श्रीकृष्णाह्निककौमुदी

[[श्रीकृष्णाह्निककौमुदी Source: EB]]

[

श्रीकृष्णाह्निककौमुदी

श्रीलकविकर्णपूरगोस्वामिपादविरचिता

श्रीराधादामोदरौ जयतः

(१)

प्रथमः प्रकाशः

निशान्तलीला—

रजनिचरमयामे स्तोकताराभिरामे

किमपि किमपि वृन्दादेशजाताभिनन्दा ।

विततिरकृत राधाकृष्णयोः स्वापबाधाम्

अतिमृदुवचनानां शारिकाणां शुकानाम् ॥१॥

प्रथममनुपरोधां बोधयामास राधाम्

असकृदमृतकल्पैः शारिकालिः सुजल्पैः ।

अथ कृतसुखदोहः कृष्णमुद्धूतमोहः

किमपि शुकसमूहः प्रेमदत्तोपगूहः ॥२॥

श्रीराधाया जागरणम्—

व्रजपतितनयाङ्कासङ्गतो वीतशङ्का

विधुमुखि किमु शेषे निभरं रात्रिशेषे ।

प्रमदमधुपपुञ्जे मा परं तिष्ठ कुञ्जे

न गणयसि विगर्हां किं गुरूणामनर्हाम् ॥३॥

अगणितकुलनिष्ठा मा निकुञ्जे शयिष्ठाः

परिहर स रतघ्नं स्वापमुद्गच्छ शीघ्रम् ।

समजनि सविशेषः पश्य दोषावशेषः

कुरु न गतसमाधां बन्धुवर्गस्य बाधाम् ॥४॥

इयमजनि दिगैन्द्रीं दृश्यतां देवि सान्द्री

भवदरुणिमधारा त्वत्पदाब्जानुकारा ।

इयमपि च वराकी सत्वरा चक्रवाकी

परिमिलति रथाङ्गे जातविच्छेदभङ्गे ॥५॥

अपि तव मुखशोभामाप्तुकामोऽतिलोभाद्

अपरिकलितकामः स्वं वपुस्त्यक्तुकामः ।

चरमशिखरिशृङ्गं प्राप्य पश्यैव तुङ्गं

व्रजति शशधरोऽस्तं वारयेदद्य कस्तम् ॥६॥

सुदति कुमुदिनीनामङ्कमासाद्य लीना

मदमधुकरमाला कालमासाद्य लोला ।

सरति कमलिनीनां राजिमेतामदीनां

भवति समय एव ग्लानिहर्षादिदेवः ॥७॥

स्मितकमलमुखीनां मण्डली ते सखीनां

मिलति परमहृष्टा स्वस्वगेहादभीष्टा ।

सुमुखि विगतदोषे या किल त्वां प्रदोषे

निविडतिमिरपुञ्जं प्रापयत्केलिकुञ्जम् ॥८॥

सुमुखि नयनमुद्रां मुञ्च निर्धूय निद्रां

कलय वदनमासां विद्युदुद्द्योतभासाम् ।

रतिविगलितभूषां व्यस्तपर्यस्तवेषां

विलुलिततनुमेतास्त्वां भजन्तां समेताः ॥९॥

वियदतिलघुतारं त्वद्वपुः क्षुण्णहारं

विगलितकुसुमानां वर्ष्मशेफालिकानाम् ।

त्रितयमिदमिदानीमेकरूपं तदानीं

अपि यदपि तथापि त्वद्वपुः श्रीभिरापि ॥१०॥

त्रुटितपतितमुक्ताहारवत्ते वियुक्ता

भवदुडुततिरेषा स्वल्पमात्रावशेषा ।

चिरशयनमवेक्ष्यारुन्धती ते विलक्ष्या

भवदिव परिवक्रे पश्य सप्तर्षिचक्रे ॥११॥

निजकरपरिपुष्टा पश्य सेयं प्रविष्टा

शशिमुखि! ललिताङ्गी सन्निधौ ते कुरङ्गी ।

कुरु सकृपमपाङ्गे किञ्चिदञ्चत्तरङ्गे

भवतु बत कृतार्था प्रीतये ते समर्था ॥१२॥

नवकिशलयबुद्ध्या जातितोऽन्तर्विशुद्ध्या

रुणपदकमलं ते स्वादितुं कृष्णकान्ते! ।

त्वरितमुपसरन्ती त्वत्सखीनां वहन्ती

करसरसिजघातं या विधत्ते प्रयातम् ॥१३॥

शशिमुखि! तव फेलामात्रभोगे सखेला

तव पदजलपानामोदमात्रावधाना ।

अपि भवदवलोकाभावसञ्जातशोका

तव मुखशशिबिम्बालोकमात्रावलम्बा ॥१४॥

हरिरतिकुतुकी ते नेत्रयुग्मं मिमीते

नयनयुगममायप्रेम यस्याः प्रमाय ।

किमपि विमलमुक्तामालया चारुवक्ता

नियतमुपमिमानः संशयं निर्धुनानः ॥१५॥

इति निगदितवत्यः शारिकाः प्रेमवत्यः

सुखदपदपदार्थां वाचमुत्थापनार्थाम् ।

यदि किमपि विरेमुः पत्रिणस्तं प्रणेमुः

समुपसृतनिकुञ्जाः प्राप्तसम्मोदपुञ्जाः ॥१६॥

श्रीकृष्णजागरणम्—

अथ शयनसतृष्णं बोधयामास कृष्णं

विततिरपि शुकानां कृष्णहर्षोत्सुकानाम् ।

श्रवणसुखदसौम्यैः स्निग्धशब्दार्थरम्यैः

सरसतरमनल्पैः कूजितैः सीधुकल्पैः ॥१७॥

प्रणयरसगभीराश्चारुशब्दार्थधीराः

कलसुमधुरकण्ठाः प्रेमजल्पेष्वकुण्ठाः ।

सति समयविवेके बोधयां चक्रुरेके

न खलु बत विदग्धाः कार्यकाले विमुग्धाः ॥१८॥

जय जय गुणसिन्धो! प्रेयसीप्राणबन्धो!

व्रजसरसिजभानो! सत्कलारत्नसानो! ।

इह हि रजनीशेषे किंमना नाथ! शेषे

समयमवकलयापीष्यते कुञ्जसय्या? ॥१९॥

मदमधुपयुवानः प्राप्तदोषावसानः

च्युतकुसुमवनान्तः स्वापमुद्यातवन्तः ।

दधति कतिपयथ्यां केलिमम्भोजवीथ्यां

सति समयविवेके के विमुह्यन्ति लोके? ॥२०॥

क्वचन मुखविषादः क्वापि हासप्रसादः

क्व च दयितवियोगः क्वापि कान्तस्य योगः ।

कुमुदकमलवीथ्योर्वैसदृश्येऽतितथ्ये

भवति किमु न कालः क्षोभशोभाविशालः ॥२१॥

त्वमसि समयवेत्ता सर्वदुःखैकभेत्ता

भवसि भुवनबन्धुः सद्गुणग्रामसिन्धुः ।

व्रततिभवनतल्पं मूर्तिमन्मोदकल्पं

यदपि तदपि मुञ्च स्वस्ति तेऽस्मादुदञ्च ॥२२॥

सुभग! रजनिशेषे स्वापगेहे सुशेषे

त्वमिति हि जननी ते संशयं स्वं धुनीते ।

समयमथ विदित्वा जागरार्थं त्वरित्वा

स्वयमियमुपगन्त्री स्नेह एवात्र मन्त्री ॥२३॥

अयमपि च शिखण्डी जागरित्वैव खण्डी

कृतसुललितकेकः कालनिष्ठाविवेकः ।

प्रमिलति तव निद्राहानयेऽधीदरिद्राः

शिव शिव निजसेवाकालमुज्झन्ति के वा? ॥२४॥

अपि शरदि दुरापश्रंसनो यत्कलापः

प्रबलतरगरिम्णा तावकेनैव धाम्ना ।

निरवधिवलमानस्निग्धताद्योतमानः

क्व न समयविपन्नस्त्वत्पदाब्जे प्रपन्नः ॥२५॥

विविधमणिसदच्छं मण्डलीकृत्य पुच्छं

प्रतिनियतमकुण्ठः प्रोल्लसच्छ्यामकण्ठः ।

तव सह दयिताभिः पश्यतः प्रीणिताभिर्

जनयति ललितानि प्रत्यहं यः सुखानि ॥२६॥

जय सुभग! नमस्ते श्रूयतां सत्वरस्ते

चिरशयनसपीडः कौत्ययं ताम्रचूडः ।

उपनतनिजसेवाकालसम्मोदपीवा

नहि समयविदग्धः कार्यकाले विमुग्धः ॥२७॥

इति कलवचनानां शारिकाणां शुकानां

रुतमतिशयरम्यं श्रोत्रपेयं निशम्य ।

विहितशयनबाधा सा जजागार राधा

प्रथममथ स कृष्णः स्वापलीलावितृष्णः ॥२८॥

रसालसः—

युगपदुभयनिद्राभङ्गविध्वस्तमुद्रा

युगपदुभयनेत्रापाङ्गभङ्गी विचित्रा ।

युगपदुभयघूर्णाजातसंक्लेशपूर्णा

भवदुभयविलोकाभावतः प्राप्तशोका ॥२९॥

प्रसभमुभयदोष्णोः पीडनं संसहिष्णोर्

उभयवपुष एकीभाव आसीद्विवेकी ।

सुरतसमरलीला या पुरासीत्सुशीला

किमिव पुनरुपायात्सा समेषोरुपायात॥३०॥

उभयपुलकजालै रत्नसुचीसलीलैर्

उभयरभससूत्रैर्दीघ्रदीघ्रातिचित्रैः ।

युगपदुभयतन्वोः सीवनं दिव्यभान्वोर्

अकृत कुसुमचापेनैव योगे दुरापे ॥३१॥

युगपदुभयजृम्भारम्भणस्योपलम्भाद्

उभयदशनकान्तिः काप्यनिर्व्यूढशान्तिः ।

उभयमुखसहायान्योऽन्यनिर्मञ्छनायाऽ

गमदिव समतत्त्वं मङ्गलारात्रिकत्वम् ॥३२॥

युगपदुभयदोष्णः पीण्डनेनैव कोष्णः

प्रणय इव हृदिस्थः स्वीकृताश्रुव्यवस्थः ।

उभयनयनपक्ष्मा प्लावयन्शोकलक्ष्माऽ

वददिव कृतरोषं भाविविच्छेददोषम् ॥३३॥

शय्यात्यागः—

अथ शयनतलात्तावुत्थितौ सम्प्रमत्ताव्

इव सपदि विबुध्य स्वस्वनीवीं निबध्य ।

विरहमसहमानौ चित्तपीडां दधानौ

न ययतुरकृतार्थौ तस्थतुर्नासमार्थौ ॥३४॥

जयत उदितवत्या लोचने ते सुदत्या

अलसवलितघूर्णे स्वापलीलाविशीर्णे ।

विकचकमलमध्ये साधु माध्वीकमेध्ये

स्तिमितमवरुवद्भ्यां सोपमे खञ्जनाभ्याम् ॥३५॥

विलसदलसपूर्णैः पक्ष्मभिः प्राप्तघूर्णैः

सममतिरुरुचाते लोचने चारुणी ते ।

अलिभिरुपहताभ्यां सोपमे पङ्कजाभ्यां

शयनगतरसस्य प्रेयसो माधवस्य ॥३६॥

मुमुचतुरथ कुञ्जावासमुद्दीप्तगुञ्जाऽ

चयवदरुणरागेणारुणे दिग्विभागे ।

रतिरणविजयान्ते निह्नुवानौ निशान्ते

निजनिजतनुयष्टी तौ त्रपाभुग्नदृष्टी ॥३७॥

सुरतशय्याया सुदृश्यता—

क्वचन घुसृणपङ्कः क्वापि सिन्दूरजोऽङ्कः

क्षतविरहविपक्षप्रस्नुतासृक्सपक्षः ।

क्वचन कुसुमदामच्छिन्नकोदण्डधाम

क्व च विलुलितहारश्छिन्नमौर्वीप्रकारः ॥३८॥

क्वचन मृगमदाङ्काः कुत्रचित्कज्जलाङ्काः

स्मरनरपतिदन्तिच्छेदकल्पाः स्फुरन्ति ।

स हि रतिरणरङ्गः कौतुकोद्यत्तरङ्गः

समजनि सुमुखीनामागतानां सखीनाम् ॥३९॥

निकुञ्जत्यागः—

उभयमुभयचित्ते न्यस्य चित्तं सुवित्ते

प्रणयरसविपाकैः सन्ततं सातिरेकैः ।

क्षणविरहसहाभ्यं केवलं विग्रहाभ्यां

लघु लघु पदमेतौ दम्पती तौ प्रयातौ ॥४०॥

भ्रमभरविपरीते वाससी नीलपीते

प्रकृतिमगमयित्वा नोपनीते वसित्वा ।

अलसमथ मिथोंसे न्यस्य जातप्रशंसे

भुजयुगलमभीतौ जग्मतुर्दम्पती तौ ॥४१॥

पथि पिशुनमतिभ्यः शङ्कमानौ गुरुभ्यः

चलचकिततरङ्गौ निक्षिपन्तावपाङ्गौ ।

परमगुणगभीरौ कामसंग्रामधीरौ

ययतू रतिवितन्द्रौ राधिकाकृष्णचन्द्रौ ॥४२॥

न पथि न भवने वा लक्षितौ तौ वने वा

सहजसदनुरक्त्या स्वीययानन्दशक्त्या ।

परिजननयनानामुत्सवानादधानाव्

अथ पथि विहरन्तौ रेजतुर्लोककान्तौ ॥४३॥

विरमति रतियज्ञे कौतुकात्तत्र जज्ञे

यदवभृथमिहैतौ स्नानतश्चारुपूतौ ।

अथ किमपि पदार्थौ सारभूतौ कृतार्थौ

गृहमधि परिशिष्टां रात्रिमेवाशयिष्टाम् ॥४४॥

तनव इव भटानां बाणघातोत्कटानां

क्षतविगमभिषग्भिः शोधिता योगयुग्भिः ।

अतिसरति रताङ्के तत्तनू निर्गताङ्के

विबभतुरनुभावाद्योगशक्तेः स्वभावात॥४५॥

इति श्रीकृष्णाह्निककौमुद्यां प्रथमप्रकाशः

॥१॥

.

(२)

द्वितीयः प्रकाशः

प्रातर्लीला—

प्रातः प्रगल्भतरयानुमुहूर्तनूत्नी

भावेन वत्सलतया व्रजराजपत्नी ।

कृष्णस्य रत्नशयनालयमत्युदारम्

आसाद्य तत्किमपि जागरयाञ्चकार ॥१॥

उत्तिष्ठ तात रजनीयमगाद्विरामं

पश्यांशुमन्तमुदयोद्यमनाभिरामम् ।

प्रत्यूषसेवनविधौ विलसद्विलासाः

शय्यालयं तव विशन्ति कुमारदासाः ॥२॥

सङ्कीर्तयन्जय जयेति गिरा सुवृत्तस्

त्वां तात जागरयितुं प्रणयात्प्रवृत्तः ।

कीरस्तवैष निजपाणितलेन पुष्टः

सन्मञ्जुवाक्कनकपञ्जरवासहृष्टः ॥३॥

खेदस्तवैष शयनालसभारमूलः

स्वापं जहीहि भव जागरणानुकूलः ।

इत्थं करेण मृदुना मुहुरङ्गमङ्गम्

आस्पृश्य बाहुयुगलेन तमालिलिङ्ग ॥४॥

मातुः कलां गिरमतिप्रणयोपगूहं

श्रुत्वानुभूय च तदैव स सम्यगूहम् ।

गात्रावमो अनपुरःसरजृम्भणेन

जाग्रद्दशामभिनिनाय कुतूहलेन ॥५॥

कालोचितेषु परिचारणकौशलेषु

गाढानुरागपरभागनिराकुलेषु ।

दक्षं समक्षमनुशास्य कुमारदासी

दासं व्रजेन्द्रगृहिणी स्वगृहानयासीत॥६॥

उन्मीलनप्रतिनिमीलनयोर्बहुत्वे

जाग्रच्छयानदशयोरिव मिश्रितत्वे ।

सा निद्रया विरहकातरया धृतेव

तस्योत्थितस्य नयनद्वितयी दिदेव ॥७॥

श्रीकृष्णसेवा—

आरात्रिकेण मणिमङ्गलदीपभाजा

विभ्राजितेन जितसौभगवत्समाजाः ।

आधाय पणिसरसीरुहयोर्मुदास्य

नीराजनं विदधिरेऽस्य कुमारदास्यः ॥८॥

उष्णीषबन्धसुमनोज्ञतमोत्तमाङ्गाः

पाथोजकेशरसुसौरभसुन्दराङ्गाः ।

श्यामाः सिताश्च हरिता अरुणाश्च पीता

ये केऽपि केऽपि महनीयगुणैः परीताः ॥९॥

तैरेव केवलसुखानुभवस्वरूपैर्

नैसर्गिकानुदिनदिव्यकुमाररूपैः ।

दासीगणैरपि च दासगणैरुदारैः

सेवा व्यधायि विविधास्य विलोलहारैः ॥१०॥

पर्यङ्कतः समधिरुह्य मणीचतुष्कं

श्रीपादपीठमहसा विलसद्वपुष्कम् ।

चारूपविष्टमतिहृष्टहृदो गृहीत्वा

चारूपचारमथ भेजुरमी मिलित्वा ॥११॥

तैराहितां करतले विनिधाय धारां

कर्पूरसौरभवतामतिचारुवाराम् ।

गण्डूषपुरमुपक्ÿप्तसुत्थोपजोषं

कृष्णः शनैरभिषिषेच मुखाब्जकोषम् ॥१२॥

आमृज्य चारुमृदुसूक्ष्मबलक्षवासः

खण्डेन पाणिवदनं निरुपाधिहासः ।

तैराहितं करतले मृदु दन्तकाष्ठं

प्रत्यग्रहीन्म्रदिमनिष्ठमथो लघिष्ठम् ॥१३॥

कल्पद्रुमस्य मृदुना वि अपेन तेन

रत्नाङ्गुलीयकमहोभिरलङ्कृतेन ।

दन्तावलिं विहितवीक्षकनेत्रहर्षम्

आलोलकुण्डलयुगं शनकैर्जघर्ष ॥१४॥

अङ्गुष्ठतर्जनिकयोर्धृतया वितस्त्या

जिह्वाविलेखनिकया मणिहेममय्या ।

राजन्मणीन्द्रवलयं व्यलिखन्मनोज्ञां

ताम्बूलरागपरभागवतीं रसज्ञाम् ॥१५॥

भूयः पयोभिरमलैर्वदनं निनेज

भूयो ममार्ज च कदापि न चोद्विवेज ।

श्रीदर्पणं कृतसमर्पणचञ्चलाक्षि

लक्ष्म्या चकार मुखधावनशुद्धिसाक्षि ॥१६॥

माणिक्यकङ्कतिकया करपद्मकोषं

सम्प्राप्तया वलयकङ्कतिचारुघोषम् ।

केशप्रसाधनमथानभिसन्धिहासी

भूतानना व्यधित कापि कुमारदासी ॥१७॥

नक्तन्तनं वसनमस्य निरास्य कश्चिद्

वासोऽन्तरं सुपरिधाप्य कलाविपश्चित।

उष्णीषबन्धमथ मूर्ध्नि बबन्ध पादौ

प्रक्षाल्य वार्भिरभिमृज्य च वासरादौ ॥१८॥

गोदोहकेलिकलया कुतुकानि कर्तुं

कृष्णः सखीनपि विहारयितुं विहर्तुम् ।

प्रातः क्रियां परिसमाप्य ततो विशालां

पर्यासदत्सखिगणैः सह धेनुशालाम् ॥१९॥

गोदोहनादथ विरम्य स रम्यलीलैः

सार्धं निजप्रियसखैः स्वसमानशीलैः ।

अभ्याययौ कुतुकमल्लविलासनित्या

भ्यासालयं मणिमयं सकलैकमत्या ॥२०॥

प्रत्येकमेव सखिभिः सवयोभिरेतैर्

मल्लक्रियामथ भुजाभुजि वीतभीतैः ।

स्वस्वौजसः प्रकटनेन सरोषदर्पैश्

चक्रेऽपसर्पपरिसर्पविसर्पसर्पैः ॥२१॥

विश्रम्य किञ्चिदथ सञ्चितपुण्यवृन्दैस्

तैरेव कैश्चन महागुणवृक्षकन्दैः ।

अभ्यञ्जनार्थमनुरञ्जनमञ्जुहासैर्

अभ्यङ्गमङ्गलगृहं प्रविवेश दासैः ॥२२॥

नानाप्रबन्धबहुबन्धविधौ विदग्धैर्

अभ्यङ्गमङ्गलविशेषकलासु मुग्धैः ।

तैलेन साधु शुभगन्धसुबान्धवेन

प्रारम्भि यत्तदुररीकृतमप्यनेन ॥२३॥

आपादमस्तकमनस्तसमस्तभाग्यैस्

तैलेन तैः प्रियसमाजसभाजयोग्यैः ।

नातिश्लथं च न दृढं च सुमङ्गलानि

प्रीत्या चिरं ममृदिरेऽथ तदङ्गकानि ॥२४॥

ते कौङ्कुमेन रजसा घनसारचूर्णैः

पूर्णेन चारुमृदुना परिपेषशीर्णैः ।

विम्लानभावमथ तैलकृतं हरन्तः

कृष्णस्य तानवयवानुदवर्तयन्त ॥२५॥

केनोचितेन घनसारसुवासितेन

नानाविधस्फटिकहेमघटीभृतेन ।

केशान्कषायकषितान्कलयन्कुमार

दासीगणोऽम्बुजदृशं स्नापयां चकार ॥२६॥

काचित्कषायितकचान्बहुशः कषन्ती

काचिन्मृदूनवयवान्मृदु मार्जयन्ती ।

भृङ्गारकेण कतमा सलिलं किरन्ती

लेभेतरामतितरामनुरागकान्ती ॥२७॥

एवं समाप्य कतमे स्नपनं शुभेन

शङ्खोदकेन शिरसि प्रतिपादितेन ।

अङ्गोञ्छनांशुकमनेकमथोपनीय

संमार्जनं विदधुरस्य भृशं विनीय ॥२८॥

आदौ सुचेलशकलैर्मृदुलैरशुष्कैः

पश्चात्क्रमेण ममृजुः सितसूक्ष्मशुष्कैः ।

आपादकुन्तलभरं प्रतिसन्धिसन्धि

ते मार्जनं विदधिरे प्रणयानुबन्धि ॥२९॥

कश्चित्कचान्गतजलान्द्विविधेन वासः

खण्डेन साधु विदधे मृदुमन्दहासः ।

कश्चित्पटुः कटित आद्गलदम्बुचेलं

चेलान्तरेण विनिनाय कृतावहेलम् ॥३०॥

केनापि नूतनमतित्वरयोपनीतं

कौषेयचेलयुगलं द्रुतहेमपीतम् ।

केनापि पाणिकमले क्रमतः प्रदत्तम्

उत्सार्य पूर्वपटमाशु स पर्यधत्त ॥३१॥

तस्यास्थितस्य रमणीयमणीचतुष्कं

प्रक्षालिताङ्घ्रिकमलस्य लसद्वपुष्कम् ।

पश्चाद्गतेन कतमेन कुमारभृत्ये

नासेवि कुन्तलभरः कुशलेन कृत्ये ॥३२॥

भूयः प्रसार्य परिमृज्य मुहुः प्रसाध्य

रत्नप्रसाधनिकया बहुशो विशोध्य ।

आवृत्य चेलशकलेन सता द्विफाल

बद्धः स कुन्तलभरः प्रभया पफाल ॥३३॥

अन्योन्यपालनकृता कचमेचकिम्ना

सूक्ष्मातिसूक्ष्मवसनस्य च पाण्डरिम्णा ।

निर्मोकमोकपरभोगिनिभोऽस्य केश

विन्यास एष न हि कस्य दृशोर्विवेश ॥३४॥

स्नानादृजून्सदलकानथ कुञ्चयित्वा

चारुस्वभावकु इलानपि रञ्जयित्वा ।

भाले लिलेख तिलकं शशिमण्डलाभं

श्रीखण्डकुङ्कुमरसेन सुजातशोभम् ॥३५॥

गारुत्मतेन्द्रमणिहीरकपद्मराग

प्रद्योतनं विधुरयन्त्यमिवाप्यनागः ।

अन्यप्रभावरणकारिमयूखसान्द्रं

श्रीकौस्तुभाभिधमधत्त महामणीन्द्रम् ॥३६॥

स्थूलेन मौक्तिकफलप्रकरेण क्ÿप्तान्

हारान्दधार गिरगोचरतामवाप्तान।

कञ्चिद्विशालतरवक्षसि नाभिकूले

कञ्चित्प्रलम्बमथ कञ्चन जानुमूले ॥३७॥

श्रीकुण्डले मणिमये मकरानुकारे

कान्तिप्रभाकृतकपोलमहःप्रचारे ।

श्रीकर्णयोरुपनिनाय जलोपरुद्धे

स्नानोत्सवेन विरहय्य स पूर्वसिद्धे ॥३८॥

सत्पट्टसूत्रकृतमञ्जुतरप्रलम्बौ सद्रत्नपट्टमयमङ्गलसूत्रचुम्बौ ।

गारुत्मतादिनवरत्नजबाहुबन्धौ

कश्चिद्बबन्ध वलयौ मणिबन्धसन्धौ ॥३९॥

दिव्याङ्गुलीयकमुदारमनामिकायां

तत्पद्मरागमहसां परिणामिकायाम् ।

पृष्ठोपसन्नमणिमुद्रमवर्जनीयं

दत्ते स्म कश्चिदधितर्जनि रञ्जनीयम् ॥४०॥

नानामणीन्द्रघटया घटितानुबन्धं

पीतांशुकोदरत ईमनु तुन्दबन्धम् ।

माणिक्यकिङ्किणिगुणं च क ईरमूले

कश्चिद्बबन्ध परिधत्तलसद्दुकूले ॥४१॥

पादाम्बुजोपरि मणीन्द्रघटानुक्ÿप्तं

मञ्जीरयुग्मकमथो नखचन्द्रदीप्तम् ।

आधाय कोऽपि मणिदर्पणमत्युदारम्

आस्येन्दुबिम्बमधि सस्पृहमादधार ॥४२॥

अत्रान्तरे व्रजपुरन्दरसन्निदेशम्

आदाय कश्चन तदस्य गृहं विवेश ।

ऊचे च कृष्ण! जनकस्य गिरा बहुभ्यस्

त्वं दातुमर्हसि गवामयुतं द्विजेभ्यः ॥४३॥

श्रुत्वा पितुर्गिरमसौ चिकुरं निबध्य

पीतोत्तरीयमपि सम्यगथो विशोध्य ।

आचम्य रम्यवदनो गुणरत्नसानू

रामानुजः सीवमनसा विततार धेनूः ॥४४॥

गोष्ठेश्वरीप्सिततमो रसवत्प्रपाकः

सम्पादितो भवति यावदनेकपाकः ।

तावन्न सोढुमभिशक्तवती विलम्बं

सा प्राहिणोत्किमपि भोक्तुमथाविलम्बम् ॥४५॥

हैयङ्गवीनदधिदुग्धसरादिभक्ष्यम्

एतत्समेतघनसाररजोऽभिभक्ष्य ।

आचम्य च प्रियसखांसकृतावलम्बस्

ताम्बूलमाद मधुराननचन्द्रबिम्बः ॥४६॥

श्रीराधासेवा—

एवं तथैव वृषभानुकुमारिकाया

दोषावसानमनु जागरणोत्सुकायाः ।

आलीगणः स्वभवनात्प्रणयाभिरामः

प्रातर्निषेवणकृतेऽथ समाजगाम ॥४७॥

काचिन्मणीन्द्रमयमासनमाजहार

श्रीपादपीठमपरा तदधो दधार ।

काप्यानयद्वदनधावनभाजनानि

काप्यादधे दशनशोधनसाधनानि ॥४८॥

उत्थाय तल्पतलतः कनकासनस्था

निद्रावसानविगलन्नियतव्यवस्था ।

सा पादपीठमधि दत्तपदारविन्दा

बभ्राज सत्परिजनैर्विहिताभिनन्दा ॥४९॥

भृङ्गारनालशिखरेण समर्पिताभिः

सन्धाय वक्त्रविवरे चुलुकीकृताभिः ।

तत्सौरभस्य रभसाधिकसौरभाभिः

श्रीपाणिपद्मतलसङ्गमलोहिताभिः ॥५०॥

निक्षेपणे प्रियसखीकरयोः कृताभिः

कर्पूरपूररजसोऽतिसुवासिताभिः ।

व्याप्तालिभिः सकलकेलिकलासुहृद्भिः

सा साधु शोधितवती मुखपद्ममद्भिः ॥५१॥

आमृज्य सूक्ष्मवसनेन सितेन कान्तान्

सा दन्तकाष्ठशकलेन विघृष्य दन्तान।

ताम्बूलरागपरभागवतीं मनोज्ञां

जिह्वाविशोधिनिकया व्यलिखद्रसज्ञाम् ॥५२॥

भूयः पयोभिरमलैर्मुखपद्मशुद्धिं

सम्पाद्य कान्तदशनद्युतिदत्तवृद्धिम् ।

तामासने स्थितवतीं धृतरत्नराजे

केशप्रसाधनकरी कतमाथ भेजे ॥५३॥

आकृष्य मुग्धमवगुण्ठनमुत्तमाङ्गाद्

उन्मोच्य कुन्तलततीः सुघनोत्तमाङ्गाः ।

रत्नप्रसाधनिकया चलकङ्कणलिः

सप्रेम सादरमशूशुधदुत्तमालिः ॥५४॥

आमृज्य चेलशकलेन तनूत्तमेन

सर्वाङ्गमङ्कितमनङ्गरणाङ्ककेन ।

अभ्यङ्गसङ्गिवसनं परिधाप्य नक्तं

वासोऽभ्यमूमुचदनुत्तमगन्धयुक्तम् ॥५५॥

प्रक्षाल्य पादयुगलं मुकुरं पुरस्ताद्

आदर्श्य काचन कलाकुशलत्वशस्ता ।

तैलेन सत्सुरभिणा लसतारुणिम्ना

भ्यानञ्ज कञ्जवदनां प्रणयेन भूम्ना ॥५६॥

अङ्गाद्यतो यत उदस्यति चारुचेलं

तत्तन्निरीक्ष्य ह्रियं ऋच्छति सानुवेलम् ।

तेनाक्तमक्तमवधाय सखीयमङ्गं

तस्याः प्यधात्तदखिलं कृतह्रीविभङ्गम् ॥५७॥

अभ्यज्य रज्यदतिशुद्धहृदो वयस्या

आपादमूर्धकृतमर्दनमङ्गमस्याः ।

उद्वर्तनं विदधिरे घनसारपूर्णैः

कस्तूरिकाघुसृणचन्दनचारुचूर्णैः ॥५८॥

गन्धानुबन्धिविमलामलकीकषायैः

केशान्विघृष्य कतमा विविधैरुपायैः ।

भृङ्गारनालगलितैर्ललितैः कबन्धैर्

उक्षाञ्चकार सहजप्रणयानुबन्धैः ॥५९॥

कालोचितेन घनसारसुवासितेन

नानामणीश्वरघटीघटया भृतेन ।

द्वाभ्यां शनैरुभयतः प्रतिपादितेन

द्वे पार्श्वयोः सिषिचितुः सुमुखीं जलेन ॥६०॥

संवेष्ट्य चारुचिकुरान्सिचयेन बाढं

निष्पीड्य भूरि गलदम्बु निगाल्य गाढम् ।

भूयः प्रसार्य चलदङ्गुलिभिर्विकीर्य

भूयो बबन्ध कतमा सिचयं वितीर्य ॥६१॥

काचिन्मुखेन्दुमपरा गलमूलमन्या

कर्णौ ममार्ज मृदुना वसनेन धन्या ।

वक्षो विषारि कतमा कतमा च पृष्ठं

बाहुद्वयं च कतमा सुषमा वरिष्ठम् ॥६२॥

संवेष्ट्य शुष्कवसनेन निरासनीयं

श्रोण्या जहार विगलज्जलमन्तरीयम् ।

आमृज्य पाणियुगलेन शनैरुदारम्

अर्धोरुकं कटितटे घटयाञ्चकार ॥६३॥

आमृष्टायोर्वरपयोधरयोरलोलं

काचित्कलासु कुशलाथ बबन्ध चोलम् ।

पट्टांशुकेन रचितं स्वसखीजनेन

नानाविधातिशयशिल्पविशारदेन ॥६४॥

तस्योपरि प्रतनु शोणितरं सुवीचि

चण्डातकादुदयदुच्चलसन्मरीचि ।

श्रीपादपद्मनखचन्द्रचयाग्रचुम्बि

चेलं बबन्ध तपनीयगुणानुबन्धि ॥६५॥

लम्बप्रलम्बयुगलेन सुपट्टदाम्ना

मुक्तामणीन्द्रमहसा विलसद्गरिम्णा ।

आकुञ्चनक्रमवशात्कमलानुकारां

जग्रन्थ नीविमभिनाभि सुशिल्पसाराम् ॥६६॥

आरोह्य तामथ महामणिपीठपृष्टःए

विस्तारितातिमृदुचेलकृतप्रतिष्ठे ।

प्रक्षाल्य पादकमलद्वितयं सतोषाः

सख्यो व्यधुइर्विविधमङ्गलवेषभूषाः ॥६७॥

भूयः प्रसार्य बहुशो बहुशः प्रसाध्य

रत्नप्रसाधनिकयाङ्गुलिभिर्विशोध्य ।

कालागुरुप्रभवधूपधुराप्रचारम्

आलीजनः कचभरं सुरभीचकार ॥६८॥

स्नानादृजुंसदलकालिमरालयित्वा

कस्तूरिकाभिरलिके तिलकं लिखित्वा ।

सिन्दूरबिन्दुरुचिरेऽकृत बालपाश्यां

सीमन्तसीमनि मणीन्द्रमयूखरस्याम् ॥६९॥

मौलौ बबन्ध कतमा सुमणि प्रवेकं

सन्मालतीकुसुमगर्भककान्तिसेकम् ।

धम्मिल्लमुल्लसितलोहितपट्टदाम्ना

लम्बप्रलम्बयुगलेन मणीन्द्रधाम्ना ॥७०॥

मुक्ताकलापकलया ललितप्रकाश्यां

काचिद्व्यधादलकसीमनि पत्रपाश्याम् ।

काचिन्मणीन्द्रमयकुण्डलमत्युदारम्

एकैकशः श्रुतियुगे घटयाञ्चकार ॥७१॥

सूक्ष्मोर्ध्वरन्ध्रगतहेयशलाकिकाया

मूलाग्रसङ्गललिते विदधे सुकाया ।

श्रीचक्रिकाबकुलिके श्रुतिमध्यदेशे

रत्नप्रभाभरधुरा विहितोपदेशे ॥७२॥

काचिद्विभूष्य नयने दलिताञ्जनेन

स्मारौ शराविव निघृष्टरसाञ्जनेन ।

नासापसव्यपुटके विततार मुक्तां

नेत्राञ्जनाधरविभाभरनीलरक्ताम् ॥७३॥

आवृत्तिवृत्ततरमेचकपट्टवासः

खण्डोपरि ग्रथितमौक्तिकजालहासः ।

सख्या गलोपरि गलाभरणप्रभेदः

प्रेम्नानुबन्धि शमिताखिलनेत्रखेदः ॥७४॥

मध्येप्रगण्डमतुलाङ्गदमुन्मणीनि

मध्येप्रकोष्ठमतुलानि च कङ्कणानि ।

तत्सीम्नि काप्यकृत मङ्गलपट्टसूत्रं

रत्नप्रकाशि मणिबन्धरुचातिचित्रम् ॥७५॥

रत्नोर्मिकामकृत काचिदनामिकायां

वामाङ्गुलीषु चतसृष्वपि रम्यकायाम् ।

सार्चिष्कनिष्कतरलोत्तमकान्तिसारान्

वक्षोजयोरुपचकार च कापि हारान॥७६॥

तुन्दान्तिके मणिविनिर्मिततुन्दबन्धं

काञ्चीगुणं च तदधो मणिवृन्दबन्धम् ।

पादाङ्गुलीषु वररत्नमयोर्मिकालीम्

आगुल्फमाधृत सुहंसकयुग्ममाली ॥७७॥

मञ्जरीयुग्ममतिमञ्जुलरत्नसिद्धं

पादाम्बुजोपरि चकार च कापि बद्धम् ।

तत्तत्स्वशिल्पकुशलत्वनिदर्शनाय

काचिन्मणीन्द्रमुकुरं पुरतो निनाय ॥७८॥

आभूष्य तत्परममङ्गलमङ्गमस्या

आलोच्य लोचनरसायनकं वयस्या ।

प्रावारकेण तनुना तनुमूर्णुनाव

सा श्रीस्त्रिलोकसुषमामिव संलुलाव ॥७९॥

श्रीनन्दालयगमनम्—

भान्तीं सखीसदसि घोषपतेर्गृहिण्या

प्रस्थापिता सकलकार्यवरे वरेण्या ।

सङ्गम्य तामनुचरीकृतसाधुवादम्

एका प्रकामकमनीयतमं जगाद ॥८०॥

कल्याणि कृष्णजननी प्रणयं दधाना

त्वामाह यत्तदवधारय सावधाना ।

कृष्णार्थपाककृतये कृतिभिर्वयस्या

वृन्दैः समं भव मदीयगृहे यशस्या ॥८१॥

जातिः समैव ऋजुता च समैव तेषां

भोज्यान्नता च सहजैव परस्परैषाम् ।

कृष्णात्मता च सदृशी स्थविरा नवीनाः

सर्वाश्च ता व्रजमहेन्द्रमहिष्यधीनाः ॥८२॥

तेनोचितं भवति देवि मयापि वक्तुं

ततोपगन्तुमुचितं तव चापि पक्तुम् ।

इत्याकलय्य मुमुदे परमेव पद्मा

सोपाययौ मृदुविलोहितपादपद्मा ॥८३॥

गोष्ठेश्वरीं समभिवाद्य विशेषनम्रा

तत्पाणिपद्मधृतपाणिरतीव कम्रा ।

आसाद्य रामजननीं प्रणनाम याताम्

अध्यक्षतां पचनकर्मणि साभिजाता ॥८४॥

रन्धनशालायां गमनमन्नपाकं च—

ताभ्यां महानसमुपेत्य च पाकशाला

पालीः स्मितेन मृदुना वचसा च बाला ।

सम्मान्य मान्यचरिता मुमुदे मितानि

पाकक्रियोपकरणानि विलोक्य तानि ॥८५॥

कुष्माण्डकालुकचुमानककन्दतुम्बी

वार्त्ताकुमूलकपटोलफलानि शिम्बी ।

डिण्डीशवारणबुषामफलान्यनीचा

रम्भाविशेषनवगर्भनवीनमोचाः ॥८६॥

वास्तूकमारिषपटोलशिखाः कलाय

वल्लीशिखाश्चणकाग्रशिखाः प्रधाय

तुम्बीशिखाश्च मृदुलाः सहपोदिकाग्राण्य्

आलोक्य सैक्षत सखीः सरसाः समग्राः ॥८७॥

यद्येन येन विधिना रुचिरत्वमेत्य

यद्व्यञ्जने यदुपयुज्यत इत्यवेत्य ।

ताभिर्महानसचरीभिरमूनि तानि

तत्तत्प्रकारमथ कुट्टितकर्त्तितानि ॥८८॥

एलालवङ्गमरिचार्द्रकजात्यजाजी

जातीफलत्वचसुलाङ्गलिसस्यराजीः ।

सिद्धार्थतण्डुलनिशा दलितांश्च माषान्

केचिज्जनाः पिपिषुरब्जदृशामशेषान॥८९॥

पिष्ट्वा सुवर्णपुटिकासु शुभप्रभावैर्

आच्छादितास्वनुचरीघटया शरावैः ।

सुस्थापितानि वसनोपरि पाकलीला

रम्भे चकार हृदयं निरवद्यशीला ॥९०॥

आवश्यकाभरणवेशलसत्प्रतीका

धौताङ्घ्रिपाणिकमला सहरोहिणीका ।

बभ्राज सा वरमहानसवेदिकायां

श्रद्धाय कौतुकवती पचनक्रियायाम् ॥९१॥

दीप्तासु रामजननीङ्गिततोऽनलेन

चुल्लीषु चारुतरदारुसमुज्ज्वलेन ।

आरूरुहन्नखिललोचनचित्तजैत्रीस्

तास्ताम्ररीतिरजताचितपाकपात्रीः ॥९२॥

जज्ज्वाल स स्वयमफुत्कृतिवीतधूमम्

अग्निः स्वयं जलमभूदनभूमभूम

यद्यत्र यत्र लवणं च तथा प्रमाणं

तत्तत्र तत्करतलेऽकुरुत प्रमाणम् ॥९३॥

शाकाः सुपाकभिदया सरसारसास्ते

संमूर्च्छिताः कटुतैलतले प्रशस्ते ।

सत्कासमर्ददलितार्द्रकनारिकेला

द्वैविध्यतस्तु सरसाः पनसाष्ठिखेलाः ॥९४॥

कुष्माण्डकालुकचुमूलकमानकादि

तर्कारिकं सुखमुत्तममभ्यपादि ।

यस्मिन्प्रतप्तकटुतैलगतिक्तपत्रीः

सत्कासमर्ददलितार्द्रकसाधुमैत्रीः ॥९५॥

वार्ताकुभिर्लवलवं शकलीकृताभिः

सत्क्षुद्रमुद्गबटिकाघटया चिताभिः ।

क्षुण्णार्द्रकोद्दलितलाङ्गुलिसस्यपूर्णं

जज्ञे परं च सुखदं कटुतैलशीर्णम् ॥९६॥

वार्ताकुसूरणकमानककर्करोलै

रम्भामुखोत्थकणिशैः कचुभिः पटोलैः ।

कुष्माण्डकैर्लवलवैः शितसूचिराजी

वेधेन नीरसतमैर्विविधास भाजी ॥९७॥

भण्डाकिकामकदलीफलनारिकेलाम्

इक्षासु माषबटकैः पटुभिः सुमेला ।

आमिक्षिकाख्यबटिका मरिचैः सिताभिः

कामं कटुश्च मधुरा च बभूव ताभिः ॥९८॥

आमृष्ट निस्तुषलसद्द्विदलोपपन्नः

प्राजाज्यहिङ्गुदलितार्द्रकखण्डभिन्नः ।

सन्नारिकेलपृथुमूलकबद्दरूपः

सत्सौरभं स समपद्यत माससूपः ॥९९॥

आपिष्टपीडितसुलाङ्गलिसस्यदुग्धैः

स्विन्नः सितोपलरसैरपि गव्यदुग्धैः ।

एलालवङ्गमरिचार्द्रकहिङ्गुभूपः

सन्नारिकेलबटकोऽजनि मौद्गसूपः ॥१००॥

अक्षुण्णशुद्धतरमुद्गफलोपपन्नं

स्विन्नं जलेन कियता बहुदुग्धमिन्नम् ।

एलालवङ्गमरिचोत्तमहिङ्गुयुक्तं

सूपान्तरं समभवत्सितया सुपृक्तम् ॥१०१॥

निर्वल्कलैर्वरवटीद्विदलैश्चतुर्थः

प्राज्याज्यहिङ्गुमरिचैः प्रचुरीकृतार्थः ।

निर्मूलमूलकलवैः कमनीयरूपः

पाके कलाकुशलया समपादि सूपः ॥१०२॥

रम्भाविशेषविसरत्कणिशोदरस्य

सस्यं निकृत्य कणशोऽंशुकुलं निरस्य ।

दुग्धेन हिङ्गुमरिचादिभिरर्चयित्वा

प्रीत्या पपाच मरिचाख्यमथो यतित्वा ॥१०३॥

अन्यच्च साऽपचत मानकमूर्तकाभ्यां

खण्डाच्च खण्डतरखण्डतमीकृताभ्याम् ।

गर्भान्विकृष्य चणकैर्बटिकोपयुक्तम्

अन्यच्च हिङ्गुमरिचादिभिरप्यपक्त ॥१०४॥

सौक्ष्मेण जीरकनिभं परिकृत्य तुम्बीं

सिद्धां जलेन पयसा च निधाय कम्बीम् ।

आलोड्य दत्तघनसारमपाचि दुग्धाऽ

लाभुः सितामरिचजीरकहिङ्गुमुग्धाः ॥१०५॥

कुष्माण्डकैः परिणतैः कृतखण्डखण्डैर्

अम्लः स कोऽपि मथितार्द्रकहिङ्गुखण्डैः ।

सामिक्षिकः सबटकैः कटुतैलभृष्टः

प्रत्युल्लसन्मधुरिको मसृणोऽजनिष्ट ॥१०६॥

ऊर्ध्वार्धमिष्टपृथुकोमलमूलकानां

खण्डैरखण्डवलयाकृतिकर्तितानाम् ।

अम्लोऽपरः समथितः सगुडोऽव्यलीकः

सत्पक्वभव्यशकलस्तनुतिन्तिडीकः ॥१०७॥

तक्रेण सच्चणकचूर्णनिशांशपीताः

सन्मातुलुङ्गकरसार्द्रकहिङ्गुपूताः ॥

स्थूलैः सुतूलमृदुलैर्बटकैर्निषेव्या

सा मञ्जुकाञ्जिकबटी समपादि भव्या ॥१०८॥

तप्ताज्यभृष्टतरसर्षपसद्विमर्दैर्

नव्यै रसालशकलैः सह कासमर्दैः ।

भूरिद्रवैरथ सशर्करदुग्धमिष्टः

क्षुण्णार्द्रकैः सुमहितोऽम्लवरोऽजनिष्टः ॥१०९॥

शुष्काम्रभृष्टतिलपिष्टकृतोऽत्यभीष्टश्

चालत्वचश्च परिभृष्टतिलोऽजनिष्ट ।

आम्रातकैः परिणतैरपरो नवीनैश्

चान्यश्च दुग्धसितशर्करहिङ्ग्वधीनैः ॥११०॥

एवंविधानि सुरसानि सुतेमनानि

कर्पूरसौरभभृतानि निधाय तानि ।

कृष्णाय कृष्णजनकाय च कृष्णमात्रे

रामाय चाधृत पृथङ्मणिहेमपात्रे ॥१११॥

एवं विभज्य मणिहेमशराविकाभिर्

आच्छाद्य वीजिततनुः परिचारिकाभिः ।

आमिष्टपिष्टपचनाय कृताभियोगा

सा हृष्टहृद्विरुरुचे कृतसन्नियोगा ॥११२॥

दुग्धेन भृष्टतिलतण्डुलनारिकेलैश्

चित्राख्यपिष्टकमविश्लथदुग्धखेलैः ।

उष्णाम्बुपूर्णपटबद्धघटाननोत्थैः

स्वेदैरसाध्यत सर्वावकृतावहित्थैः ॥११३॥

कर्पूरखण्डमरिचादिकृताभिरूप्य

साराः कृशाः सुपृथुलाः सरदुग्धकूप्यः ।

आर्षावलिश्च सह कर्करिकावलीभिः

सिद्धिं ययुः सह च मौद्गिकशङ्कुलिभिः ॥११४॥

जीलाविकामठहरीपुरुपूपगूजा

नाडीचयाः कृतसरस्वतिकादिपूजाः ।

खर्चूरदाडिमकशर्करपालमुक्ता

लड्डूत्करान्विदधिरेऽथ कलाभियुक्ताः ॥११५॥

सामिक्षि लड्डुकमनोहरहंसकेलिः

शोभारिका च दधिघोल बडात्तकेलिः ।

सत्काटवा चटुलिता सह दुग्धफेणी

गोधूमसूत्रजनिता ललिता च वेणी ॥११६॥

सच्चन्द्रकान्ति ललितामृतपूलिकादि

सर्वं सुपिष्टककुलं सहसोदपादि ।

सत्पिष्टपाकनिपुणालिचयैः समेत्य

श्रीभानुभक्तिभरयाखिलचित्तमेत्य ॥११७॥

अथ दधि नवनीततक्रदुग्धं

सरगुटिकासरभाजितादिमुग्धम् ।

मथितशिखरिणीलसद्रसालाः

सुविदधरे ललितादयः सुशीलाः ॥११८॥

इति श्रीकृष्णाह्निककौमुद्यां

द्वितीयः प्रकाशः

॥२॥

.

(३)

तृतीयः प्रकाशः

भोजनमन्दिरे परिवेषणक्रमः—

व्याप्तायां वसनेन भोजनभुवि श्रीरत्नपीठाग्रतस्

तत्तद्व्यञ्जनरत्नरत्नपुटिकापङ्क्तिः क्रमेणाभितः ।

मिष्टाभीष्टसुपिष्टकौघपुटिकापङ्क्तिस्तु तासां बहिः

सम्यग्भव्यसुगव्यहेमपुटिकापङ्क्तिश्च तासां बहिः ॥१॥

इत्येवं क्रमतोऽर्धमण्डलतया पङ्क्तिक्रमेणाद्भुते

स्वालीभिः पुरुचारुचित्ररचनाद्वैविध्य आपादिते

अन्योन्याव्यतिषक्तसूक्ष्मसुरभिश्लक्ष्णैर्घृताच्योतनैर्

मध्ये हेममयी व्यधायि रुचिरा पात्री शुभैरोदनैः ॥२॥

सौवर्णीं तलपात्रिकां घृतपुटीलिम्पाकखण्डादिभिः

सन्धानार्द्ररसालखण्डसहितैः सत्कासमर्दादिभिः ।

युक्तां दक्षिणतो निधाय निकटे तस्याश्च भृङ्गारकान्

कर्पूरेण सुवासितेन पयसा पूर्णान्व्यधात्कानकान॥३॥

तस्याः पाकसुकौशलं बहुविधं दृष्ट्वा व्रजेशप्रिया

तासां तत्परिवेषचित्ररचनां चातिस्फुरद्विस्मया ।

आनेतुं प्रजिघाय वत्सलमनाः कृष्णं च रामं च सा

धात्रेयीमथ तौ समीयतुरतिश्रद्धावशादञ्जसा ॥४॥

प्रातर्भोजनम्—

नत्वा मातरमाज्ञया सहबलस्तस्याः समुल्लासनः

प्रेम्णा बालकदासिकाकृतपदाम्भोजद्वयीधावनः ।

आचम्योपविवेश सम्मुखतया चार्वन्नपात्रीपुरः

सर्वं तत्तदवेक्ष्य विस्मितमना बभ्राज पीताम्बरः ॥५॥

स्निग्धैर्ब्राह्मणबालकैः सहबलः साकं च गोपात्मजैः

कृत्वा पोषणवारि पाणिकमले शोणं तदंशुव्रजैः ।

मात्रोरप्यनुमोदनं तदमृताहारोऽस्त्विति प्रेमवत्

प्राप्य स्मेरमुखः प्रसन्नहृदयो भोक्तुं प्रवृत्तोऽभवत॥६॥

मातृभ्यां क्रमदर्शितेन हि पथा भोक्तुं समारब्धवान्

यद्यद्भोक्तुमुपक्रमं स्म कुरुते त्यक्तुं न तत्सोढवान।

भोक्तुं तत्तदशेषमप्यभिलषन्सामर्थ्यवांश्च स्वयं

किञ्चित्किञ्चिदभुक्त वीक्षकभिया दुर्वादभीत्याप्ययम् ॥७॥

व्याख्याद्भिः सहभोजिभिः सहबलैः पाकस्य तत्कौशलं

स्वादुङ्कारमदन्नवागपि हृदा सोऽपि प्रशंसन्नलम् ।

आदौ पायसमाश किञ्चिदपरप्राचुर्यपर्याप्ततां

वीक्ष्य व्यञ्जनरत्नयत्नगमिना लोभेन भूम्ना चिताम् ॥८॥

शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जनान्य्

आदन्मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना ।

तान्सर्वान्सहभोजिनः सरसया वाचा हसन्हासयन्

भुञ्जध्वं न परित्यजेत किमपीत्येकान्तमाह्लादयन॥९॥

अन्नं व्यञ्जनवत्कियत्कियददंश्चक्रेऽन्नवद्व्यञ्जनं

पर्याप्तं न तथापि लालसतया वाभूदनुव्यञ्जनम् ।

प्रत्येकं च तदिष्टपिष्टककुलं तां गोरसानां भिदाम्

एकैकां च कृताभिनन्दनमदन्सम्पिप्रिये सर्वदा ॥१०॥

मातृभ्यामथ भुङ्क्ष्व भुङ्क्ष्व कियदित्याभाष्यमाणोऽपि स

व्याञ्जीत्तृप्तिमिव स्वयं न तु हृदा तृप्त्या बभूवालसः ।

आचान्तः सुखधौतमृष्टकरपद्वक्त्राम्बुजः कोमले

देवार्हे मुखवासवासितमुखः सुष्वाप शय्यातले ॥११॥

प्राप स्वापसुखं स यावदतुलं तावद्विशाखादिकाः

सख्यः श्रीवृषभानुजामतमभिप्रेत्य प्रकामोत्सुकाः ।

फेलां तामघमर्दनस्य कियतीमादाय पात्रान्तरे

कृत्वा तस्य कुमारभृत्यभृतिकाश्रेण्यै समादध्रिरे ॥१२॥

ताश्चैवं हृदि चक्रुरेतदनया घोषेशगोष्ठेशयो

रोहिण्या च तथेतरेण च सुहृद्वर्गेण पर्याप्तयोः ।

अप्राप्ते सति भोजने कथमियं भुङ्क्तामिति स्वेच्छया

स्थाने साधुनि संवरीतुमनसस्तस्थुः प्रसन्नाशयाः ॥१३॥

ज्ञात्वैवं न तदा निमन्त्रितवती तां तत्र गोष्ठेश्वरी

भूयश्चाह्वयितास्मि गेहमधुना यात्वेव शातोदरी ।

इत्यावेद्य तदाशयं सहसखीवृन्दा स्वहर्म्योदरे

श्रीकृष्णस्य वनप्रयाणकुतुकालोकाय सा तत्वरे ॥१४॥

पूर्वाह्नलीला, वनगमनोद्योगः—

देवप्रस्थवरूथपांशुसुबलश्रीदामभिः शोभनैर्

ओजस्विप्रमुखैर्विशालवृषभश्रीस्तोककृष्णार्जुनैः ।

सार्धं गोपसुताः समानवयसः सर्वे समानाशया

गोपेन्द्राङ्गनमाययुः प्रमुदिताः श्रीकृष्णसङ्गाशयाः ॥१५॥

सर्वे बर्हविषाणवेणुलकुटीनिर्योगपाशाञ्चिता

गुञ्जाधातुफलप्रवालसुमनोभूषाभिराभूषिताः ।

प्रातःस्नातसुमृष्टभुक्तधयितस्फीताः क्वणन्नूपुराः

कृष्णोत्तिष्ठ जय प्रयाम विपिनं चेत्यूचिरे सत्वराः ॥१६॥

तेषामागमनस्वनेन कुतुकादुत्थाय तल्पोदराच्

छ्रीकृष्णोऽपि विमृज्य नेत्रकमलं व्यावल्गु निद्रादरात।

तं वेशं परिहाय वेषमपरं गोचारणे कानन

क्रीडाकौतुकमङ्गलोचितमथो जग्राह चन्द्राननः ॥१७॥

चूडाचुम्बितचारुचन्द्रकलसद्गुञ्जालतः कर्णयोः

पुन्नागस्तवकी मणीन्द्रमक्रश्रीकुण्डलापूर्णयोः ।

श्रीवक्षः प्रतिमुक्तमौक्तिकलता श्रीरञ्जिगुञ्जासरः

क्रीडाकाननयानकौतुकमना बभ्राज पीताम्बरः ॥१८॥

मुग्धस्निग्धकुमारपार्षदसदो वेषान्तरापादिकां

सामग्रीं सपरिच्छदामथ दधद्वासोविभूषादिकाम् ।

आदायानुययौ कुतूहलवशाद्गोष्ठेशयोराज्ञया

ताम्बूलस्य च सम्पुटं मणिमयान्भृङ्गारकांश्चेच्छया ॥१९॥

गोपेन्द्रेण पुरैव दासतनयैर्गावो विनिष्कासिता

दोहनान्तरमेव वत्सनिचयाश्चान्यत्र सञ्चारिताः ।

उत्कर्णाश्चकितेक्षणाः प्रणयिताव्यालम्बिहम्बारवास्

तस्थुस्ता व्रजसीम्नि एव निकटे कृष्णप्रतीक्षेक्षणाः ॥२०॥

व्योम्नि व्योमचरैः सुगन्धिकुसुमासारैः समाराधितः

प्रासादेषु कुलाङ्गनाभिरभितो नेत्राम्बुजैः पूजितः ।

रथ्यायां शिशुभिर्जयेति मधुराव्यक्तैः कलैरर्चितः

स्वस्वद्वारि विसारिणां प्रवयसामाशीर्भिरावर्धितः ॥२१॥

वात्सल्याद्विरहासहादनुगतो मातापितृभ्यां शिरस्य्

आघ्रातश्च मुहुर्मुहुः पुरु परिष्वक्तश्च दोर्भ्यां पुरः ।

यातं यातमितः पुरीति पितरौ साम्ना विसृज्य स्वयं

तैरेतैः सखिभिः समन्तमगमत्कृष्णो गवां सञ्चयम् ॥२२॥

बभ्राजे स गवां गणो हरशिरश्चन्द्रप्रभाभास्वरः

श्वेतद्वीप इवापरो वसुमतीसञ्चारलीलापरः ।

तस्मिन्सन्ततमेव किन्तु भगवान्विक्रीडति श्रीधरः

श्रीमानेष तु सञ्चरत्यघरिपोरव्यग्रमग्रेसरः ॥२३॥

दुग्धाब्धिप्रसरक्षमा अपि रुचा दुग्धाब्धिशोभाहरा

दुग्धाब्धेः स्वयमुत्थिता भगवती लक्ष्मीरिहैव स्थिरा ।

सर्वाः कामगवीयशोभरमुषो यासां निपीतं पयः

कृष्णेन श्रुतिर्मूर्तयः कथममूर्गावो गिरामाश्रयः ॥२४॥

दृष्ट्वा कृष्णमुपागतं सह सखिव्रातैः समानन्दिताः

पङ्क्तीभूय निजेच्छयैव चलिताः केनापि न प्रेरिताः ।

कृष्णावेशमनोविकाशपिशुनैरानन्दहम्बारवैः

कुर्वाणा हरितां मुखं मुखरितं ताः कीर्णकर्णोत्सवैः ॥२५॥

साहंपूर्विकमाशु धावितवतां कृष्णस्य पश्चात्पुरः

पार्श्वेषु व्रजपालबालसदसां सम्मोद आसीत्परः ।

येषां शेखरबर्हिबर्हमहसा सन्मञ्जुगुञ्जावली

भूषाभाभिरभून्महाझलमलत्कारा दिशां मण्डली ॥२६॥

तेषां वेणुविषाणपत्रनिनदः प्रोद्गीर्णकर्णोत्सवः

प्रीतानां च गवां मरालमधुरः सम्मोदहम्बारवः ।

तेषां च प्रतिनिःस्वनः समभवत्कृष्णप्रयाणोत्सव

श्रीरंसी जयडिण्डिमध्वनिरिव व्याकीर्य धैर्यं दिवः ॥२७॥

तिर्यग्ग्रीवमतीवहर्षविवशाः पश्चात्प्रयातं शनैः

पश्यन्त्यो व्रजराजनन्दनमनुच्योतत्पयोभिः स्तनैः ।

गावोऽग्रे चलिताः समेत्य ललितं वृन्दावनस्यान्तिकं

तस्थुस्तत्र विवक्षवोऽस्य हृदयाभिप्रायमैकान्तिकम् ॥२८॥

गोचारणम्—

ताः सर्वाः स्थैगिता विलोक्य कुतुकी ज्ञात्वा च तासां मनः

प्रायादग्रत एव साग्रकरुणः सर्वात्मनां रञ्जनः ।

कृष्णो रामपुरःसरः सह सखिव्रातेन ताः शाद्वलं

निन्ये धन्यविसार्यहार्यसुषमाप्राचुर्यपर्याकुलम् ॥२९॥

तत्रानुक्षणधुक्षणाक्षयलसत्सुगन्धिकश्रीभरे

स्फारे मारकताङ्कुरव्यतिकरश्यामत्विषीवोद्धुरे ।

गाः सञ्चार्य विसार्य तत्र करुणासङ्गानपाङ्गानथ

क्रीडाकाननमाविवेश कुतुकी साक्षान्नवो मन्मथः ॥३०॥

तं व्यालम्ब्य कदम्बकाण्डमनघं तिर्यक्त्रिभङ्गी स्थितः

क्रीडायष्टिनिविष्टपार्श्ववलयः सुस्निग्धमुग्धस्मितः ।

श्रीबिम्बाधरबिम्बचुम्बिमुरलीकूजेन सम्पूजयन्

पर्यन्ताश्रयिणीश्चकार परितस्ताः शोभया भ्राजयन॥३१॥

यां यामाश्रयतो दिशं व्रजपतेः पुत्रस्य नेत्रद्वयी

सा सा तस्य मनस्यभूत्प्रियकरी यस्याः श्रिया श्रीमयी ।

धेनुश्रेणि रसावशोभि तरसा रिङ्गत्तरङ्गा ततः

क्षीराब्धेः परिखेव दुस्तरतरा वृन्दावनं सर्वतः ॥३२॥

यां यां तत्र जघास घासपटलं गोयूथमव्याकुला

सा सा तत्क्षणमेव पूर्ववदहो जातप्ररोहाकुला ।

तेनैतत्क्षणमात्रभक्षणविधौ सक्षेमकुक्षिंभरि

क्रीडा केवलमस्य सा विचरणं यच्छाद्वलस्योपरि ॥३३॥

नो दंशैर्मशकैश्च नो परिभवः कश्चिद्गवां पीवरं

लोलल्लूमलताविधूननमहो शोभाविभूत्यै परम् ।

कर्णौ वेणुरवे दृशावघरिपोर्वक्त्राम्बुजे मानसं

रूपे या विदधुर्वचोऽपि च तदाह्वाने परं लालसम् ॥३४॥

धन्याः काश्चन धेनवो नवनवस्नेहानुबन्धोद्धुराः

श्रीकृष्णस्य समीप एव समयुर्नशज्जिघत्सादराः ।

उक्षाणोऽक्षिपथं कथञ्चन न तेऽत्याक्षुस्तदीक्षोत्सवाः

पुष्टाः स्वस्य करेण हृष्टवपुषोऽभीष्टाश्च तस्याश्रवाः ॥३५॥

बालाः केचन केचन प्रसृमरा गोमण्डलीमन्वगुः

केचित्कृष्णसमीप एव मिलितास्तत्तद्गुणानाजगुः ।

दूरस्था निकटस्थिताश्च सकला गावश्च गोपाश्च ते

तुल्यां प्रीतिमवाप्य कृष्णमभितस्तुल्यां रतिं तन्वते ॥३६॥

मध्याह्नलीला, वेणुमाधुरी—

तूष्णीकान्मुखरीकरोति मुखरांस्तूष्णीकयत्यम्भसां

स्तम्भं स्तम्भवतां द्रवं द्रुतमतिस्निग्धत्वमुग्रौजसाम् ।

कर्णाभ्यर्णमुपेत्य तूर्णमसकृद्येमं विधत्ते क्रमं

तां वंशीमधरे निधाय मधुरं कृष्णो जगौ पञ्चमम् ॥३७॥

ऊहुर्भूमिरुहा मुहुः पुलकितां सर्वत्र सर्वे खगा

बाष्पाम्भः कणकीर्णशीर्णगरुतोऽकम्पन्त सर्वे मृगाः ।

रोमन्थाय न चाशकन्ननुहनुस्तम्भं सदा सिष्विदुः

शैलाः सूरसुता च्युता निजगतेः किं नाम तत्के विदुः ॥३८॥

सर्वे तस्य कृपानिधेः प्रविलसद्दीक्षादिदृक्षाविधौ

सर्वे व्यूढनिगूढभावभविकास्तस्यैव लीलाम्बुधौ ।

आपद्मासनमापशुद्रुमलतं यत्रानुरागो महान्

आदुग्धाम्बुधिकन्यमाशवरि च प्राउढा रतिर्निःसहा ॥३९॥

श्रीकृष्णचरणमाधुरी—

दूरे सन्तु सचेतना मणिभुवोऽप्युद्न्दन्ति यत्स्पर्शतः

किं ब्रमो व्रजराजपुत्रपदयोस्तां माधुरीं तन्वतोः ।

या संव्यक्ततमध्वजाम्बुजयवाद्यङ्कावलीशालिता

सा केनापि कदापि कापि कथमप्यासीन्न संलोपिता ॥४०॥

वक्तुं कोऽर्हति गोपराजयुवराजस्याङ्घ्रिपङ्केजयोः

सौगन्ध्यं क्षितिवक्षसि प्रणयतो लीलागतिन्यस्तस्तयोः ।

अङ्केष्वेष्वविशङ्कया बत धिया सौगन्ध्यबन्धान्धया

पुञ्जीभूय विधूय कुञ्जकुसुमं गुञ्जन्ति पुष्पन्धयः ॥४१॥

काननशोभावर्णनम्—

अक्षप्लक्षरसालतालसरलन्यग्रोधतापिञ्छकैर्

जम्बूनिम्बकदम्बशाल्मलिधवश्रीपर्णिकाकिंशुकैः ।

खर्जूरार्जुनमर्जपीलुखदिरैः शैलूषलोध्रासनैर्

दारुस्यन्दनरक्तचन्दनकपित्थाश्वत्थसत्पीतनैः ॥४२॥

मन्दारैर्हरिचन्दनैरगुरुभिः सन्तानकैश्चम्पकैः

पुन्नागैर्बकुलैर्बकैः कुरुवकैः कङ्केल्लिभिः केतकैः ।

यूथीजात्यतिमुक्तपाटलिजपाशेफालिकावल्लिभिर्

मल्लीभिर्मुचुकुन्दकुन्दकरुणैः सत्स्वर्णयूथ्यादिभिः ॥४३॥

पूगैर्दाडिमनारिकेलपनसै रम्भाभिराम्रातकैर्

नारङ्गै रुचकैर्मधुकशमिकाकक्कोलकुद्दालकैः ।

भव्यैरामलकीलवङ्गलवलीसत्कर्मरङ्गादिभिर्

जबीरावलिसल्लकीकरुणकैरम्लानकुब्जादिभिः ॥४४॥

वानस्पत्यवनस्पतिव्यतिकरैरप्राकृतैः प्राकृतैः

सर्वै रत्नमयालवालवलयैर्नानालतालिङ्गितैः ।

पुण्यारण्यवरेण्यमौलिमणिभिर्धन्यैरथान्यैर्द्रुमैर्

जुष्टं तद्वनमाविवेश स समं रामेण सख्युत्तमैः ॥४५॥

काण्डं मारकतं प्रभूतविटपाः शाखाः सुवर्णात्मिकाः

पत्राली कुरुविन्दकन्दलमयी प्रावालिकाः कोरकाः ।

पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल

श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ॥४६॥

येषां रत्नमयालवालवलयक्रीडाद्रिनिर्यत्पयः

पूरेषु प्रतिबिम्बतो ह्युभयतो विस्तारवच्छ्रेणयः ।

ये वै चित्रपवित्रपत्रिनिकरे सर्वत्र मैत्रीजुषः

कामं कामदुघोऽखिलाः क्षितिरुहस्त्रैलोक्यलक्ष्मीयुषः ॥४७॥

नानामञ्जुलकुञ्जमण्डपकुलैर्नानामणिमन्दिरैर्

नानारत्नमयैर्भुवः परिसरैर्निर्यत्नरत्नाङ्कुरैः ।

क्वापि क्वापि वनस्थली सुललिता कृष्णाभमृत्स्नामयी

वैचित्री नहि तत्र धातृविहिता नित्यैव सा चिन्मयी ॥४८॥

बद्धा कापि वनस्थली मरकतैर्यस्यां चरन्ति ध्रुवा

बाष्पच्छेद्यतृणाङ्कुरभ्रमवशादेण्यो वर्ण्योत्सवाः ।

सिद्धान्या कुरुविन्दकन्दलकुलैर्यस्यां हिमस्यागमे

बालार्कद्युतितर्कतश्चमरिकाः क्रीडन्ति कालक्रमे ॥४९॥

विस्फारस्फटिकेन्द्रसान्द्रसरसा काचिन्निदाघातुराः

सेवन्ते घनचन्द्रिकाचयधिया यां संवराणां वराः ।

काचिन्नीलमणीन्द्रवृन्दघटिता ध्वान्तभ्रमे सङ्गते

यामाश्रित्य निदाघदीधितिभिया घूकाः सुखं शेरते ॥५०॥

षडृतुशोभा—

वासन्ती कलिकालिमौक्तिकलता मल्लीप्रसूनाञ्चिता

कादम्बस्तवकस्तनाम्बुजमुखी लोध्रावतंसान्विता ।

दाम्ना दामनकेन बन्धमधुपश्रेणी सुवेणीप्रिया

लक्ष्मीस्तस्य वनस्य कृष्णमभजत्षाण्णां ऋतूनां प्रिया ॥५१॥

प्रालयैर्यवसाङ्कुरैर्मधुरसैर्गन्धैः प्रसूनोत्तमैः

श्रेण्योर्ध्वं गतयालिनां सुमुकुकैश्च्योतैः फलैः पक्त्रिमैः ।

पाद्यार्घ्याचमनीयगन्धसुमनोधूपप्रदीपावली

नैवेद्यानि ततान सा वनरुहां कृष्णार्चने मण्डली ॥५२॥

चञ्चद्वातगुरूपदिष्टनटना भृङ्गावलीगायनी

गीतार्थाभिनयोल्लसद्दलकरा दिव्याङ्गिकोल्लासिनी ।

आपीनस्तवकस्तनप्रकटनव्रीडातिकम्रानतिः

प्रोन्मीलत्कुसुमस्मिता हरिपुरोऽनृत्यल्लतानां ततिः ॥५३॥

तत्रैका कुसुमस्मितं दलकरेणाच्छादयद्व्रीडिता

हर्षास्रं मकरन्दबिन्दुभिरुदस्राक्षीत्परानन्दिता ।

आरौत्सीदपरापरागपटलीचीनेन पीनस्तन

श्रीभाजस्तवकान्विकीर्य मधुपानङ्गात्स्थिताः काश्चन ॥५४॥

चञ्चत्कोकिलकूजितेन मरुता लोलैर्दलैः पाणिभिस्

तोकोल्लासिविकासिपुष्पहसिताव्यक्ताभिराहूतिभिः ।

एह्येहीति मनोरथोज्ज्वलमना निःसाध्वसैवोत्सुका

वीक्ष्यैवाह्वयतीव कृष्णमसकृत्काचिल्लताश्रेणिका ॥५५॥

दार्वाघाटविरावशुष्करुदितो भृङ्गावलीभ्रूभृत

भ्राम्यद्भ्रूकुटिवीक्षिते सति हरौ पुष्पैः सरोषस्मितः ।

लोलैः पल्लवपानिभिर्नननेत्याक्षेपकारीद्विज

स्वानैः कल्पितभर्त्सनो विरुरुचे कश्चित्स वल्लीव्रजः ॥५६॥

वनविहारः—

इत्थंभावितभावभावुकवतीर्वल्लीततीर्मानयन्

भक्त्या पुष्पफलोपचारचतुरान्नूर्वीरुहान्नन्दयन।

प्रोन्मीलन्नवशाद्वलां तत इतः श्रीरत्नभूमण्डलीं

पद्भ्यां मेदुरयंश्चचार रसिको वृन्दावनान्तःस्थलीम् ॥५७॥

यस्मिन्पुञ्जितमञ्जुगुञ्जदलयो वासन्तिका मण्डपाः

कूजत्कोकिलकेलिकौतुकरहःकोहलाः पादपाः ।

चञ्चच्चन्दनशैलनन्दनमरुल्लोलल्लताबान्धवं

लीलाचङ्क्रमणक्रमेण स ययौ देशं वसन्तोत्सवम् ॥५८॥

लीलारत्नमयाचलोदरशरच्छीताम्भसो निर्झरः

प्रच्छायक्षतभानुनिकरा भूमिरुहाणां वराः ।

वाताः पाटलिवाटिकापरिमलैः खञ्जन्ति यत्खञ्जवत्

स्थानं फुल्लशिरीषकुञ्जमगमत्तद्ग्रीष्मसन्तोषवत॥५९॥

अन्तःस्तम्भितवारि जातिमुकुलोन्मेषक्षमं वर्षतां

स्फूर्जत्स्फूर्जथुमप्यपोह्य शिखिनां लास्योचितं गर्जताम् ।

श्लिष्ट्वा शीकरवाहिनं जलमुचामोघः कदम्बानिलं

यत्रास्ते सततं स तत्प्रतिययौ वर्षाप्रहर्षस्थलम् ॥६०॥

यत्रोत्फुल्लसरोरुहोत्पलचलत्कह्लाररक्तोत्पलैः

सत्कारण्डवहंससारसबकक्रौञ्चादिभिश्चञ्चलैः ।

वाप्यो रत्नतटाः सरांस्यपि सुधान्यक्कारिकारीण्यथ

प्रायोद्देशमयं तमेव शरदामोदं नवो मन्मथः ॥६१॥

पक्वाम्रातकपिङ्गलामरुणितां सत्पक्वनारङ्गकैः

पीतां पक्त्रिमकर्मरङ्गकफलैः श्यामां च भल्लातकैः ।

आपक्वैरथ फुल्ललोध्रधवलामम्लायदम्लानकां

श्रीकृष्णो विपिनस्थलीमथ ययौ हेमन्तसन्तोषिकाम् ॥६२॥

प्रालेयद्रवशीकरैर्दिनमुखे कृष्णागमाकाङ्क्षया

या हर्षेण विरोदितीव विकसत्कुन्दौघदन्तश्रिया ।

उद्दामद्युतिदामभिर्दमनकैस्तां कीर्णकेशामिव

प्रीत्याश्वासयितुं जगाम शिशिरामोदस्थलीं माधवः ॥६३॥

इत्थं सव्रजबालकः सहबलः षण्णां ऋतूनां क्रमात्

प्रीत्यालोक्य वनस्थलीं तत इतो लीलाविहारश्रमात।

षट्कालीनफलप्रसूनविहिताकल्पोनुजल्पन्मिथः

कृष्णो विश्रमणाय कुत्रचिदसौ श्रद्धामकार्षीदथ ॥६४॥

लाङ्गुलैश्चमरीचया विदधिरे पर्यन्तसम्मार्जनं

कस्तूरीहरिणां गणा निजमदैर्गन्धानुबन्धार्चनम् ।

यस्या यां शवरीचयश्च कवरीभारेण वारिच्युता

सुस्निग्धां कुरुते स तामकलयद्वेदीं समां विद्युता ॥६५॥

प्रेमारामचरी शरीरमहसा सा मन्मथोन्माथिनी

श्यामा काचन देवता स्मितसुधावाप्या समाप्यायिनी ।

रामाद्यैः सखिभिः सुमङ्गलगुणग्रामाभिरामाकृतिस्

तामारुह्य दृशा विलिह्य च विशश्रामाभिरामद्युतिः ॥६६॥

श्रीकृष्णबलरामयोः सेवा—

कश्चित्तल्पमकल्पयन्नवदलैः कश्चिन्निजोरुं गुरु

व्यातानीदुपधानमङ्घ्रितलयोः संवाहनं कोऽप्युरु ।

चक्रे वीजयति स्म कश्चन फलान्यानीय दिव्योन्यथ

प्रीत्या प्राशयदेक एवमपरे रामं च भेजुर्मिथः ॥६७॥

यमुनातटे गमनम्—

विश्रम्य क्षणमुत्थितः स परितः पर्यन्तशष्पादिनीः

श्रद्धावानवधाय धेनुपटलीः पानीयपानार्थिनीः ।

बालैस्तत्परिपालकैर्मुरलिकानादोपदिष्टैर्धुताः

कृष्णो भास्करनन्दिनीपरिसरानासादयामास ताः ॥६८॥

तत्राभ्यर्णचरान्प्रियान्वृषवरान्गाश्चानुगाः काश्चन

श्रीदामा समपाययन्मणिसरश्रेणीष्वपः काश्चन ।

पीते वारिणि चारु हारिणि तृषां पाण्यर्पितैः कोमलैर्

भूयस्तान्नवशल्लकीविटपिनामाप्यायत्कन्दलैः ॥६९॥

शृङ्गाशृङ्गि मिथः कुतूहलवशादादौ शनैर्युध्यतोः

पश्चादाक्रमविक्रमप्रकटितस्पर्धावशात्क्रुध्यतोः ।

तुल्याकारवयोविषाणवलयोः स्वस्यापि तुल्येष्टयोर्

उक्ष्णोर्वेणुरवेण स व्यपनयद्रोषं रोषाविष्टयोः ॥७०॥

श्रीगोपीनां कृष्णेऽनुरागः—

भर्ता प्राणमनोमनोरथधियां हर्ता भृशं दारुणः

कामं काटवपाटवो गुरुजनः कोपप्रकल्पोल्बणः ।

बन्ध्यो बन्धुजनः समीहितसमाधानेऽनिवार्यं मनः

किं कुर्मोऽत्र भयत्रपे विरमतं जीवामि नाहं पुनः ॥७१॥

इत्युत्सार्य भयं विकीर्य च ह्रियं नार्योऽतिपर्याकुलाः

कृष्णासङ्गसुखेन खेदविगमप्रत्याशया चञ्चलाः ।

पुष्पाद्याहरणच्छलेन वलता वृन्दावनं भेजिरे

कृष्णोऽप्येतदवेत्य निस्त्रपकृपः कामं जहर्षान्तरे ॥७२॥

छायाकायकुलं विधाय सुदृशां भर्त्èन्गुरूनप्यथ्

स्वस्वाभ्यासगता इव प्रविदुषः सम्मोहयन्ती मिथः ।

साहाय्यं कुरुतेतरां भगवती श्रीयोगमायैव सा

तासां तास्तु न तद्विदन्ति तदहो जानातु कोऽन्योऽञ्जसा ॥७३॥

इति श्रीकृष्णाह्निककुमुद्यां

मध्याह्नलीलायां

तृतीयप्रकाशः

॥ ३ ॥

.

(४)

***चतुर्थः प्रकाशः ***

मध्याह्नलीला

तं वसन्तसुभगं वनभागं

भागधेयविलसत्परभागम् ।

पापतापहरणव्यवसायः

सायति स्वरितवेणुसहायः ॥१॥

बालकैरविदितः सहरामैर्

धेनुपालनरसेष्वभिरामैः ।

कैश्चिदेषु विदितश्च सलीलैर्

मर्मनर्मसचिवैः शुचिशीलैः ॥२॥

इन्द्रनीलमणिदर्पणदर्प

द्रोहदोहनमहःपरिसर्पः ।

कोटिचन्द्रमधुरो रविकोटि

ज्योतिरङ्गजितमन्मथकोटिः ॥३॥

श्रीकृष्णरूपमाधुरी—

मेदुरो मृदुतरः सतरङ्गः

श्यामलः सततसौरभसङ्गः ।

आयतः शमितलोचनतापस्

तस्य विस्फुरति केशकलापः ॥४॥

हेलया जितसुधाकरबिम्बं

लीलया कृतसरोरुहडिम्बम् ।

आस्यमस्य सुषमाकृतदास्यं

राजते लवणिमामृदुलास्यम् ॥५॥

चञ्चलालककुलाकुलसीमा

चारुचित्रतिलकेन सुषीमा ।

तस्य सौभगसुधारसवाटी

भाति भालमहसः परिपाटी ॥६॥

चारुचापलरुचामुपकर्त्री

कामकार्मुकमहः परिहर्त्री ।

वक्त्रपद्ममधुपावलिरूपा

भ्रूलतास्य वलतेऽप्रतिरूपा ॥७॥

कारणेऽप्यसति कूणितकोणे

फुल्लकोकनदसोदरशोणे ।

निर्व्यलीककरुणारसपूर्णे

पूर्णया मदमुदा घनघूर्णे ॥८॥

द्राघिमाणमनघं प्रथिमानं

बिभ्रती सुषमया वलमानम् ।

पक्ष्मभिर्घनतरैः प्रतिभाते

लोचने अघरिपोः शुशुभाते ॥९॥ (युग्मकम्)

नसिकास्य तिलपुष्पसुशोभा

सौभगेन विहिताधिकलोभा ।

भात्यधोमुखमनोजनिसङ्गा

कीरसारपरिवारविभङ्गा ॥१०॥

कर्णयोर्मकरकुण्डलहेला

ताण्डववाहितकपोलसुखेला ।

वक्त्रतामरसनव्यदलाभा

सा द्वयी जयति तस्य सुशोभा ॥११॥

लोलकुण्डलमणिप्रतिबिम्बं

प्रेयसीगणपणीकृतचुम्बम् ।

भाति मन्दहसितोन्नतिकान्तं

गण्डमण्डलममुष्य नितान्तम् ॥१२॥

सृक्कणेर्मधुरिमामृतकूपं

लेखया वहलयाप्रतिरूपम् ।

बन्धुजीवजयगर्वगरिष्ठं

तस्य राजतितरामधरौष्ठम् ॥१३॥

भाति पक्वयमजाम्बवशोभा

भावुकस्य चिवुकस्य सुशोभा ।

निम्नमध्यमधुरातिगभीरा

प्रेयसो लवणिमामृतधारा ॥१४॥

ज्योतिषा पुरुपराहतमुक्ताः

कुन्दकुट्मलपराभवशक्ताः ।

अन्तरन्तरपि शोणसुरेखा

निन्द्यमानशिखरौघमयूखाः ॥१५॥

चारुपाकिमसुदाडिमबीजाद्

अभ्रविभ्रमसमाहितपूजाः ।

चिद्विलासमहसामिव सारा

भान्ति तस्य दशनाः स्मितपूराः ॥१६॥ (युग्मकम्)

आननोदरमहो मधुरिम्णां

काचिदुद्द्युदिव दिव्यगरिम्णाम् ।

पद्मगर्भभवनव्यदलाभा

भाति तस्य रसनारुणशोभा ॥१७॥

अग्रतः क्रमसुशोभनपुष्टः

सुत्रिरेखसुषमाधिकमिष्टः ।

निन्दितेन्द्रमणिकम्बुरकण्ठः

शोभतेऽस्य दयितस्य स कण्ठः ॥१८॥

श्रीवधूवसतिवास्तुवरः श्री

वत्सकौस्तुभमहःप्रथितश्रीः ।

वक्षसः परिसरोऽस्य विशालः

शोभते मणिकवाटकरालः ॥१९॥

कन्धरामधुरिमश्रुतिहेतोर्

निम्नमध्यमतिसद्गुणसेतोः ।

बाहुमूलपरिपुष्टिगरिष्ठं

चारु पार्श्वरुचि राजति पृष्ठम् ॥२०॥

भाति तस्य तदलं गजशुण्डा

दण्डयोर्भवति यस्य वितण्डा ।

जानुबिम्बपरिचुम्बनशीलं

दोर्युगं मणियुगोत्तमलीलम् ॥२१॥

सप्रपञ्चनखमण्डलधाम्ना

पञ्चशाखयुगलेन सुभूम्ना ।

पञ्चपञ्चमणिमण्डलचञ्चत्

पञ्चशीर्षभुजगाकृतिमञ्चत॥२२॥ (युग्मकम्)

पिप्पलच्छदपरिच्छदविन्दे

बन्धुरत्रिवलिशालिनि तुन्दे ।

तस्य नाभिसरसीसरसान्ते

कस्य मुह्यति न धी रतिकान्ते ॥२३॥

नाभिकूपविवरात्समुदीर्णा

चारुलोमलतिका रसपूर्णा ।

सा बलिक्रमपराक्रमभुग्ना

तस्य चेतसि न कस्य निमग्ना ॥२४॥

इष्टमिष्टरुचि मुष्टिविलग्नं

तस्य तद्विजयतामवलग्नम् ।

यद्विलोक्य विहितव्यपसर्पः

शाम्भवस्य डमरोरपि दर्पः ॥२५॥

उन्नतिअस्फिचि सवीचिमरीचि

स्तोमकोमलिमकेलिसमीचि ।

यन्नितम्बफलके सुवपञ्ची

स्वानजिज्जयति काञ्चनकाञ्ची ॥२६॥

श्यामरामकदलीवरकाण्डे

पीनवृत्तघनताभिरखण्डे ।

कोऽभजत्तुलनयैव जुगुप्सां

कस्तदूरुमभि नेच्छति लिप्साम् ॥२७॥

पिण्डितो मधुरिमेव न चोच्चैर्

मांसलं सुवलितं न च नीचैः ।

सम्पुटं रतिपतेरिव धाम्नाम्

अस्य जानु जयतान्मधुरिम्ना ॥२८॥

जानुतः क्षरदधोमुखधारा

माधुरीव परितः कृतचारा ।

तस्य भाति मनसोऽप्यसुलङ्घा

मूलतः क्रमकृशवरजङ्घा ॥२९॥

राजतोऽस्य घूतिके गुणसिन्धोर्

बुद्बुदाविव महो रससिन्धोः ।

कामकेलिगुलिके इव दिव्ये

रम्यनीपकलिके इव नव्ये ॥३०॥

माधुरीसरिदधोमुखधारा

चारुवारिरुहकान्त्यनुकारा ।

कौरविन्दमणिमण्डलभाभिर्

भूषिता नखमयूखलताभिः ॥३१॥

अङ्कुशध्वजसरोजयवाद्यैर्

लक्ष्मभिः परमलक्ष्मभिराद्यैः ।

रञ्जिता जयति तस्य सुषीमा

सा द्वयी चरणयोः सुखसीमा ॥३२॥ (युग्मकम्)

साधकोनुगतवाञ्छितसीम्नां

बाधको युवतिमानगरिम्णाम् ।

एवमत्र सुविचित्रचरित्रः

क्रीडति व्रजपुरन्दरपुत्रः ॥३३॥

गोपीनामभिसारः—

एकमेव तमभीक्ष्य वनान्ते

वृन्दया विहितमण्डलकान्ते ।

वल्लवी प्रणयकेलिरिरंसा

देव्युपस्थितवती सुचिरं सा ॥३४॥

सद्मतः कुसुमवृन्दजिहीर्षा

छद्मतः प्रियविलोकसहर्षा ।

आययौ सह सखीभिरबाधा

तत्र कौतुकवशादथ राधा ॥३५॥

आलयः सुचतुरा अथ कृष्णा

वस्थितिं समुपधार्य सतृष्णाः ।

स्वां सखीमित इतः समुपेहीत्य्

आनयन्हि यतो रसदोही ॥३६॥

तत्र सानुलतिकं स्वसखीभिश्

चिन्वती कुसुममिन्दुमुखीभिः ।

प्रेयसोऽथ मुरलीदयितायाः

स्वानमाकलयदुल्ललितायाः ॥३७॥

काननादुपगतोऽथ स तस्मात्

कृष्णवेणुनिनदोऽयमकस्मात।

प्राप्य कर्णकुहरं वनितानां

हृन्मुदं व्यतनुतातिवितानाम् ॥३८॥

गण्डपालिरुदभूत्पुलकानां

नेत्रमश्रपयसः कणिकानाम् ।

दोर्द्वयं च कुसुमाग्रहणानां

व्याश्रयो युगपदिन्दुमुखीनाम् ॥३९॥

पूर्वपूर्वमपि सस्पृहदृष्टं

नैव दृष्टमिव तं हृदभीष्टम् ।

पश्यति स्म रमणीमणिवर्गः

प्रेम्ण एव विषमो हि निसर्गः ॥४०॥

पश्यतोऽपि तमथ स्वविकत्था

पूर्वमस्य समभूदवहित्था ।

वल्लवीसमुदयस्य सतर्षा

जायते स्म कुसुमालिजिहीर्षा ॥४१॥

गोपीनां परस्परवाक्यम्—

एतदीयकुसुमं सखि हेयं

कृष्णपक्षसरसा लतिकेयम् ।

या रुणद्धि वसनं बत शाखा

पाणिनेत्युपजहास विशाखा ॥४२॥

शुक्लपक्षनिभपुष्पविशेषा

कृष्णपक्षसरसा कथमेषा ।

मद्विइयोगसहिष्णुरियं माम्

आरुणद्धि मम कौतुककामा ॥४३॥

मुग्ध एति मधुपो मुखचन्द्रं

स्वादितुं कमलधीस्तव सान्द्रम् ।

तत्त्वयावहितया भवितव्यं

श्यामलस्य चरितं नहि भव्यम् ॥४४॥

त्वादृशां मुखसरोजसमाजे

सुस्मिते सति कथं द्विजराजे ।

हन्त गन्धरहिते कथमस्य

स्वाद एष भविता मधुपस्य ॥४५॥

पुष्पितां स्पृशति कोऽपि न लोके

जह्यमुं सखि लतां सुविलोके ।

जातिरेव मधुमासि पवित्रा

स्पृश्यतां वहति कोमलपत्रा ॥४६॥

पुष्पवत्यपि पवित्रतमैषा

काननेऽत्र लतिकालिरशेषा ।

यां स्पृशन्ननिल एष पुनीते

विश्वमेव दुरितं च धुनीते ॥४७॥

आलि पुष्पितमशोकमुदारं

पश्य याहि भज तं च मुदाऽरम् ।

यं समेत्य सुमनो गुरुरागं

बिभ्रति व्रजजनाः परभागम् ॥४८॥

नामतोऽपि सखि विद्धि पुमांसं

न स्पृशामि पुरुषत्वकृतांशम् ।

वञ्जुलोऽयमपि तिष्ठतु दूरे

त्वं प्रयाहि तदमुं मतिशूरे ॥४९॥

आलि पश्य पुरुषोत्तममेतं

स्निग्धमुग्धसुमनःसमुपेतम् ।

पश्य यत्परिमलो विसरात्त्वद्

दृष्टिमोहनगुणोऽप्यति चात्तः ॥५०॥

पूर्वजल्पित इहापि स दोषस्

त्वं भजैनमपि चेत्तव तोषः ।

उच्छ्रितासि स च ते करलभ्यश्

चारुवेशपुरुषस्तव लोभ्यः ॥५१॥

कृष्णस्य मनोभावो मुरलीध्वाननं च—

इत्यतिप्रियसखीजनवाक्यं

सुभ्रुवश्च सरसं प्रतिवाक्यम् ।

तन्निशम्य रसिकः स सुबोधः

प्रेयसी जितवतीति बुबोध ॥५२॥

तल्लतान्तरित एव शृणोमीत्य्

आममर्श हृदये रतिकामी ।

लालसातिमहती हृदयोत्था

भूयसी च भैरप्यवहित्था ॥५३॥

लालसातिमहती हृदयोत्था

भूयसी च बहिरप्यवहित्था ।

सुभ्रुवामुभयमेव समानं

तन्नयामि चरमाश्लथिमानम् ॥५४॥

श्रावयन्ति मधुराणि वचांसि

ज्ञापयन्ति सरसानि मनांसि ।

प्रेरयन्ति न दृशं मयि सर्वाः

प्रेमगौरवजुषोऽपि सगर्वाः ॥५५॥

तत्पुनर्मुरलिकाकलभङ्ग्या

गर्वमाश्वपनयामि कृशाङ्ग्याः ।

इत्थमात्मगतमेष विविच्य

श्रीलतागृहमगादतिरिच्य ॥५६॥

सखीनामुक्तिः, राधायाश्च प्रत्युक्तिः—

सर्वतः प्रसरणोऽप्रतिबन्धः

सर्वगन्धपरिभूत्यनुभन्धः ।

एष एणनयनाहितबन्धः

सोऽयमेति हरिचन्दनगन्धः ॥५७॥

केशरी कथमितः क्व नु वायम्

एति चन्दनरसव्यवसायम् ।

पुष्पमेव चिनु मा सखि भैषीर्

अस्थले नहि बिभेति मनीषी ॥५८॥

किं पुरेव शृणुमो न मुरल्याः

स्वानमत्र मधुरं च खुरल्याः ।

किं गतः सखि दूरमुदारः

श्रीयुतो व्रजमहेन्द्रकुमारः ॥५९॥

कीचकोऽत्र वनमारुतधूतः

स्वानमुन्नयति चारिमयूतः ।

तत्र पुष्करदृशो हि भवत्यः

शुष्कमस्कररवभ्रमवत्यः ॥६०॥

ईयुषो युवतितस्करभूयं

तस्य पुष्करदृशः खलु यूयम् ।

तत्प्रसङ्गमपदेऽपि तनुध्वे

स्वाभिलाषविवृतौ प्रयतध्वे ॥६१॥

विह्वलास्मि हि भवद्विधलोला

सङ्गतो व्यजनि मे वनखेला ।

हन्त यामि ललिते गृहमेव

त्वादृशो हि विहरन्त्वित एव ॥६२॥

जीवितेश्वरि यदर्थमिहागाः

किं न साधयसि तद्विगतागाः ।

तत्प्रसाध्य सहिताः सह यामः

स्तूयते ह्यफलितो न हि कामः ॥६३॥

अस्त्यमन्दमकरन्दकराला

चारुचित्रकुसुमा वनमाला ।

तत्प्रसूननिकरैस्तव भूषा

कल्प्यते यदि तवात्र मनीषा ॥६४॥

अत्र यत्परिमलोऽतिविसर्पी

येन चालिनिकरोऽधिकदर्पी ।

यत्र भाति पुरुषोत्तमगन्धस्

तेन को भवति नाधिकमन्धः ॥६५॥

शोभना न किमियं वनराजी

नात्र पुष्पनिकरो न विराजी ।

नागकेशरवरोऽत्र न किं स्याद्

अत्र वः स्थितिरहो न हि रस्या ॥६६॥

यात यत्र कुसुमं सुखलभ्यं

मा वचो वितनुतेदमसभ्यम् ।

नास्ति मे कुसुमभूषणलिप्सा

रच्यतामिह हि नो विचिकित्सा ॥६७॥

पुष्पिताः किल लता नु न इष्टाः

पुंप्रसूनतरवस्तव दुष्टाः ।

क्लीबमेव वद याम निकुञ्जं

पौष्पमत्र चिनुमः सखि पुञ्जम् ॥६८॥

यातु यातु मम सोऽपि विकल्पः

क्लीब एव न भवेदनुकल्पः ।

रामणीयकममुष्य न का वा

द्रष्टुमिच्छति मनोहरभावा ॥६९॥

तास्तयेत्थमुदिताः सहचर्यस्

तद्युता इव मयूखलहर्यः ।

कृष्णकुञ्जनिकटं छलपूर्वं

जग्मुरम्बुजदृशस्तदपूर्वम् ॥७०॥

श्रीराधाया निकुञ्जनिकटे गमनम्—

मन्दमन्दमथ सा विहरन्ती

नूपुरे मृदुकलं क्वणयन्ती ।

आवृता सह सखीभिरुदारा

शोभते स्म कुचयोश्चलहारा ॥७१॥

यत्र तद्वदनपञ्कजगन्धस्

तत्र भृङ्गनिकरोऽभवदन्धः ।

अन्धकारमभितो विदधानः

प्रत्युपैति गरुतो विधुनानः ॥७२॥

यत्र पक्ष्मलदृशश्चलदृष्टिर्

द्योतते विहितनीलमसृष्टिः ।

उल्लसन्मधुकरोत्करतुष्टिस्

तत्र सा कुवलयच्छदवृष्टिः ॥७३॥

यत्र तत्तनुरुचः कृतझम्पा

निष्पतन्ति जितनिर्घनशम्पाः ।

तत्र गाढतिमिरेऽपि नितान्तं

चन्द्रिका इव चरन्ति दिगन्तम् ॥७४॥

यत्र तत्पदनखेन्दुमरीचिः

सिञ्चति क्षितिमुदञ्चितवीचिः ।

तत्र सञ्चरति चञ्चुकिशोरा

वासरेऽपि विलुठन्ति चकोराः ॥७५॥

साप्यशोभततरां मदनाजि

स्थानवत्सुललिता वनराजिः ।

यत्र स व्रजपुरन्दरपुत्रः

कुञ्जमध्यमधिभाति विचित्रः ॥७६॥

वेणुश्रवणे गोपीनां भाववैकल्यम्—

तत्र तासु मिलितासु विनश्यन्

मानसज्वरममूः परिपश्यन।

अप्यवीवददनुश्रुति वेणुं

धूनयन्सुतनुधैर्यकरेणुम् ॥७७॥

पुष्पसङ्ग्रहविकाश्यनुकम्पास्

तन्निशम्य विलसत्करकम्पाः ।

ताः कुरङ्ग्य इव विह्वलिताङ्ग्यः

स्तम्भमापुरथ चञ्चदपाङ्ग्यः ॥७८॥

गण्डयोः पुलकपालिरपारा

नेत्रयोर्जलकणा ह्यनिवाराः ।

यत्नतोऽपि बत संव्रियमाणा

नाभवन्क्वचिदपि ध्रियमाणाः ॥७९॥

काचिदाह मुरलीमहिमानं

त्वां निवेदयति कामममानम् ।

यां प्रति त्वमकरोः सविलासं

शुष्कमस्कर इति ह्युपहासम् ॥८०॥

काप्युवाच सखि किं हससीमां

साध्व्यगादधिषणां धृतिसीमाम् ।

शीतवातकृतमुत्पुलकत्वं

पुष्परेणुजमुदश्रुकणत्वम् ॥८१॥

तां च तां च कुपिता शशिमुख्या

भाषते स्म सशिरोधुति मुख्या ।

यन्निमित्तमिह सङ्गमिताहं

तत्फलस्य गमिता परिणाहम् ॥८२॥

एवमेव सति शुष्कविवादे

शृण्वतां श्रवणमोदधुरादे ।

आविरास मृदुहासविकासः

कुञ्जतः स रसिकः सविलासः ॥८३॥

तं विलोक्य कमनीयकिशोरं

वल्लवीजनमनोमणिचोरम् ।

चित्रिता इव नभोभुवि शम्पा

नीरवाः समभवन्गतकम्पाः ॥८४॥

अभ्युपेत्य शनकैरथ कृष्णस्

तद्वचः श्रवणकेलिसतृष्णः ।

व्याजहार मधुरं चलहारः

प्रेमहेमनिकषोपलसाराह॥८५॥

स्वागतं सुवदना भवतीनां

किं च नामयमिहोपगतानाम् ।

किं प्रियः प्रियमहं करवाणि

ज्ञाप्यतामभिमतं प्रियवाणि ॥८६॥

आतिथेयमिह मां मदरण्ये

पुण्यशीलमयि बोधत पुण्ये ।

सङ्गतश्च सुकृतेन भवत्यः

साम्प्रतं ह्यतिथयः शुभवत्यः ॥८७॥

काममर्हथ मदर्हणमर्हं

तद्ग्रहीतुमतिमात्रमगर्हम् ।

अन्यथा सति भवेदपराधस्

त्वादृशां च कोऽप्यपबाधः ॥८८॥

ज्ञायसे व्रजपुरन्दरपुत्रस्

त्वं जगत्त्रयविचित्रचरित्रः ।

वांशिकस्त्वमिति भो भवदर्हा

मन्तुम् अत्र नतरां वयमर्हाः ॥८९॥

एकवर्तिनि महागुणलक्षे

दोषमेकमपि नाहमभीक्षे ।

तद्ग्रहीतुमपि युज्यत एषा

ह्यर्हणा गुणनिधेः सविशेषा ॥९०॥

पूर्वपक्षपरपक्षविदग्धे

सा वचःप्रतिवचोरसमुग्धे ।

साध्वमन्यत निजप्रियसख्यौ

प्रेयसः सुखविधावभिमुख्यौ ॥९१॥

वनाधिपत्यवितण्डा—

निर्विशेषमिदमेकमरण्यं

सर्वलोकमृगपक्षिशरण्यम् ।

किं ममेति ममकारविकार

स्फारमालपसि भो अविचार ॥९२॥

निर्विशेषमपि पूर्वगृहीतं

यस्य तस्य भवतीत्यविगीतम् ।

एवमेव विवदे भवतीभिर्

नैव दैवतवधूसदृशीभिः ॥९३॥

निर्विशेषसविशेषविचारे

सा सखी दयितयोरनिवारे ।

साभिनन्दमरविन्ददलाक्षी

स्वानन्दरभसोऽजनि साक्षी ॥९४॥

किं च किञ्चिदनुदञ्चति गर्वं

व्याजहार सुमुखी स्मितपूर्वम् ।

आलयः कलयत प्रतिवादं

पुष्कलं त्यजत शुष्कविवादम् ॥९५॥

एक एष बहवः किल यूयं

मा कुरुध्वमघमुद्यदसूयम् ।

मान्य एव भवति व्रजराजस्य्

ऐक एष सुभगो युवराजः ॥९६॥

तां स आह न परोऽस्मि भवत्याः

सत्यमेव सुभगे शुभवत्याः ।

मां त्वदीयमिति वेत्ति हि सर्वस्

तेन मे सुमुखि को नहि गर्वः ॥९७॥

तां प्रियोक्तिमवधार्य किशोरी

सा ममर्श मनसा सह गौरी ।

मान्य इत्यहमवोचमिदं यत्

तस्य हि प्रियसुजल्पितमेतत॥९८॥

आह स प्रियतमे त्वदधीनः

प्राप्त एष हि गुणैरविहीनः ।

किङ्करोऽस्म्यहमुदीरय कार्यं

यन्मया तव मुदे प्रतिकार्यम् ॥९९॥

तन्निशम्य गदितं सुमुखीनां

प्रेयसः प्रणयसैवलिनीनाम् ।

फेनबुद्बुदसदृश्यवहित्था

पूर्विका व्यगमदात्मविकत्था ॥१००॥

वनविहारः—

निर्वलीकसहजप्रणयाभिस्

ताभिरेव सहितो दयिताभिः ।

स व्यगाहत वनं प्रतिवल्लि

प्रत्यनोकहनिकुञ्जमतल्लि ॥१०१॥

स स्वयं ग्रथितया बकुलानां

मालया स्वयमथावचितानाम् ।

हारकाञ्चिवलयादिविभूषां

व्याततान कृतमानममूषाम् ॥१०२॥

केतकीदलकलापमहार्य

श्रीर्नखेन बहुशः स विदीर्य ।

वेष्टितकामकृतकेशततीनां

कर्णिकामपि च कर्णलतानाम् ॥१०३॥

नागकेशरपरागममन्दैर्

आरचय्य सरसं मकरन्दैः ।

आलिलेख तिलकं रुचिकान्ते

कान्त एष सुदृशामलिकान्ते ॥१०४॥

मल्लिकामुकुअकैः समकान्तैः

स्थूलवृत्ततनुभिर्गतवृन्तैः ।

कल्पितां स्रजमयोगयदासां

पीनवक्षसि स हारविलासाम् ॥१०५॥

वेणुरन्ध्रमुपधाय स ईड्यः

कोमलान्यथ दलानि निपीड्य ।

चक्रिकाकृतिभिरेभिरमीषां

खण्डकैरकृत पत्रममूषाम् ॥१०६॥

ताश्च जीवितपतेस्तनुभूषा

क्ÿप्तये जनितसाध्वभिलाषाः ।

ईप्सितां कुसुमराजिमचैषुर्

यासु साधकतमः कुसुमेषुः ॥१०७॥

नागकेशरमभीप्सुरलभ्यं

पाणिनाप्युदयितेन सुलोभ्यम् ।

बाहुना भुजगभोगविलासे

नाभिकेन सुमुखी समुदासे ॥१०८॥

साध्वमन्यत न तामनुकम्पाम्

अस्य सा निजगदे च सकम्पा ।

मुञ्च मुञ्च शठ मामपि पिञ्छा

पीड नात्र कुसुमे मम वाञ्छा ॥१०९॥

अप्यलम्बत हठादविलम्बं

सा रुषैक्षत च तन्मुखबिम्बम् ।

आलयस्तु मधुरस्मितपूर्वं

तौ यथा समयमूचुरपूर्वम् ॥११०॥

लीलया लिखति चारु नखाग्रैर्

दाडिमं प्रियतमे किरणोग्रैः ।

शीत्करोति विकसद्दशनांशुः

प्रेयसी नमितवक्त्रसुधांशुः ॥१११॥

हेलयाधरदले दलमेकं

योजयत्यरुणमव्यतिरेकम् ।

तत्र जीवितपतौ सविकारा

सावृणोद्वदनचन्द्रमुदारा ॥११२॥

श्लिष्यति स्तवकिनीमथ वल्लीम्

उत्सुके युवतिरत्नमतल्ली ।

हृत्पतौ कपटकोपपटेन

स्वस्तिकं व्यधित बाहुयुगेन ॥११३॥

भिन्नवर्णलतिकाग्रदलेन

श्वेतपीतकुसुमच्छदकेन ।

काप्यकलयदतीवविकल्पं

प्रेयसो मकरकुण्डलशिल्पम् ॥११४॥

श्वेतपीतहरितारुणवर्णैर्

नैकरूपमणिभासुरपर्णैः ।

निर्ममे कतमया रुचिसारस्

तस्य वेणुरिव वेणुरुदारः ॥११५॥

शेखरं निरमिमीत तथान्या

चम्पकैः सुललितैरतिधन्या ।

नागकेशरमयीमथ काञ्चीं

सा ततान कुसुमेषुविपञ्चीम् ॥११६॥

ग्रीष्महर्षवनप्रदेशे गमनं जलकेलिश्च—

पावनं वनविहारमपूर्वी

भावभावुकतमं कृतपूर्वी ।

सम्भ्रमेण विहरन्निजगाम

ग्रीष्महर्षवनभूमिमरामः ॥११७॥

तां प्रविश्य सुविकाशिशिरीषां

पाटलीकुटजकैर्निविरीषाम् ।

क्वापि पुष्पितमहीरुहमूले

विश्रमार्थमवसन्ननु कूले ॥११८॥

पाटली सुरभिभिर्वनवातैः

सच्छिरीषनवचामरजातैः ।

धूनिताञ्चलमसेवि वधूनां

मण्डली विलुलितास्यविधूनाम् ॥११९॥

तत्र चित्रमणिबद्धतटीकां

केलितन्त्ररचितानिव टीकाम् ।

भानुजामधि पयोविजिहीर्षा

सुभ्रुवामजनि वर्धितहर्षा ॥१२०॥

तामवेत्य दयितो दयिताभिस्

तत्तटीगतकुटीरगताभिः ।

विश्रमं विरचयन्स मुहूर्तं

रन्तुमम्भसि मनोऽकृत मूर्तम् ॥१२१॥

भीषणान्जलचरानथ जन्तून्

मत्सरादिसदृशान्कृतमन्तून।

चित्तशुद्धिमिव संविदधाना

सा निरास कृतसाध्ववधाना ॥१२२॥

शैकतं शशभृतं पललाभं

शैवलं मणिलतावलिशोभम् ।

सा बभार पुलकानिव भङ्गान्

शाफरीततिमपाङ्गतरङ्गान॥१२३॥

चारुचञ्चलतरङ्गकराग्रैः

सारसादिविरुतैश्च समग्रैः ।

आस्यतामिति वधूरतिपीव

प्रेमतो रविसुताह्वयतीव ॥१२४॥

डीयमानकलहंसकिशोरैर्

लोलपक्षवलयैर्हिमगौरैः ।

चामरैरिव सुखिन्नतनूनां

वीजनं व्यधित सा सुतनूनाम् ॥१२५॥

जानुनाभिजघनोदरदघ्ना

साभवत्प्रणयसौभगनिघ्ना ।

सुभ्रुवां चरणदोर्वरशङ्का

पङ्किलाऽऽस परितो गतपङ्का ॥१२६॥

पक्षिणो जलचराः स्थितवन्तः

खे सुखेन गरुतो विधुवन्तः ।

बिभ्रतो निरवलम्बविताना

कारमर्ककिरणान्विधुनानाः ॥१२७॥

सैकतं ललितमम्भसि यस्या

यत्र काचिदटवी सुयशस्या ।

यत्र कुञ्जविततिः सदुदारा

यत्र भूरिविधकेल्युपचाराः ॥१२८॥

यत्र चित्रहरिणा विहरन्ते

यत्र चित्रपतगा विकवन्ते ।

यत्र चित्रतरवः सुखयन्ते

यत्र चित्रलतिकाश्च रमन्ते ॥१२९॥ (युग्मकम्)

अम्भसामुभयतो मृदुवीची

रेचिता कलरवेण समीची ।

यत्र हंसबकसारसलेखा

सञ्चरत्यविरतं गतलेखा ॥१३०॥

ग्रीष्मवासरविलासमनोज्ञं

रत्नकुञ्जमधि चारुसमज्ञम् ।

भक्ष्यपेयवसनाद्यतियोग्यं

वृन्दयोपह्रियते सुखभोग्यम् ॥१३१॥

यत्र राजति मणीमयपद्म

श्रेणिवेणिरतिकौतुकसद्म ।

यत्र तिष्ठति नवीनमनल्पं

सोपधानकशिपूत्तमतल्पम् ॥१३२॥

ईदृशीं समवलोक्य मनोज्ञाम्

अर्कजां जलविहाररसज्ञाः ।

हन्त रन्तुमनसः सहकान्तास्

ता ललम्बिरे उपासितकान्ताः ॥१३३॥

कौतुकेन ननृतुः कमलिन्यः

सप्रिया जगुरमन्दमलिन्यः ।

शाखिनः कुसुमवर्षमकार्षुः

पत्रिणश्च जयशब्दमनार्षुः ॥१३४॥

रामणीयकविलाससतीर्थे

तत्र भाति विविधे मणितीर्थे ।

यत्र स ह्यवततार पुरस्ताद्

अङ्गनाश्च खलु तत्र समस्ताः ॥१३५॥

ताः परस्परविषक्तशरीराः

केलिलोलमनसस्त्वतिधीराः ।

कृष्णसन्निधिवियोगभीताः

पर्युपर्युपरिचेलुरभीताः ॥१३६॥

कापि कृष्णकृतपुष्पविभूषा

हानये धृतनिमज्जेन दोषा ।

कूलमूलमवलम्बितुकामा

तस्थूषी विरुरुचे वररामा ॥१३७॥

तां विलोक्य सुमुखीमथ कूले

स्वाभिलाषरभसेष्वनुकूले ।

सत्वराः प्रणयतोऽतिविचित्राद्

उत्सुका विचकर्षुर्मृगनेत्राः ॥१३८॥

तां तथापि कृतभूरिविलम्बाम्

अम्बुभिर्भृतकराम्बुजलिम्बाः ।

ताः समं सरसचारुविलासा

निर्भियोऽभिषिषिचुः कृतहासाः ॥१३९॥

आननैः सरसिजैः कुचककुम्भैश्

चक्रवाकमिथुनैर्गतदम्भैः ।

नाभिभिर्घनरसभ्रमिगर्तैर्

मैत्रुवास सुषमापरिवर्तैः ॥१४०॥

आत्तपाणिरितरेतरमासाम्

आवलिः कनकजालविलासा ।

आववार हृदयेशममन्दं

चन्द्रिकाततिरिवाम्बुदवृन्दम् ॥१४१॥

बन्धमेत्य स तदन्तरवर्ती

भ्रूविभङ्गवरनर्तकनर्ती ।

सुभ्रुवां नयनविद्रवशूरैर्

बन्धभङ्गमकरोज्जलपूरैः ॥१४२॥

ताः समेत्य रभसादविदूरं

वारिभिः सिषिचुरञ्जलिपूरम् ।

पाणिरुद्धनयनः कृतहर्षं

शेक एष सुदृशां जलवर्षम् ॥१४३॥

वारिवर्षरभसेन विहस्तं

सुभ्रुवामपघनोऽथ समस्तः ।

एक एव किल किन्तु न जग्लौ

हर्षतो वदनबिम्ब इव ग्लौः ॥१४४॥

फुल्लपङ्कजमुखी मलिचिल्लिं

भानुजां विषलताभुजवल्लीम् ।

तां सखीमिव निजां विजगाहे

सा समुद्यति मुदां परिणाहे ॥१४५॥

तं सिषेच करपङ्कजकोषैः

साम्बुभिः समणिकङ्कणघोषैः ।

वारुणास्त्रमेव तत्कुसुमेषोर्

अत्यसह्यमभव्द्विजिगीषोः ॥१४६॥

अम्बुदस्य कुतुकाज्जलयन्त्री

भूतमञ्जलिपुटं विनियन्त्री ।

अक्षिपज्जलभरं कराभ्यां

दीर्घधारमतिचारुतराभ्याम् ॥१४७॥

हृत्पतेरुरसि सा जलधारां

पेतुषी विरुरुचेऽलमुदारा ।

मन्मथस्य गुरुदीर्घशलाका

कापि शुक्तिरिव रुद्धपताका ॥१४८॥

शश्लथे भगवती वनमाला

हारयष्टिरपतत्सुविशाला ।

एक एव बलवान्प्रियदेहे

कौस्तुभः परिभवं स विषेहे ॥१४९॥

सह्यतामयमयं मम पाथः

सेक इत्यथ निगद्य स नाथः ।

प्रेयसीवदन एव सहर्षः

सस्मितं सरसमञ्जुरवर्ष ॥१५०॥

पाणिपद्मकृतलोचनरोधा

कृष्णकीर्णसलिलैः कृतबाधा ।

अञ्जसासहत खञ्जननेत्रा

प्रेमिनीमतिरतीव विचित्रा ॥१५१॥

पद्मापद्मियुद्धः—

एवमेव विरते जलयुद्धे

मन्मथस्य रभसे प्रतिबुद्धे ।

आहवः समजनिष्ट स पद्मा

पद्मि पद्मनयनावलिसद्मा ॥१५२॥

आलिभिः समवचित्य वितीर्णैः

पङ्कजैः करतलेऽनुपशीर्णैः ।

उद्भुज दरविकस्वरकक्षं

सा जघान हृदये कमलाक्षम् ॥१५३॥

यद्यदुत्क्षिप्तै पद्ममुदारा

वल्लभोरसि सुजातविकारा ।

तत्तदेव स करेण गृहीत्वा

तां निहन्ति कुतुकेन हसित्वा ॥१५४॥

एवमेवमुभयोः करसङ्गे

वर्धितच्छवि गतागतरङ्गे ।

पङ्कजं जयति तत्र सुपीव

प्रेमहेमपटवासतुरीव ॥१५५॥

तावतां जलरुहामनुयायी

प्रोल्लसत्परिमलव्यवसायी ।

स द्वयोरिव कटाक्षशरोघः

पुप्लुवेऽलिनिकरोऽयममोघः ॥१५६॥

दोर्लते विलुलिते घनसान्द्रा

श्वासपालिरथ दृक्च सतन्द्रा ।

सुभ्रुवः स्तनतटी च सकम्पा

वर्धते तदपि केल्यनुकम्पा ॥१५७॥

प्रोज्झ्य पङ्कजमलिर्वदनेऽस्याः

पादसीम्नि शफरी सवयस्या ।

निष्पपात युगपद्यदि दूना

सा भियास दैय्तोरसि लीना ॥१५८॥

आलयस्तु सममेत्य तमेताः

पङ्कजैः परित एवमभीताः ।

जघ्नुरुन्नतभुजाः सविलासः

तां च तं च परिहासविकाशम् ॥१५९॥

तत्सखीजनसरोरुहवर्षं

हन्त सा च स च सस्मितहर्षम् ।

पद्मिनीदलमृणालवराभ्यां

प्राक्षिपत्करतले विधृताभ्याम् ॥१६०॥

मुख्यया व्यतनि युद्धविसर्गः

किं करिष्यति सखीजनवर्गः ।

इत्यनर्ति दयितस्य सपक्षैः

पक्षिभिर्जलचरैर्धृतपक्षैः ॥१६१॥

तामुरोद्वयसो वारिनिमग्नां

वीक्ष्य कृष्णसविधे मृदुभग्नाम् ।

प्राप कोकमिथुनं निजगोत्र

भ्रान्तितः स्तनयुगान्तिकमत्र ॥१६२॥

तद्विलोक्य दयितः करकोषे

णामृशद्वलति मानसतोषे ।

अप्यधत्त कुचमण्डलमेषा

स्वस्तिकेन धृतभूषणवेषा ॥१६३॥

कण्ठमर्पयति चारुमृणालं

वल्लभे सुवलितं सुविशालम् ।

दोर्लते पुलकिते विधुमुख्यां

प्रेम्ण एव महतीयमभिख्या ॥१६४॥

जलमग्नकृष्णान्वेषणम्—

वेष्टयन्तु परितो भवदाल्यस्

त्वं च तिष्ठ सखि मामनुपाल्य ।

आनयध्वमभितो मृगयित्वा

मां निमग्नमिह साधु गृहीत्वा ॥१६५॥

सुभ्रुवामथ तथा स्थितवत्याम्

आबलौ प्रियगिरा रसवत्याः ।

निर्ममज्ज दयितोऽम्बुनि रस्यः

पश्यतो विधुमुखीनिकरस्य ॥१६६॥

ताः परस्परपराचितहस्ताश्

चन्द्रिकावलयजालवदस्ताः ।

मण्डलीं विदधिरे क्रमह्रस्वां

तं विवेक्तुमुपसर्पणतः स्वाम् ॥१६७॥

ता उपर्युपरि लग्नशरीरा

ह्रस्वमण्डलतया रसधीराः ।

पाणिभिः सरसिजैरिव लोलैर्

वैजयन्त सलिलान्यकरालैः ॥१६८॥

ताः क्रमेण सविधं विधुमुख्याः

प्राप्तवत्य उदितोत्सवमुख्याः ।

लेभिरे न रमणं यदि रामास्

तस्थुरेव हसितैरभिरामाः ॥१६९॥

तास्तथा स्थितवतीर्विहसन्तीर्

मध्यगा विधुमुखी कलयन्ती ।

आह वः कतमयैव स वामः

प्रत्तमन्तरमतो स जगाम ॥१७०॥

नो मया न च मया न मयापि

प्रात्तमन्तरमयं तु तथापि ।

कुत्र वा सखि कयाप्युत रीत्या

प्रापलायत तवैव हि भीत्या ॥१७१॥

तत्त्वमेव सखि वेत्सि नितान्तं

नो वयं त्वपगतं तव कान्तम् ।

गोपयस्यपि कथं त्वदधीना

मादृशीः प्रति विलासनवीना ॥१७२॥

इत्यमूभिरुपहस्य विनुन्या

सा तिलार्धविरहेऽप्यतिखिन्ना ।

विस्मिता स्थितवती कृतचिन्तं

न्यक्षिपद्दिशि दिशि स्वदृगन्तम् ॥१७३॥

गुञ्जितेन कृतवाग्व्यवसायः

पुञ्जितो मधुलिहां समुदायः ।

व्याजहार नलिनीवनलीनं

लीलया कुतुकिनं तमदीनम् ॥१७४॥

तास्तथैव कृतमण्डलबन्धं

तत्पलायनभियाऽप्रतिबन्धम् ।

सत्वरान्तमभितः परिवव्रुः

कां श्रियं च परमां न विवव्रुः ॥१७५॥

आवृतः स परितोऽयममूभिर्

जित्वरीभ्रिव कामचमूभिः ।

आप तुष्टिमथ दृष्ट्यरविन्द

स्यन्दमानकरुणामकरन्दः ॥१७६॥

पद्मिनीवनविहारिणमेकं

किं नु वेष्टयथ मामतिरेकम् ।

निर्जिता अपि ह्रियं न लभध्वे

खेलितुं पुनरपि प्रयतध्वे ॥१७७॥

इत्युदारमधुरं मधुरञ्जि

व्याहरन्तमबलागणगञ्जि ।

सस्मयं सकुतुकं सविरोधं

सुभ्रुवो जगदुरेनमदोषम् ॥१७८॥

पद्मकेलिसमरं विरहय्य

त्वं सरोरुहवनं प्रपलय्य ।

प्राप्तवानसि जितोऽस्यबलाभिर्

लज्जसे न हि कलाकुशलाभिः ॥१७९॥

वारिमज्जनमिषेण हि मूर्तं

धूर्तभावमवलम्ब्य मुहूर्तम् ।

वर्त्मनाथ कतमेन कथं वा

निर्गतोऽसि हिर्यमेषि न किं वा ॥१८०॥

वेत्तु कोऽत्र कथयिष्यति कस्मै

युज्यते कथयितुं न परस्मै

योऽभवत्परिभवो भवतीभ्यस्

तं न्यवेदयदयं नलिनीभ्यः ॥१८१॥

एक एष बहवो हि भवत्यः

खेलने परिभवोऽस्य हि सत्यः ।

इत्युवाच सुमुखी यदि मुख्या

प्रेयसो व्यजनि काचिदभिख्या ॥१८२॥

एहि सुन्दरि ममासि सपक्षा

वेत्सि मेऽन्तरममूर्न विपक्षाः ।

पूजयामि भवतीमिति कृष्णस्

तामभूषयदतीव सतृष्णः ॥१८३॥

बीजकोषशकलैः अवतंसे

सच्छदैश्चिकुरचारुवतंसः ।

केशरैश्च कुटिलालकशिल्पं

तेन तेन उरुवाञ्छमनल्पम् ॥१८४॥

शैवलेन मणिकाञ्चिरुदारः

सन्मृणालशकलैरपि हारः ।

गण्डमण्डलमकारि सरागैर्

मण्डितं कमलषण्डापरागैः ॥१८५॥

पाणिना पयसि पाणितलस्थे

ताडिते कलरवैरवतस्थे ।

तैरकारि जलमण्डुकमाद्यं

ताभिरात्मजयडिण्डिमवाद्यम् ॥१८६॥

शश्रमुर्मृगदृशामथ देहाः

केवलं न मनसां सुखदेहाः ।

उत्तरीतुमनसस्तनुगात्रीर्

वीक्ष्य दुःखमगमद्रविपुत्री ॥१८७॥

दास्यमापि कमलैर्वदनानां

सुस्मितैः कुवलयैर्नयनानाम् ।

तत्र कोकमिथुनैश्च कुचानां

सन्मृणालशकलैश्च भुजानाम् ॥१८८॥

श्रीरवापि वदनैः कमलानां

बाहुभिर्विलसतावलयानाम् ।

तैः स्तनैरपि रथाङ्गयुगानां

लोचनैः कुवलयप्रचयानाम् ॥१८९॥

इत्यसौ तपनजावनजाक्षी

वृन्दयोः परमसौहृदसाक्षी ।

यो भवद्विनिमयो रमणीयः

स प्रियं समतनोदतनीयः ॥१९०॥ (विशेषकम्)

हरिवल्गिषु बभौ गुणनाशस्

तत्र बन्धरहितः कचपाशः ।

ते रदच्छदपुटाः क्षतरागाः ।

सर्वलेपरहिताः स्तनभागाः ॥१९१॥

लोचनं विगलिताञ्जनमासीत्

किङ्किणी किमपि मौनमयासीत।

प्राप नीविरपि मोक्षपरत्वं

पश्य कृष्णजलकेलिमहत्त्वम् ॥१९२॥

व्रीडयेव परया तनुलग्नं

त्यागभीतिवशतोऽतिविरुग्नम् ।

निर्गलज्जललवैरतिदीनं

रोदितीव सुदृशामथ चीनम् ॥१९३॥

पाण्डिमानमगमत्तनुशोभा

लोचनं विकचकोकनदाभाः ।

तच्च तच्च सुदृशामतिरम्यं

हृत्पतेः समभवन्ननु काम्यम् ॥१९४॥

पूर्वमेव कतिचित्कृतखेलाः

स्नातमृष्टतनवो धृतचेलाः ।

उक्तपूर्वपुलिनोदरकुञ्जान्

लेभिरे धृतपरिच्छदपुञ्जान॥१९५॥

आलिपालिरथ वारिणि राधा

कृष्णयोः प्रणयतः क्षतबाधा ।

वारिखेलनमखेऽवभृथाख्यं

स्नानमारभत दीव्यदभिख्यम् ॥१९६॥

चारुभिः करसरोरुहकोषैर्

निक्वणत्कनककङ्कणघोषैः ।

क्षालयन्त्य उचितप्रणयार्द्राः

स्वेदशीकरभरैरपि सार्द्राः ॥१९७॥

पद्मरेणुदलकेशरनालैर्

आविलम्बपुरपूर्वमरालैः ।

तत्तयोर्विदधिरेऽथ रमण्यो

हारि वारिकरिवारिकरिण्योः ॥१९८॥

गन्धतैलमिलनव्यवसायैः

सप्रबन्धशुभगन्धकषायैः ।

केशशोधनमसाध्यत पूर्वं

गात्रशुद्धिरथ ताभिरपूर्वम् ॥१९९॥

एवमम्भुभिरुभौ स्नपयित्वा

सन्सुरम्बुजदृशोऽथ मिलित्वा ।

सर्व एव पुलिनोदरवर्ति

श्रीनिकुञ्जनिकटं स्म पिपर्ति ॥२००॥

अङ्गसेवा—

पूर्वमुत्थितवती रतिपाली

सत्वराथ रमणीमणिपाली ।

तौ पृथक्परिचचार निकुञ्जे

मञ्जु गुञ्जति मधुव्रतपुञ्जे ॥२०१॥

पूर्वमुत्थितवती रतिपाली

सत्वराथ रमणीमणिपाली ।

तौ पृथक्परिचचार निकुञ्जे

मञ्जु गुञ्जति मधुव्रतपुञ्जे ॥२०२॥

श्रीमती मधुमतीन्दुमतीभिर्

वाससातिमृदुना सुदतीभिः ।

अभ्यगाल्यत जलं कुटिलेभ्यः

केशवस्य चिकुरप्रकरेभ्यः ॥२०३॥

माधुरीमधुरिकामणिमाला

गात्रमार्जनमकार्षुरलोलाः ।

माधवीमणिमतीशशिलेखाः

प्रापयन्वसनभूषणलेखाः ॥२०४॥

श्यामला च ललिता च विशाखा

कौमुदी कुमुदिनी मदलेखा ।

एवमेव वृषभानुकिशोरीं

पर्युपासत तडित्ततिगौरीम् ॥२०५॥

ताश्च ताश्च सुदृशो मिथो मिथः

स्वस्ववेशकृतिचातुरीमथ ।

संविधाय पुनरेव संहताः

प्रेयसो निकटमेव संश्रिताः ॥२०६॥

सा निदाघसमयोचितभूषा

वेशशिल्पकृतये धृततोषा ।

वल्लभं स्वयमुपेत्य निकुञ्ज

द्वारि वारिजमुखी प्रससञ्ज ॥२०७॥

सम्प्रसाध्य चिकुरैरथ चूडां

तिर्यगीषदलिकान्तिकपीडाम् ।

मल्लिकामुकुलकैरवतंसं

निर्मिमाय कुतुकेन सुशंसम् ॥२०८॥

तूलिकाशिखरसाधुगृहीतैर्

गन्धसारसलिलैरतिशीतैः ।

आलिलेप वपुरुद्गतगन्धैः

सप्रबन्धघनसारसुगन्धैः ॥२०९॥

मल्लिकाकुसुमहारमसङ्गं

वक्षसि प्रतिमुमोच सरङ्गम् ।

अङ्गदे च वलये च सरत्ने

कुण्डले अपि निरन्तरनूत्ने ॥२१०॥

नूपुरे च चरणारविन्दयोश्

चन्द्रनिन्दिनखबिम्बवृन्दयोः ।

भालसीम्नि तिलकं विशेषवत्

चन्दनेन विलिलेख चन्द्रवत॥२११॥

अङ्गकार्चिरनुलेपनभूषा

सम्प्रकाशकमतीव सुतोषा ।

उत्तरीयमतनोदनुमेयं

मारुतेन वहतानुपमेयम् ॥२१२॥

वन्यभोजनम्—

कौमुदीकुमुदिनीकुमुद्वती

शीतलाशशिकलाकलावती ।

रूपमञ्जरिरनङ्गमञ्जरी

केलिमञ्जरिरशोकमञ्जरी ॥२१३॥

वन्यभोजनविधानकौशले

पण्डिता मृगदृशो ह्यनाविले ।

अन्वतन्वत तमुद्यमं तया

वृन्दया परिजनैः समेतया ॥२१४॥

मातुलङ्गकरसैरथ युक्तं

सारशुद्धमथितैरभिषिक्तः ।

ईर्ष्ययेव न परस्परसक्तः

सूक्ष्मशुभ्रमृदुलागुणपृक्तः ॥२१५॥

भव्यनव्यविलसन्मृदमत्र

शोणिकाविवरवासपवित्रः ।

प्रातरेव भवनाहृतसद्यः

क्षालितान्न निकरो निरवद्यः ॥२१६॥ (युग्मकम्)

मांसलानि शशिमांसमहांसि

प्राप्तसारघनसाररजांसि ।

स्वादुनिर्जितसुधाम्बुनिधीनि

प्रापितानि ललितानि दधीनि ॥२१७॥

पक्वविक्वणसुदाडिमबीजैस्

तद्रसैरमृतसौभगबीजैः ।

तालसस्यवलयैरतिनव्यैस्

तद्रसैरपि सुधारसभव्यैः ॥२१८॥

बीजलाङ्गलिफलोच्चयगर्भैः

कोमलैः शशिमयूखसगर्भैः ।

तालबीजजठराङ्कुरमूलैश्

चारुकोमलतया जिततूलैः ॥२१९॥

स्निग्धभासुरकशेरुकराजैर्

बीजकोषभवनिस्तुषबीजैः ।

नागरङ्गफलकोषसमूहैः

पीलुभिश्च रसभारदुरूहैः ॥२२०॥

आममिष्टसहकारफलानां

खण्डकैः सुललितैः सुरसानाम् ।

गोस्तनीफलचयैश्च सुपाकैः

स्वादुगन्धलहरीकृतसेकैः ॥२२१॥

उद्यदङ्कुरकणैरतिमुद्गैः

सार्द्रकैः सलवणैरपि मुद्गैः ।

भास्वदिक्सूसकलैरपि शीर्णैः

कोमलैः सरसतापरिपूर्णैः ॥२२२॥

पूरिता नवपलाशपलाशैर्

निर्मिता मरकतप्रतिकाशैः ।

द्रोणयः परिजनैः सह भव्या

वृन्दयोपजह्रिरे वन्ददेव्या ॥२२३॥ (षड्भिः कुलकम्)

सम्भृता विशदकाचघटीषु

स्फाटिकीषु सुतटीषु पुटीषु ।

आरराज सा रसालरसौघः

सौरभस्य लहरीभिरमोघः ॥२२४॥

सुप्रपानकरसाश्च सुशीताः

शुद्धसारघनसारपरीताः ।

रेज्रल्पमरिचाः सुसिताभिर्

भूरिभिर्विलुलिताश्च सिताभिः ॥२२५॥

नारिकेलवलयाः कृतशङ्खा

कारचारव उदारसुपुङ्खाः ।

मिष्टतापरिमलव्ययशङ्काश्

चारुचेलपिहिता विकलङ्काः ॥२२६॥

एकमेकमखिलस्य वस्तुनः

स्वादुमोदपरभागवास्तुनः ।

ईषदीषदुपगृह्य पाणिना

सा ददौ प्रियकरे स्मितानना ॥२२७॥

चारुकर्तरिकयोत्तमोत्तमं

सा निकृत्य सहकारमक्लमम् ।

पाणिना प्रणयिपाणिपङ्कजे

दत्तमोदमतुलं च सस्वजे ॥२२८॥

उत्तमोत्तममवेक्ष्य पाणिना

सा रसालफलमम्बुजानना ।

संनिगाल्य परिपूर्य सत्पुटीर्

आनिनाय पुरतोऽस्य पौरटीः ॥२२९॥

यद्यदेव दयिताकरकोषे

सा ददाति सुषमाकृतपोषे ।

तत्तदेव बुभुजे स सहासः

प्रेम सत्प्रकटयन्सविलासः ॥२३०॥

एवमेव स सम्पाप्य कानन

प्रीतिभोजनमथाम्बुजाननः ।

आचचाम बहु वामलोचनः

पुण्डरीकदलदीर्घलोचनः ॥२३१॥

सोऽविधास्य वदनं मुखवासैश्

चारु सारघनसारविलासैः ।

इच्छया मणिशिलोपरि कुञ्ज

द्वारि भूरुहतले प्रससञ्ज ॥२३२॥

कृष्णभुक्तपरिशिष्टमभीष्टं

प्रेमतोऽत्तुमनसामतिमिष्टम् ।

प्राप्य योग्यपरिवेशनकालं

सुभ्रुवां हृदयामास विलोलम् ॥२३३॥

मुख्यया सति कियत्युपभुक्तेऽ

स्माभिरत्तुमुचितं हि विविक्ते ।

इत्यवेत्य हृदयं स्वसखीनां

सा जगाद सुदती सुमुखीनाम् ॥२३४॥

अश्नुमः सह वयं त्वममन्दे

साधु साध्वि परिवेशय वृन्दे ।

आलिभिर्नहि विना प्रतिप्रत्तुं

शक्तिरस्ति मम किं पुनरुत्तमम् ॥२३५॥

मण्डलेन कुतुकादुपविष्टास्व्

आसु सादरमसावुपदिष्टा ।

पर्यावेशयदनुक्रमपाली

राधिकां प्रथमतोऽथ तदालीः ॥२३६॥

वृन्दया प्रतिजनं रसयित्वा

तत्क्रमेण परिवेशितमत्त्वा ।

ता विदुः प्रियतमाधरसीधु

स्पर्शतः प्रकृतितोऽप्यतिसाधु ॥२३७॥

सौहृदेन हृदयं रसयित्वा

ताः क्रमेण सकलं तददित्वा ।

साधु धौतवदनऽ मुखवासं

भेजुरात्तघनसारविलासम् ॥२३८॥

पाशकक्रीडा—

तत्र काचिदथ बिम्बफलौष्ठी

मण्डलस्य दयितस्य च गोष्ठी ।

अक्षखेलनविहारविदग्धा

चारुमन्मथविकारविमुग्धाः ॥२३९॥

गोपराजयुवराजसमाजः

सोऽभिरामरमणीमणिराजः ।

कुञ्जसीमनि मणीन्द्रशिलायां

शोभते स्म तरुमूलगतायाम् ॥२४०॥

वृन्दया निजगदे हरिरासां

इङ्गितं सममवेत्य सुभासा ।

दर्शयस्व निजकौशलमक्ष

क्रीडने सनिपुणं नलिनाक्ष ॥२४१॥

पश्य शारिफलकं कृतशिल्पं

पट्टकाञ्चनगुणैरविकल्पम् ।

शारयो मरकतैस्तपनीयैर्

निर्मिताः सुवलिताः कमनीयैः ॥२४२॥

दन्तिदन्तकृतशिल्पसुघट्टे

स्वङ्किते सुभगपाशकपट्टे ।

किं न खेल शतरङ्गमुताहो

शारिमेव परिघायतबाहो ॥२४३॥

तन्निशम्य रमणो लसद्धसः

शारिखेलनमुरीचकार सः ।

व्याजहार च तदुद्यमवत्यः

सन्तु रन्तुमुपयान्तु सुदत्यः ॥२४४॥

सर्वसंविधिविधान ममन्दा

व्याततान कुतुकादथ वृन्दा ।

पाक्षिकीं समनयत्सदभिख्याम्

आक्षिकी च समभूदथ मुखा ॥२४५॥

कृष्ण आह पणनिर्णयपूर्वं

खेलनं भवति तावदपूर्वम् ।

कौस्तुभो मम पणस्तव हारः

कल्पतां प्रथम एव उदारः ॥२४६॥

स्ताद्द्वितीय इतरः पण एते

मामकी मुरलिका ललिता ते ।

आददानि जितकाशिनि जित्वा

निर्जितः परिददानि हसित्वा ॥२४७॥

साह नाहमसमञ्जसं वृणे

वंशिकाललितयोः कृते पणे ।

काष्ठिकामणिशलाकयोः कथं

साम्यमत्र कुरु नो मनोरथम् ॥२४८॥

कस्तृतीयपणतां गमिष्यती

त्याह तत्र कतमा कलावती ।

तामुवाच परिहस्य राधिका

त्वं ममास्य वरहारयष्ठिका ॥२४९॥

आह काचिदथ वच्मि चतुर्थं

सत्पणं यमुपलभ्य कृतार्थम् ।

स्वं वपुः सफलमेव भवन्तौ

मङ्क्ष्यतः सुखनिधिं प्रविशन्तौ ॥२५०॥

कृष्ण आह वद सापि जगाद

श्रूयतां सुमुखि मे प्रियवादः ।

चुम्बनानि तव विच्युतदम्भाः

प्रेयसोऽस्य शतशः परिरम्भाः ॥२५१॥

तां जगाद कुपितेव तदा सा

भ्रूकुटीकुटिलयालिकभासा ।

खेल निस्त्रपमनेन पणेन

त्वं कलावति समं रमणेन ॥२५२॥

भद्रमुक्तमनया पणकार्ये

कुप्य मा कुरु विचारणमार्ये ।

कल्पितस्तव पणोऽतिलघीयान्

वल्लभस्य तु पणोऽतिगरीयान॥२५३॥

त्वं जितातिलघु दास्यसि जित्वा

लप्स्यसे प्रचुरमेव हसित्वा ।

ज्ञायतामुभयथैव भवत्या

लाभ एव परमः शुभवत्याः ॥२५४॥

आस्यतां सुमुखि खेल सलीलं

दर्शयस्व निजखेलनशीलम् ।

इत्यमूं करतलेन गृहीत्वा

काचिदभ्यनुनिनाय हसित्वा ॥२५५॥

साथ शारिफलके यथास्थलं

कौत्कादभयसारिमण्डलम् ।

अङ्गुलीयकमणीन्द्ररञ्जितं

न्यास हाससुधया परिप्लुतम् ॥२५६॥

सोपगृह्य वरपाशकपाट्या

द्वन्द्वमिन्दुवदना परिपाट्या ।

पातय प्रथममित्यनुदात्त

प्रौढि वल्लभकरे समधत्त ॥२५७॥

पाशकोत्किरणजातविलासः

कृष्णबाहुव्लयः स चकाश ।

तं निरीक्ष्य सुदतीं हृदि मुग्धाम्

आह काचन सखी सुविदग्धा ॥२५८॥

खेल खेल सुभगे जयशाली

मास्तु हारहरणे वनमाली ।

कौस्तुभं जय सुरञ्जय चाली

मण्डलं विजयकौशलपाली ॥२५९॥

योऽपतत्प्रथमपाशकदायः

प्रेयसः स विजयव्यवसायः ।

सा तमन्यथायितुं समुदस्य

प्रापयत्करतलं पुनरस्य ॥२६०॥

भूय एव रमणो न्यपीपतत्

पाशकं तदनुरूपमेव तत।

शारिसञ्चरणमप्यचीकरत्

दर्पमम्बुजदृशोऽप्यसीसरत॥२६१॥

हृद्ययाक्षहृदयज्ञविद्यया

दीव्यतोर्निजनिजैकवेद्यया ।

नो जयो न च पराजयस्तयोर्

आस खेलनकलाविहस्तयोः ॥२६२॥

बुद्धिपूर्वमथ सा पराजयं

स्वीचकार स च लब्धवान्जयम् ।

हारमाहरति जीवितेश्वरे

सा स्वयं व्यतरदग्रतः करे ॥२६३॥

साक्षमाक्षिपदुदञ्चितकक्षं

प्राणनाथविजये कृतलक्षम् ।

तन्निरीक्ष्य हृदये नलिनाक्षः

क्लिद्यति स्म विगलज्जयपक्षः ॥२६४॥

सा द्वितीयपणभावशंसिकां

तं विजित्य विचकर्ष वंशिकाम् ।

यच्छति स्म ललिताकराम्बुजे

सा च तां निजतयैव सस्वजे ॥२६५॥

सोऽपि वारमपरं जयशाली

खेलनं व्यरचयद्वनमाली ।

या तृतीयपणतामगमत्तां

सञ्जिगाय गुणगौरवमत्ताम् ॥२६६॥

तां हृतां समवलोक्य समस्ताः

सस्वनं जहसु रूढमुदस्ताः ।

साह मा हसत पाशकदेव्याश्

चातुरीमनुभविष्यथ भव्याः ॥२६७॥

ताः समूचुरनयोचितमुक्तं

खेलने तव मनोऽनभियुक्तम् ।

एष पाशकविलाससुपूर्वा

व्युत्क्रमेण सखि जेष्यति सर्वाः ॥२६८॥

वृन्दया निजगदे विजितायां

त्वद्विधेन मुरलीदयितायाम् ।

नानुशोचति सखि स्मितशाली

राजते भृशमसौ वनमाली ॥२६९॥

त्वादृशः प्रकटयन्तु न तापं

स्वालिलम्भनमतीव दुरापम् ।

न्यायतो जितमुपेत्य गभीराः

शेवधिं विधुरयन्ति न धीराः ॥२७०॥

वंशिकातिसुलभ्येयमटव्यां

नेदृशी गुणवती तु पृथिव्याम् ।

इत्युदीरयथ चेद्विजिहीमाम्

आग्रहः कथमवस्तुनि भूमा ॥२७१॥

कृष्णपक्षपतिता त्वममन्दे

ज्ञायसे सततमेव हि वृन्दे ।

तेन पश्यसि न भद्रमभद्रं

वासरेऽपि फिहितेक्षणमुद्रम् ॥२७२॥

हेलयानवहितैव सखी मे

हन्त खेलितवती परिणामे ।

तेन हारितवती वरहारं

प्रेयसीमपि सखीमनुवारम् ॥२७३॥

इत्युवाच ललिता यदि विज्ञा

सापि पाशककलाहृदयज्ञा ।

अक्षयुग्मकमुदस्य कराग्रे

णाभ्युदास दयिता दयिताग्रे ॥२७४॥ (विशेषकम्)

तत्र तत्प्रववृतेऽक्षखेलनं

प्रेयसोर्विरहितावहेलनम् ।

यत्र कोऽपि सभिको मनोभवस्

तत्र को रसकलापराभवः ॥२७५॥

यच्चतुर्थपणतामुपनीतं

चुम्बनप्रमुखमत्यविगीतम् ।

तद्विजेतुमपि लम्भितलज्जा

सा तथापि विजयाय सुसज्जा ॥२७६॥

यं यमिच्छति हृदा कुतुकाय

प्रेयसी समपतत्स स दायः ।

एवमेव रमणोऽपि सखेलस्

तेन तत्र स रराज सहेलः ॥२७७॥

सा भुजावलयमुन्नमयन्ती

पाशकोत्किरणमारचयन्ती ।

आत्मनोऽभिमतदायमनल्प

प्रौढितो दश दशेति जजल्प ॥२७८॥

मा ब्रवीर्दश दशेत्यलमुग्रे

कृष्णमाकलय भोगिनमग्रे ।

पूर्वमेव सखि येन सुदष्टं

त्वन्मनस्त्वदधरश्च सुकष्टम् ॥२७९॥ (युग्मकम्)

यद्विषस्य विभवः परिसर्पी

सालिचिल्लिलतिकावरसर्पी ।

हन्त पूर्वमनया दलिताङ्गः

किं करिष्यति स कृष्णभुजङ्गः ॥२८०॥

इत्युदारललितावचनान्ते

तत्प्रतिप्रसवभाषिणि कान्ते ।

आलयो विजहसुः सदभिख्या

जिह्राय नतमुख्यथ मुख्या ॥२८१॥ (युग्मकम्)

यच्चतुर्थपणतामुपनीतं

चुम्बनप्रमुखमत्यवगीतम् ।

तन्न जेतुमुभयोरभियोगस्

तुल्य एव खलु तत्फलभोगः ॥२८२॥

सा तथाप्यसति ह्रीपरिरम्भे

खेलितुं प्रतिभया विजजृम्भे ।

पातयन्त्यभिमतानथ दायान्

जेतुमेव विदधे व्यवसायान॥२८३॥

देवनैरकृतसन्धितसन्धं

तस्य पाशकगतिप्रतिबन्धम् ।

तत्परं विधुमुखी पणसिद्धिं

सस्वनं प्रविदधे द्विगुणर्द्धिम् ॥२८४॥

व्यूहबन्धमथ भेत्तुमशक्तस्

तामथ भ्रमयितुं व्यतिशक्तः ।

स स्मितेन मृदुना वचसा च

क्षोभयन्मधुरमन्दमुवाच ॥२८५॥

तावकस्य किमु मामकस्य वा

वृद्धिकर्मणि पणस्य सोत्सवा ।

त्वं बभूविथ विचार्य चेतसा

ब्रूहि सुन्दरि विधूतसाध्वसा ॥२८६॥

सा ममर्ष मनसोभयथा मे

व्रीडहेतुरतुलः परिणामे ।

आलयोऽपि विहसन्ति मिथो माम्

अप्ययं हसितवान्गुणभूमा ॥२८७॥

इत्यचिन्तितसमागतचिन्ता

सावहित्थमथ माधव कान्ता ।

तद्वचोऽश्रुतमिवाभिनयन्ती

खेलितुं प्रववृते विहसन्ती ॥२८८॥

निक्वणत्कनककङ्कणभाजा

पाणिना विकसदास्यसरोजा ।

अक्षमाक्षिपदनाकलयन्ती

सा विदुर्विदुरिति प्रवदन्ती ॥२८९॥

सख्य ऊचुरयि ते मनोरथं

चुम्बनादिपणवृद्धिसत्पथम् ।

के विदुर्हनि वयं तु मा तप

किं विदुर्विदुरिति त्वमालप ॥२९०॥

सा सखीनिकरभाषितभङ्गीम्

आकलय्य चलरज्यदपाङ्गी ।

वक्रया प्रियगिरापि च विद्धा

खेलने समभवद्भ्रमबद्धा ॥२९१॥

आत्मनैव कृतपाशबन्धं

सा स्वयं विरचिताननुसन्धम् ।

खेलनभ्रमहतक्रमरीत्या

निर्बिभेद नियतेरिव गत्या ॥२९२॥

तद्विलोक्य दयितः सदुदारस्

तं पणं त्रिगुणितं स चकार ।

आलयस्तमवदन्जहि गर्वं

जेष्यति प्रियसखी मम सर्वम् ॥२९३॥

सा पुनः प्रववृते जयकामा

खेलितुं स्मितमुखी वररामा ।

नाग्रहो जयफले खलु तादृक्

सुभ्रुवो विजय एव हि यादृक॥२९४॥

सा न तं स च न तामथ जेतुं

सम्बभूव जगतीजयकेतुम् ।

चित्रमेतदति यद्विजितोऽभूद्

एक एव सभिकः स मनोभूः ॥२९५॥

द्वौ कलारसकलापविदग्धौ

द्वौ पुरुप्रणयकौशलमुग्धौ ।

द्वौ सुमङ्गलगुणावलिनद्धौ

द्वौ परस्परमनोरथसिद्धौ ॥२९६॥

बाधको व्यजनि कालविलम्बः

खेलनेऽस्ति नतरामवलम्बः ।

इत्युभावसति पर्यवसाने

खेलनं जहतुरव्यवधाने ॥२९७॥

वंशिकामथ ददौ हरिणाक्षी

सोऽपि हारमखिलाशयसाक्षी ।

वीक्ष्य कालमथ ताः सहवृन्दाः

स्वालयं ययुरयोगसुमन्दाः ॥२९८॥

इति श्रीकृष्णाह्निककौमुद्यां चतुर्थः प्रकाशः ।

मध्याह्नलीला समाप्ता

॥ ४ ॥

.

(५)

***पञ्चमः प्रकाशः ***

अपराह्नलीला—

परिचितमथो कुमारभृत्यैः

कुशलतया प्रतिकृत्यक्ÿप्तनृत्यैः ।

तमुन्चरचया निरीक्ष्य कामं

प्रमुमुदिरे मुदिरोदराभिरामम् ॥१॥

प्रणयरसविशेषक्ÿप्तपूर्तिर्

द्युतिजितकामघटाभिराममूर्तिः ।

सह सखिनिवहैर्मयूखपुञ्ज

प्लुतवपुरेव सुखैः समं ससञ्ज ॥२॥

प्रहरयुगमितोऽप्यसौ रसालः

क्षण इव यद्यपि जात एव कालः ।

तदपि युगवदेष आस तेषां

इयमियमेव हि सौहृदस्य भूषा ॥३॥

अथ जगदुरिमे क्रमेण कृष्णः

परित उपेत्य निरत्ययाः सतृष्णम् ।

समयमगमयः क्व तावदेतं

किमिति विहारमिहाजहाः समेतम् ॥४॥

मृदुहसितसुधासुधौतबिम्बा

धरमधुगन्धमहान्धभृङ्गचुम्बाः ।

अथ मधुमथनोऽप्युवाच वाचः

सरसकलं कलयन्नमूनवाचः ॥५॥

अहमिह मिहिरात्मजाप्रवाहं

परिगतवान्निदाघदाहदाहम् ।

परिचरणविचारचातुरीकैः

सह शिशुदासगणैर्लसत्प्रतीकैः ॥६॥

नहि पयसि समूहतोऽवलम्बः

कृत इह येन भवेन्महान्विलम्बः ।

इति न हि भवतामभूत्प्रसारस्

तत इह धेनुगणश्च सुप्रचारः ॥७॥

समजनि समयो व्रजाय गन्तुं

विरमत सम्प्रति काननेऽभिरन्तुम् ।

रमयत सुरभीगणावहारं

ध्वनयत वेणुविषाणमत्युदारम् ॥८॥

अथ कतिचन रौहिणेयमुख्याः

सहजपरस्परनिर्व्यलीकसख्याः ।

ध्वनितदलाविषाणवेणुनादा

व्रजगमनाय बभूवुरप्रमादाः ॥९॥

अयि शवलि पिशङ्गि कालि नीले

हरिणि विलोहिनि धूमले सुशीले ।

इत इत इत याम धाम दूराद्

विरमत काननचारकामचारात॥१०॥

इति कलमृदुना रवेण वेणोर्

विधुतवधूवलमानमानरेणोः ।

उपययुरनुक्ÿप्तचारुहम्बा

रवमथ धेनुगणा वनावलम्बाः ॥११॥

मदकलरविकुम्भपीवरोधो

वरभरनिर्भरमन्थरस्य साधोः ।

क्षुरखरखुरखेदतोऽपि भिन्ना

सुरभिगणस्य बभूव भूः प्रपन्ना ॥१२॥

सुलभतर तृणाङ्कुरोपभोगाद्

अतिशयपूरितचारुकुक्षिभागाः ।

अशकलकलसोधसोतिकायाश्

चलनमकुर्वत नैचिकीनिकायाः ॥१३॥

सह सहचरमण्डलैः किशोरौ

करिकलभाविव चारुनीलगौरौ ।

वनपरिसरतः प्रयातवन्तौ

बभतुरमू सहजौ त्रिलोककान्तौ ॥१४॥

अलिततिरघवैरिणोनुकूले

कमलधिया निपपात पादमूले ।

विरहविधुरितात्मनोऽत्युदारा

ञ्जनमलिनेव वनश्रियोऽश्रुधारा ॥१५॥

कलमधुरतरैः स्वरैः शकुन्ताः

प्रियविरहज्वरवेगजातचिन्ताः ।

चपलकरनिभैर्गरुद्भिरन्तर्

व्यथमरुदन्निव वर्ष्म ताडयन्तः ॥१६॥

अनिमिषमसकृद्विलोकयन्त्यः

पुनरवलोकनमर्थमर्थयन्त्यः ।

प्रियविरहरुजेव कातराङ्ग्यश्

चलनयना व्यवतस्थिरे कुरङ्ग्यः ॥१७॥

प्रियतममनुगच्छतामुदारा

भुवि लुलुठुः शिखिनां कलापभाराः ।

नवविरहरुजेव जातमोक्षा

बत विपिनश्रिय एव केशपक्षाः ॥१८॥

सरसि सरसि सारसादि पाथश्

चरपतगप्रकरैरसेवि नाथः ।

पथि पथि परितः प्रयाणभाग्भिः

सकरुणबाष्पभरेण रुद्धवाग्भिः ॥१९॥

हरिहलधरपालिताग्रमूला

सुरभिततिश्चलिता व्रजानुकूला ।

मरकतरजतद्विवर्णधारां

व्यजयत रूप्यमयीं तरीमुदाराम् ॥२०॥

द्रुतगतिरतिवत्सवत्सलत्वाल्

लघुगतिरग्रगकृष्णसादरत्वात।

सुरभिततिरतीव पीवरोधः

श्रममनु चित्रगतिः श्रियं रुरोध ॥२१॥

यद्यपि तिमितमेव पूतनारेश्

चरणसरोरुहसन्ततप्रचारे

धरणितलमतो गवां खुराग्रैः

क्षतमपि रेणुभिरुक्षितं समग्रैः ॥२२॥

तदपि तदितराङ्गसङ्गमार्थं

स्वयमिव रेणुमयं वपुः कृतार्थम् ।

क्षितिरधृत पुरुस्पृहा विपश्चित्

क्व नु सुखसम्पदि तृप्तिमेति कश्चित॥२३॥

उपचितमतिमन्दवातधूतैर्

अलककुलं कमलेक्षणस्य पूतैः ।

अलिततिमिव कौसुमैः परागैर्

व्यजयत गोखुररेणुभिः सुरागैः ॥२४॥

सितसिचयसुचारुमौलिबन्धः

सुरभिरजःकणजालसुप्रबन्धः ।

बहिरुपसरदन्तरस्थकेश

द्युतिरुदभाद्दलचुम्बितैकदेशः ॥२५॥

उरसि च शुशुभेऽस्य वैजयन्ती

सुरभिरजःकणसञ्चयैर्जयन्ती ।

कुसुमसुषमयेव संहर्सन्ती

निजमिव चारुपरागमुत्किरन्ती ॥२६॥

अपि सुरभिरजःकणाभिभूतः

पुरु शुशुभेऽस्य स कौस्तुभोऽतिपूतः ।

तरुणकिरणकन्दलीं स्वकीयां

पुनरपि निर्मलयन्निवाद्वितीयाम् ॥२७॥

अनुदिनमिह गोधनावनाय

प्रयतमुपासितुमागता वनाय ।

द्रुहिणतुहिनशैलजाधवाद्या

हरिमुपयन्ति सुराः पुरैरवेद्याः ॥२८॥

तदवकलनमोदनावलम्बः

पथि समवर्तत तस्य यो विलम्बः ।

स युगमिव बभूव गोपिकानां

समयसमाकलनोत्सवोत्सुकानाम् ॥२९॥

पथि निपतति यत्र तस्य दृष्टिः

प्रणयलसत्करुणामयीव वृष्टिः ।

दिशि दिशि सहसैव तत्र फुल्ली

भवति मनोरथकल्पवल्लिपल्ली ॥३०॥

इति लघु लघु सञ्चलन्पदव्याम्

अरुणसरोरुहशोभयैव देव्या ।

महितपदयुगो नखेन्दुभानु

स्नपितरसो गुणरत्नरत्नसानुः ॥३१॥

मृदुतरमुरलीरवेण सर्वं

स्थिरचरमुन्मादयन्प्रभूतगर्वम् ।

व्रजनिकटमियाय गोपडिम्भैः

सह बलदेवपुरोगमैर्विदम्भैः ॥३२॥ (युग्मकम्)

प्रथममुपससर्प धेनुरेणुः

कलनिनदस्त्वथ शुश्रुवेऽस्य वेणुः ।

तदनु समुपलभ्य चारुहम्बा

रवमनु वीथि ललम्बिरेऽखिलाम्बाः ॥३३॥

अनुपथमनुरागिघोषयोषाः

प्रियमुखचन्द्रमभीक्ष्य लब्धतोषाः ।

विदधुरिव चिरादुपोषिताभ्यां

रसमयपारणमक्षिपङ्कजाभ्याम् ॥३४॥

प्रतिजनमवलोकयाञ्चकार

प्रणयवशः स तथा गुणैरुदारः ।

निशि मम गृहमेष एष्यतीति

स्फुरति यथा प्रतिवल्लवि प्रतीतिः ॥३५॥

अथ मणिवलभातलस्थितानां

शुचिरससूत्सुकचेतसां वधूनाम् ।

नयनमधुकरावली ललम्बे

प्रियवदनाम्बुरुहे श्रियोऽवलम्बे ॥३६॥

प्रियतममुखपद्मबद्धलक्ष्म्याः

कमलदृशां सरसत्रपाः कटाक्षाः ।

कुवलयदलवर्षवत्प्रतीताः

सममनुपेतुरुपर्युपर्युपेताः ॥३७॥

तदपि तदवघातजातशातः

सुमधुरिमास्य मुखाद्य उत्पपात ।

कमपि तमयमेव वेद ताश्च

प्रविदुरसौ प्रविवेद मन्मथश्च ॥३८॥

मदमदिरदृशां कटाक्षपाताः

सितविशिखा इव दुःसहावघाताः ।

प्रतिनयननिपातमध्यभग्ना

अपि विभिदुः प्रियमग्रभागलग्नाः ॥३९॥

अयमयमितरेतरावलोकः

प्रणयसुधामधुरिम्णि सातिरेकः ।

इतरजनधिया क्षणं व्यनंशीत्

स्फुरदनुरागरसो न तु व्यरंसीत॥४०॥

इति मदनमदेन गाहमाने

व्रजमघवैरिणि मोदमोदमाने ।

निजनिजभवनादुपेयुर् आराद्

अथ शिशवः स्थविराश्च तेऽप्युदाराः ॥४१॥

प्रणयभरनिरीक्षणेन तोकान्

सरसशिरोनमनेन वृद्धलोकान।

प्रतिजनमनुरञ्जयन्प्रसाद

स्मितसुमुखो व्रजमध्यमाससाद ॥४२॥

सहचरजननीषु वत्सलासु

प्रतिनिजरथ्यमुपागतासु तासु ।

निजनिजतनयादपि प्रकाम

प्रणयवतीषु कृतादरप्रणामः ॥४३॥ (युग्मकम्)

समयसमवलोकनावलम्बा

त्वरितमतिः सुतवत्सला तदम्बा ।

प्रथममियमतिष्ठदेव पथ्या

हितनयनं चिरमभ्युपात्तरथ्या ॥४४॥

अथ निजनिजनिर्मलालयेषु

प्रतिनियतासु निवेशितासु गोषु ।

सह सहचरपूर्वजोऽभिराम

द्युतिरुपसृत्य स मातरं ननाम ॥४५॥

सहजपरमवत्सलत्वलोला

क्षरितपयःकुचभारलग्नचोला ।

मृदुलभुजलताद्वयेन भाता

तन्ययुगं परिषस्वजेऽथ माता ॥४६॥

सुतसहचरसञ्चयाः प्रयात

स्वगृहमिति प्रियया गिरा दयातः ।

निजनिजभवनानि यापयित्वा

स्वभवनमागमदात्मजौ गृहीत्वा ॥४७॥

सायाह्नलीला—

क्षणमजिरतले विलम्बमाना

व्रजपतिपत्न्यतियत्नसावधाना ।

सुतपरिचरणाय बालभृत्यान्

समुपदिदेश निसर्गचारुकृत्यान॥४८॥

अहरत कतमः प्रकृष्टतुष्टी

रसिकवरस्य विषाणवेणुयष्टीः ।

उदहृत वनमालिकामथान्यः

समकृषदाभरणानि कोऽपि धन्यः ॥४९॥

उदहरदवतार्य मौलिबन्धं

मृदुतरकञ्चुकमञ्चितप्रबन्धम् ।

अवयववलयादतीवसारः

सुरभिरजांस्यपसारयाञ्चकार ॥५०॥

वसनमितर आशु लम्भयित्वा

मुखपदपद्ममधावयन्मुदित्वा ।

कचभरमथ कङ्कतीमुखेन

प्रचुरमशूशुधदुद्यता सुखेन ॥५१॥

कृतिभिरवयवोऽस्य चारुशीलैः

सुरभिसुरागसुपक्वदिव्यतैलैः ।

प्रणयपटुभिरभ्यमर्दि दासैर्

मृदुतरमानखमूर्ध मन्दहासैः ॥५२॥

मसृणघुसृणगन्धसारचूर्णैर्

घनघनसाररजोभरेण पूर्णैः ।

अकृत तनुविरुक्षणं च कश्चित्

प्रणयविलासकलावशो विपश्चित॥५३॥

अकृत कचविशोधने प्रकर्षं

सुरभितरामलकीकषायघर्षम् ।

घनतरघनसारसारगन्धैर्

अपघनसेकमकल्पयत्कबन्धैः ॥५४॥

मृदुसितसिचयाञ्चलावलिभिर्

ममृजू रथाङ्गकमङ्गमार्जनीभिः ।

कचभरमपि निर्जलीचकार

स्तिमितपटेन निपीड्य कोऽप्युदारः ॥५५॥

स्तिमितवसनमाशु हापयित्वा

पटमपरं मृदु पीतमापयित्वा ।

अतिमृदुलमतीव दर्शनीयं

व्यधित महोरसि पीतमुत्तरीयम् ॥५६॥

अकृत कचकलापमम्बुरिक्तं

पुनरपि कङ्कतिकामुखोपरक्तम् ।

शिरसि च मृदुसूक्ष्मचारु शुभ्रां

कचभरवेष्टनिकां चकार दभ्राम् ॥५७॥

अलिखदलिकमध्यमत्युदारं

तिलकमनिन्दितगन्धगन्धसारम् ।

अलिपत घनसारसारिताङ्कैर्

वपुरघनैर्हरिचन्दनस्य पङ्कैः ॥५८॥

अथ मणिमयमण्डनानि गात्रे

न्यधित यथासमयानि चारुचित्रे ।

चरणयुगमकल्पयत्सुधौतं

मणिमयकाञ्चनपट्टिकोपनीतम् ॥५९॥

लघु ललितमहो विशन्स सद्म

प्रियसखपाण्यवलम्बिपाणिपद्मः ।

परिहृतमणिपादुको विनम्रः

पितरमवन्दत भक्तिभावकम्रः ॥६०॥

दृढतरमौप्गृह्य तेन हर्षे

प्रसरणमीयुषि शिङ्घितः स शीर्षे ।

अभजत वरमासनं स तेनाप्य्

उपविशतानुमतः शनैरनेनाः ॥६१॥

चिरमुपचरितः स चैवमेव

स्वपरिजनैर्विरराज रामदेवः ।

पितरमवननाम सोऽप्यमन्द

प्रणयवशादुपगूह्य चाननन्द ॥६२॥

द्वितीयभोजनम्—

व्रजपतितनयद्वयद्वितीया

शनसमयोचितपाकपालनीया ।

अघरिपुजननीं पुरोगमा ताम्

अजनि पचेति जगाद राममाता ॥६३॥

व्रजपतिगृहिणीङ्गितप्रणुन्ना

नवनवदासकदासिकाः प्रसन्नाः ।

व्यधिषत मणिपीठपात्रभृङ्गा

रकमुचितस्थलसङ्गि जातरङ्गाः ॥६४॥

अथ कृतचरणार्विन्दशौचः

स उपविवेश वरासनं सुतौ च ।

हलधरजननी कृतात्युदार

प्रणयभरं परिवेशयाञ्चकार ॥६५॥

प्रथममथ ददौ द्विजार्भकेभ्यः

प्रतिदिवसं सह भोजने क्षमेभ्यः ।

तदनु परिवृढाय गोदुहां सा

तदनु सुताय यथाक्रमं नतांसा ॥६६॥

तदनु बकनिसूदनाय तस्मै

तदनुचरप्रकराय चापरस्मै ।

हितमितमतिमृष्टामिष्ट सायं

तनसुखभोजनमुत्तमाभ्युपायम् ॥६७॥

जनकसविधभोजनेऽथ नीतौ

कृतमनसौ बलकेशवौ विनीतौ ।

अपि च सहचरा अमी नचोच्चा

वचवचना अभवन्नपि स्मयोच्चाः ॥६८॥

व्रजपतिगृहिणी तु तद्ददर्श

स्वयमथ हृद्यपि सा पराममर्श ।

जनकसविधभोजनेऽह्यमीषाम्

अतिसरसा न भवत्यहो मनीषा ॥६९॥

इति परिणतिमाप तस्य पित्रा

सहचरमाशनमाधुरी विचित्रा ।

पितुरपि परितोषपोषपूर्णे

मनसि मुदां निकरः समाजुघूर्णे ॥७०॥

पृथगथ परिचारकोपनीतैर्

मणिकनकालुकया भृतैः सुशीतैः ।

अतिसुरभितरैर्जलैः सरामः

सहजनकः ससखः स चाचमामः ॥७१॥

प्रथमविधृतवेशभूषणानां

कृतपरिवर्तनमन्यथाकृतानाम् ।

समयसमपरिग्रहं विधाय

प्रयततिरेऽङ्घ्रिसरोजधावनाय ॥७२॥

अथ सुखमुखवासवासितास्यः

स्फुरदमृतद्रवमुग्धमन्दहास्यः ।

सुविहितपितृमातृवन्दनान्तः

स बहिरभूदघमर्दनोऽङ्गनान्तः ॥७३॥

गोशालायां प्रवेशः—

अमृतकरकदम्बकापवाद

क्षममधुराननमण्डलप्रसादः ।

सहचरकृतसद्गुणानुवादः

प्रियमणिपादुकयोपगूढपादः ॥७४॥

विदधदनुचरांससीम्नि वामं

भुजमपरेण करेण चाभिरामम् ।

प्रियसहचरदत्तनागवल्ली

च्छदनमदन्प्रविवेश घोषपल्लीः ॥७५॥ (युग्मकम्)

विकसितकुमुदेक्षणा त्वरा या

विगलितभास्करनिष्कशुष्ककाया ।

तमभजदथ सौभगादसूक्ष्मी

भवदनुरागरसा प्रदोषलक्ष्मीः ॥७६॥

परितः उपपतत्सु पक्षिलक्षेष्व्

अपरिमिते स्वकुलायकेलिवृक्षे ।

अनुभवनतलं ज्वलत्सु दीपेष्व्

अकिरणधूसरिते दिशां समीपे ॥७७॥

दिशि विदिशि रुवत्सु तर्णकेषु

प्रतिरुवतीषु च वत्सलासु गोषु ।

प्रसरति च गवां द्वितीयदोहे

सति सति गोपकुले निरस्तमोहे ॥७८॥

तमुपनतमभीक्ष्य दिव्यरूपैः

सुरभिरुतश्चलमङ्गलप्रदीपैः ।

सुरभिगृहरुचो भवन्नुलूला

रवरसनाचलनादिवानुकूलाः ॥७९॥

अथ हरिहरिदङ्गनाभिरामं

हरिमवलोकितुमुत्सुकेव कामम् ।

लघुतरमुदनीनमत्सरागं

हिमकिरणाननमुन्महःपरागम् ॥८०॥

विघटयदिव सर्वतो विसारां

तिमिरपटीमवगुण्ठनप्रकाराम् ।

मुखमिह हरिदिग्विलासवत्या

विधुरुदियाय चिराभिलाषवत्याः ॥८१॥

शशधरधवलासु तासु गोषु

स्फटिकघटाचटुलासु कौमुदीषु ।

असितखुरविषाणकान्तिभेदाद्

उदयति गोधनधीर्विधूतखेदा ॥८२॥

तुलितरजतशैलगण्डशैलः

सुखमकरोच्छयनं स्वतन्त्रलीलः ।

वृषवृषभगणस्तु तत्र सायं

गृहमुनिवत्स यतस्ततोऽनपायम् ॥८३॥

ललितमखिलगोगृहाङ्गनेषु

स्फटिकमहापृथुदण्डमण्डितेषु ।

पदकृतमणिपादुकः स गोष्ठ

श्रियमभिवीक्ष्य मुमोद मुद्वरिष्ठः ॥८४॥

युगपदखिलधेनुदोहभूतस्

तुमुलतरो ध्वनिरास यः प्रभूतः ।

घटजठरगुहाविहारसान्द्रस्

तमसुखयत्स चिरादमन्दमन्द्रः ॥८५॥

अतिकुतुकवशेन सप्रकर्षाः

क्वचिदपि गाः स दुदोह दुष्प्रधर्षाः ।

मृदुतरकरपल्लवः सखेलं

दधदधिजानु घटीमुदस्य चेलम् ॥८६॥

अमृतसमकराम्बुजाभिमर्शं

द्रुतमनुभूय तदाननेन्दुदर्शम् ।

स्वयमविहितयत्नमेव तास्ताः

स्नुतपयसो विभवुः समं समस्ताम् ॥८७॥

शयनमन्दिरे गमनं—

इति सकुतुकनीतपूर्वरात्रो

विधिवदयं चरणौ प्रणम्य पित्रोः ।

सदयसपरिरम्भसादराभ्यां

शयितुमभूदनुमोदितश्च ताभ्याम् ॥८८॥

पितृपुरसविधे पुरं यदीयं

बहुमणिकाञ्चनमञ्जुरञ्जनीयम् ।

उपवनमभितश्च यत्र दिव्यं

शयनगृहादि च यत्र नव्यभव्यम् ॥८९॥

नवनवतरुवीर्धावलीकं

कुसुमितकुञ्जकुटीरनिर्व्यलीकम् ।

मणितटसरसीविहारिहंसं

यदुपवनं कलकोकिलावतंसम् ॥९०॥

कुसुमदलकूलावतंसमुक्ता

मयवलया दिवि भूसणोपरक्ताः ।

मलयजघनसारपङ्कदिग्धाः

सितसिचयाः करिदन्तपत्रमुग्धाः ॥९१॥

स्मितभवदशनांशुपुष्टदोषा

करकिरणाः प्रियसङ्गभावितोषाः ।

रजनिषु घनचन्द्रिकाभिरामास्व्

अभिसरणं रचयन्ति यत्र रामाः ॥९२॥

शयनसमयसेवनावलम्बैर्

नवनवसेवकसेविकाकदम्बैः ।

निरवधि परिमृष्टसिक्तकृष्णा

गुरुगुरुधूपसुधूपिताप्यनुष्णा ॥९३॥

सुरभिकुसुममालिकाकृताभिर्

नवनवमण्डनिकाभिरुत्तमाभिः ।

मणिकलसशिखालसत्पताका

वलिभिरपि प्रियकान्तिकन्दलीका ॥९४॥

विरजसगजदन्तशिल्पभाजा

मणिगणकाञ्चनखट्टयात्तपूजा ।

उपचितवपुषेव दुग्धफेनैर्

मृदुकशिपूत्तमसुन्दरोपधानैः ॥९५॥

शशधरमणिदण्डरुग्गवाक्षा

गतशशिरश्मिसिताभ्रधूलिलक्षा ।

प्रतिविलसति यत्र तल्पशाला

मणिमयपञ्जरमञ्जुकीरमाला ॥९६॥

शिशयियुरथ तद्विलोभनीयं

वरपुररत्नमयत्वशोभनीयम् ।

न्यविशत सुकुमारदासदासी

गणसहितोऽघनिहा महाविलासी ॥९७॥

इति श्रीकृष्णाह्निककौमुद्यां पञ्चमः प्रकाशः ।

अपराह्नलीला समाप्ता

॥ ५ ॥

.

(६)

***षष्ठः प्रकाशः ***

प्रदोषलीला

अध्यारूढः शयनभवनालिन्दमालम्बमानैः

पार्श्वद्वन्द्वं शिशुभिरभितो दासदासीप्रधानैः ।

तामालोक्य श्रियमनुपमां साधु माधुर्यधुर्यां

मेने योग्यां निजविहरणे याभवत्तत्र पुर्याम् ॥१॥

तत्र स्थित्वा क्षणमभिनवैर्ग्राहितं दासदासी

वृन्दैः स्वापोचितमनुपमं वेशमन्यं विलासी ।

अङ्गीकृत्योक्षितमुखपदाम्भोरुहः पादुकाभ्यां

भ्राजपादो भवनमविशत्दिव्यरत्नोज्ज्वलाभ्याम् ॥२॥

तस्मिन्लीलाशयनभवने रत्नपर्यङ्कमूले

दिव्यं रत्नासनमनुपमं स्वीचकारानुकूले ।

तस्मिन्नेवोल्लसति समये द्वित्रिदासीसमेता

गोष्ठेश्वर्यागमदभिमुखं तस्य वात्सल्यपूता ॥३॥

सा वात्सल्यस्नुतकुचयुगा स्मेरवक्त्रेन्दुबिम्बा

स्निग्धा दुग्धौदनमुपनयन्त्याबभाषे तमम्बा ।

एतद्भुक्त्वा स्वपिहि रजनी दीर्घदीर्घेयमस्याम्

उद्भूतक्षुत्परिभवतया क्लेशभाग्वत्स न स्याः ॥४॥

नास्त्येव क्षुद्यदपि भगवत्यम्ब मे लेशमात्री

युष्मद्वाचा तदपि सुखदा जग्धिरेषा भवित्री ।

त्वं याहीत्यलपति तनये सा तमाहाम्बुजाक्षं

यास्याम्येव त्वमिदमधुना भुङ्क्ष्व भो मत्समक्षम् ॥५॥

इत्याभाष्यासनमनुपमं सा यदि स्वीचकार

प्रीत्या कृष्णस्तदथ बुभुजे मातृमोदादुदारः ।

आचान्तं तं चरणमिलितं भुक्तताम्बूलमम्बा

प्रेम्नालिङ्ग्य स्वगृहमगमत्तत्प्रियायाविलम्बा ॥६॥

श्रीपर्यङ्के महति महिते क्षुब्धदुग्धाब्धिफेन

श्रेणीश्रीमन्नवकशिपूनानल्पतल्पोत्तमेन ।

अध्यासीनः स मृदुवलितस्थूलदिव्योपधाने

कृत्वा वामं भुजपरिसरं कां न शोभां वितेने ॥७॥

तस्मिन्निन्दोः किरणपटलीर्जालरन्ध्रोदरेण

प्रत्यायान्तीः शुकयुवतयो रत्नदण्डभ्रमेण ।

आलम्बन्ते मुहुरथ पतन्त्योऽपि निद्रायमाणास्

तस्याप्युच्चैः कुतुककलया जज्ञिरे श्रीयमाणाः ॥८॥

तच्चालोक्य प्रहसति शिशौ दासदासीकदम्बे

धीरोऽप्युच्चैः स विभुरभवन्नैव धैर्यावलम्बे ।

सत्ताम्बूलं प्रियपरिजनेनाहितं श्रीकरेण

प्रादायादन्नकृत शयनं स्वापलीलादरेण ॥९॥

कश्चित्कश्चिद्व्यकिरदभितः स्विष्टपिष्टातधूलीं

कोऽप्याधूनोदगुरुजनितां धूपधूमस्य पालीम् ।

कश्चिज्ज्योत्स्ना धवलममलं चामरं चादुधाव

प्रेष्ठः संवाहनमरचयत्पादयोरूढभावः ॥१०॥

एवं लीलारचितशयने गोपराजेन्द्रपुत्रे

स्थाने स्थाने सुषुपुरभितस्ते च ताश्चातिचित्रे ।

निद्रादेवी क्रमदृढतरा तेषु तास्वाविरासीच्

छ्रीकृष्णे तु क्रमशिथिलतां केलिहेतोरयासीत॥११॥

गोपीनामभिसारः—

राधादीनां कुवलयदृशां नित्यकृष्णप्रियाणां

गोपेऽन्यस्मिन्वितथममतामात्रभर्तृभ्रमाणाम् ।

छायाकायाकलनकलया बान्धवान्मोहयित्वा

कृष्णासङ्गं निशि घटयते योगमाया मुदित्वा ॥१२॥

स्वस्वावासे गमितरजनीपूर्वभागाः समस्ताः

कृष्णप्रेमग्रहपरिभवेणात्मबोधव्युदस्ताः ।

तत्राप्युच्चैरतुलबलवद्योगमायोपरोधा

लक्ष्याः साक्षातभिसरणतोऽप्याबभूर्वीतबाधाः ॥१३॥

मुक्ताजालैर्वलयरसनादामहाराद्यनागः

क्षौमं ज्योत्स्नापटलधवलं चन्दनेनाङ्गरागः ।

मल्लीमालाश्चिकुरनिकरे सौरभेणातिकान्ताः

श्रीताडङ्काः श्रुतिकिशलयप्रान्तयोः कान्तदान्ताः ॥१४॥

हंसश्येना प्रपदवसनप्रान्तभागैरकुण्ठैर्

आच्छन्नभ्रूनयनमहसां क्ÿप्तदीर्घावगुण्ठैः ।

कर्पूराणां पथि पथि रजोवर्षणेनैव नासां

चक्रुश्छायाविसदृशतया चित्रमेतत्तदासाम् ॥१५॥ (युग्मकम्)

अत्यौत्सुख्यात्त्वरितगतयः श्रोणिभारप्रथिम्ना

मन्दं मन्दं रचितचरणक्षेपमायासभूम्ना ।

ज्योत्स्नाजालं रजतलतिकावाटिकेति प्रतीत्या

हस्तालम्बं क्वचन विदधुः श्रान्तिश्रान्त्यै सुरीत्या ॥१६॥

ऊरुस्तम्भो गमनविरहं वेपथुर्गात्रलौल्यं

हर्षाश्रं च क्षितिपरिचयाभावतः प्रातिकूल्यम् ।

चक्रुस्तासां मलयजरसोल्लासनं रोमहर्षा

रेजुर्ज्योत्स्नाभिसरणविधौ केवलं हासवर्षाः ॥१७॥

ज्योत्स्नाजाले निजनिजतनुज्योत्स्नयोल्लासयन्त्यः

कृत्स्ना ज्योत्स्नान्तरमिव निजप्राणनाथं प्रयान्त्यः ।

प्रत्यादिष्टाभिसरणपथाः स्वानुरक्त्येव दूत्या

नैव ज्ञाता अपि शशभृति स्वांशुजालप्रतीत्या ॥१८॥

श्रोणीभारप्रथिमनि समालम्बमानं विलम्बं

राधा प्राणप्रियतमसखीर्दत्तहस्तावलम्बम् ।

मन्दं यान्ती प्रियगृहपथं दीर्घदीर्घं मृशन्ती

खेदस्वेदक्षुभिततनुका हन्त जग्लौ सुदन्ती ॥१९॥

अत्याक्षीत्सा कुमुदरसनां भारबुद्ध्या नितम्बात्

कौन्द्यं मञ्जीरकयुगमपि व्युत्ससर्जाविलम्बात।

यान्ती यान्ती पथि पथि जहौ केलिशुक्लारविन्दं

धम्मिल्लाग्रादपि समकिरन्मल्ल्लिकादामवृन्दम् ॥२०॥

प्रियतमेन मिलनम्—

तस्मिन्काले क्षणशयनतः स्वेच्छयैवोत्थितस्य

श्रीमद्वंशीविरुतिरुदभूत्प्राणनाथस्य तस्य ।

सा दूतीव स्वयमुदतनोदादरेणोपसर्पं

तामालम्ब्य द्रुतमियमगाद्रुद्धकन्दर्पदर्पम् ॥२१॥

वंशीगीतिः स्वयमुपसृता वर्त्मना येन दौत्ये

सा तेनैव त्वरितमचलत्पण्डिता प्रेमकृत्ये ।

उत्कण्ठाल्या चल चल चलेत्याग्रहात्प्रेर्यमाणा

राधा वंशीनिनदलहरीदूतिकाकृष्यमाणा ॥२२॥

आरामाणां शयनभवनप्रान्तभाजाममन्दा

याधिष्ठात्री प्रयोजैसुभगा देवता सैव वृन्दा ।

ज्ञात्वा राधागमनसमयं प्रेयसोऽपि त्रियामा

केलीकालं समगत तयोः केलिसाहाय्यकामा ॥२३॥

सोऽपि प्रेयानगमदमलोद्दाममाराममध्यं

चन्द्रेणैव स्वकरकृतया भूरि शुद्ध्यातिमेध्यम् ।

वृन्दाद्याभिर्विविधविधिवत्साध्यमाणारुनौष्ठी

वृन्दैः सार्धं यदधि मधुनो भाविनी पानगोष्ठी ॥२४॥

तस्मिन्कुञ्जप्रवरसविधे रत्नवेयां प्रकृष्ट

ज्योत्स्नास्नानस्तिमितवपुषि स्वान्तरे सूपविष्टः ।

आगच्छन्तीं पुरपरिसरे प्रेयसीं सालिवृन्दां

प्रत्युद्गम्याभ्य्पगमयितुं प्रेरयामास वृन्दाम् ॥२५॥

निर्गच्छन्त्या द्रुतमथ तयालोकि पूर्द्वार एव

ज्योत्स्नामूर्तिर्विबुधलतिकावाटिका जङ्गमेव ।

तां प्रापय्योपवनलतिकां राधिकां सप्रहर्षं

चक्रेऽन्योन्यद्युतिवितरणेऽन्योन्यमेव प्रकर्षम् ॥२६॥

चेतोमध्याद्बहिरिव गतं वीक्ष्य सा वीतबाधा

कृष्णं बालाग्रहमथ पुनर्लब्धबोधेव राधा ।

क्वाहं कस्मात्कथमहमहो केन वात्रोपनीता

पन्थाः को वा मम समजनीत्याममर्श प्रतीताः ॥२७॥

कृष्णानन्दग्रहपरिभवाच्छन्नहृद्वृत्तिकानां

कृष्णालोके प्रयोजैमगमच्छ्रेणि वेणीक्षणानाम् ।

मन्त्राविष्टो निजमिव विषं स्वक्षतोऽहिः कृतास्यः

प्रत्यादत्ते भवति च यथा तेन दष्टोऽपि रस्यः ॥२८॥

सा तं दृष्ट्वा तदुपविपिनं तां निशां चन्द्रिकाभिः

कान्तां तां तामपि गृहततिं चारुक्ÿप्तां लताभिः ।

यैरानीतो गुरुगृहगुहां हापयित्वा स्वदेहस्

तानस्तौषीन्मनसि मुदिता विस्मृताशेषदाहः ॥२९॥

अध्वश्रान्ताः सुमृदुलतनूर्माधवीमण्डपानां

द्वारि द्वारि प्रतिजनममूः स्थापयित्वा समानाम् ।

वृन्दा प्रत्यादिशदनुलतं पल्लवैर्वीजनार्थं

ताः कुर्वत्यस्तदथ मुदिता मेनिरे स्वं कृतार्थम् ॥३०॥

यावच्छ्रान्तिं व्यपनयति सा श्रेणिरेणीक्षणानां

तावत्कृष्णो न खलु गतवानेव पारं क्षणानाम् ।

प्रत्यासन्नो ललितमुरलीपाणिरानन्दसिन्धुः

स्वीयं वासो व्यजनमकरोत्तास्त्रपामबबन्धुः ॥३१॥

नैशलीला, वनविहारः—

हस्तग्राहं स रसिकमणिर्दर्शयामास राधां

स्वीयं साध्वीमुपवनरुचं सर्वतो वीतबाधाम् ।

मूले मूले नवविटपिनां रत्नवेद्यानुकूले

स्थायं स्थायं स्वकरकलितस्वान्तरश्रीदुकूले ॥३२॥

भ्रामं भ्रामं भ्रमरमुखरोद्यानशोभाविशेषं

भूयो भूयो मृदु मृदु पदक्षेपमालोक्यशेषम् ।

दन्तज्योत्स्नालहरिमहसौ चन्द्रिकां सान्द्रयित्वा

मन्दं मन्दं हरिणनयनां तां बभाषे हसित्वा ॥३३॥

पश्यैतास्त्वद्विहरणकलालोकनानन्दभङ्गीः

पुञ्जीभूताः प्रतितरुलतं वीतनिद्राः कुरङ्गीः ।

विस्ताराणामपि खगकुलं चान्तरालेन्तराले

युष्मत्क्रीडाकलनकुतुकान्नैव निद्राति काले ॥३४॥

पत्रैः पुष्पैस्तव नवनवास्वङ्गसेवास्वमोघः

पश्यात्मीयः परिजन इव स्निग्धकान्तिर्लतौघः ।

पश्यैते ते निजभवनतोऽप्यूढसौभाग्यपुञ्जा

गुञ्जन्मत्तभ्रमरघटया सेव्यमाना निकुञ्जाः ॥३५॥

विस्ताराणां समवलयिताकारभाजां विचित्रं

मध्ये मध्ये लवलवलसच्चन्द्रिकानेत्रनित्रम् ।

पश्य च्छायावलयमनघं त्वत्कृतेऽरण्यकान्ति

श्रेणीशुद्ध्यै तितौमिव यन्मारुताश्चालयन्ति ॥३६॥

वाचं वाचं मधुरमृदुलां वाचमेतां मृगाक्षीम्

आनन्दानां निधिरतितरां गूढसत्प्रेमसाक्षी ।

भ्रामं भ्रामं पुनरुपययौ माधवीमण्डपान्तं

पानक्रीडोत्सवपरिषदः कौतुकं यत्र कान्तम् ॥३७॥

मधुपानलील—

तस्मिन्न्नानामधुरिमधुराधुर्यवैदूर्यवेद्यां

कृत्वा चीनाम्बरविरचनां चन्द्रिकावृन्दहृद्याम् ।

तस्यां न्यस्य स्फटिकचषकस्तोममस्तोकमूल्यं

कर्तुं वृन्दारभत रभसात्पानलीलानुकूल्यम् ॥३८॥

तत्रानिन्ये स्फटिकघाटितं मेध्यमाध्वीककुम्भं

गन्धेनान्धीकृतमधुकरं सोपदंशोपलम्भम् ।

कामक्रीडानिधिघटमिवापीनचीनेन गूढं

ग्रीवादेशे सुरभिकुसुमोद्दामदामोपगूढम् ॥३९॥

तत्रागत्य प्रमुदितवधूमण्डलीमध्यवर्ती

दृष्ट्वा वृन्दाकृतविरचनाः कल्पितरचनाः कल्पितस्वान्तपूर्तीः ।

श्रीराधायाः करसरसिजं पाणिनाधृत्य धृत्या

मध्येऽवात्सीत्सह मणिशिलामूर्ध्नि तत्रैकमत्या ॥४०॥

पर्यन्ते चोपविशति वधूमण्डले तस्य वाचा

पङ्क्तीभूय प्रसृमरतरेणाङ्गभासा समीचा ।

मूर्तिभूता इव वलयिताश्चन्द्रिकाश्चन्द्रिकानां

मध्ये मेध्या अथ विललसुर्मूर्तयः सुन्दरीणाम् ॥४१॥

उद्यद्विद्युल्लतिक इव स स्निग्धधाराधरेन्द्रश्

चन्द्रज्योत्स्नावलयवलितोऽभ्राजतानन्दसान्द्रः ।

राधासङ्गी प्रियसहचरीमण्डलान्तःप्रसङ्गी

पानक्रीडोत्सवनवनवोत्साहनिर्वाहरङ्गी ॥४२॥

व्रीडौत्सुक्यस्मृतिमतिधृतिक्षान्तिहर्षाभ्यसूया

शङ्कात्रासश्रममदमुखाः प्राभवन्नानुमेयाः ।

एकैकस्याः परिजनधुरां धारयन्तोऽस्वभावा

लब्ध्वा लब्ध्वा समयमुचितं सेवितुं सर्वभावाः ॥४३॥

पानास्थानीमनु सहचरीषूपविष्टासु तासु

श्रीमच्चैकासनमनुसतोः प्रेयसोरग्रगासु ।

नानापुष्पैः स्वयमनुपमैर्गुम्फिता भृङ्गलोला

वृन्दा नन्दादनुजनमनुग्रीवमाधत्त मालाः ॥४४॥

लोलाः कालागुरुजनिजुषो धूपधूमस्य धाराः

सारादारादरचयदनुक्षुण्णकर्पूरपुराः ।

तन्निर्दिष्टाः कुसुममकिरन्क्ष्मारुहः पावनस्य

प्रारम्भेऽस्मिन्स्फुरति मधुनः पानलीलोत्सवस्य ॥४५॥

मल्लीपुष्पेष्वनुसृणिमुखैश्चञ्चलैश्चञ्चरीकैः

शङ्खाभं भं भं भमिति निनदा दध्मिरे निर्व्यलीकैः ।

लास्यं तेने पवनगुरुणा शैशवं शिक्षिताभिः

स्थाने स्थाने कुसुमलतिकामण्डलीनर्तकीभिः ॥४६॥

माध्वीकेन स्फटिकचषकश्रेणिमापूरयन्त्या

ज्योत्स्नाजाले मिलितवपुषं तामथालक्षयन्त्याः ।

वृन्दादेव्याः किमिह चषकान्किं नु शून्यान्पिपर्मीत्य्

आसीत्तस्याः क्षणमिव तदा चित्तवृत्तौ महोर्मी ॥४७॥

दिव्ये नव्ये स्फटिकपुटिके मेध्यमाध्वीकपूर्णे

चारु न्यस्योत्पलमुपरितः प्रस्फुरद्भृङ्गघूर्णे ।

वामेन शक्तरजलरुहा धुन्वती भृङ्गमन्ये

नाग्रे राधाव्रजपसुतयोरग्रतः सोपनिन्ये ॥४८॥

दीव्यत्तेजःपरिधि परिवेवेष्टि यावत्सखीनां

प्रत्येकं सा मधु सुमधुरं पानलीलोन्मुखीनाम् ।

तावत्तावप्युभयमधुनोऽन्योन्यमुत्सारयन्तौ

भृङ्गानास्तामुपरिपतितांस्तां प्रतीक्षावहन्तौ ॥४९॥

निष्पण्णेऽस्मिन्मधुविभजने भाजनैस्तैरमन्दे

श्रीकृष्णः स्वं समधुचषकं राधिकास्यारविन्दे ।

पीत्वा देहि त्वमिति निगदन्सूपनिन्येऽप्रवेशात्

साप्याघ्राय नतमुखमुदात्कामतन्त्रोपदेशात॥५०॥

तन्माध्वीकं कमलवदनावक्त्रगन्धोपलम्भाद्

आत्मामोदादपि सुमधुरं वल्लभो विप्रलम्भात।

पीत्वा पीत्वानुभवति चिरेणानुभूयानुभूय

स्मित्वा स्मित्वा पिबति महता कौतुकेनैव भूयः ॥५१॥

सा सव्रीडस्मितमवनताधीतसत्प्रेमतन्त्रा

कान्तोच्छिष्टं मधु सुमधुरं पातुकामा स्वतन्त्रा ।

नैच्छत्पातुं स्वमधु यदि सा तद्विदित्वाघहन्ता

स्मित्वा प्रादादथ पिब पिबेत्यादरेणानुमन्ता ॥५२॥

तत्पीत्वा स स्वमथ मधुनः पात्रमादाय पाणि

श्रीपर्णेनापिबदथ समाकृष्य तद्वेणुपाणिः ।

स्मित्वा स्मित्वा कलयति सखीमण्डले तत्र पिप्ये

नैतच्चित्रं भवति सुहृदां सौहृदस्याभिरूप्ये ॥५३॥

भूयो वृन्दा चषकमपरं सीधुना पूरयित्वा

श्रीदम्पत्योर्न्यधित पुरतः स्वं मनो मोदयित्वा ।

आपीयान्यदथ ददतुस्तौ सखीभ्योऽल्पमल्पं

तास्तत्पीत्वा स्वमपि च पपुः सीधु पीयूषकल्पम् ॥५४॥

एवं वृत्ते कुवलयदृशां प्रेयसश्चादिपाने

काचित्काचिद्विकृतिरुदगादन्तरे स्निह्यमाने ।

सा मर्यादाविघटनपटुर्नासहन्तानुमेया

शोणीभावं व्रजति नयने दृश्यमानाभ्युपाया ॥५५॥

काचित्तत्र प्रथमचषकेणैव निर्व्यूढकामा

नैच्छत्पातुं पुनरविरतं प्रार्थ्यमानापि वामा ।

द्रष्टुं ताषां मदविलसितं वल्लभस्यापि विज्ञा

लोभाच्छोभातिशयविषयासन्दिदृक्षामनोज्ञा ॥५६॥

अस्थाने ह्रीरुदितमपदं हेतुहीनो विवादस्

त्रासो निष्कारण उपगतो निर्निदानो विषादः ।

व्याहारोऽप्यन्वयविरहितो दृष्टिरुद्देशशून्या

तासामासीद्विसरकविधौ रीतिरेषैव धन्या ॥५७॥

वाचां वर्णस्खलनबलेन चेतसामस्थिरत्वं

मन्दाक्षाणां समयसरणं वर्ष्मणां कम्पवत्त्वम् ।

बुद्धीनां च भ्रमणमसकृद्धासरोषप्रतोष

जाड्यं मौनं विसरकविधौ रेजिरेऽमी विशेषाः ॥५८॥

ज्योत्स्नालीनं स्फटिकचषकं कायनालोकयन्ती

किं मे दत्तं न मधु पुरतो वृन्दयेत्यामनन्ती ।

जातक्रोधस्मयविहसिता स्थैर्यनिर्वेदशङ्कं

तस्थौ काचिन्न पिबति मधु प्रोल्लसन्मानपङ्कम् ॥५९॥

आल्यः पेयं मधु कथमिदं चन्द्रमाः सम्प्रविष्टः

कण्ठे लग्नोऽप्यहह भविता चर्यते चेत्स दुष्टः ।

किञ् चोदञ्चन्मलपरिमलां प्रस्तुतात्तत्कलङ्का

सङ्गादस्मिन्मम सुमहती जायते दोषशङ्का ॥६०॥

माध्वीकानामुपरि परितो विभ्रमद्भृङ्गमाला

च्छायां कल्कावलिमिव घनां वीक्ष्य काश्चिद्विलासाः ।

अङ्गुल्यग्रैर्ललितलुलितैर्लोडयित्वा पटान्ते

पूतं कृत्वा पुनरथ पपुः पानमोदे नितान्ते ॥६१॥

हा कष्टं द्यौः पपपतति घूघूर्णते भूमिमीमिः

सख्यो मामाधधरत भो हन्त पप्पापतामि ।

इत्थं पानातिशयवशतः काचिदालिङ्ग्य काञ्चित्

स्थित्वा मन्दं न्यगददगदा जीवितास्मीति किञ्चित॥६२॥

विच्छेदे प्रागभवदुभयोर्यत्तु तादात्म्यमेकं

तत्संस्कारे मधुमदविधावुत्थिते सातिरेकम् ।

कृष्णो राधायित इव भवन्हन्त कृष्णायितासौ

स्यातां नाम्नोर्विनिमयमयामन्त्रणे मन्दहासौ ॥६३॥

राधे कृष्ण त्वमयि मम किं किङ्करी नैव नैव

प्राणास्त्वं मे न भवति वपुस्त्वां विना स्थातुमेव ।

इत्थं प्राक्संस्कृतिमतिरतेर्वैपरीत्ये स्वनाम

व्यत्यासेनोभयरसकथा मञ्जुलत्वं जगाम ॥६४॥

कर्णे कर्णे वचनरचनैः कोमलैरर्थशून्यैर्

गात्रे गात्रे स्खलनलुठनैर्गाढहासेन धन्यैः ।

गण्डे गण्डे सरसमधुरैश्चुम्बनैश्चाभिरामाः

श्रीदम्पत्योर्न खलु समयास्ते भवन्यातयामाः ॥६५॥

कौस्तुभान्वेषणं तत्प्राप्तिश्च—

पृष्ठालम्बिन्यनयनपथे कौस्तुभे सा दयातः

कृष्णं राधा चकितमवदत्कौस्तुभस्ते क्व यातः ।

तां स प्राह त्वमिममहरः साह नाहं विशाखा

सोचे नाहं सुमुखि ललिता साह नाहं सुलेखा ॥६६॥

इत्यन्योन्यं मधुमदमुदा कुर्वतीनां विवादं

मध्ये कृष्णं न्यगददपरा प्रोल्लसत्साधुवादम् ।

प्रत्यक्षं ते तमहरदियं धूर्त धूर्ता विलोला

स्वातन्त्र्येणोरसि विलसितुं वैजयन्त्येव माला ॥६७॥

आं जानीमस्त्वमहर इमं कौस्तुभं हन्त माले

दण्ड्यासि त्वं तमुपहर मे चौरि वेगादराले ।

इत्याक्षिप्तस्रगुपहतितः पृष्ठतोऽसौ ललम्बे

कण्ठे दृष्ट्वा तमथ जहसुस्तां समेत्याविलम्बे ॥६८॥

गम्भीरेऽस्मिन्मधुमदधुरा माधुरीणां प्रवाहे

तीव्रं स्रोतो यदि मृगदृशां मण्डली सा जगाहे ।

कश्चिन्मन्दं जगुरथ पराश्चाभिनिन्युस्तदर्थं

सर्वा एव प्रतिविदधिरे पुष्पबाणं कृतार्थम् ॥६९॥

इति श्रीकृष्णाह्निककौमुद्यां पञ्चमः प्रकाशः ।

रात्रिलीला समाप्ता

॥ ६ ॥

ओ)०(ओ

उपसंहारः

परमानन्ददासेन शिवानन्दस्य सूनुना ।

मधुपानोत्तमां लीलां ज्ञात्वा शान्तिरिहातनि ॥

निदेशात्सखिवृन्दानां मधुपानात्प्रमत्तयोः ।

अद्भुतानीक्षमाणानां राधामाधवयोर्निशि ॥

श्रीगौराङ्गकृपामयोऽवनितले श्रीमच्छिवानन्दकः

सेनोऽम्बुष्ठकुलोद्भवः सुकृतिभिः सार्धं सदा गौरदृक।

तत्पुत्रः कविकर्णपूररसिकाचार्याग्रणी नीतितः

श्रीकृष्णाह्निककौमुदीति विदितं काव्यं सुकाव्यं व्यधात॥

इति श्रीकृष्णाह्निककौमुद्यां षष्ठः प्रकाशः

॥६॥

॥ समाप्तोऽयं ग्रन्थः श्रीमान॥

]