृष्ण-करयोर् यन्त्रितं यन्त्रणं यथा । तल्-लक्षणं—

स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।

बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ [उ.नी. ११.४९] इति ।

महः स्फुरत्व् इति पाठे—केलि-शयोत्थितं महः स्फुरत्व् इति ।

बाह्ये—तथा स्फूर्त्योक्तम् । निशान्ते कृष्णस्य केलि-शय्योत्थानम् इति केचित् ॥२०॥

—ओ)०(ओ—

(२१)

स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्द-स्मितं

प्रेमोद्भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोमोद्गमम् ।

श्रोतुं श्रोत्र-मनोहरं व्रज-वधू -लीला-मिथो जल्पितं

मिथ्या-स्वापम् उपास्महे भगवतः क्रीडा-निमीलद्-दृशः ॥

कृष्ण-वल्लभा ॒ पूर्वं तावन् महा-भावाविष्टेन कविना श्री-वृन्दावन-नव-निकुञ्ज-भवनोदरे विहरतोः श्री-राधा-कृष्णयोः स्फूर्तिः प्रार्थिता । सम्प्रति व्रज-सुन्दरी-जल्पित-माधुरीं श्रोतु-कामस्य श्री-कृष्णस्य कपट-निद्रा-रूपं केलिं प्रार्थयते –स्तोकेति । भगवतः सुरत-सम्भोग-शालिनः श्री-कृष्णस्य मिथ्या-स्वापं क्रीडा-पूर्वक-कपट-निद्रां वयम् उपास्महे सेवेम । बहुत्वं सजातीय-सङ्गोपापेक्षया । अथ च मिथ्या-स्वाप-विशिष्टं भगवन्तम् उपास्महे इति नोक्तं स्वाप-लीलाया एव प्राधान्य-सूचनाय । सर्वत्र भक्तानां स्वरूपापेक्षया लीलायाम् एवात्यासक्तिः, तयैव हि स्वरूपम् अत्यन्तं चमत्करोतीति । यद् वा, मिथ्या-स्वापं निद्रा-व्याजं स्वापानुकार-लीलाम् उपनीय भावनया साक्षाद् इवोपनीतं कृत्वोपास्महे रसावेशेन निश्चला वर्तामहे । तस्य कथं स्वापवद् आचरणं किम्-अर्थं वा ? तद् आह—व्रज-वधू-लीला-मिथो-जल्पितं श्रोतुं क्रीडा-निमीलित-दृशः । व्रजे या वध्वः, बध्यन्तेश्री-कृष्ण-प्रेम-रसनया, बध्नन्ति वा कृष्णं स्व-प्रेम-रसनयेति, तासां व्रज-वधूनां लीला प्रियानुकरणं वंशी-चौर्यादि-रूपा ।

अङ्गैर् वेषैर् अलङ्कारैः प्रेमिभिर् वचनैर् अपि ।

प्रीति-प्रयोजैतैर् लीलां प्रियस्यानुकृतिं विदुः ॥ [सा.द. ३.९८] इति ।

तत्-पूर्वकं मिथो रहस्य् अन्योन्यं च जल्पितम् । तच् छ्रोतुं क्रीडया कौतुकेन, न तु निद्रा-वशात्, निमीलन्त्यौ दृशौ यस्य तस्य । प्रियानुकरणं यथा छन्दो-मञ्जर्यां—

मृगमद-कृत-चर्चा पीत-कौषेय-वासा

रुचिर-शिखि-शिखण्डा बद्ध-धम्मिल्ल-पाशा ।

अनृजु-निहितम् अंसे वंशम् उत्क्वाणयन्ती

कृत-मधुरिपु-वेषा मालिनी पातु राधा ॥

कौतुक-निमीलनं, यथा पद्यावल्यां—

नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती

धृत्वा धृत्वा कनक-वलयान्य् उत्क्षिपन्ती भुजान्ते ।

मुद्राम् अक्ष्णोश् चकित-चकितं शश्वद् आलोकयन्ती

स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य ॥ [पद्या. २५३] इति ।

तत्र च निद्रा-व्याजेन केलि-कौतुकं बहुतरं प्रवर्तितम् । ताम् एव च स्वापानुकार-लीलाम् अधुनानुभूय कविर् अनुवदति—उपास्मह इति । कीदृशं जल्पितं ? श्रोत्र-मनोहरम् । श्रोत्रे मनश् च हरतीति । तादृग्-वाग्-विलासस्य मधुर-कोमल-सुश्राव्यत्वाच् छ्रोत्र-हरम् । अर्थ-गरीयस्त्वाच् च मनोहरम् । मनस आकर्षणात् सर्वेन्द्रिय-वृत्तिर् अप्य् अर्थान् निरुद्धा ।

कीदृशं स्वापं ? स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्द-स्मितं, स्तोकाद् अपि स्तोकं यथा स्यात् तथा निरुध्यमानम् । अत्यन्त-निरुद्धस्याशक्यत्वात् । मृदुलं कोमलं, मृदूर् मृद्वीर् गोप-सुन्दरीर् लाति स्वायत्तीकरोतीति वा । प्रकर्षेण स्यन्दितुं शीलम् अस्येति प्रस्यन्दि । अत्यानन्द-भरेण निर्गलत्-प्रसृमरम् । मन्दयतीति मन्दम् । तेन हि गोपीनां लज्जा-भयादिकं-सर्वं मन्दीक्रियत इति तथा-भूतं स्मितं यत्र । स्यन्दोक्त्या स्मितस्यामृत-रूपता व्यज्यते ।

पुनः कीदृशं ? प्रेमोद्भेद-निर्गल-प्रसृमर-प्रव्यक्त-रोमोद्गमम् । प्रेम्णः प्रणयस्य सर्वातिशयिनोऽनुरागस्योद्भेदोऽतिवृद्धिस् तेन निरर्गलो निरङ्कुशः प्रसृमरः प्रसरण-शीलः, अत एव प्रव्यक्तः स्पष्टो गोपयितुम् अशक्यो रोमोद्गमस् तृतीयः सात्त्विक-भावो यत्र । मन्द-स्मितस्य संवरणं कथम् अपि जातम्, गोप-सुन्दरी-संलाप-श्रवण-जायमानस्य प्रेम्णो निर्भर-वृद्ध्या पुलकोद्गमस् त्व् अशक्य-संवरण इत्य् अर्थः ॥ शार्दूल-विक्रीडितं छन्दः ॥२१॥

सुबोधिनी ॒ ततस् तत्-पूर्व-कालीन-कृष्णाचरित-स्मृत्या स्वोपास्यतया तद् आह—भगवतो व्रज-वधूनां लीलया परिहास-चातुर्येण राधया सह जल्पितं तत्-प्रागल्भ्यादि-कथनं श्रोतुं मिथ्या-स्वापम् उपास्महे । कथं तद्-अनुमितं ? क्रीडा-कौतुकेन निमीलिते दृशौ येन । तेनापि कथं तज् ज्ञानं ? स्तोक-स्तोकम् अत्यल्पम् अपि निःशेषणं रुध्यमानम् अपि मृदुलम् अपि प्रकर्षेण स्यन्दितुं शीलं यस्य तादृशं मन्द-स्मितं यत्र । तत्-सखी-वचन-श्रवणाय हास्य-रोधनम् । तत्-प्रागल्भ्य-श्रवणज-मनो-विकाशात् स्यन्दनम् । अत एव तत्-कालीन-सुख-स्फूर्त्या यः प्रेम्ण उद्भेद उद्गमस् तेन यत्नैर् अपि निरोद्धुम् अश्क्याः प्रसरण-शीलास् तत एव प्रव्यक्ता रोमोद्गमा यत्र । कथं तच्-छ्रवणेच्छा—वर्ण-सौष्ठवाच् छ्रोत्रं शिष्ठार्थतया मनश् च हरतीति तत् । श्रोत्रस्यापि मनो हरतीति वा ॥२१॥

सारङ्ग-रङ्गदा ॒ पुनर् विलासारम्भं दृष्ट्वा सखीभिः सह दूरं गत्वा लीलावसानं ज्ञात्वा पुनः कुञ्जम् आगत्य बहिः सखीनां नूपुरादि-ध्वनिं श्रुत्वा ताभिः सह तस्या नर्म-शुश्रूषया कपट-सुप्तं कृष्णम् आलोक्य स-वितर्कम् आह—भगवतः सर्व-सौन्दर्यादि-श्री-युक्तस्यास्य व्रज-वधूनां लीलया यन् मिथो-जल्पितं तच् छ्रोतुं मिथ्या-स्वापं कपट-शयनम् उपास्महे पश्यामः ।

कीदृशं जल्पितं ? तस्य श्रोत्रं मनश् च हरति तत् । अयि किम् अस्मान् हित्वा पुन्नाग-सुमनो-हरणायैकिका वने प्रविष्टासि । दिष्ट्या वनावकात् ते पराभवो न जातः । अयि श्रुतं सुद्युम्न-शिखण्डाभ्याम् अत्रागतम्, तयोर् विद्या च भवद्भ्यां शिक्षितेति किं सत्यम् इत्य् आदि सखीनां नर्म श्रुत्वा स्तोक-स्तोकम् अल्पाल्पं तेन निरुध्यमानं मृदुलं प्रस्यन्दि प्रकर्षेण विकशच् च मन्द-स्मितं यस्मिन् । आ भोः शिखण्डि-शिक्षित-विद्याचार्याः । आत्मवत् कलङ्किनीं कर्तुं दृग्-भङ्गेनास्य हस्ते मां विक्रीय प्रच्छन्नासु युष्मासु मद्-धर्म-रक्षिण्या प्रिय-सख्या निद्रयालिङ्गितेऽस्मिन् युष्मन्-नागरे एकाकिना शिखण्डिनागत्योक्तम्—ह्यः स-कृष्ण-युष्मत्-सखी-गणाधिष्ठित-कुञ्जे सख्या सुद्युम्नेन सहाहम् अगमम् । ततस् ताभिः प्रार्थ्य मत्तो मद्-विधा शिक्षिता, तेन च मत्-सख्युः सम्प्रति तद्-विद्या-नैपुण्य परीक्षार्थम् आगतोऽहम् । ताभिस् त्वद्-दीक्षार्थं प्रार्थ्य प्रेषितोऽस्मि । तत् तथा कुर्व् इति श्रुत्वा युष्मासु स-रुषा मया भर्त्सितोऽसौ वो गुरुर् ततः, तन्-मदन-प्रेक्षिकाभिर् दुर्मुखीभिर् युष्माभिः सह संलापोऽपि मया न कार्य इति तन् नर्म श्रुत्वा प्रेमोद्भेदेन निरर्गला यत्नैर् अपि निरोद्धुम् अशक्याः प्रसृमराश् च तस्य रोमोद्गमा यस्मिन् ।

बाह्ये तु तस्य श्रोत्रस्य मनो हरति । तथा हि—अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति [ब्र.सं. ५.३२] इत्य् आदि ब्रह्म-संहितायाम् । समम् अन्यत् ॥२१॥

—ओ)०(ओ—

(२२)

विचित्र-पत्राङ्कुर-शालि बाला-

स्तनान्तरं याम वनान्तरं वा ।

अपास्य वृन्दावन-पाद-लास्यम्

उपास्यम् अन्यं न विलोकयाम ॥

कृष्ण-वल्लभा ॒ अथ श्री-वृन्दावन-मञ्जु-कुञ्ज-लक्षण-विहारि-श्री-कृष्ण-मधुरोपासनोद्भूत-तत्-तद्-भावाविष्टः स्वस्य तद्-उपासनैक-दार्ढ्यम् आह—विचित्रेति । श्री-कृष्णेच्छया यदि बाला-स्तनान्तरम् । बालाया नायिकायाः, बालेति गीयते नारी यावद् वर्षाणि षोडश [नागर-सर्वस्व १०.२] इति कोके । तस्याः स्तनयोर् अन्तरं मध्यं याम गच्छाम । प्रवृत्ति-मार्ग-निष्णात-तत्-तन्-मीमांसकादि-दुर्दुरूढ-सङ्गताः परम-विषयान् भोजयामः । अग्निष्टोमेन स्वर्ग-कामो यजेत इत्य् आदि-श्रुतेः । यद् वा, यद् यथेह कर्म-जितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छा.उ. ८.१.६] इति श्रुत्या इह परम-सुखं प्राप्ताः सन्तो वनान्तरं वनस्यान्तरं मध्यं वा प्रविशाम ।

बालायाः स्तनान्तरं वनान्तरं वा कीदृशं ? विचित्र-पत्राङ्कुर-शालि, उभयोर् विशेषणम् । विविधानि विचित्राणि कस्तूरी-कुङ्कुमादिभिः कृतानि येषु तैर् एवं-भूतैः पत्राङ्कुरैः पत्रावलीभिः शाला श्लाघास्यास्तीति । वनान्तरम् अपि विचित्रैः पत्रैर् अङ्कुरैर् अभिनवोद्भेदैः शालितुं शीलं यस्येति । अङ्कुरोऽभिनवोद्भिदि इत्य् अमरः ।

तथा, वृन्दावन-पाद-लास्यम्, वृन्दावने पादयोर् लास्यं लसनं शोभा-विशेषो यस्य तम् । यद् वा, लास्यं रास-विलासि-नाना-गति-विन्यास-रूपं नृत्यं यस्य तम् । श्री-कृष्णम् अपास्य त्यक्त्वान्यत् किम् अप्य् उपास्यम् उपासनार्हम् आराध्यं वस्तु । यद् वा, उपास्यम् आस्य-समीप-स्थम् अपि न विलोकयाम न पश्याम । सर्वत्रैव हि तं विलोकयाम इति भावः । तत्र लास्यम्—ताण्डवं च तथा लास्यं द्विविधं नृत्यम् उच्यते । उक्तं च सङ्गीत-रत्नाकरे—

तण्डूक्तम् उद्धत-प्राय-प्रयोगं ताण्डवं मतम् ।

लास्यं तु सुकुमाराङ्गं मकरध्वज-वर्धनम् ॥ [७.३१-३२]

नृत्यं, यथा—

देश-रुच्या प्रतीतो यस् ताल-मान-रसाश्रयः ।

स-विलासोऽङ्ग-विक्षेपो नृत्यम् इत्य् उच्यते बुधैः ॥ इति ।

उपेन्द्र-वज्रा छन्दः ॥२२॥

सुबोधिनी ॒ अथैतत्-स्मरणोद्भूतानन्द-गर्वावेशात् स्व-सङ्गिनः प्रति तद्-उपास्यम् एव स-निश्चयम् आह—बालानाम् अत्यन्त-क्रीडा-विशिष्टानां युवतीनां स्तनान्तरं यामोऽरण्य-मध्ये वा यामः । महा-विषय-मग्ना महा-विरक्ता वा भवाम इत्य् अर्थः । वृन्दावने पाद-लास्यं यस्य तम् उपास्यं हित्वान्यम् उपास्यं कञ्चिद् अपि न विलोकयामः, उपासनायाः का वार्ता ? इत्य् अर्थः । उभयं विशिनष्टि—विचित्र-पत्राङ्कुरैः पत्र-भङ्ग-लेखाभिः शोभितम्, पक्षे पत्रैर् अङ्कुरैश् च ॥२२॥

सारङ्ग-रङ्गदा ॒ अथ रासे त्यक्त-गोपीनां तत्रागमन-शङ्कया ताः कुत्रेति ज्ञात्वा तत्रैव चम्पकादि-पुष्पाण्य् आदाय शीघ्रम् आगम्यताम् इति सखीनां प्रेरणया द्वि-त्रि-सखीभिः सह बहिर् आगत्य स्वाभीष्त-तत्-कालीन-स्व-सखी-सेवानवप्त्या स्वस्य सखी-स्नेहाधिक-सखीत्वात् स-विचारम् आह—तेनैव कुञ्जे भूषितत्वाद् विचित्र-पत्राङ्कुर-शालिनौ यौ बालायाः किशोर्याः श्री-राधायाः स्तनाव् एवान्तरे हृदि यस्य तम् । तया सह रममाणं कृष्णं वा । याम तन्-निकटे तिष्ठाम । पुष्पाद्य्-अर्थं वनान्तरं वा याम । वृन्दावन-पं कृष्णम् आदत्ते वशीकरोति तद् वृन्दावन-पादम्, दायादवत् । तादृशं लास्यं यस्य तं वृन्दावनेश्वरी-रूपं स्वस्योपास्यम् अपास्यान्यम् उपास्यं न विलोकयाम । किम् उतोपास्मह इत्य् अर्थः । यद् वा, प्रथमागतत्वात् तन्-निष्ठा-ज्ञानाय हे सखि दुःखिता एता गोपीः कृष्णेन सह सङ्गमय्य सुखयाम इत्य् अन्य-सखीनां वचः श्रुत्वा सम-स्नेह-सखी-गुणम् आश्रित्य स्व-निश्चयम् आह—कृष्णेन सहाप्राप्त-रहः-केलित्वाद् विचित्र-पत्राङ्कुर-शालिन्यो या एता व्रज-बाला आसां वियोग-नीरस-पाण्डु-च्छवीनां स्तननम् एव स्तनः शरद्-अभ्र-स्तनितम् इव विलपन-ध्वनिस् तं वा याम, तन्-मध्ये पताम ।

किं वा, पुष्पाण्य् आहर्तुं वनान्तरं वा याम । तं नवीन-युव-द्वन्द्वम् इति वक्तुम् उद्यतः पथि तयोः पादि-चिह्नान्य् आलोक्याह—वृन्दावने पाद-लास्यं ययोस् तं युव-द्वन्द्व-रत्नम् अपास्य त्यक्त्वान्यम् उपास्यं सेव्यं न विलोकयाम । किम् उतोपास्महे ।

तयोर् लक्षणं—कृष्णाद् अप्य् अधिको यासां स्नेहस् ताः सखी-स्नेहाधिका इति । कृष्णे सख्यां च सम-स्नेहात् सम-स्नेहा इति ।

बाह्ये तु, मूर्च्छितं पथि पतितं तं दृष्ट्वा, अये स ते दयितः श्री-कृष्णः सर्वान्तर्यामितया सर्वत्रास्ते, तथा विट्ठल-श्रीरङ्गादि-रूपश् च त्वया दृष्ट एव । तम् एव स्मर पश्य वेत्य् आश्वासन-परान् स्वान् प्रति स्व-निश्चयम् आह—तादृश-बाला-स्तन-मध्यं वा याम । महा-विषय-मग्ना भवाम इत्य् अर्थः । वनान्तरं वृन्दावन-मध्यम् । किं वा, स्वस्य वृन्दावनायोग्यत्वाद् वनान्तरं वा याम । तादृशं तम् अपास्येति पूर्ववत् । अत्र विचित्र-पत्राङ्कुर-शालीति स्तन-वनयोर् विशेषणम् । वृन्दावनेति विशेषण एव तात्पर्याद् विशेष्यानुक्तिः ॥२२॥

—ओ)०(ओ—

(२३)

सार्धं समृद्धैर् अमृतायमानैर्

आतायमानैर् मुरली-निनादैः ।

मूर्धाभिषिक्तं मधुराकृतीनां

बालं कदा नाम विलोकयिष्ये ॥

कृष्ण-वल्लभा ॒ सम्प्रति तद्-दर्शनानन्द-महोत्सवाशां प्रार्थयते –सार्धम् इति । मधुरा यासाम् आकृतयस् तासां मधुराकृतीनां मूर्धाभिषिक्तं वयो-रूप-लावण्यादिभिः सर्व-श्रेष्ठं राजानं वा । बालम् अलङ्कार-विशेषम् । परं पदं भूषण-भूषणाङ्गं [भा.पु. ३.२.१२] इत्य् उक्तेः । यद् वा, बाला मधुर-रसात्मिका वाण्यस्यास्तीति तं बालम् । अर्श आदिभ्योऽच् [पा. ५.२.१२७] ।

बालो ना कुन्तलेऽश्वस्य करिणश् चापि बालघौ ।

वाच्य-लिङ्गोऽर्भके मूर्खे ह्नीवेरे पुं-नपुंसकम् ।

अलङ्कारान्तरे मेरौ वाणी बाला त्रुटिः स्त्रियाम् ॥ इति मेदिनी ।

मुरल्या निनादैः ध्वनिभिः सार्धं सह । नाम सम्भावनायां प्रकाशे वा । कदा कस्मिन् काले विलोकयिष्ये । मुरली-रवस्यावलोकनीयत्वाभावेऽपि दृशोर् ज्ञान-वचनत्वम् इति समाधानम् ।

कीदृशैर् मुरली-निनादैः ? समृद्धैः स्फीटैः । माधुर्याकर्षकत्वादि-गुण-सम्पन्नैर् इत्य् अर्थः । पुनः कीदृशैः ? अमृतायमानैर् अमृतम् इवाचरद्भिः । अचेतनान् अपि जीवयद्भिर् इत्य् अर्थः । पुनः कीदृशैः ? आतायमानैर् आ समन्तात् स्वर-ग्राम-मूर्च्छनालाप-तानादिभिर् विस्तारं प्राप्नुवद्भिः । तनु विस्तारे । यद् वा, सर्वेषां किं किम् इदम् इत्य् आश्चर्येण पूजितैः । तायु पूजा-निशामन इति धातोः ।

अथवा, मधुराकृतीनां मधुरा मधुर-रस-मया आकृतयो यासां तासां गोप-सुन्दरीणां मुरली-निनादैः करण-भूतैर् मूर्धाभिषिक्तं मन्त्रिणम् । मुरली-निनादैर् एवं करणीयम् एवं न करणीयम् अस्मिन् निकुञ्जादि-स्थल एवम् अभिसर्तव्यम् एवं नाभिसर्तव्यम् इत्य् आदि मन्त्रिण-परम् । मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रियेऽपि च इति मेदिनी । ऋद्धैर् इदं वृन्दं वा आर्धं तत्-सहितं सार्धम् । गो-गोप-गोपी-कदम्ब-मध्य-स्थम् इत्य् अर्थः । अर्धं द्रुतार्धं तेन सहितं यथा स्यात् तथा समृद्धैर् निनादैश् चेति । लघुर् गुरुर् अतः परं प्लुत-द्रुत-द्रुतार्ध-द्रुत-विभाग-द्रुत-चतुर्थांशाश् च स्वर-मात्रास् तालाङ्गानि । यथा—

अर्ध-द्रुतो द्रुतश् चेति लघुर् गुरुर् अतः परम् ।

प्लुतश् चेति क्रमाद् इत्थं मधुराणि च पञ्चधा ॥ इति ।

अन्यत् समानम् । इन्द्रवज्रा छन्दः—स्याद् इन्द्र-वज्रा यदि तौ ज-गौ गः । [छ.मं. २] ॥२३॥

सुबोधिनी ॒ पुनर् दैन्योदयाद् उच्छलितोत्कण्ठया दर्शनम् आशास्ते—मुरली-निनादैः सहितं बालं कदा, नामेति सम्भावनायां, विलोकयिष्ये । कीदृशैः ? समृद्धैर् आगतालादिभिः पुष्टैः । अत एवामृतवद् आचरद्भिः । कथम् अमृतवद् आचरणं ? आतायमानैः प्रियावशी-करणाय विस्तार्यमाणैः । किम् इति बालं दिदृक्षसे ? मधुराकृतीनां मूर्धाभिषिक्तम् । मूर्धन्यम् इत्य् अर्थः ॥२३॥

सारङ्ग-रङ्गदा ॒ अथ पुष्पाण्य् आदाय ताभिः सह पुनस् तत्-कुञ्जम् आगच्छन्तम् आत्मानं भावयन् पथ्य् अत्यन्त-स्वाधीन-भर्तृकतया सौभाग्य-गर्व-मानाभ्यां रसास्वादकोत्कण्ठा-रहितां रस-पोषकान्योन्य-दौर्लभ्य-राहित्येन पर्युषित-रसाम् इव तां स्वं च दृष्ट्वा, किञ्चिद् व्यवधानेन तद्-वर्धनाय तद्-उत्कण्ठा-प्रलाप-शुश्रूषया च कुञ्जात् तिरोहिते रसिक-शेखरे तम् अन्वेष्टुं बहिर् निर्गतया स-सखी-वृन्दया विकलया श्री-राधया मिलित्वा, तम् अन्विष्य भ्रमन्तीनां सर्वासां तासां तद्-दर्शनोत्कण्ठा-प्रलयित-श्रवणोद्गतया स्वस्य बाह्यान्तर्-दशा-द्वयेऽपि तद्-दर्शनोत्कण्ठया तासां प्रलापम् एवानुवदन्न् आह त्रयस्त्रिंशता श्लोकैः । अतोऽत्रार्थ-त्रयम् अनुसन्धेयम् । उक्तं च—सम्भोगो विप्रलम्भश् च शृङ्गारो द्विविधो मतः । तत्र च—

न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते ।

कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते ॥ [उ.नी. १५.३] इति ।

विप्रलम्भोऽपि चतुर्धा—पूर्व-रागो मानः प्रेम-वैचित्त्यं प्रवासश् चेति । प्रवासश् च बुद्धि-पूर्वाबुद्धि-पूर्व-भेदेन द्विधा । बुद्धि-पूर्वोऽपि किञ्चिद् दूर-सुदूर-गमनाद् द्विधा । तत्र किञ्चिद् दूर-प्रवासाख्य-विप्रलम्भेऽस्मिंस् तासां विरहोत्पन्ना दश दशाः स्युः, यथा—

चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता ।

प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ [उ.नी. १५.१६७] इति ।

एतास् तत्-तच्-छ्लोकेषु व्याख्यास्यन्ते । तत्र—सार्धं [श्लोक २३] इत्य् आदिदिभिश् चिन्ता । अधीरं [श्लोक २७] इत्य् आदिदिभिः प्रलापः । तच्-छैशवं [श्लोक ३२] इत्य् आदिदिभिर् उद्वेगः । यावन् न मे [श्लोक ३७] इत्य् अत्र मोहश् च व्याधिश् च । आभ्यां [श्लोक ४३] इत्य् आदिदिभिर् ग्लानि-लक्षणं तानवम् ।

तत्र प्रथमं निजाश्वासन-पर-सखीः प्रति तासां तद्-दर्शन-चिन्तोत्कण्ठा-प्रलपितम् अनुवदन्न् आह—मुरली-निनादैः सार्धं तं बालं कदा नाम विलोकयिष्ये । तन्-नादम् उद्गिरन्तं तम् इत्य् अर्थः । कीदृशैः ? समृद्दहिस् तान-मूर्च्छनादि-माधुर्यैः पुष्टैः । अमृतवद् आचरतीति तथा तैः । आतायमानैः स्व-माधुर्येण ब्रह्माण्डं निर्भिद्य वैकुण्ठ-पर्यन्त-प्रसरण-शीलैः । लक्ष्म्या अप्य् आकर्षणात् । तद् उक्तं—रुन्धन्न् अम्बुभृतः [वि.मा. १.२७] इत्य् आदौ, भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः इति ।

कीदृशं तं ? मधुराकृतीनां मूर्धाभिषिक्तम्, श्रेष्ठम् इत्य् अर्थः । स्वान्तर्-दशायां—तत्-प्रेरक-सङ्केत-मुरली-नादम् उद्गिरन्तं तम् इति । अन्यत् समम् । बाह्ये तु—स्वाश्वासन-परान् स्वान् प्रत्युक्तिः । अर्थः स एव ॥२३॥

—ओ)०(ओ—

(२४)

शिशिरीकुरुते कदा नु नः

शिखि-पिच्छाभरणः शिशुर् दृशोः ।

युगलं विगलन्-मधु-द्रव-

स्मित-मुद्रा-मृदुना मुखेन्दुना ॥

कृष्ण-वल्लभा ॒ सम्प्रति दूरत एव श्री-कृष्ण-दर्शनानन्दानुभव-भावितान्तः-करणः कदा निज-करुणया मद्-दृशौ शीतयिष्यतीति प्रार्थयते—शिशिरीकुरुत इति । शिखि-पिच्छा-भरणः शिखा चूडा विद्यते येषां ते शिहिनो मयूरास् तत्-पिच्छानाम् आभरणो यस्य स श्री-कृष्णो मुखेन्दुना मुख-चन्द्रेण । स्व-प्रकाशेनामृत-स्रावित्वेन चन्द्र-साम्यम् । न्व् इति वितर्के । नोऽस्माकं दृशोर् युगलं कदा शिशिरीकुरुते तथा करिष्यति । शीतयिष्यतीत्य् अर्थः । कदा-कर्ह्योर् विभाषा [पा. ३.३.५] इति भविष्यति लट् वा । शिशुः सुकुमारोऽकठिन इति यावत् । तस्मात् कदाचित् तस्य शीतलीकरणं सम्भवति । शिशुः स्याद् बालके पुंसि सुकुमारेऽभिधेयवत् इति धरणिः । यद् वा, शिशुर् इति निज-प्रिय-वयस्य-बालक-सङ्गेन क्षणं शैशव-क्रीडासक्तत्वात् ।

कीदृशेन मुखेन्दुना ? विगलन्-मधु-द्रव-स्मित-मुद्रा-मृदुना । पुष्पतोऽत्युद्रिक्ततया विगलद् यन् मधु मकरन्दस् तद्वन् माधुर्य-चमत्कार-वान्यो द्रवः परिहासस् तद्-युक्ता या स्मित-मुद्रा ईषद्-विकाशित-कपोल-सौष्ठवान्वित-कटाक्षा-लक्षित-दन्त-पङ्कि-रूपा परिपाटी, तया मृदुना सरसेन प्रतिपदम् इति । स्निग्ध-माधुर्येनेत्य् अर्थः । द्रव-केलि-परीहासाः इत्य् अमरः । यद् वा, विगलन्-मध्व् इव मादको यो द्रवो रसस् तद्वद् यत् स्मितं तद् एवाधरामृतस्य मुद्रा बहिर् मुद्रणं तया मृदुना, मनो-हरेणेत्य् अर्थः । वैतालीयं छन्दः । तल्-लक्षणम् उक्तम् ॥२४॥

सुबोधिनी ॒ अथ स्वीयान् अप्य् उरीकृत्य तथैवाह—स शिशुर् नोऽस्माकं दृशोर् युगलं मुखेन्दुना । नु वितर्के । कदा शीतलीकरिष्यति, तद्-अदर्शन-तप्तं नेत्रं स्वं प्रदर्श्य शीतलीकरिष्यतीत्य् अर्थः । तं विशिनष्टि—शिखि-पिच्छान्य् आभरणानि यस्य । मुखस्येन्दुताम् आह—विगलन्-मधु-द्रववत् स्मितं तस्य मुद्रया भङ्ग्या मृदुना । विगलन्-मृदु-पदे च पूर्णता-व्यञ्जके । पूर्णस्यैव गलनं मृदुता च ॥२४॥

सारङ्ग-रङ्गदा ॒ अथ पुनर् मुह्यन्तीनां करुणार्द्रोऽसाव् अधुनैव दर्शनं दास्यति, मा खेदं गच्छतेति सखीभिर् आश्वासितानां तद्-दर्शन-वह्नि-ज्वाला-बलाढ-नेत्राणां तां प्रति तथोक्तिम् अनुवदन्न् आह—नु भोः सख्यः स शिशुः किशोरः श्री-कृष्णो नोऽस्माकं दृशोर् युगलं मुखेन्दुना कदा शिशिरीकुरुते तथा करिष्यति । कीदृक् ? शिखि-पिच्छाभरणं मौलिर् यस्य । कीदृशेन तेन ? विगलन्तो मधु-द्रवा यस्मिंस् तादृश-स्मितस्य मुद्रया भङ्ग्या मृदुना । स्वान्तर्-दशायां—प्रेयसी-प्रेरण-हर्षज-तादृश-स्मितस्यान्यतो यन् मुद्रणं गोपनं तेन मृदुना । बाह्ये तु पूर्ववत् ॥२४॥

—ओ)०(ओ—

(२५)

कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन

तारुण्य-संवलित-शैशव-वैभवेन ।

आपुष्णता भुवनम् अद्भुत-विभ्रमेण

श्री-कृष्ण-चन्द्र शिशिरीकुरु लोचनं मे ॥

कृष्ण-वल्लभा ॒ पुनर् अप्य् अत्युत्सुकतया शिशिरीकरणम् आशास्ते—कारुण्येति । भो अद्भुत श्री-कृष्ण-चन्द्र ! श्री-युक्त-कृष्ण-वर्ण-चन्द्र ! एतेनाद्भुतत्वम् अन्य-चन्द्राद् वैलक्षण्यं चोक्तम् । श्री-युक्तत्वेनासङ्ख्य-सम्पूर्ण-कलावत्त्वान् निष्कलङ्क-पूर्णामृत-चन्द्रिकावत्त्वादि चोक्तम् । कृष्णत्वेनाद्भुतत्वं नित्यानन्द-रस-मयत्वान् मधुर-रस-मयत्वं चोक्तम् । मे मम लोचनं, जात्या चैक-वचनम् । विभ्रमेण विलासेन शिशिरीकुरु शीतलीकुरु । अन्यत् कण्ठा-बाहुल्येन प्रार्थायां लोट् । त्वं तु चन्द्र इव चन्द्रः, मल्-लोचनं चेन्द्रीवरम्, चन्द्रस्येन्दीवर-शीतलीकारः प्रसिद्ध एव । तत् कथं न करोषीति काकुः ।

कीदृशेन विभ्रमेण ? कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन । कारुण्यं करुणा तेन कर्बुरं विचित्रम्, मिश्रितम् इति यावत् । तत् कटाक्ष-पूर्वकं निरीक्षणं यत्र तेन । चित्रं किर्मीर-कल्माष-शबलैताश् च कर्बुरे इत्य् अमरः ।

पुनः कीदृशेन ? तारुण्य-संवलित-शैशव-वैभवेन । तारुण्यं तरुणिमा तेन संवलितं यच् छैशवं शिशोर् भावश् चपलता, तस्य वैभवं प्रभुत्वं यत्र तेन ।

पुनः कीदृशेन ? भुवनं जगद् आपुष्णता, सर्वतो मधुर-माधुरी-चमत्कार-पोषकेनेत्य् अर्थः । त्रिभुवनम् एव त्वदीय-विलासेन जीवतीति स्वानुभवानन्द-सन्दोहतः समत्वम् ।

अथवा, हे श्री-कृष्ण-चन्द्र ! श्रयते सर्वातिशायिनी रूप-नव-यौवन-वयो-माधुर्य-लावण्य-लीला-विलास-वैदग्ध्यादि-सम्पत्तिर् या सा श्रीः राधा, तद्-युक्त-कृष्ण-चन्द्र ! कारुण्यं विद्यते यस्य तत्-सम्बोधनं कारुण्य करुणा-निधे ! कर्बुरयोः परस्परावलोकनानुराग-चित्रयोः कटाक्षयोस् तत्-पूर्वक्योर् यन् निरीक्षणं तेन । तारुण्यं तरुणिमा तेन संवलितं शैशवस्य सौकुमार्य-वैभवं तेन च ।

अथवा, अद्भुत-विभ्रमेणाश्चर्य-विलासेन मल्-लोचनं शिशिरीकुर्व् इति कारुण्यादि पृथक् पृथग् विशेष्य-पदैर् व्याख्येयम् । तन्-मध्ये भुवनम् आपुष्णतेति पद-त्रयेऽपि विशेषणं कर्तव्यम् ॥ वसन्त-तिलकं छन्दः ॥२५॥

सुबोधिनी ॒ अथात्युत्कण्ठया स-दैन्यं स्वयम् एव प्रार्थयते श्री-कृष्ण-चन्द्र कारुण्येन कर्बुरः शबलो यः कटाक्षस् तेन यन् निरीक्षणं तेन करुणा-पूर्णावलोकनेन मम लोचनं शीतलीकुरु । लोचनान्तेक्षणेनाप्य् एकम् अपि लोचनम् इति स-दैन्य-लालसोक्तिः । तल्-लालसाम् एव व्यनक्ति—तारुण्येन मिश्रितं यच् छैशवं कैशोरं यस्य वैभवं स्मितादि-सम्पद् यत्र । अत एवाद्भुत-विलासेन भुवनम् आपुष्णता पोषयता । ताप-हरणत्वेनेन्दोः साम्यम् । इन्दुर् यथार्क-तप्तं जगत् स्वांशुभिः शीतलयति, तथा त्वम् अपि स्व-वीक्षणेन मन्-नेत्रम् इति भावः ॥२५॥

सारङ्ग-रङ्गदा ॒ अथात्युत्कण्ठया श्री-कृष्णम् एव पृथक् पृथक् प्रार्थयमानानां वचोऽनुवदन्न् आह—हे कृष्ण-चन्द्र ! कारुण्येन कर्बुरं चित्रं यत् कटाक्ष-निरीक्षणं तेन मे लोचनं शिशिरीकुरु । करुण-रसस्य चित्र-वर्णत्वात् कर्बुरत्वम् । कीदृशेन ? तारुण्य-संवलितं शैशवं कैशोरं तस्य वैभवेन सम्पद्-रूपेण । तथा भुवनम् अप्य् आपुष्णता सम्यक् स्थूलीकुर्वता । तथा, अद्भुतो विभ्रमो विलासो यस्य तेन । कृष्णस्य चन्द्र-रूपकत्वेन स्व-लोचनयोर् विरहार्क-प्रतप्त-कुमुदत्वं ध्वनितम् । यद् वा, निरीक्षणेन वैभवेन विभ्रमेण च मे लोचनं तथा कुरु । आपुष्णतेति त्रयाणां विशेषणम् । चन्द्रोऽपि तथा करोतीति रूपकम् ।

स्वान्तर्-दशायां तु—प्रेयसी-प्रेरण-रूपं तन्-निरीक्षणम् । अन्यत् समम् । बाह्ये स्पष्टम् ॥२५॥

—ओ)०(ओ—

(२६)

कदा वा कालिन्दी-कुवलय-दल-श्याम-तरलाः

कटाक्षा लक्ष्यन्ते किम् अपि करुणा-वीचि-निचिताः ।

कदा वा कन्दर्प-प्रतिभट-जटा-चन्द्र-शिशिराः

कम् अप्य् अन्तस्-तोषं दधति मुरली-केलि-निनदाः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-चरण-सरोज-मकरन्दानन्दानन्दितान्तः-करणस् तद्-विच्छेदं प्राण-विच्छेदम् इव मन्वानो महा-तीव्र-भाव-भावना-गृहीत-चेतास् तत्-केलि-विशेष-दर्शनज-सन्तोष-विशेषाभिलाषम् अभिलषति—कदा वेति । पुरो-वर्तिनस् तस्य कटाक्षाः । कटन्ति विविध-रसान् वर्षन्त्य् अक्सीणि दृष्टयो येषु ते । कटे वर्षावरणयोः इति धातुः । बहुव्रीहौ सक्थ्य्-अक्ष्णोः स्वाङ्गात् षच् [पा. ५.४.११३] इति सूत्रेण षच् । कदा वा लक्ष्यन्ते ? लक्षिष्यन्त इत्य् अर्थः ।

कीदृशाः कटाक्षाः ? कालिन्दी-कुवलय-दल-श्याम-तरलाः । कालिन्दी-स्थ-कुवलय-दलानीव श्यामाश् च ते तरलाश् च । श्री-विग्रहस्य कृष्णिम्ना कालिन्दी-कुवलयेति कालिन्दी-शब्दोपादानम् । तस्याः स्रोतो-जलत्वेन कुवलय-चापल्यं च । तेन श्री-विग्रहस्य कालिन्दी-रूपता तत्-स्थ-कुवलयस्य कटाक्ष-रूपतेति ध्वनितम् ।

पुनः कीदृशाः ? किम् अपि करुणा-वीचि-निचिताः । किम् अप्य् अनिर्वचनीयं यथा स्यात् तथा करुणा-वीचिर् अधिकाधिकता तया निचिता व्याप्ताः । कुवलय-दलान्य् अपि वीचिभिस् तरलानि भवन्ति । दर्शनानन्तरं मुरल्या नाम-ग्राहम् आहूय परिहासं करोतीति तद्-अनुभवेन तथैव चाभिलषति । तद् आह—कदा वेति । शब्द-द्वयं द्वयोः प्राधान्यार्थम् । कदा वा मुरली-केलि-निनदा मुरली-सम्बन्धिनः केलि-निनदाः क्रीडार्थं ध्वनयः कम् अप्य् अनिरूप्यम् अन्तस्-तोषम् अन्तःकरण-सन्तोषम् । अन्तर् अन्तर् आत्मनि यस् तोषस् तं वा । अस्माद् अन्यः सर्वोऽपि सन्तोषो बाह्य इति । दधति धास्यन्ति । अविच्छिन्न-सन्तोष-धारां कुर्युर् इत्य् अर्थः ।

कीदृशा निनदाः ? कन्दर्प-प्रतिभट-जटा-चन्द्र-शिशिराः । कन्दर्प-प्रतिभटः श्री-रुद्रस् तस्य जटा-वर्ती यश् चन्द्रः स हि तुहिन-गिरि-निस्यन्दि मन्दाकिनी-निर्झराप्लुतोऽतिशीतलः । ततोऽपि शिशिराः । महा-दुरन्त-सन्तोष-निर्वापका इत्य् अर्थः । हर-शिरश् चन्द्रस्य गङ्गा-सङ्गाद् अतिशीतलत्वं कला-मात्र-प्रसिद्धत्वान् निनादस्य सूक्ष्मत्वं चोक्तम् । नादः पञ्चधा—अतिसूक्ष्मश् च सूक्ष्मश् च पुष्टोऽपुष्टोऽथ कृत्रिमः [सङ्गीत-रत्नाकर १.३५] इति । तेन कन्दर्प-दमनत्व-शीतलत्व-सूक्ष्मत्वानि व्यङ्ग्यानि ॥

शिखरिणी छन्दः—रसै रुद्रैश् छिन्ना य-म-न-स-भ-ला गः शिखरिणी [छ.मं. २] ॥२६॥

सुबोधिनी ॒ एवं वर्णयन् मुरली-नाद-कटाक्षयोर् अतिशैत्य-स्फूर्त्या पुनर् उत्कण्ठया तथैव प्रार्थयते—ते कटाक्षाः कदा वा लक्षिष्यन्ते ? कीदृशाः ? कालिन्दी-कुवलय-दलतोऽपि श्यामाश् च चञ्चलाश् च । कालिन्दी-कुवलयेत्य् अनेनातीव नीलत्वं स्निग्धत्वं ताप-हारित्वं च व्यञ्जितम् । तद् उपपादयन्न् आह—किम् अप्य् असाधारणी या करुणा तस्या वीचिभिः खचिताः । तादृग् भाग्यं चेन् नास्ति, तदा दूरतोऽपि मुरल्याः केलौ ये निनदाः प्राग्-उक्तास् ते । कदा वा कम् अप्य् अन्तस्-तोषं दधति धास्यन्ति ? तेषां ताप-शमकत्वं व्यनक्ति—कन्दर्पस्य प्रतियोद्धुः शिवस्य जटा-स्थित-चन्द्रतोऽप्य् अतिशीतलाः । जटा-स्थित-गङ्गा-सम्बन्धेन स्हज-शीतलस्येन्दोर् अतिशैत्यम् ॥२६॥

सारङ्ग-रङ्गदा ॒ पुनर् मुह्यन्तीनां मा खेदं गच्छताधुनैव मुरलीं वादयन् कृष्णः कटाक्षावलोकेन वः प्रीणयिष्यतीत्य् आश्वासयन्तीः सखीः प्रति सोत्कण्ठ-प्रश्न-प्रलापान् अनुवदन्न् आह—हे कटाक्षाः ! कदा वा लक्ष्यन्ते लक्षिष्यन्ते ? तत् कथयेतीति शेषः । इत्य् उत्कण्ठोक्तिः । किं वा,

नालीकिनीं निशि घनोत्कलिकाम् अशङ्कं

क्षिप्त्वावृतीर् अतनु-वन्य-गजः क्षुणत्ति ।

अत्रानुरागिणी चिराद् उदितेऽपि भानौ

हा हन्त किं सखि सुखं भविता वराक्याः ॥ [वि.मा. ३.१३] इतिवत् ।

इदानीं म्रियामहे, कदा वा ते कटाक्षा लक्षिष्यन्ते, ते वा कदा तोषं धास्यन्तीति नैराश्योक्तिः । कीदृशः ? कालिन्दी-कुवलयानां दलतोऽपि श्यामलतरा अतिश्यामाः । श्याम-तरला इति पाठे—ततोऽपि श्यामास् तरलाश् च । अत्र कुवलय-शब्देन श्यामल-शब्द-साहचर्यान् नीलोत्पलम् एवोच्यते । किम् अप्य् अनिर्वचनीया याः करुणा-वीचयस् ताभिर् निचिताः खचिताः ।

तथा भाग्यं नास्ति चेत्, तदा दूरतोऽपि ते मुरल्याः केलि-निनदाः कम् अप्य् अन्तस्-तोषं कदा वा दधति धास्यन्ति ? तेषां वियोगज-कामाग्नि-दाहनाशकातिशैत्यम् आह—कन्दर्प-प्रतिभटस्य रुद्रस्य जटा-स्थित-चन्द्रतोऽप्य् अतिशिशिराः । जटारण्य-च्छाया-शीतल-गङ्गा-जल-प्लावितत्वाच् चन्द्रस्यातिशैत्यम् उक्तम् । तथा कन्दर्प-प्रतिभट-शब्देन कामापयानं च सूचितम् ॥

स्वान्तर्-दशायां—प्रेयसी-प्रेरण-कटाक्ष-वेणु-नादा ज्ञेयाः । बाह्यार्थः स्पष्टः ॥२६॥

—ओ)०(ओ—

(२७)

अधीरम् आलोकितम् आर्द्र-जल्पितं

गतं च गम्भीर-विलास-मन्थरम् ।

अमन्दम् आलिङ्गितम् आकुलोन्मद-

स्मितं च ते नाथ विदन्ति गोपिकाः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-दर्शनानुभव-विशेषं सर्वातिशायिनं जानन् आत्मनः परम-महा-लालसां सूचयति—अधीरम् इति । हे नाथ प्रभो ! गोप्य एव गोपिकाः । अनुकम्पायां कन् । ता एव विदन्त्य् अनुभवन्ति, आस्वादयन्तीति यावत् ।

तत् किं ? ते तवाधीरं चञ्चलं प्रतिक्षणम् अन्यतरद् आलोकितम् आलोकनम् । सहसा दर्शनं यत् तद् आलोकितम् उदीरितं [सङ्.र. ७.४९१] इति सङ्गीत-रत्नाकरे । यद् वा, न धीराः स्थिरा येन तत् । धियोऽभावोऽधीर् मोहस् तं राति ददातीत्य् अधीरम् इति वा । आर्द्रं सरसं जल्पितं यत्र तत् ।

न केवलम् आलोकितम् एवाधीरम्, गतं च क्षणम् इतः क्षणम् अन्यतः क्षणम् इतस् ततश् चेत्य् एवं-रूपम् । गम्भीरैर् गूढाभिप्रायैर् विलासैर् मन्थरम्, मथ्नाति सर्वेषां मनांसीति । यद् वा, गम्भीरवद् गम्भीर-वेदिवन् मत्त-गजेन्द्रवद् यो विलासस् तेन मन्थरम् । मन्दं मन्दम् इत्य् अर्थः । तथा चोक्तम्—

त्वङ्-मांस-रुधिर-स्रावन्-मांसस्य गलनाद् अपि ।

संज्ञां न लभते यस् तु विद्याद् गम्भीर-वेदिनम् ॥

न केवलं गतम् अधीरम्, अमन्दं गाढम् आलिङ्गितं च । कीदृशं ? आकुलोन्मद-

स्मितं, आकुलयतीत्य् आकुलम् उन्मदयत्य् उच्चैर् मदयति हर्षयतीत्य् एवं-भूतम् उन्मदं स्मितम् ईषद् धास्यं यस्मिंस् तत् ॥

वंश-स्थविलं छन्दः—वदन्ति वंश-स्थविलं ज-तौ ज-रौ [छन्दो-मञ्जरी २] इति ॥२७॥

सुबोधिनी ॒ स्व-प्रार्थितम् एतत् सर्वं तत्-प्रिय-सखी-जनानुगत्य्-अधीनम् इति विचिन्त्य तद्-एक-वेद्यतयानुवर्णयन्न् आह—हे नाथ ! ते धैर्य-रहितम् आलोकितं गोपिका राधिका-सख्य एव जानन्ति, न त्व् अन्याः । स्व-सखी-विषयक-भावाभिव्यञ्जकतया तद्-एक-गम्यम् इत्य् अर्थः । किं च, तद्-अर्थम् आर्द्रेण स्निग्धेन सह तव जल्पितम् अन्यापदेशेन कथनम् । अन्यद् अपि—गम्भीरोऽवगाहितुम् अशक्यो यो विलासोऽत्व्यवेश-वैवश्यं तेन मन्थरं गमनं च । तथा, प्रिय-नर्म-सखीषु गाढालिङ्गनम् । आकुलम् उन्मदं यत् स्मितं तच् च । अत्यावेशेन चेतसो विकाशात् स्मितस्य व्याकुलतोन्मदत्वेनोक्तिः । एतज्-जन्य-सुखानां तद्-एक-वेद्यत्वात् तत्-प्रसाद-लभ्यम् एवैतद् इति तात्पर्यम् ॥२७॥

सारङ्ग-रङ्गदा ॒ इतः परं श्री-राधाया उन्मादावस्थोत्थ-प्रलापानुवदनं यावत् कृष्ण-दर्शनम् । तत्र प्रथमं तस्याश् चित्र-जल्पाख्य-प्रलपितम् अनुवदन्न् आह पञ्चभिः श्लोकैः । अथान्या व्रज-देव्यो, जयति तेऽधिकं जन्मना [भा.पु. १०.३१.१] इत्य् आदिवत् तद्-गुण-गानालम्बना बभूवुः । श्री-राधा तु मूर्च्छन्तो सखीभिः श्री-कृष्ण-कण्ठ-मालां नासायां न्यस्य प्रबोधिता ।

तथा, अयि सरले ! शठस्यातिदुःखदां चिन्तां विहाय क्षणं सुखिनी भवेति सखी-वचनात् तथा प्रयत्नं कुर्वती, ताभिर् वर्णित-तद्-गुण-श्रवण-विकला, एता वारयतेति सखीः प्रति कथयन्त्य् एव दिव्योन्मादोन्मत्ता पुरः स्थितं स्व-कुच-घुसृणाञ्च्तम् अप्य् अन्यासम्भुक्तं प्रिये तव मद्-गुण-गान-श्रवणाद् आगतोऽस्मि प्रसीदेत्य् अनुनयन्तम् इव तं मत्वा सेर्ष्यौदासीन्यं स्वाभिज्ञत्व-प्रकाशं यत् प्रललाप तद् अनुवदन्न् आह—हे नाथेत्य् औदासीन्येन ।

गोपिका एव, निन्दार्थे क-प्रत्ययः । एता अविदग्धा एव । तेऽधीरं सर्व-त्यागेनाश्रितायाम् अपि कस्याम्चित् स्थैर्य-रहितम् आ ईषल् लोकितम् । अधीरं मदिर-नर्तनम् इव मनोज्ञम् । शरद्-उदाशये [भा.पु. १०.३१.२] इत्य् आदिना वदन्ति गायन्ति । विदन्तीति पाठे—जानन्ति । तथा, धूर्तस्य ते जल्पितम् आ ईषद् आर्द्रम् । व्याधानाम् इव मुख एवार्द्रं यज् जल्पितं गम्भीर-विलासेन पूतना-वध-वासनैधित-स्त्री-वधेच्छा-स्वरूपेण मन्थरं स्थगितम् अपि स्निग्ध-गम्भीर-नर्म-सूचक-शब्दार्थ-ध्वनि-रूप-विलासेन मन्थरं वदन्ति । मधुरया गिरा [भा.पु १०.३१.८] इत्य् आदिना गायन्ति । उक्तं च—

मुखं पद्म-दलाकारं वाचः पीयूष-शीतलाः ।

हृदयं कर्तरी-तुल्यं त्रिविधं धूर्त-लक्षणम् ॥ इति ।

तथा, गतं गमनं रसात् कुञ्जतश् चालक्षितान्तर्धानाज् ज्ञातुम् अशक्या यो विलासस् तेन मन्थरम् अपि मत्त-गजस्येव गम्भीर-विलास-मन्थरं, वर्ष्म-धुर्य-गतिः [भा.पु. १०.३५.१६] इत्य् आदिना गायन्ति ।

तथा आलिङ्गितम् अमन्दं, न विद्यते मन्दं पद-दाहकं यस्मात् तादृशम् अप्य् अमन्दं गाढं पीन-स्तनी-गण-सुखदं वदन्ति—आलिङ्गन-स्थगितं [भा.पु. १०.२१.१५] इत्य् आदिना गायन्ति ।

तथा, प्रेक्षकान् आकुलयतीत्य् आकुलं, तच् च तान् एवोन्मदयति ग्लेपयतीत्य् उन्मदं च तादृशं यत् स्मितम् । कीदृशं ? अमन्दम् । न विद्यते मन्दं पर-दाहकं यस्मात् तादृशम् अप्य् अमन्दं सर्व-सुखदम् । निज-जन-स्मय-ध्वंसन-स्मित [भा.पु. १०.३१.६] इत्य् आदिना गायन्ति । मदी-धातोर् ग्लेपनार्थे, घटादित्वाद् वृद्ध्य्-अभावः [पा. ६.४.९२] ।

किं वा, सोल्लुण्ठम् आह—एता एव तवालोकितादिकम् अधीरम् अधैर्यं वदन्ति । अहं तु मनोज्ञं वदामीति विपर्ययेण व्याख्येयम् । तत्र दिव्योन्माद-लक्षणं यथोज्ज्वल-नीलमणौ पूर्वोक्तो यः प्रेम्णः परावस्था-रूपो भावः स द्विविधो रूढोऽधिरूढश् च । अधिरूढोऽपि द्विधा मोदनो मादनश् च । मोदन एव विश्लेष-दशायां मोहनो भवति ।

एतस्य मोहनाख्यस्य गतिं कामप्य् उपेयुषः ।

भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥

उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः ॥ [उ.नी. १४.१९०-१९१] इति ।

तत्र चित्र-जल्पः—

प्रेष्ठस्य सुहृदालोके गूढ-रोषाभिजृम्भितः ।

भूरि-भाव-मयो जल्पश् चित्र-जल्पः स उच्यते ॥ [उ.नी. १४.१९५] इति ।

सुहृद्-आलोक इति तस्य तदीयानां चोपलक्षणम् । स च दशाङ्गः । प्रजल्प-परिजल्प-विजल्पोज्जल्प-सञ्जल्पाभिजल्पाजल्प-प्रतिजल्प-सुजल्पाः । एष श्री-दशमे भ्रमर-गीतायां व्यक्त एव । तत्र श्लोक एवायं प्रजल्पः । तल्-लक्षणं—

असूयेर्ष्या-मद-युजा योऽवधीरण-मुद्रया ।

प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ [उ.नी. १४.१९९] इति ।

यथा मधुप [भा.पु. १०.४७.१२] इत्य् आदि गोपिका एव वदन्ति । तथार्द्र-जल्पितम् इत्य् आजल्पोऽपि । तल्-लक्षणं—भङ्ग्यान्य-सुखद-प्रिय-जैह्म्योद्गार आजल्पः । यथा वयम् अमृतम् इव [भा.पु. १०.४७.१९] इत्य् आदि ।

एता एव नाहम् इति स्व-वैचक्षण्य-व्यक्त्यागतं चेति परिजल्पश् च । तल्-लक्षणं—

तन्-निर्दयता-शाठ्याद्य्-उक्त्या स्व-विचक्षणता-व्यक्तिः परिजल्पः । यथा सुमनस [भा.पु. १०.४७.१३] इत्य् आदि ।

अधीरम् इति सञ्जल्पः । तल्-लक्षणं—सोल्लुण्ठयाक्षेप-मुद्रया तद्-अकृतज्ञतोद्गारः सञ्जल्पः, यथा स्व-कृत इह विसृष्टा [भा.पु. १०.४७.१६] इत्य् आदि ।

अमन्दम् आलिङ्गितम् इत्य् अवजल्पः । तल्-लक्षणं—स-भयेर्ष्यया तत्-काठिन्य-कामितोद्गारोऽवजल्पः । यथा स्त्रियम् अकृत विरूपां [भा.पु. १०.४७.१७] इत्य् आदि ।

आकुलोन्मद-स्मितम् इत्य् उज्जल्पः । तल्-लक्षणं—स-गर्वेर्ष्यया तत्-कुहकताख्यानेन तद्-आक्षेप उज्जल्पः । यथा कपट-रुचिर-हास [भा.पु. १०.४७.१५] इत्य् आदि ।

स्वान्तर्-दशायां—श्री-राधा-त्यागज-रोषात् तथोक्तिः । बाह्ये—गोपिका एव मधुरत्वेन वर्णयितुं जानन्ति ॥२७॥

—ओ)०(ओ—

(२८)

अस्तोक-स्मित-भरम् आयतायताक्षं

निःशेष-स्तन-मृदितं व्रजाङ्गनाभिः ।

निःसीम-स्तवकित-नील-कान्ति-धारं

दृश्यासं त्रिभुवन-सुन्दरं महस् ते ॥

कृष्ण-वल्लभा ॒ सम्प्रति रास-क्रीडायां रास-रसोन्मत्ततया विचित्राभिर् व्रज-सुन्दरीभिः प्रत्येकम् उपकृष्णं मन्यमानाभिः प्रगाढतरम् आलिङ्ग्यमानं श्री-कृष्णं द्रष्टुम् आशास्ते—अस्तोकेति । हे कृष्ण ! ते तव महः परम्.आश्चर्य-ज्योतिर्-मयं वा वपुर् अहं दृश्यासं द्रष्टुम् आशासे । दृश्यासम् इत्य् आशिषि लिङि रूपम् ।

कीदृशं महः ? अस्तोक-स्मित-भरम् । अस्तोकम् अनल्पं यत् स्मितं तस्य भरोऽतिशयो यत्र तत् । ईषद्-अर्थे वा नञ् । अस्तोकम् ईषत्-स्तोकम् अत्यल्पत्वेऽप्य् अतिशयो लक्ष्यते यत्र । अस्तोक-स्मितेन बिभर्ति पुष्णातीति वा ।

पुनः कीदृशं ? आयतायताक्षम् । आयतायते आयताद् अप्य् आयते प्रीत्या विस्फारितेऽक्षिणी यत्र तत् ।

पुनः कीदृशं ? व्रजाङ्गनाभिर् निःशेष-स्तन-मृदितम् । व्रज-सम्बन्धिनीभिर् अङ्गनाभिः । प्रशस्तान्य् अङ्गान्य् आसां सन्तीति प्रशंसायां न-प्रत्ययः । निःशेषं यथा भवति तथा स्तनाभ्यां मृदितम् ।

पुनः कीदृशं ? निःसीम-स्तवकित-नील-कान्ति-धारं, निःसीमं यथा भवति तथा स्तवकिता । यथा यथा व्रजाङ्गनाभिः स्तन-मृदितं भवति, तथा तथा स्तवकित-नील-विस्तारं प्राप्ता नील-कान्तिर् नीलमणेः कान्तिर् वा धारयतीति तत् । अयं भावः—नीलिम-कृष्ण-वपुषि शृङ्गार-रस-मयत्वाद् असाधारण-चमत्कार एव कैशोरे । तत्रापि स्वानुरक्त-व्रज-विलासिनी-सहित-रास-क्रीडायां शृङ्गार-रसस्यातिपरमोद्रेकान् नीक-कान्तीनां परम-महा-चमत्कारोऽभवद् इति ।

पुनः कीदृशं ? त्रिभुवन-सुन्दरम् । त्रिभुवनेष्व् इदम् एव रास-रसाविष्टं श्री-कृष्ण-स्वरूपं सुन्दरम् । न हि त्रैलोक्य-वर्तिना केनापि व्रज-वासि-पर्यन्तेनेदृश-सौन्दर्यवान् कृष्णो दृष्ट इत्य् अर्थः । त्रिभुवनं सुन्दरं येन वा ।

प्रहर्षिणी छन्दः—त्र्याशाभिर् म-न-ज-र-गाः प्रहर्षिणीयं [छन्दो-मञ्जरी २] ॥२८॥

सुबोधिनी ॒ पुनः शय्योत्थित-श्री-कृष्ण-स्फूर्त्या तद्-दर्शनम् आशास्ते—ते महस् तव कान्ति-पूरं दृश्यासम् । कीदृशं ? अनल्प-स्मितस्यातिशयो यत्र । तत्र हेतुः—आयते सहज-दीर्घे प्रिया-स्मेरास्येक्षणायात्यायते नेत्रे यत्र । तत् स्मितम् अपि कथं ? व्रजाङ्गनाभिस् तत्-सखीभिः सम्पूर्ण-स्तनैर् मृदितं गाढालिङ्गितम् । स्व-प्रेरित-प्रिय-सुख-शंसि तद्-आश्लेषालोकोल्लासात् स्मितमिदम् । अत एव निःसीमम् अवधि-शून्यं यथा स्यात् तथा तत्-स्तन-चिह्न-स्तवकैर् व्याप्ता नील-कान्ति-धारा यत्र । पुनः तत्-स्मरणादिना त्रिभुवनं सुन्दरं यस्मात् ॥२८॥

सारङ्ग-रङ्गदा ॒ अथ क्षणात् तं तत्रापश्यन्त्य् अवधीरणया गतम् इव मत्वा जात-पश्चात्-तापा सोत्कण्ठं चतुः-श्लोकीम् आह । सैव सुजल्पः । तल्-लक्षणं—

यत्रार्जवात् स-गाम्भीर्यं स-दैन्यं सह-चापलम् ।

सोत्कण्ठं च हरिः पृष्टः स सुजल्प इति स्मृतः ॥ [उ.नी. १४.२१७]

यथा अपि बत [भा.पु. १०.४७.२१] इत्य् आदि । तत्र यथा चतुर्षु पादेषु गाम्भीर्याद्याश् चत्वारो भावा व्यक्तास् तथात्र चतुर्षु श्लोकेषु । तथा प्रथमं दर्शनोत्कण्ठया, अपि बत इति प्रथम-पादवत् स-गाम्भीर्यं तत्-प्रलपनम् अनुवदन्न् आह—ते तव महः सौन्दर्य-पूरम् अप्य् अहं दृश्यासम् । यथा तत्र मथुरा-स्थित्या कदाचिद् आगमनम् अपि सम्भवेत् तथात्रापि तत्-कान्ति-दर्शने जाते तद्-दर्शनम् अपि सम्भवेद् इति गाम्भीर्यम् ।

कीदृशं ? निःसीमं सौन्दर्यादिनावधि-शून्यम् । मां त्यक्त्वान्यत्र गमनान् निर्मर्यादम् अपि । अतोऽन्यासङ्ग-लग्न-चन्दन-कुङ्कुम-यावकादिना स्तवकिता नील-कान्ति-धारैव लता यस्मिन् । अन्यासङ्ग-गोपनेन मत्-प्रतारणायास्तोकोऽनल्पः स्मित-भरो यस्मिन् । तथा, तेनैव हेतुनायतायतेऽत्यायतेऽक्षिणी यत्र ।

नन्व् अन्याङ्गना-सम्भुक्तं माम् अवधीर्य पुनः किम् इति दिदृक्षसे ? इति मनस्य् उट्टङ्क्य स-दैन्यम् आह—निःशेषैः स्तनैः सर्वाभिर् व्रजाङ्गनाभिर् अपि, किम् उतैकया, मृदितम् अपि । मम सुखदम् इत्य् अर्थः । सर्वत्र हेतुः—त्रिभ्व् इति । त्रिभुवनम् एव सुन्दरं यस्मात् ।

स्वान्तर्-दशायां प्रेयसी-प्रेरणाय स्मितायताक्षादि-विशिष्टं तद् इत्य् अर्थः । बाह्यार्थः स्पष्ट एव ॥२८॥

—ओ)०(ओ—

(२९)

मयि प्रसादं मधुरैः कटाक्षैर्

वंशी-निनादानुचरैर् विधेहि ।

त्वयि प्रसन्ने किम् इहापरैर् नस्

त्वय्य् अप्रसन्ने किम् इहापरैर् नः ॥

कृष्ण-वल्लभा ॒ इदानीं स्वाभीष्ट-पदवी-लाभाय श्री-कृष्णं प्रार्थयते—मयीति । हे व्रज-नाथ ! मधुरैर् मधुर-रस-मयैः । यद् वा, मधूनि मादकानीतर-रस-विस्मारकाणि प्रेम-रस-रूपाणि रान्ति ददतीति तादृशैः कटाक्षैस् तारका-गतागत-विश्रान्ति-सहित-विचित्र-वर्तना-पूर्वक-नयन-भङ्गीभिः प्रसादं प्रसन्नतां विधेहि कुरु । कीदृशैः कटाक्षैः । वंशी-निनादानुचरैः । वंशी-निनादा अनुचरन्ति येषु तैः । वंशी-निनादान् अनुचरन्तीति वा । अत्र किं ब्रूमः—त्वयि प्रसन्ने एवं प्रसादं कृतवति सतीहेदृशेऽतिदुर्लभेऽप्य् उद्देश्य-वस्तुनि तत्-प्राप्ताव् अपरैः साधनैः किं ? त्वत्-प्रसाद-मात्रेण स्याद् इत्य् अर्थः । त्वय्य् अप्रसन्ने एतादृश-प्रसादम् अकुर्वति । त्वं चेन् न प्रसीदसीत्य् अर्थः । अपरैः साधनैः किं ? फलानिष्पत्तेः । विघ्न-सहस्र-सम्भवाद् इति भावः । अस्मज्-जीवन-सर्वस्व-भूतत्वान् नाम-श्रवण-मात्रम् एव परम् । यदि पुनस् त्वं वंशी-नादानुचर-कटाक्षामृतेनास्मान् सिञ्चसि, तदा किं वक्तव्यम् इति महान् उत्कर्ष-चमत्कारः ॥ उपेन्द्र-वज्रा छन्दः ॥२९॥

सुबोधिनी ॒ ततस् तत्-स्फूर्त्य्-आनन्दावेशेन स-गर्वम् आह—हे नाथ ! मधुरैः कटाक्षैर् मयि प्रसादं कुरु । तन्-माधुर्यम् एव व्यनक्ति—वंशी-निनादं पुनः केलौ प्रिया-प्रेरण-रूपम् अनुचरन्ति ये तैः । तेन किं स्यात् ? त्वयि प्रसन्नेऽपरैर् अप्रसन्नैर् अस्माकं किं स्यात् । न किम् अपि । त्वय्य् अप्रसन्नेऽपरैः प्रसन्नैर् वा किं ? ॥२९॥

सारङ्ग-रङ्गदा ॒ अथ पूर्व-कृत-कुञ्ज-प्रेरण-स्मृत्या जातातिलालसत्वात् क्रमम् अप्य् उल्लङ्घ्य भुजम् अगुरु-सुगन्धं [भा.पु. १०.४७.२१] इतिवत् सोत्कण्ठं प्रलपन्त्या वचोऽनुवदन्न् आह—हे प्राणनाथ कुञ्ज-प्रेरण-रूपैः कटाक्षैर् मयि प्रसादं विधेहि । आगत्य तथा तैः पुनः प्रेरयेत्य् अर्थः । कीदृशैः ? सङ्केत-रूपं वंशी-निनादम् अनुचरन्तीति तथा तैः । तथा, मधुरैर् आह्लादकैः ।

ननु, पुनः सर्वासां मध्ये तथा कृते—तस्या अमूनि नः क्षोभं [भा.पु. १०.३०.३०] इत्य् आदिवत्, कामिन्याः कामिना [भा.पु. १०.३०.३३] इत्य् आदिवच् च तास् त्वां मां च प्रति क्रुध्येयुः । तत्-सखीभिर् एवात्मानं सुखय । अलम् अनया प्रार्थयेत्य् आशङ्क्य स-गर्व-दैन्यम् आह—त्वयीति । त्वयि प्रसन्ने तथा कृते, निकटागते वा, इह देशे काले वापरैर् अन्यैर् गोपी-सहस्रैर् अपि किम् अस्माकम् । न किम् अपीत्य् अर्थः । तथा, त्वय्य् अप्रसन्ने इहैतद्-दशायां दर्शनम् अप्य् अदत्तवति, अपरैर् निजैर् अपि सखी-कुलैः किम् । ता अप्य् अतिदुःखदा इत्य् अर्थः । तद् उक्तं श्री-जयदेवैः—रिपुर् इव सखी-संवासोऽयं [गी.गो. ७.४०] इति, प्रिय-सखी-मालापि ज्वालयते [गी.गो. ४.१०] इति च ।

स्वान्तर्-दशायां—आगत्य पुनस् तत्-प्रेरणम् एव मे प्रसादः ।

नन्व् अन्यास् त्वय्य् एतत्-प्रार्थया क्रुध्येयुः, तत्राह—त्वयि प्रसन्नेऽन्यैः किं ? त्वय्य् अप्रसन्ने एतन् निकटम् अप्य् अनागते निजैर् अपि प्रिय-सखी-प्रभृतिभिः किं ? ता अपि दुःखदा एव । सम-स्नेह-सखीनां स्वभावोऽयं यत् कृष्ण-रहित-सखी-दर्शने दुःखं स्यात् । यथोज्ज्वल-नीलमणौ—

विना कृष्णं राधा व्यथयति समन्तान् मम मनो

विना राधां कृष्णोऽप्य् अहह सखि मां विक्लवयति ।

जनिः सा मे मा भूत् क्षणम् अपि न यत्र क्षणदुहौ

युगेनाक्ष्णोर् लिह्यां युगपद् अनयोर् वक्त्र-शशिनौ ॥ [उ.नी. ८.१३६] इति ।

बाह्ये—स्पष्ट एवार्थः ॥२९॥

—ओ)०(ओ—

(३०)

निबद्ध-मूर्धाञ्जलिर् एष याचे

नीरन्ध्र-दैन्योन्नत-मुक्त-कण्ठम् ।

दयाम्बुधे देव भवत्-कटाक्ष-

दाक्षिण्य-लेशेन सकृन् निषिञ्च ॥

कृष्ण-वल्लभा ॒ परम-दुर्लभ-रस-सार-शृङ्गार-रस-सर्वस्वाविष्ट-चेतास् तत्-प्रसादम् एव प्रार्थयते—निबद्धेति । हे दयाम्बुधे ! दयानाम् अम्बुधयो यस्मात् कृपा-पारावार ! यद् वा, दया दानं तस्या अम्बुधे समुद्र ! समस्त-पुरुषार्थ-प्रद इत्य् अर्थः । उक्तं हि द्वितीय-स्कन्धे—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।

तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा.पु. २.३.१०] इति ।

हे देव ! निरन्तर-क्रीडा-रस-मग्न ! एषोऽहं दुरन्त-प्रत्याशा-विवशः । निबद्ध-मूर्धाञ्जलिर् निबद्धो मूर्धाञ्जलिर् येन तथा-विधः सन् । यद् वा, निबद्धो मूर्धनि समस्त-पुरुषार्थेभ्यः साधनानुष्ठानेभ्यश् चाञ्जलिर् येन तादृशः सन् । मूर्ध-निबद्ध इति वक्तव्ये मूर्धातिनम्रत्व-ख्यापनायान्यथा-कथनम् ।

नीरन्ध्रं निरन्तरं यद् दैन्यं तस्य योन्नतिस् तया मुक्त-कण्ठं यथा भवति तथा । यद् वा, नीरन्ध्र-शब्देन लक्षणया कीचक-वेणुर् उच्यते । स यथानिल-संयोगात् कदाचिद् दैन्योन्नति-स्वर-युक्तो भवति, तद्वन् मुक्तः कण्ठो यस्मिन् कर्मणि तद् यथा स्यात् तथा ।

याचे प्रार्थयामि । किं ? तद् आह—भवत्-कटाक्ष-दाक्षिण्य-लेशेन । भवत्-स्वभावत एवाविर्भवन कृपा-कटाक्षो यस् त्वदीयस् तस्य यद् दाक्षिण्यम् औदार्यं, तस्य लेशेन सकृद् एक-वारं निषिञ्च । भवत्-कटाक्षेत्य् अस्य तव कटाक्षेति वा । परमोत्कृष्टं प्रेम स्व-विषयं देहीत्य् अर्थः ॥ उपेन्द्र-वज्रा छन्दः ॥३०॥

सुबोधिनी ॒ पुनर् अतिदैन्याद् आर्तः प्रार्थयते—हे देव ! एषोऽहं निबद्धो मूर्धन्य् अञ्जलिर् येन तादृशः सन् निरन्तरं यद् दैन्यं तस्य योन्नतिस् तया मुक्त-कण्ठं यथा स्यात् तथा याचे । किं याचसे ? हे दया-समुद्र ! तव कटाक्षस्य यद् दाक्षिण्यं प्रियानुनय-प्रवृत्तिस् तस्य लेशेनापि सकृद् अपि नितरां सिञ्च । स्वायोग्यता-मननाद् दैन्योक्तिर् इयम् ॥३०॥

सारङ्ग-रङ्गदा ॒ अथ प्रगाढ-लालसयातिदैन्योदयात्, स्मरति स पितृ-गेहान् [भा.पु. १०.४७.२१] इत्य् आदिवत्, दास्यास् ते कृपणाया मे [भा.पु. १०.३०.३९] इत्य् आदिवच् च स-दैन्यं प्रलपन्त्या वचोऽनुवदन्न् आह—हे बह्वीभिः क्रीडा-रसिक ! एषोऽहं निबद्धो मूर्धाञ्जलिर् येन तादृशस् तत्र दासीजनो नीरन्ध्रं निश्छिद्रं यद् दैन्यं तस्य योन्नतिस् तया मुक्त-कण्ठं यथा स्यात् तथा याचे । किं याचसे ? यदि ते रस-क्रीडा-विघ्नः स्यात् तर्हि तादृश-कटाक्ष-प्रेरणादिकं दूरेऽस्तु, भूत्-कटाक्षस्य यद् दाक्षिण्यम् औदार्यं तस्य प्रियानुनय लेशेनापि सकृद् अपि निषिञ्च । तल्-लेशेनापि दुःखाग्नि-निर्वापको नितरां सेकः स्याद् इत्य् अर्थः । आगत्य सर्वभिः सह रासं कुर्व् इति भावः । यद्यप्य् अयं जनोऽपराधी, तथापि तवैतद् योग्यम् इत्य् आह—हे दया-निधे इति ॥

स्वान्तर्-दशायां—इमां मत्-सखीं निषिञ्च । अन्यत् समम् । बाह्यार्थः स्पष्टः ॥३०॥

—ओ)०(ओ—

(३१)

पिच्छावतंस-रचनोचित-केश-पाशे

पीन-स्तनी-नयन-पङ्कज-पूजनीये ।

चन्द्रारविन्द-विजयोद्यत-वक्त्र-बिम्बे

चापल्यम् एति नयनं तव शैशवे नः ॥

कृष्ण-वल्लभा ॒ अथाविर्भूत-परम-रस-मय-दिव्य-किशोर-मधुरिम-महा-चमत्कार-धारा-निधि-श्री-कृष्ण-चापल्यम् अनुभूतम् अपि पुनर् पय् अनुभवितुम् इच्छामीति प्रार्थयते—पिच्छेति । तव शैशवे तारुण्यम् आश्रिते । तारुण्यस्य किञ्चिन्-मात्राङ्कुरिततया शैशव-बाहुल्यात् तद् एवोक्तम् । सौन्दर्य-सौकुमार्यातिशय-चापल्य-रूपे नोऽस्माकं नयनम् । नीयन्ते विषया अनेनात्मानं प्रतीत्य्-अन्तः-करणं, नयनं वा । चापल्यं चपलताम् एति गच्छति । पुनः पुनर् द्रष्टुम् उत्कण्ठ-तरलं भवतीत्य् अर्थः । तद् एव शैशवं सूचयितुं विशिनष्टि—पिच्छेति । पिच्छानाम् अवतंसः शिरो-भूषणं यत्र तादृशं यद् रचनं नाना-पुष्पादिभिश् चूडा-रूपेण विरचनं विविध-प्रकार-कल्पना-रूप-बन्धन-विशेषस् तद्-उचितः केश-पाशः केश-कलापो यत्र । एतत् तारुण्य एव । पाशः पक्षश् च हस्तश् च कलापार्थाः कचात् परे इत्य् अमरः ।

पुनर् विशिनष्टि—पीन-स्तनी-नयन-पङ्कज-पूजनीये । पीन-स्तन्यो गोप-किशोर्यस् तासां नयन-पङ्कजैः पूजनीये । समन्ततः स्थितानां व्रज-सुन्दरीणां नेत्र-पङ्कज-प्रतिबिम्बिताङ्ग-चमत्कारत्वात् ।

पुनर् विशिनष्टि—चन्द्रारविन्द-विजयोद्यत-वक्त्र-बिम्बे । अमृत-चन्द्रिकाह्लादन-रूपश् चन्द्रः । शीधु-शैत्य-सौरभ-सौकुमार्य-रूपम् अरविन्दम् । तयोर् विजयायोद्यतं कृतोद्यमं वक्त्र-बिम्बं मुख-मण्डलं यस्य तस्मिन् । गोपी-दृक्-चकोर-यूथैर् अतिपिपासितैः पेपीयमानानन-चन्द्रिकामृतत्वात् क्रीडा-रसोल्लास-समुच्छलद्-दश-दिग्-व्यापि-विमल-गौर-चन्द्रिका-महार्णवत्वाच् चन्द्र-विजयः । सरस-मधुर-दृष्टि-माध्वीक-मधुर-च्छटाभिर् उन्मादित-सकल-गोपी-समाजत्वात् प्रफुल्लारविन्द-विजय इति ॥ वसन्त-तिलकं छन्दः ॥३१॥

सुबोधिनी ॒ एतत्-प्रार्थने त्वत्-कैशोर-चापल्यम् एवास्मान् नियोजयतीति स-परिहासम् आह—तव कैशोरे यच् चापल्यं तद्-उचित-चेष्टितं तन् नो नयनम् एति प्रविशति । कथं तच्-चापल्य-ज्ञानं ? पिञ्छ-मय-शिरो-भूषणस्य रचनाया योग्यो रत्य्-आवेश-गलितः केश-पाशो यत्र । अत एव पीन-स्तनीभिः स्व-सखी-सङ्गम-सूचक-रत्य्-अङ्क-दर्शनानन्दिततया पूजनीये सानन्द-दर्शन-योग्ये । तद्-अङ्कम् एव लक्षयति—लग्न-कज्जलत्वेन कलङ्कितस्य चन्द्रस्य स-भ्रमरस्यारविन्दस्य च विजये उद्यतं, न तु विजयि तद्-अनपगमात् । वक्त्र-बिम्बं यत्र ॥३१॥

सारङ्ग-रङ्गदा ॒ ननु धीराणां मानिनीनां मूर्धन्यासि, इदानीं माम अवधीर्य किम् इति दैन्यं कुरुषे ? अन्यास् त्वाम् उपहसिष्यन्तीति तन् नर्म मनस्य् उट्टङ्क्य, क्वचिद् अपि स कथां नः [भा.पु. १०.४७.२१] इतिवत् स्व-चापलं नेत्रे सङ्क्रमय्य प्रलपन्त्या वचोऽनुवदन्न् आह—नोऽस्माकं सर्वासां नयनं तव शैशवे कैशोरे तत्-सम्बन्धि-वेश-लीलादौ चापल्यम् एति । चर्मणि द्वीपिनं हन्ति इतिवत् । तद् द्रष्टुम् इत्य् अर्थः । अस्माभिः किं कर्तव्यं ? इति भावः । अथवा, वरकाणां नेत्राणां को वा दोषो यद् एतादृशम् एतत् । कीदृशे ? पिञ्छावतंसेन तन्-मुकुटेन या रचना तस्याम् उचितः केश-पाशो यस्मिन् । तथा चन्द्रारविन्दयोर् विजयेनोद्यतम् उद्दृप्तं वक्र-बिम्बं यस्मिन् । अतः पीन-स्तनीनां युवतीनां ताभिर् वा नयन-पङ्कजैः पूजनीये तद्-योग्ये । अन्योऽपि विजयी बद्ध-मुकुटः सम्राण् नागर-युवतिभिर् नेत्राब्जैः पुष्प-वृष्ट्या च पूज्यो भवति । अतो दर्शनं देहीति भावः ।

स्वान्तर् दशायां—शैशवे श्री-राधया सह विलाओच्छलित-कैशोरे । पीन-स्तनी राधा तन्-नेत्र-पङ्कजाभ्यां पूजार्हे ॥ बाह्यार्थः स्पष्टः ॥३१॥

—ओ)०(ओ—

(३२)

त्वच्-छैशवं त्रि-भुवनाद्भुतम् इत्य् अवैहि

मच्-चापलं च तव वा मम वाधिगम्यम् ।

तत् किं करोमि विरलं मुरली-विलासि

मुग्धं मुखाम्बुजम् उदीक्षितुम् ईक्षणाभ्याम् ॥

कृष्ण-वल्लभा ॒ इदानीं श्री-गोविन्द-मुखारविन्द-विलोकनानन्दम् अनुभवितुम् अध्यवसायं कुर्वंस् तद् एवाभिलषति—त्वच्-छैशवम् इति । त्वच्-छैशवं तव चापल्यं त्रि-भुवनाद्भुतं त्रि-भुवनेष्व् अद्भुतम् । त्रि-भुवन-प्रकट-स्वरूपेषु तादृश-कैशोर-माधुरी-चमत्काराभावात् । शास्त्र-युक्ति-महत्तमानुभवैर् मया निर्धारितत्वाच् च । यद् वा, कीदृशं शैशवं ? त्रिषु त्रिषु श्री-मथुरा-गोकुल-वृन्दावनेषु भूः सत्ता यस्य तत् । अत एव वनानि वृन्दावनादीन्य् अद्भुतानि येन तत् । तत्-तद्-वन-विहरण-कौतुकम् । इत्य् अवैहि जानीहि ।

तत् किं ? मच्-चापलं मच्-चित्तस्य त्वद्-दर्शनौत्कण्ठ्येनोत्तरलता । तन् मम वाधिगम्यं तव वा । न तृतीयस्य । श्री-कृष्ण-रसास्वाद-लोभान् ममैव तावती व्यग्रता । सा च त्वया सर्वज्ञेन मया च त्वद्-अनुभव-संमिश्रणाज् ज्ञायते इत्य् अर्थः ।

तत् तस्मात् तव मुग्धं सुन्दरं मुखाम्बुजं मुरली-विलासि मुरल्या विलसितुं शीलं यस्य तत् । ईक्षणाभ्यां नेत्राभ्याम् । न तु मनसा, मनसा तु सर्वदैव वीक्ष्यते । उदीक्षितुम् उद् उच्चैर् ईक्षितुं द्रष्टुं विरलं विलम्बं, किं करोमि ? इदानीम् एव महा-तीव्रम् अस्वाभीष-भाव-भावनावेश-प्रवृत्त-प्रगाढ-समाधिना शरीरम् एतद् विस्मृत्य प्रणय-भर-विस्फारिताभ्यां नेत्राभ्यां वीक्ष्य परम-महानन्द-समुद्रे निमङ्क्ष्यामीति भावः । ईक्षणाभ्याम् इत्य् उक्तेस् त एवेक्षण इतरथा चित्रायित इति । उक्तं च श्री-भागवत-द्वितीय-स्कन्धे—

बर्हायिते ते नयने नराणां

लिङ्गानि विष्णोर् न निरीक्षतो ये [भा.पु. २.३.२२] इत्य् आदि ।

वसन्त-तिलकं छन्दः ॥३२॥

सुबोधिनी ॒ तत्-कैशोर-कृत-प्रवेशस्यात्म-चक्षुषस् तद्-दर्शनौत्सुक्यं निवेदयंस् तत्-स्फूर्त्य्-उपायं प्रार्थयते—त्वच्-छैशवं त्रि-भुवनस्य विस्मापकम् इति त्वम् एव जानीहि । मच्-चापलं च त्वद्-दर्शनाभिलाषस् त्वद्-विषयतया त्वच्-छैशव-कृततया तव, मत्-कृततया क्वचिद् विवेक-समये मम वा । ज्ञातुं योग्यम् । अतो मुखाम्बुजम् ईक्षणाभ्याम् उच्चैर् ईक्षितुं किं कम् उपायं करोमि ? यत्-कृते तद्-दृश्यं स्यात् तत् त्वम् एवोपदिशेत्य् अर्थः । तत्र हेतुः—विरलम् अनन्य-गोचरम् । कुतोऽनन्य-गोचरं ? मुरली-विलासि । अत एव मुग्धं मनोहरम् ॥३२॥

सारङ्ग-रङ्गदा ॒ अथ तस्या उद्घूर्णा दशा यावच् छ्री-कृष्ण-दर्शनम् । तत्रैवोद्वेग-दशा चतुर्भिः । तत्र प्रथमम् । ननु भवतु नाम नेत्र-चापल्यं, काप्य् अन्यैतादृक् विकला न दृश्यते, त्वं साध्वी-प्रवरासि तद् गम्भीरा भव, सख्योऽप्य् एवं त्वां बोधयन्तीति तस्य नर्मोपालम्भं मनस्य् उट्टाङ्क्य तं प्रति सोद्वेगं प्रलपन्त्या वचोऽनुवदन्न् आह—त्वच्-छैशवं तव कैशोरं माधुर्यादिभिर् मादकत्वाकर्षकत्वादिभिश् च त्रिभुवनेऽद्भुतम् अवैहि जानीहि । एतद् द्वयं तव वाधिगम्यं मम वा । यद् वा, मच्-चापलं च त्वद्-उत्पादितत्वात् तव वा स्वीयत्वान् मम वाधिगम्यम् । अन्यो वेद न चान्य-दुःखम् अखिलं [ज.व.ना. ३.९] इत्य् आदि-न्यायात् । सख्योऽपि सम्यङ् न जानन्ति यत एवं वदन्तीति भावः । पुनः प्रोच्छोलितोद्वेगा स-दैन्यम् आह—तद् इति । तत् तस्मात् त्वन्-मुखाम्बुजम् ईक्षणाभ्याम् उच्चैर् उदीक्षितुं किं करोमि ? यत्-कृते तद् दृष्टं स्यात् तत् त्वम् एवोपदिशेत्य् अर्थः ।

ननु न दृष्टं तत् तेन किं ? तत्राह—मुग्धं मनोहरम् । तद्-अदर्शनात् तद्-विफलत्वापत्तेः । अक्षण्वतां फलम् इदं [भा.पु. १०.२१.७] इत्य्-आदेः । तथा दान-केलि-कौमुद्यां—

भवतु माधव-जल्पम् अशृण्वतोः

श्रवणयोर् अलम् अश्रवणिर् मम ।

तम् अविलोकयतोर् अविलोकनिण् सखि

विलोचनयोश् च किलानयोः ॥ [दा.के.कौ. २०] इत्य्-आदेश् च ।

नन्व् इदानीं दृष्टं तेन किं स्थित्वा द्रक्ष्यसि तत्राह—विरलं कुल-वधूनां नस् तत्रापि तव गोचारणादिना दुर्लभ-दर्शनम् । अतोऽधुना लब्धेऽवसरेऽपि यन् न दर्शयसि तत् तव निष्ठुरतेत्य् अर्थः । किं वा, ननु तत्-समं किम् अपि पश्य तत्राह—विरलं साम्य-रहितम् । तत्र हेतुः—मुरली-विलासि ।

स्वान्तर्-दशायां—पूर्ववत् तत्-सङ्गोच्छलितं कैशोरं ज्ञेयम् । तद् द्रष्टुं मच्-चापलं च । अन्यत् समम् ॥ बाह्यार्थः स्पष्टः ॥३२॥

—ओ)०(ओ—

(३३)

पर्याचितामृत-रसानि पदार्थ-भङ्गी-

वल्गूनि वल्गित-विशाल-विलोचनानि ।

बाल्याधिकानि मद-बल्लव-भाविनीभिर्

भावे लुठन्ति सुकृतां तव जल्पितानि ॥

कृष्ण-वल्लभा ॒ अपि च्च—पर्याचितेति । हे नाथ ! मद-वल्लब्व-भाविनीभिः । मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः [सा.द. ३.१०५] तद्-युक्ता या वल्लवानां भाविन्यः प्रशस्त-भाववत्यो गोप्यस् ताभिः सह तव सकल-सौन्दर्य-निधेर् जल्पितानि । परस्पर-व्यक्त-वचनानीत्य् अर्थः । सुष्ठु कृत् कृतं येषां तेषां पुण्यवतां भावे सत्ता-लीलाभिप्राय-युक्ते चेतसि लुठन्ति सञ्चरन्ति । निरन्तरं मनो-लग्नानि तिष्ठन्तीत्य् अर्थः । मनसः प्रेमोद्रेकेण धारण-क्षमत्वाभावाल् लुठन्तीत्य् उक्तम् ।

भावः सत्ता-स्वभावाभिप्राय-चेष्टात्म-जन्मसु ।

क्रिया-लीला-पदार्थेषु विभूति-बुध-जन्तुषु ॥ इति मेदिनी ।

कीदृशानि जल्पितानि ? पर्याचितामृत-रसानि । परि परित आचिताः प्लावित अमृत-रूपा रसा येषु तानि ।

पुनः कीदृशानि ? पदार्थ-भङ्गी-वल्गूनि । पदानाम् अर्थानां च या भङ्गी । रचना-परिपाटीति यावत् । तया वल्गूनि मनोहराणि ।

पुनः कीदृशानि ? वल्गित-विशाल-विलोचनानि । वल्गिते तत्-तद्-अङ्गेषु लीला-विलास-वैदग्ध्यावलोकनार्थं चञ्चले विशाले हर्षोद्रेकाद्-विशिष्टे लोचने यत्र ।

पुनः कीदृशानि ? बाल्याधिकानि । बाल्यं चापल्यं वक्षोज-ग्रहास्य-चुम्बनादि-रूपं तेनाधिकानि । अध्यधिकं कं सुखं यत्र तान्य् अधिकानीति यथा-श्रुत-व्याख्याने—मितं च सारं च वचो हि वाग्मिता [नै.च. ९.८] इत्य् आदि मित-सारत्वयोर् गुण-भङ्गात् ॥ वसन्त-तिलकं छन्दः ॥३३॥

सुबोधिनी ॒ अथ तन्-मिथो-नर्मोक्ति-स्फूर्त्य्-उद्यल्-लालसेन स-दैन्यम् आह—मदेन सखी-भोगाङ्कालोकज-हर्षेण युक्ताभिर् वल्लव-भाविनीभिः सह तव जल्पितानि नर्मोक्तयः सुकृतां शोभन-त्वल्-लीलानुस्मरणं कुर्वन्ति ये तेषां भावे, स्वानां भाव-सरोरुहं [भा.पु. २.८.५] इतिवद् भाव-युक्ते मनसि लुठन्ति परिवर्तन्ते । सदा स्फुरन्तीत्य् अर्थः । तत्र हेतुः—परि सर्वतो-भावेन आ सम्यक् चितोऽमृत-रसो मिथो हास्य-रसो येषु । कथं तद्-रसाभिव्यक्तिः—पदानां भङ्ग्या वाच्य-सौष्ठवेनार्थानां श्लिष्टार्थतया व्यङ्ग्याद्य्-अनेक-प्रसूत्या मनोहराणि । ततो वल्गिते नर्तिते, अत एव कटाक्षादिना विस्तीर्णे विलोचने येषु । सर्वत्र हेतुः—बाल्येन कैशोर-चाञ्चल्येनाधिकानि मिथो जिगीषयानवच्छिन्नानि । मम सुकृताभावात् तान्य् अपि न स्फुरन्तीति दैन्योक्तिः ॥३३॥

सारङ्ग-रङ्गदा ॒ अथ मनसि तस्य तत्-तत्-प्रवचनोट्टङ्कनात् पुष्पाद्य्-आहरणे दान-वर्त्मन्य् आदौ च स्वेन स्व-सखीभिश् च सह कृष्णस्य नर्म-कलह-स्फूर्त्यात्युद्वेगेन तत्-स्मरणेऽप्य् असमर्थायाः, तव कष्टमृतं [भा.पु. १०.३१.१०] इत्य् आदिवत् सविषादं प्रलपन्त्या वचोऽनुवदन्न् आह—मद-वल्लव-भाविनीभिः सह तव जल्पितानि म्निथो वाकोवाग्-रूपाणि सुकृतां भावे भावाक्रान्त-चित्ते लुठन्ति स्फुरन्ति । मम पुनर् उद्विग्ने चेतसि तद् अपि दुर्लभम् इति भावः । कुन्ताः प्रविशन्तीति न्यायात् । तथा प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहं [भा.पु. २.८.५] इत्य् अत्र भाव-सरोरुहं हृदय-कमलम् इतिवत् । मदेति भामिनीभिश् चेत्य् अनेन वयं परकीया रमण्यः स्वच्छन्दं वने विहरामः । कथम् अयम् अस्मान् निरुणद्धीति गर्वोद्रिक्त-प्रणय-रोष-युक्ता यास् ताभिर् इति तासां किल-किञ्चित-भावोद्गमः कथितः । तत् तु—

गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।

सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ [उ.नी. ११.४४] ।

कीदृशानि ? पदानाम् अर्थानां च भङ्गीभिर् वल्गूनि मनोज्ञानि । तत्र पदानां विलास-मञ्जर्यां —

परिज्ञातम् अद्य प्रसूनालिम् एतां

लुनीषे त्वम् एवं प्रवालैः समेताम् ।

धृतासौ मया काञ्चन-श्रेणि-गौरि

प्रविष्टासि गेहं कथं पुष्प-चौरि ॥१६॥

सदात्र चिनुमः प्रसूनम् अजने

वयं हि निरताः सुराभि-भजने ।

न कोऽपि कुरुते निषेध-रचनं

किम् अद्य तनुषे प्रगल्भ-वचनम् ॥१३॥

अर्थानां च, यथा दान-केलि-कौमुद्यां—

कृष्ण-कुण्डलिनश् चण्डि कृतं घट्टनयानया ।

फुत्कृति-क्रिययाप्य् अस्य भवितासि विमोहिता ॥८८॥

धर्षणेन कुल-स्त्रीणां भुजङ्गेशः क्षमः कथम् ।

यद् एता दशनैर् एष दशन् नाप्नोति मङ्गलम् ॥४२॥ इति ।

अतः, परि सर्वत आचितान्य् अमृतानि रसा शृङ्गारादयश् च यैः । तथा, वल्गितानि तस्य तासां च विशाल-विलोचनानि यैर् येषु वा । तथा, बाल्येन किशोर-स्वभाव-चाञ्चल्येनाधिकानि मिथो जिगीषयानवच्छिन्नानि ।

स्वान्तर्-दशायां—कर्ण-द्वारा तादृश-चित्ते प्रविश्य तद्-आनन्दयतीत्य् अर्थः । अन्यत् समम् ॥ बाह्यार्थः स्पष्टः ॥३३॥

—ओ)०(ओ—

(३४)

पुनः प्रसन्नेन्दु-मुखेन तेजसा

पुरोऽवतीर्णस्य कृपा-महाम्बुधेः ।

तद् एव लीला-मुरली-रवामृतं

समाधि-विघ्नाय कदा नु मे भवेत् ॥

कृष्ण-वल्लभा ॒ व्रज-सुन्दरीभिः सह जल्पितानीति यद् उक्तानि तानि तु तथा-विधान्य् एव । किं तु तानि यदि मुरली-नादार्पितानि भवन्ति तद् अतीव मनोहरं स्याद् इइत् पूर्वानुभव-परमानन्द-साम्राज्य-भरस् तादृश-समाधिनैवायुष्कालो मे यायात् । यदि च ततो व्युत्थानं भवेत्, तर्ह्य् एव भूयाद् इत्य् आशास्ते—पुनर् इति । कृपा-महाम्बुधेस् तव करुणा-समुद्रस्य तद् एव तात्कालीनम् एव पूर्वानुभूतं वा पुनः पुनर् अपि । न्व् इति वितर्के । समाधेर् अन्तः-करण-लयस्य विघ्नाय कदा भवेद् भविष्यति ।

तत् किं ? आह—लीला-मुरली-रवामृतम् । लीला-प्रधानं यन् मुरली-रव एवामृतम् । सर्वाह्लादकत्वात् ।

तव कीदृशस्य ? प्रसन्नेन्दु-मुखेन तेजसा पुरोऽवतीर्णस्य । प्रसन्नं निष्कलङ्कम् इन्दुवन् मुखं यत्र तादृशेन तेजसा । परमामृत-मय-तेजो-वितान-पूर्ण-दिशा वपुषेत्य् अर्थः । पुरोऽग्रतोऽवतीर्णस्य साक्षात्-प्रकट-परमानन्द-रूपेण स्थितस्य । एतेनातिसदयत्वं सर्व-ताप-निवारकत्वं च ध्वनितम् । वंश-स्थविलं छन्दः ॥३४॥

सुबोधिनी ॒ अत एवोत्कण्ठयार्तस् तत्-स्फूर्तिं प्रार्थयते—प्रसन्नेन्दु-मुखेन हेतुना यत् तेज उच्छलनं, तेन । पुनः पुरोऽवतीर्णस्य कृपा-महाम्बुधेः, तद् एव प्राक् प्रार्थैतं लीलायां यन् मुरली-रवामृतं, तन् मम सम्यग् आधेस् तद्-अप्राप्तिज-मनो-व्यथाया अन्ताय । नु वितर्के । कदा भवेत् ॥३४॥

सारङ्ग-रङ्गदा ॒ अथ तद्-दर्शनोद्भूत-मनः-पीडोद्विग्नाया मूर्च्छन्त्या आश्वासन-पर-सखीः प्रति स-लालसं पृच्छन्त्या वचोऽनुवदन्न् आह—पुनः पुरोऽवतीर्णस्य तस्य येन मां कुञ्जे प्रेषितवांस् तद् एव लीला-सूचक-मुरली-रवामृतं प्रसन्नेन्दु-मुखेन तद्-रूपेण तेजसा कान्ति-पूरेण सह मम समाधेः सम्यङ्-मनः-पीडाया विघ्नाय नाशाय कदा भवेत् ? अहो दुर्घटम् एतद् इति क्षणं विचिन्त्य, अथवा सम्भाव्येत्य् आह—कृपेति ।

स्वान्तर्-दशायां—तद् एव तत्-प्रेरण-रूपं मुरली-रवामृतम् । अन्यत् समम् ॥ बाह्ये—समाधेर् ध्यानस्य । अन्यत् स्पष्टम् ॥३४॥

—ओ)०(ओ—

(३५)

बालेन मुग्ध-चपलेन विलोकितेन

मन्-मानसे किम् अपि चापलम् उद्वहन्तम् ।

लोलेन लोचन-रसायनम् ईक्षणेन

लीला-किशोरम् उपगूहितुम् उत्सुकाः स्मः ॥

कृष्ण-वल्लभा ॒ अथ मुरली-रवामृतं प्रति जातोत्कण्ठस् तद्-वादकं द्रष्टुम् अत्युत्कण्ठाम् आविष्करोति—बालेनेति । वयं लीला-किशोरं लीला-मय-किशोरम् ईक्षणेनोपगूहितुं द्रष्टुम् उत्सुकाः स्मः, स-स्पृहा भवामः । वर्तमानेनौसुक्यस्य निरङ्कुश-भविष्णुतोक्ता । ईक्षणाभ्याम् इत्य् अनुक्तिर् द्वाभ्याम् एव दर्शने तृप्त्य्-अभावात् । अतः सामान्यतः उक्तम् । उपगूहनोक्त्यातिसंनिहितत्वेन दर्शनम् इत्य् उक्तम् ।

कीदृशेनेक्षणेन ? लोलेन स-तृष्णेन । लोलश् चल-सतृष्णयोः इत्य् अमरः । कीदृशं किशोरं ? लोचन-रसायनम् । लोचनास्वाद्य-रसानाम् अयनं स्थानम् । लोचनयो रसायनम् आह्लादकं वा । रसायन-सेवया हि लोचनयोः पुष्टिर् भवतीति प्रसिद्धम् । मल्-लोचन-पुष्टि-विशेष-निदानं तद् एव । यद्-दर्शनात् परमासाध्य-व्याधेर् मल्-लोचनस्य तद् एव रसायनम् इत्य् एतत् सेवने दृष्टि-मान्द्यं न स्यात् । अन्यथा त्वान्ध्यम् एवेति ।

पुनः कीदृशं ? बालेन कोमलेन मुग्धेन प्रतिपद-माधुरी-विशेष-चमत्कारवता परम-सुन्दरेण स्वभावाद् एव चपलेन चाञ्चल्य-गुण-युक्तेनैतादृश-विलोकितेन मन्-मानसे मम चेतसि चापलं दर्शनोत्कण्ठा-तरलताम् उद्वहन्तम् उत्कर्षेण प्रापयन्तम् ॥ वसन्त-तिलकं छन्दः ॥३५॥

सुबोधिनी ॒ अथोच्छलत्-स्वान्तर्-लालसा-विशेषं स्वान् प्रत्युद्गिरति । लीलैक-परं किशोरम् ईक्षणेनाप्य् आलिङ्गितुम् उत्सुकाः स्मः । कथं तेनालिङ्गितुम् इच्छथ ? लोचनयो रसायनं स्व-माधुर्य-ग्रहण-विरोधि-दोषापनयनेन रुच्य्-उत्पादकम् । तेनापि कथं तद्-इच्छा ? तद्-द्वारा धैर्यादि विधूय मन्-मानसे विशिष्ट-लोचनेन किम् अपि चापलम् उच्चैः प्रापयन्तम् । तद्-धेतु-गर्भ-विशेषणान्य् आह—बालेन क्रीडैकाविष्टेन । अत एव मनोहर-चपलेन स-तृष्णेन च ॥३५॥

सारङ्ग-रङ्गदा ॒ अयि सखि ! स चेत् कृपालुस् तदा स्वयम् आयास्यति किं ? इति चपलासीति वदन्तीः सखीः प्रति तस्यैवायं दोष इति वदन्त्या वचोऽनुवदन्न् आह—लीला मत्-प्रेरण-लीला तद्-युक्तं किशोरं तं साक्षात् तद्-भाग्य-राहित्याद् ईक्षणेनाप्य् उपगूहितुम् उत्सुकाः स्मः । न केवलम् एकैवाहं भवत्योऽपीति बहुत्वम् । कीदृशेन ? लोलेन तं द्रष्टुम् अतिचञ्चलेन लुब्धेन वा । तत्र हेतुः—कीदृशं तं ? लोचन-रसायनम् ।

ननु साध्व् अनुष्ठितं नो वचो यद् द्विगुणी-कृतं चापलम् इत्य् अत्र स्व-निर्दोषताम् आह—मद् इति । मन्-मानसे विलोकितेन कुञ्ज-प्रेरण-रूपालोकेन किम् अप्य् अनिर्वचनीयं चापलम् उद्वहन्तम् उत्पादयन्तम् । साक्षाद्-दर्शनम् अदत्त्वा मनस्य् आविर्भूय तथा कुर्वन्तम् इति तस्यैवायं दोष इति भावः ।

कीदृशेन ? बालेन कोमलेन । किं वा, अन्याभ्यः सङ्कोचेन दरावलोकनात् सूक्ष्मेण । मयैव ज्ञेयेनेत्य् अर्थः । तथा, मुग्धं च चञ्चलयन्तं तं साक्षाद् द्रष्टुम् उत्सुकाः स्मः । अन्यत् समं बाह्यार्थः स्पष्टः ॥३५॥

—ओ)०(ओ—

(३६)

अधीर-बिम्बाधर-विभ्रमेण

हर्षार्द्र-वेणु-स्वर-सम्पदा च ।

अनेन केनापि मनोहरेण

हा हन्त हा हन्त मनो दुनोषि ॥

कृष्ण-वल्लभा ॒ अथ कदाचिल् लीला-किशोर-दर्शन-सुखेन सम्यक् तत्-प्राप्त्य्-अभाव-दुःखेन च द्विधा-भूतान्तः-करणः सुखाकार-मनोऽंश-पक्ष-गतो दुःखाकार-मनोऽंशं प्रति वदंस् तत्-कृपा-दृष्ट्याशयेन स्थातव्यम् इत्य् आशयेनाह—अधीरेति । हे मनः ! त्वं दुनोष्य् उत्तपसे । हा हन्त हा हन्तेति वीप्सायां खेदातिशयो ध्वन्यन्ते । अनेन केनापि निमित्तेन । अनेनेति भावनापरोक्षी-कृत-परमाश्चर्य्य-साम्राज्येनेत्य् अर्थः । केनापि कोट्य्-अंशेनापि तत्-साम्यस्य क्वाय् अदृष्टेः । दृष्टान्त-द्वारा वक्तुम् अशक्यत्व्४ ।

कीदृशेन ? अधीर-बिम्बाधर-विभ्रमेण । अधीरश् चञ्चलोऽन्तः-प्रेम-भराद् वेणु-वादन-क्रमाद् वा यो बिम्ब-तुल्योऽधरस् तस्य विभ्रमो विलासो यस्मिंस् तेन ।

पुनः कीदृशेन ? हर्षेण वा ईषद् आर्द्रः सरसो यो वेणुस् तस्य ये स्वराः षड्जादयस् तेषां या सम्पद् द्वाविंशति-श्रुति-संवलितत्वम् । श्रुति-संवलिताः स्वराः, स्वराः श्रुतिभ्यः प्रभवन्तीति च । तत्र श्रुतयः—

ऊर्ध्व-स्थितायां हृदि नाडिकायां

नाड्यस् तिरश्यः पवनाहतास् ताः ।

द्वाविंशतिस् तीक्ष्णतराः क्रमेण

नादं तु तावच् छ्रुतितां नयन्ति ॥ इति ।

तथा च, मनोहरेण मनोहारिणा ॥ उपेन्द्र-वज्रा छन्दः ॥३६॥

सुबोधिनी ॒ मया लोचनेन ते मनश् चञ्चलं कृतम् इत्य् आशङ्क्याह—हे अधीर ! अनेन बिम्बाधरस्य विभ्रमेण स्मितादिना । हा खेदे । हन्ताश्चर्ये । तयोर् आधिक्ये वीप्सा । मनो दुनोषि तत्र लोभम् उत्पाद्याकुलीकरोषि । कथं तत्र तत्-करणं ? केनापि मनोहरेण । तद् वक्तुं न शक्नुम इत्य् अर्थः । हर्षेण स्निग्धा या वेणोः स्वर-सम्पत्तया च ॥३६॥

सारङ्ग-रङ्गदा ॒ अथ पूर्व-स्व-प्रेरण-स्मृत्योन्माद-दशारूढायाः कथं मया ते मनश् चपलं कृतम् इति वदतस् तस्य पूर्ववद् दर्शनाद् अदर्शनोत्थ-वैक्लव्योद्विग्नायास् तम् उपालभमानायाः प्रलापम् अनुवदन्न् आह—निरक्षर-सङ्केत-कथनाधीरो यो बिम्बाधरस् तस्य विभ्रमेण मनो दुनोषि दुःखयसि । हे धूर्तेति शेषः । हा खेदे, हन्त विषादे, तयोर् अतिशये वीप्सा ।

ननु भ्रान्तासि ? तत्राह—अनेन साक्षाद् दृश्यमानेन । नन्व् एवं चेत् तदा कुञ्जं गच्छ । तत्राह—केनापि प्रतीयमानस्याप्य् असत्यत्वान् निर्वक्तुम् अशक्येन । अतो मनोहरेण मनो-मात्रं हरति । कार्यं न सिद्ध्यतीन्द्र-जालवद् यत् तेन । तथा हर्षैर् आर्द्रयतीति हर्षार्द्रस् तादृशो यः सङ्केत-वेणु-स्वरस् तत्-सम्पदा च तादृश्या तथा करोषि । अतः कुल-स्त्री-वध-रङ्गिनस् तव तत्र का भीतिर् इति भावः ॥

स्वान्तर्-दशायां—अनुभवेऽपि मिथ्यात्वान् मनो दुनोषि मात्रम् । अन्यत् समम् ॥ बाह्ये—स्फूर्त्या तथोक्तिः । अर्थः स्पष्टः ॥३६॥

—ओ)०(ओ—

(३७)

यावन् न मे निखिल-मर्म-दृढाभिघातं

निःसन्धि-बन्धनम् उपैति न कोऽपि तापः ।

तावद् विभो भवतु तावक-वक्त्र-चन्द्र-

चन्द्रातप-द्विगुणिता मम चित्त-धारा ॥

कृष्ण-वल्लभा ॒ सम्प्रति स्वाभीष्ट-पदाप्राप्ति-दुःखेन दैन्यौत्सुक्यम् आविष्कुर्वन्न् आह—यावद् इति । हे विभो ! दुःखातिशय-निवारण-दक्ष श्री-कृष्ण यावन् मे मम कोऽपि तापो दुःख-विशेषः । निखिल-मर्म-दृढाभिघातं निखिलानां मर्मणां दृढोऽतिशयोऽभिघातो यत्र तादृशम् । निःसन्धि-बन्धनं निर्गतं सन्धीनां कर-चरणादि-ग्रन्थीनां बन्धनं श्लेषो यथा भवति तथा । नोपैति नायाति । तावन् मम चित्त-धारा चित्त-सन्ततिः । चित्तं धारयत्य् आत्मन्य् अवस्थापयतीति धृङोर्ण्यन्ताद् घञ् । चित्तम् एव धारा जल-धारा द्रुततया प्रवाह-रूपेण प्रवाहकत्वाद् इति वा ।

धारा सैन्याग्रिम-स्कन्धे तुरङ्ग-गति-पञ्चके ।

खड्गादि-निशिताग्रे च जलादीनाम् अपि स्रुतौ ॥ इति धरणिः ।

तावक-वक्त्र-चन्द्र-चन्द्रातप-द्विगुणिता भवतु । तावकं त्वदीयं वक्त्रम् एव चन्द्रस् तस्य ये चन्द्रातपाश् चन्द्रिकास् ताभिर् द्विगुणिता परम-महानन्द-प्रफुल्ल-सर्वाङ्गत्वाद् अतिशय-स्फीता भवतु । त्वन्-मुख-चन्द्र-सविधे हि द्विगुण-सौन्दर्य-माधुर्यादिमत्त्वात् तथा मम स्फुरत्व् इत्य् अर्थः । चन्द्रातप-द्विगुणितेति चित्तस्य समुद्रत्वं व्यङ्ग्यम् । चन्द्रातपश् चन्द्रिकायां विताने स्वर्ण-तेजसि इति व्याडिः । यद् वा, तावक-वक्त्र-चन्द्र एव चन्द्रः कर्पूरम् । सुगन्ध-शीतलाह्लादकत्वात् । तस्य य आतपः प्रकाशस् तेन द्विगुणिता । प्रकाशो द्योत आतपः, अथ कर्पूरम् अस्त्रियाम्, घनसारश् चन्द्र-संज्ञः सिताभ्रो हिम-वालुका इत्य् अमरः । प्रकाशो धवल एवेति कवि-सम्प्रदायः ।

अथवा, हे विभो ! कोऽपि तापो यावन् निखिल-मर्म-दृढाभिघातं यथा भवति तथा बन्धनं परिपाकं नापैति । कीदृशं ? निःसन्धि दृढ-ग्रन्थि । सधैर् अशैथिल्यान् मोचयितुम् अशक्यम् । अन्यत् समम् ॥ वसन्त-तिलकं छन्दः ॥३७॥

सुबोधिनी ॒ अथ स्फूर्त्य्-अपगमेऽत्यार्तो विलम्बम् असहमान आह—हे विभो ! यावत् स प्रसिद्धः कोऽपि तापस् त्वत्-प्राप्त्य्-असम्भाव-रूपो मम सर्व-मर्म-स्थानेषु दृढाभिघातं यथा स्यात् तथा निर्गतः सन्धिः संयोगस् तत्र बन्धनम् । आशेति यावत् । तन् नोपैति न प्राप्नोति । त्वत्-प्राप्त्य्-आशां न शोषयेद् इत्य् अर्थः । तावन् मम चित्त-धारा तावक-वक्त्र-चन्द्र-चन्द्रातपाच्छादिता भवतु । स्निग्ध-स्वाभाव्येनात्र धारात्वम् । आशा-बन्धनाशे देहः पतेत्, अतो मुखेन्दुं प्रदर्श्य तत् तापं वारयेत्य् अर्थः ॥३७॥

सारङ्ग-रङ्गदा ॒ अथ तद्-विच्छेदार्क-तापावलीढाया मोहं गच्छन्त्याः प्रगाढ-मोहोत्पत्तेः पूर्वम् एव प्रलपन्त्या वचोऽनुवदन्न् आह । तल्-लक्षणं—मोहो विचित्तता प्रोक्तः [उ.नी. १५.४०] इति । हे विभो ! सर्व-ताप-हरण-समर्थ ! यावत् कोऽप्य् अनिर्वचनीयस् तापः, “आयुर् घृतम्” इतिवन् मोह-हेतुत्वात् ताप एव मोहः । मे निखिल-मर्मणां चित्तेन्द्रियाणां दृढाभिघातं यथा स्यात् तथा निःसन्धि-बन्धनं च, अतिगाढताम् इत्य् अर्थः, नोपैति ।

तावन् मम चित्त-धारा तावक-वक्त्र-चन्द्र एव चन्द्रातपो वितानं तेन द्विगुणिताच्छादिता भवतु । मुख-चन्द्रं दर्शयित्वा तापं वारयेत्य् अर्थः । चित्तस्य वृत्ति-बाहुल्याद् धारात्वम् । तथानेन व्याधिर् अप्य् उक्तः ।

स्वान्तर्-दशायां—तत्-प्रेरण-भाव-मधुर-वक्त्र-चन्द्र इत्य् अर्थः । अन्यत् समम् । बाह्ये—पथि भूमौ पतितः प्राह । अर्थः स्पष्ट एव ॥३७॥

—ओ)०(ओ—

(३८)

यावन् न मे नर -दशा दशमी कुतोऽपि

रन्ध्राद् उपैति तिमिरीकृत-सर्व-भावा ।

लावण्य-केलि-सदनं तव तावद् एव

लक्ष्यासम् उत्क्वणित-वेणु-मुखेन्दु-बिम्बम् ॥

कृष्ण-वल्लभा ॒ कोऽपि तापः प्रानान् नाशयतु नाम, किं त्व् इदम् एव मे हृच्-छल्यं यत् ते मुख-चन्द्र-चन्द्रिका-चमत्कारो नास्वादित इति ग्लानि-दैन्यौत्सुख्यान्याविष्कुर्वन् निज-जिजीवित-श्री-मुखेन्दु-दर्शनम् आशास्ते—यावद् इति । हे नव-स्तवनीय मे मम दशमी दशा कण्ठ-गत-श्वासान्तिमा कुतोऽपि रन्ध्राद् अवसरात्, दूषणाद् इति वा, निमित्ताद् इत्य् अर्थः । इष्टा-प्राप्ति-दुःखातिशयाद् अन्यतो ज्वरादेर् इति । यावन् नोदेति नायाति । रन्ध्रं छिद्रेऽप्य् अवसरे इति विश्वः । रन्ध्रं तु दूषणे छिद्रे इति मेदिनी ।

कीदृशी ? तिमिरीकृत-सर्व-भावा । तिमिरीकृता निरस्तीकृताः सर्वे भावाः पदार्थाः यस्यां सा । एतेन शब्द-स्पर्शादिनापि दर्शनं निरस्तम् । दशमी दशा तु मरणम् । तथा चोक्तम्—

अभिलाषश् चिन्तनं च स्मृतिश् च गुण-कीर्तनम् ।

उद्वेगश् च प्रलापश् च उन्मादो व्याधिर् एव च ।

जडता मरणं चेति दश काम-दशाः स्मृताः ॥ इति ।

नर-दशेति पाठेऽपि स एवार्थः । तावद् एव तव मुखेन्दु-बिम्बं लक्ष्यासम् । द्रष्टुम् आशंस इत्य् अर्थः । लक्ष्यासम् इति लक्ष दर्शनाङ्कनयोः इत्य् अस्माद् धातोर् णिचि आशीर् लिङ् । लिङाशिषि [पा. ३.४.११६] तस्यार्ध-धातुकत्वात् णिचो लोपः ।

कीदृशं मुखेन्दु-बिम्बं लावण्य-केलि-सदनं, लावण्यं माधुर्य-परम्परा तस्याः क्रीडा-गृहम् । यद् वा, लावण्यानां केलीनां च सदनम् । कृष्ण-मुख-लावण्यम् एव भक्तैर् लावण्यम् इत्य् उच्यते । तद्-अनुभवेनान्य-लावण्ये लावण्य-बुद्ध्य्-अभावात् । पुनः कीदृशं ? उत्क्वणित-वेणुः । उद् उत्कृष्टं क्वणितं यस्य तादृशो वेणुर् यत्र तत् । यद्यपि कृष्ण-वेणोः सर्वम् अपि क्वणितम् उत्कृष्टं तथापि परमोत्कृष्ट-प्राप्त्य्-अर्थम् उद् इत्य् उक्तिः ॥ वसन्त-तिलकं छन्दः ॥३८॥

सुबोधिनी ॒ ततोऽप्य् आर्तः श्लिष्टार्थं स्पष्टयन्न् आह—यावन् मे दशमी नर-दशा मृतिः किञ्चिद् अपि पूर्वोक्ते छिद्रम् आलम्ब्य नोपैति, निकटं नायाति, तावद् एव तावक-वक्त्र-चन्द्र-बिम्बं लक्ष्यासं दृश्यासम् । तां विशिनष्टि । आवृताः सर्व-भावास् त्वत्-प्राप्ति-सम्भावन-हेतवो यया । कीदृशं ? लावण्यानां केलेर् उल्लासस्य सदनं निवासम् । यतः, उच्चैः क्वणितो वेणु-विनोद-नादो येन । मृतिश् चेन् मुख-दर्शनानन्तरम् अस्त्व् इत्य् अर्थः ॥३८॥

सारङ्ग-रङ्गदा ॒ अथ मोहेनावृत-चित्तेन्द्रियाया उपस्थितां मृतिम् आशङ्क्य स-दैन्यं तम् उद्दिश्य प्रलपन्त्या वचोऽनुवदन्न् आह । मृतेर् अमाङ्गल्याज् जात-प्रायां तां वर्णयन्ति तज्-ज्ञाः । अत्र स्वीय-तद्-वर्णनेन सुतरां पूर्व-दशैव योग्या । यावन् न मे दशमी नर-दशा मृतिः कुतोऽपि रन्ध्राच् छिद्रान् नोपैति, तावद् एव तव मुखेन्दु-बिम्बं लक्ष्यासं दृश्यासम् इत्य् आत्मानम् आशास्ते ।

ननु किम् इत्य् उत्कण्ठसे, स्थित्वा द्रक्ष्यसि, तत्राह—तिमिरीकृत-सर्व-भावा देहेन्द्रियादि-नाशिनी । ननु मृतिश् चेत् तन् न दृष्टं तेन किं ? तत्र सोत्कण्ठम् आह । कीदृशं तत् ? लावण्यानां केलि-सदनम् । तथा, उत्क्वणितो वेणुर् यस्मिन् । तन्-मधुर-मुख-दर्शनाभावान् मरणम् अप्य् अधन्यम् इति भावः । तादृश-प्रेमाक्रान्त-चेतसां स्वभावोऽयं यद् अत्यन्त-विच्छेद-भिया मरणम् अपि नेच्छन्ति । तथा हि—न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयं [भा.पु. १०.१७.२४] इत्य् आदि ।

स्वान्तर्-दशायां—तत्-प्रेरण-भाव-मधुर-मुखेन्दु-बिम्बम् । अन्यत् समम् ॥ बाह्यार्थः स्पष्टः ॥३८॥

—ओ)०(ओ—

(३९)

आलोल-लोचन-विलोकित-केलि-धारा-

नीराजिताग्र-चरणैः करुणाम्बु-राशेः ।

आर्द्राणि वेणु-निनदैः प्रतिनाद-पूरैर्

आकर्णयामि मणि-नूपुर-शिञ्जितानि ॥

कृष्ण-वल्लभा ॒ सम्प्रति तद्-दैन्यौत्सुक्यम् आलक्ष्याविर्भूत-परम-कारुणिक-श्री-कृष्ण-भूषण-ध्वनिम् आकर्णयन्न् आह—आलोलेति । करुणाम्बु-राशेः कृपा-समुद्रस्य । अस्मद्-दुःखासहिष्णुत्वाद् एतादृशीम् अवस्थां दृष्ट्वा तत्-क्षणम् एवागतत्वात् करुणाम्बु-राशित्वम् । तस्य श्री-कृष्णस्य मणि-नूपुर-शिञ्जितानि मणि-मयौ नूपुरौ मञ्जीरौ तयोः शिञ्जितानि ध्वनि-विशेषान् आकर्णयानि शृणवानीत्य् आशंसायां लोट् ।

कीदृशानि ? वेणु-निनदैर् आर्द्राणि । अन्योन्य-मिलनात् चरण-चालनं तु नृत्यवत् ताल-भङ्गी-युक्तम् । नूपुर-ध्वनेश् च प्रतिनियत-कालता । वंशी-निनादस्य तु गानात्मकत्वात् प्रकृतम् एव तालादिमत्त्वम् । तेनान्योन्य-मिलनेन तौर्यत्रिकं जातम् । चरणयोर् नृत्यम्, नूपुरस्य वाद्यं, मुरल्या गानम् इति । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतम् उच्यते इति सङ्गीत-रत्नाकरे ।

कीदृशैर् निनादैः ? प्रतिनाद-पूरैर् । प्रतिनादः प्रतिध्वनिस् तं पूरयन्तीति तैः । प्रतिनादैर् इतस् ततः प्रदेशं पूरयन्तीति वा । प्रतिनाद एव पूरः पूरणं ध्वनि-विशेषो येषु तैर् इति वा ।

पुनः कीदृशैः ? आलोल-लोचन-विलोकित-केलि-धारा-नीराजिताग्र-चरणैः । आ समन्ताल् लोलयोश् चञ्चलयोर् लोचनयोर् यद् विलोकनम् इतस् ततोऽपाङ्ग-रूपावलोकनं तस्य या केलि-धारा क्रीडाया आवृत्तिस् तया नीराजितौ । नीराजनम् आरात्रिकं तद्वत् पूजितौ । निःशेषेण राजितौ दीपितौ वा । अग्र-चरणौ चरणाग्रौ येषु तैः । एतेन वंशी-वादन-समये पदाग्रे दृष्टिर् भवेद् एवेति तत्-समयो ध्वन्यते । यथा यथा मुरली गायति, तथा तथा चरणयोर् अपि चालनम् । तथा नूपुरस्यापि ध्वनिः । तेन जात-कौतुकतया वंशी-नाद-समय एव चरणाग्रं प्रति प्रतिनियतां दृष्टिं करोति, तेन स्वच्छयोः श्री-लोचनयोर् नाना-वर्ण-तेजश् छटाया एव केलि-धारात्वेन निरूपणम् इति भावः । अत्र कान्ता दृष्टिर् ज्ञातव्या, तल्-लक्षणं चोक्तम् ॥ वसन्त-तिलकं छन्दः ॥३९॥

सुबोधिनी ॒ एवम् आर्तस् तद्-आगमन-स्फूर्त्या—करुणा-समुद्रस्य मणि-नूपुरयोः शब्दाञ् शृणोमि । तस्यैवेति कथं ज्ञातं ? वेणु-निनदैर् आर्द्राणि । तत्र हेतुः—तत्-प्रतिध्वनिभिः पूर्णैः । तत्-प्रकारम् आह—आलोल-विलोचनयोर् विलोकितस्य या केलि-धारा कटाक्षाद्य्-अनवच्छिन्नता तया नीराजितौ चरणाग्रौ यैः । वेणु-वादनानत-शिरस्कतया नख-मण्डलेषु प्रतिबिम्बित-कटाक्ष-दीपावलिभिर् नीराजनम् उत्प्रेक्षितम् ॥३९॥

सारङ्ग-रङ्गदा ॒ इति वदन्त्य् एव मूर्च्छितासीत् । ततः सखीभिः कृष्ण-ताम्बूलोद्गारं तन्-मुखे न्यस्यागतोऽयं ते प्रिय पश्येति प्रबोधिताया ग्लानि-भावान् नेत्रे निमील्येव सत्यं कथयेति प्रलपन्त्या वचोऽनुवदन्न् आह—नृत्यन्न् इवागच्छतस् तस्य मणि-नूपुर-शिञ्जितानि, तद् एव मे प्रतीतिर् इत्य् अर्थः । आगमने हेतुम् आह—करुणाम्बु-राशेः ।

कीदृशानि ? वेणु-निनदैर् आर्द्राणि । कीदृशैस् तैः ? पाद-ताल-वलय-किङ्किणीनां प्रतिनाद-पूरो येषु तैः । तैर् मिश्रितैर् इत्य् अर्थः । तथा आलोल-लोचन-विलोकित-केलि-धारा-नीराजितौ तस्यैवाग्र-चरणौ यैः । स-वंशी-वादन-नृत्ये तालोन्नयनाय चरणाग्र-दर्शनात् । किं वा, व्रज-देवीनां नेत्राणि ज्ञेयानि ॥

स्वान्तर्-दशायां—शृणोमि किम् इत्य् अर्थः । बाह्ये—कदा किं वेत्य् अध्याहार्यम् ॥३९॥

—ओ)०(ओ—

(४०)

हे देव हे दयित हे भुवनैक-बन्धो

हे कृष्ण हे चपल हे करुणैक-सिन्धो ।

हे नाथ हे रमण हे नयनाभिराम

हा हा कदा नु भवितासि पदं दृशोर् मे ॥

कृष्ण-वल्लभा ॒ हे कृपा-समुद्र ! यद्य् आगतोऽसि, तदा कथं मन्-नेत्रयोः पात्रतां नायासीति दर्शनोत्कण्ठाम् आह—हे देवेति । हे देव ! दीव्यति क्रीडति मोदते विजिगीषति द्योत्यत इति । निरन्तर-क्रीडा-परेत्य् अर्थः । मे मम । न्व् इति वितर्के । दृशोर् नेत्रयोः पदं स्थानं कदा भवितासि भविष्यसि ? हा हेति प्रीत्या खेदे । यद् वा, कदा मे दृशोः पदं चिह्नम् अनु भवितासि ? स्व-केलि-धारा-मधुर-रसाञ्जनं करिष्यसीत्य् अर्थः ।

अतिप्रीत्याविष्कारम् आह—हे दयित ! अतिप्रिय, सञ्जात-दयेति वा । दया-शब्दाद् इतच् । दया तावन् मम क्व दृष्टेत्य् अत आह—हे भुवनैक-बन्धो ! भुवनेष्व् एकोऽनन्यो बन्धुर् हितकारी । सर्व-बन्धु-कृत्यं त्वय्य् एवास्तीति भावः । परस्पर-विसदृशानां भुवन-जनानाम् ।

अतिदुर्घटम् इदम्, अत आह—हे कृष्ण ! कर्षत्य् आकर्षति सर्वान् इति कृषेर् न औणादिकः । यद् वा, कृष्ण सच्-चिद्-आनन्द ।

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-संज्ञकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति ।

हे चपल ! निरन्तर-भक्तानुग्रह-साधन-पर ! तथा चोक्तं भारते—

ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति ।

यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥ [म.भा. ५.५८.२१] इत्य्-आदि ।

समस्त-दुःख-परिजिहीर्षकत्वम् आह—हे करुणैक-सिन्धो ! अस्मद्-दुःख-प्रहाण-करीणां करुणानां त्वम् एकः सिन्धुः, समर्थत्वात् । अन्येषां करुण-स्वभावानां दुःखितत्वेन दुःख-खण्डनेच्छा-रूप-करुणा-सत्त्वेऽपि निष्प्रयोजनत्वान् न सा करुणोच्यते । यतः—

दयालोर् असमर्थस्य दुःखायैव दयालुता ।

त्रैलोक्याभय-दक्षस्य सा तवैकस्य शोभते ॥ इति ।

प्रार्थक-काम-पूरकत्वम् आह—हे नाथ ! याच्ञा-पूरक-सकलैश्वर्य-विराजमान ! नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु इति धातोः ।

हे रमण ! रमयति क्रीडयति चित्तम् इति रमणः । अतस् तद्-दर्शनाकाङ्क्षाम् आह—हे नयनाभिराम ! नयनयोर् अभिराम । अतिरमणीयत्वेन नेत्र-ताप-हारकत्वात् । नयनयोर् गोचरत्वे सत्यम् अस्माकं जीवनम् इत्य् अभिप्रायः । वसन्त-तिलकं छन्दः ॥४०॥

सुबोधिनी ॒ पुनः स्फूर्त्य्-अपगमे भाव-शावल्योदयात् स-दैन्यम् आह । तत्र क्रीडानन्दाविष्टतया मद्-दुःखं न जानासीत्य् आह—हे देव क्रीडाविष्ट । हा हेत्य् अतिखेदे । कस्मिन् काले त्वं मे दृशोर् विषयं भविष्यसि । तत्र हेतुः—हे दयित । दयिततया तद्-अनुभवो युक्तः । दयितत्वम् अपि कथं ? भुवनानाम् एकः केवलो निरुपाधिको यो बन्धुः, हे तथा-विध ! जगद्-बन्धुतया ममापि बन्धुस् त्वम् एवेत्य् अर्थः । तद् अपि कुतः ? हे कृष्ण ! सर्वाकर्षक ! स्व-नाम-रूप-गुणादिभिर् जगद्-आकृष्यात्म-पर-करणाज् जगद्-बन्धुत्वम् । तर्हि कुतो दुर्लभता ? हे चपल ! स्वच्छन्द-चरित ! तर्हि कुतः प्राप्त्य्-आशा । करुणैका मुख्या यत्र हे स्थित-सिन्धो । तत्रात्मनो वैशिष्ट्यम् आह—हे नाथ ! अस्मत्-पालक ! इदं तु कथं ? हे रमण मद्-अभीष्ट-राधा-पते ! अत एवास्मन्-नयनयोर् अभिराम रति-जनक ॥४०॥

सारङ्ग-रङ्गदा ॒ अथोत्थाय दिशोऽवलोक्य, अयि सख्यो नूपुर-शब्दः श्रूयते, स न दृश्यते, तद् अत्र कुञ्जे कयापि रममाणः शठोऽयं तिष्ठतीति वदन्त्याः पुनर् उन्मादावेशाद् अन्य-सम्भोग-चिह्नाङ्कं तम् आगतं पुरः पश्यन्त्यास् तं प्रत्य् अमर्षोदयः । पुनर् गतम् इव मत्वा जात-पश्चात्तापाद् औत्सुक्योदयः । अतस् तयोः सन्धिः । तल्-लक्षणानि—सरूपयोर् भिन्नयोर् वा सन्धिः स्याद् भावयोर् युतिः [भ.र.सि. २.४.२३५] इति । अधिक्षेपापमानादेः स्याद् अमर्षोऽसहिष्णुता [भ.र.सि. २.४.१५९], कालाक्षमत्वम् औत्सुक्यम् इष्टेक्षाप्ति-स्पृहादिभिः [भ.र.सि. २.४.१५१] इति ।

तथा ताव् एव भावाव् आश्रित्य भाव-शावल्यं च । तल्-लक्षणं—शवलत्वं तु भावानां संमर्दः स्यात् परस्परं [भ.र.सि. २.४.२४४] । तत्रामर्षानुगा असूयौग्र्यावहित्थाः । औत्सुक्यानुगानि मति-दैन्य-चापलानि । अत् उन्मादोद्गताभ्यां भाव-सन्धि-भाव-शावल्याभ्यां प्रलपन्त्या वचोऽनुवदन्न् आह—अन्याङ्गना-सम्भुक्तं तं मत्वामर्षोदयात् सहज-निज-धीराधीर-मध्यात्व-गुणम् आश्रित्य स-बाष्पं वक्रोक्त्या सम्बोधयति—हे देव ! अन्याभिः सह दीव्यसीति देवस् त्वम् । अतस् तत्रैव गच्छेत्य् अर्थः । तल्-लक्षणं—धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियं [उ.नी. ५.३९] इति ।

तद् एवावधीरणाद् गतम् इव तं मत्वा जात-पश्चात्तापात् दर्शनौत्सुक्येनाह—हे दयित ! त्वं तु मे प्राण-दयितोऽसि, कथं त्यक्ष्यसे, तत् पुनर् दर्शनं देहीत्य् अर्थः ।

पुनर् आगत्यानुनयन्तम् इव तं मत्वामर्षानुगासूयोदयाद् धीर-मध्यात्वम् आश्रित्य वक्रोक्त्या सोल्लुण्ठम् आह—हे भुवनैक-सिन्धो ! तवात्र को दोषस् त्वं न केवलं ममैव सर्व-गोपीनाम् अपि । किम् उत तासाम् एव, वेणु-नादाकृष्टानां भुवनानां तद्-अन्तर्गत-स्त्रीणाम् अपि बन्धुर् असि । तत्-सर्व-समाधानार्थं गच्छेत्य् अर्थः । तल्-लक्षणं—धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियं [उ.नी. ५.३४] इति ।

पुनर् गतम् इव मत्वौत्सुख्यानुगमत्याख्य-भावोदयाद् आह—“हे कृष्ण ! हे श्यामसुन्दर ! चित्ताकर्षक ! चित्तं त्वया हृतम् । किं मे मानेन ? तत् सकृद् अपि दर्शनं देहि” इति भावः ।

पुनर् आगत्य, “प्रिये मया बहिर् एव स्थितम् । न कुत्रापि गतम् । प्रसीद” इत्य् अनुनयन्तम् इव मत्वौग्र्योदयाद् अधीर-मध्यात्व-गुणम् आश्रित्य स-रोषम् आह—“हे चपल ! बल्लवी-वृन्द-भुजङ्ग ! पर-स्त्री-चौर ! गच्छ गच्छ” इत्य् अर्थः । तल्-लक्षणं—अधीरा परुषैर् वाक्यैर् निरस्येद् वल्लभं रुषा [उ.नी. ५.३७] इति ।

पुनर् गतम् इव मत्वा हन्तावधीरणाद् गतोऽयं पुनर् नैष्यतीति दैनोदयात् स-काकु प्राह—“हे करुणैक-सिन्धो ! यद्यप्य् अहम् अपराधिनी, तथापि त्वं करुणा-कोमलत्वाद् दर्शनं देहि” इत्य् अर्थः ।

पुनर् आगत्य “प्रिये किम् इति मुधा मानेन मां कदर्थयसि ? प्रसीद” इत्य् अनुनयन्तम् इव मत्वामर्षानुगावहित्थोदयाद् धीर-प्रगल्भा-गुणम् आश्रित्य सौदासीन्यम् आह—“हे नाथ ! त्वं तु व्रज-वासिनां नो रक्षितास्ति । का नाम हत-धीस् त्वां न सम्भाषते ? किं तु ब्राह्मणीभिर् व्रतार्थं मौनं ग्राहितास्मि । तत् क्षन्तव्योऽयं ममापराधः” इति भावः । तल्-लक्षणं—उदास्ते सुरते धीरा सावहित्था च सादरा [उ.नी. ५.५३] इति ।

पुनर् गतम् इव मत्वा मुहुर् निरस्तोऽसौ नायास्यत्य् एवेति चापल्योदयाद् यदि कृपया पुनर् दर्शनं ददाति, तदा स्वयम् एव तं कण्ठे ग्रहिष्यामीति स-दैन्यम् आह—हे रमण ! सदा मां रमयतीति रमणस् त्वम् । इदानीम् अप्य् आगत्य तथा कुरु” इत्य् अर्थः ।

पुनर् आगतं मत्वा तिरस्कृतागन्तुकामर्ष-भावेन प्रबल-सहजौत्सुक्येनाक्रान्त-मनस्तया तद्-आश्लेषाय प्रसारित-बाहु-युगला तम् अलब्ध्वा जात-बाह्य-भूषणिः स-विक्लवम् आह—हे नयनाभिराम ! नयनानन्द कदा नु मे दृशोः पदं गोचरो भवितासि । हा हेत्य् अतिखेदे ।

स्वान्तर् दशायां तु—श्री-राधा-सङ्गतार्थम् अनुनयन्तम् इव तं मत्वा तं प्रत्य् अमर्षोदयः । गतम् इव मत्वा तथा सङ्गतम् अनायौत्सुक्यम् । अन्यद् यथा-योग्यं ज्ञेयम् । आरूढानुराग-दशायां भक्तस्य साधक-शरीरेऽपि तत्-तद्-भावोदयात् ।

बाह्ये, यथायथं सम्बोधनेषु दैन्यौत्सुक्यादि-भावो ज्ञेयः ॥४०॥

—ओ)०(ओ—

(४१)

अमून्य् अधन्यानि दिनान्तराणि

हरे त्वद्-आलोकनम् अन्तरेण ।

अनाथ-बन्धो करुणैक-सिन्धो

हा हन्त हा हन्त कथं नयामि ॥

कृष्ण-वल्लभा ॒ प्रारब्ध-क्षय-विलम्बम् अप्य् असहमानः श्री-कृष्ण-दर्शनोत्कण्ठार्ति-भरेण कातरस् तं प्रत्य् आह—अमूनीति । हे हरे ! दुःख-हरण-शील ! त्वम् एवास्म-दुःख-हर्तेति भावः । त्वद्-आलोकनं त्वद्-दर्शनम् अन्तरेण विनामून्य् आगामीनि दिनान्तराणि दिन-मध्यानि कथं केनावलम्बनेन । हा हन्त हा हन्तेति खेदे वीप्सा । नयामि गमयामि । यतोऽधन्यान्य् अभद्राणि । अतिदुःख-प्रदत्वात् । पूर्वाणि तु कथञ्चिद् ध्यान-रसेन गमितानि । प्रतिपदम् उत्कण्ठाया अतिवर्धमानत्वात् । त्रुटिर् युगायते [भा.पु. १०.३१.१५] इत्य्-आदिवत् क्षणम् अपि दिनान्तरवत् प्रतिभाति । आयास्यन्त्य् अन्यान्य् एव महा-घोराणि दिनान्ति तु कथं गमयितुं शक्यन्त इति भावः ।

अतिदुःखितवद् आह—हे अनाथ-बन्धो ! मद्-विधानन्य-नाथस्य त्वम् एव बन्धुः, मद्-विधेऽनन्य-निवर्तनीय-दुःखे त्वम् एव पूर्ण-कर्ता नान्य इत्य् अर्थः । हे करुणैक-सिन्धो कृपा-समुद्र ! अतः प्रारब्ध-क्षय-विलम्बं परिहृत्य दर्शनं देहीति भावः । अथवैवं योजना—हे अनाथ-बन्धो ! त्वद् इत्य् अव्ययम् । त्वद्-गतेनान्तरेणान्तरात्मना । आलोकनम् आ समन्तात् त्वद्-अन्य-दृष्टि-मात्र-दर्शनं हे हरे दूरीकरोमि । किं तु, हे करुणैक-सिन्धो, अमून्य् अधन्यानि दिनान्तराणि कथं नयामि नेष्ये । वर्तमान-सामीप्ये वर्तमानवद् वा [पा. ३.३.१३१] इति लट् ॥ उपेन्द्र-वज्रा छन्दः ॥४१॥

सुबोधिनी ॒ अथोत्कण्ठयात्यार्तः काल-निर्यापनासामर्थ्यं निवेदयन्न् आह—हे हरे त्वद्-आलोकनं विनामून्य् अधन्यानि दिवसानाम् अन्तराणि मध्यानि । रात्रीर् इत्य् अर्थः । तद्-अभिसरण-स्मारक-रात्रीः केनोपायेनातिवाहयामीति त्वम् एवोपदिश इत्य् अर्थः । कस् त्वं मे यत् तद् उपदिशामि, येऽन्यथा हे तेषां बन्धो ! तद् अपि कुतः—हे करुणैक-सिन्धो ! ॥४१॥

सारङ्ग-रङ्गदा ॒ अथ पुनर् विरह-वह्नि-ज्वालोच्छलितोद्वेगायाः क्षणम् अप्य् अहर्-गणान् मत्वा स-वैक्लव्यं प्रलपन्त्या वचोऽनुवदन्न् आह—हे हरे अमूनि दिनस्याहो-रात्रस्यान्तराणि मध्य-गतानि । क्षण-वृन्दानीति शेषः । अमूनि कोटि-कल्प-तुल्यत्वेनातिवाहितुम् अशक्यानीति वा । हा खेदे । हन्त विषादे । तयोर् अतिशये वीप्सा । त्व-आलोकनं विना कथं नयाम्य् अतिवाहयामि । तत्त्वम् एवोपदिशेत्य् अर्थः । तद् धेतोर् एवाधन्यानि ।

ननु यद्य् अनङ्ग-तप्तासि, तदा पतयश् च वः विचिन्वन्ति [भा.पु. १०.२९.२०] इति दिशा तम् एव गच्छेत्य् उट्टङ्क्य, पति-सुतादिभिर् आर्तिदैः किं [भा.पु. १०.२९.३३] इति वदन्न् आह—हे अनाथ-बन्धो ! अनाथानां त्यक्त-पतीनां वल्लवीनां नस्त् त्वम् एव बन्धुर् असि । ते तु दुःखदास् त्यक्ता एवेत्य् अर्थः ।

ननु भर्तुः शुश्रूषणं वो धर्मः [भा.पु. १०.२९.२४] इदम् अयोग्यम् इत्य् अत्र चित्तं सुखेन भवतापहृतं [भा.पु. १०.२९.३४] इतिवद् आह—हे हरे चित्तेन्द्रियादि-हारिन् ! सोऽयं तवैव दोष इत्य् अर्थः ।

ननु कामिन्यो यूयं चपला एव, मया कथं धर्मस् त्याज्यः ? तत्र, तन् नः प्रसीद [भा.पु. १०.२९.३८] इतिवत् सदैन्यम् आह—हे करुणैक-सिन्धो ! कृपा-सिन्धुत्वाद् धर्मम् अप्य् उल्लङ्घ्य दीनान् नोऽनुगृहाणेत्य् अर्थः ।

स्वान्तर्-दशायां—अनया तथा क्रीडनस् तव दर्शनं विना । अन्यत् समम् । बाह्यार्थः स्पष्टः ॥४१॥

—ओ)०(ओ—

(४२)

किम् इह कृणुमः कस्य ब्रूमः कृतं कृतम् आशया

कथयत कथाम् अन्यां धन्याम् अहो हृदये-शयः ।

मधुर-मधुर-स्मेराकारे मनो-नयनोत्सवे

कृपण-कृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्ण-दर्शनादि-तृष्णाम् अतिदुर्निवाराम् आह—किम् इहेति । इह प्रबलतरायां तृष्णायां सत्यां किं कृणुमः ? किं हन्तुम् इच्छामः ? कृणुम इति कृ विजिघांसायाम् इति धातोः । यद् वा, किं कृणुमः किं कुर्मः ? धातूनाम् अनेकार्थत्वात् । यथा कृणु कुचेषु कृन्छि हृच्-छयं [भा.पु. १०.३१.७] इति श्री-दशमे, अलभ्य-पदार्थानुसन्धान-रहितत्वात् । कस्य ब्रूमः ? कस्यापि कृतिनस् तत्र न प्रभुत्वम् । कस्येति कर्मणि शेष-विवक्षायां षष्ठी । ममात्र दुरन्त-तृष्णा जाता कथं तत्-प्राप्तिर् इति परम-हास्यास्पदत्वात् । अहो इति स-चमत्कृते खेदे । एस्थित्य्-आशया कृतं कृतं व्यर्थम् एव । केनापि मा क्रियताम् इति । कस्याग्रे कृतं ब्रूम इति वा । तुष्णीं-भावः श्रेयान् इति, यतः सर्व एवेदानींमे प्रतिकूलाः । तद्-वैमुख्ये सर्वस्यैव वैमुख्यात् । उक्तं च माघे—

प्रतिकूलम् उपगते हि विधौ

विफलत्वम् एति बहु-साधनता ।

अवलम्बनाय दिन-भर्तुर् अभून्

न पतिष्यतः कर-सहस्रम् अपि ॥ [शि.व. ९.६] इति ।

हृदये शेत इति हृदयेशयः । शय-वास-वासिष्व् अकालात् [पा. ६.३.१८] इति सप्तम्य् अलुक् । हृदयेशं याति प्राप्नोतीति वा हृदयेशयो मनो-रागः । अन्यां काम् अपि तत्-सम्बन्धिनीं धन्यां प्राण-धन-करीं कथां कथयत्व् इत्य् आशिषि लोट् [पा. ३.३.१७३] । यया सुखं तिष्ठामीति शेषः । तद् अपि न सङ्गच्छत इत्य् आह—तृष्णा चित्त-गत-वाञ्छा कृष्णे सर्वाकर्षके चिरं प्रतिक्षणं लम्बते स्रंसते । सर्वतश् च्युतापि तस्मिन्न् एव स्रस्ता भवतीत्य् अर्थः । वृक्षाद् गलितं पत्रादि पुनर् अपि तत्र पूर्ववल् लगति तद्वत् । तृष्णा कीदृशी । कृपण-कृपणातिदरिद्रा । यथा यथा पूर्तिर् भवति, तथा तथा वर्धत इत्य् अर्थः ।

कृष्णं विशिनष्टि—मधुर-मधुर-स्मेराकारे । मधुराद् अपि मधुरः स्मेर ईषद्-धास्य-युक्त अतिरसावेशाद् उल्लास-विशेष-प्राप्त इति वाकार आकृतिर् यस्य तस्मिन् । यद् वा, मधुर-मधुरोऽतिशय-मधुरो यः स्मेरः स एवा समन्तात् कारा बन्धन-गृहं यस्मिन् ।

पुनर् विशिनष्टि—मनो-नयनोत्सवे । मनो-नयनयोर् मूर्तिमान् उत्सवो यस् तस्मिन् ॥

हरिणी छन्दः—न-स-म-र-स-ला गः षड् वेदैर् हयैर् हरिणी मता [छन्दो-मञ्जरी २] ॥४२॥

सुबोधिनी ॒ अथातिव्याकुलः स-निर्वेदम् आह—कृष्णे तृष्णा कृपणाद् अप्य् अतिकृपणा सती, बत खेदे, चिर-कालं व्याप्य लम्बते प्रतिक्षणं वर्धते । इह तन्-निमित्तं कम् उपायं कुर्मः । त्वम् उपाय उपदिशेति । कस्य वा ब्रूमो वक्तुम् अपि न शक्नुमः । अत आशया यत् कृतं तत् कृतं विफलम् एव । अथ स्वान् प्रति स-विमर्शम् आह—तत् कथां त्यक्त्वान्यां काम् अपि धन्यां सफलां वार्तां कथयत । तद् एव हृदि स्फूर्त्या साश्चर्यम् आह—अहो यत्-कथां त्यक्तुम् इच्छामः, स एव हृदि वर्तते । अतः कथं तत्-त्याग इत्य् अर्थः । तृष्णा-वृद्धौ हेतुः—मधुराद् अपि मधुरस् तथा स्मेरः स्वाभाविक-स्मित-युक्त आकारो यस्य तस्मिन् । अतो मनो-नयनयोर् उत्सवो यस्मात् ॥४२॥

सारङ्ग-रङ्गदा ॒ अथोद्वेगेन पुनर् भाव-शावल्योदयात् प्रलपन्त्या वचोऽनुवदन्न् आह । प्रथमम् आवेगोदयाद् आह—हे सख्यः ! इह वैशसे तत् किं कृणुमो येन तद्-दर्शनं स्यात् ? ततस् ता अपि व्यग्रा दृष्ट्वा चिन्तोदयाद् आह—कस्य ब्रूमः ? यूयम् अपि तुल्यावस्था एव, तद् अन्यं कं येन भद्रं स्यात्, तत् पृच्छाम इत्य् अर्थः । तदैव ताम् आच्छाद्य मत्य्-आख्य-भावोदयात्, आशा हि परमं दुःखं [भा.पु. ११.८.४४] इत्य्-आदिवद् आह—आशया तद्-आशया यत् कृतं तत् कृतम् एव । अन्यन् न कर्तव्यम् । किं वा, तया यत् कृतं तत् कृतं व्यर्थम् । तत् तां त्यजतेत्य् अर्थः । तदैवामर्षोदयाद् आह—अतस् तस्याकृतज्ञस्य वार्तां त्यक्त्वान्यां काम् अपि धन्यां पुण्यां कथां कथयत । कथयत्व् इति पाठे, एकां सखीं प्रत्य् उक्तिः, भवतीत्य् अर्थात् । तदैव हृदि स्फुरन्तं कृष्णं शरैर् विध्यन्तं कामं मत्वा तम् आच्छाद्य त्रासोदयात् स-वैक्लव्यम् आह—अहो कष्टं ! हृदयेशयः कामः शत्रुर् अयं मारयति, किं कुर्मः ? इत्य् अर्थः । किं वा, हृदि कृष्ण-स्फूर्त्या साश्चर्य-विषादम् आह—अहो यत्-कथां त्यक्तुम् इच्छामः, स एव हृदि वर्तते । तत् तस्माद् आच्छाद्य सहजौत्सुक्योदयात्, तज् जानतीनां नः कृष्णे [भा.पु. १०.४७.४७] इतिवत् स-विषादम् आह—मधुरेति । बतेति खेदे । अस्तु तावत् त्यागः, प्रत्युत कृष्णे चिरं तृष्णा लम्बते, प्रतिक्षणं वर्धते । कीदृशी ? कृपणाद् अपि कृपणा । उत्कण्ठयातिदीनेत्य् अर्थः । कीदृशे ? मधुराद् अपि मधुरः स्मेरो मदन-मदादिभिर् उत्फुल्लश् चाकार आकृतिर् यस्य तस्मिन् । अतो मनो-नयनयोर् उत्सवो यस्मात् तस्मिन् ।

स्वान्तर्-दशायां तु पूर्ववद् अर्थः । बाह्यार्थः स्पष्टः ॥४२॥

—ओ)०(ओ—

(४३)

आभ्यां विलोचनाभ्याम् अम्बुरुह-विलोचनं बालम् ।

द्वाभ्याम् अपि परिरब्धुं दूरे मम हन्त दैव-सामग्री ॥

कृष्ण-वल्लभा ॒ पूर्वं मधुर-मधुर-स्मेराकारश् चक्षुभ्याम् आलिङ्गितः । सम्प्रति तद् भाग्यं नास्तीत्य् आह—आभ्याम् इति । द्वाभ्यां विलोचनाभ्याम् अम्बुरुह-विलोचनम् । अम्बुरुहं कमलं तद्-विशिष्टे ईषद्-अरुण-कोमल-गुण-युक्ते लोचने यस्य तम् । बालं सुकुमारं परिरब्धुम् आलिङ्गितुं दर्शनानन्दातिलालसया तत्रैव मग्नम् इव कर्तुम् । हन्त खेदे । मम दैव-सामग्री भाग्य-रूपा सामग्री दूरे । समीपे न दृश्यत इत्य् अर्थः । तादृश-भाग्यस्यासम्भवात् । खेद-बाहुल्येन क्रिया-पदस्य वक्तुम् अशक्यत्वात् । आभ्यां द्वाभ्याम् अपीति, इदं-द्वि-शब्दयोर् अयं भावः—नयनयोर् एकस्मिन् बुध्यमानेऽन्यत्रानन्दाश्रु-संवलितत्वेन तथैव स्थित इति द्वाभ्याम् अईत्य् अधिक्षेपोक्तिः । आर्या छन्दः ॥४३॥

सुबोधिनी ॒ पुनर् अपि तथैवाह—आभ्यां द्वाभ्याम् अपि विलोचनाभ्याम् अम्बुरुह-लोचनं बालं परिरब्धुं द्रष्टुं मम देव-सामग्री तादृश-भाग्य-रूप-दर्शन-साधनं हन्त दूरे । नास्त्य् एवेत्य् अर्थः । भाव-गर्भितैक-नेत्रापाङ्ग-दर्शनं तावद् आस्ताम् । सामान्यतो द्वाभ्याम् अपि द्रष्टुं भाग्यं नास्तीत्य् अर्थः ॥४३॥

सारङ्ग-रङ्गदा ॒ अथात्याधिभारोत्पन्न-तानवातिशयाद् ग्लानिर् उत्पन्ना । तच् चेष्टा त्रिभिः श्लोकैः । तत्र प्रथमं भूमौ निपत्य नेत्रे निमील्य तद्-अदर्शनोत्पन्न-विषाद-दैन्याभ्याम् अधुनैवागतं तं परिरप्स्यसे धैर्यं कुर्व् इत्य् आश्वासयन्तीः सखीः प्रति स-नैराश्यं प्रलपन्त्या वचोऽनुवदन्न् आह—आगतेऽप्य् अस्मिन्न् अशक्त्या भुज-चालनाद्य्-असामर्थ्यात् साक्षाद्-आलिङ्गनं दूरे तावद् आस्ताम्, विलोचनाभ्याम् अपि तं बालं किशोर-शेखरं परिरब्धुं मम दैव-सामग्री भाग्य-रूप-दर्शन-साधनं दूरे । नास्त्य् एवेत्य् अर्थः । हन्त विषादे । विषादे हेतुः—अम्ब्व् इति । तत्रापि भावोद्गारि-वाम-नेत्र-प्रान्तेन दर्शनम् आस्ताम् । द्वाभ्याम् अपीतर-जनवद् दर्शन-भाग्यं नास्तीत्य् आह—द्वाभ्याम् अपि ।

नन्व् अधुनैव द्रक्ष्यसि, किम् इति खिद्यस इत्य् अत्र नेत्रोन्मीलने प्रयतमाना तद्-अशक्त्याह—आभ्याम् । स चेद् आगच्छेद् आगच्छतु नाम, मम पुनर् आभ्यां तद्-दर्शनं नास्त्य् एवेति भावः ।

स्वान्तर्-दशायां—तया सह विलसन्तं तम् । अन्यत् समम् । बाह्यार्थः स्पष्टः ॥४३॥

—ओ)०(ओ—

(४४)

अश्रान्त-स्मितम् अरुणारुणाधरोष्ठं

हर्षार्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम् ।

विभ्राम्यद्-विपुल-विलोचनार्ध-मुग्धं

वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥

कृष्ण-वल्लभा ॒ अरुणारुणाधरोष्ठम् अरुणाद् अप्य् अरुणम्, अत्यरुणम् इति वीप्सायां द्विर् भावः । ओष्ठाधरम् अधरोष्ठं यस्य तत् । अरुणवद् अरुणं वा । अरुणोऽव्यक्त-रागेऽर्के सन्ध्या-रागेऽर्क-सारथौ इति मेदिनी । पुनः कीदृशं ? हर्षार्द्र-द्वि-गुण-मनोज्ञ-वेणु-गीतम् । हर्षेणार्द्रं स्निग्धम् अत एव द्वि-गुणं मनोज्ञं मनोहरं वेणु-गीतं वंशी-रव-विरचित-विविध-गान-विशेषो यत्र तत् । यद् वा, हर्षेणार्द्रः स्वेद-सात्त्विक-भावात् ततश् च द्वि-गुण-मनोज्ञो यो वेणुस् तस्य गीतं यस्मिंस् तत् । पुनः कीदृशं ? विभ्राम्यद्-विपुल-विलोचनार्ध-मुग्धम् । विभ्रमतोर् वैदग्ध्यी-पूर्वं भ्रमतोर् विपुलयोर् विशालयोर् विशिष्ट-लोचनयोर् यद्-अर्धं तेन मुग्धं मनोहरम् । विलोचनार्द्रम् इति पाठे—विभ्राम्यद्भ्यां विपुलाभ्यां विलोचनाभ्याम् आर्द्रं च तन् मुग्धं चेति । आर्द्रार्द्रेति पौनरुक्त्यं न दोषः, औत्सुक्यात् । प्रहर्षिणी छन्दः ॥४४॥

सुबोधिनी ॒ पुनर् उद्यद्-उत्कण्ठा-गुण्ठितः प्रार्थयते—नु भो श्री-कृष्ण तव वदनाम्बुजं कदा वीक्षिष्ये ? अम्बुजताम् आपादयन्न् आह—अश्रान्तं सततं स्मितं प्रकाशो यस्मिन् । तथाप्रकाशे हेतुः—अरुणाद् अप्य् अरुणावधरोष्ठौ यत्र । स्मितम् अपि कथं ? हर्षेणार्द्रम् अत एव द्विगुण-मनोज्ञं वेणु-गीतं यत्र । तत्-प्रकारम् आह—विशेषेण भ्रामतोर् भ्रमरवच् चञ्चलयोः प्रियेक्षणोत्फुल्ल-विलोचनयोर् अर्धेनापाङ्गेन वीक्षणेन मनोहरम् ॥४४॥

सारङ्ग-रङ्गदा ॒ पुनः स्व-प्रेरक-तच्-छ्री-मुख-स्फूर्त्या विषादौत्सुक्याभ्यां—जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् [भा.पु. १०.५२.४३] इतिवत्, ध्यानेन याम पदयोः पदवीं सखे ते [भा.पु. १०.२९.३५] इतिवच् च तं प्रति प्रलपन्त्या वचोऽनुवदन्न् आह—नु भो श्री-कृष्ण तव वदनाम्बुजम् अत्र जन्मनि न दृष्टम् एव, कदापि जन्मान्तरेऽपि वीक्षिष्ये । कीदृशं ? अश्रान्तं सततं स्मितं यस्मिन् । मत्-प्रेरण-हर्षेणार्द्रमतो द्वि-गुण-मनोज्ञं वेणु-गीतं यस्मिन् । मत्-प्रेरणार्थं विभ्राम्यद्-विपुल-विलोचनयोर् यद्-अर्धं तेन मुग्धं च यत् ॥ स्वान्तर्-दशायां पूर्ववत् । बाह्यार्थः स्पष्टः ॥४४॥

—ओ)०(ओ—

(४५)

लीलायताभ्यां रस-शीतलाभ्यां

नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।

आलोकयेद् अद्भुत-विभ्रमाभ्यां

काले कदा कारुणिकः किशोरः ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्णस्यावलोकन-विशेषम् आशास्ते—लीलायिताभ्याम् । किशोरो रस-मय-किशोरावस्थो नयनाम्बुजाभ्यां कदा कस्मिन् काले समये आलोकयेद् आलोकयिष्यति । कारुणिको मद्-दुःखासहिष्णुः । कारुणिकत्वाद् दर्शनं सम्भवतीत्य् औत्सुक्यम् । कीदृशाभ्यां ? लीलायिताभ्याम् । लीला शृङ्गार-भावजा क्रिया तयायितं गतं ययोस् ताभ्याम् । अत्याश्चर्य-लावण्य-गति-युक्ताभ्याम् इत्य् अर्थः । हेला लीलेत्य् अमी हावाः क्रियाः शृङ्गार-भावजाः इत्य् अमरः ।

रस-शीतलाभ्यां रसेन शृङ्गारादिना शीतलाभ्यां स्निग्धाभ्याम् । मध्यतो नीलं प्रान्ततोऽरुणं च ययोस् ताभ्याम् । तारका-नीलिम-सहजारुणिम-मिश्रित-मदोद्भूतारुण-गुण-युक्ताभ्याम् इत्य् अर्थः ।

अद्भुत-विभ्रमाभ्याम् अद्भुतो विभ्रमो विलासो भ्रमणं वा ययोस् ताभ्याम् । विभ्रमो भूषणादीनां विन्यासो विभ्रमो मतः इति मेदिनी । अद्भुतो विभ्रमो भूषा-स्थान-विपर्ययो याभ्याम् । यल् लावण्य-निरीक्षणेन सर्वेषां सर्वम् अपि विस्मृतं भवतीति । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः इति मेदिनी । एतेन नयनयोः सुकोमलत्वम् अतिदीर्घत्वं लीला-रस-मयत्वं च सूचितम् । इन्द्र-वज्रा छन्दः ॥४५॥

सुबोधिनी ॒ अथ दैन्यात् स्वायोग्यतां मत्वा तद्-आलोकनम् आशास्ते । स किशोरो नयनाम्बुजाभ्यां कदा काले तादृश-भाग्योदय-समये । माम् इत्य् अध्याहारः । आलोकयेत् । तत् सम्भावयन्न् आह—कारुणिकः । कारुण्यान् मां पश्येद् इत्य् अर्थः । कीदृग्भ्यां—लीला-प्राचुर्याल् लीलेवाचरतो ये ताभ्याम् । तत् कथं ? शृङ्गार-रसेन शीतलाभ्याम् । तल्-लक्षणम् आह—तत्-स्वाभाव्येन नीले जागराद् अरुणे ये, अत एवाद्भुतो विलासो ययोः । तद्-दर्शन-भाग्यं मम चेन् नास्ति, तर्हि लीलयान्यतोऽवलोकयता तेनाहम् एव दृश्यः स्याम् इत्य् अभिप्रायः ॥४५॥

सारङ्ग-रङ्गदा ॒ अथ सीदन्त्याः, अयि स एवागत्य त्वां द्रक्ष्यति, तवापि शक्तिर् भविष्यतीति सखी-वाक्यात् ताः सोत्कण्ठं पृच्छन्त्या वचोऽनुवदन्न् आह—स किशोरो नयनाम्बुजाभ्यां कदा काले आलोकयेत् ? माम् इति शेषः । इच्छा-प्रकाशने लिङ् । किं वा, इदानीं म्रिये कदा वालोकयेद् इति नैराश्योक्तिः । स-करुण-प्रेम-रस-शृङ्गार-रसयोः प्रवाहेन शीतलाभ्याम् । तथा तारयोर् नीलिम्ना प्रान्तयोर् अरुणिम्ना च युक्ताभ्याम् । मदिरयोर् इवाद्भुतो विभ्रमो ययोस् ताभ्याम् । अतो लीला-प्राचुर्याल् लीलेवाचरति लीलायते, ताभ्याम् । अपराधिनीं मां पश्यति चेत्, तदा हित्वा कथं गतः ? इति विमृश्य स-दैन्यम् आह—कारुणिकः । कृपया सम्भवेद् अपीति भावः ।

स्वान्तर्-दशायां—एतां कदालोकयेद् इति । बाह्ये—कदा कृपावलोकनं करिष्यतीति ॥४५॥

—ओ)०(ओ—

(४६)

बहल-चिकुर-भारं बद्ध-पिच्छावतंसं

चपल-चपल-नेत्रं चारु-बिम्बाधरोष्ठम् ।

मधुर-मृदुल-हासं मन्दरोदार-लीलं

मृगयति नयनं मे मुग्ध-वेषं मुरारेः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-विग्रहावलोकनं विचारयंस् तद् अभिलषति—बहलेति । मे मम नयनं मुरारेः । मुर वेष्टने धातुः । मुरति वेष्टयति दर्शन-प्रतिबन्धक-रूप-लज्जा-भयादिर् एव मुरस् तस्यारिः । न हि श्री-कृष्णस्य रूपे मुरली-नादे वा सकृद्-अनुभूते लज्जाद्य्-अर्गला तिष्ठति । तस्य मुग्ध-वेषम् । मुग्धं सुन्दरं स्वत एव वेषं भूषण-रूपम् । भूषण-भूषणाङ्गं [भा.पु. ३.२.१२] इत्य् उक्तेः । मृगयत्य् अन्वेषति । कथं दर्शनं स्यात् ? इति विचारयतीत्य् अर्थः । मृग अन्वेषणे इति धातुः । मृग्यत इति मृगः, मृगं करोतीति मृगयति ।

वेषं विशिनष्टि—बहल-चिकुर-भारम् । बहलो वेष-कौशलेन चिकुराणां केशानां भारो यस्मिंस् तम् । पुष्प-मालाद्य्-अलङ्कृतत्वाद् भार-निरूपणम् ।

बद्ध-पिच्छावतंसम् । बद्धो रचना-सौन्दर्य-विशेषेण सन्दर्भितः पिच्छा-नाम-वतंसः शिरो-भूषणं यस्मिंस् तम् ।

चपल-चपल-नेत्रम् । यद्यपि स्वभावत एव चपल-नेत्रता, तत्रापि वेषावलोकनेन सर्वतश् चकित-दृष्टि-सञ्चारेण च चपलाद् अपि चपले नेत्रे यस्मिंस् तम् । प्रतिपद-चापल्य-वृद्धेः ।

चारु-बिम्बाधरोष्ठम् । स्वभावत एव चारु मनोहरं बिम्ब-प्रायम् अधरोष्ठं यस्य तम् ।

मधुर-मृदुल-हासम् । मधुरो माधुर्य-रस-प्रदो मृदुं लात्य् आदत्त इत्य् एतादृशो हासो हास्यं यस्य तम् । एतेन स्मित-हासो ध्वनितः । तल्-लक्षणं चोक्तं पूर्वम् एव ।

मन्दरोदार-लीलम् । मन्दरः कल्प-तरुस् तत्-प्राया । मन्दरा बहला वा । नाना-विधोदारा बहु-रस-प्रदा लीला यस्य तम् । मन्दरा मन्दर-पर्वत-प्रायोदारा महती लीला यस्येति वा । यष्टमृतोत्पादनाय सर्वैर् मिलित्वा मन्दरानयन-प्रयत्नः कृतः, तथा श्री-विग्रह-दर्शनानन्दामृत-प्राप्त्य्-अर्थं मन्दर-रूप-लीला-निरूपणम् इत्य् अर्थः । मन्दरस् तु पुमान् मन्थ-शैलं मन्दर-पादपे वाच्यवद् बहले मन्दे इति विश्वः ॥ मालिनी छन्दः ॥४६॥

सुबोधिनी ॒ पुनर् उत्कण्ठया स्व-नेत्रम् उपालम्भयन्न् आह—मुरारेर् मनोहर-वेषं मे नयनं मृगयति । अहं किं करोमि । अथवास्य को दोषः ? बहलो निविडश् चिकुर-भारो यत्र । तत्र बद्धः पिञ्छावतंसो यस्मिन् । अनेन मुग्धताम् उक्त्वा तद्-उद्दीपनान् आह—अतिचपले नेत्रे यत्र । चारु-बिम्ब-फलवद् अधरोष्ठौ यत्र । मधुरो मृदुलश् च हासो यत्र । नेत्र-क्षोभकत्वम् आह—मन्दराद्रेर् इवोदारा लीला यत्र । यथा तेन दुग्धाब्धिं संक्षोभ्य तस्यामृतादिकं हृतं तथैव तद्-वेषेण नेत्र-धैर्यादिकम् इति भावः ॥४६॥

सारङ्ग-रङ्गदा ॒ अथ पुनर् मूर्च्छन्त्याः, सखि ! उत्तिष्ठ पश्यायम् आगतः श्री-कृष्ण इति सखीनाम् आश्वासनैः स-सम्भ्रमं नेत्रे उन्मील्योत्थाय दिशोऽवलोकयन्त्यास् तम् अप्रेक्ष्य ताः प्रति प्रलपन्त्या वचोऽनुवदन्न् आह—हे सख्यः ! मुरा कुत्सा तद्-अरेः । परम-सुन्दरस्येत्य् अर्थः । मुग्धं वेषं मे नयनं मृगयति । शीघ्रं दर्शयतेति भावः । कीदृशं ? बहलः स्निग्ध-निविडश् चिकुर-भारो यस्मिन् । तत्रैव बद्धः पिञ्छावतंसो यस्य । चपलान् मीनाद् अपि चपले नेत्रे यस्मिन् । चपलः पारदे मीने इति विश्वात् । चारु-बिम्बाधरोष्ठौ यत्र । मधुरो मृदुलश् च हासो यत्र । वेषस्य गाम्भीर्यं क्षोभकत्वं चाह—मन्दराद्रेर् इवोदारा महती लीला यस्य । तेन यथा दुग्धाब्धिं सङ्क्षोभ्य रत्नादिकं हृतं तथा तेनास्माकं हृदयं सङ्क्षोभ्य धैर्यादिकम् । अतो महा-क्षोभकम् इति भावः ।

स्वान्तर्-दशायां—तत्-सङ्गम-मधुर-वेषम् । बाह्यार्थः स्पष्टः ॥४६॥

—ओ)०(ओ—

(४७)

बहल-जलद-च्छाया-चौरं विलास-भरालसं

मद-शिखि-शिखा-लीलोत्तंसं मनोज्ञ-मुखाम्बुजम् ।

कम् अपि कमलापाङ्गोदग्र-प्रसङ्ग-जडं जगन्-

मधुरिम-परीपाकोद्रेकं वयं मृगयामहे ॥

कृष्ण-वल्लभा ॒ नयनं तावत् पुरो-वर्तिनम् एव मृगयितुं शक्नोति, हा हन्त किं कुर्म इत्य् आह—बहलेति । वयं कम् अप्य् अद्भुतं जगन्-मधुरिम-परीपाकोद्रेकं जगत्सु यो मधुरिमा तस्य परिपाको वृद्धिस् तस्य उद्रेकः । परम-पूर्णतम-माधुर्यम् इत्य् अर्थः । मृगयामहे केनोपायेन पश्याम इति विचारयामहे ।

तद्-विदस् तु केवलं भावाभ्यासम् एवोपायम् उपदिशन्ति, स त्व् अत्यन्त-दुर्घट इति भावः । कीदृशं ? बहल-जलद-च्छाया-चौरम् । बहल-जलदः सान्द्र-मेघश् छाया-चौरश् च्छाया कान्तिस् तस्याश् चौरो यस्य तम् । तद्-वपुः-प्रतिबिम्ब-कान्तिं चौरयित्वा मुधा गर्जतीत्य् अर्थः । यद् वा, छायायां प्रतिबिम्बे यद् दृश्यते श्यामिकाभासादि तत्र किञ्चिद् धर्तुं चौरवद् भवति । न तु तत्रापि किम् अपि प्राप्नोति, प्रत्युत धिक्-करणीय एव ।

विलास-भरालसं विलास-भरेणालसम् । मद-शिखिर-शिखा-लीलोत्तंसं मदानां मत्तानां शिखिनां या शिखा चूडा तस्या या लीला तद्वद् उत्तंसो नाना-पुष्प-गुम्फित-शिरो-भूषणं यस्य तम् ।

मनोज्ञ-मुखाम्बुजम् । मनोज्ञं परमाश्चर्य-मनोहरं मुखाम्बुजं यस्य तम् ।

कमलापाङ्गोदग्र-प्रसङ्ग-जडम् । कं कृष्ण-प्रेम-सुखं तेनालति प्राप्नोति । भूषाद्य्-अर्थो वा बोध्यः । कमला श्री-राधा तस्या अपाङ्गो नेत्रान्तस् तस्योदग्रम् उत्कृष्टाग्र-भागस् तस्य प्रकृष्ट-सङ्गेन जडम् । सलज्ज-स्मित-मुख-भङ्गि-विशेष-पूर्वकावलोकन-स्तम्भ-सात्त्विक-भाव-लक्षितम् इत्य् अर्थः । हरिणी छन्दः ॥४७॥

सुबोधिनी ॒ अथोद्यद्-आत्म-भाव-स्वभाव्येन स-नर्माललाप—वयं कम् अपि मृगयामहे । किम्-अर्थं ? निविडाम्बुदानां कान्ति-चौरम् । स कथं परिचेष्यते ? मद-शिखिर-शिखाभिर् लीला-युक्त उत्तंसो यस्य । तथा, मनोज्ञं मनसि स्फुरन्-मुखाम्बुजं यस्य । तर्हि कथं प्राप्स्यथ ? विलास-भरेणालसोऽनुद्यमो यत्र । अनुद्यमोऽपि कुतः ? कमलायाः श्री-राधाया अपाङ्गस्य य उच्चैः प्रसङ्गस् तेन जडम् । तथा हेतुः—जगति मधुरिम्णां यः परीपाकः परिणतिस् तस्योद्रेक आधिक्यं यत्र । अनेन गमनाशक्त्या तत्-प्राप्तिः सुलभेति भावः ॥४७॥

सारङ्ग-रङ्गदा ॒ नन्व् आगतोऽयं त्वां परिहसन् क्वापि कुञ्जे निलीनस् तिष्ठति । तदागच्छ तम् अन्विष्य पश्याम इति सखीनां गिरा ताभिस् तम् अन्विष्य भ्रमन्त्याः, क्वचित् तुलसि [भा.पु. १०.३०.७], अप्य् एण-पत्नी [भा.पु. १०.३०.११] इत्य् आदिवत् स्थिर-चरान् पृच्छन्त्यास् तेषां प्रश्नम् उट्टङ्क्य तान् प्रति प्रत्युतंरन्त्या वचोऽनुवदन्न् आह—ननु किम्-अर्थम् उन्मत्ता इव रात्रौ भ्रमथ । तत्र सावहित्थम् आह—यस्य नामापि चौरत्वाद् अग्राह्यं तं कम् अपि वयं मृगयामहे ।

स ज्ञायत एव, दृष्टेश् चेत् कथ्यताम् । आं शठोऽयं क्वापि कयापि गोप्या रममाणस् तिष्ठति, तद्-अन्वेषणं तु लाघवायैव तन् निवर्तध्वम् । तत्र स-गर्व-सावहेलम् आह—कमलेति । लक्ष्म्या अपाङ्गस्य य उदग्रः प्रसङ्गस् तेन जडं तद्-वशम् अपि । किम् उतास्मद्-गोप्या रममाणम् । ततोऽस्मन्-मनो-रत्नं हृत्वा गतोऽयं, तद् एव प्रार्थ्यं किं नस् तेनेति भावः ।

ननु सद्-धर्म-शीले कथं चौरापवादं ददथ, तत्र सहास-शिरो-धूननम् आह—बहलेति । वज्रेन्द्र-धनुर्-आदि-युक्त-निविड-जलदानाम् अपि कान्ति-चौरम्, किम् उताबलानां नो मनो-रत्नम् इति भावः ।

तथा, मध्व् इति । मधुरिम्णां परीपाको येषु ते मधुरिम-परीपाकाः स्मरेन्दु-पद्म-हंस-मृग-मीन-पल्लवाद्यास् तेषाम् उद्गतो रेकः शङ्का यस्मात् तम् । तेषाम् अपि माधुर्याणां चौरम् इत्य् अर्थः । मधुरं रसवत्-स्वादु-प्रियेषु इति विश्वः । रेको विवेके शङ्कायां रेकः स्याद् अधमेऽपि च इति विश्वः ।

नन्व् एवं चेद् दूरे स्थास्यति कथं द्रक्ष्यथ ? तत्राह—मदेति । पिञ्छ-मुकुटाद् दूरतोऽपि दृश्यो भवेद् इति भावः ।

ननु ततोऽपि धावित्वापसरिष्यति ? तत्राह—विलासेति । तद्-अतिशयजालसेन शीघ्रं गन्तुम् अप्य् अशक्तम् इति भावः ।

ननु घन-तमसि कुञ्जे निलीय स्थास्यति ? तत्राह—मनोज्ञेति । कोटि-चन्द्रवन् मनोज्ञं मुखाम्बुजं यस्य । तत्-कान्ति-पूरेणैव दृश्यो भवेद् इत्य् अर्थः ।

यद् वा, ननु प्रातर् व्रज एव तं लप्स्यध्वे, तदैवात्म-धनं ग्राह्यम् । सबलोऽसौ रात्रौ कदाचिद् देहम् अपि वश् चोरयेत्, तन् निवर्तध्वम्, तत्रात्मानम् अनुक्त्वा भङ्ग्याह—कमलानां वर-स्त्रीणाम् आसाम् अपाङ्गस्योदग्रो यः प्रसङ्गस् तेन जडम् । किम् अपि कर्तुम् असमर्थम् इत्य् अर्थः । कमला श्री-वर-स्त्रियोः इति विश्वः ।

स्वान्तर्-दशायां—स्व-समान-सखीः प्रत्युक्तिः । हे सख्यः ! आगच्छत, येनोन्मादितेयं तम् अन्वेषयामः । ननु कथं रात्रौ लप्स्यामहे ? तत्राह पञ्चभिर् विशेषणैः । ननु प्राप्तेऽपि कथम् आयास्यति ? तत्राह कमला श्री-राधा अस्या अपाङ्ग-प्रसङ्गेन तत्-प्रस्तावेन जडं तद्-वश-चित्तम् । श्रुत्वैवैष्यतीत्य् अर्थः ॥ बाह्यार्थः स्पष्टः ॥४७॥

—ओ)०(ओ—

(४८)

परामृश्यं दूरे पथि पथि मुनीनां व्रज-वधू-

दृशा दृश्यं शश्वत् त्रि-भुवन-मनो-हारि-वदनम् ।

अनामृश्यं वाचाम् अनिशम् उदयानाम् अपि कदा

दरीदृश्ये देवं दर-दलित-नीलोत्पल-रुचिम् ॥

कृष्ण-वल्लभा ॒ अहो श्री-कृष्ण-दर्शनम् अतिदुर्लभं यतो दृष्टेऽपि दृष्टवत्-प्रतीत्य्-अभावात् । कदा द्रक्ष्यामीत्य् औत्सुक्येनाह—परामृश्यम् इति । दीव्यति द्योत्यत इति देवस् तम् असाधारण-दीप्ति-क्रीडा-युक्तं कदा कस्मिन् समये दरीदृश्ये ? पुनः पुनर् द्रक्ष्यामीत्य् अर्थः ।

कृतं देवं ? मुनीनां मनन-शीलानां यो यः पन्थास् तत्र तत्र दूरतः परामृश्यं विचारणीयम्, दुर्वितर्क्यम् इत्य् अर्थः । अयं भावः—तत्र तत्र मुनयो विचारयन्ति, न तु याथार्थ्येन निश्चिन्वन्ति । शुद्ध-प्रेम-रस-वर्त्मनि कस्याप्य् अप्रवेशात् ।

पुनः कीदृशं ? त्रि-भुवन-मनो-हारि-वदनम् । त्रि-भुवन-विषये यन्-मनस् तद् अपि हर्तुं शीलम् अस्य तादृग् वदनं यस्य तम् । अतः शश्वन् नित्यं दृश्यं द्रष्टुं योग्यम् । सर्वातिशायि-सौन्दर्य-चमत्कारवत्त्वात् । यद् वा, शश्वन् नित्यं त्रिभुवनस्य मनो यत्र हरति सर्वान्य् अदृष्टिम्, तादृग् वदनं यस्य ।

पुनः कीदृशं ? दर-दलित-नीलोत्पल-रुचिम् । दरम् ईषद् दलितं विकस्वरं यन् नीलोत्पलं तस्माद् अपि नितरां भवतीति । दरो भये दरो गर्ते किञ्चिद् अर्थे दरोऽव्ययम् इति विश्वः । नीलं च तद् उत्पलं चेति । नील-सुगन्धि-सुकुमार-गुण-युक्तं वा । शृङ्गार-रस-माधुर्यस्य परमोत्कर्ष-चमत्कारात् । नीलोत्पल-दशाम् इति पाठे—दशेव दशा नील-सुगन्धि-सुकुमार-दशा, इति ।

सामान्यत एव निर्दिष्टं विशिष्य निर्दिश्यताम् इति चेत्, तत्राह—अनिशं निरन्तरम् उदयः प्रकाशो यासां तासां नित्यानाम् अपि वाचां श्रुतीनाम् अनामृश्यम् अस्पृश्यम् । एतादृशम् अतिदुर्ज्ञेयम् अपि देवं कदा तत्-कृपया परोक्षतो ज्ञात्वा दरीदृश्य् । केवलयापि तत्-कृपया न दृश्यत इत्य् आह—व्रज-वधूनां श्री-राधादि-व्रज-सुन्दरीणां दृशा चक्षुषा हेतु-भूतेन दृश्यम् । तासां कृपया तथा विहरमाणं सर्वे पश्यन्तीति भावः । अथैवैवं योजना—त्रिभुवन-हारिणः कृष्णस्य वदनं देवं दीप्तिमत् कदा दरीदृश्ये । अन्यत् समानम् ॥ शिखरिणी छन्दः ॥४८॥

सुबोधिनी ॒ पुनर् दैन्योदयात् तद् दौर्लभ्य-स्फूर्त्याह—देवं दुर्लभं कदातिशयेन पश्यामि । तत्र हेतुः—त्रिभुवनानां मनोहारि वदनं यस्य । तथा, ईषद्-विकशित-नीलोत्पलवद् रुचिर् यस्य । तर्हि मुन्य्-उपदिष्टैर् उपायैः प्रत्यक्षीकृत्य पश्य—मुनीनां पथि पथि परामृश्यं ततस् तद्-दूरे । तद् अप्राप्यम् इत्य् अर्थः । किं च, मुनि-समुदयानां वाचापि न स्पृष्टम् । तर्हि कथं दिदृक्षा ? व्रज-वधूषु या दृष्टिस् तद्-अनुगतिः, तया शश्वल् लभ्यम् ॥४८॥

सारङ्ग-रङ्गदा ॒ अथ क्वचित् कुञ्जाभ्यर्णे स्फूर्त्या तं दृष्ट्वा पुनर् अस्फूर्त्या विक्लवायाः, त्वया दृष्टोऽसौ किम् इति खिद्यसे इत्य् आश्वासयन्तीः सखीः प्रति प्रलपन्त्या वचोऽनुवदन्न् आह—हे सख्यः ! देवं क्रीडा-परं कृष्णं कदा दरीदृश्ये भृशं वाञ्छा-पूर्त्यां पश्यामि । तत्र हेतुः—दर-दलितेति त्रिभुवनेति च । अतो मुनि-समुदयानां महा-कवीन्द्राणां व्यासादीनां वाचाप्य् अनामृश्यम् अस्पृश्यम् । एतादृक् सौन्दर्य-विशिष्टतया वक्तुम् अशक्यम् इत्य् अर्थः ।

किं वा, ननु तवैवायम् । कदापि द्रक्ष्यसि, तत्र अखिल-देहिनाम् अन्तर्-आत्म-दृक् [भा.पु. १०.३१.४] इतिवत् तद् दौर्लभ्यम् आह—मुनीनां वाचाप्य् अनामृश्यम् ।

नन्व् एवं चेत् त्वं कथं दिदृक्षसे ? तत्राह—व्रजेति । व्रज-वधूनां युष्माकं दृशा दृश्यम् । तत्रापि शश्वन् निरन्तरम् । अत इयं लालसेत्य् अर्थः ।

ननु काले द्रक्ष्यसि, इदानीं क्व लभ्योऽसाव् अत्र । तद्-उद्देशं कथयन्त्य् आह—मुनीति । मुनि-गणाः विहगा वनेऽस्मिन् [भा.पु. १०.२१.१४] हरिम् उपासते धृत-मौना इत्य् आदि-दिशा मुनीनां तद्-दर्शनेन जात-स्तम्भ-मोहादितया धृत-मौनानां पक्षि-मृगाणां पथि पथि परामृश्यम् । तत्रापि दूरे । दूराद् एवात्रैवास्त इत्य् अनुमेयम् ॥

स्वान्तर्-दशायां—स्व-समान-सखीः प्रत्युक्तिः । देवम् अनया सह क्रीडन्तं तं कदा दरीदृश्ये पुनः साक्षात् पश्यामि । अन्यत् समम् ।

बाह्ये—भाव-शावल्योदयाद् आह—तं कदा दरीदृश्ये ? तत्र हेतुः—दरेति । पुनः स-नैराश्यम् आह—परेति । सर्व-यामित्वेनानुमेयम् । पुनर् विचार्य स-लालसम् आह—व्रजेति । अतस् तद्-भाव-शालिना मयापि दृश्यो भवेत् । पुनः स-नैराश्यम् आह—अनेति । मुनीनां वाग्-अगोचरम् अहं द्रष्टुम् इच्छामि । अहो मूर्खोऽस्मि । पुनः सोत्कण्ठम् आह—त्रिभुवनेति । तथा, मुनीनां दूरेऽनुमेयं वाग्-अगोचरं च । व्रज-वधू-दृशा दृश्यं नीलोत्पल-रुचम् इत्य् आश्चर्यम् ॥४८॥

—ओ)०(ओ—

(४९)

लीलाननाम्बुजम् अधीरम् उदीक्षमाणं

नर्माणि वेणु-विवरेषु निवेशयन्तम् ।

दोलायमान-नयनं नयनाभिरामं

देवं कदा नु दयितं व्यतिलोकयिष्ये ॥

कृष्ण-वल्लभा ॒ सम्प्रतिपादितम् अवलोकयन्तम् अवलोकयामि, तदा महत् कौतुकम् इति हर्षौत्सुक्येनाह—लीलेति । दयितं सञ्जात-दयं बहु-दातारं वा । देवं द्योतमानं कदा नु व्यतिलोकयिष्ये । क्रिया-व्यतिहारे व्यतिः । पश्यन्तं तं द्रक्ष्यामीत्य् अर्थः । यद् वा, अनुदयितम् अनुकूला अनुगता दयिता वल्लभा यस्मिंस् तं देवं क्रीडन्तम् । रास-विहारिणम् इत्य् अर्थः ।

कीदृशं देवं ? लीलाननाम्बुजं लीला शृङ्गार-भावजा क्रिया तद्-युक्तम् आननाम्बुजं यस्य तम् ।

पुनः कीदृशं ? अधीरं चञ्चलम् । यद् वा, न विद्यते धीर् यत्र स अधीर् मोहस् तं राति ददातीति वा

| अधीरं यथा भवति तथोदीक्षमाणम् | उद् उत्कृष्टम् ईक्षमाणं पश्यन्तम् |

पुनः कीदृशं ? वेणु-विवरेषु वेणोश् छिद्रेषु नर्माणि परिहासोक्तीर् निवेशयन्तम् अर्पयन्तम् । वेणु-वादेन स्मर-परिहासं कुर्वन्तम् इत्य् अर्थः ।

पुनः कीदृशं ? दोलायमान-नयनम् । दोलायमाने घूर्णायमाने नयने यस्य तम् । अतो नयनयोर् अभिरामं सुन्दरम् ॥ वसन्त-तिलकं छन्दः ॥४९॥

सुबोधिनी ॒ पुनर् अपि तथैव स-लालसम् आह—न वितर्के । देवं पुरः क्रीडन्तं कदा व्यतिलोकयिष्ये । स मां द्रक्ष्यत्य् अहम् अपि तं द्रक्ष्यामि । स कथं त्वाम् अवलोकयेत् । लीला नाना-भावोद्गार-भङ्गी तद्-युक्तम् आननाम्बुजं यस्य । अत एवाधीरं यथा स्यात् तथोद्वीक्षमाणम् । तथा, वेणु-विवरेषु नर्माणि निवेशयन्तम् । अतो दोलायमान-नयनम् । कौतुकी लीलया माम् अवलोकयेद् इत्य् अर्थः । त्वं कथं तं दिदृक्षसे—दयितम् । अत एव नयनाभिरामम् ॥४९॥

सारङ्ग-रङ्गदा ॒ अथ पूर्व-प्रेरण-कालान्योन्य-दर्शन-स्मृत्या सोत्कण्ठं ताः पृच्छन्त्या वचोऽनुवदन्न् आह—नु भोः सख्यस् तं ममैव दयितं देवं क्रीडन्तं कदा व्यतिलोकयिष्ये । स मां कुञ्जे प्रेरणार्थं द्रक्ष्यत्य् अहम् अपि तं तद्-अङ्गीकार-ज्ञापनार्थं कदा द्रक्ष्यामि । कीदृशं ? लीला नाना-भावोद्गार-युक्त-निरक्षर-सङ्केत-कथने भङ्गी तद्-युक्तम् आननाम्बुजं यस्य । अधीरं यथा तथोदीक्षमाणं ऊर्ध्व-नेत्र-चालनया मां कुञ्जे प्रेरयन्तम् । अतोऽन्य-तज्-ज्ञान-भिया दोलायमाने नयने यस्य । तथा, नर्माणि मत्-प्रेरण-सङ्केत-रूपाणि वेणु-विवरेषु निवेशयन्तम् । अतो नयनाभिरामम् ॥

स्वान्तर्-दशायां—तां कुञ्जाय नेतुं मां स द्रक्ष्यत्य् अहम् अपि तज्-ज्ञानार्थं तम् । अन्यत् समम् । बाह्ये कृपावलोकनं तस्य । ममापि विस्मयावलोकनम् ॥४९॥

—ओ)०(ओ—

(५०)

लग्नं मुहुर् मनसि लम्पट-सम्प्रदाय -

लेखावलेहिनि रसज्ञ-मनोज्ञ-वेषम् ।

रज्यन् -मृदु-स्मित-मृदूल्लसिताधरांशु -

राकेन्दु-लालित-मुखेन्दु मुकुन्द-बाल्यम् ॥

कृष्ण-वल्लभा ॒ इदानीं तस्य चापल्यं मनसि लग्नम् । तत् पुनः कदा नु भवितव्यम् इति हर्षोज्जृम्भितेन स्मरन्न् आह—लग्नम् इति । मुकुन्दस्य स्मृति-मात्रेणापि मुक्तिं ददतः श्री-कृष्णस्य बाल्यं चापल्यं मुहुर् वारं वारं मनसि लग्नम् । कदापि मनसो नापैति तद्-वशान् मोक्षानन्दस्यापि विस्मृतेः ।

कीदृशे मनसि ? लम्पट-सम्प्रदाय-लेखावलेहिनि । लम्पटः प्रकृते श्री-कृष्ण-विषय-लीला-रसास्वादनाय लम्पटवद् वर्तमानो यः सम्प्रदायः परं परागत-सजातीय-समूहस् तस्य लेखो देवः श्री-कृष्णस् तम् अवलेढुम् आस्वादयितुं शीलं यस्य तस्मिन् । यद् वा, कृष्ण-विषय-मधुर-प्रीति-रस-लम्पट-सम्प्रदायस् तत्र लिख्यन्ते ये तद्-रसास्वाद-लेखा लिपयः श्रेण्यो वा विचित्र-प्रकारास् तान् अवलेढुं शीलं यस्य तस्मिन् । यद् वा, कृष्ण-विषय-मधुर-प्रीति-रस-लम्पट-सम्प्रदायस्य तत्र लिख्यन्ते ये तद्-रसास्वाद-लेख्या लिपयः श्रेण्यो वा विचित्र-प्रकारास् तान् अवलेढुं शीलं यस्य तस्मिन् । लेख्यो लेख्ये च देवे च लेखा श्रेण्यां लिपाव् अपि इति मेदिनी ।

कीदृशं मुकुन्द-बाल्यं ? रसज्ञ-मनोज्ञ-वेषम् । रसं जानन्तीति रसज्ञा रस-विशेष-भावना-चतुराः । एतद् रसम् एव परम-पुरुषार्थत्वेन जानन्त इत्य् अर्थः । तेषां मनोज्ञो मनो-हारी वेणु-वन-माला-कौस्तुभ-बर्हावतंसादि-युक्तो वेषो यत्र तत् ।

पुनः कीदृशं ? रज्यन्-मृदु-स्मित-मृदूल्लसिताधरांशु-राकेन्दु-लालित-मुखेन्दु । रज्यद्-अधिकाधिक-रागं स्नेहं प्राप्नुवन् मृदु मनो-हारि यत् स्मितं तद्-युक्ता ये मृदूल्लसिताः सुकुमारोल्लासं प्राप्ता अधरांशवो यत्रैवं-विशिष्टः । राकेन्दुना राका पूर्विमा-भेदस् तस्या इन्दुना । पूर्ण-चन्द्रेणेत्य् अर्थः । लालितो लालनं कारितो मुखेन्दुर् यत्र तत् । यन् मुख-मधुरिमाणम् अवलोक्य पूर्ण-चन्द्रोऽप्य् आरात्रिकवद् आत्मानं करोतीत्य् अर्थः । पौर्णमासी तु पूर्णिमा कला-हीने सानुमतिः पूर्णे राका निशाकरे इत्य् अमरः । यद् वा, रज्यन्तोऽनुरागं प्राप्नुवन्त्यो या मृदवो गोप्यस् तासां स्मितेन मृदूल्लसिता अधरांशवो यत्रेति पृथक्-पदं वा । अन्यत् समानम् ॥ वसन्त-तिलकं छन्दः ॥५०॥

सुबोधिनी ॒ अथ स्व-मन उपालभमानस् तथैवाह—मे मनसि मुकुन्द-बाल्यं मुहुर् लग्नम् । इदानीं दृढं लग्नम् इत्य् अर्थः । तत्र हेतुः—लम्पट-सम्प्रदायानां श्रेणीम् अवलेढुं शीलं यस्य तस्मिन् । महा-लम्पटे इत्य् अर्थः । अथवास्य को दोषः ? रसज्ञानां मनोज्ञो वेषो यत्र । तथा, अनुराग-युक्तश् च मृदु-स्मितेनाल्पोल्लसितश् च योऽधरस् तस्यांशुर् यत्र, राकेन्दुभिः सेवितो मुखेन्दुर् यत्र, तच् च तच् च ॥५०॥

सारङ्ग-रङ्गदा ॒ अथ तन्-माधुर्यार्णवे सर्वेन्द्रिय-मनो-नयेन पुनर् मोहं गच्छन्त्याः, अयि सखि क्षणं तं विस्मृत्य सुखिनी भवेति सखीनाम् आश्वासात् ताभ्यस् तद् अशक्तिं कथयन्त्या वचोऽनुवदन्न् आह—मुखे कुन्दवद् धास्यं यस्य तस्य मुकुन्दस्य बाल्यं कैशोरं चापल्यं वा मम मनसि, वस्त्रे माञ्जिष्ठ-राग इव, लग्नम् । किं करोमीत्य् अर्थः ।

ननु ततो निवर्त्यान्यत्र निवेशयेत्य् अत्र तद् अपि मद्-वशं नेत्य् आह । अथवास्य वराकस्य को दोषो यत एतादृशं तद् इत्य् आह—रसज्ञानां मनोज्ञो वेषो यस्मिन् । तथा, राग-युक्तश् च मृदु-स्मितेन मृदूल्लसितश् च योऽधरस् तस्यांशुर् यस्मिन् । पृथक्-पदं वा । तथा, राकेन्दुभिर् लालितः, सेवितो मुखेन्दुर् यत्र ।

स्वान्तर्-दशायां—समान-सखीः प्रत्युक्तिः । बाल्यं तया सह कुञ्जे कैशोर-चापलम् । बाह्ये—स्वान् प्रत्य् उक्तिः ॥५०॥

—ओ)०(ओ—

(५१)

अहिम-कर-कर-निकर-मृदु-मुदित-लक्ष्मी-

सरसतर-सरसिरुह-सदृश-दृशि देवे ।

व्रज-युवति-रति-कलह-विजय -निज-लीला-

मद-मुदित-वदन-शशि-मधुरिमणि लीये ॥

कृष्ण-वल्लभा ॒ अथ तस्य चापल्यादि सर्वम् एव मधुर-मधुरं, तस्मान् मधुरिम-शब्द-वाच्य एवायम् । अतोऽहम् अत्रैव विलीय तिष्ठामीत्य् औत्सुक्येनाह—अहिम-कर-करेति त्रिभिः । देवे दिव्यति द्योत्यत इति देवस् तस्मिन्न् अहं लीनो भवामि । श्री-कृष्णे एवं रसाविष्टे विहरति सत्य् अहं तत्रैव लीनो भूत्वा पश्यामीत्य् अर्थः ।

कीदृशे ? अहिम-कर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरसतर-सरसिरुह-सदृश-दृशि । अहिम-करः सूर्यः । न हिमाः शीतलाः कराः किरणा यस्य । शीता न भवन्ति तावन् न तूष्णा इत्य् अहिम-पदात् प्राप्यते । तस्य कर-निकरेण किरण-समूहेन कृत्वा मृदुर् मृद्वी कोमला । स्निग्धेति यावत् । मुदिता हृष्टा स्फीता च या लक्ष्मीः शोभा, तया सरसतरम् अतिसरसं यत् सरसिजं कमलं तत्-सदृशे दृशौ यस्य तस्मिन् । यदि मध्याह्न-कालीनस् तीक्ष्णः सूर्य-रश्मि-सम्बन्धस् तर्ह्य् अन्तर्-मकरन्दत्वेऽपि बहिः-शुष्कतैव स्यात् । अतो कार्कश्यापत्तिः । यदि चातिप्रातः-कालीनः सूर्य-कर-संयोगस् तर्हि न विकाश-बाहुल्यम् । अतो नातिप्रचण्ड-सूर्य-कर-निकरेण बहिः-स्निग्धता विकाश-बाहुल्यं च यस्य कमलस्य तद्वन् नयन-शालित्वं सूचितम् ।

पुनः कीदृशे ? व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि । व्रजस्था युवतयो गोपाङ्गनास् तासां रति-विषये यः कलहो दृढालिङ्गन-हार-त्रोटन-चुम्बन-लीला-कमल-ताडनादि-रूपस् तत्र यो विजयस् तत्र या निज-लीला-शृङ्गार-भावजा तया यो मदो हर्षस् तेन मुदितो वदन-शशी । कज्जल-रेखाङ्कितत्वाद् वदन-शशीत्य् उक्तम् । तत्र यो मधुरिमा-पूर्वः कोऽपि माधुरी-चमत्कारो यस्य तस्मिन् । यथा यथा तासां मृद्व्-अङ्गीनां गाढ-श्लेषादि-रूपा क्रिया, तथा तथा सरसतरत्वं चोक्तम् । अत्र समास-बाहुल्यं पौनरुक्त्यं च न दोषः । तद्-अनुस्मरणेन तद्-आकारान्तः-करण-वृत्तित्वात् ॥५१॥

सुबोधिनी ॒ पुनर् अत्यार्ति-स्फुरितस्य माधुर्ये मज्जन्न् आह त्रिभिः—अहं देवे लीनो भवामीति त्रिष्व् अप्य् अन्वयः । कीदृशे ? सूर्य-किरण-समूहेनेषद्-विकशितेन या शोभा तया सरसतरं यत् सरसिरुहं तत्-सदृशौ दृशौ यस्य । दृशोर् विकाशे हेतुः—व्रज-युवतिभिः सह यो रति-कलहस् तत्र विजयिनी निजासाधारणी या लीला तया यो मदो गर्वस् तेनोल्लसितो यो वदन-शशी तस्य माधुर्यं यत्र ॥५१॥

सारङ्ग-रङ्गदा ॒ अथ तस्य तन्-मायाए मन-आदीनां लयेन मुह्यन्त्याः पुनर् मृतिम् आशङ्क्य सखीः प्रति, एतावान् एव भवतीभिः सह सङ्गम इति प्रलपन्त्या वचोऽनुवदन्न् आह त्रिभिः श्लोकैः । तत्र प्रथमं कुट्टिमादि-भाव-विवशेनात्मना स्व-सखीभिश् च सह तस्य कञ्चुकाकर्षण-हठालिङ्गन-नर्मादि-भङ्गी-रति-कलह-माधुर्य-स्फूर्त्या तत्र मन-आदेर् लयेन प्रलपन्त्या वचोऽनुवदन्न् आह—अहं देवे मनोज्ञ-क्रीडा-विजिगीषा-परे श्री-कृष्णे । विशेषणे तात्पर्यम् । तन्-माधुर्यार्णवे इत्य् अर्थः । लीये लीना भवामि ।

कीदृशे ? व्रज-युवत्भिर् युष्मद्-आदिभिः सह यो रति-कलहस् तत्र विजयिनी या निज-लीला स-नर्म-कञ्चुकाकर्षणस् तेनाधरादि-ग्रहण-केलिस् तया यो मदो गर्वस् तेन मुदितो यो वदन-शशी तस्य मधुरिमा यस्मिन् । तथा, सूर्य-कर-निकरेण प्रथमोद्गतेन मृदु-मुदितम् ईषद्-विकशितं च लक्ष्म्या शोभया शैत्यादि-गुण-सम्पत्त्या सरसतरं च यत् सरसिरुहं तत्-सदृशौ दृशौ यस्य तस्मिन् । कुट्टमित-लक्षणं—

स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।

बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ [उ.नी. ११.४९]

स्वान्तर्-दशायां—तया सह तादृश-क्रीडा-परे ॥ बाह्यार्थः स्पष्टः ॥५१॥

—ओ)०(ओ—

(५२)

कर-कमल-दल-कलित-ललितर-वंशी-

कल-निनद-गलद्-अमृत-घन-सरसि देवे ।

सहज-रस-भर-भरित-दर-हसित-वीथी-

सतत-वहद्-अधर-मणि-मधुरिमणि लीये ॥

कृष्ण-वल्लभा ॒ पुनर् अपि श्री-कृष्ण-चन्द्रे सर्वात्मना चित्त-लयम् एवाध्यवस्यति—कर-कमलेति । देवे लीये इति पूर्ववद् अन्वयः ।

कीदृशे देवे ? कर-कमल-दल-कलित-ललितर-वंशी -कल-निनद-गलद्-अमृत-घन-सरसि । कर एव कमल-दलम् । यद् वा, कर एव कमलं, तस्य दलानि पत्राण्य् अङ्गुलयस् तैः कलिता धृता ललितरातिललिता या वंशी तस्याः कल-निनदा एव गलद्-अमृतानि । तेभ्यो गलन्त्य् अमृतानीति वा । तादृशे घन-सरसि निविड-तडागे । तेषां घनं निविडं सर इव सरस् तस्मिन्न् इति वा । एतेन वंशी-वादन-समयो व्यज्यते । अत्र श्री-कृष्ण-विग्रहस्यामृत-सरो-रूपता, करयोः कमलत्वं, वंशी-निनादस्य मकरन्दामृत-रूपत्वं च ध्वनितम् ।

पुनः कीदृशे ? सहज-रस-भर-भरित-दर-हसित-वीथी-सतत-वहद्-अधर-मणि-मधुरिमणि । सहजः स्वभावजो यो रसो माधुर्यं तस्य भरोऽतिशयस् तेन भरितं पुष्टं यद् दर-हसितम् ईषद्-धास्यं तस्य वीथी परम्परा तया निमित्त-भूतया सततं निरन्तरं वहन् प्रवाह-रूपेण स्फुरन् योऽधरः स एव मणिर् अत्युज्ज्वलत्वात् पद्मरागस् तस्य मधुरिमा माधुरी-विशेषो यस्मिन् । अयम् अभिप्रायः—पूर्व-श्लोके रति-फल-हवि-जयेत्य् आदिना जिगीषुणैव स्थितम् । अत्र विजये जाते वंशी वादयित्वा स्थितम् । तत्र च पराजये सति व्रज-युवतीनां प्रेम-कोपो जातस् तेन तस्य हास्यं जातम् इति ॥५२॥

सुबोधिनी ॒ पुनस् तत्र वंशी-माधुर्य-स्फूर्त्याह—कर-कमलयोर् दलैर् अङ्गुलिभिर् वादिता या ललिततरा वंशी तस्याः कल-निनदा एव गलद्-अमृतानि तैः सान्द्र-सरोवरे । तत् सम्पादयन्न् आह—सहज-रसैर् भरितं यद् ईषद् धसितं तस्य वीथ्या धारया निरन्तर-वहद्-अधर-मणेर् मधुरिमा यत्र ॥५२॥

सारङ्ग-रङ्गदा ॒ अथ स-स्मितं वंशी-ध्वनि-कृत-पूर्व-स्व-प्रेरण-स्फूर्त्या तन्-माधुर्ये प्रलीनम् इवात्मानं मत्वा प्रलपन्त्या वचोऽनुवदन्न् आह—देवे एतल्-लीलापरे श्री-कृष्णे पूर्ववद् अहं लीये । कीदृशे ? कर-कमल-दले कलिता ललितरा च या वंशी तस्याः कल-निनदा एव गलद्-अमृतानि तेषां घन-सरसि सान्द्र-सरोवरे । घनः सान्द्रे दृढे दार्ढ्ये विस्तरे लोह-मुद्गरे इति विश्वः ।

तथा, सहज-रस-भरैर् भरितं पूर्णे यद् दर-हसितं तस्य वा वीथी धारा सरणिर् वा तस्यां तया वा सततं वहन् प्रसरन्न् अधर-पद्मराग-मणेर् मधुरिमणि यस्य ॥

स्वान्तर्-दशायां पूर्ववत् । बाह्यार्थः स्पष्टः ॥५२॥

—ओ)०(ओ—

(५३)

कुसुमशर-शर-समर-कुपित-मद-गोपी-

कुच-कलस-घुसृण-रस-लसद्-उरसि देवे ।

मद-मुदित-मृदु-हसित-मुषित-शशि-शोभा-

मुहुर्-अधिक-मुख-कमल-मधुरिमणि लीये ॥

कृष्ण-वल्लभा ॒ किं च, कुसुमेति । देवे लीये इति पूर्ववत् । कीदृशे ? कुसुमशर-शर-समर-कुपित-मद-गोपी-कुच-कलस-घुसृण-रस-लसद्-उरसि, कुसुमशरः कामस् तस्य शराः कच-ग्रहण-पूर्वक-चुम्बनाधर-नख-क्षतादि-रूपास् तैर् यः परस्परं समरः सङ्ग्रामस् तत्र कुपितानां मदानां प्रेम-रस-मत्तानां गोपीनां कुच-कलसयोर् घुसृण-रसः कुङ्कुम-रसस् तेन लसच् छोभमानम् उरो यस्य तस्मिन् । घुसृणस्य प्रस्वेद-जलेनाशोषणाद् रसावस्थैवेति रसेत्य् उक्तिः । गोपीनाम् अनुरागो वा मूर्त इव ।

पुनः कीदृशे ? मद-मुदित-मृदु-हसित-मुषित-शशि-शोभा-मुहुर्-अधिक-मुख-कमल-मधुरिमणि । मदेन हर्षेण मुदितं स्फीतं मृदु सरसं यद् धसितं तेन मुषिता चोरिता या शशिनश् चन्द्रस्य शोभा कान्तिस् तया मुहुर् अधिकः सन्ततोद्रिक्तो मुख-कमल-मधुरिमा यस्य तस्मिन् । यद् वा, मुख-कमल-विशेषणं मद-मुदितं मृदु-हसितम् । मुषितश् चोरितः शशी येन तत् मुषित-शशी । शोभाभिर् मुहुर् अधिकम् । पूर्व-क्षण-गत-शोभात उतंर-क्षण-शोभाया अधिकत्वात् । तस्मिन् मधुरिमा यस्य तस्मिन् ॥५३॥

सुबोधिनी ॒ पूर्वोक्त-सम्भोगान्त-तन्-माधुर्य-स्फूर्त्याह—कुसुमशर-शर-शरैर् नखाङ्कादिभिर् यद् रति-युद्धं तत्र कुपिता या प्रेम-संरम्भोन्मत्ता गोपी, एका भ्रू-कुईत्म् आबध्य [भा.पु. १०.३२.६] इत्य्-आद्य्-उक्ता । मुख्येत्य् अर्थः । तस्याः कुच-कलसयोर् घुसृण-रसेन लसद्-उरो यस्य । तत्-स्पर्शानन्द-विकारम् आह—स्मर-मदेन या मुत् तया व्याप्तं यन् मृदु-हसितं तेन मुषित-शशि-शोभया मुहुर्-अधिको मुख-कमले मधुरिमा यस्य । एभिर् दैन्येनात्मनो दशमी दशा सूचिता ॥५३॥

सारङ्ग-रङ्गदा ॒ अथ सम्भोगान्त-कालीन-तन्-माधुर्य-स्फूर्त्या तत्र लीयमानम् इवात्मानं मत्वा प्रलपन्त्या वचोऽनुवदन्न् आह । देवे एतत्-क्रीडा-परे श्री-कृष्णे पूर्ववद् अहं लीये । कीदृशे ? कुसुमशर-शरस्य शरेण तद्-आघातेन समरे रति-युद्धे कुपिता स्मर-मदेन मधु-पान-ज-मदेन च युक्ता या गोपी तस्याः स्वयं-ग्रहाश्लेषेण लग्नो यः कुच-कलस-घुसृण-रसस् तेन लसद्-उरो यस्य । अत्रात्म-स्थाने गोपीति सामान्योक्तिर् वैदग्ध्या । तथा, मदेन स्मर-मदेन मुदितं तद्-धार्ष्ट्य-दर्शनाद् यन् मृदु-हसितं तेन मुषितः शशी येन तादृशश् च शोभया क्षणे क्षणेऽधिकश् च मुख-कमलस्य मधुरिमा यस्य । यद् वा, तादृश-हसितेन मुषितः शशी यया तया शोभया मुहुर् अधिकं यन् मुख-कमलं तस्य मधुरिमा यस्मिन् ।

स्वान्तर्-दशायां पूर्ववत् । बाह्यार्थः स्पष्टः ॥५३॥

—ओ)०(ओ—

(५४)

आनम्राम् असित-भ्रुवोर् उपचिताम् अक्षीण-पक्ष्माङ्कुरेष्व्

आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते ।

आताम्राम् अधरामृते मद-कलाम् अम्लान-वंशी-स्वनेष्व्

आशास्ते मम लोचनं व्रज-शिशोर् मूर्तिं जगन्-मोहिनीम् ॥

कृष्ण-वल्लभा ॒ वंशीं वादयतः श्री-कृष्णस्य श्री-मूर्तिं द्रष्टुं समुत्कण्ठत इत्य् आह—आनम्राम् इति । मम लोचनं कर्तृ व्रज-पतेर् व्रज-पालकस्य जगन्-मोहिनीं जगन्ति मोहयितुं शीलं यस्या सा तां मूर्तिं श्री-विग्रहम् आशास्ते । द्रष्टुम् इच्छतीत्य् अर्थः । व्रज-शिशोर् इति पाठे—व्रजे शिशुर् इव चेष्टत इति व्रज-शिशुस् तस्य कृष्णस्येति । कीदृशीं मूर्तिं ? असितयोः श्यामयोर् भ्रुवोर् आनम्राम् ईषन्-नम्राम् । तेन चेषन् नम्रतयात्यपूर्व-कन्दर्प-कार्मुक-कृतिना समस्त-मोहनं युक्तम् एव ।

पुनः कीदृशीं ? अक्षीण-पक्ष्माङ्कुरेषूचितां घनीभूतां, अक्षीणेत्य् अल्पताया अभाव-मात्रम् उक्तम् । उपचितेति वृद्धिः ।

पुनः कीदृशीं ? अनुरागिणोर् नयनयोर् आलोलां समन्ततश् चापलाम् ।

सदानुभूतम् अपि यः कुर्यान् नव-नवं प्रियम् ।

रागो भवेन् नव-नवः सोऽनुराग इतीर्यते ॥ [उ.नी. १४.१३४]

पुनः कीदृशीं ? मृदौ सहज-सुकुमाराक्षरे जल्पिते आर्द्रां स्निग्धाम् । मन्मथ-रस-नर्म-मयत्वाद् अत्सरसाम् इत्य् अर्थः ।

पुनः कीदृशीं ? अधर एवामृतं घनीभूतं तस्मिन्न् आताम्रां सर्वतोऽरुणाम् । पुनः कीदृशीं ? अम्लान-वंशी-स्वनेषु मद-कलाम् । अम्लाना अन्तर्-हर्षावेशान् नाना-माधुर्यादि-रूपा ये वंशी-स्वनास् तेषु मद-कलां हर्ष-व्याप्ताम् । आनम्रोपचयालोलत्वाताम्रत्व-मद-कलादिनासितत्वादिना माधुरी-चमत्कार-विशेषेणातिमोहकत्वम् उक्तम् ॥ शार्दूल-विक्रीडितं छन्दः ॥५४॥

सुबोधिनी ॒ पुनस् तद्-अपगमेऽत्युत्सुकस् तद्-दर्शनम् आशास्ते—मम लोचनं व्रज-शिशोर् मूर्तिं द्रष्टुम् आकाङ्क्षति । को वास्य दोषः ? जगन्-मोहिनीम् । तथा हेतुम् आह—श्यामयोर् भ्रुवोर् आनम्रां कुटिलाम् । अनल्पेषु पक्ष्माङ्कुरेषु समृद्धिमतीम् । सघन-पक्ष्माङ्कुराम् इत्य् अर्थः । निजाभीष्ट-विषयानुराग-युक्तयोर् नयनयोर् अतिसतृष्णाम् । अतो मृदौ जल्पिते स्निग्धाम् । तेनैवाधर-मृतेऽत्यरुणाम् । म्लानिर् म्लिष्टतास्पष्ट-स्वरादिस् तद्-रहितेषु वंशी-स्वनेषु हर्षेण मधुराम् ॥५४॥

सारङ्ग-रङ्गदा ॒ अथ मूर्च्छन्त्याः सखीभिः प्रबोधिताया अत्यौत्सुक्यात् तत्-तन्-माधुर्य-स्फूर्त्या भूमौ निमील्य नेत्रे निमील्यैव ताः प्रति प्रलपन्त्या वचोऽनुवदन्न् आह—अहो एतादृश-दशायाम् अपि मम लोचनं व्रज-शिशोर् व्रज-किशोरस्य मूर्तिम् आशास्ते द्रष्टुम् आकाङ्क्षति । अथवास्य को दोषः ? यतः जगन्-मोहिनीम् । तत्र हेतून् आह—श्याम-भ्रुवोर् आनम्रां कुटिलाम् । अक्षीणेषु पक्ष्माङ्कुरेष्व् उपचितां समृद्धिमतीम् । प्रोद्भट-सघन-पक्ष्माभ्याम् उड्डिडीषु-बद्ध-खञ्जन-युगवच् चञ्चलाम् । मृदौ जल्पिते आर्द्राम् । अधरामृते आताम्राम् अत्यरुणाम् । आम्लान-वंशी-स्वनेषु मद-कलाम् । स्मर-मदोद्गारेण गम्भीराम् इत्य् अर्थः । स्मर-मदं वर्धयतीति वा । दशा-द्वये सुगमोऽर्थः ॥५४॥

—ओ)०(ओ—

(५५)

तत् कैशोरं तच् च वक्त्रारविन्दं

तत् कारुण्यं ते च लीला-कटाक्षाः ।

तत् सौन्दर्यं सा च सान्द्र -स्मित-श्रीः

सत्यं सत्यं दुर्लभं दैवतेऽपि ॥

कृष्ण-वल्लभा ॒ अथ किशोराकृति-श्री-कृष्णस्य तत्-तन्-माधुरी-चमत्कार-परमोत्कर्ष-सीमत्वं स्वानुभवेन शपथ-पूर्वकं वदन् विदुषां चेतसि विश्वासम् उल्लासयति—तत् कैशोरम् इति । तत् प्रसिद्धं कैशोरम् । लोके तावत् कैशोरं वय एव चित्ताकर्षकं, तत्रापि श्री-कृष्ण-गतं मुक्तानाम् अपि चित्त-हरम् । कैशोरे च तद् इत्य् अद्भुतं वक्त्रारविन्दं मुख-कमलं नयनाधर-गण्ड-भ्रू-विलासादि-माधुरी-विशेषवत् । तत् कारुण्यं जीवन-प्रद-करुणाम् । तद् इति निरुपाधि । ते च लीला-कटाक्षाः । ते इति करुणा-शालिनो लीला-प्रधानाश् चपल-भ्रू-भङ्गि-युत-दृग्-भङ्गि-रूपाः । तन् मायं मधुरिमा । सा चालौकिकी सान्द्र-स्मित-श्रीर् गहन-स्मित-कान्तिः । एतत् सर्वं दैवतेऽपि । देव एव देवता, स्वार्थे तल् [पा. ५.४.२७] । तत् समूहो दैवतम् । तस्य समूहः [पा. ४.२.३७] इत्य् अण् । तस्मिन्न् अपि दुर्लभम् । नपुंसकानपुंसकयोर् नपुंसकम् एक-बद्धा [पा. १.२.६९] इति दुर्लभम् इति नपुंसकम् ।

यद् वा, देवा ईश्वरा अवतार्य्-अवतार-रूपास् तांस् तांस् तायते विस्तारयति स्वेच्छयाविर्भावयति स देवता श्री-कृष्णः । स्वार्थेऽणि दैवतम् । तस्मिन्न् अपि दुर्लभम् ।

विस्मापनं स्वस्य च सौभगार्द्धेः

परं पदं भूषण-भूषणाङ्गम् ॥ [भा.पु. ३.२.१२] इत्य् उक्तेः ।

एतत् सत्यं सत्यं शपथ-पूर्वकं प्रतिजान इत्य् अर्थः ॥ शालिनी छन्दः—मात्तौ गौ चेच् छालिनी वेद-लोकैः [छा.मं. २] ॥५५॥

सुबोधिनी ॒ अथ तत्-कैशोरादेर् दौरल्भ्य-स्फूर्त्याह—मम तद्-दर्शनं दुर्लभम् इति किं वक्तव्यं, यतः स्वर्गादि-वैकुण्ठ-पर्यन्तस्य देव-समूहेऽपि तत्-कैशोरं तद्-वक्त्रारविन्दं च दुर्लभम् इति सत्यं सत्यं स-शपथं सत्यम् । दर्शनं चेद् दुर्लभं तर्हि तत्-कारुण्यं ते च तद्-युक्त-लीला-कटाक्षाः सुदुर्लभता एव । तत्-सौन्दर्यं सा च सान्द्र-स्मित-श्रीश् चातिदुर्लभैव ॥५५॥

सारङ्ग-रङ्गदा ॒ अथ अहिमकरादि-श्लोक-त्रय्य्-उक्तं तत्-तन्-माधुर्य-स्फूर्त्या तद्-अप्राप्ति-वैक्लव्याद् विलपन्त्या वचोऽनुवदन्न् आह—तत् कैशोरं तद् वक्त्रारविन्दं च दैवतेऽपि स्वर्गादि-वैकुण्ठ-पर्यन्त-स्थ-देव-समूहेऽपि दुर्लभम् इति सत्यं सत्यम् । तथा तत्-कारुण्यं ते लीला-कटाक्षाश् च दुर्लभाः । तथा, तत् सौन्दर्यं सा च सान्द्र-स्मित-श्रीश् च दुर्लभा । यद् वा, मम पुनस् तद्-दर्शनं तादृश-रहो-लीलादिकं च दुर्लभम् एवेति भावयन्त्यास् तत्-कालं वामोरु-नेत्र-कुचादि-स्पन्दनम् अनुभूय तद्-भाग्यम् अप्य् अतिनैराश्येनोपालभमानाया वचोऽनुवदन्न् आह—हे दैव तद्-दर्शन-सूचक-भाग्य ते तवापि तत् कैशोरं तद्-वक्त्रारविन्दं च तद्-दर्शनम् इत्य् अर्थः । पुनर् दुर्लभम् ।

ननु भाग्यस्य दुर्लभम् इति न वाच्यम्, तत्राह—सत्यं सत्यम् । दुर्लभम् एवेत्य् अर्थः । तवापि चेद् दुर्लभं तदा तद्-युक्तानां वराकानां किम् उतेत्य् अर्थः । दर्शनम् अपि दुर्लभं चेत् तदा सर्वास् त्यक्त्वा येन मयैव रेमे तत् कारुण्यम् । यैर् मां रहः प्रेरितवांस् ते लीला-कटाक्षाश् च सुदुर्लभा एव । एवं चेत्, तर्हि सुरतान्ते यत् तत् सौन्दर्यं, केलि-विशेषे मां सुवेषां दृष्ट्वा या सान्द्र-स्मित-श्रीः सा चातिदुर्लभैव ॥

स्वान्तर्-दशायां—तया सह विलसतस् तस्य तत् सर्वम् इति ॥ बाह्ये—तद्-वैक्लव्याद् विट्ठ-रङ्गनाथादि-दर्शनोपदेशिनः स्वान् प्रत्युक्तिः । दीव्यन्तीति देवाः श्री-नारायणादयः । स्वार्थे तल् । दैवतेऽपि सत्-समूहेऽपि । ननु तेऽपि नित्य-किशोरा एव, तत्राह—तत् साक्षान् मन्मथ-मन्थत्वेन वर्णितम् इति । अन्यत् समानम् ॥५५॥

—ओ)०(ओ—

(५६)

विश्वोपप्लव-शमनैक-बद्ध-दीक्षं

विश्वास-स्तवकित-चेतसं जनानाम् ।

प्रश्याम-प्रति-नव-कान्ति-कन्दलार्द्रं

पश्यामः पथि पथि शैशवं मुरारेः ॥

कृष्ण-वल्लभा ॒ तत्-कैशोरादिकं दैवतेऽपि दुर्लभम् इत्य् उक्तम् । सम्प्रति तच् चापल्य-विशेष-दर्शनम् अनुभवन् आह—विश्वोपप्लवेति । मुरारेः श्री-कृष्णस्य शैशवं चापल्यं पथि पथि वीथ्यां वीथ्यां पश्यामोऽनुभवामः । दृशोर् ज्ञान-वचनत्वात् । अनेन तारुण्योपकारित्वेन चापल्यस्यातिमधुरत्वम् उक्तम् । कीदृशं शैशवम्—विश्वास-स्तवकित-चेतसां जनानां विश्वोपप्लव-शमनैक-बद्ध-दीक्षम् । विश्वासैः प्रत्ययैः स्तवकितानि परम-कारुणिकः श्री-कृष्णोऽयम् इति फुल्ल-प्रायाणि चेतांसि येषां तेषां जनानां विश्वस्य समस्तस्योपप्लवस्य शमनाय शान्त्यै बद्धा गृहीतैका मुख्या दीक्षा येन तत् ।

पुनः कीदृशं ? प्रश्याम-प्रतिनव-कान्ति-कन्दलार्द्रम् । प्रश्यामा प्रकृष्ट-श्यामा या प्रतिनवा प्रतिक्षणं नवा नव्या कान्तस् तस्याः कन्दल उद्भेदस् तेनार्द्रं सरसम् । यद् वा, प्रश्याम-प्रतिनव-कान्ति-कन्दलेनार्द्रयतीति तथा ॥ प्रहर्षिणी छन्दः ॥५६॥

सुबोधिनी ॒ पुनर् अकस्मात् पुरः स्फुरच् चापल्यं पश्यन्न् इवाह—मुरारेः शैशवं पथि पथि पश्यामः । तद्-दर्शने तत्-कारुण्यम् एव निदानम् इत्य् आह—विश्वासेनोत्फुल्ल-चेतसां जनानां सर्वे य उपद्रवास् तेषां शमने केवला गृहीता दीक्षा येन । तन्-माधुर्य-स्फूर्त्याह—प्रकर्षेण श्यामाः प्रतिक्षण-नूतनाश् च ये कान्त्य्-अङ्कुरास् तैर् आर्द्रम् ॥५६॥

सारङ्ग-रङ्गदा ॒ अथ स्फूर्ति-साक्षात्-कारयोर् भ्रमः पञ्चभिः । तत्रातिनैराश्येन पुनर् मूर्छन्त्याः, अयि सखि ! कारुणिकेन तेन कति विपद्-गणान् न रक्षिताः स्मः । तद् अधुनाप्य् अकस्मात् केनापि पथागत्य नः सुखयिष्यतीति सखी-वाक्याद् विष-जलाप्ययात् [भा.पु. १०.३१.३] इतिवत् तद्-गुण-गान-पूर्वकं सर्वतः पथोऽवलोक्य तत्र तत्र तत्-स्फूर्त्या सखीः प्रति कथयन्त्या वचोऽनुवदन्न् आह—हे सख्यः, मुरारेः परम-सुन्दरस्य तस्य शैशवं कैशोरं तद्-वयः-सौन्दर्यादि पथि पथि पश्यामः । कुन्ताः प्रविशन्ति इति न्यायात् किशोरं तम् एवेत्य् अर्थः ।

कीदृशं ? प्रकर्षेण श्यामाः प्रतिनवाः क्षणे क्षणे नूतनाश् च ये कान्ति-कन्दलास् तैर् आर्द्रम् । तथा, जनानां स्वीयानां व्रज-वासिनां सर्वेषाम् एव । किम् उतास्माकम् एवेत्य् अर्थः । विश्वे सर्वे य उपप्लवास् तेषां शमने एका केवला बद्धा गृहीता दीक्षा येन तत् ।

कीदृशं ? एष वः श्रेय आधास्यत् [भा.पु. १०.२९.१९] इत्य् आदि-गर्ग-वाक्यात् । सुदुस्तरान् नः स्वान् पाहि [भा.पु. १०.१७.२४] इत्य् आदि-विश्वासैः स्तवकितं चेतो येषाम् ।

स्वान्तर्-दशायां—तस्याः सङ्गे तथा स्फूर्त्यैव । बाह्ये तु, मथुरा-निकटम् आगतस्य तस्य सर्वत्र तत्-स्फूर्त्या तथोक्तिः । तत्र, प्रतिज्ञा तव गोविन्द इत्य् आदि-विश्वास-युक्तानांजनानां भक्तानाम् । तथा—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।

अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥ [रा. ६.१८.३३]

इत्य् आदि तद् दीक्षा ज्ञेया । अन्यत् समम् ॥५६॥

—ओ)०(ओ—

(५७)

मौलिश् चन्द्रक-भूषणो मरकत-स्तम्भाभिरामं वपुर्

वक्त्रं चित्र-विमुग्ध-हास-मधुरं बाले विलोले दृशौ ।

वाचः शैशव-शीतला मद-गज-श्लाघ्या विलास-स्थितिर्

मन्दं मन्दम् अये क एष मथुरा-वीथीं मिथो गाहते ॥

कृष्ण-वल्लभा ॒ अथ दृढ-भावना-भावितान्तः-करणः पुरतः स्फुरन्तं श्री-कृष्ण-विग्रहं वर्णयति—मौलिर् इति । अये अहो । स्वम् एव सम्भोदयति—क एष मथुरा-वीथीं मथुरा गम्यते यया तां वीथीं वर्त्म । न तु मथुरास्थां वीथीम् । मिथो रहसि गाहतेऽवगाहते । लीला-विशेषैः परि च क्रामतीत्य् अर्थः ।

मथ्यते जगत् सर्वं तु ब्रह्म-ज्ञानेन येन वा ।

तत् सार-भूतं यद् यस्यां मथुरा सा निगद्यते ॥ [गो.ता.उ. २.५०]

इति श्री-गोपालोत्तर-तापनी-सिद्धेः । किञ्चिन् निकटागते सम्भ्रमाद् आह—मौलिश् चन्द्रक-भूषणः । चन्द्रकाञ्चित-चूड इत्य् अर्थः । वपुर् गात्रं मरकत-स्तम्भाद् अप्य् अभिरामं सुन्दरम् । वस्तुतस् त्व् इन्द्रमणि-तुल्यम्, तत्रापि सुवर्णालङ्कृति-कान्ति-व्याप्तत्वान् मरकत-स्तम्भ-तुल्यम् । अतिसंनिहितं दृष्ट्वाह—वक्त्रं मुखं चित्र-विमुग्ध-हास-मधुरम् । चित्रं परमाश्चर्यं विमुग्धं विशेषेण मुग्धं सुन्दरं यथा स्यात् तथा हासेन मधुरं मूर्तिमान् मधुर-रस इव ।

किं च, बाले कोमले विलोले सहज-चापले दृशौ नेत्रे । किञ्चिद् वदति सति नीचैर् आह—वाचः शैशव-शीतलाः । शैशवं सौकुमार्यं तेन शीतलाः स्निग्धाः । कृष्णाद् अन्यः कोऽपि नायम् इति निश्चित्याह—विलास-स्थितिर् विलासस्य स्थितिस् तत्-तद्-अङ्ग-चालनेन क्रीडा-मर्यादा मद-गज-श्लाघ्या । मदो मत्तो यो गजस् तेन तस्माद् वा श्लाघ्या श्लाघनीया । यथैकचरो गजो वन-मध्ये तिष्ठन् मन्दं मन्दं भ्रमति तथायम् आयातीति भावः ॥ शार्दूल-विक्रीडितं छन्दः ॥५७॥

सुबोधिनी ॒ एवं स्फूर्ति-क्रमेण मथुराम् एत्य तद्-वीथ्यां तत्-स्फूर्त्या साश्चर्यम् आह—अये इति वितर्के । क एष मथुरा-वीथीं मिथः परस्परं ममाश्रय-परिजनैः सहितं शनैः शनैर् गाहते विलास-गत्याक्रम्य गच्छति । कीदृक् ? यस्य मौलिश् चन्द्रकैर् भूषणं यस्य । तथा वपुर् मरकत-स्तम्भाद् अप्य् अतिरमणीयम् । तद्-रमणीयत्वं व्यनक्ति—वक्तुं चित्र-विशिष्ट-मनोहर-हासेन मधुरम् । तथा, दृशौ क्रीडाविष्टे स-तृष्णे च । अन्यद् अपि—वाचः कैशोरेण ताप-हारिण्यः । अपरं च—मन्थर-गमनकर-चालनादिना विलासेन स्थितिर् मद-गजैर् अपि श्लाघ्या ॥५७॥

सारङ्ग-रङ्गदा ॒ अथ पुरः कुञ्ज-वर्त्मन्य् आगच्छन्तम् इव तं दृष्ट्वा प्रतिपद-नव-नव-तन्-माधुर्य-स्फूर्त्यादृष्ट-पूर्वम् इव तं मत्वा पार्श्वस्थां सखीं पृच्छन्त्या वचोऽनुवदन्न् आह—अये बाले ! मिथो रहसि । एक एवेत्य् अर्थः । क एष मन्दं मन्दं वीथीं कुञ्ज-वीथीं गाहते । विलास-गत्याक्रम्यागच्छतीत्य् अर्थः । यस्य मौलिः शिरो मुकुटं वा चन्द्रकैर् भूषणं यस्य । तथा, वपुर् मरकत-स्तम्भाद् अप्य् अभिरामम् । वक्त्रं चित्रो विमुग्धश् च यो हासस् तेन मधुरम् । दृशौ विलोले । वाचः शैशवेन कैशोरेण शीतलाः । तथा, गत्य्-अवलोकन्-कर-चालनादि-विलास-स्थितिर् मद-गजैर् अपि श्लाघ्या ।

पुनः कीदृशी ? मथुरा । पश्यतां मनो मथ्नातीति मथुरा । औणादिकोर् अच्-प्रत्ययात् । तथा सर्व-पदानां लिङ्ग-व्यत्ययेन विशेषणम् इदम् । मौलिर् मथुरो वक्त्रं मथ्रुम् इत्य् आदि ।

स्वान्तर्-दशायां—तथा स्फूर्त्या पार्श्व-स्थ-सखीं प्रत्युक्तिः । बाह्ये तु, मथुरां प्रविष्टस् तथास्फूर्त्याह । अये इत्य् आकाशे सम्बोधनम् । क एष मथुरा-वीथीं गाहते यस्य दृशौ । बाले स्मर-मदालसे विलोले च । अन्यत् समम् ॥५७॥

—ओ)०(ओ—

(५८)

पादौ वाद -विनिर्जिताम्बुज-वनौ पद्मालयालम्बितौ

पाणी वेणु-विनोदन-प्रणयिनौ पर्याप्त-शिल्प-श्रियौ ।

बाहू दोहद-भाजनं मृग-दृशां माधुर्य-धारा-किरौ

वक्त्रं वाग्-विषयातिलङ्घनम् अहो बालं किम् एतन् महः ॥

कृष्ण-वल्लभा ॒ अथाति-मधुर-भावेन श्री-कृष्णं भावयन् मनसि स्फुरमाणं तद्-रूपम् अनुभूयात्याश्चर्येण तर्कयसि—पादाव् इति । अहो किम् एतद् अत्याश्चर्यं बालं सुकुमारं महर् ज्योतिः । किं वा, विशुद्ध-सत्त्व-मयम् । किं वा, ब्रह्म-ज्योतिः, नैकम् अपि सभवतीत्य् आह—महस् तावन् निरवयवम् । अस्य तावत् पादौ वाद-विनिर्जिताम्बुज-वनौ । वादेन विनिर्जितम् अम्बुज-वनं याभ्याम् । पादादिमत्त्वाद् ब्रह्म-ज्योतिष्ट्वं निरस्तम् । अम्बुज-वने पद्मा वर्तते ।

कथम् अस्य विनिर्जितत्वम् अत आह—पद्मालयालम्बितौ । पद्मालया लक्ष्मीस् तयालम्बिताव् आश्रितौ । कमल-वनं हित्वात्रैव वसतीति भावः । पाणी हस्तौ वेणु-विनोदन-प्रणयिनौ, वेणोर् विनोदने वादने प्रणयिनौ स-कौतुकौ । पर्याप्त-शिल्प-श्रियौ पर्याप्ताः पर्यवसानं प्राप्ताह् शिल्प-श्रियो ययोस् तौ । समस्त-कला-कलाप-कुशलाव् इत्य् अर्थः ।

बाहू कीदृशाउ ? मृग-दृशां व्रज-सुन्दरीणां दोहद-भाजनं दोहदस्य प्रेम्णो मनोरथस्य वा भाजनं पात्रम् । माधुर्य-धारा-किरौ माधुर्य-धारां किरत इति तथा तौ । क्विपि रूपम् । सर्वाङ्गानां यथा-कथम्चिन् निरूपणं कृतं, वक्त्रं तु निरूपयितुम् अशक्यम् इत्य् आशयेनाह—वक्त्रं वाग्-विषयातिलङ्घनम्, वाचां विषयोऽधिकारस् तं लङ्घयतीति तथा तत् । वाग्-अगोचर-माधुर्यम् इत्य् अर्थः । शार्दूल-विक्रीडितं छन्दः ॥५८॥

सुबोधिनी ॒ पुनस् तद्-आवेश-मोहेन स-विस्मयम् आह—एतत्-पुरो दृश्यमानं महः किं ? क्षणं विमृश्याह—अहो बालं किशोराकारम् । तत् कथं ? यतोऽस्य पादौ दृश्येते । कीदृशौ ? वादेन विनिर्जितान्य् अम्बुज-वनानि याभ्याम् । अतः पद्मालयया तानि त्यक्त्वाश्रितौ । पुनर् ऊर्ध्वं विलोक्य पाणी च कीदृशौ ? वेणोर् विनोदने यः प्रणयस् तद्-युक्तौ । तथा, परि सर्वतो-भावेनाप्ता शिल्प-श्रीर् यत्र । ततोऽस्योर्ध्वं वीक्ष्य, बाहू च कीदृशौ ? माधुर्य-धारां किरत इति तत्-किरौ । अतो मृग-दृशां सर्वाभिष्टस्य पात्रम् । तद्-उपर्य् अपि वक्त्रं च कीदृशं ? वाग्-विषयम् अतिक्रामति यत् तद् अगोचरम् ॥५८॥

सारङ्ग-रङ्गदा ॒ पुनस् तद्-अतिशय-स्फूर्त्या स-संशयं प्रलपन्त्या वचोऽनुवदन्न् आह—अहो एतत्-पुरो दृश्यमानं महः कान्ति-पुञ्जः किं ? बालं किशोरं, तद्-आकारम् इत्य् अर्थः । यतोऽस्य पादौ वादेन विनिर्जितान्य् अम्बुज-वनानि याभ्यां तादृशौ । अतः पद्मालयया तानि त्यक्त्वालम्बिताव् आश्रितौ । तथास्य पाणी वेणु-विनोदने यः प्रणयस् तद्-युक्तौ । तथा, पर्याप्ता शिल्प-श्रीर् यत्र याभ्यां वा तौ । तथास्य बाहू च माय-धारां किरत इति तत्-किरौ । अतो मृग-दृशां सर्वाभिष्टस्य भाजनं पात्रं यौ । तथास्य वक्त्रं वाग्-विषयम् अतिलङ्घयति यत् तत्, अनिर्वचनीयम् इत्य् अर्थः ।

यद् वा, निर्विशेष-माधुर्य-पुञ्ज-स्फूर्त्या कन्दर्पोदयाद् आह—अहो बालं किशोरम् एतत् । सम्यग् विशेष-स्फूर्त्या माधुर्योदयाद् आह—अस्य पादौ । तत्रापि वादेति पूर्ववत् । दशान्तर-द्वये सुगमम् ॥५८॥

—ओ)०(ओ—

(५९)

एतन् नाम विभूषणं बहुमतं वेषाय शेषैर् अलं

वक्त्रं द्वि-त्रि-विशेष-कान्ति-लहरी-विन्यास-धन्याधरम् ।

शिल्पैर् अल्प-धियाम् अगम्य-विभवैः शृङ्गार-भङ्गी-मयं

चित्रं चित्रम् अहो विचित्रम् अहहो चित्रं विचित्रं महः ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्ण-चन्द्रम् अतिमधुर-भावेन नित्यम् अनुध्यायंस् तत्रापि विशेषतः श्री-मुखारविन्दम् एव निर्भर-भावना-भाव्यमानं प्रतिपदम् अधिकाधिक-सौन्दर्यवत्तया सम्यग् अनुभवन्न तिबोभूयमान-चमत्कार आह—एतद् इति । अहो चित्रं महः ! सर्वतः परमाश्चर्यम् इत्य् अर्थः । कीदृशं महः ? चित्रं नाना-वर्ण-व्यतिकर-संवलितम्, सगुणत्वात् । पुनः कीदृशं ? चित्रं नयनाधरादिषु । तत्रापि पुनर् आह—अहहो विचित्रम् । दृग्-भङ्ग्य्-आदिषु विविधं चित्रं रचना यत्र तत् । न च चित्रं पृथग् उपलभ्यमानम्, न च विचित्रं पृथग् उपलभ्यमानम् । चित्रं विचित्रं मिश्रितम् एवेत्य् अर्थः ।

एवं चित्र-चमत्कार-परमावधिम् उक्त्वा स्फुटतरं स-विशेषम् आह—यद्यपि तस्य सर्वाण्य् अङ्गानि स्वतो भूषणानि तथाप्य् एतद् एव विभूषणं विशिष्टं भूषणम् । नाम प्रकाश्ये । बहु-मतम्, बहूनां संमतम् इत्य् अर्थः । यत् प्रतिज्ञायते तत् किं ? वक्त्रम् इति । वेषाय वेषार्थं शेषैः शिल्पैस् तिलक-रचनादि-चातुर्य-विशेषैर् अलं पर्याप्तम् । वेषेण विनैवात्यर्थं शोभमानत्वात् ।

कीदृशैः शिल्पैः ? अल्प-धियाम् अगम्य-विभवैः । अगम्यो विभवो विविधोत्पत्तिर् येषां तैः ।

कीदृशं वक्त्रं ? द्वि-त्रि-विशेष-कान्ति-लहरी-विन्यास-धन्याधरम् । द्वयोस् त्रयाणां वा विशेषा यत्र सा चासौ कान्ति-लहरी च । तस्या विन्यासेन विलासेन धन्यो रम्याधरो यत्र तम् । अयं भावः—द्वयोर् वंशी-स्मितयोः, त्रयाणां दृग्-भ्रू-नर्मणाम् इति । चित्र-विशेष-कान्ति-लहरी-विन्यास-धन्याधरम् इति पाठे—चित्र-विशेषेषु वक्त्र-वर्तिषु यः कान्ति-लहरी-विन्यासस् तेन धन्योऽधरो यत्र तत् । यद् वा, चित्रं विचित्रं यद् विशेषकं तिलकं तस्यान्ति अन्तिमा या लहरी रेखा तस्या विन्यासेन धन्यानि वस्तून्य् अधरयतीति तत् ।

पुनः कीदृशं ? शृङ्गार-भङ्गी-मयम् । दृग्-भ्रू-स्मित-नर्म-वेणु-गीत-गति-विलास-प्रचुरम् इत्य् अर्थः । अथवा, अहो महः परम-तेजो-मयम् इदं वपुश् चित्रम् । एतादृशं कृष्णस्य बहुतर-दीप्तिमन् मया कदापि न दृष्टम्, केनापि भाग्य-विशेषेणाद्य मे फलितम् इत्य् अर्थः । अहो चित्रं चित्रम् इत्य् आदरे वीप्सा । अहहो अद्भुते । विचित्रं विविधानि चित्राणि तिलक-रचनाद्या यस्मिंस् तत् । विचित्रं दृष्टि-वाग्-अङ्ग-चेष्टितैर् विशेषेण चित्रम् । शेषं पूर्ववत् । शार्दूल-विक्रीडितं छन्दः ॥५९॥

सुबोधिनी ॒ पुनर् अतिशयेन तन्-माधुर्य-स्फूर्त्याह—अहो चित्रं चित्रम् । अत्याश्चर्ये वीप्सा । पुनः स-विस्मयं—अहहो विचित्रम् । सन्न-कण्ठत्वाद् अहो अहो इति वक्तव्ये अहहो इत्य् उक्तिः । किं तत् ? चित्रं विचित्रं महः । तत्र चित्रताम् आह—एतद् वक्त्रं नाम प्रकाश्ये । वेष-साधनाय बहूनां तन्-माधुर्य-विदां संमतम् । अतः शेषैः कुण्डलादिभिर् अलं वारणे । तत्-सामग्रीं सम्पादयन्न् आह—द्वयोः कपोलयोस् त्रयाणां नासा-दशन-चिबुकानां विशेषतो नील-श्वेतादि-लहरीणां विशिष्टार्पणेन धन्योऽधरो यत्र । विचित्रताम् आह—शिल्पैर् अरुणाधरस्य चतुर्-दिक्षु कपोलादीनां मध्ये दन्त-पङ्क्ति-द्वयस्य च कान्तीनां यथोचित-रचन-नैपुण्यैर् वेषस्य या परिपाटी तत् प्रचुरम् । शृङ्गार-रसस्य स्मितादि-प्रचुरं वा । कीदृशैः ? अल्प-बुद्धीनां ब्रह्मादीनाम् अदृश्या विभवा येषाम् ॥५९॥

सारङ्ग-रङ्गदा ॒ पुनर् अतिविशेषेण तन्-मुख-माधुर्य-स्फूर्त्या प्रलपन्त्या वचोऽनुवदन्न् आह—एतद् वक्त्रं, नाम प्राकाश्ये, वेषाय बहु-मतं विभूषणम् । शेषै नाना-मणि-मयैर् अलं पर्यप्तम् । ननु नाना-मणीनां वर्ण-शाबल्याच् छोभा-विशेषैः स्यात् । तत्राह्—द्वौ वा त्रयो विशेषा यस्यां तादृशी या कान्ति-लहरी तस्या विन्यासेन धन्योऽधरो यस्मिन् । स्मिताधर-गण्डादेः शौक्ल्यारुण्य-श्यामता इति विशेषा ज्ञेया । पुनर् माधुर्यातिशयानुभवाज् ज्योतिः-पुञ्जत्वेन स्फूर्तिः । पुनः सर्वाङ्गावयवम् अनुभूय तेषां च भूषणत्वेनानुभवात् साश्चर्यम् आह—इदं महः कान्ति-पूरश् चित्रं चित्रं, अवयवित्वात् । पुनस् तत्-सौष्ठव-स्फूर्त्यात्याश्चर्यम् आह—कस्यचिद् अपूर्व-विधेः शिल्पैर् एव या शृङ्गार-भङ्ग्यो भूषण-भङ्ग्यस् तन्-मयम् । अतः, अहो विचित्रम् इदम् । ततोऽप्य् अतिशय-स्फूर्त्याह—अहहो इदं चित्रं विचित्रम् । यतः कीदृशैस् तैः ? अल्प-धियाम् एतद्-विध्यादीनाम् अगम्यो विभवो येषां तैः । सन्न-कण्ठत्वाद् अहो इति वक्तव्ये अहहो इत्य् उक्तिः दशा-द्वये सुगमम् ॥५९॥

—ओ)०(ओ—

(६०)

अग्रे सम्ग्रयति काम् अपि केलि-लक्ष्मीम्

अन्यासु दिक्ष्व् अपि विलोचनम् एव साक्षि ।

हा हन्त हस्त-पथ-दूरम् अहो किम् एतद्

आशा-किशोरम् अयम् अम्ब जगत्-त्रयं मे ॥

कृष्ण-वल्लभा ॒ अहो चित्रं विचित्रम् इत्य्-आद्य्-अनुभव-सुखम् अनुभूय तादृश-श्री-कृष्ण-परोक्षम् इवान्तर् बहिः सर्वत्र पश्यन् श्री-कृष्ण-शक्तिं परमानुग्रह-मयीं प्रति त्वत्-प्रसादान् ममैवं जातम् इति निवेदयति—अग्र इति । अम्ब मातः श्री-कृष्ण-रस-मग्नोपलालन-कर्तृ तद्-अनुग्रह-शक्तेर् भक्त्या एव प्रसादात् सम्प्रति जगत्-त्रयं मे ममाशा किशोर-मयम् । आशा-मय-किशोरस् तत्-स्वरूपेण परिणतम् । विपरिणामे मयट् । स्वरूपतः स्फुरण-मात्रं न, किं तु केलि-विशिष्टतयेति । अत आह—अग्र इति । अग्रे पुरतः काम् अप्य् अनिर्वचनीयां केलि-लक्ष्मीं क्रीदा-सम्पदं समग्रयति समग्रां सम्पूर्णां दर्शयतीत्य् अर्थः । अत्र प्रमाणं किं प्रत्यक्षम् एव ? इत्य् अत आह—मे मम विलोचनम् एव साक्षि । तर्हि कथं खिद्यसे ? तत्राह—हा हन्तेति खेदे । अहो हस्त-पथ-दूरं हस्त-पथाद् दूरं किम् एतत् ? किम् इदम् इति वितर्के । न जानामीति शेषः । वसन्त-तिलकं छन्दः ॥६०॥

सुबोधिनी ॒ अतः साक्षात् तं मत्वा स-विचारम् आह—अहो एतत् किं ? पुनर् निरीक्ष्याह—ममाग्रे काम् अपि केलि-लक्ष्मीं सम्यक् करोति । न केवलम् अग्रेऽन्यासु दिक्स्व् अपि । एकोऽनेकत्र कथं स्यात् । विलोचनम् एव साक्सि । प्रत्यक्षे कः सन्देहः ? पुनर् उत्कण्ठया ग्रहीतुं बाहुं प्रसार्य स-विषादम् आह—हा खेदे । हन्त विषादे । हस्त-पथाद् दूरम् । ततः स्फूर्त्य्-अपगमे स-वितर्कम् आह—हे अम्ब । इत्य् आकाशे स-विषाद-सम्बोधनम् । ममाशयैव किशोर-मयं जगत्-त्रयं कथम् अभूत् ॥६०॥

सारङ्ग-रङ्गदा ॒ अतः साक्षात् तं स्व-भाग्यातिशय-मननात् किम् इदं सत्यम् इति स-विचारं प्रलपन्त्या वचोऽनुवदन्न् आह—अग्रे मम पुरः काम् अपि काम् अपि केलि-लक्ष्मीं समग्रयति सम्यक् करोति । अतः सत्यम् एव । पुनः पार्श्वतः पृष्ठतश् चालोक्याह—अन्यासु दिक्स्व् अपि तथा । तद् एकः कथं सर्वत्र भवत्व् इति संशय्य स-प्रत्ययम् आह—विलोचनम् एव साक्सि । प्रत्यक्षं दृश्यते, कथम् अन्यत्र स्यात् ? भवतु स्पृष्ट्वा निर्धारयामीति बाहू प्रसार्य तत्र तत्र गत्वा ततोऽपि दूरे तम् आलोक्य स-विषादम् आह—हा हन्त हस्त-पथाद् दूरम् । हस्त-पथाद् दूरे एतद् इति स-वितर्कम् आह—अम्ब । इत्य् आकाशे विषाद-सम्बोधनम् । आशा-किशोर-मयं जगत्-त्रयं मे जातम् । दशान्तर-द्वये सुगमम् ॥६०॥

—ओ)०(ओ—

(६१)

चिकुरं बहुलं विरलं भ्रमरं

मृदुलं वचनं विपुलं नयनम् ।

अधरं मधुरं वदनं ललितं

चपलं चरितं च कदा नु भवे ॥

कृष्ण-वल्लभा ॒ एवं यदि हस्त-पथ-दूरे तदा कथम् अभिलाषः सम्पत्स्यताम् इति स्व-प्राणनाथ-निभृत-सेवाम् आशास्ते—चिकुरम् इत्य् आदि । विभोः श्री-कृष्णस्य । न्व् इति वितर्के प्रश्ने वा । कदा बहुलं समृद्धं चिकुरं बालं विचित्र-शिखि-पिच्छ-कुसुम-रचनादिना रचयामि । विभोर् इत्य् उक्त्वा केलि-स्फुरण-रस-वैवश्यात् क्रिया-पदोक्त्य्-अभावः । इदम् इदम् अङ्गम् इत्थं सेविष्ये इति मनोरथ-परम्परा कथम् एक-क्रियया स्फुटी-भविष्यतीति क्रिया-पदोक्त्य्-अभावो वा । तत्र केश-कुसुम-लोभेनायास्यन्तीं भ्रमर-बाधाम् अनुस्मृत्याह—विरलं विरलीभूय वर्तमानं भ्रमरम् । सौगन्ध्य-लोभेन मुखाम्बुजे पतन्तं कदा समुत्सारयामीत्य् अर्थः । तन्-निरसनार्थं मृदुलं वचनं कदा श्रोष्यामि ? न केवलम् अवादीत्, किन्त्व् अद्राक्षीच् च । तद् अनुस्मृत्याह—विपुलं महन् नयनम् । सद्यः समुच्छलित-महानन्दाम्भोधि-कल्लोलान्दोलितं कदा द्रक्ष्यामीत्य् अर्थः । मृदुल-वचन-सानुराग-दर्शनानन्तरं स्नेह-रसेन योऽधर-स्पन्दो जातस् तम् अनुस्मृत्याह—मधुरम् अधरं कदा वंशी-सहितम् अवलोकयिष्यामि । वदनं दृष्टि-वाङ्-माधुर्य-विशेषवत्तया मधुरं कदा द्रक्ष्यामि । तद्-अनु यच् चपलं चरितं तच् चेति । एवम् उक्त्वा दीर्घं निश्वस्य च तथैवाशया स्थितम् इति भावः ।

तोटकं छन्दः—वद तोटकम् अब्धि-सकार-युतं [छन्दो-मञ्जरी २] ॥६१॥

सुबोधिनी ॒ एवम् अत्यौसुक्याद् आर्तः स-लालसम् आशास्ते—विभोः रति-गलित-केशं कदा गुम्फामि ? कीदृशं ? बहलं निविडम् । तथा, ललाटालकं च कदोद्यच्छामि । कीदृशं ? विरलम् अलि-पङ्क्तिवत् पृथक् पृथक् स्थितम् । तथा च, मृदुलं वचनं कदा श्रोष्यामि ? विपुलं नयनं कदा द्रक्ष्यामि ? मधुरम् अधरं कदा पास्यामि ? मधुरं वदनं कदा चुम्बिष्यामि ? चपलं चरितं कदानुभविष्यामि ? गाधार्त्या निगूढाभिव्यक्तेर् वाग्-असमाप्तिः ॥६१॥

सारङ्ग-रङ्गदा ॒ अथ तद्-अलाभान् मथुरा-वीथ्यां पतितः, पुनस् तस्या भूमौ निपत्य मूर्च्छन्त्याः, अधुनैवागतस्य तत्-तन्-माधुर्यम् अनुभविष्यसीति सखीभिः प्रबोधिताया नेत्रे निमील्यैव कुञ्जे लीलावसान-समये तस्य स्वेष्ट-तत्-तत्-सेवाद्य्-अप्राप्ति-स्फूर्त्या ताः प्रति प्रलपन्त्या वचोऽनुवदन्न् आह—नु भोः सख्यः ! विभोर् एतद्-दुःख-हरण-समर्थस्य चिकुरम् । कदा चूडात्वेन बध्नामीति शेषः । एवम् अग्रेऽपि । कीदृशं ? बहलं स्निग्ध-निविडम् । तथा, भ्रमरं ललाटालकं कदोद्यच्छामि । कीदृशं ? विरलम् अलि-पङ्क्तिवत् पृथक् पृथक् स्थितम् । मृदुलं वचनं कदा श्रोष्यामि ? विपुलं नयनं कदा द्रक्ष्यामि ? मधुरम् अधरं कदा पास्यामि ? मधुरं वदनं कदा चुम्बिष्यामि ? चपलं चरितं कदानुभविष्यामि ? गाधार्त्या लज्जया च वाग्-असमाप्तिः । दशान्तर-द्वये सुगमम् ॥६१॥

—ओ)०(ओ—

(६२)

परिपालय नः कृपालयेत्य्

असकृज्-जल्पितम् आर्त-बान्धवः ।

मुरली-मृदुल-स्वनान्तरे

विभुर् आकर्णयिता कदा नु नः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-भाव-वर्त्मनि सञ्चरन्न् औत्कण्ठ्यम् आविष्करोति—परिपालयेति । विभुः श्री-कृष्णो नोऽस्माकम् इति वक्ष्यमाणम् असकृद् वारं वारं जल्पितं वचनं मुरली-मृदुल-स्वनान्तरे मुरल्या मृदुल-स्वनस्यान्तरं छिद्रम् उपरतिर् यत्र तस्मिन् काले कदा न्व् आकर्णयिता आकर्णयिष्यति, श्रोष्यतीत्य् अर्थः । यद्यपि वेणु-वादनानन्द-रस-मग्नस्यान्यत्र कुत्रापि नेन्द्रिय-वृत्तिः सम्भवति, तथाप्य् अतिदुःखितस्य दुःख-खण्डनाय भक्त-वचः-श्रवणे प्रवर्तमानत्वात् तच्-छ्रवण-सम्भवः । अतो मुरली-वादनावसर एव विभुत्वान् मद्-वचः श्रोष्यतीति भावः । यतो हि, आर्तानां बान्धवः । तत् किं ? हे कृपालय कृपा-निधे नोऽस्मान् दर्शनानन्द-दानेन परिपालय । यथा जीवामस् तथा कुर्व् इत्य् अर्थः ॥ वैतालीयं छन्दः ॥६२॥

सुबोधिनी ॒ पुनस् तथैव स-दैन्यम् आह—हे कृपालो ! नोऽस्मान् परिपालय । आगमनं तावद् आस्ताम्—हे आर्त-बान्धव ! आर्तानां नो जल्पितं मुरली-मृदुल-स्वनस्यान्तरे तस्य मध्ये सकृद् अपि कदा नु श्रोष्यसि ? तत्र हेतुः—विभुर् अस्मत्-प्रभुः ॥६२॥

सारङ्ग-रङ्गदा ॒ ततः क्षणाद् उत्थाय वृन्दावनं गच्छन्न् एतद् वदन्त्यां तस्यां मूर्च्छितायां तत्-सखीनाम् अन्योन्य-प्रलपित-स्फूर्त्या तद् अनुवदन्न् आह द्वाभ्याम् । नु भोः सख्यः ! हे कृपालो एत्य नोऽस्मान् परिपालयेत्य् अस्माकं बहु-जल्पितानां मध्ये सकृज् जल्पितम् एक-जल्पितम् अपि विभुः सर्व-रक्षा-समर्थः श्री-कृष्णो मुरली-स्वनस्यान्तरे मध्ये कदाकर्णयिता श्रोष्यति । तत्र हेतुः—आर्तेति । कृपालयेत्य् असकृद् इति पाठे—हे कृपालय ! इत्य् असकृज् जल्पितम् । दशान्तर-द्वये सुगमम् ॥६२॥

—ओ)०(ओ—

(६३)

कदा नु कस्यां नु विपद्-दशायां

कैशोर-गन्धिः करुणाम्बुधिर् नः ।

विलोचनाभ्यां विपुलायताभ्याम्

आलोकयिष्यन् विषयीकरोति ॥

कृष्ण-वल्लभा ॒ अहो मुरली-वादन-व्यापृतेनैव तेन स्थीयते । तेनैवास्माकं परिदेवनं न श्रूयत इति सर्वोत्तम-भाव-वर्त्मनि सततं सञ्चरन्न् औत्सुक्येन मुक्त-कण्ठं क्रन्दन्न् आह—कदा न्व् इति । न्व् इति वितर्के । कैशोर-गन्धिः कैशोरस्याल्यो गन्धो यस्य सः । अल्पाख्यायां [पा. ५.४.१३६] इति गन्धस्येत् । आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् [भ.र.सि. २.१.१२३] इत्य्-उक्तेः प्रथम-कैशोरम् इत्य् अर्थः । कदा, नु प्रश्ने, नोऽस्मान् रस-शीतलाभ्यां रसेन रागेण शीतलाभ्यां स्निग्धाभ्यां विलोचनाभ्याम् आलोकयिष्यन् विषयीकरोति विषयी-करिष्यति । विपुलायताभ्याम् इति पाठे—विपुले चायते चेति ताभ्याम् । विपद्-दश्यायाम् इति चेत्, तादृशी च विपद्-दशा कदा भविष्यति ? इतः परा तद्-अदर्शन-रूपा विपद्-दशा नास्त्य् एवेति भावः । आलोकनं सम्भवति च, यतः करुणाम्बुधिः कृपा-समुद्रः । न हि तत्-परः कश्चित् परम-कारुणिकः, मत्-परः परम-शोच्यतमश् च [पद्या. ६६] इति विचिन्त्य यद् उचितं तत् करिष्यतीति तात्पर्यार्थः ॥ उपेन्द्र-वज्रा छन्दः ॥६३॥

सुबोधिनी ॒ पुनर् अतिदैन्येन स-करुणम् आह—करुणाम्बुधिः, न तर्के, कस्मिन् क्षणे इतोऽप्य् अधिकायां कस्यां नु विपद्-दशायां विपुलायताभ्यां विलोचनाभ्याम् आलोकयिष्यन् नः स्व-दृष्टि-गोचरान् करिष्यति । कञ्चित् प्रिय-जनम् आलोकयंस् तद् एकाश्रयान् अस्मान् अप्य् आलोकयिष्यतीति गूढोऽभिप्रायः । तत्र हेतुः—कैशोर-गन्धिः । नव-यौवनोन्मुख इत्य् अर्थः ॥६३॥

सारङ्ग-रङ्गदा ॒ ननु स्व-जन-विपद्-भरम् असहिष्णुः कृपालुर् अयं श्री-कृष्ण एत्य नः पालयिष्यतीति कस्याश्चिद् वाक्यात् स-दैन्यं प्रलपन्तीनां वचोऽनुवदन्न् आह—स करुणाम्बुधिः कदा नु कस्मिन् क्षणे इतोऽप्य् अधिकायां कस्यां नु विपद्-दशायां विपुलायताभ्यां विलोचनाभ्याम् आलोकयिष्यन् विषयीकरोति स्व-गोचरी-करिष्यति । इतोऽपि विपत् सम्भवेन् नाम । कीदृक् ? कैशोर-गन्धिः । स्वल्पार्थे इत् [पा. ५.४.१३६] समासान्तः । नव-कैशोर इत्य् अर्थः ॥ दशा-द्वये सुगमम् ॥६३॥

—ओ)०(ओ—

(६४)

मधुरम् अधर-बिम्बे मञ्जुलं मन्द-हासे

शिशिरम् अमृत-नादे शीतलं दृष्टि-पाते ।

विपुलम् अरुण-नेत्रे विश्रुतं वेणु-वादे

मरकत-मणि-नीलं बालम् आलोकये नु ॥

कृष्ण-वल्लभा ॒ अथ परम-भावेन श्री-कृष्णं भावयन् पुरतः स्फुरमाणम् अभिलषति—मधुरम् इति । मरकत-मणि-नीलं मरकत-मणिम् इव श्यामं बालं सुकुमारम् अन्वनुवृत्ति-पूर्वकम् । अनुक्षणं वा । आलोकये पश्यामि ।

कीदृशं ? अधर-बिम्बे मधुरं मधुर-रस-रूपम् । पुनः कीदृशं ? मन्द-हासे ईषद्-धास्ये मञ्जुलं मनोहरम् । पुनः कीदृशं ? अमृत-नादे अमृतवच् छ्रवण-पेये नादे शिशिरं हिम-कण-निकरवत् ताप-ज्वाल-शमनम् ।

पुनः कीदृशं ? दृष्टि-पाते दृष्टीनां दृष्टि-भेदानां पाते पातने शीतलं भावि-ताप-शङ्काया अपि नाशकम् । शिशिर-शीतलयोर् अयं भेदः—शिशिरं मृद्व्-आश्रयम्, यद्-अवस्था हिम-कणाः । नादस्य स्तोकत्वात् स्निग्धत्वाच् च तथात्वम् । शीतलं कठिनाश्रयम् अपि भवति । तेन दृष्टि-पातस्य कठिनत्वात् कठिनम् अपि श्लथयति मर्म स्पृशतीति च । शीतलत्वाद् अप्यायकत्वं चेति ।

पुनः कीदृशं ? अरुण-नेत्रे अरुणं च तन्-नेत्रं च तस्मिन् । जाताव् एक-वचनम् । विपुलं विस्तीर्णम् । तथा वेणोर् वादे वादने विश्रुतं ख्यातम्, वांशिकः कोऽपि नैतादृश इति ॥ मालिनी छन्दः ॥६४॥

सुबोधिनी ॒ पुनः स्फूर्त्याह—नु निश्चये । मरकत-नीलं बालं पश्यामि । तत् सम्भावयन्न् आह—अधर-बिम्बे मधुरम् । तत् कुतः ? मन्द-हासे मञ्जुलम् । तद् अपि कथं ? अमृत-नादे वचसि शिशिरम् । तत्रापि हेतुः—दृष्टि-पाते च शीतलम् । तत् कथं ? अरुण-नेत्रे विपुलम् । वेणु-नादे प्रसिद्धम् ॥६४॥

सारङ्ग-रङ्गदा ॒ अथोन्मत्तेवोत्थायोपविश्य नेत्रे निमील्यैव सखीः प्रति सोत्कण्ठं पृच्छन्त्या वचोऽनुवदन्न् आह—नु भोः सख्यः ! तं मरकत-मणि-नीलं बालं किशोरम् आलोकये । कदा द्रक्ष्यामीत्य् अर्थः । आकाङ्क्षायां लिङ् । कीदृशं ? अधर-बिम्बे मधुरम् । मन्द-हासे मञ्जुलम् । अमृत-नादे वाचि शिशिरम् । दृष्टि-पाते शीतलम् । अरुण-नेत्रे विपुलम् । वेणु-नादे विश्रुतम् ॥ दशान्तर-द्वये सुगमम् ॥६४॥

—ओ)०(ओ—

(६५)

माधुर्याद् अपि मधुरं

मन्मथ-तातस्य किम् अपि कैशोरम् ।

चापल्याद् अपि चपलं

चेतो बत हरति हन्त किं कुर्मः ॥

कृष्ण-वल्लभा ॒ किं च, माधुर्याद् इति । मन्मथ-तातस्य काम-जनकस्य श्री-कृष्णस्य । मन्मथस्य तातो विस्तारो यस्माद् वा । मन्मथतां साक्षान्-मन्मथत्वम् अतति प्राप्नोतीति मन्मथतातस् तस्येति वा । एतेन सौन्दर्याधिक्यं ध्वनितम् । किम् अप्य् अनिर्वाच्यं कैशोरं कर्तृ । बत विस्मये । चेतःकर्म हरति चोरयति । चेतश् चेद् धरति, तदा प्रतीकारः कर्तुम् उचित इत्य् आह—किं कुर्मः ? करण-शक्त्य्-अभावात् । तच्-चरणैकान्तिकीं परम-निभृत-सख्य-पदव्य्-आशां नैव व्यक्तुं शक्नुम इत्य् अर्थः । यद् वा, तस्य कैशोरम् एव मन्मथता मन्मथ-स्वरूपम् । समस्त-परम-रस-चमत्कार-धारिणीति भावः ।

कीदृशं कैशोरं ? माधुर्याद् अपि मधुरम् । समस्त-माधुर्य-विलक्षण-माधुर्यम् इत्य् अर्थः । एवं चापल्यं भाव-विशेषः, तस्माद् अपि चपलम् ॥ आर्या छन्दः ॥६५॥

सुबोधिनी ॒ अथ स्व-चित्तोन्मादे स एव निदानम् इत्य् आह—मनो मथ्नातीति मन्मथोऽभिलाषस् तस्य जनकस्य । बताश्चर्ये । किम् अपि कैशोरं चेतो हरति । हन्त खेदे । किं तद् अवनाय कम् उपायं कुर्मः ? सर्वैर् मिलित्वा गृहाण—चापल्यात् तद्-रूप-धर्माद् अपि चपलम् । ग्रहीतुम् अपि न शक्नुमः । चेतोऽपहारे हेतुः—माधुर्याद् अपि तथा मधुरम् । अतिमधुरम् इत्य् अर्थः ॥६५॥

सारङ्ग-रङ्गदा ॒ अथोत्थायेतस् ततो धावन्त्याः सखीभिर् अञ्चले गृहीत्वा, “सखि ! किम् इत्य् उन्मत्तासि ? धैर्यं कुरु” इति प्रबोधितायाः स-धैर्यम् इव वचोऽनुवदन्न् आह । मन्मथ-तातस्य मनो मथ्नातीति मन्मथो दुःखदः कामस् तं जनयतीति मन्मथ-जनकस् तस्येति वक्तव्ये भाव-वैवश्यात् समान-पर्यायत्वाच् च तत्-तातस्येत्य् उक्तिः । तस्य कृष्णस्य किम् अप्य् अनिर्वचनीयं कैशोरं चेतो हरति । हन्त खेदे । किं कुर्मः ? तत्र हेतुम् आह—कीदृशं ? माधुर्यात् तद्-रूप-माधुर्यात् अपि मधुरम् । लक्षणयातिमधुरम् इत्य् अर्थः ।

नन्व् अयि मुग्धे ! कस्याश् चेतो न हरति, कान्या त्वम् इवोन्माद्यति ? तत्राह—कीदृशं चेतः ? चापल्यात् तद्-रूप-धर्माद् अपि चपलम् । तद् अस्यैव दोष इत्य् अर्थः ।

यद् वा, तस्य कृष्णस्य मन्मथता कैशोरं व्याप्य मनो हरतीत्य् अन्वयः । कालाध्वनोर् अत्यन्त-संयोगे [पा. २.३.५] इति द्वितीया । किं वा, कैशोरं कीदृशं ? मन्मथता तत्-स्वरूपम् ।

स्वान्तर्-दशायां—समान-सखीः प्रत्युक्तिः । बाह्ये सङ्गि-जनान् प्रति ॥६५॥

—ओ)०(ओ—

(६६)

वक्षः-स्थले च विपुलं नयनोत्पले च

मन्द-स्मिते च मृदुलं मद-जल्पिते च ।

बिम्बाधरे च मधुरं मुरली-रवे च

बालं विलास-निधिम् आकलये कदा नु ॥

कृष्ण-वल्लभा ॒ अथ दृढ-भावनाभावितान्तः-करणोऽग्रतः स्फुरत्-तद्-रूप-निश्चायकताम् अनुभवन्न् आशास्ते—वक्ष इति । न्व् इति प्रश्ने । विलास-निधिं बालं कदालोकये इत्य् अन्वयः । विलासा निधीयन्तेऽस्मिन्न् इति तं बालं प्रकृष्ट-पुरुषम् । यथा बाला-शब्दः स्त्री-विशेष-परस् तथात्रापि । वलत इति कर्तरि घञ् । कदा कस्मिन् समय आलोकये । स्वभावतस् तद् अत्याकृष्ट-चेता आलोकयिष्यामि ।

कीदृशं बालं ? वक्षः-स्थले च नयनोत्पले च विपुलं महत्तरम् । मन्द-स्मिते चः मद-जल्पिते च । मदेन यज् जल्पितं तस्मिन् । मृदुलं मृदुं लाति गृह्णातीति तथा तम् । बिम्बाधरे च मुरली-रवे च मधुरं मधुर-रस-प्रदम् । नयन-श्रवणयोर् अमृत-वर्षीत्य् अर्थः । अत्र तत्-तत्-स्थान-सौन्दर्य-माधुर्य-लावण्याधिक्य-सूचनार्थं च-समुच्चयः ॥ वसन्त-तिलकं छन्दः ॥६६॥

सुबोधिनी ॒ पुनस् तद्-अपगमे स-लालसम् आह—नु प्रश्ने । बालं कैशोरं कदाकलये, द्रक्ष्यामीत्य् अर्थः । किशोरत्वं व्यनक्ति—वक्षः-स्थले नयनोत्पले च विस्तीर्णं, मन्द-स्मिते मद-जल्पिते च मृदुलं, बिम्बाधरे मुरली-रवे च मधुरम् । अत एव विलास-निधिम्, तत्-समुद्रम् इत्य् अर्थः ॥६६॥

सारङ्ग-रङ्गदा ॒ नन्व् अधुनैव तं द्रक्ष्यसि । क्षणं धैर्यं कुर्व् इति पुनस् ताभिः प्रबोधितायाः स-लालसं वचोऽनुवदन्न् आह—नु भोः सख्यः ! तं विलास-निधिं तत्-समुद्रं बालं नव-कैशोरं कदाकलये, द्रक्ष्यामीत्य् अर्थः । कीदृशं ? वक्षः-स्थले च नयनोत्पले च विपुलं विस्तीर्णं, मन्द-स्मिते मद-जल्पिते च मृदुलं, बिम्बाधरे मुरली-रवे च मधुरम् । दशा-द्वये सुगमम् ॥६६॥

—ओ)०(ओ—

(६७)

आर्द्रावलोकित-धुरा परिणद्ध-नेत्रम्

आविष्कृत-स्मित-सुधा-मधुराधरोष्ठम् ।

आद्यं पुमांसम् अवतंसित-बर्हि-बर्हम्

आलोकयन्ति कृतिनः कृत-पुण्य-पुञ्जाः ॥

कृष्ण-वल्लभा ॒ अहो तद्-दर्शनम् अतिदुर्लभम् । ये कृत-पुण्य-पुञ्जास् त एव पश्यन्तीत्य् आह—आर्द्रेति । कृत-पुण्य-पुञ्जाः कृताः पुण्यानां पुञ्जा राशयो यैस् ते । कृतं करणं प्रशस्तं सर्वतो भाव-निष्ठा-रूपं येषाम् अस्ति ते कृतिनः । आद्यं पुमांसं पुरुषोत्तमम् आलोकयन्ति सम्यक् पश्यन्ति । तर्हि किं नारायण-स्वरूपं ? नेत्य् आह—अवतंसित-बर्हि-बर्हम् । अवतंसितानि कृतोत्तंसानि बर्हि-बर्हाणि मयूर-पिच्छानि येन तम् । सहज-गोप-वेषम् इत्य् अर्थः ।

पुनः कीदृशं ? आर्द्रावलोकित-धुरा परिणद्ध-नेत्रम् । आर्द्रं सरसम् । स्निग्धम् इति यावत् । यद् अवलोकितं तस्य धूर् भारस् तया परिणद्धानि वशीकृतानि जगन्-मात्रस्य नेत्राणि येन तम् । यद् वा, आर्द्रा सरसा श्री-राधाद्या गोप्यस् तासां यद् अवलोकितं तस्य धुरा तद्-अतिशयेन परिणद्धे शृङ्खलादिभिर् इव तास्व् एव बद्धे नेत्रे यस्य तम् ।

पुनः कीदृशं ? आविष्कृत-स्मित-सुधा-मधुराधरोष्ठम्, आविष्कृता भङ्ग्या प्रकटीकृता या स्मित-सुधा तया मधुराधरोष्ठौ यत्र तम् । यद् वा, स्मित-सुधया मधुराण्य् अधरयति तादृशम् ओष्ठं यस्य तम् । वसन्त-तिलकं छन्दः ॥६७॥

सुबोधिनी ॒ पुनस् तद्-दौर्लभ्य-स्फूर्त्या तद्-दर्शन-कारिणोऽभिनन्दन् स-दैन्यम् आह—ये सुकृतिनस् तत एव कृतः पुण्यानां भक्ति-लक्षणानां पुञ्जो यैस् त एवाद्यं पुमांसं पुरुष-श्रेष्ठं पश्यन्ति । न तु तद्-विपरीता मादृशाः । एतत्-कृत्यैव निदानम् आह—स्निग्ध-जनस्यावलोकित-धुरया तद्-अतिशयेन परिणद्धे स्व-वशीकृते नेत्रे यस्य । तेनैवाविष्कृतं यत् स्मितं तद् एव सुधा, तया मधुराव् अधरोष्ठौ यस्य । श्रेष्ठताम् एवाह—अवतंसितानि बर्हि-बर्हाणि येन ॥६७॥

सारङ्ग-रङ्गदा ॒ अथातिदैन्योदयात् स-दैन्यं तद्-दर्शन-कारिणोऽभिनन्दन्त्या वचोऽनुवदन्न् आह—तम् आद्यं पुमांसं पुरुष-श्रेष्ठं ये कृतिनः कृत-पुण्य-पुञ्जास् त एवालोकयन्ति । आकर्णयन्तीति पाठे—एतादृशं ये शृण्वति त एव धन्याः, किम् उत ये पश्यन्तीत्य् अर्थः । आद्यं प्रेमवज् जनैर् आस्वाद्यम् इति वा । कीदृशं ? प्रणय-करुण-रसैर् आर्द्रयावलोकित-धुरा तद्-अतिशयेन परिणद्धे युक्ते नेत्रे यस्य । आविष्कृतं यत् स्मितं तद् एव सुधा तयातिमधुराव् अधरोष्ठौ यस्य । तथा, अवतंसितानि बर्हिणां बर्हाणि येन तम् । दशान्तरे सुगमम् ॥६७॥

—ओ)०(ओ—

(६८)

मारः स्वयं नु मधुर-द्युति-मण्डलं नु

माधुर्यम् एव नु मनो-नयनामृतं नु ।

वेणी-मृजो नु मम जीवित-वल्लभो नु

बालोऽयम् अभ्युदयते मम लोचनाय ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्ण-चरणैक्॑न्तिक-भक्तिम् एव वर्धयन्न् उत्कण्ठार्ति-भरेण पुरः स्फुरन्तम् इव तं वीक्ष्योन्मत्त इव विविधं वितर्कयन्न् आह—मार इति । अयं पुरोवर्ती बालः सुकुमारो मम लोचनाभ्यां निमित्त-भूताभ्याम् अभ्युदयतेऽभि सर्वतः उदयते प्रकाशते । अम्बुदयत इति पाठे—अम्बुद इवाचरत्य् अम्बुदयते ।

कथं ममैवं भ्रमः ? इति विविध-वितर्कम् आह—स्वयं नु मारः किं ? नहि नहि, अनङ्गत्वात् । मधुर-द्युतिश् चन्द्रस् तन्-मण्डलं नु । नहि नहि, स-कलङ्कत्वात् । तन्-मण्डलं च कान्ति-माधुर्य-मात्रं, इदं तु परम-माधुर्यम् एव घनी-भूतं दिव्याकारम् । तर्हि माधुर्यम् एव नु किं ? नहि नहि, तद् अमूर्तम् । तर्हि, मनो-नयनामृतं नु ? नहि नहि, अमृतं तु द्रव-प्रायम्, इदं तु यावद् एवामृतं नामास्ति तत्-सर्व-बीज-भूतम् ।

पुनर् अपि निपुणं निभाल्य व्रज-सुन्दरी-रमण एवायम् इत्य् आह—वेणी-मृजो न्व् इति । मार्ष्टीती मृजः । इग् उपध [पा. ३.१.१३५] इति कः । वेण्या मार्जन-कर्ता । व्रज-सुन्दरी-केश-प्रसाधक इत्य् अर्थः । वेणी-मृजो महा-नीलमणौ केश-प्रसाधके इति विश्वः । यद् वा, वेण्या मृजा मार्जनं यस्य सः । गोप्यः श्री-वृन्दावनाद् आगतस्य तस्य स्व-वेणीभिः पाद-मार्जनं कुर्वन्तीत्य् अर्थः ।

मम जीवित-वल्लभो नु । न्व् अत्र प्रश्ने । जीविताद् अपि वल्लभः । यस्य निमिषार्ध-विरहात् प्राणा न तिष्ठन्ति, स कोऽप्य् अनिरूप्य-रस-मय-वस्तु-विशेषः । आश्चर्यतम-रूप-कान्ति-माधुर्य-मनो-नयनाप्यायन-परमानन्द-साम्राज्य-चमत्कार-रूपत्वाद् इत्य् अर्थः । वसन्त-तिलकं छन्दः ॥६८॥

सुबोधिनी ॒ अथ वृन्दावनं प्रविश्य साक्षाच् छ्री-कृष्णं विलोक्य प्राग्वत् स्फूर्ति-शङ्कया स-वितर्कम् आह—नु किं मारः स्वयम् आगतः ? य आत्मानं स्फोरयित्वा मां मारयति, स एवागतः किम् इति वितर्कः । न, स निर्दयोऽतिकठिनः कथम् आगच्छेत् ? मधुर-द्युति-मण्डलं नु ? मूर्ततयैतद् अपि न । माधुर्यम् एव नु ? तद्-धर्म एव मूर्तिमान् इत्य् अर्थः । तस्य नेत्र-मात्र-विषयत्वात् तद् अपि न । मनो-नयनयोर् अमृतं तद्-आह्लादकं किम् अपि । स्वस्य तद्-अनन्य-विषयम् अवधाय निश्चिनोति—श्री-राधाया वेणीं मार्ष्टीति वेणी-मृजः प्रोष्यागतः कान्तः स एव नु ? अत एव मम जीवितस्य वल्लभोऽयं किशोरो मल्-लोचनाय मल्-लोचनम् आनन्दयितुम् उदयते ॥६८॥

सारङ्ग-रङ्गदा ॒ अथ श्री-वृन्दावनं प्रविष्टे तस्मिन् लीलाशुके श्री-कृष्णः—तासाम् आविरभूत् [भा.पु. १०.३२.२] इतिवत् तासां मध्य आविर्भूतस् तल्-लीला-विशिष्ट एव तस्याग्रेऽप्य् आविरभूत् । स च तं विलोक्य स्वयं जात-तत्-तद्-भ्रमोऽपि तस्याः श्री-राधाया अस्माकं तद्-दर्शन-भाग्यं नास्त्य् एवेति सखीभिः सह रुदत्या अकस्मात् तं किञ्चिद् दूरे विलोक्य भ्रम-बाहुल्येन प्रलपन्त्या वचोऽनुवदन्न् आह । प्रथमं दर्शनाद् एव विरह-विक्लवा कन्दर्प-भ्रान्त्या स-भयम् आह—यस् तावद् अदृश्य एव जगन् मारयति स मारः स्वयम् आगतः किं ? नु वितर्के । पुनर् माधुर्यम् अनुभूय साश्चर्यम् आह—स तावद् ईदृङ् मधुरो न भवति । तद् इदं मधुर-द्युतीनां मण्डलं नु किं ? पुनर् अत्याश्चर्यम् आह—न तद् एतत् । किं तु माधुर्यम् एव नु । तद्-धर्म एव परिणतः सन्न् आगतः किं ? पुनर् अवयवम् अनुभूय स-सम्भ्रमम् आह—वेणी-मृजो नु । वेणीं मार्ष्टि उन्मोचयतीति वेणी-मृजः प्रोष्यागतः कान्तः स एवायं किं ? पुनः सम्यग् अवलोक्य सानन्दम् आह—नु भोः सख्यो मम जीवित-वल्लभोऽयं बालो नव-किशोरो मम लोचनाय तद् आनन्दयितुम् अभ्युदयते । यूयं पश्यतेति शेषः ।

स्वान्तर्-दशायां तु—तद् अनुगत्यैव व्याख्येयम् । बाह्येऽपि स एवार्थः । निश्चयान्त-सन्देह-नामायम् अलङ्कारः ॥६८॥

—ओ)०(ओ—

(६९)

बालोऽयम् आलोल-विलोचनेन

वक्त्रेण चित्रीकृत-दिङ्-मुखेन ।

वेषेण घोषोचित-भूषणेन

मुग्धेन दुग्धे नयनोत्सवं नः ॥

कृष्ण-वल्लभा ॒ किं च, मदीय-नेत्रोत्सवं पूरयन् नायातीत्य् आह—बालोऽयम् इति । अयं बालः सुकुमारः । अयम् इत्य् अङ्गुल्या निर्दिशति । मुग्धेन मनोहरेण वक्त्रेण वेषेण नोऽस्माकं नयनोत्सवं दुग्धे । दुहितुर् उभय-पदी । प्रपूरयतीत्य् अर्थः । नोऽस्मान् नयनोत्सवं दुग्ध इति द्विकर्मकता वा । अन्यदोहस् तु पाणिनैव, अयं तु वक्त्रेण वेषेण चेति व्यतिरेकालङ्कारो ध्वनितः । कीदृशेन वक्त्रेण ? आलोल-विलोकितेन । आलोलं चञ्चलं विलोकितं दर्शनं यस्मिंस् तेन । कीदृशेन वेषेण ? घोषोचित-भूषणेण । घोष आभीर-निवासस् तद् उचितं भूषणं शिखि-पुच्छ-गुञ्जा-धातु-राग-पल्लवाद्य्-अलङ्कृतिर् यत्र तेन । पुनर् वक्त्रेण कीदृशेन वेषेण च—चित्रीकृत-दिङ्-मुखेन । चित्रीकृतं दिङ्-मुखं येन तेन च । चिकुराणां श्यामिम्ना, लोचनयोर् अरुणिम्ना, स्मित-सुधाया धवलिम्ना, कुण्डलयोः पीतिम्ना, अधरस्य शोणिम्ना, गुञ्जा-धातु-राग-पल्लवानां विचित्रिम्ना सर्वम् एव दिङ्-मुखं चित्री-कृतम् इति ।

केश-च्छवि-तिलक-च्छवि-नयन-च्छवि-सुस्मित-च्छविभिः ।

अधर-च्छवि-बहु-रत्नाञ्चित-काञ्चन-कुण्डल-च्छविभिः ॥

परम-सुचिक्वण-कृष्णादिक-वर्णादिभिर् दिशश् चित्राः ।

कुर्वद् अतिमोहनं श्री-मुखं स्मरत राधिका-बन्धोः ॥

इन्द्र-वज्रा छन्दः ॥६९॥

सुबोधिनी ॒ न केवलं ममैवाक्षि-गोचरोऽयं मत्-सङ्गिनाम् अपीत्य् आह—अयं बालो वक्त्रेण वेषेण च नोऽस्माकं नयनोत्सवं दुग्धे प्रपूरयति । कीदृशा वक्त्रेण ? आ सम्यक् सतृष्णे लोचने यत्र, प्रियेक्षणायेत्य् अर्थः । अत एव तद्-अर्थं चित्रम् इव कृतं दिशां मुखं येन । वेषेण कीदृशा ? घोषो व्रजस् तद्-योग्यानि बर्ह-गुञ्जादि-मयानि भूषणानि यत्र । अतो मनोहरेण ॥६९॥

सारङ्ग-रङ्गदा ॒ अथ तया ताभिश् च मिलितं तं साक्षाद् दृष्ट्वा जात-बाह्य-स्फूर्तिस् तन्-माधुर्याकृष्ट-सर्वेन्द्रियः साक्षान्-मन्मथ-मन्मथ-रूपस्य तस्य सर्वेन्द्रियानन्दनत्वं सप्तभिः श्लोकैर् वर्णयन् प्रथमं नयनानन्दत्वम् आह द्वाभ्याम् । अयं बालः किशोरो वक्त्रेण वेषेण च नोऽस्माकं नयनयोर् उत्सवं दुग्धे प्रपूरयति । वक्त्रेण कीदृशा ? स्वापराध-भयेन युगपत् सर्वासां दर्शनेन च । आ सम्यग् लोले विलोचने यत्र । तथा स्मिताधरादिकान्ति-धाराभिश् चित्रम् इव कृतं दिशां मुखं येन । वेषेण कीदृशा—घोषो व्रजस् तद्-योग्यानि बर्ह-गुञ्जादीनि भूषणानि यत्र । अतो मुग्धेन ॥६९॥

—ओ)०(ओ—

(७०)

आन्दोलिताग्र-भुजम् आकुल-लोल-नेत्रम्

आर्द्र-स्मितार्द्र-वदनाम्बुज-चन्द्र-बिम्बम् ।

शिञ्जान-भूषण-चितं शिखि-पिञ्छ-मौलिं

शीतं विलोचन-रसायनम् अभ्युपैति ॥

कृष्ण-वल्लभा ॒ अथ कयापि लीलया पुरः परिस्फुरच् छ्री-कृष्ण-स्वरूपम् अनुभूयमान आह—आन्दोलितेति । विलोचन-रसायनम्—विलोचनयो रसायनं रसास्वाद-पात्रम् । रस ईयत अनुभूयतेऽनेनेति रसायनम् । किम् अप्य् अभ्युपैति । अभि सर्वत उपेत्यायाति । कीदृशं—शीतं परम-शीतलं सर्वेन्द्रिय-गत-महा-सन्ताप-शमनम् ।

पुनः कीदृशं ? आर्द्र-स्मितार्द्र-वदनाम्बुज-चन्द्र-बिम्बम् । आर्द्रं स्निग्धं यत् स्मितं तेनार्द्रं सरसं वदनम् एवाम्बुजं कमलं चन्द्र-बिम्बं वा यत्र तत् । अत्र लताकारौ हस्तौ ज्ञातव्यौ । द्वयोर् एव साधर्म्याद् आर्द्राद्रेति पौनरुक्त्यं न दोषः । आर्द्रार्द्राम्बुज-चन्द्र-बिम्बादि-शब्दाः शीतम् इत्य् अस्य हेतवः । यद् वा, आर्द्रं सरसं स्मितं यासां ता राधाद्या गोप्यस् ताभिः कृत्वार्द्रं रस-भरेण बुडितं यद्-वदनं तद् एवाम्बुजं चरण-बिम्बं वा यत्र तत् ।

पुनः कीदृशं ? शिञ्जान-भूषण-चितम् । शिञ्जानैः स्वनं कुर्वद्भिर् भूषणैर् नूपुर-किङ्किणी-केयूरादिभिश् चितं व्याप्तम् ।

पुनः कीदृशं ? शिखि-पिञ्छ-मौलि । शिखि-पिच्छं मौलौ चूडा-रूप-संयत-विचित्र-कुसुम-शोभित-केश-कलापे यस्य तत् । शिखि-पिच्छ-युक्तो मौलिः किरीटं यत्र वा तत् । एतेन गोप-वेष-माधुर्यम् । वसन्त-तिलकं छन्दः ॥७०॥

सुबोधिनी ॒ ततोऽपि निकट-मायान्तम् आलोक्य सहर्षम् आह—विलोचनयो रसायनं सौन्दर्यामृत-पान-पात्रं संमुखम् आयाति । तद्-आगमनं विवृणोति—आन्दोलितौ भुजाग्रौ यस्य । अतः शब्दायमानैः कङ्कण-नूपुरादिभिश् चितम् । स्वस्मिन् कारुण्य-स्फूर्त्याह—करुणयाकुले नेत्रे यस्य । तत्राश्चर्यम् आह—स्निग्ध-स्मितेनार्द्रं यद् वदनं तद् एवाम्बुजं चन्द्र-बिम्बं च यत्र । अतः शीतम् । शीतत्वाद् अम्बुजत्वं, रसायनत्वाद् इन्दुत्वम् । सर्वत्र हेतुः—शिखि-पिच्छैर् मौलिर् यस्य ॥७०॥

सारङ्ग-रङ्गदा ॒ काचित् कराम्बुजं शौरेः [भा.पु. १०.३२.४] इत्य् आदिवत् मिलित्वा । नृत्यन्तम् इवागच्छन्तं तं विलोक्य नेत्रातितृप्त्या स-हर्षम् आह—इदं शीतं विलोचनयो रसायनम् अभ्य्पैत् पुरत आयाति । कीदृशं ? तासां स्पर्शोत्थ-कम्पात् सनृत्य-गत्या चान्दोलिताव् अग्र-भुजौ यस्य । करुणयाकुले पूर्ववल् लोले च नेत्रे यस्य । आर्द्र-स्मितेनार्द्रं वदनाम्बुज-चन्द्र-बिम्बं यस्य । तत्र तासां दर्शनानन्दोत्फुल्लत्वात् सुरभित्वाच् चाम्बुजत्वम् । शैत्य-माधुर्य-कान्त्यादिभिर् नेत्र-प्रीणनत्वाच् चन्द्रत्वम् । शिञ्जानानि यानि कङ्कण-नूपुरादि-भूषणानि तैश् चितम् । अनेन श्रोत्रानन्दनत्वं चोक्तम् । शिखि-पिञ्छैर् मौलिर् यस्य ॥७०॥

—ओ)०(ओ—

(७१)

पशुपाल-बाल-परिषद्-विभूषणः

शिशुर् एष शीतल-विलोल-लोचनः ।

मृदुल-स्मितार्द्र-वदनेन्दु-सम्पदा

मदयन्-मदीय-हृदयं विगाहते ॥

कृष्ण-वल्लभा ॒ सम्प्रति परम-भावम् अभ्यस्यन् श्री-कृष्ण-चन्द्रेण स्व-हृदयाक्रमणम् अभिलपन्तीत्य् आह—पशुपालेति । एषोऽपरोक्षया स्फुरन् शिशुः सुकुमारो मृदुल-स्मितार्द्र-वदनेन्दु-सम्पदा मृदुलं यत् स्मितं तेनार्द्रं सरसं यद् वदनं तद् एवेन्दुस् तस्य या सम्पल् लावण्य-माधुर्य-.सौकुमार्य-सौरभ्य-रूपा सम्पत्तिस् तया मदयन् हर्षयन् मदीय-हृदयं विगाहते विशेषेणाक्रमति, स्वायत्तीकरोतीत्य् अर्थः ।

कीदृशः ? पशुपाल-बाल-परिषद्-विभूषणः, पशुपाल-बालानां गोप-शिशूनां श्रीदाम-सुबालादीनां परिषदं सभां विभूषयतीति सः । यद् वा, पशुपालानां गोपानां बाला रमण्यो यस्यां सा चासौ परिषच् च तां विशेषेण भूषयति मण्डयतीति सः ।

पुनः कीदृशः ? शीतल-विलोल-लोचनः । शीतले परम-शान्ति-प्रदे विलोले चञ्चले विशिष्टे हाव-भाव-कटाक्ष-नाना-दृष्टि-युक्ते लोचने यस्य सः ॥ मञ्जु-भाषिणी छन्दः ॥७१॥

सुबोधिनी ॒ पूर्वोकं राधिकादि-साहित्यं व्यनक्ति—एष शिशुर् मदीयानां हृदयं मृदुल-स्मितार्द्र-वदनेन्दोः स्मितावलोकादि-सम्पत्त्या हर्षयन् विगाहने । व्याप्नोतीत्य् अर्थः । तत्-साहित्यम् आह—पशुपालानां बाला यस्यां सा पशुपाल-बाला, सा चासौ परिषच् चेति कर्मधारये पुंवद् भावः, सैव विभूषणं यस्य । अतः शीतले विलोले लोचने यस्य ॥७१॥

सारङ्ग-रङ्गदा ॒ अथ परितस् ता दृष्टा—चकास गोपी-परिषद्-वृतो विभुः [भा.पु. १०.३२.१४] इत्य् आदि-लीला-विशिष्टं तं विलोक्य स-हर्षम् आह—एष शिशुः किशोरः सर्वासाम् अपि विशेषतो मदीयानां स्व-सम्मुख-स्थ-श्री-राधा-ललितादीनां हृदयं, एतन् नो ब्रूहि [भा.पु. १०.३२.१६] इत्य् आदिना स्वान्तः-कोप-प्रश्न-श्रवणाद् यन् मृदु-स्मितं तेनार्द्रो यो वदनेन्दुस् तस्य, मासूयितुं मार्हथ [भा.पु. १०.३२.२१] इत्य् आदि-प्रेमोक्ति-कौमुदी-रूपा या सम्पत्तया मदयन्न् आनन्दयन् विगाहते, व्याप्नोतीत्य् अर्थः ।

तद् दृष्ट्वा मम हृदयं च कीदृक् ? पशुपाल-बालानां गोप-किशोरीणां परिषदं विभूषयतीति तथा । तत्-सभैव विभूषणं यस्येति वा । तया वेष्टितो बभाव् इत्य् अर्थः ।

अग्रे राधा-पयोधर [श्लोक ७६] इत्य् आदौ, धेनु-पाल-दयिता-स्तन-स्थलीं [श्लोक ७७] इत्य् आदौ तथा वर्णितत्त्वात् । प्रेम-वैवश्येन बाला-परिषद् इति वक्तव्ये बाल-परिषद् इत्य् उक्तिः । यद् वा, पशुपालानां बाला यस्यां सा पशुपाल-बाला, सा चासौ परिषच् चेति कर्म-धारये पुंवद् भावः । किं वा तद् बाल-गोष्ठीनां विभूषणवद् विभूषणं यस्य सः । तद् उक्तं—वेषेण घोषोचित-भूषणेन [श्लोक ६९] इति । सामान्य-वयस्य-वर्ग-वृत इत्य् अर्थस् तु प्रक्रमा-प्राप्तः ।

तथा, शीतले विलोले च लोचने यस्य ॥७१॥

—ओ)०(ओ—

(७२)

किम् इदम् अधर-वीथी-कॢप्त-वंशी-निनादं

किरति नयनयोर् नः काम् अपि प्रेम-धाराम् ।

तद् इदम् अमर-वीथी-दुर्लभं वल्लभं नस्

त्रिभुवन-कमनीयं दैवतं जीवितं च ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-चन्द्रस्य परम-प्रेमाविर्भावकत्वं परम-दुर्लभत्वं च वदन् स्वस्य परम-महा-प्रीति-भक्ति-विशेष-निष्ठोक्त्या दौर्लभ्याभावं सूचयति—किम् इदम् इति । किम् इदम् अत्याश्चर्यम् । यावत् सुख-विशेष-रूपं वस्तु ततोऽपि विलक्षणम् इदं, अनुभूयमानत्वात् । नोऽस्माकं नयनयोः काम् अप्य् अनिर्वचनीयां प्रेम-धारां प्रेम्णो धारां किरति वर्षति ।

कीदृशं ? अधर-वीथी-कॢप्त-वंशी-निनादम् । अधर-वीथ्यां विशेषोल्लास-रूपायां कॢप्तो रचितो वंशी-निनादो यत्र तत् । विनापि वंशीं तन्-नादम् अनुकुर्वन् वरिवर्तीति । यद् वा, अधर-वीथ्याम् अधर-पुटे कॢप्ता, न तु सम्यग् योजिता, दत्त-फूत्कारा वा, या वंशीन् सा निनादा नितरां नादवती यथा तत् ।

आ ज्ञातं नोऽस्माकं दैवतम् एकान्त-भक्ति-भावतः समाराध्यम् । न केवलं दैवतं, जीवितं च, जीवनवत् परम-प्रेमास्पदम् । यद् दैवतं तज् जीवितं न, यज् जीवितं तद् दैवतं न भवति । इदं तु द्वयम् एव । अतः—त्रिभुवनेषु कमनीयं मनोहरम् ।

पुनः कीदृशं ? अमर-वीथी-वल्लभम् । अमराणां देवानां वीथी पङ्क्तिस् तस्य वल्लभं प्रियम् । दुर्लभं च । तेषाम् अमृत-पानेन नामरत्वं, किं तु तद्-वल्लभतयेत्य् अर्थः । यद् वा, प्रसिद्धामृतं तुच्छीकृत्य भगवत्-कथामृत-पान-परत्वाद् अमरा जीवन्-मुक्ताः श्री-कृष्णैक-भक्ति-रस-निमग्नाः । तद्-वीथ्यां तत्-पङ्क्तौ वल्लभं प्रियम् ॥ मालिनी छन्दः ॥७२॥

सुबोधिनी ॒ अथ तद्-दर्शनानन्दावेशेन संशय्य पुनर् निश्चिनोति—किम् इदं यन् नो नयनयोः काम् अपि प्रेम-धारां किरति । आं ज्ञातं तद् एव—नो दैवतम् इदम् । नैव तावत् वल्लभं च । न केवलं वल्लभं जीवितं च । कथम् एतज् ज्ञानं ? अधर-वीथ्यां कॢप्तार्पिता या वंशी तस्या निनादो यत्र । अतः अमर-वीथ्यां स्वर्गाद्य्-अनन्त-वैकुण्ठ-वलये दुर्लभम् । अत एव त्रिभुवनानां कमनीयम् । तद् इदं मन्-नेत्र-गोचरम् अहो भाग्यम् इत्य् अर्थः ॥७२॥

सारङ्ग-रङ्गदा ॒ इति श्लोक-त्रय्या सामान्यत्वेन तं निर्वर्ण्य तन् मम जीवितम् एवैतद् इति वर्णयन् प्रथमं तासां, न पारयेऽहं [भा.पु. १०.३२.२२] इत्य् आदि-स्व-वाग्-अमृत-क्षालितेर्ष्या-लव-पङ्के स्वान्ते पुनर् विलास-लालसा-तरङ्गिणीम् उच्छलयितुं वंशी-नादामृतं वर्षति कृष्ण-घने, तत्र जात-प्रेमानन्दोद्रेकः । किम् इदं वस्त्व् इति संशय्य पुनर् निश्चिनोति—किम् इदं वस्तु यन् नोऽस्माकं नयनयोः काम् अपि प्रेम-धारां किरति ? क्षणं विमृश्य, आं विदितं तद् एव अस्माकं दैवतम् इदम् ।

पुनः स-शङ्कं किम् उत दैवतं वल्लभं च ? पुनः स-प्रणयं, किम् उत वल्लभं जीवितं च । कथं ज्ञातं ? तत्राह—अधर-वीथ्यां कॢप्ता चित्रवद् अर्पिता या वंशी तस्या निनादि यत्र । अतः, अमर-वीथ्यां देव-श्रेण्यां तस्या अपि वा दुर्लभम् । अतः, त्रिभुवन-कमनीयम् । तद् इदं मन्-नेत्र-गोचरम् इत्य् अहो भाग्यम् इति भावः ॥७२॥

—ओ)०(ओ—

(७३)

तद् इदम् उपनतं तमाल-नीलं

तरल-विलोचन-तारकाभिरामम् ।

मुदितम् उदित-वक्त्र-चन्द्र-बिम्बं

मुखरित-वेणु-विलासि जीवितं मे ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-स्वरूपं सन्तत-वर्धिष्णु-प्रेम्णा निरीक्ष्यमाणः क्षणम् अपि तिरोधानेनाकुलित-चित्तः पूर्व-श्लोकोक्तम् एव दृढीकरोतीत्य् आह—तद् इदम् इति । तद् इदं यन् महाभाववद्भ्यः श्रुतम् । इदम् इत्य् अपरोक्षतया । मे मम जीवितं जीवित-रूपम् उपनतं प्राप्तम् । अवगतं वा । मनाग् अप्रकाशे मरणम् एव स्याद् इति भावः ।

कथम् अवगतं ? तत्राह—तमाल-नीलं, तमाल-वृक्षवन् नीलः श्यामो वर्णो यस्य तत् । शृङ्गार-रस-रूपम् इत्य् अर्थः । न केवलं तथा—तरल-विलोचन-तारकाभिरामं तरल-विलोचन-युक्ते ये तारके कनीनिके ताभ्याम् अभितः सर्वतो-भावेन रमयति सुखयति इति तत् ।

पुनः कीदृशं ? मुदितम् उदित-वक्त्र-चन्द्र-बिम्बम् । मुदितम् उदितेत्य् अतिशयार्थे वीप्सा । यद् वा, मुदितं यथा स्यात् तथोदित उदयं प्राप्तो वक्त्र-चन्द्र-बिम्बो यस्य तत् ।

पुनः कीदृशं ? मुखरित-वेणु-विलासि । मुखरितो वादितो यो वेणुस् तेन विलासि विलास-युक्तम् । यद् वा, मुखरितो वेणुर् याभ्यो गोपीभ्यो निमित्त-भूताभस् ताभिः सह विलासि ।

पुष्पिताग्रा छन्दः—अयुजि न-युग-रेफतो य-कारो युजि तु न-जौ ज-र-गाश् च पुष्पिताग्रा ॥७३॥

सुबोधिनी ॒ पुनः स-निश्चयम् आह—तद् एव मम जीवितं समीपम् आगतम् । कथं ज्ञातं ? तमालवन् नीलम् । ततोऽपि कुतः ? प्रिया-दर्शनाय तरलाभ्यां विलोचनयोस् तारकाभ्याम् अभिरामम् । अत एवातिमुदितं वक्त्र-चन्द्र-बिम्बं यत्र । वादितो यो वेणुस् तेन विलसितं शीलं यस्य ॥७३॥

सारङ्ग-रङ्गदा ॒ रासोत्सवं सम्प्रवृत्तः [भा.पु. १०.३३.३] इत्य् आदिवत् पुनस् तद्-विलासारम्भिणं तं निश्चित्याह—तद् इदं मम जीवितम् उपनतं समीपम् आगतम् । कीदृशं ? विलासि रास-विलासारम्भि । मुखरितो वेणुर् येन । शब्दित-वेणोर् विलास-युक्तं वा । तमाल-नीलं कनक-वल्लीनां तासां मध्ये तमालवद् भ्राजमानम् । सर्व-गोपी-मण्डल-वक्त्र-दर्शनाय तरलाभ्यां विलोचनयोस् तारकाभ्याम् अभिरामम् । मुदितम् उदितम् अतिमुदितं वक्त्र-चन्द्र-बिम्बं यस्य । मुदितम् आनन्दितम् उदित-वक्त्र-चन्द्र-बिम्बम् इति वा ॥७३॥

—ओ)०(ओ—

(७४)

चापल्य-सीम चपलानुभवैक-सीम

चातुर्य-सीम चतुरानन-शिल्प-सीम ।

सौरभ्य-सीम सकलाद्भुत-केलि-सीम

सौभाग्य-सीम तद् इदं व्रज-भाग्य-सीम ॥

कृष्ण-वल्लभा ॒ सम्प्रति पुरः स्फूर्तिमत्-तद्-रूपम् अनुभवन्न् अभिनयन्न् एवाह—चापल्य-सीमेति । तद् इदं पुरो-वर्ति व्रज-भाग्य-सीम । व्रज-जनानां भाग्यस्यैव सीमा यस्मिंस् तत् ।

कीदृशं ? चापल्य-सीम । चापल्यं महा-दुर्लभ-पद-निमित्तम् उतंरलता-भावनाभिनिवेश-बलात् प्राप्स्यामीत्य् एवं-रूपं तस्य सीमा यत्र तत् ।

विचारेण चातुर्यं दूरीकुर्व् इति चेन्, न, आश्वास-प्राप्त्या तद् अतिवृद्धेर् इत्य् आह—चपलानुभवैक-सीम । चपलस्य ममानुभवानाम् एक-सीमा यत्र । स्वानुभवेनैव कथयामीत्य् अभिप्रायः ।

पुनः कीदृशं ? अनुभवाकारम् एवाह—चातुर्य-सीम । चातुर्यस्य सीमा यस्मिन् । तद्-अनुभवेनैव मम चातुर्यम् अपि स्फुरतीत्य् अर्थः ।

पुनः कीदृशं ? चतुरानन-शिल्प-सीम । चतुराननो ब्रह्मा तच्-छिल्पस्य रचनायाः सीमा यत्र । अतः परं तस्य कौशलं नास्तीत्य् अर्थः । तन्-मूर्तेर् विधातृ-सृज्यत्वाभावेऽपि लोक-दृष्टिर् इयम् उक्ता । यद् वा, चतुरा विचित्रानने शिल्पस्य तिलकादि-रचनायाः सीमा यत्र तत् । चतुरा प्रेमातिशय-गोष्ठी तस्या आनने यच् छिल्पं चित्रकवित्वादि-कौशलं तस्य सीमा यत्रेति वा ।

पुनः कीदृशं ? सौरभ्यस्य सौगन्ध्यस्य सीमा यत्र तत् । पुनः कीदृशं ? सकलाद्भुत-केलीनां सीमा यत्र तत् । कलाभिः सहिताः सकलाः, ताश् च ता अद्भुत-केलयश् चाश्चर्य-क्रीडास् तासां सीमा मर्यादा वा । पुनः कीदृशं ? सौभाग्य-सीम । सौभाग्यस्य सौन्दर्यस्य सीमा यत्र तत् । वसन्त-तिलकं छन्दः ॥७४॥

सुबोधिनी ॒ ततस् तस्य तत्-तच्-चापल्यादिकम् अनुभूय तत्-तद्-अवधित्वेन साश्चर्यम् आह— तद् इदं मम जीवितं चापल्यानां सीमावधिर् यत्र । तत् कुतः ? चपलानां चपलानां गोपाङ्ग्नानां यस् तत्-स्पर्शादि-सुखानुभवस् तस्यैका मुख्या सीमा यत्र । ताभिर् एव तद् अनुभवितुं शक्यम् इत्य् अर्थः । तद्-एक-वेद्यत्वम् अपि कुतः ? चातुर्यैक-सीम । तद् अपि कुतः ? विधेः शिल्पस्य सीमा यत्र । इदम् आलोक्य तस्य शिल्पित्वं गतम् इत्य् अर्थः । तत्-सौरभ्यं लब्ध्वा—सौरभ्य-सीम । तत्-केलि-परिपाटीर् दृष्ट्वाह—सकलाद्भुत-केलि-सीम । क्षणं विमृश्याह—व्रज-देवीनां सौभाग्य-सीम । ने केवलं तासां, व्रजस्यैव भाग्य-सीम ॥७४॥

सारङ्ग-रङ्गदा ॒ रासे तस्य तत्-तच्-चापल्यादिकम् अनुभूय साश्चर्यम् आह । प्रथमं नृत्य-गति-लाघवं दृष्ट्वाह—तद् इदं मम जीवितं चापल्य-सीम । तेषां सीमा यत्र तद्-अवधि-भूतम् इत्य् अर्थः । तादृश-गोपीभिश् चुम्बितालिङ्गितं तं विलोक्याह—सह-नृत्य-चुम्बनाद्य्-अर्थं चपलानाम् आसां यस् तत्-स्पर्शादि-सुखानुभवस् तस्यैका प्रधाना सीमा यत्र । तादृशीभिस् ताभिर् एवानुभवितुं शक्यम् इत्य् अर्थः । तत्-तच्-चातुर्यं दृष्टाह—चातुर्येति । सौन्दर्यं दृष्ट्वाह—चतुराननेति । चतुराननस्य विधेः शिल्पस्य सीमा यत्र । सौरभ्यं लब्ध्वाह—सौरभ्येति । तत्-केलि-सौष्ठवं दृष्ट्वाह—सकलेति । व्रज-देवीनां प्रेमावेशं सौन्दर्यादिकं च दृष्ट्वाह—सौभाग्येति । क्षणं विमृश्याह—ने केवलम् आसां, व्रजस्यापि भाग्य-सीमा यत्र ॥७४॥

—ओ)०(ओ—

(७५)

माधुर्येण द्वि-गुण-शिशिरं वक्त्र-चन्द्रं वहन्ती

वंशी-वीथी-विगलद्-अमृत-स्रोतसा सेचयन्ती ।

मद्-वाणीनां विहरण-पदं मत्त-सौभाग्य-भाजां

मत्-पुण्यानां परिणतिर् अहो नेत्रयोः संनिधत्ते ॥

कृष्ण-वल्लभा ॒ इदानीं भावना-परिपाकतः स्व-भाग्यम् अत्याश्चर्य-रूपम् आह—माधुर्येणेति । अहो विस्मये । मत्-पुण्यानां परिणतिः परिणामः, फलम् इति यावत् । नेत्रयोः संनिधत्ते संनिहिता भवति ।

ईदृक्-फलं शास्त्रेऽपि दुर्लभम् इत्य् आह—वंशी-वीथी-विगलद्-अमृत-स्रोतसा मद्-वाणीनां विहरण-पदं सेचयन्ती । वंशी-वीथ्याः सकाशाद् विगलतोऽमृतस्य स्रोतसा प्रवाहेण मम वाणीनां वाचां विहरण-पदं क्रीडा-स्थानं सेचयन्ती । यथा यथा तद्-अनुभव-विशेषो भवति, तथा तथा तद् वर्णयन्ती वाग्र-समग्रा भवतीत्य् अर्थः ।

कीदृशीनां वाणीनां ? मत्त-सौभाग्य-भाजाम् । तद्-रसेन मत्तं यत् सौभाग्यं तद् भजन्तीति तास् तासाम् । मत्ताश् च ताः सौभाग्य-भाजश् चेति वा । सर्वस्यैवात्यन्त-चित्त-हारिणीनाम् इत्य् अर्थः ।

पुनः कीदृशी परिणतिः ? माधुर्येण मधुरिम्णा द्वि-गुणं शिशिरं यत्र । वाणीनां नेत्रयोश् च माधुर्येण द्विगुणं शिशिरम् इति वा । तादृशं वक्त्र-चन्द्रं वहन्ती धारयन्ती ॥

मन्दाक्रान्ता छन्दः—मन्दाक्रान्ताम्बुधि-र-स-न-गैर् मा भ-नौ गौ य-युग्मं [छ.मं. २] ॥७५॥

सुबोधिनी ॒ ततोऽपि निकटम् आयान्तम् आलोक्य स-हर्षम् आह—मत्-पुण्यानां परिपाकोऽयं मन्-नेत्रयोः संनिधिम् आयाति । अहो आश्चर्यं—वक्त्र-चन्द्रं वहन्ती । कीदृशं ? स्वभाव-शीतलम् अपि माधुर्येण द्विगुण-शीतलम् । तत्र हेतुः—वंश्या मार्गेण विशेषतो गलद्-अमृत-स्रोतसा जगत् सेचयन्ती । कति दूरे—मद्-वचनानां गोचर इत्य् अर्थः । मत्ता अनवस्थिता अपि यास् तद्-विषयतया सौभाग्यं भजन्ति तासाम् ॥७५॥

सारङ्ग-रङ्गदा ॒ तादृशस् तस्य साक्षाद्-दर्शनानन्देन स्व-सौभाग्यातिशयं मत्वा साश्चर्यम् आह—अहो आश्चर्यं मत्-पुण्यानां परिणतिः परिपाकोऽयं मन्-नेत्रयोः संनिधत्ते साक्षाद् बभूव । अहो मम भाग्यम् इति भावः । कीदृशी ? वक्त्र-चन्द्रं वहन्ती । कीदृशं तं ? स्वभाव-शीतलम् अपि माधुर्येण द्वि-गुण-शिशिरम् । तथा वंशी-वीथीभिस् तन्-मार्गैर् विशेषेण गलन्ति यान्य् अमृत-स्रोतांसि तत्-प्रवाहास् तैर् व्रज-देवीभिर् मां जगच् च सेचयन्ती । तथा, मद्-वाणीनां विहरण-पदं विहार-स्थानम् । कीदृशं ? मत्ताः प्रेमोन्मत्ताश् च तत्-सौन्दर्यादि-वर्णनात् सौभाग्य-भाजश् च यास् तासाम् । तद् वक्ष्यते च—समुज्जृम्भा गुम्फा [श्लोक १०१] इत्य् आदौ ॥७५॥

—ओ)०(ओ—

(७६)

तेजसेऽस्तु नमो धेनु-पालिने लोक-पालिने ।

राधा-पयोधरोतसङ्ग-शायिने शेष-शायिने ॥

कृष्ण-वल्लभा ॒ अथ श्री-राधा-रस-मग्नस्य श्री-कृष्णस्य सर्वतः परमोत्कर्षं वर्णयन् परम-भावेन नमस्करोति—तेजस इति । तेजसे तेजो-रूपाय नमोऽस्तु । तं विनास्माकं सर्वेषां विश्वस्यान्धकार-मयत्वात् । तर्हि किं ब्रह्मज्योतिर् निराकारं ? न, लोक-पालिने लोकानां पालकाय । पुनः कीदृशाय ? धेनु-पालिने । गोपालायेत्य् अर्थः । लोक-पालो भूत्वा धेनु-पाल इत्य् अहो तव वैदग्ध्यं ! पुनः कीदृशाय ? राधा-पयोधरोत्सङ्ग-शायिने । राधायाः पयोधरयोर् उत्सङ्गे च शयितुं शीलम् अस्येति तस्मै । पुनः कीदृशाय ? शेष-शायिने । शेषः श्री-बलभद्रस् तद्-उत्सङ्गे शयितुं शीलम् अस्य तस्मै । तम् उत्सङ्गे शाययितुं शीलम् अस्येति वा ॥ अनुष्ठुप् छन्दः ॥७६॥

सुबोधिनी ॒ अथ तदानन्दावेशेन स-नर्म नमस्करोति द्वाभ्यां—कस्मैचित् तेजसे तत्-पुञ्जाय नमोऽस्तु । कीदृशे ? अहो आश्चर्यम् । राधायाः पयोधरयोर् मध्ये शयितुं शीलं यस्य । न केवलं तस्या अपि त्व् अशेषाणां तत्-सखीनाम् अप्य् अङ्क-शायिने । तद्-योग्यताम् आपादयन्न् आह—एकेनानन्त-गोपाल-रूपाय । अतस् तल्-लीला-प्रवर्तनाल् लोक-पालिने ॥७६॥

सारङ्ग-रङ्गदा ॒ अथ नृत्य-गति-लाघवेनैकेन वपुषैवाशेष-गोपीनां हृदयात् क्षणम् अप्य् अनपगतम् अविभाव्य-कान्ति-प्रवाहोच्छलितं तं विलोक्य निर्वक्तुम् असमर्थः साश्चर्यं केवलं नमस्करोति द्वाभ्यां—अस्मै कस्मैचित् तेजसे तत्-पुञ्ज-रूपाय नमोऽस्तु । कीदृशे ? राधा-पयोधरोत्सङ्गे शयितुं निरन्तरं तन्-निकटे स्थातुं शीलं यस्य तस्मै । तस्मात् क्षणम् अप्य् अनपगतायेत्य् अर्थः । पुनः परितो वीक्ष्य साश्चर्यम् आह—तादृशायाप्य् अशेषेषु समस्त-गोपी-स्तनोत्सङ्गेषु शायिने तत्-तन्-निकट-स्थिताय ।

नन्व् एकस्य कथम् एतत् सम्भवेद् इति विमृशन् ब्रह्म-मोहन-लीला-स्फूर्त्यास्य नैतद् आश्चर्यम् इत्य् आह—एकं स-पाणि-कवलं [भा.पु. १०.१३.६१] इत्य् आदि-दिशा धेनु-पालिने । एकेन सर्व्रूपेणैवानन्त-गोपाल-रूपायापि । लोक-पालिने लोका अनन्त-ब्रह्माण्डानि तत्-तद्-उपास्य-तत्-तच्-चतुर्-भुज-रूपेण तत्-तत्-पालिने । किं वा, अ-कारो विष्णुः, अस्य विष्णोर् लोका वैकुण्ठ-लोकास् तत्-पालिने ॥७६॥

—ओ)०(ओ—

(७७)

धेनु-पाल-दयिता-स्तन-स्थली-

धन्य-कुङ्कुम-सनाथ-कान्तये ।

वेणु-गीत-गति-मूल-वेधसे

ब्रह्म-राशि-महसे नमो नमः ॥

कृष्ण-वल्लभा ॒ वल्लवी-सौभाग्योत्कर्षं वर्णयन् हर्षेण भूयो भूयो नमस्कुर्वन्न् आह—धेनु-पालेति । ब्रह्म-राशि-महसे ब्रह्म-राशि-रूपं महस् तेजो यस्य । यद् वा, ब्रह्म-सुख-राशीनां मह उत्सवो यस्मात्, भक्तानाम् इति शेषः । तस्मै गोपाल-रूपिणे श्री-कृष्णाय नमो नम इत्य् आदरे वीप्सा ।

गोपाल-रूपत्वं विशेषयन्न् आह—कीदृशाय ? धेनु-पाल-दयिता-स्तन-स्थली-धन्य-कुङ्कुम-सनाथ-कान्तये । धेनु-पाला गोपास् तेषां दयिता गोप्यः । यद् वा, धेनुपाल्यश् च धेनु-पालाश् च धेनु-पाला इत्य् एक-शेषः । तेषां दयिता परम-प्रेमास्पदी-भूता श्री-राधा, तस्याः स्थन-स्थल्य्-अकृत्रिमा भूमिः सहज-सौभाग्यवती, तत्र वर्तमानं यद् धन्यं कुङ्कुमं तेन सनाथा सैश्वर्या कान्तिर् यस्य । राधा-स्तन-विषये सनाथा सोपतापा कान्तिर् इच्छा यस्येति वा तस्मै ।

पुनः कीदृशाय ? वेणु-गीत-गति-मूल-वेधसे, वेणुना गीतं वेणु-गीतं तस्य गतयो गमकादि-प्रकारास् तासां मूल-वेधस आदि-वेधसे । यावन्त ईशम् आरभ्य वेणु-गीत-गति-स्रष्टारस् तेषाम् अपि मूल-वेधसे । वेणु-गीत-क्रमास् तत एव जाता इत्य् अर्थः । महाकर्षण-मोहनादि-शक्ति-मद्-वेणु-गीतायेत्य् अर्थः ।

उद्धतः छन्दः—रात् परैर् नरलगै रथोद्धता [छन्दो-मञ्जरी २] ॥७७॥

सुबोधिनी ॒ ततोऽप्य् आनन्देनाभिनयन्न् आह—तेजो-रूपाणां ब्रह्मणां व्यापकानां यो राशिः समूहस् ततोऽपि महः कान्तिर् यस्य तस्मै नमो नमः । अतस् तत्-तत्-समाधान-दुर्घट-शङ्कापि न । तद् एव व्यनक्ति—धेनु-पाल-दयितानां स्तन-तटी-सम्बन्धेन धन्यं यत् कुङ्कुमं तेन सनाथा शबला कान्तिर् यस्य । तथा, वेणु-गीतस्य या गतयः स्वर-ग्राम-मूर्च्छनादिकास् तासाम् आदि-स्रष्ट्रे । ब्रह्मादि-सृष्ट्य्-अतीत-गान-प्रवीणायेत्य् अर्थः ॥७७॥

सारङ्ग-रङ्गदा ॒ अथ तत्-कुच-कुङ्कुम-मनोज्ञ-कान्तिम् अपूर्वं वेणुं वादयन्तं तं विलोक्य स-विस्मयम् आह—अस्मै नमो नमः । आदरे वीप्सा । कीदृशे ? तासां स्तन-सम्बन्धित्वाद् धन्यं यत् कुङ्कुमं तेन सनाथा शबलात्युत्फुल्ला कान्तिर् यस्य । सहज-कुङ्कुम-गन्ध-वर्णानां तासां कुच-स्थत्वात् सौरभ्य-कान्त्य्-अतिशय-प्राप्त्या तस्य धन्यत्वम् । विरहे म्लानायाः कान्तेश् च तद्-आलिङ्गनादि-प्राप्त्य्-आनन्दोत्फुल्लत्वात् ।

तथा विधातृ-सृष्ट्य्-अतिरिक्तानां वेणु-गीत-गतीनां मूल-वेधसे प्रथम-स्रष्ट्रे । तद् उक्तं—सवनश [भा.पु. १०.३५.१५] इत्य् आदौ, कशम्लं ययुः इति । कथम् अस्य तत्-स्रष्टृत्वम् इति विमृशन् पूर्ववत् तल्-लीलानुस्मरणान् नैतच् चित्रम् इत्य् आह—ब्रह्म-राशीनां तत्-तच्-चतुर्भुज-स्तावक-विधि-समूहानां महः प्रकाशो यस्मात् विधातृ-विधातुः कियद् इदम् इति भावः । यस्य प्रभा इत्य् आदि, तद् ब्रह्म इत्य्-अन्त-ब्रह्म-संहितोक्तानुसारेण, परात्परं ब्रह्म च ते विभूतयः [यमुनाचार्य-स्तोत्र] इति श्री-रामानुजीय-संहितानुसारेण च निर्गुण-ब्रह्म-पुञ्जं महः कण्ति-पूरो यस्येति केचिद् व्याख्यान्ति । तथैव श्री-गीतासु—ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इति । प्रतिष्ठाश्रय इति ॥७७॥

—ओ)०(ओ—

(७८)

मृदु-क्वणन्-नूपुर-मन्थरेण

बालेन पादाम्बुज-पल्लवेन ।

अनुस्मरन्-मञ्जुल-वेणु-गीतम्

आयाति मे जीवितम् आत्त-केलि ॥

कृष्ण-वल्लभा ॒ अथ कविर् भावना-परिपाकतः साक्षाद् इव स्फुरत्-पुरो विलासवतः श्री-कृष्णस्यागमनं वर्णयति—मृदु-क्वणन्न् इति । मे जीवितम् आयाति । कीदृशं जीवितं—बालेन कोमलेन पदाम्बुज-पल्लवेन मृदु यथा स्यात् तथा क्वणता नूपुरेण मन्थरं यत् तेन च, आत्त-केलि । आत्ता गृहीता केलिर् येन तत् । एतेन नाना-गत-रूपं नृत्यं ध्वन्यन्ते ।

किं कुर्वन् ? मञ्जुल-वेणु-गीतम् अनुस्मरत् । मञ्जुलं मनोहरं यद् वेणु-गीतं तद् अनुस्मरत् । शनैर् गच्छता नूपुरेण तथा क्वणितं यथा वेणु-ध्वनिः स्मर्यत इति । यद् वा, अनुक्षणं स्मरत्-स्मरवद् आचरन् मञ्जुलं वेणु-गीतं यस्येत्य् एक-पदं वा । उपेन्द्र-वज्रा छन्दः ॥७८॥

सुबोधिनी ॒ पुनस् तद्-आगमनं वर्णयति चतुर्भिः—मम जीवितं पादाम्बुज-पल्लवेनायाति । अम्बुज-पल्लवतोऽप्य् अतिकोमलेनेत्य् आत्मन्य् अतिकारुण्यम् उक्तम् । कीदृशेन ? बालेन क्रीडा-विशिष्टेन । क्रीडावेशं व्यनक्ति—मृदु-क्वणन्-नूपुरं च तद्-विलासावेशेन मन्थरं च यत् तेन । तत्र हेतुः—मञ्जुल-वेणौ-गीतम् अनुस्मरत् । प्रिया-विलासं स्मारं स्मारं वादयद् इत्य् अर्थः । अतस् तत्र प्रकटी-कृतः केलिर् येन । तत्-तत्-कलि-सूचकतया वादयद् इत्य् अर्थः ॥७८॥

सारङ्ग-रङ्गदा ॒ अथ दूराद् आत्तत्-केलिं दर्शयित्वा वेणु-नाद-पूर्वकं स्व-समीपम् आगच्छन्तं तम् आलोक्य समाधि-विघ्नाय [श्लोक ३४] इत्य् आदि, विजयतां मम वाङ्-मय-जीवितं [श्लोक ८] इत्य् आदि साफल्यात् सहर्षं तद्-आगमनं वर्णयति चतुर्भिः—इदं मे जीवितम् आत्त-केलि यथा स्यात् तथायाति । कीदृशं—मञ्जुल-वेणु-गीतम् अनुस्मरत् । नव-नव-वेणु-गीतं स्मारं स्मारं सृजद् इत्य् अर्थः । पाद-कौमल्यात् स-स्नेह-स-खेदम् आह—अहो बत पादाम्बुज-पल्लवेनायाति । कीदृशा ? बालेन कोमलेन । तथा, मृदु-क्वणन्-नूपुरं, तच् च गीत-स्मरण-प्रचितत्वान् मन्थरं च यत् तेन ॥७८॥

—ओ)०(ओ—

(७९)

सोऽयं विलास-मुरली-निनदामृतेन

सिञ्चन्न् उदञ्चितम् इदं मम कर्ण-युग्मम् ।

आयाति मे नयन-बन्धुर् अनन्य-बन्धोर्

आनन्द-कन्दलित-केलि-कटाक्ष-लक्ष्मीः ॥७९॥

कृष्ण-वल्लभा ॒ पुनर् अपि तद्-आगमनं वर्णयन् कम् अपि विशेषम् आह—सोऽयम् इति । सोऽयं य एतावत् कालं परोक्ष-रूप आसीत् स इदानीम् अयं साक्षात् । अनन्य-बन्धोः, न विद्यतेऽन्यः श्री-कृष्णादिना बन्धुर् यस्य तस्य । मे मम नयन-बन्धुर् नेत्र-सन्ताप-हारी, नयने बध्नाति स्व-प्रवणे करोतीति वा । आयाति, मां सुखयितुम् इति शेषः । अहो मद्-भाग्य-परम्परा । कीदृशः ? आनन्द-कन्दलित-केलि-कटाक्ष-लक्ष्मीः, आनन्देन कन्दलिताः स-प्ररोहा ये कटाक्षा गतागत-विश्रान्ति-विचित्र-वर्तनापूर्वक-नयन-विलासस् तेषां लक्ष्मीः शोभा यत्र सः । न केवलं रूप-लीलायाश् चाक्षुषापरोक्षवद् भानम् । अपि तु शब्दस्यापि श्रवन-प्रत्यक्ष-प्रायताम् आह । किं कुर्वन्न् आयाति ? विलास-मुरली-निनदामृतेन विलास-निमित्त-भूता विलास-युक्ता वा या मुरली तस्या निनादः स एवामृतं तेनोदञ्चितम् उत्सुकं श्रवणाभिनिवेशेनोन्नमितं वा । गोलकेन्द्रिययोर् अभेदारोपाद् एवम् उक्तः । इदं मदीयं मद-कर्ण-युग्मं माद्यत्-कर्ण-युगलं सिञ्चन्न् आयाति । वसन्त-तिलकं छन्दः ॥७९॥

सुबोधिनी ॒ पुनः पूर्वोक्तं वेणु-नादं विवृण्वन्न् आह—सोऽयं मे नयन-बन्धुर् आयाति । तत्र हेतुः—नास्त्य् अन्यो बन्धुर् यस्य मम । स्वस्मिंस् तत्-कारुण्यम् आह—उदञ्चितं तच्-छ्रवणोत्सुकम् इदं मम कर्ण-युग्मं विलास-मुरली-रवामृतेन सिञ्चन् । यतो विलास-स्मरणानन्देन्कुरिता केलि-कटाक्ष-लक्ष्मीर् यत्र ॥७९॥

सारङ्ग-रङ्गदा ॒ आभ्यां विलोचनाभ्यां [श्लोक ४३] इत्य् आदि पूर्व-कृत-तद्-दर्शनोत्कण्ठा-साफल्यात् पुनः सहर्षम् आह—सोऽयं मे नयन-बन्धुर् आयाति । कीदृशो मे ? अनन्य-बन्धोः । नास्त्य् अन्यो बन्धुर् यस्य । कीदृग् अयम्—आनन्देन कन्दलितः प्रफुल्लितो यः केलि-कटाक्षस् तस्य लक्ष्मीः शोभा यस्मिन् । तथा, मम कर्ण-युग्मं विलास-मुरली-निनदामृतेन सिञ्चन् । कीदृशं तत् ? उदञ्चितं तच् छ्रोतुम् उन्मुखम् ॥७९॥

—ओ)०(ओ—

(८०)

दूराद् विलोकयति वारण-केलि -गामी

धारा -कटाक्ष-भरितेन विलोकितेन ।

आराद् उपैति हृदयङ्गम-वेणु-नाद-

वेणी-मुखेन दशनांशु-भरेण देवः ॥

कृष्ण-वल्लभा ॒ सम्प्रति स्वं दूराद् विलोकयन्तं श्री-कृष्णं साक्षान् निरीक्षमाण आह—दूराद् इति । दीव्यति क्रीडति द्योतते वा देवः श्री-कृष्णो दूराद् विलोकितेन विशिष्ट-दृष्ट्या विलोकयति । माम् इति शेषः । कीदृशेन विलोकितेन ? राधा-कटाक्ष-भरितेन । राधायाः कटाक्षैर् भरितेन पोषितेन । एतेन युगपद् द्वयोर् मदालोकनं, अहो मद्-भाग्य-महिमेति भावः । धारेति पाठे—धारा-रूपा ये कटाक्षास् तैर् भरितेन पूर्णेन ।

कीदृशो देवः ? वारण-केलि-गामी । वारणवत् केलि-पूर्वकं गामी गमनम् अस्यास्ति, मन्थर-गतिर् इत्य् अर्थः । क्षणान्तरे निकटम् आगच्छन्तम् आलक्ष्याह—हृदयङ्गमो मनोहरो यो वेणु-नादस् तस्य वेणी प्रवाहस् तद्-युक्त-मुखेन विशिष्टः । विशेषेण तृतीया [कातन्त्र २.४.३२] आरान् निकटम् उपैत्य् उपसर्पति ।

कीदृशेन ? दशनांशूनां भरो यस्मिन् मुखे तेन । एतेन स्मितं व्यञ्जितम् । यद् वा, दशनांशु-भरेण मुखेन विशिष्टः ।

स कीदृशः ? हृदयङ्गम-वेणु-नाद-वेणी । हृदयङ्गमं वेणु-नादं वेणयितुं वादयितुं शीलं यस्य सः । वेणृ गति-ज्ञान-चिन्ता-निशामन-वादित्र-ग्रहणेषु ॥ वसन्त-तिलकं छन्दः ॥८०॥

सुबोधिनी ॒ तत्-कारुण्यम् एव व्यनक्ति—देवः प्रवाह-रूपा ये कृपा-कटाक्षास् तैः पूर्णेन विलोकितेन दूराद् एव विलोकयति, माम् इति शेषः । न केवलं पश्यति, आरान् निकटेऽप्य् उपैति । कीदृक् ? वारण-केलि-गामी । तत्रात्माभीष्ट-सिद्धिं सूचयन्न् आह—हृदयङ्गमा ये वेणोर् नादास् तैर् युक्तं यद् वेणी-मुखं मिलद्-विविध-कान्ति-धाराञ्चित-मुखं तेनोपलक्षितः । वेणीत्वं कथं ? सहज-स्मितेन प्रसृमरा ये दशनांशवस् तेषां भरो यस्मिन् । तत्र दन्त-कटाक्षाधरांशु-धारा गङ्गा-यमुना-सरस्वत्यो ज्ञेयाः ॥८०॥

सारङ्ग-रङ्गदा ॒ अथ आलोकयेद् अद्भुत-विभ्रमाभ्यां [श्लोक ४५] इत्य् आदि-स्वोत्कण्ठा-साफल्यात् सानन्दम् आह—सोऽयं देवो दूराद् एव विलोकितेन विलोकयति । माम् इति शेषः । राधा वा । कीदृशा ? धारा प्रवाह-रूपा ये कटाक्षास् तैर् भरितेन पूर्णेन । स कीदृक् ? वारणवत् केलि-गामी । तथा, आरान् निकट उपैति । कीदृक् ? हृदयङ्गमा ये वेणोर् नादास् तेषां या वेणी परम्परा तद्-युक्तं यन् मुखं तेनोपलक्षितः । कीदृशा ? सहज-स्मितेन प्रसृमरा ये दशनांशवस् तेषां भरो यस्मिंस् तेन । यद् वा, दशनांशु-भरेणोपलक्षितः । कीदृशा ? तादृश-वेणु-नाद-कल्लोल-युक्त-वेणी-कृतं तन्-मुखं येन । तत्र दन्त-कटाक्षाधर-कान्ति-धारा गङ्गा-यमुना-सरस्वत्यो ज्ञेयाः ॥८०॥

—ओ)०(ओ—

(८१)

त्रि-भुवन-सरसाभ्यां दिव्य-लीलाकुलाभ्यां

दिशि दिशि तरलाभ्यां दृप्त-भूषादराभ्याम् ।

अशरण-शरणाभ्याम् अद्भुताभ्यां पदाभ्याम्

अयम् अयम् अनुकूजद्-वेणुर् आयाति देवः ॥

कृष्ण-वल्लभा ॒ अथ पुनश् चक्षुर् गोचरम् इव निकटम् आयान्तं श्री-कृष्णं विचित्र-लीलावेषादि-विशिष्टम् अनुभवन्न् आह—त्रिभुवन-सरसाभ्याम् इति । देवोऽसाधारण-द्युति-क्रीडा-विशेष-युक्तः श्री-कृष्णः । अयम् अयं सम्भ्रमाद् द्विर्-उक्तिः ।

कीदृशः ? अनुकूजन् वेणुर् यस्य सः । वेणुं वादयन्न् एवायातीत्य् अर्थः । काभ्याम् आयाति ? अद्भुताभ्यां पदाभ्याम् । न तु यानादिना । अहो मद्-भाग्य-महिमा स्व-चरण-कमले दर्शयन्न् आयातीत्य् अर्थः । पदाभ्यां विशिष्ट इति वा ।

कीदृशाभ्यां ? त्रि-भुवनेषु सरसाभ्याम् । रसः परमानन्दस् तद्वद्भ्याम् । त्रिभुवनम् इत्य् उपलक्षणम् । अतः परं त्रिभुवने सरसता नास्तीत्य् अर्थः । मधुर-रस-चमत्काराणां तत्रैव परमातिशयत्वात् । यद् वा, त्रिभुवनं सरसं सानुरागं ययोः । पुनः कीदृशाभ्यां ? दिव्य-लीलाकुलाभ्याम् । दिव्यानां गति-लीलानां कुलं समूह ययोः । यद् वा, दिव्य-लीला यासां ता गोप्यस् ताभिर् निमित्त-भूताभिर् आकुलाभ्याम् । अत एव—दिशि दिशि तरलाभ्याम् । ता यस्यां दिशि गच्छन्ति तासाम् आनयनार्थं चञ्चलाभ्याम् इत्य् अर्थः ।

पुनः कीदृशाभ्यां ? दृप्त-भूषादराभ्याम् । दृप्तोद्रिक्त-नाद-दीप्त-विषया या भूषा पादाङ्गद-नूपुरादि-रूपा तयादरो ययोः । तच्-चलने तेषां सोल्लास-नाद-परत्वात् । धराभ्याम् इति पाठे—दृप्ताया भूषाया अलङ्कृतेर् धराभ्यां पोषकाभ्याम् । दृप्त-भूषाधराधो ययोर् इति वा । ध्वज-वज्रादि-चिह्नवत् तया ।

पुनः कीदृशाभ्यां ? अशरणानाम् अस्माकं शरणाभ्याम् । येषाम् अन्यच् छरणं नास्ति, स्वाभीष्टस्यान्यतोऽसिद्धेः, तेषां रक्षितृभ्याम् इत्य् अर्थः । शरणं गृह-रक्षित्रोः इत्य् अमरः । मालिनी छन्दः ॥८१॥

सुबोधिनी ॒ पुनश् चरण-दृष्ट्य्-आगमनम् एव विशिनष्टि—अयम् अयं देवः पद्भ्याम् एवायाति । वीप्सा प्रत्यक्ष-बोधिका । कथं सोऽभिज्ञातः ? अनुकूजद्-वेणुः । कीदृग्भ्यां ? अद्भुताभ्याम् । तद् एव व्यनक्ति—त्रि-भुवनं सरसं शृङ्गार-रस-सङ्कुलं याभ्याम् । तद् अपि कुतः ? दिव्या या लीलास् ताभिर् आकुलाभ्याम् । अत एव—दिशि दिशि तरलाभ्याम् । तेन दृप्ताः शब्दिता या नूपुरादि-भूषास् ताभिर् आदरो ययोः । अतः त्यक्त-गृहाणाम् आश्रयाभ्याम् ॥८१॥

सारङ्ग-रङ्गदा ॒ किम् अपि वहतु चेतः कृष्ण-पादाम्बुजाभ्यां [श्लोक १२] इत्य्-आद्य्-उत्कण्ठासाफल्यात् सोल्लासम् आह—अयम् अयं देवः पद्भ्याम् आयाति । कीदृशाभ्यां ? अद्भुताभ्याम् । तद् एव व्यनक्ति—त्रि-भुवनं सरसम् आनन्दितं शृङ्गार-रस-सङ्कुलं वा याभ्यां ताभ्याम् । दिव्या या लीला मत्तभ-गति-निन्दि-विलासास् तैर् आकुलाभ्यां तत्-प्रचुराभ्याम् । तथा नृत्य-गत्या—दिशि दिशि तरलाभ्याम् । दृशि दृशि सरसाभ्याम् इति पाठे—दर्शने दर्शने नूतनाभ्याम् । दीप्ता प्रोज्ज्वलिता या नूपुरादि-भूषास् तासाम् आदरो ययोः । अशरणानां त्यक्त-गृहाणाम् आसां गोपीनां शरणाभ्याम् आश्रयाभ्याम् । अयं कीदृक्—अनुकूजद्-वेणुः । नूपुर-ध्वनि-पाद-तालं चानु तद्-अनुसारेण कूजन् वेणुर् यस्य । अनु निरन्तरं वा ॥८१॥

—ओ)०(ओ—

(८२)

सोऽयं मुनीन्द्र-जन-मानस-ताप-हारी

सोऽयं मद-व्रज-वधू-वसनापहारी ।

सोऽयं तृतीय-भुवनेश्वर-दर्प-हारी

सोऽयं मदीय-हृदयाम्बुरुहापहारी ॥

कृष्ण-वल्लभा ॒ सम्प्रति पुरः स्फुरच्-छ्री-कृष्ण-स्वरूपम् अवलोकयन्न् आह—सोऽयम् इति । स यादृशो महद्भिर् उपवर्णितः श्रुति-युक्ति-निर्धारितश् चिरं च भावितस् तादृश एवायम् । मदीय-हृदयाम्बुरुहापहारी—ममेदं मदीयं, मदीय-हृदयम् एवाम्बुरुहम् । श्री-कृष्ण-प्रेम-मकरन्द-सम्भृतत्वात् । तस्यापहारी । सर्वात्मना मद्-बुद्धेः स्वैक-मग्नताकारीत्य् अर्थः ।

किं च, यः परम-निज-रस-मय-पदवी-विश्रान्ति-पर्यन्त-विचार-प्रदः स एवायम् । मुनीन्द्र-जन-मानस-ताप-हारी । मुनीनां सर्वेषां च इन्द्राः परम-पदवीयाः, स्वरूपस्य र्षिम् अनन्तत्वात् । त एव जना निज-जनास् तेषां -मानस-तापम् अनिश्चयजं हरतीति सः ।

किं च, मद-व्रज-वधू-वसनापहारी । मदानां श्री-कृष्ण-रस-मत्तानां व्रज-वधूनां यो वसनस्यापहर्ता सोऽयम् ।

तृतीय-भुवनेश्वर-दर्प-हारी । तृतीय-भुवनेश्वर इन्द्रस् तस्य दर्पं गोवर्धनोद्धरणेन हृतवान् स एवायम् । अयं भावः—मुनीन्द्राणाम् अन्तर् अनुभवेनाज्ञान-नाशकत्व-मात्रं, न त्व् अनुभव-विशेषः । व्रज-वधूनां वसनापहरणेन सम्भोग-सुख-मात्रम् । इन्द्र-दर्प-हरणेन व्रजस्य पालन-मात्रम् । मम तु सर्वतः परमं सर्वं कृतं, तेन महन् मम भाग्यम् इति । अथ वा, मुनीन्द्राणां मानस-तापम् एव हरति, गोपीनां वसनम् एव, इन्द्रादीनां दर्पम् एव, न तु मनो हृतवान् । अस्माकं तु मनो हरतीति महान् विशेष उक्तः ॥ वसन्त-तिलकं छन्दः ॥८२॥

सुबोधिनी ॒ ततोऽतिहर्षेण स-नर्माह—स एवायं को यो मदीयानां हृदयाम्बुरुहापहारी । श्लाघ्य एवायम् । कथम् एवं ब्रूषे ? हर्ष-युक्तानां व्रज-कुमारीणां वसनापहारी यः सोऽयम् । तेन नर्मणा तत्-कृते को दोषः ? इन्द्रस्यापि गिरि-धृत्या गर्व-हारी । स्व-द्वेषिण तद् अपि वीरस्य न गर्ह्यम् । मुनि-जनानां मानसे यस् तापस् तस्याप्य् अपहारी । प्रसिद्ध-चौरेऽस्मिन् न सन्देहः ॥८२॥

सारङ्ग-रङ्गदा ॒ साक्षात्-तद्-दर्शन-प्राप्त्या परमानन्द-मग्नः साश्चर्यम् आह—मुनीन्द्राश् च ते जना भक्ताश् च तेषां नारदादीनाम् अपि मानस-तापम् एव सदा ध्याने स्फूर्त्या हर्तुं शीलं यस्य सोऽयम् । तादृशोऽपि मद-युक्ता गर्वेण भर्त्सयन्त्यो या व्रज-वध्वस् तासां वसनापहारी यः सोऽयम् । तथा, तृतीय-भुवनेश्वरस्य स्वर्गेशस्य गिरि-वृत्या दर्प-हारी यः सोऽयम् । तादृशोऽपि मदीयानाम् आसां ममैव वा हृदयाम्बुरुहापहारी यः सोऽयम् इत्य् आश्चर्यम् ॥८२॥

—ओ)०(ओ—

(८३)

सर्वज्ञत्वे च मौग्ध्ये च

सार्वभौमम् इदं महः ।

निर्विशन् नयनं हन्त

निर्वाण-पदम् अश्नुते ॥

कृष्ण-वल्लभा ॒ अथ परमानन्द-साम्राज्य-परम-सीमाम् अनुभवन्न् अभिलषति—सर्वज्ञत्वे इति । इदं पुरः स्फुरच्-छ्री-कृष्णाख्यं महः सर्वोज्ज्वलं ज्योतिः सर्वज्ञत्वे मौग्ध्ये च सार्वभौमं चक्रवर्ति । सर्वतः श्रेष्ठम् इत्य् अर्थः । कदाचित् सर्वज्ञोऽपि भवति, कदाचिन् मुग्धोऽपि भवति, लीला-रस-मयत्वात् । हन्तेति हर्षे । तन् महो नयनं निर्विशन् नयन-गोचरीभवन् निर्वाण-पदं निर्वाणानां सर्वासां निवृत्तीनां मधुरानन्द-रसानां पदम् आधार-भूतं मधुरानन्द-साम्राज्यम् अश्नुते व्याप्नोति । यद् वा, तन्-महः कर्म, निर्विशन् नयनं कर्तृ, निर्वाण-पदं परमानन्दम् अश्नुते । सर्वम् आस्वादयतीत्य् अर्थः ॥ अनुष्टुप् छन्दः ॥८३॥

सुबोधिनी ॒ न केवलं तद्-दर्शने मम सुखं तस्यापि मद्-दर्शने सुखम् इत्य् आनन्द-विस्मयोत्फुल्लः सन्न् आह—सर्वज्ञत्वेन मद्-अन्तर्-वृत्ति-ज्ञातृतया मनोहरत्वेन च सर्व-विजयीदं महो नयनं निःशेषेण विशतु, हन्ताश्चर्ये, परमानन्दं भुङ्क्ते ॥८३॥

सारङ्ग-रङ्गदा ॒ पूर्वं यथा स्व-प्रार्थैतं तथाविधत्वेनाविर्भावाद् रासे तासां हृदयेच्छा-पूरकत्वाच् च सर्वज्ञतायाः । लीला-विशिष्टत्वेन सहज-परमैश्वर्यादेर् अननुसन्धानान् मुग्धतायाश् चानुभवानन्द-विस्मयोत्फुल्लः सन्न् आह—पूर्ववद् इदं महो नयनं निर्विशत् तद्-द्वारा प्रविश्य निर्वाणं परमानन्दस् तत्-पदं हृदयम् अश्नुते व्याप्नोति विस्मयेन स्तब्धं करोति । हन्तेत्य् आश्चर्ये । कीदृशं ? सर्वज्ञत्वे मौग्ध्ये च सार्वभौमम् । अतिश्रेष्ठम् इत्य् अर्थः ॥८३॥

—ओ)०(ओ—

(८४)

पुष्णानम् एतत् पुनर्-उक्त-शोभाम्

उष्णेतरांशोर् उदयान् मुखेन्दोः ।

तृष्णाम्बुराशिं द्विगुणीकरोति

कृष्णाह्वयं किञ्चन जीवितं मे ॥

कृष्ण-वल्लभा ॒ इदानीम् अतिमधुर-विलास-प्रसक्त-रूपेण साक्षाच् चक्षुर्भ्याम् इव पेपीयमाने परिस्फुरति प्रतिपद-परमानन्द-रस-वर्षिण्य् अपि श्री-कृष्ण-चन्द्रे नैव तृष्णा-शान्तिः, प्रत्युत कोटि-गुण-वृद्धिर् एवेत्य् आह—पुष्णानम् इति । कृष्णाद् वयं कृष्ण इत्य् आह्वओ नाम यस्य तत् किञ्चन जीवितम् । एतज् जीवनतोऽप्य् अतिप्रियतमं जीवन-कोटीर् निर्मन्थ्यैक-नख-च्छवि । मे मम तृष्णाम्बुराशिं तृष्णैवाम्बु-राशिः समुद्रस् तं द्विगुणीकरोति । तृष्णा-सागरं वर्धयतीत्य् अर्थः । एतत् कृष्णाख्यं मुखेन्दोर् उदयात् प्रादुर्भावात् । उष्णेतरांशोरुष्णाद् इतरेऽंशवो यस्य तस्य चन्द्रस्य पुनर् उक्त-शोभां पुष्णानं पोषयन्तम् । अम्बु-राशेर् वर्धनं तु चन्द्रोदयेनैव, तन् मुखं चन्द्राद् अप्य् अधिकम् । तेन तृष्णाम्बुराशेर् द्विगुणीभावो न चित्रम् इति भावः । मुखेन्दोर् उदयाद् उष्णेतरांशोर् इत्य् आदौ व्याहत-दोषो नाशङ्क्यः । इन्दु-शब्दोऽयम् अनुत्कर्षार्थः । यथा च रघु-वंशे—दिलीप इति राजेन्दुर् इन्दुः क्षीर-निधाव् इव [र.वं. १.१२] इति ।

अथवैवं योजना—मुखेन्दोर् उदयान् मे तृष्णाम्बुराशिं द्विगुणीकरोति द्विगुणीकुर्वद् एव वर्तते । प्रथमं द्विगुणीकृतं पुनर् द्विगुणीकरोतीत्थं द्वैगुण्य-धारा । चन्द्रान्तरापेक्षयास्य विशेषम् आह—उष्णेतरांशोश् चन्द्रस्यैतद्-उदये । तत्र शैत्यानुभवाभावात् । एतेन मुखेन्दुना कृता या तस्य पुनर्-उक्त-शोभाधिका दीप्तिः । प्रकाश-कार्यस्यैतच् चन्द्रिकयैव कृतत्वात् । तां पुष्णानं स्व-मुख-चन्द्रिकाभिः पुष्टं कुर्वत् । यद्यपि चन्द्रस्य प्रयोजनान्तरं नास्ति, स्वस्य कृतार्थतायै समुदेतीति भावः ॥ इन्द्र-वज्रा छन्दः ॥८४॥

सुबोधिनी ॒ अतः स एव स्वस्य शोभया मत्-तृष्णां वर्धयतीति स-विस्मयम् आह—किञ्चनानिर्वचनीयम् एतत् कृष्णाह्वयं मे जीवितं मुखेन्दोर् उदयात् तृष्णाम्बुधिं द्विगुणीकरोति । कथं ? हिमांशोस् तद्-उदयाद् एव व्यर्थीकृतांशोभां पुष्णानम् । स्वस्य कान्त्येन्दुं तिरस्कृत्य पुनस् तयैव तस्य ताम् उच्छलितां कुर्वाणम् इत्य् अर्थः ॥८४॥

सारङ्ग-रङ्गदा ॒ पुनस् तच्-छ्री-मुख-शोभायाः स्व-तृष्णायाश् च क्षणे क्षणे वर्धिस्णुत्वम् अनुभूय स-विस्मयम् आह—एतत् किञ्चनानिर्वचनीयं कृष्णाह्वयं मम जीवितं मुखेन्दोर् उदयान् मे तृष्णाम्बुराशिं द्विगुणीकरोति । कीदृशं ? उष्णेतरांशोर् हिमांशोस् तद्-उदयाद् एव पुनर् उक्ता व्यर्थीकृता या शोभा तां पुष्णानम् । स्व-श्री-मुख-कान्त्येन्दोः शोभां व्यर्थीकृत्य पुनस् तथैवोच्छलितां कुर्वाणम् इत्य् अर्थः । किं वा, श्री-व्रज-देवीनां तद्-दर्शनोच्छलितां शोभां दृष्ट्वाह—एतासां तद्-अदर्शनात् पुनर्-उक्तां व्यर्थीकृतां म्लानां शोभां पुष्णानं स्थूलीकुर्वत् । मुखेन्दोः कीदृश्ः—उष्णेतरांशोर् अतिशीतस्य ॥८४॥

—ओ)०(ओ—

(८५)

तद् एतद् आताम्र-विलोचन-श्री-

सम्भाविताशेष-विनम्र-गर्वम् ।

मुहुर् मुरारेर् मधुराधरोष्ठं

मुखाम्बुजं चुम्बति मानसं मे ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्ण-मुखाम्बुजं साक्षाद् इव वीक्षमाण आह—तद् एतद् इति । तद् एतद् दृश्यमानम् एव मुरारेः श्री-कृष्णस्य मुखाम्बुजं कर्म मे मानसं कर्तृ मुहुर् वारं वारं चुम्बति स्वायत्तीकरोति । यद् वा, तत्-स्संलग्नं सच् चुम्बन-सुखम् अनुभवतीत्य् अर्थः । गोपी-तादात्म्य-भावनयेति भावः । कीदृशं मुखाम्बुजं ? आताम्र-विलोचन-श्री-सम्भाविताशेष-विनम्र-गर्वम् । आताम्रयोः सर्वतोऽरुणयोर् विलोचनयोः श्रिया कान्त्या सम्भावितः सम्पादितोऽशेषाणां विनम्राणां भक्तानां गर्वो येन तत् । पुनः कीदृशं ? मधुराधरोष्ठम् । मधुरम् अधरोष्ठं यत्र तत् । यद् वा, मधुरं वस्त्व् अधरयतीति तद् ओष्ठं यत्र तत् ॥ उपेन्द्र-वज्रा छन्दः ॥८५॥

सुबोधिनी ॒ अथ तद्-दर्शनानन्दावेशेनोद्घाटितं मनो-गतम् उद्गीरति—मुरारेर् एतन्-मुखाम्बुजं मे मानसं मुहुश् चुम्बति । तत्र हेतुः—मधुराधरोष्ठम् । तत्-प्रवृत्तौ तद् एव निदानम् इत्य् आह—आताम्रयोर् अनुराग-युक्तयोर् विलोचनयोर् या लक्ष्मीः शोभा तया सम्भावितोऽशेष-नम्राणां गर्वोऽभिमान-विशेषो येन ॥८५॥

सारङ्ग-रङ्गदा ॒ स्वस्य भाव-विशेषाश्रयत्वात् पुनस् तत्र जात-तृष्णः स-लालसम् आह—तत् वीक्षिष्ये तव वदनाम्बुजं [श्लोक ४४] इत्य् आदौ पूर्व-प्रार्थैतम् एतन् मुरारेर् मुखाम्बुजं मे मानसं मुहुश् चुम्बति नेत्र-भृङ्ग-द्वारा निपीयास्वादयति । निज-भावानुसारेण विशेषयति, कीदृशं ? मधुराव् अधरोष्ठौ यत्र । तथा, आताम्रयोर् ईषद्-अरुणयोर् विलोचनयोर् या श्रीः शोभा कृपा-कटाक्षादि-सम्पद् वा तथा सम्भावितो वर्धितोऽशेष-विनम्राणां भक्तानाम् अनुकूलानाम् आसां च सौभाग्य-गर्वो येन ॥८५॥

—ओ)०(ओ—

(८६)

करौ शरद्-इज्याम्बुज-क्रम-विलास-शिक्षा-गुरू

पदौ विबुध-पाद-प्रथम-पल्लवोल्लङ्घिनौ ।

दृशौ दलित-दुर्मद-त्रिभुवनोपमान-श्रियौ

विलोकय विलोचनामृतम् अहो महः शैशवम् ॥

कृष्ण-वल्लभा ॒ अथ पुरः स्फुरति श्री-कृष्णेऽतिप्रवृद्ध-तादृग्-दर्शन-लालस आह—कराव् इति । हे विलोचन ! अहो आश्चर्यम् । अमृतम् अमृत-स्वरूपं शैशवं सौकुमार्यं मह उत्सव-रूपं वपुः । यद् वा, महः-शैशवं महसां शैशवं सुकुमारताम् । विलोकय पश्येति प्रार्थये । प्रार्थायां लोट् । इदम् एव त्वया विलोकनीयम्, स्वप्नेऽपि नान्यत्र दृष्टिर् देयेत्य् अर्थः । यस्य कराव् ईदृशौ—शरदिजाम्बुज-क्रम-विलास-शिक्षा-गुरू । शरदि जातानि शरदिजानि । अलुक् समासः । तानि चाम्बुजानि, तेषु क्रमन्ते स्फीतीभवन्ति विलासा विविध-लसनानि शोभाः शैत्य-सौकुमार्य-सौगन्ध्यादि-रूपाः, तासु शिक्षा-गुरू । यद् वा, शरदिजान् अम्बुजानां क्रमः परिपाटी तस्या विलास-शिक्षा-गुरू ।

पादौ कीदृशौ ? विबुध-पादप-प्रथम-पल्लवोल्लङ्घिनौ । विबुधानां देवानां पादपस्य कल्प-द्रुमस्य प्रथमो यः पल्लवः पत्रं तम् उल्लङ्घयितुं शीलं ययोस् तौ । ततोऽप्य् अधिक-कारुण्य-सौकुमार्यादिमत्त्वात् ।

दृशौ कीदृशौ ? दलित-दुर्मद-त्रिभुवनोपमान-श्रियौ । दलितानि दुर्मदानि समस्त-दिग्-विजयात् प्राप्त-मदानि त्रिभुवन-स्थानि यान्य् उपमानानि मृग-मीन-खञ्जन-चकोर-चञ्चरीक-कुवलयादीनि तेषां श्रीर् याभ्यां ते ॥ पृथ्वी छन्दः ॥८६॥

सुबोधिनी ॒ ततो बहिः सम्भाल्य सावहित्थम् आह—अहो महो विलोकय । कीदृशं ? विलोचनयोर् अमृतम् । पुनः स-हर्षम् आह—शैशवं कैशोरम् इदम् । यतोऽस्य करौ । कीदृशौ ? शरदि जातानाम् अम्बुजानां ये क्रमेण विलासा आन्दोल-नादयस् तेषां शिक्षा-गुरू । स्वभावालम्बनतयादौ करयोर् निरुक्तिः । पुनर् दैन्याद् अवाग् विलोक्य । पादौ च कीदृशौ ? कल्प-वृक्षाणाम् अग्र-भाग-स्थ-पल्लवान् कौमल्यारुण्यादिनोल्लङ्घयितुं शीलं ययोः ।

ऊर्ध्वं वीक्ष्य दृशौ च कीदृशौ ? दलिता निर्जिता दुर्मदैर् अत्यूर्जितौपम्य-गुणैर् युक्तानां त्रिभुवन-स्थ-पद्मादीनाम् उपमानानां श्रीः सम्पत्तिर् याभ्याम् ॥८६॥

सारङ्ग-रङ्गदा ॒ तत्-तद्-अनन्त-माधुर्याब्धि-मग्नः प्रेमानन्द-वैह्वल्यात् सर्वं विस्मृत्य पूर्ववत् तम् अन्विष्य प्राप्त-तद्-दर्शनायाः श्री-वृन्दावनेश्वर्याः पार्श्व-स्थात्म-स्फूर्त्या तां प्रति । बाह्ये तु—स्व-सङ्गिनं किञ्चित् स्व-मित्रं प्रति—लीला-स्वयंवर-रसं लभते जय-श्रीः [श्लोक १] इतिवत् स्वान्तोद्गतं तद्-अङ्गानाम् उपमान-जेतृत्वम् आह । अहो आश्चर्ये । इदं पुरो दृश्यमानं महः पूर्ववत् कान्ति-पुञ्जं विलोकय । कीदृशं ? विलोचनयोर् अमृतम् । तद्वत् सन्तर्पकम् । क्षणं निर्वर्ण्य स-विस्मयम् आह—इदं शैशवम् । कैशोरम् इत्य् अर्थः । स्वार्थेऽण् । यतोऽस्य करौ । कीदृशौ तौ ? शरदिजाम्बुजानां क्रमेण परिपाट्या ये विलासास् तेषां शिक्षायां गुरू । तथास्य पादौ । कीदृशौ ? विबुध-पादपानां कल्प-वृक्षाणां प्रथम-पल्लवांस् तत्-तद्-गुणीर् उल्लङ्घयितुं शीलं ययोस् तादृशौ ? तथास्य दृशौ । कीदृशौ ? दलिता दुर्मदानि त्रिभुवने यानि पद्मादीन्य् उपमानानि तेषां श्रीर् याभ्यां तादृशौ ॥८६॥

—ओ)०(ओ—

(८७)

आचिन्वानम् अहन्य् अहन्य् अहनि साकारान् विहार-क्रमान्

आरुन्धानम् अरुन्धती-हृदयम् अप्य् आर्द्र-स्मितार्द्र-श्रिया ।

आतन्वानम् अनन्य-जन्म-नयन-श्लाघ्याम् अनर्घ्यां दशाम्

आनन्दं व्रज-सुन्दरी-स्तन-तटी-साम्राज्यम् उज्जृम्भते ॥

कृष्ण-वल्लभा ॒ अथ व्रज-सुन्दरी-स्तन-तटीम् आश्लिष्टस्य श्री-कृष्णस्य स्वरूपं यथानुभवम् अनुवर्णयति—आचिन्वानम् इति । आनन्दं ब्रह्म नित्य-परमानन्द-भूयस्त्ववत् । भूमार्थेऽर्श आद्यच् [पा. ५.२.१२७] । उज्जृम्भते प्रकाशते । मम स्फुरतीत्य् अर्थः । तर्हि किं निर्गुणं ? न, व्रज-सुन्दरी-स्तन-तट्यां साम्राज्यं चक्रवर्तित्वं यस्य तत् । आनन्दं यथा स्यात् तथा उज्जृम्भते । कीदृशं ? अहन्य् अहन्य् अहनि साकारान् आकार-सहितान् विहार-क्रमान् विलास-परिपाटीर् आचिन्वानं सञ्चितं कुर्वत् ।

प्रतिदिनम् अन्य एवाकारोऽन्यैव च विहार-परिपाटी । पूर्वाधिक-चमत्कारवन् माधुरी-भृद् इत्य् अर्थः । यं यम् आकारं गृहीत्वा यां यां क्रीडां करोति सैव सैव मूर्तेव परिस्फुरतीति भावः । अत एव आर्द्र-स्मितार्द्र-श्रिया, आर्द्रं सरसं यत् स्मितं तेनार्द्रा स्निग्धा या श्रीः शोभा तथा, अरुन्धत्या हृदयम् अप्य् आरुन्धानं रुन्धत् । स्वाधीनीकुर्वद् इत्य् अर्थः । एतेन जगन्-मोहकत्वम् । महाश्चर्य-सहज-साध्वी-धैर्य-व्रत-हानेः ।

पुनः कीदृशं ? अनर्घ्याम् अमूल्याम्, सर्व-पूज्यां वा । मूल्ये पूजा-विधाव् अर्घः इत्य् अमरः । दशाम् आकारम् । सौन्दर्य-विशेषम् इत्य् अर्थः । आतन्वानम् । आ समन्ताद् अङ्ग्य् अत्यङ्गेषु तन्वानं तन्वद् विस्तारयन् । दशां विशिनष्टि—अनन्य-जन्म-नयन-श्लाघ्याम् । अनन्यानाम् अस्माकं जन्म-नयनयोः श्लाघ्यां श्लाघार्हाम् । यद् वा, अनन्य-जन्मा कामस् तस्यापि नयन-श्लाघ्याम् । कुसुमेषुर् अनन्यजः इत्य् अमरः ॥ शार्दूल-विक्रीडितं छन्दः ॥८७॥

सुबोधिनी ॒ पुनः सर्वाकर्षक-तल्-लीला-माधुर्य-स्फूर्त्या स्मर-लालसोत्पादकानन्दत्वेनाह—अहो तन्-मह आनन्दं, आ सम्यग् आनन्दो यस्मात् तद्-रूपं सन् नवनवत्वेन प्रकाशते । तद्-उदय-स्थानं व्यनक्ति—व्रज-सुन्दरी-स्तन-तट्याम् एव साम्राज्यं यस्य । तत् सम्पादयति—अहन्य् अहनि प्रतिदिनं विहार-क्रमान् क्रमेण विहारान् मूर्तिमत आचिन्वानं जगन्-मनो-भूमौ सञ्चिन्वन्तम् । तन्-मोहकताम् आह—स्निग्ध-स्मितस्य स्निग्ध-स्मितस्य स्निग्ध-शोभयारुन्धत्या अपि हृदयं स्व-माधुर्येणावृण्वानम् । तत्र हेतुः—अनर्घ्याम् । यत्र या न सम्भवति, तां दशां विस्तारयत् । कीदृशीम्—न विद्यतेऽन्य-जन्म येषां तेषां नयनानां योग्याम् । दिव्य-चक्षुषाम् इत्य् अर्थः ॥८७॥

सारङ्ग-रङ्गदा ॒ पुनर् दशा-द्वय-संवलितः स्मर-लालसोत्पादक-तन्-माधुर्य-दर्शनानन्द-मग्नस् तद् एवानन्दं मत्वाह—तद् एतन् मह आनन्दम् । आ सम्यग् आनन्दो यस्मात् तद्-आनन्दं, तद्-रूपं सद् उज्जृम्भते क्षणे क्षणे नवनवत्वेन प्रकाशते । परितः पश्यन्—राधा-पयोधरोत्सङ्ग-शायिनेऽशेष-शायिने [श्लोक ७९] इतिवत् तं दृष्ट्वाह—व्रज-सुन्दरीनां स्तन-तट्य एव साम्राज्यं सुखद-स्थानं यस्य । तासां तद् वा तासु साम्राज्यं यस्येति वा । तत्रैव तादृशत्वेन सुलभम् इत्य् अर्थः । अतः काम् अप्य् अनुपमां दशां कोटि-मन्मथ-मोहिनीम् आतन्वानं प्रकटयन्तम् ।

माधुर्यस्यानन्त्यान् नेत्राभ्याम् अनुभवितुम् असमर्थः कोटि-नयनं प्रार्थयन् स्वपुंस्त्वात् तत्राप्य् अयोग्यता-मननात् सामान्य-स्त्रीत्वं प्रार्थयंस् तत्राप्य् अयोग्यतां विचार्य स-दैन्यम् आह—कीदृशीं तां ? अन्य-जन्मानि व्रज-सुन्दरी-व्यतिरिक्तानि यानि जन्मानि तेषु यानि नयनानि तैः श्लाघितुम् अशक्याम्, किम् उतानुभवितुम् । आभिर् व्रज-देवीभिर् एवानुभाव्याम् इत्य् अर्थः ।

विलास-सौष्ठवं दृष्ट्वाह—अहन्य् अहनि प्रतिदिनं प्रतिक्षणं प्रतिनिमेषं साकारान् मूर्तिमतो विहार-क्रमांस् तत्-परिपाटीर् आचिन्वानं सृजन्तम् । एवं चेत् तर्हि तद्-अन्यो जनस् तद्-आशां त्यक्त्वा सुखं तिष्ठतु, अत्र सोपालम्भम् आह—आरुन्धेति । सहजार्द्रस्य स्मितस्य यार्द्रा श्रीः शोभा तयैवारुन्धत्या अपि हृदयम् आरुन्धानम् । आत्म६य् आरुध्य स्थापयेत् । सुन्दरं पुरुषं दृष्ट्वा पुरुषा अपि तं श्लाघन्ते, तस्यास् तच् छ्लाघ्यापि नास्ति । अस्या अपीति कथम् अन्यो जनः सुखं तिष्ठेद् इत्य् अर्थः ॥८७॥

—ओ)०(ओ—

(८८)

तद् उच्छ्वसित -यौवनं तरल-शैशवालङ्कृतं

मद-च्छुरित-लोचनं मदन-मुग्ध -हासामृतम् ।

प्रतिक्षण-विलोभनं प्रणय-पीत-वंशी-मुखं

जगत्-त्रय-मनोहरं जयति मामकं जीवितम् ॥

कृष्ण-वल्लभा ॒ इदानीं तस्यैव सर्वोत्कर्षं वर्णयति स्वानुभवेन—समुच्छ्वसितेति । ममेदं मामकं जीवितं जयति सर्वोत्कर्षेण वर्तते । कीदृशं ? समुच्छ्वसित-यौवनम् । समन्ताद् अङ्ग-दृग्-वाग्-गत्य्-आदिष्व् उच्छ्वसितम् अभिव्यक्तं यौवनं यस्य तत् ।

पुनः कीदृशं ? तरल-शैशवालङ्कृतम् । तरलेन गच्छता शैशवेनालङ्कृतम् । यद् वा, तरलयतीति चेतांसि तादृशेन शैशवेन सौकुमार्येनालङ्कृतम् । तारल्य-मात्र-कारि-शैशव-मिश्रित-यौवनम् इत्य् अर्थः ।

पुनः कीदृशं ? मद-च्छुरित-लोचनम् । मदो गर्वस् तेन छुरिते आरुण्य-घूर्ण्यमानत्वादिना व्याप्ते लोचने यस्य तत् ।

पुनः कीदृशं ? मदन-मुग्ध-हासामृतम् । मदनेन मुग्धं मनोहरं हासामृतं यस्य । मदनोऽपि मुग्धो येन तादृग् हासामृतं यस्येति वा तत् ।

पुनः कीदृशं ? प्रतिक्षणं विलोभयतीति । विशेषेण लोभ-जनकम् इत्य् अर्थः । पुनः कीदृशं ? प्रणयेन प्रेम्णा पीतं वंश्या रन्ध्र-रूपं मुखं येन । प्रणयेन पीता कृष्णाधर-रस-पानवती वंशी मुखे यस्य वा तत् । जगत्-त्रयस्य मनो हरतीति तत् ॥ पृथ्वी छन्दः ॥८८॥

सुबोधिनी ॒ अतो ममाभीष्टं स एव सम्पादयिष्यतीति स-हर्षम् आह—तन् मामकं जीवितं सर्वोत्कर्षेण वर्तते । सर्वोत्कर्षतां विशिनष्टि—न केवलम् अरुन्धत्या अपि तु जगत्-त्रय-मनोहरम् । तत् कथं ? उद्गतं यौवनं यत्र । अतस् तरलं गत-प्रायं यच् छैशवं तेनालङ्कृतम् । तच्-चेष्टाम् आह प्रियेक्षण-हर्षेण व्याप्ते लोचने यत्र । अत एव मदनो मुग्धो यस्मात् तादृश-हास एवामृतं यस्मिन् । अतः प्रतिक्षण-विलोभनम् । पुनः स-नर्माह—प्रेम्णा पीतं वंश्या मुखं येन ॥८८॥

सारङ्ग-रङ्गदा ॒ पुनर् अन्तर्-लालसया स-हर्षम् आह—तद् इदं मामकं जीवितं जयति सर्वोत्कर्षेण वर्तते । सर्वोत्कर्षताम् एवाह विशेषणैः । कीदृशं ? न केवलम् अरुन्धत्या, अपि तु जगत्-त्रय-मनोहरम् । उच्छ्वसितं यौवनं तत्-पूर्वावस्था यस्मिन् । तथा, तरलं गत्वरं किञ्चिद् अवशिष्टं यच् छैशवं तेनालङ्कृतम् । विशेषणाभ्यां किशोरम् इत्य् अर्थः । अतः स्मर-मदैश् छुरिते व्याप्ते लोचने यस्य । मदनो मुग्धो यस्मात् तादृशो हास एवामृतं तद् यस्मिन् । अतः प्रतिक्षण-विलोभनम् । कर्तरि ल्युट् । प्रणयेन पीतं चुम्बितं वंश्याः सुभगाया मुखं येन ॥८८॥

—ओ)०(ओ—

(८९)

चित्रं तद् एतच् चरणारविन्दं

चित्रं तद् एतन् नयनारविन्दम् ।

चित्रं तद् एतद् वदनारविन्दं

चित्रं तद् एतद् वपुर् अस्य चित्रम् ॥

कृष्ण-वल्लभा ॒ सम्प्रति तद् एव जीवितम् आश्चर्य-रूपत्वेन वर्णयति—चित्रम् इति । तद् एवैतच् चरणारविन्दं ध्वज-वज्र-यवाङ्कुश-रेखादि-युक्तं चित्रम् आश्चर्यम् । तद् एवेति दुर्लभं यम् उनिभिश् चिन्त्यते परम्, न तु दृश्यतेतराम् । एतद् इति सुलभं यद् अस्मद्-अनुग्रह-दृष्ट्या प्रत्यक्षीकृतं, अत एव चित्रम् । एवं नयनारविन्दादिष्व् अपि । तद् एवैतन् नयनारविन्दं हाव-भाव-विविध-दृष्टि-युतम् । तद् एवैतद् वदनारविन्दं महाश्चर्य-सौन्दर्य-माधुर्य-लावण्यादिमत् । अम्बेत्य् आश्चर्ये । तद् एतद् वपुश् चित्रं चित्रम् । आश्चर्यम् आश्चर्यम् इति । स्निग्ध-घनेन्दीवर-मरकत-कान्ति-च्छटा-परिभावकम् इत्य् अर्थः ॥

इन्द्र-वज्रा छन्दः ॥८९॥

सुबोधिनी ॒ पुनस् तत्-साम्राज्यं विवृण्वंस् तत्-प्रत्यङ्ग-माधुर्यम् अनुभवन्न् आह—अस्य तद् एतच्-चरणारविन्दं चित्रं प्रियोरः-कुङ्कुमाक्ततयाद्भुतम् । ऊर्ध्वं विलोक्य—तद् एतद् वदनारविन्दं तद्-दशन-क्षतादिनाद्भुतम् । तद्-रति-जागरारुणं तद् एतन् नयनारविन्दम् अद्भुततरम् । एतैस् तद् एतद् वपुर् अद्भुततमम् । वीप्सात्र तत्-तच्-चित्रिततयात्याश्चर्ये ॥८९॥

सारङ्ग-रङ्गदा ॒ पुनस् तत्-प्रत्यङ्ग-माधुर्यानन्त्य-स्फूर्त्या साश्चर्यम् आह—तत् कृष्ण-पादाम्बुजाभ्यां [श्लोक १२] इत्य् आदिना प्रार्थैतम् एतद् अस्य चरणारविन्दं चित्रम् अद्भुतम् । तथा, मूर्तिं जगन्-मोहिनीं [श्लोक ५४] इत्य् आदौ प्रार्थैतं तद् एतद् अस्य वपुश् चित्रम् अत्यद्भुतम् । मुख-पङ्कजं मनसि मे विजृम्भतां [श्लोक ६] इत्य् आदौ प्रार्थैतं तद् एतद् वदनारविन्दं चित्रम् अत्यद्भुततरम् । तथा, प्रस्फुरल्-लोचनाभ्यां [श्लोक १३] इत्य् आदौ प्रार्थैतं तद् एतन् नयनारविन्दम् अद्भुततमम् । तद् एतत् सर्वं मम प्रत्यक्षं जातम् इति चित्रम् अतितमाद्भुततमम् । वपुर् अम्बेति पाठे—अम्बेत्य् आश्चर्य-द्योतकाकाश-सम्बोधनम् ॥८९॥

—ओ)०(ओ—

(९०)

अखिल-भुवनैक-भूषणं

अधिभूषित-जलधि-दुहितृ-कुच-कुम्भम् ।

व्रज-युवति-हार-वल्ली-

मरकत-नायक-महा-मणिं वन्दे ॥

कृष्ण-वल्लभा ॒ सम्प्रति राधा-रति-विहार-प्रसक्ते श्री-कृष्ण-स्वरूपे स्व-संनिष्ठाम् आह—अखिलेति । तं वन्दे स्तौमि नमामि च । कीदृशं ? अखिल-भुवनस्यैकम् एव भूषणम् अलङ्कृतिर् यस्मात् तम् । अखिल-भुवनेषु परमानन्द-रस-मय-पर्यन्तेष्व् एकं मुख्यं श्री-वृन्दावनं तस्य भूषणम् एव स्वरूपं यस्य वा तम् ।

पुनः कीदृशं ? अधिभूषित-जलधि-दुहितृ-कुच-कुम्भम् । अध्य् अधिकं भूषितौ कस्तूरी-मकरी-विरचनादिना जलधिर् इव जलधिः श्री-कृष्णैकान्तिक-स्नेह-समुद्रः श्री-वृषभानु-नामा गोपस् तस्य दुहिता राधा, तस्याः कुच-कुम्भौ येन तम् ।

पुनः कीदृशं ? व्रज-युवति-हार-वल्ली-मरकत-नायक-महा-मणिम् । व्रज-युवतीनां हार-वल्ली हार-लता तस्यां मरकत-मयं नायकं मध्य-गतं महा-मणिम् । महा-मणिर् इव महा-मणिस् तम् । तासाम् उरसि निरन्तरं तिष्ठन्न् अपि राधया सह विहरतीति भावः ॥ आर्या छन्दः ॥९०॥

सुबोधिनी ॒ पुनस् तद्-वपुर् जगद्-आनन्दकतयानुभवैः स-नर्म नमन्न् आह—तद् अखिल-भुवनानां मुख्यं भूषणं वन्दे । कुत एतत् ? अधिकं भूषितौ जलधि-दुहितुः, जलम् अधीयते स्व-किरणैर् आकृष्य सञ्चीयत इति जलधिर् भानुस् तन्-नाम्नो गोपस्य दुहितुः श्री-राधायाः कुच-कुम्भौ येन । अतो व्रज-युवतीनां तत्-सखीनां हार-वल्ल्या मरकत-महानायक-मणिं तद्वत् तद्-धृदयोल्लासकम् ॥९०॥

सारङ्ग-रङ्गदा ॒ पुनः कियद् दूरे स्थित्वा ताभिः सह चुम्बनालिङ्गनादिभिर् विलसन्तं तम् आलोक्य विस्मितः सन् क्षणं विचार्य, अस्य नैतद् आश्चर्यम् इत्य् आह—एतादृशम् अमुं वन्दे । न केवलं व्रज-वनस्यैव किं त्व् अखिलानां भुवनानाम् एकं श्रेष्ठं नीलमणि-रूपं भूषणं तद्वत् स्थितम् । तद् उक्तं जयदेवैः—त्रैलोक्य-मौलि-स्थली-नेपथ्योचित-नील-रत्नं [गी.गो. ५.२०] इति ।

तथा, अधिभूषिता विष्ण्व्-आदि-स्वरूपेण पाद-संवाहन-पराणां लक्ष्मीणां स्व-पाद-स्पर्शेन कुच-कुम्भा येन । आसां सर्वासां तु नायक-मणिवत् कण्ठ-स्थितम् इत्य् आश्चर्यम् ।

यद् वा, नन्व् ईशस्य प्रकाश-भेदेन नैतच् चित्रं यतोऽखिलानां वैकुण्ठानाम् एक-भूषणं स्वयम् एव तत्-तद्-रूपेण तेषु स्थितम् । तथा, अधिभूषितास् तत्-तत्-प्रेयसीनां लक्ष्मीणां कुच-कुम्भा येन । क्षणं विमृश्य नैतत् प्रकाश-भेद इत्य् आह—आसां त्व् एकेन वपुषैव नायक-मणिम् । तच् चित्रम् एवैतत्, वन्दनम् एव कार्यं, न तु विचार्यम् इत्य् अर्थः ।

अथवा, यद्-वाञ्छया श्रीर् ललनाचरत् तपः [भा.पु. १०.१६.३६], नायं श्रियोऽङ्ग [भा.पु. १०.४७.६०] इत्य् आदि-दिशा स्व-माधुर्येण ताम् आकृष्याधिभुव्य् ऊषितौ विरह-वह्नि-ज्वालया तापितौ तस्याः कुच-कुम्भौ येन ॥९०॥

—ओ)०(ओ—

(९१)

कान्ता-कच-ग्रहण-विग्रह-लब्ध-लक्ष्मी -

खण्डाङ्ग-राग-लव-रञ्जित-मञ्जुल-श्रीः ।

गण्ड-स्थली-मुकुर-मण्डल-खेलमान-

घर्माङ्कुरः किम् अपि गुम्फति कृष्ण-देवः ॥

कृष्ण-वल्लभा ॒ सम्प्रति राधया सह सङ्गत्य विहरन्तं श्री-कृष्णं वर्णयन्न् आह—कान्तेति । दीव्यति क्रीडति मोदते वा देवः । कृष्णश् चासौ देवश् चेति । किम् अपि गुम्फति, अर्थात् त्रुटितान् वेणी-हार-रशनादिकान् ग्रथ्नातीत्य् अर्थः । क्रीडा-रसाविष्टतयासम्यग्-गुम्फनात् किम् अपीत्य् उक्तम् ।

कीदृशो देवः ? कान्ता-कुच-ग्रहण-विग्रह-लब्ध-लक्ष्मीः । कान्ताया राधायाः कच-ग्रहणे केश-प्रसाधने यो विग्रहो रति-कलहो नख-दन्त-क्षतादि-रूपः, तेन लब्धा लक्ष्मीः शोभा येन सः ।

पुनः कीदृशः ? खण्डाङ्ग-राग-लव-रञ्जित-मञ्जुल-श्रीः । रति-कलहेन खण्डो योऽङ्ग-रागस् तस्य लवेन रञ्जिता, अत एव मञ्जुल-श्रीर् यस्य सः ।

पुनः कीदृशः ? गण्ड-स्थली-मुकुर-मण्डल-खेलमान-घर्माङ्कुरः । गण्ड-स्थल्य् एव मुकुर-मण्डलं, तत्र खेलमाना घर्माङ्कुरा यस्य सः । राधायाः केश-प्रसाधन-समये केनचित् सुख-विशेषेण रति-कलह-निर्वृत्त-हारादीनां त्रुटिः, स्वस्य परिश्रमात् स्वेद-जल-कणा अपि जाताः, तेनाङ्ग-रागोऽपि खण्डीभूतः, पश्चात् तस्या हारोऽपि ग्रथित इति समुदायार्थः ॥ वसन्त-तिलकं छन्दः ॥९१॥

सुबोधिनी ॒ पुनस् तद्-वपुषोऽद्भुत-भूषणं व्यञ्जयंस् तथैवाह—कृष्ण-देवः किम् अपि कान्ति-वेष-मालां ग्रथ्नाति । तद् वक्तुं न शक्नोमीत्य् अर्थः । तद्-अभिनयन्न् आह—कान्तायाः श्री-राधायाः कच-ग्रहणाय यः प्रणय-कलहो हस्ताहस्ति तेन लब्धा या लक्ष्मीर् उन्मुक्त-केशादि-शोभा तया युक्ताः खण्डा विच्छिन्ना येऽङ्ग-रागास् तेषां लवै रञ्जिता, अत एव मञ्जुला श्रीर् यस्य । तल् लक्षयति—गण्ड-स्थल्यौ स्वच्छतया मुकुर-मण्डले ये तयोः खेलमाना घर्माङ्कुरा यस्य ॥९१॥

सारङ्ग-रङ्गदा ॒ अथ श्री-राधया सर्वाभिर् वा कृत-लीला-विशेषस्य तस्य शोभा-विशेषं विलोक्य स-हर्षम् आह—कृष्ण-देवः क्रीडन् कृष्णः किम् अपि गुम्फति माधुरी-सुमनो-मालां ग्रथ्नाति । कीदृशः ? कान्तायास् तासां वा सालिङ्गन-चुम्बनाधर-पानार्थं यत् कुच-ग्रहणं तत्र कुट्टमिताख्य-भावेन हस्तादि-क्षेपेण निवारयन्त्या तया ताभिर् वा सह यो विग्रहस् तेन लब्धाः श्रीमद्-अङ्गे लग्ना ये ते च, लक्ष्मीः शोभा तद्-युक्ताश् च । मध्य-पद-लोपी समासः । खण्डाः खण्ड-खण्डाश् चेदृशस् तस्यास् तासां वा सिन्दूर-कुङ्कुम-चन्दनाञ्जनाद्य्-अङ्ग-रागाणां ये लवास् तै रञ्जिता, अतोऽतिमञ्जुला श्रीः शोभा यस्य । तेन विग्रहेण लब्धा या लक्ष्मीस् तया च तद्-अङ्ग-सङ्गेन खण्डाः क्वचित् क्वचित् खण्डिता ये कुङ्कुमादि-निजाङ्ग-रागास् तेषां लवैश् च रञ्जिता स्वभाव-मञ्जुला श्रीर् यस्येति वा ।

तथा, गण्ड-स्थल्याव् एव मुकुर-मण्डले तयोः खेलमाना घर्माङ्कुराः श्रमोत्थ-प्रस्वेद-कणा यस्य । यद् वा, तस्या नर्मभिर् जितस् तां जेतुं नर्म-प्रहेलिकादि-रूपं किम् अपि गुम्फति ॥९१॥

—ओ)०(ओ—

(९२)

मधुरं मधुरं वपुर् अस्य विभोर्

मधुरं मधुरं वदनं मधुरम् ।

मधु गन्धि मृदु स्मितम् एतद् अहो

मधुरं मधुरं मधुरं मधुरम् ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्णस्य प्रतिक्षणम् अनन्य-माधुरी-विशेषम् अनुभवन्न् आह—मधुरम् इति । अस्य पुरः स्फुरतो विभोर् विविधं भवतीत्य् एवम् अनन्त-रूपस्य श्री-कृष्णस्य मधुरं सहज-रमणीयम् अपि वपुः पुनर् मधुरम् । राधया सह केलि-कला-रसेनातिरमणीयम् इत्य् अर्थः । मधुरं वपुर् इति सामान्येन समुद्रायम् उक्त्वावयवं वर्णयति—वदनं सहज-कान्ति-विशेषोदयेन मधुरम् अपि मधुरम् । दृष्टि-वाग्-विलासादि-चिह्नेनातिमधुरम् इत्य् अर्थः । अहो आश्चर्यम् । एतन् मृदु-स्मितं मधुरं महा-मधुरम् अपि पुनर् मधुरम्, ततोऽपि पुनर् मधुरम्, ततोऽपि पुनर् मधुरम् इति माधुरी-प्रवाहवद् इति । तत्र हेतुः—मधु-गन्धि-मृदु-स्मितम् । मधूनि च गन्धाः सौरभाणि च भूयांसि सन्त्य् अत्र, एतादृशं मृदु-स्मितं यत्र तत् । तोटकं छन्दः ॥९२॥

सुबोधिनी ॒ तद्-उपभुक्त-तद्-अङ्ग-माधुर्यालोकात् सहर्षम् आह—अहो, अस्य विभोः कृत-सर्व-समाधानस्य वपुर् मधुरं मधुरं परमास्वाद्यम् अपि तद्-भुक्ततयातिमधुरम् । पुनः श्री-मुखम् आलोक्याह—वदनं तु तद्-दशन-क्षताधरादिभिर् मधुरं मधुरं मधुरम् । अतितरां मधुरम् इत्य् अर्थः । तत्र च तद्-अधर-मधु-गन्ध-युक्तम् एतन् मृदु-स्मितं तु मधुरं मधुरं मधुरं मधुरम् । अतितमां मधुरम् इत्य् अर्थः ॥९२॥

सारङ्ग-रङ्गदा ॒ तादृशानन्त-तन्-माधुर्य-विशेषम् अनुभूय साश्चर्यम् आह—अस्य विभोर् वपुर् मधुरं मधुरं, अतिसुमधुरम् इत्य् अर्थः । पुनः श्री-मुखम् आलोक्य स-शिरश्-चालनम् आह—वदनं तु मधुरं मधुरं मधुरम् । अतितरां सुमधुरम् इत्य् अर्थः । तत्र स्मितम् अनुभूय स-शीत्कारं तन्-निर्देशक-तर्जनी-चालन-पूर्वकम् आह—एतन् मृदु-स्मितं तु मधुरं मधुरं मधुरं मधुरं, अतितमां सुमधुरम् इत्य् अर्थः । कीदृशं ? मधु-गन्धि मधु-सौरभ-युक्तम् । मुखाब्जस्य मकरन्द-रूपत्वात् सर्व-मादकम् इत्य् अर्थः । सुरते कृत-मधु-पानत्वात् तद् ईषद् गन्धि वा ॥९२॥

—ओ)०(ओ—

(९३)

शृङ्गार-रस-सर्वस्वं शिखि-पिञ्छ-विभूषणम् ।

अङ्गीकृत-नराकारम् आश्रये भुवनाश्रयम् ॥

कृष्ण-वल्लभा ॒ सम्प्रति श्री-कृष्ण-स्वरूपं परमाश्रय्तमं कथयन् स्वाश्रयणीयत्वम् एवाह—शृङ्गारेति । भुवनाश्रयम् आश्रये, भुवनानां तद्-वर्तिनां चाश्रयम् आधारं श्री-कृष्णम् आश्रये । आ सम्यक् श्रये सेवे । किं भुवनाश्रयत्वेन तद्-आश्रयणं प्रार्थ्यते ? नेत्य् आह—कीदृशं ? शृङ्गार-रस-सर्वस्वं, शृङ्गार-रसस्य सर्वस्वं यस्मिंस् तत् । अनेनैव वयो-वर्णादि-माधुरी-विशेषश् च सूचितः । पुनः कीदृशं ? शिखि-पिञ्छ-विभूषणम् । शिखि-पिञ्छ-रूपं विशिष्टं गोपत्व-व्यञ्जकं भूषनम् असाधारणं यस्य तम् । तस्य स्वतो-भूषण-रूपस्य हार-नूपुरादिना भूषणं न सम्भवति, तथापि मयूराश् च परम-महा-मेघ-बुद्ध्या प्रेम्णाति-प्रमोदा नृत्यन्ति, तदा पतन्ति पिच्छानि भूषणतां प्राप्नुवन्त्य् एवेति भावः । पुनः कीदृशं ? अङ्गीकृत-नराकारम् । सर्वाभिः परम-महा-शक्तिभिः संसेव्यमानोऽप्य् अङ्गीकृतः स्वीकृतो नरस्येवातिपरम-महा-वैदग्ध्यवान् आकारो येन । नराकृति परं ब्रह्म [वि.पु. ४.११.२] इति स्मरणात् । अनुष्ठुप् छन्दः ॥९३॥

सुबोधिनी ॒ इदानीं तथा-भूतस्य सर्वोत्तमतां निश्चित्य तम् आश्रयन्न् आह—शृङ्गार-रस-सर्वस्वं यस्य तम् आश्रये । कीदृशं ? शिखि-पिञ्छ-विभूषणम् । तेनैव तद्-वैशिष्ट्यम् आह—अङ्गीकृतः स्वरूपेण गृहीतो नराकारो येन । अत एव भुवनानां प्राकृताप्राकृतानाम् आश्रय-भूतो यः ॥९३॥

सारङ्ग-रङ्गदा ॒ तस्य तद्-रसावेशं विलोक्याह—इदं शृङ्गारश् चासौरसराजत्वाद् रसानां सर्वस्वं च यत् तद् आश्रये । ननु स तावद् अमूर्तः ? तत्राह—भुवनं तत्-स्थ-जीव-चय आश्रयो यस्य तादृशोऽप्य् अङ्गीकृतो नराकारो येन तत् । « नवाकार » इति पाठे—स्वीकृतो नूतनाकारो येन । तद् रस एवायं मूर्तिमान् इत्य् अर्थः । तद् उक्तं—शृङ्गारः सखि मूर्तिमान् [गी.गो. १.४८] इत्य् अत्र । कीदृशं ? शिखि-पिञ्छ-विभूषणम् । यद् वा, शिखि-पिञ्छ-विभूषणम् अमुम् आश्रये । कीदृशं ? स्व-स्वरूपेणाङ्गीकृतः सदा गृहीतो नराकारो येन । तत्र हेतुः—ब्रह्म-मोहने तत्-स्वरूपेणैव भुवनानां तत्-तद्-वैकुण्ठानां तत्-तद्-ब्रह्माण्डानां चाश्रयम् । तस्मिन्न् एवोत्पन्न-प्रलीनत्वात् तेषाम् । तादृशम् अपि । शृङ्गार-रस एव सर्वस्वं यस्य तादृशं च । तस्य सर्वस्वं वा ॥९३॥

—ओ)०(ओ—

(९४)

नाद्यापि पश्यति कदापि निदर्शनाय

चित्ते तथोपनिषदां सुदृशां सहस्रम् ।

स त्वं चिरान् नयनयोर् अनयोः पदव्यां

स्वामिन् कया नु कृपया मम संनिधत्से ॥

कृष्ण-वल्लभा ॒ सम्प्रति विस्मय-गर्व-हर्षातिरेक-पूर्वकं स्वस्य श्री-कृष्ण-कृपातिशय-परम-काष्ठा-पात्रत्वम् आह—नाद्यापीति । भो स्वामिन् सर्वोत्तम ! स त्वं विशुद्ध-पूर्ण-मधुर-रस-मूर्तिः कया नु कृपया ममानयोर् नयनयोः पदव्यां चिरं चिर-कालं संनिधत्से संनिहितो भवसि । नैतत् तर्कयितुं शक्नोमि । तथेति कृपया । अनिरूप्यतां दर्शयसि—यत् त्वां सुदृशां शोभन-ज्ञानानाम् उपनिषदां वेद-रहस्य-भागानां सहस्रम् अद्यापि कदापि चकितम् अपि चित्ते निदर्शनाय दृष्टान्ताय हेतवे न पश्यसि । यादृशं तव स्वरूपं तथा नानुभवतीत्य् अर्थः । मम तु नयन-पदवीं यातोऽसि, अहो ते कृपा-महिमा ।

उपनीय तम् आत्मानं ब्रह्मापास्त-द्वयं यतः ।

हिनस्त्य् अविद्यां तज्जं च अस्माद् उपनिषन् मता ॥ इति ।

वसन्त-तिलकं छन्दः ॥९४॥

सुबोधिनी ॒ ततः समीपम् आगतं वीक्ष्य दृग्-दुर्लभस् त्वं कथं मद्-दृष्टि-गोचरोऽसीति तम् एव पृच्छति—हे स्वामिन् ! स प्राङ्-निर्दिष्टोऽसमानोर्ध्वस् त्वं ममानयोः प्राकृत-विषयिनोर् नयनयोः पदव्यां कया कृपया, नु प्रश्ने, संनिधत्से ? ताम् अहं न जाने, त्वम् एव कथयेत्य् अर्थः । प्राग्वत् ते स्फूर्तिर् एवेयम्, न, चिराच् चिर-कालं व्याप्य । न साचिर-काल-व्यापिनी ।

नन्व् अक्षि-संनिकृष्टे किं दौर्लभ्यं—सुष्ठु दृग् व्रज-सुन्दरीणाम् इव दृष्टिर् यासां तासाम् उपनिषद्-देवीनाम् अपि सहस्रं कदापि कस्मिंश्चिद् अवसरेऽपि चित्तेऽपि निदर्शनाय त्वत्-सादृश्य-दर्शनायाद्यापि न पश्यति । अतोऽस्मद्-दृग्-गोचरस् त्वं केवल-कृपयैव ॥९४॥

सारङ्ग-रङ्गदा ॒ अथ स्व-सामीप्यागतस्य स्थित्दस् तस्य साक्षाद्-दर्शन-प्राप्त्यित्य् अर्थःोन्मत्तः साश्चर्यं तम् एव पृच्छति—हे स्वामिन् ! व्रज-वधू-दृशा दृश्यं [श्लोक ४८] इत्य्-आद्य्-अनुसारेणासाम् एव दृशस् त्वम् ईदृशः कया नु कृपया मम नयनयोः पदव्यां सन्निधत्से । नु आशङ्कायाम् ।

ननु पूर्ववत् स्फूर्तिर् एवेयं तव इत्य् अत्र स-विमर्शम् आह—चिराद् बहु-कालं व्याप्य । तत्-स्फूर्तिर् नेयम् इत्य् अर्थः । ननु सत्यम् ईदृशोऽहम् अन्यागोचरः, किन्तु तव तादृशाभावाद् दृष्टोऽस्मि, किम् अत्र चित्रं ? अत्राह—अनयोः प्राकृत-पुरुष-देहाङ्ग-विशेषयोर् इति दुर्घटम् एतद् इत्य् अर्थः ।

ननु भवतु ते प्राकृत-पुंस्त्वं, तेन किं ? एतद्-भावेनैव यस्य कस्याप्य् अहं दृश्यः स्याम्, तत्र स-शिरश्-चालनं कैमुत्य-न्यायेनाह—सुदृशां वेणु-नाद-मत्त-त्रिजगद्-वर्ति-सुन्दरीणां तथोपनिषदाम् अपि सहस्रं यस्य तव त्वद्-अङ्गानां च साक्षाद्-दर्शनं तावद् दूरेऽस्तु, तन्-निदर्शनाय सादृश्य-दर्शनायापि किम् अपि कदापि चित्तेऽप्य् अद्यापि न पश्यति । यद् वा, पश्यन्तु, तत्राह—सुदृशाम् इति तथा तेन प्रकारेण त्वत्-प्राप्त्य्-अर्थं सुदृशः सत्यस् तपस्यन्तीनाम् अपीत्य् अर्थः । तदाभिर् गोप-सुन्दरीभिर् एव दृश्यस् त्वं यया कृपया मम साक्षाद्-भूतोऽसि का सेति कथ्यताम् इति भावः ॥९४॥

—ओ)०(ओ—

(९५)

केयं कान्तिः केशव त्वन्-मुखेन्दोः

कोऽयं वेषः कापि वाचाम् अभूमिः ।

सेयं सोऽयं स्वादताम् अञ्जलिस् ते

भूयो भूयो भूयस् त्वां नमामि ॥

कृष्ण-वल्लभा ॒ अथ शृङ्गार-रस-सर्वस्व-मूर्तेः श्री-कृष्णस्य साक्षाद् इवानुभूयमानं श्री-मुखेन्दोः शोभां वेषं च वर्णयन्न् आह—केयम् इति । हे केशव ! प्रशस्ताः केशा अस्येति । केशाद् वोऽन्यतरस्यां [पा. ५.२.१०९] इति सूत्रेण वः । त्वन्-मुखेन्दोस् तव मुख-चन्द्रस्येयं कान्तिः कात्य्-अपूर्वा । पद्म-चन्द्रादीनां कान्तिर् निरूपयितुं शक्यते, इयं तु वक्तुम् अशक्या । कान्तिस् तु दूराद् आस्तां, अयं वेषः कः ? वेषस् तिलक-रचनादि-निर्माणम् । निर्वक्तुम् अशक्य इत्य् अर्थः । कान्ति-वेषौ कथं वक्तुम् अशक्यौ ? तत्राह—वाचां काप्य् अभूमिर् अविषयः । अनिर्वचनीय-स्वाद्यत्वात् । तद् एवाह—सेयं कान्तिः सोऽयं वेषः स्वादतां स्वयम् एवास्वाद्यौ भवताम् । अस्माकम् आस्वाद्यौ न स्तः, तर्हि तदाशंसया किं ? तत्राह—ते तुभ्यम् अञ्जलिः प्रार्था-रूपः, तत्-प्रतिबन्धकाज्ञानावरण-निराकरणार्थम् । भूयो भूयो भूयशः । बह्व्-अल्पार्थः [पा. ५.४.४२] इति सूत्रेण बहुत्वे शम् । त्वाम् एव नमामि । तत्रोपायान्तराभावात् । यद् वा, सेयं सोऽयं स्वादतां चक्षुषा समासाद्यौ भवताम् । मद्-विधानां महा-दुरन्त-तद्-आशानां तादृश-सौभाग्यं त्वत्-कृपां विना न घटत इति भावः । शालिनी छन्दः ॥९५॥

सुबोधिनी ॒ पुनः श्री-मुखस्य तादृश-कान्ति-वेषौ च दृष्ट्वा स-नर्म पृच्छति—हे केशव ! उन्मुक्त-केश ! त्वन्-मुखेन्दोर् इयं कान्तिः—कान्ता-कच-ग्रहण [श्लोक ९१] इत्य्-आद्य्-उक्ता कादृष्ट-पूर्वा । तद्-उपलक्षितोऽयं वेषो वा कोऽदृष्ट-पूर्वः । अतस् त्वां पृच्छामीत्य् अर्थः । त्वम् एवानुभूय कथयेति चेत्, सा कापीयं स्वादतां सुष्ःतु आ सम्यग् अदताम् । एतद् आस्वादक-त्वत्-पार्श्व-वर्ति-जनानाम् अपि वाचाम् अभूमिर् अविषयम् । मम तु का वार्तेत्य् अर्थः । सोऽयं वेषोऽपि तथा । अतस् ते भूयो ममाञ्जलिर् एवास्तु । पुनः स-सम्भ्रमम्—भूयशस् त्वां नमाम्य् एव । केवलं न किञ्चिद् वक्तुं शक्य इत्य् अर्थः ॥९५॥

सारङ्ग-रङ्गदा ॒ पुनस् तादृश-श्री-मुख-कान्तिं वेष-सौष्ठवं च दृष्ट्वा तद् वर्णयितुम् उद्यतस् तद्-अशक्त्या स-चमत्कार-संशयं तं पृच्छति—हे केशव ! स्निग्ध-कुञ्चित-केश-रचित-चूड ! इयं त्वन्-मुखेन्दोः कान्तिः का ? अयं वेषश् च कः ?

ननु पूर्वं त्वयैव वर्जिताव् इमौ, तत्राह—इयम् अयं च काप्य् अनिर्वाच्या वाचाम् अभूमिः । नेमौ तद्-गोचराव् इत्य् अर्थः । यद् वा, इयं काप्य् अनिर्वाच्या, अयं च वाचाम् अभूमिः ।

ननु वर्णने शक्तिर् न चेत् तर्हि चक्सूर् मनोभ्याम् आस्वादयैति तथा चिकीर्षुस् तद्-अशक्त्या स-निश्चयम् आह—सेति । सा नाद्यापि [श्लोक ९४] इत्य् आदि-रीत्यास्मादृशैर् द्रष्ष्तुम् अशक्या गोईभिर् एवास्वाद्येयम् । अयं च स तादृशः । स्वयम् एवास्वादयताम् एव, नैतद्-वर्णनास्वादनाशया प्रयोजनम् । अतस् ते तुभ्यम् अञ्जलिर् अस्तु । भूयो भूयो भूयशस् त्वां नमामि । किं वा, तल्-लुब्धः स-कातर्यम् आह—तुभ्यम् अञ्जलिर् अस्तु, मुहुस् त्वां नमामि, इमौ स्वादताम् । मह्यम् इति शेषः । अन्तर् णिज्-अर्थो ज्ञेयः । यथेमौ मयास्वाद्यौ भवतस् तत्र कुर्व् इत्य् अर्थः ॥९५॥

—ओ)०(ओ—

(९६)

वदनेन्दु-विनिर्जितः शशी

दशधा देव पदं प्रपद्यते ।

अधिकां श्रियम् अश्नुतेतरां

तव कारुण्य-विजृम्भितं कियत् ॥

कृष्ण-वल्लभा ॒ अथ चन्द्र-मात्रे श्री-कृष्ण-मुखेन्दु-कान्ति-कणापि नास्तीति निर्धारितवान् अपि रासावसरोदित-चन्द्रस्य किञ्चित् तत्-सम्भावयन् श्री-कृष्ण-कृपा-विलसितं मन्वानो विस्मितम् इव हसन्न् आह—वदनेन्द्व् इति । हे देव ! क्रीदा-पर ! शशी स्वस्थश् चन्द्रस् तव वदनेन्दुना विनिर्जितः संस् ते तव पदं दशधा दश-प्रकारेण प्रपद्य नख-चन्द्र-दशकस्य तादात्म्यं भावयन्न् अधिकां श्रियम् अश्नुतेतराम् । या याधिकात्यधिक-श्रीस् तां प्राप्नोतीत्य् अर्थः । तव कारुण्य-विजृम्भितं कृपोद्रेकः कियद् एतत् । तत्-कृपयेतोऽपि महत् पदं प्राप्यते इति भावः । यद् वा, कियद् एतत् किं परिमाणम् इति न विद्मः । जितस् तु निःश्रीक एव भवति । अयं त्व् अधिकाम् एव श्रियं लेभे, एकोऽप्य् अनेको बभूव । अतः परं किं ते कारुण्यम् इति भावः । वैतालीयं छन्दः ॥९६॥

सुबोधिनी ॒ खण्डित-रागादिभिः का शोभा को वेष इति प्रतिवचनम् आशङ्क्य तच्-चरणम् एवात्र प्रमाणम् इति पुनस् तथैवाह—हे देव ! वदनेन्दु-विनिर्जितः शशी दश-खण्डम् आत्मानं कृत्वा ते पदं प्रपद्याधिकां शोभाम् अतिशयेनाप्नोति । अतस् त्वयीदृशाव् एव शोभा-वेषाव् इति भावः । ममैतद् दर्शनं तव कृपयैवेति प्राग् उक्तं द्रढयति—तव कारुण्यस्य विलसितं कियत् प्रमाणम् इति च न जानामीत्य् अर्थः ॥९६॥

सारङ्ग-रङ्गदा ॒ अथ तस्य स्व-कर्णामृत-रूप-स्वादर्शन-दुःख-स्व-दर्शनानन्दजोन्माद-प्रलाप-श्रवणानन्दिना तद्-वर्णनाशक्त्या नमस्कृत्य मौनम् आस्थितं तं दृष्टा पुनस् तद्-उक्ति-शुश्रूषुणा स्व-मुखादि-वर्णनेश्वरान्तर-भजन-वर-प्रार्थाद्य्-आज्ञया तत्-तत्-स्थापनाय च प्रेम-निष्ठादिकम् उद्घाटयितुं विवदमानेन श्री-कृष्णेन सह विवदमानः सप्तदश-श्लोकीम् आह—तत्र प्रथमं—अयि लीलाशुक चन्द्र-पद्माद्य्-उपमेयतया किम् इति मन्-मुखाद्य्-अङ्गं न वर्णयसीति तद्-वाक्यात् क्षणं विमृश्य—लीला-स्वयंवर-रसं लभते जय-श्रीः [श्लोक १] इतिवत् तान् अयोग्यान् मत्वा श्री-चरणारविन्दे दृष्टिं क्षिपन् कैमुत्येन भङ्गी-पूर्वकम् आह—हे देव ! अयं शश्य्-अखण्ड-निर्मलोज्ज्वलत्वद्-वदनेन्दोर् उदयेनैव स्व-पराजयं मत्वा श्री-नख-स्वरूपेण दशधात्मानं कृत्वा ते पदं प्रपद्येऽद्यापि सेवते । देवस्य तव पदं वा ।

ननु भद्रं, नखान् एव तथा वर्णय इत्य् अत्र न हि न हीत्य् आह—अधीति । अत्र त्वत्-कारुण्येनाधिकां श्रियं तत्-तद्-गुण-सम्पत्तिम् अश्नुतेतराम् । मुहुः प्राप्नोतीत्य् अर्थः । नखेन्दु-चन्द्रयोर् निर्दोष-सदोषत्वेन महद् वैषम्यात् ।

नन्व् एतत् प्राप्तिर् एव मे करुणेत्य् अर्थः । अतो योऽयं स्व-स्थः शशी स ते नख-साम्येऽप्य् अयोग्य इति भावः ॥९६॥

—ओ)०(ओ—

(९७)

तत् त्वन्-मुखं कथम् इवाम्बुज-तुल्य-कक्षं

वाचाम् अवाचि ननु पर्वणि पर्वणीन्दोः ।

तत् किं ब्रुवे किम् अपरं भुवनैक-कान्त-

वेणु त्वद्-आननम् अनेन समं नु यत् स्यात् ॥

कृष्ण-वल्लभा ॒ सङ्गत्यत्याश्चर्य-रूपेण स्फुरच्-छ्री-कृष्ण-मुखं पुनर् वर्णयति—तत्-त्वन्-मुखम् इति । ननु विभो श्री-कृष्ण तत् त्वन्-मुखं कथम् इवाम्बुज-तुल्य-कक्षं पद्म-सदृशम्, नित्य-प्रफुल्लत्वात् । तर्हि चन्द्र-समं भवतु, नहि नहि इन्दोर् यत्-पर्वणि, सौभाग्यम् इति शेषः । न तु सर्वदा, तच् च वाचाम् अवाचि वाचाम् अधः । अवाञ्चनम् अवाक् । सम्पदाहित्वात् [वार्तिक पा. ३.२.९४] क्विप् । वक्तुं शक्यम् । इदं तु न तथा । तथापि तस्य पर्वणि पर्वण्य् एव पूर्णता, इदं तु सदा पूर्णम् । यद् वा, मुखं विशिनष्टि—पर्वणि पर्वणीन्दोर् वाचाम् इन्दु-प्रतिपादक-वचसाम् अवाचि । वाचयितुं शीलम् अस्य वाचि, न वाच्य् अवाचि । इन्दुर् नाम कश्चिद् अस्तीति शब्दम् अपि कोऽपि न प्रयुङ्क्त इत्य् अर्थः । अथवा, इन्दोः पर्वणि पर्वण्य् अमावस्याम् अवावस्यां यद् यद् अवाचि । अवाचयितुं शीलम् अस्य तत् । तत् तस्मात् किं ब्रुवे कथयामि । न किम् अपि ब्रूयां यद् अन्यद् एतत्-सदृशम् इति भावः ।

नन्व् अपरं मन्-मुखम् एवैतन्-मुख-तुल्यं स्याद् इति चेद् अत आह—अपरं त्वद्-आननं किं भुवनैक-कान्त-वेणु । भुवनेष्व् एकःः सुख-सीमा वेणुर् यत्र तत् । यद् अपरं त्वद्-आननम् अनेन त्वन्-मुखेन समं नु स्यात् । एवं योज्यं वा—यत् त्वन्-मुखं भुवनैक-कान्त-वेणु तादृशम् अनेन समम् अपरं त्वद्-आननं किं स्यात् । न स्याद् एवेति । वेणु-युतं श्री-मुखं श्री-वृन्दावन-गोचरस्य भवत एव, नापरस्य तवावतारस्येति भावः । वसन्त-तिलकं छन्दः ॥९७॥

सुबोधिनी ॒ अतस् तवेदं मुखं निरुपमम् इत्य् आह—ननु वितर्के तत् तथा-भूतं त्वन्-मुखम् अम्बुजं तुल्य-कक्षायां यस्य तादृशं कथं स्यात् ? तत्राम्बुजे दोषं वदंश् चन्द्रं दूषयति—दर्शे दर्शे इन्दोर् यद् भवति तद्-वाचाम् अप्य् अवाचि, वाचापि न वाच्यम् । क्षय-शब्दस्यमङ्गल्याद् वचनायोग्यम् इत्य् अर्थः । यदीन्दोर् ईदृग-अवस्था तदा त्वत्-पाद-तिरस्कृताब्जस्य कथं तदास्य-तुल्यत्वम् इत्य् अर्थः । क्षणं विमृश्य, अपरं तवैवापर-स्वरूपाणां वा मुखं ब्रूषे—नु भो इदं त्वद्-आननम् अनेन तद्-आननेन सम किं कथं ब्रूवे ? तद् अपि समं वक्तुं न शक्नोमीत्य् अर्थः । तत्र हेतुः—यद् यस्मात् त्वद्-आननं भुवनानाम् अनन्त-वैकुण्ठादि-लोकानाम् । तन्-नाथानाम् इत्य् अर्थः । एकः कान्तः केवलं द्रष्टुम् आकाङ्क्षितो वेणुर् यत्र तादृशम् ॥९७॥

सारङ्ग-रङ्गदा ॒ नन्व् अये त्वं बालोऽसि—

एको हि दोषो गुण-संनिपाते

निमज्जतीन्दोः किरणेष्व् इवाङ्कः । [कु.सं. १.३] इति ।

तत्-साम्येन वा मन्-मुखं किं न वर्णयसीति तेन सह विवदमानो भङ्ग्याह—तन्-निरुपमम् एतत् त्वन्-मुखम् अम्बुजं तुल्य-कक्षायां यस्य तादृशं कथं भवेत् ।

ननु किम् अत्र दूषणम् इत्य् अत्र चन्द्रे दोषान्तरं वदन् पद्मम् अप्य् अतितरां दूषयति—पर्वणि पर्वणि दर्शे दर्शे इन्दोर् यद् भवति तद् वाचाम् अवाच्य् अधः । संक्षयस्यामङ्गल्याद् वाग्-विषयेऽपि कर्तुं न योग्यम् इत्य् अर्थः । यदीन्दोर् अप्य् एवं तदा तत्-पदाघातै स्तिरकृतस्य पद्मस्य कथं त्वन्-मुख-साम्यम् इति भावः ।

ननु न भवतु तत्-साम्यं, वर्ण्यं चेत् तर्हि केनाप्य् अपरेण मुखेन्दुना समतया वर्णयेति, क्षणं विमृश्य, आम् अपरं तवैव व्रज-विलासि-स्वरूपाद् अपर-स्वरूपाणां मुखं किं देवेनोच्यते—नु भोः स्वामिन् ! इदं त्वद्-आननम् अनेन तत्-तद्-आननेन समं यत् स्यात् तत् किं ब्रुवे ? कथम् एतत् कथयामि ? तत् तु मया वक्तुं न शक्यत इत्य् अर्थः ।

ननु किं विक्षिप्तोऽसि, तद् एतन् मुखम् एकम् एव, कस् तावद् असाम्ये हेतुर् इति । बहून् हेतून् हृदि विभाव्यैकम् एव सकरम् आर्जनं नीचैर् आह—इदं त्वद्-आननं भुवनैक-कान्तो वेणुर् यत्र तादृशम् । एतद् अपूर्वामृतं तेषु नास्ति, मया किं कर्तव्यम् इत्य् अर्थः । यद् वा, तत् तस्माद् अनेनाब्जेनेन्दुना च त्वन्-मुखं समं यत् स्यात् तत् किं ब्रुवे कथं ब्रवीमि ? किम् अपरं श्री-मुखादि त्वयोच्यते, अनेनापि समं यत् स्यात् तद् अहं कथं ब्रुवे, यद् इदं भुवनैक-कान्त-वेणु ? अपर-शब्दस्यान्यद् यत् किञ्चिद् अर्थे कृते भुवनेति विशेषणस्य वैयर्थ्यं स्यात् ।

दर्शे दर्शे क्षयी चन्द्रस् तेनाप्य् अर्दितम् अम्बुजम् ।

निर्वर्णून्य् अपरास्यानि केन तुल्यं त्वद्-आननम् ॥९७॥

—ओ)०(ओ—

(९८)

शुश्रूषसे शृणु यदि प्रणिधान-पूर्वं

पूर्वैर् अपूर्व-कविभिर् न कटाक्षितं यत् ।

नीराजन-क्रम-धुरां भवद्-आननेन्दोर्

निर्व्याजम् अर्हति चिराय शशि-प्रदीपः ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्णं प्रत्य् एव स्व-कृतां तन्-मुखेन्दु-वर्णनाम् आह—शुश्रूषस इति । हे विभो ! यदि शुश्रूषसे श्रोतुम् इच्छसि, तदा प्रणिधान-पूर्वम् अवधान-पूर्वकं शृणु, पूर्वैः प्राचीनैर् अपूर्व-कविभिः । अपूर्वा अद्भुता ये कवयस् तैः । यन् न कटाक्षितम् अल्पम् अपि न दृष्टम् । किं तत् ? इत्य् आह—शशि-प्रदीपो भवद्-आननेन्दोर् भवतस् तवानन-चन्द्रस्य नीराजन-क्रम-धुरां निर्मञ्छन-परिपाटी-भारं निर्वाजं निष्कपटं चिराय चिरम् अर्हति योग्यो भवति । चन्द्रस् तव वदनस्योपमां नार्हत्य् एव, किं तु निर्मञ्छनार्थं प्रदीप इवार्हतीत्य् अर्थः । अन्य-प्रदीपेनोष्णेनानाह्लादकेन कृष्ण-मुख-नीराजस्यानौचित्यात् । कृष्ण-मुखेन्दौ विभ्राजमाने चिद्-अचिल्-लोक-मात्राप्लावि-परमानन्द-सुधा-रस-शिशिर-चन्द्रिकाम्भोधि-वर्षिण्य् अन्य-चन्द्रस्य प्रयोजनाभावाद् वेति भावः । वसन्त-तिलकं छन्दः ॥९८॥

सुबोधिनी ॒ तर्हि यथा शक्यसे तथैव कथयेति चेत् तत्र स-नर्माह—यदि श्रोतुम् इच्छसि तर्हि सावधानं शृणु । किं तद् इति स-गर्वम् आह—प्राचीनैर् आधुनिकैर् अपि कविभिर् नेक्षितम् इति यत् । तद् एव किं ? अयम् इन्दुर् निष्कपटं यथा स्यात् तथा चिराय चिर-कालं व्याप्य तन्-मुखम् आराध्य शशि-प्रदीपः कर्पूर-दीपो भूत्वा भवद्-आननेन्दोर् नीराजनस्य क्रमे क्रम-दीप-मण्डले या धूर् भारः, तद्-अधिकार इत्य् अर्थः । ताम् अर्हति । तन्-मण्डलं प्रविश्य त्वन्-मुखं निर्मञ्छ्य दूरे प्रक्षेप्तुं योग्यो भवति । नोपमायोग्य इत्य् अर्थः ॥९८॥

सारङ्ग-रङ्गदा ॒ ननु यद्य् एवं तर्हि कवयः कथं मन्-मुख-स्मितादिकं तत्-तत्-साम्येन वर्णयन्ति—त्वया वा कथं न वर्ण्यम् इत्य् अत्र स-गर्व-परिहासम् आह द्वाभ्याम् । भो विदग्ध-शेखर ! यदि शुश्रूषसे तदा पूर्वैः प्राचीनैर् अपूर्व-कविभिर् यत् प्रणिधान-पूर्वम् अपि न कटाक्षितं न दृष्टं तच् छृणु । यद् वा, प्रणिधान-पूर्वं शृण्व् इति परिहासः । सावधानः सन्न् इत्य् अर्थः । किं तत् ? अयं शशि-प्रदीपो भवद्-आननेन्दोर् नीराजन-क्रम-धुरां निर्मञ्छन-परिपाटी-भारं चिराय निर्व्याजं यथा स्यात् तथार्हति । त्वद्-आननं निर्मञ्छ्य दूरे प्रक्षेप्तुं योग्योऽयम् इत्य् अर्थः ॥९८॥

—ओ)०(ओ—

(९९)

अखण्ड-निर्वाण-रस-प्रवाहैर्

विखण्डिताशेष-रसान्तराणि ।

अयन्त्रितोद्वान्त-सुधार्णवानि

जयन्ति शीतानि तव स्मितानि ॥

कृष्ण-वल्लभा ॒ अथ श्री-कृष्ण-परम-महानन्द-रस-साम्राज्याविर्भावक-स्फूर्त्या समुल्लसित आह—अखण्डेति । हे कृष्ण ! तव शीतानि परमाह्लादकानि स्मितानि जयन्ति । कीदृशानि ? अखण्डेति । अखण्डा न विद्यते केनापि खण्डनं येषाम् एवं-भूता ये निर्वाण-रस-प्रवाहैर् परमानन्द-रसास् तेषां प्रवाहैः । अखण्डैस् तत्-प्रवाहैर् वा । विखण्डिताशेषाणि रसान्तराणि येषु यैर् वा तानि ।

पुनः कीदृशानि ? अयन्त्रितोद्वान्त-सुधार्णवानि । अयन्त्रितम् अनर्गलं यथा स्यात् तथा उद्वान्ता उत्कऋष्टतयोद्गीर्णा सुधार्णवाः प्रेमामृताम्बुधयो यैस् तानि । किम् अम्बुजं किं वा चन्द्र इति केवलं हि तत् स्मितानि महा-दुरन्त-सन्ताप-शान्ति-जनकानीत्य् अर्थः ॥ उपेन्द्र-वज्रा छन्दः ॥९९॥

सुबोधिनी ॒ एतच् छ्रुत्वा स्मयमानम् आलोक्य त्वन्-मुखम् एवात्र प्रमाणम् इति पुनस् तथाह—तव स्मितानि जयन्ति मद्-वचनम् अनुमोद्य सर्वोत्कर्षेण वर्तन्ते । तद् एवाह—अखण्डः पूर्णः स्वयं सङ्कुचन्त्यो निर्वाण-रस आनन्द-रूपोऽङ्गी शृङ्गार-रसस् तस्य प्रवाहैर् हऋस-गर्वादिभिः खण्डिता निर्भिद्यात्म-सात्कृता अशेष-रसाः करुणादयो यैः । अत एव स्वातन्त्र्येणोच्चैर् वमिता आविष्कृता आनन्द-सिन्दवो यैः, तेनैव शीतानि ॥९९॥

सारङ्ग-रङ्गदा ॒ किं च, तव स्मितानि जयन्ति सर्वोपमानानि विजित्य सर्वोत्कर्षेण वर्तन्ते । कीदृशानि ? अखण्ड-निर्वाण-रस-प्रवाहैः सर्वतः प्रसरद्भिः पूर्णानन्द-रस-पूरैर् विखण्डितान्य् आप्लाव्य न्यक्कृतान्य् अशेषाणि रसान्तराणि यैः । तथा, अयन्तिर्तेनायन्त्रणेन, स्वभावेनेत्य् अर्थः । उद्वान्ता सुधार्णवा यैः, तथा शीतान्य् अतिशीतलानि । शैत्य-माधुर्यानन्द-रस-पराकाष्ठा-रूपाणीत्य् अर्थः ॥९९॥

—ओ)०(ओ—

(१००)

कामं सन्तु सहस्रशः कतिपये सारस्य-धौरेयकाः

कामं वा कमनीयता-परिमल-स्वाराज्य-बद्ध-व्रताः ।

नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे

यत् सत्यं रमणीयता-परिणतिस् त्वय्य् एव पारं गता ॥

कृष्ण-वल्लभा ॒ अथ स्वानुभवेन श्री-कृष्ण-रहस्यं परमं निर्धार्य तद्-रसास्वादैकासक्त-चेताः शपथ-पूर्वकं स्वानुभूतम् एवार्थम् आह—कामम् इति । सारस्य स्थिरांशस्य धौरेयका धुरीणाः । यद् वा, सारस्यं सरसता तस्य धौरेयका युक्ति-भारैः सार-निर्धारका इत्य् अर्थः । कामं यथेष्टं कतिपये सहस्रशः सन्तु । कामं वा कमनीयतायाः परिमलः प्रसस् तस्य स्वाराज्यं परमोत्कर्षस् तत्र बद्धं व्रतं नियमो यैस् तादृशा अपि सहस्रशः सन्तु । हे देव सर्वदा मोदमान, एवं ते तथा विवदन्ते प्रियं च वदन्ति, तथा वयं नैव विवदामहे, विमत्या न वदामः । भासनोपसम्भाष [पा. १.१.४७] इति वदेस् तङ् । न च प्रियं ब्रूमहे । न च परमत-खण्डनार्थं, न च स्व-गोष्ठी-प्रियार्थम् इत्य् अर्थः । अयं भावः—तत्र कतिपय एव गोपी-जन-विनोदि-शुद्ध-गोपाल-किशोर-रूप-सार-भारं वहन्तः सारान्तरं दूषयन्तः प्रगाढ-युक्तिभिः स्थापयन्ति । अपरे तु तद्-भावना-प्रधानास् तस्मिन्न् एव मधुर-शुद्ध-रस-मय-विलासवति कमनीयतायाः परमोत्कर्ष-विश्राम इति । अन्ये तु प्रतिभानम् । तत्र वयं न विप्रतिपद्यामह इति । तर्हि यूयं किं ब्रूथ ? यत् सत्यं तद् एव वयं शपथ-पूर्वकं ब्रूमः । किम् एतत् ? रमणीयतायाः परिणतिर् उत्कर्षस् त्वय्य् एव पारं गता । रमणीयता-परमोत्कर्षस् त्वय्य् एवेत्य् अर्थः । शार्दूल-विक्रीडितं छन्दः ॥१००॥

सुबोधिनी ॒ एतत् तवातिस्तुतिर् न, किं तु सत्यम् एवेति स-गर्वम् आह—हे देव सरसताया भारवाहाः सहस्रशो यथेष्टं सन्तु । तेभ्यस् त्वम् अतिसरस इति तैः सह विवादं नैव कुर्मः । तथा, कर्मनीयतानां योऽसाधारण-गुणस् तस्य साम्राज्ये बद्धं व्रतं यैर् नित्य-कमनीया वा कतिपये कामं सन्तु । किं तत् ? कमनीयतानां परिणतिर् नराकृतितया त्वय्य् एवावधिं प्राप्ता । अतः स्वभावोक्त्या न स्तुतिर् इत्य् अर्थः ॥१००॥

सारङ्ग-रङ्गदा ॒ ननु कति कति सरस-मधुर-शेखरा लोके सन्ति, किम् इति तान् हित्वा मया विवदमानः स्वोक्तिम् एव स्थापयन्तम् एवात्युक्त्या स्तौषीति तान् प्रति सावहेलं तं प्रति स-विनयम् आह—हे देव सारस्य-धौरेयकाः सरसता-भार-वाहिनः सहस्रशः कामं सन्तु । तेषां मध्ये कमनीयता-परिमल-स्वाराज्य-बद्ध-व्रताः सर्वातिकमनीया वा कतिपये कामं सन्तु । ते ते न सन्टित्य् एवं त्वया सह न विवदामहे । न च तव प्रियं ब्रूमहेऽसद्-गुणाध्यारोपेण त्वां स्तौमि । किं तु सत्यम् एव ब्रूमहे । यद्य् अतो या रमणीयता-परिणतिः सा त्वय्य् एव पारं गतावधिं प्राप्ता । अतः स्वभावोक्त्या नायं विवादः स्तुतिर् वेति भावः ॥१००॥

—ओ)०(ओ—

(१०१)

गलद्-व्रीडा लोला मदन-विनता गोप-वनिता

मद-स्फीतं वीतं किम् अपि मधुरा चापल-धुरा ।

समुज्जृम्भा गुम्फा मधुरिम-किरां मादृश-गिरां

त्वयि स्थाने याते दधति चपलं जन्म सफलम् ॥

कृष्ण-वल्लभा ॒ सम्प्रति परम-महानन्द-सुधा-रसाभिवर्षिणः श्री-कृष्णाद् एव सर्व-प्राकट्य-सफलतां वर्णयन्न् आह-गलद्-व्रीडेति । हे कृष्ण ! त्वयि याते प्राप्ते सति, चपलं त्वरितम् एव जन्म प्राकट्यं सफलं दधति धारयन्ति । सत्वरं चपलं तूर्णम् इत्य् अर्थः । त्वत्-प्राप्त्य्-अनन्तरम् एव परमानन्द-प्राप्त्या साफल्यं स्याद् इत्य् अर्थः । तत् स्थाने युक्तम् । स्थाने क्रीडा-स्थाने वृन्दावनादाव् इति वा ।

ये प्राकट्यस्य साफल्यं दधति ते के ? इत्य् आह—गोप-वनिताः । गोप्यः कीदृश्यः ? गलद्-व्रीडाः । गलन्ती व्रीडा लज्जा याभ्यः । अत एव लोलाश् चञ्चलाः स-तृष्णा वा । मदन-विनता मदनेन कामेन विनता विशेषेण नम्राः । मदनोऽपि विनतो याभ्य इति वा । मद-स्फीतं मदेन स्मर-भावेन स्फीतं समृद्धम् । वीतं विविधम्, विशिष्टं वा । इतम् इतस् ततः श्री-कृष्ण-सङ्गमार्थं गमनम् । ज्ञानं वा महा-रसोल्लास-युत-दृग्-वाग्-अङ्ग-चेष्टित-विशेषाणाम् । यद् वा, वीतं वीनां श्री-वृन्दावन-पक्षिणाम् इतं गतं मदेन हर्षेण स्फीतम् ।

किम् अप्य् अत्याश्चर्य-रूपा मधुरा चापल-धुरा स्मर-चापल्य-भारः । यद् वा, मधुरा मथुरा । मादृशस्य तत्-परिवारस्य गिरां गुम्फा रचनाः समुज्जृम्भाः । सम्यग् उज्जृम्भणम् उल्लासो यासां तासां गिराम् । कीदृशं ? मधुरिम-किराम् । मधुरिमाणं किरन्ति वर्षन्ति या गिरः सदैक-पदे रस-विशेषोल्लासासिन्यस् तासाम् । त्वयि स्थाने वृन्दावन-निकुञ्ज-पुञ्ज-रूपे प्राप्ते सति गोपी-गति-चापल्य-वाग्-गुम्फनादीनि प्राकट्यं सफलं दधतीति समुदायार्थः । शिखरिणी छन्दः ॥१०१॥

सुबोधिनी ॒ पुनर् मौनेन स्व-वचनम् अनुमोदमानम् आलक्ष्य स-हर्षम् आह—मत्-सदृश्यो या गिरस् तासां गुम्फा ग्रहनानि जन्म सफलं दधति । कस्मिन् सति ? त्वयि स्थाने विषये जाते सति । कीदृशां ? मधुरिमाणम् अन्तः-स्फूर्त्या किरन्त्य् उद्वमन्ति यास् तासाम् । तज्-जन्मनः स्वस्य सादृश्यं व्यञ्जयति—चपलम् । वस्तु ज्योतिः शिशुर् इत्य् आदिष्व् अनवस्थितेः । यथाहम् अनवस्थितात्मा तथेदम् अपीत्य् अर्थः । तत् कुतः ? मदेन हर्षेण स्फीतं वर्धितम् । तद् अपि कथं ? वीतं विशिष्ट-विषयम् इतं प्राप्तम् । अत एव मधुरं च तद् आ सम्यक् चापलं चेति तत् तथा । तस्य धुरातिशयेन किम् अप्य् अनिर्वचनीयम् । समासान्त-विधेर् अनित्यत्वादात्प्रत्ययाभावः [पा. ५.४.७४] । कीदृश्यो गुम्फाः ? गलन्ती व्रीडा यासु । तत् कुतः ? लोलाः सतृष्णाः । तद् अपि कुतः ? मदनेन तत्-प्राप्त्य्-अभिलाषेण विनता उद्धताः । तत्र हेतुः—वक्तव्यतया गोप-वनिता यासु । मत्व्-अर्थीयः । अत एव सम्यग्-उज्जृम्भोत्फुल्लता यासु ॥१०१॥

सारङ्ग-रङ्गदा ॒ किं च, पूर्वं ते ते मया कति न वर्णिताः सन्ति, किं त्व् इदानीम् एव मत्-कवित्वादिकं च सफलं जातम् इति सहर्षम् आह—मादृशां गिरां गुम्फा प्रथनानि त्वयि स्थान आश्रये याते प्राप्ते । वर्गीय-ज-कार-पाठः क्वचित्, तत्र जाते भूते सति । जन्म सफलं दधति । उत्तम-पदार्थानां त्वत्-प्राप्ताव् एव कृतार्थत्वम् इति भावः । तद् उत्तमत्वम् आह—कीदृशां गिराम्—मधुरिम-किराम् । माधुर्यादि-कवित्व-गुण-युक्तानाम् इत्य् अर्थः । कीदृश्यस् ताः—सम्यग् उज्जृम्भा यत्र । पूर्वम् असद्-गुणाध्यासेन वर्णनात् सङ्कुचिता इदानीं ते सहजानन्त-गुण-वर्णनाद् उत्फुल्लाः ।

कीदृशं जन्म ? चपलं गत्वरम्, पूर्वं तादृशत्वेन व्यर्थम् अपि । तदैव तत्-समीपे गोपीर् वीक्ष्य—एताः परं तनु-भृतः [भा.पु. १०.४७.५८] इत्य् आदिवत् स-श्लाघम् आह—न केवलं वराक्यो मद्-वाग्-गुम्फा दधति ।

नन्व् आसां स्व-स्व-पति-मतीनां जन्म सफलम् एवेति नेत्य् आह—पूर्वं त्वद्-अप्राप्त्या देह-त्यागस्य निश्चितत्वाच् चपलम् अपि रासारम्भे कासांचित् तथा-दर्शनात् । तद्-गुणान् आह—मदनेन त्वद्-विषयक-प्रेम-विशेषेण विनता नम्राः । तत्-प्रचुरा इत्य् अर्थः । तथा हि—प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् इति तन्त्रे । अतः लोलास् त्वत्-प्राप्तये चञ्चलाः स-तृष्णा वा । ततः, गलद्-व्रीडास् त्यक्त-लोक-लज्जाः । तदैव तत्-कैशोर-माधुर्यं वीक्ष्य स-शीत्कारम् इदं वय इति विवक्षुस् तन्-माधुर्य-स्तम्भितः स-गद्गदम् आह—इदं किम् अपि । वय इत्य् अर्थः । तथा जन्म सफलं दधाति । तद् एव व्यञ्जयति—वीतं बाल्यांशेन विगत-प्रायम् । नव-तारुण्यांशेन कन्दर्प-मदेन स्फीतम् । विशेषणाभ्यां कैशोरम् इत्य् अर्थः ।

ननु तद् अन्यत्र दिव्यादिव्य-किशोरेषु सफलम् एव इत्य् अत्र नेत्य् आह—पूर्वम् अन्यत्रैतादृश-रास-कुञ्ज-लीलाद्य्-अप्राप्त्या चास्थिरतया च व्यर्थम् अपि । तथा हि विष्णु-पुराणे—

सोऽपि कैशोर-कवयो मानयन् मधुसूदनः ।

रेमे स्त्री-रत्न-कूटस्थः [वि.पु. ५.१३.६०] इत्य् आदि ।

तथा रसामृत-सिन्धौ—

वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां

व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।

तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः

कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ [भ.र.सि. २.१.२३१] इति ।

तस्य नृत्यादि-चापल्यं दृष्ट्वाह—चापल-धुरा चञ्चलातिशयश् च तथा ।

ननु शम्पा-मनः-पवनादौ सापि पूर्णा ? नेत्य् आह—मधुरा । एकेन वपुषासङ्ख्याङ्गना-पार्श्वे स्थित्य्-आदिनातिमनोज्ञा । तथा हि रसामृत-सिन्धौ—

अघहर तव वीर्य-प्रोषिताशेष-चिन्ताः

परिहृत-गृह-वास्तु-द्वार-बन्धानुबद्धाः ।

निज-निजम् इह रात्रौ प्राङ्गनं शोभयन्तः

सुखम् अविचलद्-अङ्गाः शेरते पश्य गोपाः ॥ [भ.र.सि. २.४.१७४] इति ।

पूर्वं तादृशत्वाभावाच् चपलम् अपि । त्वयि रम्यास्पदे प्राप्ते मद्-वाग्-गुम्फा न केवलं सफलाः, किं तु कैशोर-लौल्य-गोपाङ्गना अपि ॥१०१॥

—ओ)०(ओ—

(१०२)

भुवनं भवनं विलासिनी श्रीस्

तनयस् तामरसासनः स्मरश् च ।

परिचार-परम्पराः सुरेन्द्रास्

तद् अपि त्वच्-चरितं विभो विचित्रम् ॥

कृष्ण-वल्लभा ॒ अथ विशुद्ध-पूर्ण-मधुर-प्रेम-रस-मयस्य श्री-कृष्णस्य स्वरूप-मात्राद् उत्कर्षं वर्णयितुं तद् अन्यत्र स्वस्य चित्र-बुद्ध्य्-अभावम् आह—भुवनम् इति । हे विभो ! विविध-रूपो भवतीति विभुः । अनन्त-रूपेण सदा वर्तमानेत्य् अर्थः । भुवनम् एव भवनं गृहम् । श्रीर् एव विलासिनी स्त्री । तामरसासनः—तामरसं कमलम् आसनं यस्य सः । पङ्केरुहं तामरसं सारसं सरसीरुहम् इत्य् अमरः । तामरसासनो ब्रह्मा, स्मरः कामश् च तनयः पुत्रः । सुरेन्द्रा इन्द्रादयः परिचार-परम्पराः सेवक-समूहाः । इति तद् अपि त्वच्-चरितं विशुद्ध-गोपाल-भावेन कृतं गोपी-सहित-स्मर-विनोद-पर्यन्तं विचित्रं विगत-चित्रम् । मम कुत्रापि नाश्चर्य-बुद्धिर् इत्य् अर्थः । विचित्रम् इति नपुंसकम् अनपुंसकेन [पा. १.२.६९] इत्य् एक-शेष एकवत्त्वं च । अथवा, हे विभो ! परिपूर्ण-समस्त-स्वरूपाद्य्-आश्रयतदपि त्वच्-चरितम् एव विचित्रम् अद्भुतं, न तु मद्-विधानां मनोहरम् । किं तत् ? भवनं भुवनम् इत्य् आदि पूर्ववत् । औपच्छन्दसिकं छन्दः ॥१०२॥

सुबोधिनी ॒ अथ कामं सन्तु [श्लोक १००] इत्य् आदि पूर्वोक्तम् अनूद्य तद्-विशिष्ट्यं द्रढयति—हे विभो सर्वावतारिन् ! यस्मिंस् त्वच्-चरिते भुवनं जलं भवनं तन्-मध्ये गृहम्, विलासिनी श्रीर् लक्ष्मीः, तनयस् तामरसासनो ब्रह्मा, तद् अपि चित्रं त्वच्-चरित्रम् । किम् ईदृशम् ऐश्वर्य-मयतया—नेत्य् अपेर् अर्थः । यत्र च त्वद्-भवनं द्वारवत्य्-आख्यम्, तनयः स्मरः प्रद्युम्नः, च-काराद् विलासिन्यो रुक्मिण्य्-आदयः, सुरेन्द्रा अवतारितेन्द्राद्याः परिचार-परम्पराः सेवकाः, तद् अपि किम् ईदृशं प्रेम-भक्ति-मयतया—न । अतः केवल-प्रेम-मयं गोपीभिः सह रासादि त्वच्-चरितं सर्वोत्तमम् एव ॥१०२॥

सारङ्ग-रङ्गदा ॒

भावोद्भावित-हर्षेर्ष्या-प्रौढि-दैन्यार्ति-मिश्रितम् ।

पुनः स तद्-वचः श्रोतुं कौतुकी तम् अवादयत् ॥

ननु, ईश्वरः सर्व-भूतानां हृद्-देशे [गीता १८.६१] इत्य् आदौ प्रतिपदस्येत्य् आदि-गीतादि-शास्त्रोक्त-भजनीयम् ईश्वरं हित्वा किम् इति गोप-कुमारं माम् एव सर्वोत्तमत्वारोपेण स्तुवन्न् आश्रयसीति तत्-तद्-भाव-विवशः सहस्त-चालनम् आह—हे विभो ! सर्वावतारिन् ! यस्मिंस् त्वच्-चरिते भुवनं भवनं सर्वान्तर्यामित्वाद् आश्रयः । तत् ततोऽप्य् अनुमेयैश्वर्य-मय-चरित्राद् अद्भुताद् दृश्यमानस्य तद् एवं नेत्र-रसायनं चरितं विचित्रम् उत्तमम् । यद् वा, तद् अपि त्वच्-चरितं तादृशं न भवतीति को नाम विवदते । तद् अपीति—इदं तु विचित्रम् अद्भुतम् एवेत्य् अपेर् अर्थः । एवम् अग्रेऽपि ज्ञेयम् ।

नन्व् एवं चेत् तर्हि दृश्यैश्वर्या विष्णु-वामनाजितादयः सन्ति, तान् एव भजेति स-स्मितम् आह—यत्र सुरेन्द्रा इन्द्रादयः परिचार-परम्पराः । अनुगा इत्य् अर्थः, ततोऽपि युद्धादि-मय-पालन-केलि-रूपाद्यद्भुताच् चरिताद् इदं त्वच्-चरितं मधुरैश्वर्य-मयं विचित्रम् अत्युत्तमम् ।

ननु युद्धादि-विमुखो गर्भोदक-शायी पुरुषोऽस्तीत्य् अधो-नेत्र-चालनम् आह—यत्र तामरसासनो ब्रह्मा तनयः, ततोऽपि सृष्ट्य्-आदि-केलि-रूपाद् अतिसर्वाद्भुताच् चरिताद् इदं मधुर-रस-मयं त्वच्-चरितम् अतिसर्वोत्तमम् ।

ननु त्वं मधुर-रस-रसिक-भक्तोषि, तत्-परम-व्योमेशं लक्ष्मीशं भजेति सोर्ध्व-भ्रू-चालनम् आह—यत्र श्रीर् एका विलासिनी ततोऽपि मधुर-रस-मयाद् अतिसर्वाद्भुततराच् चरिताद् इदं, नायं श्रियोऽङ्ग [भा.पु. १०.४७.६०] इत्य् आदि-संस्तुत-विलासिनी-कोटि-विलास-वलितं त्वच्-चरितम् अतिसर्वोत्तमतरम् ।

नन्व् एवं चेत् तर्हि रुक्मिण्य्-आदि-रमणं माम् एव भजेति स-शिरश्-चालनम् आह—यत्र स्मरश् च तनयः । च-कारात् साम्बादयः । ततोऽपि स्वीयाभिर् दश-दश-पुत्रवतीभिः सङ्ख्याताभिस् ताभिः सह केलि-रूपाद् अतिसर्वाद्भुताद् अद्भुततमाच् चरिताद् इदं परकीया-सङ्ख्य-नृत्यत्-किशोरी-कुलैः सह रासादि-केलि-मयं त्वच्-चरितम् अतिसर्वोत्तमतमम् एव मया सेव्यम् इति भावः ॥

बहूनि त्वच्-चरितानि चित्राण्य् एव तथाप्य् अदः ।

मत्-सेव्यं मधुरैश्वर्य-रूप-केलिभिर् उत्तमम् ॥१०२॥

—ओ)०(ओ—

(१०३)

देवस् त्रिलोकी-सौभाग्य-

कस्तूरी-मकराङ्कुरः ।

जीयाद् व्रजाङ्गनानङ्ग-

केलि-लालित-विभ्रमः ॥

कृष्ण-वल्लभा ॒ तर्हि तव मनोहरं वस्तु कीदृग् इत्य् अत आह—देव इति । दीव्यति क्रीडति द्योतते मोदते माद्यति वेति देवः श्री-कृष्णो जीयात् । सर्वोत्कृष्ट-स्वरूपो मम चक्षुर्-विषयतया प्रकटो भवत्व् इत्य् अर्थः । कीदृशः ? त्रिलोकी-सौभाग्य-कस्तूरी-मकराङ्कुरः । त्रयाणां लोकानां समूहस् त्रिलोकीत्य् उपलक्षणम् । सैव नायिका तस्याः सौभाग्य-प्रदः कस्तूरी-मकराङ्कुरः पत्राङ्कुर एव । यद् वा, त्रिलोक्यां सौभाग्य-प्रदः कस्तूरी-मकराङ्कुरो यत्र । आलिङ्गनेन लग्नत्वात् । अत एव व्रजाङ्गनानङ्ग-केलि-लालित-विभ्रमः । व्रजाङ्गनानाम् अनङ्ग-केल्या लालितः पोषितो विभ्रमो विलासो यस्य सः ॥ अनुष्ठुप् छन्दः ॥१०३॥

सुबोधिनी ॒ तच्-चरितस्य श्रेष्ठत्व-विचित्रत्व-व्यक्त्यैतस्मिन् निजेष्ट-देवत्वं प्रतिपादयन्न् आह—देवो जीयात् । येन त्वम् अपि विशेषितः स ममेष्ट-देवः सर्वोपरि विराजताम् । कोऽसौ ? व्रजाङ्गनानां प्रेम-मय-केलिभिर् लालितः संवर्ध्य प्रकटीकृतो यो विभ्रमो विलासः सः । ने केवलं ममैव त्रिलोक्या अपि सौभाग्य-व्यञ्जक-कस्तूरी-मकराङ्कुरो यः । त्वन्-मधुर-रस-मय-विलास-श्रवणादिर् एव त्रिलोक्याः सौभाग्यालङ्कार इत्य् अर्थः । तद्-रसस्य श्यामत्वात् कस्तूरी-साम्यम् ॥१०३॥

सारङ्ग-रङ्गदा ॒ ननु ज्ञानं व्रज-लीलैव तेऽभीष्टा, भद्रं, अत्रापि बाल्य-पौगण्ड-लीले स्त इत्य् अर्धोक्तेः स-सम्भ्रमं तर्जन्या निर्दिशन् भङ्ग्याह—अयं देवो रास-क्रीडा-परः किशोर-शेखरो जीयात् सर्वोपरि विराजताम् । किं ममान्यैर् इत्य् अर्थः । आं किशोर-लीलैव तेऽभीष्टा । भद्रं, तत्रापि गो-चारणादि-लीलास्तीति स-भ्रू-भङ्गम् आह—व्रजाङ्गनानाम् अनङ्ग-केलिभिर् लालितः संवर्ध्य मधुरी-कृतो विभ्रमो विलासो यस्य । तादृशस् त्वम् एवेत्य् अर्थः ।

नन्व् एतादृशोऽहं सुदुर्लभः, नाद्यापि [श्लोक ९४] इत्य् आदौ त्वयापि तथैवोक्तम् एवेत्य् अत्राह—सत्यम् । किं तु तादृशोऽपि भवान् न केवलं ममैव त्रिलोक्या अपि सौभाग्य-व्यञ्जक-मकराङ्कुरो । तस्यास् त्वम् एव तत्-कल्पित-तद्-रूप इत्य् अर्थः । तत्-करुणैव त्वां सुलभं करोतीति भावः ॥१०३॥

—ओ)०(ओ—

(१०४)

प्रेमदं च मे कामदं च मे

वेदनं च मे वैभवं च मे ।

जीवनं च मे जीवितं च मे

दैवतं च मे देव नापरम् ॥

कृष्ण-वल्लभा ॒ सम्प्रति सर्वात्म-भावेन श्री-कृष्ण-चन्द्रस्यैव स्वाश्रयणीयत्वम् आह—प्रेमदं चेति । हे देव नापरम् । अपरं त्वद्-अतिरिक्तं मादृशां नास्तीति भावः । तथा हि—प्रेमदं च मे । त्वत्तोऽपरं मम प्रेमदं नास्ति । न हि मद्-अभीप्सित-विशुद्ध-मधुर-प्रेम-विशेषोऽन्येन दातुं शक्यः । कामदं च मे नापरम् । मत्-कामितानन्द-प्रदत्वात् । वेदनं च मे, वेदनं निश्चय-ज्ञानं च मे त्वम् एव । त्वद्-अतिरिक्तं नान्यज् ज्ञान-प्रदम् इति भावः ।

ननु निश्चय-ज्ञानं नैश्चित्ये सति महा-पाण्डित्य-सम्पत्त्या विचार-परतायां स्यान् न त्व् अन्यथा, तत्राह—वैभवं च मे । वैभवं सम्पत्त्वम् एव । पाण्डित्य-विचार-सम्पत्त्वम् एवेत्य् अर्थः ।

ननु केवल-प्रेम्णि लब्धे जीवन-निर्वाहः कथं स्यात् ? तत्राह—जीवनं च मे । जीव्व्यते येनोपायेन त जीवनं त्वम् एव । त्वयैव जीविष्यामीति भावः । तत् किं प्राण-धारणम् इष्टम्, नेत्य् आह—जीवितं च मे । जीवितं प्राण-धारणम् अपि त्वम् एव । त्वद्-अर्थम् एव प्राण-धारणेच्छा, न स्वतः । त्वत्-सेवाद्य्-अभावे तदैव गच्छन्तु प्राणाः ।

किं च, दैवतं च मे । दैवतम् इष्ट-देवस् त्वम् एव । परम-महा-भक्ति-सम्भ्रमेण सेव्य इत्य् अर्थः । यद् वा, दैवतं देवता-समूहः । सर्व-देव-कृत्यं मम त्वय्य् एवेति भावः । चैर् अत्रानुक्त-समुच्चयो ज्ञातव्यः ॥१०४॥

सुबोधिनी ॒ तम् एव निजाभीष्त-दातृतया विशिनष्टि—हे देव ! त्वद्-विलास एव ममेष्ट-दैवतं नापरम् । च एवार्थे । नापरम् इति सर्वत्रान्वेति । कोऽत्र हेतुः ? प्रेमदं च मे । त्वद्-विलास-श्रवणादिर् एव प्रेमोत्पादकत्वात् । ननु बाल्य-पौगण्ड-विलासोऽपि । तथा, कामदं च मे । तद्-विशिष्टाभिलाष-प्रदम् इत्य् अर्थः । नैतन्-मात्रं—वेदनं च मे । तत्-परिपाटीं वेदयतीति, तथा । किं च, वैभवं च मे । स एव मम सर्व-सम्पद् इत्य् अर्थः । किम् अपरं ? जीवनं च मे । जीवयतीति जीवन-हेतुः । किम् उत तद्-धेतुस् तद् अपि स एव—जीवितं च मे । त्वद्-विलासाश्रयं विना ममान्यत् किञ्चिद् अपि नास्तीत्य् अर्थः ॥१०३॥

सारङ्ग-रङ्गदा ॒ पुनः स-स्मितं किम् अपि विवक्षुं न वीक्ष्या-सहिष्णुः स-सम्भ्रमं स-दैन्यम् आह—हे देव ! रास-लीला-पर दैवतम् आश्रयणीयं त्वत्-किशोर-शेखराद् अपरं न । च एवार्थे । नैवेत्य् अर्थः । ननु कोऽत्र हेतुर् इति तं सूचयन्न् आह—प्रेमदं च मेऽपरं न । एवम् अग्रेऽपि योज्यम् । यतस् त्वत्-प्राप्ति-हेतोः प्रेम्णस् त्वम् एव मे दातेत्य् अर्थः ।

ननु कौमार-पौगण्ड-लीला-परोऽहम् अपि प्रेमदस् तल्-लभ्यश् च । तत्राह—कामदं च मे । तज्-जातीय-प्रेमदं च त्वम् एव । अत एतद्-भावैकविषयात् किशोर-शेखरात् त्वद्-अपरं मम नाश्रयणीयम् । नैतन्-मात्रं—वेदनं च तथा । वेदयतीति कर्तरि ल्युट् । तत्-परिपाटी-शिक्षकश् च त्वम् एवेत्य् अर्थः । तद् उक्तं—शिक्षा-गुरुश् च [श्लोक १] इति ।

किं वा, अये मूढ भक्त्यात्म-ज्ञानं, यतो मोक्षः, तत् त्व् अपेक्ष्यम् इत्य् अत्राह—वेदनं तज् ज्ञानं च मे । त्वम् एवेत्य् अर्थः ।

ननु च भवतु शुद्ध-भक्तत्वाज् ज्ञानादरः, वैकुण्ठ-सम्पत्तिः प्रार्थ्यैवेत्य् अत्राह—वैभवं च तथा । त्वम् एव मे सर्व-सम्पद् इत्य् अर्थः । किम् उच्यते—वैभवं, तद्-अप्राप्ताव् अपि जना जीवन्ति, त्वद् विना त्व् अहं मिर्य इत्य् आह—जीवनं च तथा । जीवयतीति जीवनम् । तद्-धेतुर् इत्य् अर्थः । किम् उच्यते तद्-धेतुः—तद् अपि त्वम् इत्य् आह—जीवितं च मे त्व-अपरं न । तत् किं ? इत्य् अन्योपदेशैर् माम् उपेक्षस इति भावः ॥१०४॥

—ओ)०(ओ—

(१०५)

माधुर्येण विवर्धन्तां

वाचो नस् तव वैभवे ।

चापल्येन विवर्धन्तां

चिन्ता नस् तव शैशवे ॥

कृष्ण-वल्लभा ॒ हे विभो ! किम् अत्र वक्तव्यं ? वाचां शक्तिर् एतादृशी नास्ति । यथा तव रूप-लावण्य-माधुर्यादि-सम्पद्-वृद्धिस् तथैव मम वाक्-प्रसरः स्यात् । तथापीदं प्रार्थये—माधुर्येणेति । तव वैभवे रूप-लावण्यादि-सम्पत्तौ माधुर्येण सह नोऽस्माकं वाचो विवर्धन्ताम् । तव शैशवे चापल्ये । यद् वा, शिशु-सम्बन्धि-तरुणिमा शैशवम्, कैशोरम् इत्य् अर्थः । चापल्येन सह नोऽस्माकं चिन्ता अनुस्मृतयो विवर्धन्ताम् । तत्र धैर्यं माभूत् । तच् चापल्येऽस्माकम् अपि वाङ्-नेत्र-श्रुति-चापल्यं स्याद् इत्य् अर्थः ॥ अनुष्टुप् छन्दः ॥१०५॥

सुबोधिनी ॒ ततस् तद् एव प्रार्थयन्न् आह—तव वैभवे सौन्दर्य-विलासैश्वर्यादौ नो वाचो माधुर्येण विवर्धन्ताम् । तत्-तन्-माधुरी-वर्णन-समर्था भवन्त्व् इत्य् अर्थः । तथा, तव शैशवे वाचो नश् चिन्तास् त्वत्-प्राप्त्य्-उत्कण्ठाश् चापल्येन विवर्धन्ताम् । त्वत्-कैशोर-स्मरणम् अपि चापल्येन भवत्व् इत्य् अर्थः ॥१०५॥

सारङ्ग-रङ्गदा ॒ ततः, साधु लीलाशुक साधु ! त्वद्-दृढतया प्रीतोऽस्मि, तन् मद्-दर्शनं विफलं न स्यात् । प्रार्थय वाञ्छितम् इति भङ्ग्या तेनाम्रेडितः स्वेप्सितं भङ्ग्या प्रार्थयन्न् आह— तव वैभवे वाग्-विषयातीते सौन्दर्य-विलासैश्वर्यादौ नोऽस्माकं वाचो माधुर्येण विवर्धन्ताम् । तत्-तन्-माधुरी-वर्णन-समर्था भवन्त्व् इति भावः । तथा, तव शैशवे कैशोरेऽयोग्य-देहादीनाम् अपि नश् चिन्ताः प्राप्त्य्-उत्कण्ठया तच्-चिन्तनानि चापल्येन विवर्धन्ताम् । अयम् एव मे वर इत्य् अर्थः ॥१०५॥

—ओ)०(ओ—

(१०६)

यानि तच्-चरितामृतानि रसना-लेह्यानि धन्यात्मनां

ये वा शैशव-चापल्य-व्यतिकरा राधावरोधोन्मुखाः ।

या वा भावित-वेणु-गीत-गतयो लीला-मुखाम्भोरुहे

धारावाहिकया वहन्तु हृदये तान्य् एव तान्य् एव मे ॥

कृष्ण-वल्लभा ॒ अथ परम-मधुर-श्री-कृष्ण-लीलानाम् अविच्छिन्न-प्रवाह-रूपेण स्फूर्तिं प्रार्थयते—यानीति । हे कृष्ण ! तान्य् एव मे हृदये धारा-वाहिकया वहन्तु प्रवहन्तु । तानि कानीत्य् अत आह—यानि धन्यात्मनां, धन्य आत्मा येषां तेषां, साक्षात्कारानुभव-विराजमान-मनसां त्वच्-चरितामृतानि, तव चरितान्य् एवामृतानि, रसनालेह्यानि । रसना-तादात्म्यापन्न-मनसा भावाविष्टेनास्वाद्यानीत्य् अर्थः । ये वा शैशव-चापल-व्यतिकराः । शिशु-सम्बन्धि-तरुणिमा शैशवं कैशोरम्, तच् चापलं चेति, तेन व्यतिक्रियन्ते सम्बध्यन्ते चेष्टा-विशेषाः । राधाया अवरोधोऽवरोधनं ग्रहण-रूपं तत्र तद्-अर्थं वोन्मुखाः । यद् वा, राधैवावरोधः प्रिया तस्याम् उन्मुखाः । या वा लीला मुखाम्भोरुहे भावित-वेणु-गीत-गतयो भाविता भाव-युतास् ताश् च ता वेणु-गीतस्य गतयो गमकादि-रूपा गमकादि-रूपा इति ॥ शार्दूल-विक्रीडितं छन्दः ॥१०६॥

सुबोधिनी ॒ अथ दैन्योदयाद् भावि-तद्-अदर्शनं सम्भाव्य तन्-निस्तारोपायं प्रार्थयन् स्वाभीष्टं मुक्त-कण्ठतयाह—यानि यानि प्राग्-वर्णितानि तच्-चरितामृतानि तान्य् एव तान्य् एव मे हृदये प्रवाह-रूपेण स्फुरन्तु । कीदृशानि ? तच्-चरितामृत-वासितान्तःकरणानाम् एव पेयानि । तथा, ये वा, चार्थे वा, कैशोर-चापल्य-समूहास् ते तेऽपि । कीदृशाः—राधाया अवरोधने उन्मुखास्त-प्रोद्यताः । किं च, याश् च मुखाम्भोरुहे लीलाः काम-मदोद्गारि-स्मितादि-भङ्ग्यस् तास् ताश् च । कीदृश्यः । स्व-माधुर्येण मिश्रीकृता वेणु-गीतस्य गतयो याभिः । सदैतद्-दर्शन-भाग्य-हीनतयैतत्-स्फूर्तिर् अपि स्याद् इत्य् अर्थः ॥१०६॥

सारङ्ग-रङ्गदा ॒ नन्व् इदं ते सहजम् एव । तद्-विशेषः प्रार्थ्यताम् इत्य् अत्राह—यानि त्वच्-चरितामृतानि श्री-राधया सह निकुञ्ज-रास-लीलादीनि तान्य् एव तान्य् एव । न त्व् अन्यानीत्य् अर्थः । मे हृदये धारावाहिकया प्रवाह-रूपेण वहन्तु । कीदृशानि ? धन्यात्मनां रसनालेह्यानि श्री-शुकादिभिर् आस्वादानीयानि । तथा—ये वा, चार्थे वा-शब्दः । ये च शैशव-चापल्य-व्यतिकराः कैशोर-चाञ्चल्य-विस्तारास् ते त एव तथा वहन्तु । कीदृशाः ? दान-पुष्पाहरण-वर्त्मन्यादौ राधाया योऽवरस् तत्रोन्मुखाः । सदा तद्-उत्कण्ठावन्त इत्य् अर्थः । तथा, या याश् च मुखाम्भोरुहे लीलाः काम-मदोद्गारि-स्मितादि-भङ्गी-विशेषास् तास् ताश् च तथा वहन्तु । कीदृशः ? भाविताः स्व-माधुर्य-मिश्रीकृता उत्पादिता वा वेणु-गीतस्य नूतन-गतयो याभिस् ताः ॥१०६॥

—ओ)०(ओ—

(१०७)

भक्तिस् त्वयि स्थिरतरा भगवन् यदि स्याद्

दैवेन नः फलति दिव्य-किशोर-मूर्तिः ।

मुक्तिः स्वयं मुकुलिताञ्जलिः सेवतेऽस्मान्

धर्मार्थ-काम-गतयः समय-प्रतीक्षाः ॥

कृष्ण-वल्लभा ॒ सम्प्रति पूर्ण-मधुर-रस-मय-श्री-कृष्ण-स्वरूपं समस्त-शक्ति-गुणादि-परमोत्कर्ष-विश्राम-स्थानम् । तद्-अनुभवाय तदैकान्तिक-महा-भक्तिमान् अपि भगवन्-मात्रे साधन-रूपां परमां भक्तिं कुर्वाण आह—भक्तिस् त्वयीति । हे भगवन् ! भगवत्-स्वरूप-मात्र ! यदि त्वयि स्थिरतरा भक्तिः स्यात्, तर्हि दैवेन भाग्येन । यद् वा, देवानां समूहो दैवं तेन । मद्-अभीष्ट-स्वरूप-श्री-कृष्णस्यैव रूप-भेदानां भगवता शुभ-सङ्कल्प्येनेत्य् अर्थः । दिव्य-किशोरम् एषः—दिव्यम् अद्भुतं किशोरं वपुर् एव वेषो भूषणं यस्य सः । फलति प्रव्यक्तः सन् मम दीर्घाया आशा-वल्ल्याः फलतां प्राप्नोतीत्य् अर्थः ।

ननु सर्वतो .विशेषं चेद् अशेष-निवृत्त्या स्वात्म-सुख-रूपां मुक्तिं गृह्णीत, न चेद् विरागो धर्म-निष्ठाम् आश्रयत, अर्थान् वा गृह्णीत, काम-सुखान् वा ? नेत्य् आह—मुक्तिर् इति । मुक्तिः सालोक्यादि-रूपा श्री-कृष्ण-नामोच्चारण-मात्र एव स्वयम् अप्रार्थितेव मुकुलिताञ्जलि मुकुलितोऽञ्जलिर् यस्मिन् कर्मणि तद् यथा भवति तथा । नोऽस्मान् सेवते । धर्मार्थ-काम-रूपा गतयोऽपि समयम् अवसरं प्रतीक्षन्ते । मनाग् अपि तत्र दृष्ट्य्-अभावात् । कदास्मासु कृपा-दृष्टिः स्यात् तदा तान् वयं भजाम इत्य् अर्थः ॥ वसन्त-तिलकं छन्दः ॥१०७॥

सुबोधिनी ॒ नन्व् एतत् सर्वं त्वय्य् आस्त एव, तत् किम् इति याचस इत्य् आशङ्क्या—हे भगवन् ! यदि मे भक्तिः स्थिरतरा त्वयि स्यात्, तदा दिव्य-किशोर-मूर्तिर् भगवान् दैवेन स्वत एव प्राप्तः स्यात्, किं प्रार्थनया ? अमुक्तिस् तु मुकुलिताञ्जलि यथा स्यात् तथा स्वयम् एवास्मान् सेवते । अनाद्य्-अविद्याम् उन्मोच्य त्वां स्फोरयतीत्य् अर्थः । धर्मार्थ-कामानां फलान्य् अपि त्वच्-चरण-सेवा-काल-प्रतीक्षकाः स्युः । अतस् तद्-अभावात् त्वां प्रार्थयामीति भावः ॥१०७॥

सारङ्ग-रङ्गदा ॒ ननु पुरुषार्थ-चतुष्टयं पञ्चम-पुरुषार्थ-मत्-प्रेम-फलं मां च साक्षात्-प्राप्तं हित्वा मल्-लीला-स्फूर्तिं किम् इति प्रार्थयस इत्य् अत्र भक्ति-सिद्धान्तोट्टङ्कन-पूर्वकं स्व-चातुरीं भङ्ग्या कथयन्न् आह—हे भगवन् ! सर्वज्ञ ! यया लीला-स्फूर्ति-रूपया प्रेम-लक्षणया भक्त्या त्वं साक्षात्-प्राप्तोऽसि सा त्वयि भक्तिः स्थिरतरा यदि स्यात् तदा दैवेन स्वत एव दिव्य-किशोर-मूर्तिर् ईदृग् भगवान् फलति प्राप्तो भवति । मुक्तिस् तु मुकुलिताञ्जलिइ यथा स्यात् तथा मां गृःाण गृःाणेति वदन्त्य् अस्मान् सेवते । धर्मार्थ-काम-गतयस् तु पश्चात् स्थित्वा कदाचिद् अस्मान् ईक्षते वेति समय-प्रतीक्षास् तत्-प्रतीक्षका भवन्ति । तत् किम् इत्य् आत्मानं दत्त्वा वरेण मां छन्दयसीति भावः ॥१०७॥

—ओ)०(ओ—

(१०८)

जय जय जय देव देव देव

त्रि-भुवन-मङ्गल दिव्य-नाम-धेय ।

जय जय जय देव कृष्ण देव

श्रवण-मनो-नयनामृतावतार ॥

कृष्ण-वल्लभा ॒ अथ परम-महा-भक्ति-सम्भ्रमेण श्री-कृष्णं स्तौति—जय जयेति । हे जय देव ! जयतीति भावः । दीव्यतीति देवः । समस्त-भगवत्-स्वरूपोत्कृष्टेत्य् अर्थः । कीदृश ? देव-देव ! देवानां ब्रह्मादीनाम् अपि देव आराध्यस् तत्-सम्बुद्धौ । जय जयेति सम्भ्रमे वीप्सा । प्रपञ्च्कृत ? त्रिभुवन-मङ्गल-दिव्य-नामधेय ! त्रिभुवन-मङ्गल-स्वरूपं दिव्यम् अद्भुतं नामधेयं यस्य स तत्-सम्बुद्धौ । पुनर् आवृत्त्या तद् एव वदति—हे जय देव हे कृष्ण-देव जय जय । कीदृश ? श्रवण-मनो-नयनामृतावतार । श्रवण-मनो-नयनामृत-स्वरूपोऽवतारो यस्य । श्रवण-मनो-नयनेष्व् अमृतस्य परमानन्द-विशेषस्यावतारेति वा । पुष्पिताग्रा छन्दः ॥१०८॥

सुबोधिनी ॒ ततः स-स्मित-कृपा-कटाक्षम् आलोक्य स-हर्षम् आह—हे देव जय ! अयोग्येऽपि त्वच्-चरितादि-स्फोरणेनोत्कर्षम् आविष्कुरु । वीप्सात्यानन्दावेशतः । तत् सम्पादयन्न् आह—त्रिभुवनानाम् अपि मङ्गलं तद्-गुण-लीलादि-स्फुरणं यस्मात् तादृशासाधारणं नाम-धेयं यस्य हे तादृश ! तन्-नामैव विशिनष्टि—हे कृष्ण-देव कृष्ण-नाम-रूप-देव जय ! वीप्सात्राश्चर्ये । आश्चर्यम् एवाह—श्रवण-मनो-नयनानाम् अमृत-रूपं प्राकट्यं यस्य । नयनाभिरामतोक्त्याश्चर्यत्वं नाम्नो व्यक्तम् । नाम-चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः [पद्या. २५] इत्य्-आदौ अभिन्नत्वं नाम-नामिनोर् इति स्मृतेः ॥१०८॥

सारङ्ग-रङ्गदा ॒ ततः, अयि लीलाशुक मत्-कर्णामृत-रूपाणि वृन्दावन-यात्रा-मङ्गलाचरणम् आरभ्य, केयं कान्तिः [श्लोक ९५] इत्य्-अन्तानि त्वद्-भाषितानि श्रुत्वा पुनस् तच् छ्रोतु-कामेन मया त्वम् उच्चालितोऽसि, तद् इदं तद्-वचो-विजृम्भितं मत्-कर्णामृत-नामास्तु, त्वम् एव मे माधुर्यादि-वर्णनं जानासीति स-स्नेह-तन्-मधुर-वाक्यं शृण्वन्न् एवानन्दोच्छलितः सन्न् आह—हे देव जय ! हे देव जय ! हे देव जय ! अत्यादरानन्दाभ्यां वीप्सा । त्रिभुवनस्य मङ्गलं दिव्यं मनोहरं च नामधेयं यस्य, हे तादृश ! किं वा, हे देव-देव-देव ! देवा मर्त्य-पूज्याः तद्-देवास् तत्-पूज्यास् त्वत्-पार्षदाः, हे तद्-देव तद्-ईश्वर जय । यथोक्तं द्वितीय-स्कन्धे—हरेर् अनुव्रता यत्र सुरासुरार्चिताः [भा.पु. २.९.१०] इति । हे त्रिभुवन-मङ्गल ! जय ! दिव्यम् आनन्द-मयं स्व-स्वरूपं नाम-धेयं यस्य हे तादृश जय । हे देव जय ! हे कृष्ण-देव जय ! श्रवण-मनो-नयनानाम् अमृतवद् अवतारः प्राकट्यं यस्य हे तादृश जय ॥१०८॥

—ओ)०(ओ—

(१०९)

तुभ्यं निर्भर-हर्ष-वर्ष-विवशावेश-स्फुटाविर्भवद्-

भूयश् चापल-भूषितेषु सुकृतां भावेषु निर्भाषिणे ।

श्रीमद्-गोकुल-मण्डनाय मनसां वाचां च दूर-स्फुरन्-

माधुर्यैक-महार्णवाय महसे कस्मैचिद् अस्मै नमः ॥

कृष्ण-वल्लभा ॒ सम्प्रति यथानुभवम् अनुवर्णयन् नमति—तुभ्यम् इति । कस्मैचिद् अनिर्वचनीय-तत्त्वाय महसे ज्योतिषेऽस्मै पुरः स्फूर्यमानाय तुभ्यं नमः । एतेन निराकार-ब्रह्म-ज्योतिषः साकार-भगवद्-रूप-ज्योतिः सर्वतो विलक्षणम् इति दर्शितम् । वैलक्षण्यं त्व् अनुभूयत एव, प्रत्यक्षत्वात् । कीदृशस्य तुभ्यं ? सुकृतां शोभनम् एकान्त-भावेन त्वत्-परिचरण-रूपं कृत् कर्म येषां तेषां भावेषु भाववद् अन्तः-करणेषु निर्भासिने नितरां भासमानाय । प्रकाशम् आनायेति यावत् ।

भावेषु कीदृशेषु ? निर्भर-हर्ष-वर्ष-विवशावेश-स्फुटाविर्भवद्-

भूयश् चापल-भूषितेषु । निर्भरम् अतिशयो यो हर्ष-वर्षः श्री-कृष्ण-दर्शनायोल्लास-रूपस् तेन विवश आयतो य आवेशश् चित्तस्य कथम् अप्य् अनिवार्य-तीव्रम् औघस् तेन स्फुटं यथा स्यात् तथाविर्भवत् प्रकटीभवद् भूयः प्रचुरतरं यच् चापलं तद्-दर्शनायैव, तेन भूषितेष्व् अलङ्कृतेषु ।

पुनः कीदृशाय तुभ्यं ? श्रीमद्-गोकुल-मण्डनाय । श्रीमत्-परम-सम्पत्तिमद् यद् गोकुलं तस्य मण्डनाय । व्रज-वासिनात्र प्रेमानुसारेण तत्र तत्र तदा तदाविर्भवत इत्य् अर्थः ।

पुनः कीदृशाय ? मनसां वाचां च दूर-स्फुरन्-माधुर्यैक-महार्णवाय । दूरं स्फुरन्-माधुर्यस्यैको मुख्यो महार्णवो यत्र तस्मै । मनो-वचसी यन् माधुर्यं निरूपयितुम् असमर्थे इत्य् अर्थः । शार्दूल-विक्रीडितं छन्दः ॥१०९॥

सुबोधिनी ॒ पुनस् तद्-अनुभवानन्दावेशात् तन्-माधुर्यापारता-स्फूर्त्या वर्णयितुम् अशक्नुवन् स-सम्भ्रमं नमति—अनिर्वाच्यायास्मै तुभ्यं नमः । कुतोऽनिर्वाच्यत्वं—महसे माधुर्य-पुञ्ज-रूपाय । तथापि वाचां दूरे स्फुरन्ति यानि माधुर्याणि तेषां मुख्य-महार्णवाय । तर्हि मनसा विचारय—मनसां च तादृशाय । एव्ग् चेत् तत् कथं ज्ञातं ? सुकृतां त्वत्-प्रेम-विशेष-भाजां भावेषु भावाक्रान्त-चित्तेषु प्रकाशन-शीलाय । कीदृशेषु निर्भर-हर्षाणां यद् वर्षं तेन विवशत्वापादको य आवेशस् तेन प्रकटी-भवद्- यत् प्रचुर-चापलं तद्-दृशोत्कण्ठा तेन भूषितेषु । तत्र हेतुः—श्रियो राधाद्याः, तद्-युक्तं यद् गोकुलं तद् एव भूषणं यस्य ॥१०९॥

सारङ्ग-रङ्गदा ॒ पुनस् तन्-माधुर्यातिशयानुभवाद् आनन्दोन्मत्ततया तद् वर्णयितु-कामेन तद्-अशक्त्या नमस्कारेणैव स्व-वाचम् उपसंहरतात्मना कौतुकेन विवदमानेन तेन सह विवदमान आह—कस्मैचिद् अनिर्वाच्यायास्मै महसे माधुर्य-पुञ्ज-रूपाय तुभ्यं नमः ।

ननु तन्-माधुर्यम् एव वर्णय श्रोतु-कामोऽस्मि, तत्राह—वाचां दूर एव स्फुरन्ति यानि माधुर्याणि तेषां प्रधानार्णवाय ।

नन्व् एवं चेन् मनसा विभावय, तत्राह—मनसां च तादृशाय । अनाविर्भाव्यायेत्य् अर्थः ।

ननु वाङ्-मनसोर् अग्राह्यत्वात् कस्यापि गोचर एव नास्ति, तत्राह—सुकृतां त्वत्-प्रेम-विशेष-भाजां भावेषु भावाक्रान्त-चित्तेषु निर्भासिने प्रकाश-शीलाय । कीदृशेषु ? निर्भर-हर्षाणां यद् वर्षं तेन विवशा ये ते चावेशेन त्वत्-प्राप्त्य्-उत्कण्ठा-कृतया त्वत्-स्फूर्त्या स्फुटम् आविर्भवन्ति यानि भूयश् चापलानि तैर् भूषिताश् च ये तेषु ।

नन्व् एतेन किं निराकार-ब्रह्मत्वेन मां निरूपयसीत्य् अत्र नेत्य् आह—गोकुलस्य मण्डनाय मधुरोज्ज्वल-नीलमणिवद् भूषणाय । अतः केवलं तुभ्यं नमोऽस्त्व् इत्य् अर्थः ॥१०९॥

—ओ)०(ओ—

(११०)

ईशान-देव-चरण-भरणेन नीवी-

दामोदर-स्थिर-यशः-स्तवकोद्भवेन ।

लीला-शुकेन रचितं तव कृष्ण-देव

कर्णामृतं वहतु कल्प-शतान्तरेऽपि ॥

कृष्ण-वल्लभा ॒ एवं प्रेम-रसोक्तिम् अनुकृत्य सम्प्रति श्री-कृष्णं प्रार्थयते—ईशानेति । हे कृष्ण-देव ! तव कर्णयोर् अमृत-रूपं लीलाशुकेन लक्षणाशुकवद् वर्तमानेन मया रचितं यथानुभव-गुण-रूप-लीला-माधुर्यादि-वर्णन-रूपं सम्पादितं कल्प-शतान्तरेऽपि, अस्मिन्न् अपि कल्प-शते, वहतु । यथा भावेन मया वर्णितं तथैव भाव-व्यञ्जकतया त्वत्-कर्णामृत-रूपेणैव वर्तताम् । कीदृशेन ? ईशान-देव-चरणाभरणेन । ईशानं शिवं देवयति क्रीडयतीति । यद् वा, ईशानस्य देव आराध्यः । ईशानाः सर्वे दीव्यन्ति द्योतन्ते यस्माद् इति वा । ईशान-देवः श्री-कृष्णः, तच्-चरणाव् एवाभरणं यस्य तेन ।

पुनः कीदृशेन ? नीवी-दामोदर-स्थिर-यशः-स्तवकोद्भवेन । नीवी मूल-धनं प्रेमैव, तद् एव दाम, तेनोदुच्चैर् इयर्ति वशतां प्राप्नोतीति नीवी-दामोदरः । प्रेमैक-लभ्य इत्य् अर्थः । तस्य यत् स्थिर-यशस् तस्य स्तवको बहूनाम् एकत्र सञ्चयः, तस्योद्भव आविर्भावो यस्मिंस् तेन । वसन्त-तिलकं छन्दः ॥११०॥

सुबोधिनी ॒ अथ स्व-कृतं तत्-प्रीतयेऋथयन्न् आह—हे कृष्ण-देव ! लीलाशुकेन मया रचितम् इदं कल्प-शत-मध्येऽपि तव कर्णयोर् आस्वाद्यं वहतु, तद्-योग्यतां प्राप्नोतु । तत्र हेतुः—ईशान उपक्रमोक्तो मदीशः श्री-गुरुः, देवो ममेष्ट-देवस् त्वं शिक्षा-गुरुः, तयोश् चरणाभरणवत् सेवको यस् तेन । तत्रापि हेतुः—भविष्योत्तरोक्त-कार्त्तिक-माहात्म्य-रीत्या प्रिया-नीव्या दाम उदरे यस्य, तस्य त्रे नित्य-यशसो यः स्तवकः पितृ-मात्रोस् तच्-छ्रवणादि-फलं, तद्-उद्भवेन । अनेन स्व-पितृ-मात्रोस् तद्-यशः-श्रवण-कीर्तनाद्याविष्टान्तरतः स्व-जन्म सूचितम् । अतस् तत्-तत्-सम्बन्धेनैव ममेदं त्वत्-कर्ण-पेयं भवत्व् इत्य् अर्थः ॥११०॥

सारङ्ग-रङ्गदा ॒ ततः, अये लीलाशुक ! मत्-कर्णामृत-रूप-त्वद्-भाषितेनाप्यायितोऽस्मि, तत्-प्रार्थय । पुनः किम् अप्य् अभीष्टम् इत्य् अर्थः । देव त्वद् एतत् साक्षाद्-दर्शनेन पूर्णोऽस्मि, किं मया प्रार्थ्यम् । तथापीदम् अपि देहीत्य् आह—हे कृष्ण-देव लीलाशुकेन मया रचितं तव कर्णामृतम् इदं कल्प-शतान्तरेऽपि त्वद्-भक्ति-रसिक-जन-चित्तम् आप्लाव्य वहतु ।

कीदृशा मया ? ईशानः सर्वेश्वरश् चासौ देवः क्रीडा-रतश् च तस्य । ईशा राधा, सा चानन-मानः, तस्या मम वानः प्राणश् चायं देवश् च । स च तयोर् वा चरणा एव शिरो-हृदयाभरणानि यस्य तेन । अत्र पक्षे छन्दोऽनुरोधात् प्र-शब्दस्याप्रयोगः । तथा, नीवी-दामोदरस्य नीवी-दाम उदरे यस्य । कार्त्तिक्यां खण्डितया श्री-राधया काञ्च्या बद्धोदरस्य । तथा हि भविष्योत्तर-लीलार्थ-बद्ध-श्लोकः—

सङ्केतावसरे च्युते प्रणयतः संरब्धया राधया

प्रारभ्य भ्रू-कुटिं हिरण्य-रशना-दाम्ना निबद्धोदरम् ।

कार्त्तिक्यां जननी-कृतोत्सव-वर-प्रस्तावना-पूर्वकं

चाटूनि प्रथयन्तम् आत्त-पुलकं ध्यायेम दामोदरम् ॥ इति ।

यद् वा, मम नीवी मूल-धन-रूपश् च दामोदरश् च तस्य । तव यः स्थिर-यशः-स्तवकोऽम्लान-यशः-कुसुम-गुच्छः स एवोद्भवो सम्पद्यस्य तेन । ईचान-देवस्य शिवस्येति नीवी-दामोदरयोर् मातृ-पित्रोर् इति च केचिद् आहुः ॥११०॥

—ओ)०(ओ—

(१११)

धन्यानां सरसानुलाप-सरणी-सौरभ्यम् अभ्यस्यतां

कर्णानां विवरेषु काम् अपि सुधा-वृष्टिं दुहानं मुहुः ।

वन्यानां सुदृशां मनो-नयनयोर् मग्नस्य देवस्य नः

कर्णानां वचसां विजृम्भितम् अहो कृष्णस्य कर्णामृतम् ॥

कृष्ण-वल्लभा ॒ एवं सम्प्रार्थ्य श्री-कृष्ण-कर्णामृत-स्वरूपं वदन् स्तौति—धन्यानाम् इति । अहो रसिका नोऽस्माकं वचसां विजृम्भितं विलास-रूपं श्री-कृष्ण-कर्णामृतं श्रियो राधायाः कृष्णस्य कर्णयोर् अमृतवद् आस्वादयन्तु । अस्य महिमा किं वाच्य इत्य् अर्थः । कीदृशं ? श्री-कृष्ण-भाव-रहस्य-निष्ठानां कर्णानां विवरेषु मुहुर् वारं वारं काम् अप्य् अनिर्वचनीयां सुधा-वृष्टिं दुहानं प्रपूरयन्, दुहेर् उभय-पदित्वात् । धन्यानां कीदृशानां—सरसानुलाप-सरणी-सौरभ्यम् अभ्यस्यताम् ।

सरसः श्री-कृष्ण-विलास-प्रतिपादकत्वाद् योऽनुलापो मुहुर् भाषणम् आस्वादातिशयेन पुनः पुनः कथनं, स एव सरणी वर्तनी तत्-सम्बन्धि तद्-अभिव्यज्यमानं यत् सौरभ्य्ं श्री-कृष्ण-विलासानन्दस् तद् अभ्यस्यतां पुनः पुनर् आस्वाद्यताम् । अनुलापो मुहुर् भाषा, सरणिः पद्धतिः पद्या वर्तन्य्-एक-पदीति च इत्य् अमरः ।

किं च, बन्धानां सुदृशां श्री-वृन्दावनोद्भव-विलासिनीनां मनो-नयनोर् मग्नस्य नोऽस्माकं देवस्य श्री-कृष्णस्य कर्णानां विवरेषु सुधावृष्टीं दुहानम् इत्य् अन्वयः । यद् वा, तासां तन्-मनो-नयनयोर् मग्नस्य श्री-कृष्णस्य च कर्णानाम् इति । अन्यत् समानम् । शार्दूल-विक्रीडितं छन्दः ॥१११॥

सुबोधिनी ॒ अतस् तद्-अनुमोदमानम् आलक्ष्य स्व-वचसां तत्-तत्-सुखदत्वं विचिन्त्य स-विस्मयानन्दम् आह—नॄणां नो वचसां विजृम्भितं देवस्य ते कर्णामृतम् इत्य् अहो आश्चर्यम् । कस्य देवस्य ? कृष्णस्य सर्वाकर्षकानन्दस्य । तत्र स्वानुभवं प्रमाणयति—मनो-नयनयोर् मग्नस्य । अर्थात्, स्वस्यैव । न केवलं कृष्णस्य तत्-प्रेयसीनाम् अपि कर्णानां विवरेषु काम् अपि सुधा-वृष्टिं मुहुः प्रपूरयन् । अहो अत्याश्चर्यम् । अत एव धन्यानां भक्ति-विशेषवताम् अपि कर्ण-विवरेषु तथा कुर्वन् ।

ननु तेषाम् अश्रुत-वाणी-श्रवणाद् युक्तं तत्—भवन्-मधुर-रस-सहितो योऽनुलापः प्रियया सह मुहुर् भाषणं तस्य या लहर्यस् तासां सौरभ्यं तज्-जन्यं सुखम् अनुभवताम् अपि । अहो अस्य कारुण्यम् अद्भुतम् इत्य् अर्थः ॥१११॥

सारङ्ग-रङ्गदा ॒ ततः, अये चासां मत्-प्रेयसीनां च सरस-विदग्ध-मद्-भक्तानां च स्व-गुणत एव तवैतत्-कर्णयोर् अमृतम् एव । तथापि मद्-गिराम् अपीदम् अस्त्व् इति स्व-वचसां तत्-तत्-सुखदत्वं विचिन्त्य स-विस्मयानन्दम् आह—इदं नोऽस्माकं वचसां विजृम्भितं देवस्य तव कर्णामृतम् इत्य् अहो, मद्-भाग्यम् इति भावः । तत्रापि—कृष्णस्य सकल-केलि-कला-चतुर-रसिक-शिरोमणेः ।

नन्व् एतादृश-विरह-संयोग-प्रलाप-संलाप-मयत्वान् नैतच् चित्रम् इति चेत्, तत्राह—सुदृशां विरहे मनसि, संयोगे नयनयोर् मग्नस्य । तत्-तत्-प्रलाप-संलापाभ्यां हृतेन्द्रियस्य इत्य् अर्थः । तत्रापि—वन्यानां लक्ष्मी-प्रार्थ्य-वैदग्ध्यानां वृन्दावन-सम्बन्धिनीनाम् ।

किं च, न परं भक्तोक्ति-प्रियत्वात् तवैव, किं त्व् आसाम् अपि कर्णानां विवरेषु सुधा-वृष्टिं दुहानं प्रपूरयद् इत्य् अहो चित्रम् । स्व-दशा-द्वय-प्रलपित-साम्याद् आसाम् एव न केवलं, किं तु त्वद्-भक्तानाम् अपीत्य् आह—धन्यानां त्वद्-भक्ति-विशेषवताम् अपि कर्णानां विवरेषु तथा कुर्वत् । इति चित्रम् इति भावः ।

ननु तेषाम् अश्रुत-चर-सरस-वाणी-श्रवणाद् युक्तम् एतद् इति चेत्, तत्राह—कीदृशं ? भवन्-मधुर-भक्ति-रस-सहितो योऽनुलापो मुहुर् भाषणं तस्य या लहर्यस् तासां सौरभ्यम् अभ्यस्यताम् अपि । पूर्वं त्वयैव तथोक्तत्वाद् इति भावः ॥१११॥

—ओ)०(ओ—

(११२)

अनुग्रह-द्विगुण-विशाल-लोचनैर्

अनुस्मरन् मृदु-मुरली-रवामृतैः ।

यतो यतः प्रसरति मे विलोचनं

ततः स्फुरतु तवैव वैभवम् ॥

कृष्ण-वल्लभा ॒ अथैदम् उपसंहरन् स्वाभीष्ट-रूप-लीलं श्री-कृष्णम् अनवरतं चक्षुर्-गोचरे स्फुरन्तं प्रार्थयते—अनुग्रहेति । हे कृपा-सिन्धो ! इदम् एवाहं प्रार्थये—यतो यतो मे विलोचनं प्रसरति । ततस् ततस् तव वैभवं वयो-रूप-लावण्य-केलि-माधुर्यादिमच् छ्री-विग्रह-रूपं स्फुरतु प्रकाशताम् । किं कुर्वन् ? मृदु-मुरली-रवामृतैः, मृदूनि सरसानि यानि मुरली-रवा एवामृतानि तैः, सहानुस्मरत् । यदा यदा मुरली-ध्वनिर् भवति, तदा तदा माम् अनुस्मरद् इत्य् अर्थः । यद् वा, अनुस्मरद् इति विलोचन-विशेषणम् । अनुस्मरत् प्राग् दृष्टम् इति शेषः । अन्तः-करणस्य लोचन-तादात्म्यापन्नत्वात् । मृदु-मुरली-रवामृतैः सहेति मृदूनि मुरली-रवामृतानि यत्र वैभवे तान्य् अपि स्फुरन्त्व् इत्य् अर्थः । कीदृशैः ? अनुग्रह-द्विगुण-विशाल-लोचनैः । अनुग्रहेण कृपया द्वि-गुण-विशाले लोचने येषु तैः । रुचिरा छन्दः—जभौ सजौ गिति रुचिरा चतुर्-ग्रहैः [छन्दो-मञ्जरी २] ॥११२॥

कृष्ण-कर्णामृतस्यैषा टीका श्री-कृष्ण-वल्लभा ।

रतिं तनोत्व् अविरतं श्री-कृष्ण-चरणाब्जयोः ॥

श्रीमद्-द्राविड-नीवृद्-अम्बुधि-विधुः श्रीमान् नृषिंहोऽभवद्

भट्ट-श्री-हरि-वंश उत्तम-गुण-ग्रामैक-भूस् तत्-सुतः ।

तत्-पुत्रस्य कृतिस् त्व् इयं वितनुतां गोपाल-नाम्नो मुदं

गोपीनाथ-पदारविन्द-मकरन्दानन्दि-चेतोलिनः ॥

वल्लवी-केलि-कल्लोल-वलल्-लावण्य-सागरे ।

रसतां मन्-मनो नित्यं वृन्दावन-विहारिणि ॥

इति श्री-द्राविड-हरिवंश-भट्टैक-चरण-शरण-श्री-गोपाल-भट्ट-विरचिता

श्री-कृष्ण-कर्णामृत-टीका श्री-कृष्ण-वल्लभा समाप्ता ॥

विश्वास-टिप्पनी

Another name of Prabodhanand Saraswati who is his guru and relative per gauDIya vedAnta vAgIsha.

गोपाल-भट्ट (२) ॒ इति श्री-लीलाशुक-बिल्वमङ्गल-विरचितं श्री-कृष्ण-कर्णामृतं स्तोत्रम् ।

श्री-गोविन्द-पदारविन्द-भजन-त्यक्ताखिलार्थात्र्यहः (?)

श्रीमद्-भागवतार्थवित् समभवद् भद्दन्फणा (? उद्यत्-फणो) विश्रुतः ।

श्री-राधा-रमणाङ्घ्रि-सक्त-मनसा गोपाल-भट्टेन तत्-

पुत्रेण श्रवणामृतस्य रचिता टीकास्तु सत्-प्रीतये ॥

श्री-गोपी-जन-वल्लभ त्वद्-अपरं जाने न कञ्चित् प्रभो

तस्मात् त्वं प्रणिधान-पूर्वकम् इमां याच्ञां मदीयां शृणु ।

राधादि-व्रज-सुन्दरी-गण-मनः-क्षीराब्धि-चन्द्रोदय

श्री-कृष्णामृत-टीकया त्वम् अनया प्रीतोऽस्तु नः सर्वदा ॥

कर्णामृताम्बुधाव् अर्थ-रत्नादि कतिचिन् मया ।

लब्धानि तत्र चान्यानि किं तु सन्ति सहस्रशः ॥

तैर् अर्थ-रत्नैर् वनमालि-दास-

मित्रस्य कर्ण-द्वयम् आत्मनश् च ।

विभूषयामीह तथैव लक्ष्मी-

नारायणस्याप्य् अनुजस्य कण्ठम् ॥

इति श्री-भगवज्-जन-चरण-राजीव-रजः-कणिक-शरण-गोपाल-भट्ट-विरचिता

श्रवणाह्लादिनी कर्णामृत-टीका समाप्ता ॥

सुबोधिनी ॒ पुनः स-स्नेहं श्री-राधया सह कृपयावलोकयन्तं तं वीक्ष्यानन्दाविष्टः प्रेम-दैन्ययोः पारस्पारिक-हेतुतया दैन्योदयान् निरन्तर-तद्-दर्शनायोग्यम् आत्मानं मत्वा भावि-तद्-वियोग-निस्तरणोपायं प्रार्थयन्न् आह—हे देव ! यत्र यत्र मे विलोचनं प्रसरति, तत्र तत्र सहज-विशालान्य् अपि मद्-विषयानुग्रहेण द्वि-गुणानि विशालानि यानि युवयोर् लोचनानि तैः किम् अप्य् अनुस्मरद् गायन्तो ये मृदु-मुरली-रवास् त एवामृतानि तैश् च सहानया मद्-ईश्वर्या सहितस्य तवैव वैभवं सौन्दर्य-वैदग्ध्य-विलासादि-मयं चरितम् एव सदा स्फुरतु ॥११२॥

पुरोऽभीक्ष्ण-स्थितौ सार्धं गमने योग्यतात्मनः ।

नेति लीलाशुकः स्फूर्तिं हृदि दैन्याद् अयाचत ॥

श्री-गोविन्द-पद-सेवा-प्रभावाद् उदिता स्वयम् ।

टीका चैतन्य-दासात् स्यात् कृष्ण-कर्णामृताश्रया ॥

इति चैतन्य-दास-विरचिता कृष्ण-कर्णामृत-टीका सुबोधिनी समाप्ता ॥

सारङ्ग-रङ्गदा ॒ ततः, अयि लीलाशुक ! सत्यं त्वद्-विशुद्ध-गाढ-प्रेम-विलसितम् एवैतत् ते वचः । ईदृग् अनुरागस्याहम् एव मूल्यम् इति त्वयाहं वशीकृत एव, किन्तु त्वम् अधुनेवात्रागतोऽसि तद् एतद् देहास्वाद्य-श्री-वृन्दावन-रासावलोक-सुखानि कतिचिद् दिनान्य् अनुभव, पश्चाद् अचिराद् एव मद् एतल्-लीलां प्रवेक्ष्यसीत्य् आश्वास्यान्तर् दिधित्सुं स-स्नेह-पूर्वकं श्री-राधया सह कृपयावलोकयन्तं तं वीक्ष्य तद्-दर्शन-वियोगातिविकलः स-दैन्यं तद्-दिनातिवाहनोपायं प्रार्थयन्न् आह—हे देव ! यतो यतो यत्र यत्र मे विलोचनं प्रसरति । कीदृशं ? तद् अनुस्मरन् निरन्तरं तवैव माधुर्यं स्मरत् । ततस् ततस् तत्र तत्र सहज-विशालान्य् अपि मद्-विषयानुग्रहेण द्वि-गुण-विशालानि यानि युवयोर् लोचनानि तैः । तथा, मृदु-मुरली-रवामृतैश् च सहानया सहितस्य तवैव वैभवं सौन्दर्य-वैदग्ध्य-विलासादि-मयं स्फुरतु । अनु निरन्तरं स्फुरत्व् इति ॥११२॥

अक्ष्णोर् अग्रे सदा तिष्ठ नय वा मां पदान्तिकम् ।

इति दीनः कथं ब्रूयां नेत्राग्रे स्फुरतात् सदा ॥

जयतां सुरतौ पङ्गोर् मम मन्द-गतेर् गती ।

मत्-सर्वस्वं पदाम्भोजौ राधा-मदनमोहनौ ॥

जयति मधुर-राधा-कृष्ण-लीला-रसोद्यन्-

नटन-विधि-सुधाभिः सार्थ-संज्ञाम् अकार्षीत् ।

विषय-विष-विसंज्ञां यो रसज्ञां नटीं मे

सरस-भजन-लास्ये सूत्रधार-स्वरूपः ॥

अक्षुण्णे पथि मेऽन्धस्य स्खलत्-पाद-गतेर् मुहुः ।

स्व-कृपा-यष्टि-दानेन सन्तः सन्त्व् अवलम्बनम् ॥

श्री-रूप-चरणाब्जालि-कृष्ण-दासेन वर्णिता ।

कृष्ण-कर्णामृतस्यैषा टीका सारङ्ग-रङ्गदा ॥

इति कृष्णदास-विरचिता कृष्ण-कर्णामृत-टीका सारङ्ग-रङ्गदा समाप्ता ॥

—ओ)०(ओ—

इति श्री-लीलाशुक-बिल्वमङ्गल-ठक्कुर-विरचितं

श्री-कृष्ण-कर्णामृतं समाप्तम् ।

****************************************

]