[[पारिजातहरणम् Source: EB]]
[
** कविकर्णपूरविरचितं**
** ॥ पारिजातहरणम् ॥**
** [ प्रथमः सर्गः ]**
[कa]…………… (1)निनिन्दुरिन्दीवरबान्धवं न के ॥ 1.1 ॥
F.N.
(1.a few folia are lost in the beginning.)
समन्ततो हीरकहर्म्यभित्तिषु प्रतायमानप्रतिबिम्बसंपदम् ।
नितम्बिनीं स्वामपि केलिकौतुकी विवेद विद्वानपि यत्र न प्रियः ॥ 1.2 ॥
हरिन्मणिश्यामलमन्दिरे [स्फुरन्मृदङ्गधीरध्व] निभिर्विनोदितैः ।
सदैव(2) यत्राविरकारि कौतुकात् शिखण्डिभिस्ताण्डवडम्बरोत्सवः ॥ 1.3॥
F.N.
(2.यत्राधि ms.)
समुल्लसत्फेनसमानकान्तिभिस्तरङ्गितैर्धीरसमीरसङ्गमात् ।
[अवापि] यत्रोपरि वेश्मचामरैः सुरापगातुङ्गतरङ्गभङ्गिमा ॥1.4॥
सदा शिवावस्थितिसौख्यशालिनी कुमारसंचारविराजितद्युतिः ।
मुदा सदा नन्दिगणैर्विभूषिता पुरी पु[रारेरिव]या बभौ भुवि ॥1.5॥
अतिस्फुटस्फाटिककुट्टिमोपरि प्रकामविन्यस्तसमस्तवस्तुभिः ।
यदापणैश्चेतसि मौक्तिकार्थिनामकारि काचैरपि मौक्तिकभ्रमः ॥1.6॥
वणिग्वधूनां मधुराधरस्फुरन्मनो[हरेष्वी][कb]क्षितभाषितादिषु ।
दृढं समुत्कण्टितचित्तवृत्तयो विदुर्जना यत्र न कृत्यमात्मनः ॥1.7॥
महामहार्घानतिरम्यरूपिणो मणीननेकान् विनिधाय संहितान् ।
विलोकयन्तो वणिजो यदापणे [चिरेण रत्नाकर] मोहमूहिरे ॥1.8॥
सुधोपमप्राज्यनवाज्यसौरभैर्घरट्टसंघट्टनघोषणैरपि ।
क्षुधाभृतामध्वनि रुद्धचेतसां यया समाश्वासितमास मानसम् ॥1.9॥
विचित्रचामीकर [चारुश्रृङ्गकैर्]विराजमानैर्भवनैर्बलत्त्विषः ।
अवापि न क्वापि यदीयसम्पदस्तुला[नु] लापोऽपि सुवर्णभूभृता ॥1.10॥
जगत्त्रयीभूषणतामुपागतां विधातुमुत्को भुवि यां स [लोककृत्] ।
[चका]र पूर्वं निजशिल्पकल्पनाविलोकनायेव सुरेन्द्रपत्तनम् ॥1.11॥
शिरोविभूषा भुवनस्य सम्पदां निधानमुद्दामनिकेतनं श्रियः ।
यशो नवं शिल्पकलासु वेधसो विलोक्य या[ऽमन्यत विज्ञ(खa)मान]वैः ॥1.12॥
समुल्लसल्लोचनचारुषट्पदाः पदारविन्दाश्रितचित्रहंसकाः ।
श्रियं दधुः केशकलापशैवलाः सरोजिनीनामपि यन्मृगीदृशः ॥1.13॥
कुतूहलं तन्न बभूव कुत्रचिद् यदाविरासी[न्नगरे मधु]द्विषः ।
न सम्पदस्ता जगतीतलेऽभवन् विलोकितास्तत्र [तु]या गृहे गृहे ॥1.14॥
यदिन्द्रनीलामलमन्दिरोदरे विराजमाना वरकाञ्चनत्विषः ।
(1)विडम्बयामासुरजस्त्रमङ्गना घनावलीसक्ततडिल्लताशतम् ॥1.15॥
F.N.
(1.विलम्ब……Ms.)
सुवर्णसोपानशतेन सङ्गतैर्विराजितैः सारसहंसकूजितैः ।
सरोरुहोद्भासितचारुवारिभिः सरोवरैर्दूरितवै[कृता च या]॥1.16॥
द्विषन्मनोनिर्भरभीतिवर्धनैः स्फुरत्प्रतापैरिव शार्ङ्गधन्वनः ।
विराजमानैर्वरणैः समावृता चिरादजेया किल या सुरैरपि ॥1.17॥
सदोन्मदाभिः प्रमदाभि [रञ्जसा(खb)सुविभ्रमैरा]हृतचित्तवृत्तयः ।
गुणानुरुद्धा इव यत्र नागरा विषेहिरे जातु न हातुमन्तिकम् ॥1.18॥
न(2)गन्धवत्या न पुरा पुरद्विषो न राजधान्या सुरभूपतेरपि ।
अकारि यत्साम्यकथा[कथं भवेत् क्षितौ पुनर्यत्तुलनाऽपि] कर्हिचित् ॥1.19॥
F.N.
(2.वरुणपुर्यां।)
मुदा विनिर्माय जगत्रयीमिमामुदारचेताः सरसीरुहासनः ।
अशेषसौन्दर्यविशेषशालिनीं शिरोविभूषामिव यामकल्पयत्॥1.20॥
आदिकुलकम् ।
[वसन् पुराऽसाविह]पार्वतीपतिप्रभः प्रभावातिशयैर्महायशाः ।
निहत्य दैत्यान् लघयन् धराभरानकल्पयद्देवकुलं निराकुलम् ॥1.21॥
प्रसह्य भूपालगणान् रणाङ्गणे विजित्य [वीरो लघु विष्ट]रश्रवाः ।
अवाप पूर्णेन्दुमुखीं प्रियामसौ विदर्भजामम्बुधिनन्दिनीमिव ॥1.22॥
श्रियेव विष्णुः शिवयेव शंकरः पतिः पुलोमात्मजयेव नाकिनाम् ।
समं तया केलिकलासु कौतु[कात्(गa)सदाऽनु]कूलानि सुखानि लब्धवान् ॥1.23॥
मनस्विनीमम्बुजलोललोचनामुदारशीतद्युतिसन्निभाननाम् ।
सुखेन सत्राजितराजनन्दिनीमथोपयेमे जगतामधीश्वरः ॥1.24॥
परस्परालोकनकेलिकौतुके निमेषलेशोऽपि बभूव यस्तदा ।
अनल्पकल्पायिततत्क्षणस्तयोः स एव जातो विरहो [ऽतिदुः सहः]॥1.25॥
तृणीकृतारातिगणो[रणाङ्गणे मनां]सि दैत्यद्विषतां विनोदयन् ।
प्रभुः प्रभूणामपि नाकवासिनां विभूतये भूतलमध्युवासः सः॥1.26॥
अथारविन्दाक्षमुखेन्दुमीक्षितुं समुत्सुकान्तःकरणेन [सर्वदा]।
चकोरवत्संचरता विहायसा सुरर्षिणा प्रापि मुरद्विषः [पुरम्]॥1.27॥
ततस्तमाकर्ण्य निकेतमागतं महामतिः सत्वरमुत्कमानसः ।
तदोदतिष्ठद् वरकाञ्चनासना[न्मुनिं मु]कुन्दो विनयात् कृतार्थयन्॥1.28॥
[ससम्भ्रमः फुल्लविलोचनाम्बुजः प्रहृष्टलोमा मुकुलीकृताञ्जलिः ।
हरिस्तदा]तस्य पपात पादयो[र्गुरौ]प्रणामो हि शिवाय जायते ॥1.29॥
मुकुन्दमुत्थाप्य करेण सादरं विधाय वेदोदितमङ्गलाशिषः ।
निमज्जयन् मोदमहोदधौ वपुर्भुजोपपीडं परिषस्वजे मुनिः ॥1.30॥
प्रमोदबाष्पा[ञ्चितचारु(गb)लोचनो मनोज्ञहासोल्लसदाननो मुनिम्।
पथः प्रतीहार इव स्वयं दिशन् प्रवेशयामास निवेशमात्मनः ॥1.31॥
समं महिष्या सहसाथ शार्ङ्गिणा स्वयं समानीय मुदा निवेदिते ।
[अथोप]विष्टो वरकाञ्चनासने रराज राजेव स मेरुमूर्धनि ॥1.32॥
प्रणुद्य पाद्यादिभिरध्वनः श्रमाननामयं पुण्यमपृच्छि तेन सः।
अथातिथेयं मधुपर्कपूर्वकं महर्षये[हर्षवशो]न्यवेदयत् ॥1.33॥
अथाभिरामस्मितभासिताननः समुल्लमद्बाष्पकलाविलेक्षणः ।
प्रमोदयन् मानसमञ्जसा मुनेर्मुदा तदानीमिदमाह माधवः ॥1.34॥
भवाम्बुधौ[घोर]तरे निमज्जतामिदं जगत्यामवलम्बनं महत् ।
महामुने!यद् भवनेषु सज्जते भवत्पदाम्भोजरजोऽपि किञ्चन ॥1.35॥
अहं तु सर्वार्थकृतार्थताश्रयः कृतस्त्वयोदारदयोदयेन यत्।
[मुने! महामोहमलीमसं मनो विभासितं साम्प्रतमेव दर्शनात्]॥1.36॥(1)
F.N.
(1.some slokas of the concluding portion of canto i and the whole of canto ii are lost.)
.
॥ तृतीयः सर्गः ॥
(2)…….\विलो[^1]क्यते वत जीवव्ययतोऽपि किं शुचा ॥3.1॥
F.N.
(2.some slokas in the beginning of canto 111 are lost.)
नलिन[ाक्षि!शुचा नि]पीडिता वत सीदन्ति सदैव दुर्धियः ।
अ[विवेकमपास्य भुञ्जते सुधियो मोदमनन्तरं पुनः]॥3.2॥
रमणी सुभगाशिरोमणिः प्रथिता बुद्धिविवेकवैभवैः ।
इदमम्ब!कदापि नोचितं यदविज्ञेव चिरं विषीदसि ॥3.3.॥
भव भ[ाविनि!धैर्यधारिणी त्वरितं रोषमपास्य निष्फलम् ।
कुरु यत्नमभीष्टसिद्धये मतमार्ये!]मम बुद्धिवैभवैः ॥3.4॥
विजहीहि रुषं न हीदृशो भविता कोपपरिश्रमः फली ।
[अपथेन चिरप्रधावनैरपि लभ्यं किमभीप्सितं स्थलम् ॥3.5॥
दनुजापनयादु] पागतां भुवमालोक्य दयार्द्रमानसः ।
नरवेशधरः परः पुमानवतीर्णो वसुदेवसद्मनि ॥3.6॥
विहरत्ययमात्तविग्रहो भवतीभिः स[ह निर्गुणः प्रभुः ।
अनुरागिजनेषु (16b)सर्वथा विदिता वत्सलता न किं]हरेः ॥3.7॥
रचितेऽपि तनुव्यये त्वया परिपूर्णस्य किमस्य हीयते।
समुदेति समुद्धृते पयःपृषते शोषविधिः किमम्बुधेः ॥3.8॥
त[नुशोषणकारिणा भृशं व्यवसायेन दुरन्तदायिना ।
वत सङ्कट]मम्बुजानने! किमनेनैव तवापसर्पति ॥3.9॥
तदिमं व्यवसायमञ्जसा सरसाम्भोजदलाक्षि! दूरय।
न हि[साहसमीहितप्रदं महिलानां नयविद्भिरीरितम् ॥3.10॥
कृतवत्यपराधमुल्बणं दयिते दो]षदृशां मृगीदृशाम् ।
मृदुभाषिणि!नान्यदीक्ष्यते खलु मानान्निजसिद्धिसाधकम् ॥3.11॥
[अवधृत्य विधेयमात्मनः कुरु मानं हितसाधकं शुभे!
दयितस्य वृथावमानना ललनानां न]शिवाय जायते॥3.12॥
अनुनेष्यति दूनमानसो [भवतीं]मानवतीं शुभे!हरिः।
अथ तत्र वशत्वमाग[ते न किमप्यस्ति मृगाक्षि! दुर्लभम्]॥3.13॥
(17a)[ललनासु हरेर्विमोहिनी प्रणयेनाहितमौलि] रुच्चकैः।
कुलशीलवयः कलावती भवतीवास्ति किमम्ब!काचन ॥3.14॥
[भवतीम]नुनेतुमागतो न च वाच्यः किमपि त्वया हरिः ।
मृदुभाषिणि!मानशाखिना[मवलम्बः खलु]मौनमुच्यते ॥3.15॥
तव मौनमुदीक्ष्य माधवो भविता काकुवचःपरायणः ।
कमलाक्षि! तदैव सस्पृहं दयितं प्रार्थय कल्पपादपम् ॥3.16॥
अनुरागरसार्द्रमानसो[भव]दुक्तं प्रतिपत्स्यते हरिः ।
प्रतिपन्नमतौ जगत्पतौ सुरशाखी भवनाग्र एव ते ॥3.17॥
भविता न हरेरपि क्वचित् सुरवृक्षाहरणे परिश्रमः।
अधिगत्य तदीयमीप्सितं [मघवा]तं स्वयमेव दास्यति॥3.18॥
सुरपुष्पभवापमाननामियतैव त्वमपाकुरु द्रुतम् ।
स्फुरति प्रखरे दिवाकरे क्रियते किं तमसा पदं क्वचित् ॥3.19॥
घनमानतरङ्गिणीपयःप्रकरैः क्रोधपयोदवर्धितैः ।
(17b)\अव[^2]माननपङ्कदूषितां सुमुखि!क्षालय कीर्तिमात्मनः ॥3.20॥
F.N.
(1.मानसपङ्कभूषितां Ms.)
अयमम्ब!मया निवेदितो भवदानन्दविधायको नयः।
हृदयं विनिधेहि सिद्धये तव सिध्यन्तु शुभे! मनोरथाः ॥3.21॥
वियदङ्गनमध्यमाश्रितस्तप[से देव]नदीं व्रजाम्यहम् ।
समुदीर्य तदेति सादरं तरसा तत्र तिरोहितो मुनिः ॥3.22॥
वलितः स्वयमेव तद्रुषः प्रथिमानं मुनिभाषितैर्ययुः ।
प्रबलेन नभस्वता भृशं भजते भीषणतां[हुताशनः]॥3.23॥
अथ सा सहसा मनस्विनी सकलां हन्त मनस्वितां जहौ ।
प्रबलाधिविधूतचेतसो न भवेत् क्वापि कदापि निर्वृतिः ॥3.24॥
अपहृत्य मनस्विनी तदा शयनीयं शरदिन्दुसु[न्दरम् ।
परिहीणविभूषणा रुषा]निषसाद प्रसभं महीतले ॥3.25॥
अतिकोपपरीतचेतसो दलदम्भोज[दृशो]मुखेन्दुना ।
उदितारुणरोचिरूर्जिता विजिता शोणसरोरुहद्युतिः ॥3.26॥
अधरेण (18a)तदा मृगीदृशो वत नि[ः]श्वासविशेषकम्पि[ना]।
समलम्भि तुलानिलाहतिः स्फुरता चारुदलेन वीरुधाम् ॥3.27॥
[अथ यत्र]विलोललोचना निदधे सा सहसा दृगञ्चलम् ।
ग्रथिता इव तत्र रेजिरे परितः[शोण]सरोजराजयः ॥3.28॥
अतिनिर्भरमन्तरुल्लसद्गुरुकोपानलताप्यमानया ।
विहिताः श्वसितानिलोर्मिभिर्घनधूमोत्करधूसरा दिशः ॥3.29॥
क्वचिदुद्धततापतापिता क्वचिदासादितमोहमूर्च्छिता ।
विषवेगवशीकृतेव सा सहसा संस्मृतिमाप च क्वचित् ॥3.30॥
अधिकं कृशतामुपागतां शशिलेखामिव तामनिन्दिताम् ।
सहसा स्वगताः सम[न्ततः]सहचर्यः सहसा इव द्विषः ॥3.31॥
प्रतिकारपरायणास्तदा हृदि दाहोपशमाय सुभ्रुवः ।
घनचन्दनसङ्गशीतलं नलिनीकोमलपल्लवं दधुः ॥3.32॥
कदलीदलचारुमारुतैर्नलिनीपल्लवसं[चयै(18b)]रपि ।
न शशाम तथा मृगीदृशः परिपूर्णः परितापपावकः ॥3.33॥
गुरुकोपभरारुणाकृतिः परितापेन मुहुः प्रसर्पता।
अबलाभिरमानि मानिनी(1)ज्वलमानेव शिखा शिखावतः ॥3.34॥
F.N.
(1.ताच्छील्ये चानश।)
परि[ता]पभरो वरोष्मणा कुपितं लोहितलोचनत्विषा ।
सुदृशश्चतुरैः सखीशतैः श्वसितेनानुमितं च जीवितम् ॥3.35॥
रुजमब्जदृशो व्यपोहितुं नियतिं दैवविनिर्मिता[मि]व ।
अशकन्न तदा सखीगणा घटमाना इव हन्त नीतयः ॥3.36॥
आलीभिः सरसं सरोरुहदलं हृद्यर्पितं सुभ्रुवः
सन्तापेन समुद्धतेन तरसा तद् भस्मसान्निर्मितम् ।
[तद्]भस्म[श्व]सितोर्मिभिर्वरतनोर्दूरीकृतं तत्क्षणात्
किन्त्वेतस्य विचार एव सुदृशां बाधामगाधामधात् ॥3.37॥
इति विविधविधानव्यापृतानां तदानीं
सरसिजनयनानां वा[ग्]भिरत्याकुलाभिः।
रुदित(19a)[मधुरधीरास्तत्र सख्यः समस्ता
व्यथ]यति नहि कं वा सज्जनानां विपत्तिः ॥3.38॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्णपूरकृतिना[कौतुहलान्]निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गस्तृतीयो ययौ ॥3.39॥
.
[ चतुर्थः सर्गः ]
तामिन्दुसुन्दरमुखीमतिखिन्नरूपां
दावार्दितामिव लतामवलोकयन्त्यः ।
बाष्पाम्बुपूर्णनयनाः सुदृशस्तदानीं
शोकाम्बुधौ निरवधौ सहसा ममज्जुः ॥4.1॥
कर्पूरपूरपरिपूर्णमुदारयत्ने-
नानीय वक्षसि निवेशितमम्बुजाक्ष्याः ।
देहोष्मभिर्द्रुतम[वाप्य]करीषभावं
श्रीखण्डपङ्कमपि तापमदात्तदानीम् ॥4.2॥
तेने तुषारघनसारकरम्बितेन
पाथोजिनीनवदलेन शनैः समीरः ।
तेनापि नाप तनुतापभरः प्रशान्तिं
सिध्यन्ति दैवविरसा[नि न चेष्टि(19b)]तानि ॥4.3॥
काचिद्ददौ वपुषि कोमलपल्लवानि
काचिन्मृणालवलयावलिमाबबन्ध ।
काचिच्चकार तरसा घनसारसार-
धूलीभरेण परिपूरितमङ्गमस्याः ॥4.4॥
धारागृहेषु नलिनीदलसंस्तरेषु
सा[न्द्रेषु चन्दन]रसेषु सुधासरस्सु ।
कुत्रापि निर्वृतिमवाप न सत्यभामा
कामानिव प्रबलदैवपरो दरिद्रः ॥4.5॥
एवंविधे विपुलतापशते तदानीं
तस्याः सरोरुहदृशो भृशमुज्जि[हाने।
वक्तुं द्रुतं]तदविलम्बितमुत्कचित्ता
काचित् सखी भुरभिधः सविधं प्रतस्थे ॥4.6॥
माणिक्यमेदुरितमन्दिरमध्यदेश-
संसक्तचारुशयनीयसुखोपविष्टम्।
त्रैलोक्यमोहन[मनङ्गदुरापरूपं
निघ्नंस्तभः प्रसृत]कान्तिभरैरुदारैः ॥4.7॥
आकुञ्चितेक्षणदले दरहासभासि
स्विद्यत्कपोलफलके चलितालकान्ते।
कस्याश्चिदाननसुधाकिरणेऽनुरागा-
दानन्दकन्दलितमक्षि(20a)निवेशयन्तम् ॥4.8॥
आलोक्य तं नवतमालविशालभासं
विभ्राजमानशतपत्रसमाननेत्रम् ।
साष्टाङ्गपातमवनौ प्रणिपत्य वक्तु-
माचक्रमे किमपि सा वचसामभिज्ञा ॥4.9॥
या मौलिभूषणमशेषनितम्बिनीनां
निर्माणकर्मणि विधेरपि कीर्तिलक्ष्मीः ।
संमोहनायुधमुदारमपि स्मरस्य
सा नः सखी बत विषीदति देव! किं स्यात्॥4.10॥
आहर्तुमस्त्रमुचितं रतिनायकस्य
सौन्दर्यसारसरसीं परिशोषितुं वा।
आलोकितुं भुवनमुज्झितभूषणं वा
संचेष्टतेऽद्य सहसा विधिरुग्ररूपः ॥4.11॥
सद्यस्तुषारघनसारपटीरपङ्कै-
रासेविता सततमेव सखीसमूहैः ।
सा दुर्निवारविषवेगवशीकृतेव
न क्वापि निर्वृतिमुरीकुरुते कृशाङ्गी ॥4.12॥
आकर्ण्य तत्सहचरीसमुदीरितानि
गाढानुरागरससङ्गतचित्तवृत्तिः ।
श्रीमानुदारशयनीयतलान्मुकुन्दो
गन्तुं प्रियास(20b)विधमाशु तदोदतिष्ठत् ॥4.13॥
आकर्णिते खलु तदीयदशाविशेषे
शोकाभिभूतमनसो मधुसूदनस्य
यः संभ्रमोऽभवदुदारतरः स एव
सर्वोपरि प्रणयमाशु शशंस तस्य॥4.14॥
सद्यः श्रुतप्रियतमापरमाहितेन
तेनाथ संभ्रमभरातिवशीकृतेन ।
तद्वेश्मनः स्मृतिविधौ पदवी तदानीं
ज्ञाता मुहुः परिचितापि चिरेण चिह्नैः ॥4.15॥
आपादपद्मवलिताम्बरवैजयन्ती-
मुद्दामधारितविबोधितया तदानीम् ।
अंसे निवेशयति शार्ङ्गिणि शीर्णसूत्र-
स्तस्थौ चिरं क्षितितले किल कौस्तुभोऽपि ॥4.16॥
ल्किश्यत्पदं गलदशेषविभूषमुच्चैः
स्विद्यत्कपोलदलमुद्यदुदारवेगम् ।
तुष्यन्मुखाम्बुजमथ स्रवदीक्षणान्तं
तत्राततान गतमाकुलितं मुकुन्दः ॥4.17॥
दूरावलोकितसखीगणसंविधान-
संसूचितप्रियतमापरमाभितापम् ।
सोत्कण्ठमुल्लसितनेत्रसरोजपत्रः
स(21a)प्रेयसीसदनमाशु समाससाद ॥4.18॥
आसाद्य तत्सदनमुत्कमनास्तदानीं
श्रीमानलक्षित इव प्रसभं विवेश ।
ऊचे तथा सहचरीर्निभृतं मुकुन्दो
नास्यै कदापि भवतीभिरहं निवेद्यः ॥4.19॥
[लावण्यनिर्मलविकास]विशेषशेषां
संबिभ्रतीं तनुलतां ललितां कथञ्चित्
रज्यन्मनोरमकपोलदलाभिराम-
सौन्दर्यनिर्जितनवोद्गतचन्द्रलक्ष्मीम् ॥4.20॥
उज्जृम्भमाणघनकोपसमुद्भवेन
कम्पेन वेपितपयोधरभूधरेण।
शोणेन लोचनयुगेन च सूचयन्ती-
माकस्मिकं कमपि दुर्विनयं मुरारेः ॥4.21॥
आकुञ्चिताङ्गुलिदलेन पदाम्बुजस्य
भूमीतले किमपि निर्भरमालिखन्तीम् ।
तामुद्गतश्वसितनिर्भरधूमधारा-
सम्भारशुष्यदधरां मुरजिद्ददर्श ॥4.22॥
कुलकम् ।
निर्णीयमानमनुमानपरम्पराभि(21b)-
र्लावण्यशेषमपि वीक्ष्य वपुः प्रियायाः ।
दोधूयमानमनसा मधुसूदनेन
दध्रे भयं करुणया स्वगतं तदानीम् ॥4.23॥
पश्चादुपेत्य निभृतं व्यजनं तदानी-
मानीय तत्सहचरीकरतः कथञ्चित् ।
तत्राततान तनुतापशमाय तस्याः
स्वैरं समीरणमुदारमना मुकुन्दः ॥4.24॥
अत्रान्तरे रुचिरदेवतरुप्रसून-
संसर्गवासिततनोर्मधुसूदनस्य ।
तत्राध्युवास नवनिर्भरसौरभश्रीः
कीर्तिर्मनोरमगुणादिव सज्जनस्य ॥4.25॥
आमोदमुद्गतममानुषमत्युदारं
संसारसारमुपलभ्य सरोरुहाक्षी ।
चित्तेन निर्वृतिमवाप मना[क् त]दानी-
मालम्बते जगति को न मुदं गुणेन ॥4.26॥
सौरभ्यमेतदुदियाय कुतः समन्ता-
दित्यादरात् सहचरीगणमन्वपृच्छत् ।
ऊचुर्न किञ्चिदपि वामदृशस्तदानीं
भ्रूभङ्गिभिर्मुरभिदा बहुधा निषिद्धाः ॥4.27॥
मौनावलम्बिनि सखीनिवहेऽम्बुजाक्षी
वीक्षां चकार परितो हरितोऽनुवेलम् ।
मन्दायमान[मनसि प्रणयोपसन्ने
सद्यः पपात वनमालिनि]दृष्टिरस्याः ॥4.28॥
आलोकिते मुररिपौ नयनं तदानी-
मेणीदृशो द्विगुणशोणिमसान्द्रमासीत् ।
प्रायोऽपराधिषु विलोचनगोचरेषु
तेजस्विनामतिघना हि रुषो[भवन्ति]॥4.29॥
[प्रेयोऽपमानघ]नकोपपरीतचित्ता
निःश्वासशोषितवराधरपल्लवश्रीः ।
व्यावर्त्य तद्वदनतो नयनारविन्दं
नम्रानना सततमेव भुवं लिलेख ॥4.30॥
मानातिरेककलुषायित[चित्तवृत्ति-
मालोक्य शोणनयनां]दयितां मुकुन्दः।
निस्यन्दमानमकरन्दसुधासमान-
मानन्दनं वचनमिन्दुमुखो जगाद ॥4.31॥
तल्पं सुकोमलदुकूलमनोऽनुकूल-
मुद्दामशारदसुधा[करसन्निकाशम्]।
[उत्सृज्य सून]सुकुमारशरीरवल्लि!
भूमीतले बत निषीदसि कस्य हेतोः ॥4.32॥
यस्याभिरामतमधामजितः कलङ्क-
मङ्केन सुन्दरतरोऽपि विधुर्दधाति ।
सौन्दर्यसारसदनं वदनं भवत्या-
[स्तच्चाधुना बत(22b)रुषाकलुषं विभा]ति॥4.33॥
इन्दीवरद्युतिविलोलविलोकितेन
यत् सौख्यसागरमुदारतरं ततान।
शोणायमानमधुनाक्षियुगं तदेव
कान्ते!कथं मम दुनोति मनोऽनुवेलम् ॥4.34॥
आन[न्दनद्युतिसुधानिधिरप्यकाण्डे
कान्ते! भवद्वदन]पार्वणशर्वरीशः
धत्ते तुलां तुहिनसङ्गमदूषितस्य
किं देवि!संप्रति सरोरुहकोरकस्य ॥4.35॥
यत्संगमादयि समिद्धसुधासमुद्र-
स[न्द्रावगाहनसुखानि ममोल्ल]सन्ति।
तत्रैव सर्पति तनौ तव तन्वि! तापो
वामस्य किं बत विधेरविधेयमस्ति ॥4.36॥
संसूचयन्निव निरन्तरसंभृतानि
कल्याणवाणि! घनकोपविजम्भि[तानि]।
[मध्यं शिरीषमृदुलाङ्गि]कृशं कथं ते
कम्पः पयोधरमहीधरयोर्दधाति ॥4.37॥
प्राणाधिकप्रियतमे!न हि तावकीनं
स्वप्नेऽपि विप्रियमकारि मया कदापि ।
तत् किं शुभे! शशकशोणितशोणिमान-
(23a)मालम्बते सपदि ते नयनारविन्दम् ॥4.38॥
दासोऽहमब्जनयने! निबिडानुराग-
मुल्लासय स्मितसुधामधुरं मुखेन्दुम् ।
आनन्दवारिधिरुदेतु चिरं समन्ता-
दालोकवान् भवतु भाविनि! जीवलोकः ॥4.39॥
सद्यो निवेदय दयामयि! किं निमित्त-
मुज्जृम्भते सपदि तापभरो भवत्याः ।
त्वामीदृशीं यदवलोकयतोऽनुवेल-
मुद्वेल्लिता मदसवः सततं भवन्ति॥4.40॥
एवंविधानि विविधानि निशम्य पत्यु-
र्मूग्धानि वाग्विलसितानि विनिःश्वसन्ती।
नम्नानना निबिडबाष्पभरं निरुध्य
तन्वी चिरादिदमुवाच वचस्तदानीम् ॥4.41॥
शीलोच्चयेन विमलेन निवैश्चरित्रै-
र्मान्याः समस्तभुवनेषु भवन्त एव।
श्रीवत्सलाञ्छन! कदापि भवादृशेष्व-
विज्ञा किमाचरति कोपविजृम्भितानि ॥4.42॥
गोपीपते!प्रबलदैववशाद् भवन्त-
भासादयन्ति दयितं खलु वामनेत्राः ।
शीलं मनोज्ञमवलोक्य च ते न यु(23b)क्तं
मानाभिधानमपि हन्त मनस्विनीनाम् ॥4.43॥
हे नन्दनन्दन! न कोपकषायिताहं
नाथानुनाथनशतेन वृथा प्रयासः ।
मद्दैववैभवमिदं त्वयि जीवनाथे
यज्जायते वत मनागपि चित्तखेदः ॥4.44॥
इत्थं निशम्य सुदृशः समुदीरितानि
श्रीमन्मुरारिरपि खिन्नमना बभूव।
आगत्य नीतिनिपुणाथ सखी तदीया
काचित्तदा सपदि माधवमाबभाषे ॥4.45॥
एणीदृशः कुपितकारणमत्युदारं
नाथावधेहि निभृतं विनिवेदयामि ।
अज्ञातहेतुगहना हि नृणां विकाराः
प्रायः प्रभो! दुरुपचर्यतमा भवन्ति॥4.46॥
गीर्वाणसंसदि सुपर्वपतेः प्रसाद-
मासाद्य हृद्यतरदेवतरुप्रसूनम् ।
[आगत्य]भक्तिभरभावितमानसेन
दत्तं मुकुन्द!भवते खलु नारदेन ॥4.47॥
तद्देव! देवकुसुमं सविधस्थितायै
दत्तं तदैव भवतापि विदर्भजायै।
प्रायः प्रसादमधिकं हि महानुभावाः
सेव्याः सदा सविधवर्तिषु वर्तयन्ति॥4.48॥
तन्नाथ! कल्पविटपिप्रसवप्रदानं
श्रुत्वा समुन्नतिविधायि विदर्भजायाः ।
सद्यः समुल्लसदसीममनोभिताप-
वारांनिधौ निरवधौ सुमुखी ममज्ज ॥4.49॥
(1)तन्नाकनायकमिदं त्वनुना[थ्य मन्युः]
शक्योऽपनेतुमरविन्ददृशः कदापि।
वक्रायितं हृदयमब्जदृशां प्रविश्य
किं नाथ!निःसरति रोषरसः सुखेन ॥4.50॥
F.N.
(1)तन्नाय नायक Ms.
काकूक्तिभिः समनुनीय भृशं कृशाङ्गी-
मङ्गीकुरु त्वमिह कल्पतरुप्र[दानम्]।
एतावता प्रमुदिता भविता सखी मे
नो चेन्मुकुन्द!भवितात्र महाननर्थः ॥4.51॥
अत्यादरादिदमुदीर्य हरेः पुरस्ता-
न्मौनं सरोरुहमुखी चिरमाबभार ।
श्रद्धासमृद्धहृ[दयाभिहितं तदीयं
मेने विशिष्य बहु]चेतसि केशवोऽपि ॥4.52॥
श्रीमानथ स्मितमनोज्ञमुखारविन्द-
विद्योतमानदरदन्तमनोहरश्रीः ।
मानापनोदनमुदारमनास्तदानी-
मानन्दनं वचनमिन्दुमुखीमुवाच ॥4.53॥
(24b)[क्षान्तास्त्वया कति न कारुणिकप्रवृत्त्या
कान्ते!मया] विरचिता विविधापराधाः ।
दीर्घादरं यदि न पश्यसि पङ्कजाक्षि!
प्रागेव तन्मदसवः खलु निःसरन्ति ॥4.54॥
गत्वाथ पङ्कजसरःसविधं कथञ्चि-
दाकुञ्चितस्तिमितशोणि[तलोचनायाः]।
दोधूयमानशतपत्रसमानशोभं
जग्राह पाणिमनुरागपरो मुकुन्दः ॥4.55॥
साशङ्कमङ्कमधिरोप्य हरिस्तदानीं
सद्यस्तदीयवदनं चतुरश्चुचुम्ब ।
आलिङ्ग्य तामथ मनोज्ञरुचिर्नताङ्गी-
मङ्गीचकार सुरराजतरुप्रदानम् ॥4.56॥
विद्राव्य देवनिवहानवहेलयैव
निर्जित्य शौर्यविभवेन सुराधिराजम् ।
यद्यानयामि न नितम्बिनि! पारिजातं
भूयास्तदा सुमुखि!मे विमुखी त्वमेव ॥4.57॥
एवं गिरा रुचिरया शपथैरनेकै-
र्माने घने मुरभिदा सुदृशोऽपनीते ।
सन्ध्यारुणाम्बरमनोहरकान्तिरुच्चै-
राविर्बभूव वलदिन्दुमुखी सखीव ॥4.58॥
एणीदृशः सपदि लोच[न]……………..
………………………..॥4.59॥(1)
F.N.
(1.ff 25-3i covering a portion of canto iv and almost the whole of canto v are lost.)
.
[ चतुर्थः सर्गः ]
तामिन्दुसुन्दरमुखीमतिखिन्नरूपां
दावार्दितामिव लतामवलोकयन्त्यः ।
बाष्पाम्बुपूर्णनयनाः सुदृशस्तदानीं
शोकाम्बुधौ निरवधौ सहसा ममज्जुः ॥4.1॥
कर्पूरपूरपरिपूर्णमुदारयत्ने-
नानीय वक्षसि निवेशितमम्बुजाक्ष्याः ।
देहोष्मभिर्द्रुतम[वाप्य]करीषभावं
श्रीखण्डपङ्कमपि तापमदात्तदानीम् ॥4.2॥
तेने तुषारघनसारकरम्बितेन
पाथोजिनीनवदलेन शनैः समीरः ।
तेनापि नाप तनुतापभरः प्रशान्तिं
सिध्यन्ति दैवविरसा[नि न चेष्टि(19b)]तानि ॥4.3॥
काचिद्ददौ वपुषि कोमलपल्लवानि
काचिन्मृणालवलयावलिमाबबन्ध ।
काचिच्चकार तरसा घनसारसार-
धूलीभरेण परिपूरितमङ्गमस्याः ॥4.4॥
धारागृहेषु नलिनीदलसंस्तरेषु
सा[न्द्रेषु चन्दन]रसेषु सुधासरस्सु ।
कुत्रापि निर्वृतिमवाप न सत्यभामा
कामानिव प्रबलदैवपरो दरिद्रः ॥4.5॥
एवंविधे विपुलतापशते तदानीं
तस्याः सरोरुहदृशो भृशमुज्जि[हाने।
वक्तुं द्रुतं]तदविलम्बितमुत्कचित्ता
काचित् सखी भुरभिधः सविधं प्रतस्थे ॥4.6॥
माणिक्यमेदुरितमन्दिरमध्यदेश-
संसक्तचारुशयनीयसुखोपविष्टम्।
त्रैलोक्यमोहन[मनङ्गदुरापरूपं
निघ्नंस्तभः प्रसृत]कान्तिभरैरुदारैः ॥4.7॥
आकुञ्चितेक्षणदले दरहासभासि
स्विद्यत्कपोलफलके चलितालकान्ते।
कस्याश्चिदाननसुधाकिरणेऽनुरागा-
दानन्दकन्दलितमक्षि(20a)निवेशयन्तम् ॥4.8॥
आलोक्य तं नवतमालविशालभासं
विभ्राजमानशतपत्रसमाननेत्रम् ।
साष्टाङ्गपातमवनौ प्रणिपत्य वक्तु-
माचक्रमे किमपि सा वचसामभिज्ञा ॥4.9॥
या मौलिभूषणमशेषनितम्बिनीनां
निर्माणकर्मणि विधेरपि कीर्तिलक्ष्मीः ।
संमोहनायुधमुदारमपि स्मरस्य
सा नः सखी बत विषीदति देव! किं स्यात्॥4.10॥
आहर्तुमस्त्रमुचितं रतिनायकस्य
सौन्दर्यसारसरसीं परिशोषितुं वा।
आलोकितुं भुवनमुज्झितभूषणं वा
संचेष्टतेऽद्य सहसा विधिरुग्ररूपः ॥4.11॥
सद्यस्तुषारघनसारपटीरपङ्कै-
रासेविता सततमेव सखीसमूहैः ।
सा दुर्निवारविषवेगवशीकृतेव
न क्वापि निर्वृतिमुरीकुरुते कृशाङ्गी ॥4.12॥
आकर्ण्य तत्सहचरीसमुदीरितानि
गाढानुरागरससङ्गतचित्तवृत्तिः ।
श्रीमानुदारशयनीयतलान्मुकुन्दो
गन्तुं प्रियास(20b)विधमाशु तदोदतिष्ठत् ॥4.13॥
आकर्णिते खलु तदीयदशाविशेषे
शोकाभिभूतमनसो मधुसूदनस्य
यः संभ्रमोऽभवदुदारतरः स एव
सर्वोपरि प्रणयमाशु शशंस तस्य॥4.14॥
सद्यः श्रुतप्रियतमापरमाहितेन
तेनाथ संभ्रमभरातिवशीकृतेन ।
तद्वेश्मनः स्मृतिविधौ पदवी तदानीं
ज्ञाता मुहुः परिचितापि चिरेण चिह्नैः ॥4.15॥
आपादपद्मवलिताम्बरवैजयन्ती-
मुद्दामधारितविबोधितया तदानीम् ।
अंसे निवेशयति शार्ङ्गिणि शीर्णसूत्र-
स्तस्थौ चिरं क्षितितले किल कौस्तुभोऽपि ॥4.16॥
ल्किश्यत्पदं गलदशेषविभूषमुच्चैः
स्विद्यत्कपोलदलमुद्यदुदारवेगम् ।
तुष्यन्मुखाम्बुजमथ स्रवदीक्षणान्तं
तत्राततान गतमाकुलितं मुकुन्दः ॥4.17॥
दूरावलोकितसखीगणसंविधान-
संसूचितप्रियतमापरमाभितापम् ।
सोत्कण्ठमुल्लसितनेत्रसरोजपत्रः
स(21a)प्रेयसीसदनमाशु समाससाद ॥4.18॥
आसाद्य तत्सदनमुत्कमनास्तदानीं
श्रीमानलक्षित इव प्रसभं विवेश ।
ऊचे तथा सहचरीर्निभृतं मुकुन्दो
नास्यै कदापि भवतीभिरहं निवेद्यः ॥4.19॥
[लावण्यनिर्मलविकास]विशेषशेषां
संबिभ्रतीं तनुलतां ललितां कथञ्चित्
रज्यन्मनोरमकपोलदलाभिराम-
सौन्दर्यनिर्जितनवोद्गतचन्द्रलक्ष्मीम् ॥4.20॥
उज्जृम्भमाणघनकोपसमुद्भवेन
कम्पेन वेपितपयोधरभूधरेण।
शोणेन लोचनयुगेन च सूचयन्ती-
माकस्मिकं कमपि दुर्विनयं मुरारेः ॥4.21॥
आकुञ्चिताङ्गुलिदलेन पदाम्बुजस्य
भूमीतले किमपि निर्भरमालिखन्तीम् ।
तामुद्गतश्वसितनिर्भरधूमधारा-
सम्भारशुष्यदधरां मुरजिद्ददर्श ॥4.22॥
कुलकम् ।
निर्णीयमानमनुमानपरम्पराभि(21b)-
र्लावण्यशेषमपि वीक्ष्य वपुः प्रियायाः ।
दोधूयमानमनसा मधुसूदनेन
दध्रे भयं करुणया स्वगतं तदानीम् ॥4.23॥
पश्चादुपेत्य निभृतं व्यजनं तदानी-
मानीय तत्सहचरीकरतः कथञ्चित् ।
तत्राततान तनुतापशमाय तस्याः
स्वैरं समीरणमुदारमना मुकुन्दः ॥4.24॥
अत्रान्तरे रुचिरदेवतरुप्रसून-
संसर्गवासिततनोर्मधुसूदनस्य ।
तत्राध्युवास नवनिर्भरसौरभश्रीः
कीर्तिर्मनोरमगुणादिव सज्जनस्य ॥4.25॥
आमोदमुद्गतममानुषमत्युदारं
संसारसारमुपलभ्य सरोरुहाक्षी ।
चित्तेन निर्वृतिमवाप मना[क् त]दानी-
मालम्बते जगति को न मुदं गुणेन ॥4.26॥
सौरभ्यमेतदुदियाय कुतः समन्ता-
दित्यादरात् सहचरीगणमन्वपृच्छत् ।
ऊचुर्न किञ्चिदपि वामदृशस्तदानीं
भ्रूभङ्गिभिर्मुरभिदा बहुधा निषिद्धाः ॥4.27॥
मौनावलम्बिनि सखीनिवहेऽम्बुजाक्षी
वीक्षां चकार परितो हरितोऽनुवेलम् ।
मन्दायमान[मनसि प्रणयोपसन्ने
सद्यः पपात वनमालिनि]दृष्टिरस्याः ॥4.28॥
आलोकिते मुररिपौ नयनं तदानी-
मेणीदृशो द्विगुणशोणिमसान्द्रमासीत् ।
प्रायोऽपराधिषु विलोचनगोचरेषु
तेजस्विनामतिघना हि रुषो[भवन्ति]॥4.29॥
[प्रेयोऽपमानघ]नकोपपरीतचित्ता
निःश्वासशोषितवराधरपल्लवश्रीः ।
व्यावर्त्य तद्वदनतो नयनारविन्दं
नम्रानना सततमेव भुवं लिलेख ॥4.30॥
मानातिरेककलुषायित[चित्तवृत्ति-
मालोक्य शोणनयनां]दयितां मुकुन्दः।
निस्यन्दमानमकरन्दसुधासमान-
मानन्दनं वचनमिन्दुमुखो जगाद ॥4.31॥
तल्पं सुकोमलदुकूलमनोऽनुकूल-
मुद्दामशारदसुधा[करसन्निकाशम्]।
[उत्सृज्य सून]सुकुमारशरीरवल्लि!
भूमीतले बत निषीदसि कस्य हेतोः ॥4.32॥
यस्याभिरामतमधामजितः कलङ्क-
मङ्केन सुन्दरतरोऽपि विधुर्दधाति ।
सौन्दर्यसारसदनं वदनं भवत्या-
[स्तच्चाधुना बत(22b)रुषाकलुषं विभा]ति॥4.33॥
इन्दीवरद्युतिविलोलविलोकितेन
यत् सौख्यसागरमुदारतरं ततान।
शोणायमानमधुनाक्षियुगं तदेव
कान्ते!कथं मम दुनोति मनोऽनुवेलम् ॥4.34॥
आन[न्दनद्युतिसुधानिधिरप्यकाण्डे
कान्ते! भवद्वदन]पार्वणशर्वरीशः
धत्ते तुलां तुहिनसङ्गमदूषितस्य
किं देवि!संप्रति सरोरुहकोरकस्य ॥4.35॥
यत्संगमादयि समिद्धसुधासमुद्र-
स[न्द्रावगाहनसुखानि ममोल्ल]सन्ति।
तत्रैव सर्पति तनौ तव तन्वि! तापो
वामस्य किं बत विधेरविधेयमस्ति ॥4.36॥
संसूचयन्निव निरन्तरसंभृतानि
कल्याणवाणि! घनकोपविजम्भि[तानि]।
[मध्यं शिरीषमृदुलाङ्गि]कृशं कथं ते
कम्पः पयोधरमहीधरयोर्दधाति ॥4.37॥
प्राणाधिकप्रियतमे!न हि तावकीनं
स्वप्नेऽपि विप्रियमकारि मया कदापि ।
तत् किं शुभे! शशकशोणितशोणिमान-
(23a)मालम्बते सपदि ते नयनारविन्दम् ॥4.38॥
दासोऽहमब्जनयने! निबिडानुराग-
मुल्लासय स्मितसुधामधुरं मुखेन्दुम् ।
आनन्दवारिधिरुदेतु चिरं समन्ता-
दालोकवान् भवतु भाविनि! जीवलोकः ॥4.39॥
सद्यो निवेदय दयामयि! किं निमित्त-
मुज्जृम्भते सपदि तापभरो भवत्याः ।
त्वामीदृशीं यदवलोकयतोऽनुवेल-
मुद्वेल्लिता मदसवः सततं भवन्ति॥4.40॥
एवंविधानि विविधानि निशम्य पत्यु-
र्मूग्धानि वाग्विलसितानि विनिःश्वसन्ती।
नम्नानना निबिडबाष्पभरं निरुध्य
तन्वी चिरादिदमुवाच वचस्तदानीम् ॥4.41॥
शीलोच्चयेन विमलेन निवैश्चरित्रै-
र्मान्याः समस्तभुवनेषु भवन्त एव।
श्रीवत्सलाञ्छन! कदापि भवादृशेष्व-
विज्ञा किमाचरति कोपविजृम्भितानि ॥4.42॥
गोपीपते!प्रबलदैववशाद् भवन्त-
भासादयन्ति दयितं खलु वामनेत्राः ।
शीलं मनोज्ञमवलोक्य च ते न यु(23b)क्तं
मानाभिधानमपि हन्त मनस्विनीनाम् ॥4.43॥
हे नन्दनन्दन! न कोपकषायिताहं
नाथानुनाथनशतेन वृथा प्रयासः ।
मद्दैववैभवमिदं त्वयि जीवनाथे
यज्जायते वत मनागपि चित्तखेदः ॥4.44॥
इत्थं निशम्य सुदृशः समुदीरितानि
श्रीमन्मुरारिरपि खिन्नमना बभूव।
आगत्य नीतिनिपुणाथ सखी तदीया
काचित्तदा सपदि माधवमाबभाषे ॥4.45॥
एणीदृशः कुपितकारणमत्युदारं
नाथावधेहि निभृतं विनिवेदयामि ।
अज्ञातहेतुगहना हि नृणां विकाराः
प्रायः प्रभो! दुरुपचर्यतमा भवन्ति॥4.46॥
गीर्वाणसंसदि सुपर्वपतेः प्रसाद-
मासाद्य हृद्यतरदेवतरुप्रसूनम् ।
[आगत्य]भक्तिभरभावितमानसेन
दत्तं मुकुन्द!भवते खलु नारदेन ॥4.47॥
तद्देव! देवकुसुमं सविधस्थितायै
दत्तं तदैव भवतापि विदर्भजायै।
प्रायः प्रसादमधिकं हि महानुभावाः
सेव्याः सदा सविधवर्तिषु वर्तयन्ति॥4.48॥
तन्नाथ! कल्पविटपिप्रसवप्रदानं
श्रुत्वा समुन्नतिविधायि विदर्भजायाः ।
सद्यः समुल्लसदसीममनोभिताप-
वारांनिधौ निरवधौ सुमुखी ममज्ज ॥4.49॥
(1)तन्नाकनायकमिदं त्वनुना[थ्य मन्युः]
शक्योऽपनेतुमरविन्ददृशः कदापि।
वक्रायितं हृदयमब्जदृशां प्रविश्य
किं नाथ!निःसरति रोषरसः सुखेन ॥4.50॥
F.N.
(1)तन्नाय नायक Ms.
काकूक्तिभिः समनुनीय भृशं कृशाङ्गी-
मङ्गीकुरु त्वमिह कल्पतरुप्र[दानम्]।
एतावता प्रमुदिता भविता सखी मे
नो चेन्मुकुन्द!भवितात्र महाननर्थः ॥4.51॥
अत्यादरादिदमुदीर्य हरेः पुरस्ता-
न्मौनं सरोरुहमुखी चिरमाबभार ।
श्रद्धासमृद्धहृ[दयाभिहितं तदीयं
मेने विशिष्य बहु]चेतसि केशवोऽपि ॥4.52॥
श्रीमानथ स्मितमनोज्ञमुखारविन्द-
विद्योतमानदरदन्तमनोहरश्रीः ।
मानापनोदनमुदारमनास्तदानी-
मानन्दनं वचनमिन्दुमुखीमुवाच ॥4.53॥
(24b)[क्षान्तास्त्वया कति न कारुणिकप्रवृत्त्या
कान्ते!मया] विरचिता विविधापराधाः ।
दीर्घादरं यदि न पश्यसि पङ्कजाक्षि!
प्रागेव तन्मदसवः खलु निःसरन्ति ॥4.54॥
गत्वाथ पङ्कजसरःसविधं कथञ्चि-
दाकुञ्चितस्तिमितशोणि[तलोचनायाः]।
दोधूयमानशतपत्रसमानशोभं
जग्राह पाणिमनुरागपरो मुकुन्दः ॥4.55॥
साशङ्कमङ्कमधिरोप्य हरिस्तदानीं
सद्यस्तदीयवदनं चतुरश्चुचुम्ब ।
आलिङ्ग्य तामथ मनोज्ञरुचिर्नताङ्गी-
मङ्गीचकार सुरराजतरुप्रदानम् ॥4.56॥
विद्राव्य देवनिवहानवहेलयैव
निर्जित्य शौर्यविभवेन सुराधिराजम् ।
यद्यानयामि न नितम्बिनि! पारिजातं
भूयास्तदा सुमुखि!मे विमुखी त्वमेव ॥4.57॥
एवं गिरा रुचिरया शपथैरनेकै-
र्माने घने मुरभिदा सुदृशोऽपनीते ।
सन्ध्यारुणाम्बरमनोहरकान्तिरुच्चै-
राविर्बभूव वलदिन्दुमुखी सखीव ॥4.58॥
एणीदृशः सपदि लोच[न]……………..
………………………..॥4.59॥(1)
F.N.
(1.ff 25-3i covering a portion of canto iv and almost the whole of canto v are lost.)
.
[ पञ्चमः सर्गः ]
(32a)…………नैः समानैरपि ।
सन्तोषं गमयन् मनः खलु नृणामापात्रमापामरं
स्मेरास्यो विससर्ज संसदमतिप्राप्तोत्सवः केशवः ॥5.1॥
स्वान्तध्वान्तवधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः।
धीरश्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गो ययौ पञ्चमः ॥5.2॥
.
\[ ***षष्ठः सर्गः*** \]
नारदं नयदयाविशारदं शारदं विधुमिवातिसुन्दरम् ।
आजहार मनसा नवादराद्बादरायणिसमानमच्युतः ॥6.1॥
सोऽधिगत्य हृदयं जगद्गरोराजगाम सहसा महामुनिः ।
ज्ञातनाथमनसो विलम्बितुं नालमुज्ज्वलधियः कथञ्चन ॥6.2॥
द्रष्टुमुत्सुकमना मुखं हरे राजहंस इव मानसं सरः ।
संचरन्नभसि निर्मलद्युतिर्लोकलोचनमनन्दयन्मुनिः ॥6.3॥
शीतदीधितिकराभिरामया भासमानतनुकान्तिधा(32b)रया।
स्वर्णदीमभिनवामिवोच्चकैराततान गगनाङ्गने मुनिः ॥6.4॥
चारुचन्दनतुषारसुन्दरं कायकान्तिभरभासिताम्बरम् ।
लोकलोचनविनोदिनं जना मेनिरे तमखिलाः कलानिधि[म्]॥6.5॥
कामिनीललितभाषिताधिकं रामणीयकमुदारमागतैः ।
उद्गिरन्निव सुधारसानसौ वल्लकीयनिनदैर्व्यराजत ॥6.6॥
सन्ततस्मितमयूखमेदुरैः शान्तभाववलितैर्द्दगञ्चलैः ।
अम्बुजासनसुतो नभस्तलं पुण्डरीकमयमाततान सः ॥6.7॥
उन्नतानि मनसोऽपि मानिनां स व्यतीत्य भुवनानि नाकिनाम् ।
आससाद सविधं जगद्गुरोः किं करोति न समाचितं तपः ॥6.8॥
वीक्षितो वलितनेत्रमासनादुत्थितेन सगणेन शार्ङ्गिणा ।
पर्वतेन सहितस्तदादराम्बरादवततार नारदः ॥6.9॥
संनिवेद्य कनकासनं ततः स्वागतं च परिपृच्छ्य सर्वतः ।
(33a)पर्वतेन सहितं विधेः सुतं पर्यतूतुषदसौ सपर्यया ॥6.10॥
अर्चितो भगवता सपर्वतः सर्वतः स खलु संमदं दधौ ।
स्वामिना हि सदयेन सत्कृताः प्राप्नुवन्ति सुधियः कृतार्थताम् ॥6.11॥
सादरेण हरिणा विनिर्मितां प्राप्य सत्कृतिमतीव हर्षितः ।
नारदः सविनयो नयोज्ज्वलां निर्मलां सपदि वाचमाददे ॥6.12॥
अद्य मे मनसि संमदो महानद्य मे नयनयोः कृतार्थता ।
अद्य मे जनुरभून्महोज्ज्वलं यद्व्यलोकि पदपङ्कजं तव ॥6.13॥
किं न सन्ति भुवने महर्षयः किं न ते भवति भक्तिभाविताः ।
यत्तथापि मयि तेऽधिका दया तत्कृपाभरविजृम्भितं तव ॥6.14॥
श्रीप[ते!]समुदिता प्रसन्नता यादृगुल्लसति सन्निधौ तव ।
स्यन्दमानकिरणे हिमद्युतौ तादृशी किमु कदापि जायते ॥6.15॥
अम्बुजाक्ष!जगतो मुहुर्मुहुर्निर्मितिस्थितिविनाशकारकः ।
तावकीनमहि(33b)मा महामते! पारमेति न गिरां कदाचन ॥6.16॥
संस्मृतिर्भगवता कृताऽद्य या सा मदीयसुकृतैर्विनिर्मिता ।
चापलात् सहजतस्तथापि मे तत्र कारणमुदीक्षते मनः ॥6.17॥
जातिमात्रविहितादरादहो मादृशाद्यदुपते! द्विजन्मनः ।
जायते यदि विधेयमीश!ते तत्तवैव महिमा महाद्भुतः ॥6.18॥
एतदप्यनुचितं निवेदितं तावकीनपुरतो जगत्पते ।
यद्भवच्चरणपद्मसेविना क्वापि नाञ्चति जगत्यसाध्यता ॥6.19॥
तन्निदेशय निदेशकारिणं मां मुकुन्द! करवाणि किं तव ।
ज्ञातनाथहृदयोऽपि सेवकः कृत्यवस्तुनि निदेशमी[क्ष]ते ॥6.20॥
किं व्रजामि सविधं महेशितुः किं विरिञ्चिपुरमुत्पतामि वा ।
माधव! ज्वलनसारथेरिव क्वापि नापि मम कुण्ठिता गतिः ॥6.21॥
देव! तावकमुदे मुदा निधिं देवराजतरुमानयामि किम् ।
त्वत्प्रसादपरिपूर्णमुच्चकैः पश्य नाथ!(34a)तपसो बलं मम ॥6.22॥
न प्रमाणमसमीहितार्पकं कोमलाङ्गुलिदलामलद्युति ।
ध्यायतस्तव पदाम्बुजद्वयं क्वापि नैव मम कुण्ठितं मनः ॥6.23॥
एवमुक्तवति नारदे मुहुः पर्वतोऽपि विकसन्मुखाम्बुजः ।
मौलिचालनमुदीरयन् परं गौरवं विनिदधे तदुक्तिषु ॥6.24॥
हृद्यकानि मकरन्दसारतो निर्मलानि मनसः सतामपि ।
नारदेन गदितानि सादरं सोऽधिगत्य मुमुदेतरां हरिः ॥6.25॥
उल्लसन्नयनपत्रशोभिना भासितेन वलितस्मितश्रिया ।
आननेन लघयन् सरोरुहं म[ा]धवो मधुरया गिरावदत् ॥6.26॥
दुर्निमित्तविनिवृत्तिकारकं तावकं पदमपश्यतो मम ।
भानुमन्तमिव वारिजन्मनः क्वापि न व्रजति सम्मदं मनः ॥6.27॥
सुप्रसन्नहृदये त्वयि प्रभो! वाञ्छितं जगति किं न लभ्यते ।
उ[द्ग]ते शशिनि संभृतद्युतौ दुर्लभाः किमिति शीतला रुचः ॥6.28॥
हंसयान(34b)सुत! मादृशामिदं श्रूयतामुपचितं निवेदितम् ।
त्वय्यशेषविषयोपदेशके नाथ! किं न कथनीयमस्तिः नः ॥6.29॥
नाकनाथमनुनाथ्य मत्कृते पारिजातकुसुमं समाहृतम् ।
अर्पितं च भवता मयि द्रुतं तद्विदर्भनृपनन्दिनीपुरः ॥6.30॥
पारिजातकुसुमं तदा मुने! मामयाचत विदर्भनन्दिनी ।
निर्भरप्रणयभङ्गभीरुणा तन्मयापि सुदृशे समर्पितम् ॥6.31॥
तत्कृतोऽपि बत दुर्जनाननात् संश्रुतं सपदि सत्यभामया ।
मोदमेति हि मनः सदा सुहृद्भेदवस्तुनि मलीमसात्मनाम् ॥6.32॥
तद्विदर्भतनयोन्नतिप्रदं संनिशम्य कुसुमार्पणं तदा ।
द्रागनु[न्न]यनिविष्टमानसा मानसागरजले ममज्ज सा ॥6.33॥
तत्सखीपरिकरैरुदीरितं दुर्विधेयमधिगत्य सुभ्रुवः ।
तद्गताधिशतविद्धचेतसा यातमाशु च मया तदन्तिकम् ॥6.34॥
विभ्रतीं च रुचिशेषमङ्गकं(35a)षोडशीमिव कलां कलानिधेः ।
पश्यतः प्रणयिनीं म[मो]च्चकैः शङ्कयाऽऽकुलितमास मानसम् ॥6.35॥
सत्वरं विरस[भाव]सादितः किं करोमि भवदीप्सितं प्रिये ।
एवमुक्तवति मय्ययाचत द्रागसौ सुरमहीरुहं तदा ॥6.36॥
स्वीकृतं बत भयापि तन्मुदे पारिजाततरुदानमञ्जसा ।
निर्भयप्रणयमन्द्रितात्मनः किं विचारमवगाहते मनः ॥6.37॥
याचितुं सुरतरुं तदञ्जसा देवराजनगरी गरीयसी ।
अम्बुजासनतनूज!गम्यतां गम्यता न तव कुत्र जृम्भते ॥6.38॥
आशिषः स्वयमुदीर्य सादरं मादृशामथ नतिर्निवेद्यताम् ।
देवराजमनुपृच्छ्य मङ्गलं मामकीनकुशलं च कथ्यताम् ॥6.39॥
सर्वमेतदुचितादनुक्रमात् स्वीकृतं खलु निवेद्य मामकम् ।
उच्यतां मम गिरा चिरादिदं नारद!प्रसभमेव वासवः ॥40॥
कारणादुपचितान्महामतिर्याचते सुरतरुं तवानुजः ।
(35b)तत्त्वदीयकरुणा विजृम्भतां दीयतां विबुधनाथ!स द्रुमः ॥6.41॥
संस्मृतोऽपि भगवन्! समीहितं पूरयत्यविरतं भवान् नृणाम् ।
माधवाय सततं नतात्मने भूरुहः खलु कथं न दीयताम् ॥6.42॥
सर्वदाखिलनिदेशकारिणे लालनीयमनसेऽनुजन्मने ।
भूरुहोऽपि यदि नैव दीयते तत्कमञ्चतु विचारचातुरी ॥6.43॥
इत्थमर्थिवदुदारचेतसा याचितोऽपि भवता सुरद्रुमम् ।
यद्यसौ नहि ददाति दुर्मदस्तन्निगद्यमिद[मू]र्जितं वचः ॥6.44॥
त्वां मुरारिरपि गौरवादहो याचतेऽतुलयशाः शचीपते! ।
चेत् तथापि न तनोषि मार्दवं तद्वयं सपदि वीतदूषणाः ॥6.45॥
याचितो यदि मयापि पादवं देवराज! न ददासि दर्पितः ।
तन्निधेहि विबुधाङ्गनावलत्पत्र[लोपि]नि करे निजायुधम् ॥6.46॥
मामकीनगदया विदारिते वारणेन्द्रगुरुगण्डमण्डले ।
वास[रे]ऽपि निखिलै(36a)र्विलोक्यतां तारकोत्करकरम्बितं नभः ॥6.47॥
एतदेव समुदीरितं मया यत्त्वया निखिलमेव [वि]द्यते ।
आर्यकार्यविदुषां भवादृशां नोपदेशदिशमीक्षते मनः ॥6.48॥
तन्मभाभिमतसिद्धयेऽधुना साधयन्तु सहसा भवादृशः ।
वर्ततां भवदभङ्गमङ्गलं शीघ्रमस्तु च पुनः समागमः ॥6.49॥
इत्युदीर्य नयवीर्यसम्पदः सूचकं वचनमूर्जितं तदा ।
आननं सपदि मौनमुद्रया संयुयोज जगतामधीश्वरः ॥6.50॥
भाषिताभृतरसं मधुद्विषः सन्निपीय परिपूर्णमानसः ।
सादरः सरसिजासनात्मजो वाचमुज्ज्वल[म]तिस्तदावदत् ॥6.51॥
श्रीपते!तव निदेशलाभतो मानसं मम मुदा समावृतम् ।
यत्तथापि विनिवेदयाम्यहं सर्वथा तदवधेयमेव हि ॥6.52॥
याचितो न कतिधा भवत्कृते स्वर्द्रुमं प्रति मयैव वासवः ।
सन्ददौ तदपि दर्पमाश्रितस्तत्प्र(36b)सूनमपि नैव कर्हिचित् ॥6.53॥
सर्वलोकहृदयाधिवासिनः श्रीपते!विदितमेव तेऽखिलम्।
मन्यसे तदपि याचितं हितं वेद कोऽपि न तवेश!मानसम् ॥6.54॥
निर्भरैर्भ्रुजभुजङ्गविक्रमैराक्रमे त्रिजगतोऽपि शक्तिमान् ।
त्वादृशोऽपि यदि याचते परं तत्प्रयातु कमयाचितव्रतम् ॥6.55॥
याचितोऽपि मधवा मयोच्चकैर्दास्यति क्षितिरुहं न कर्हिचित ।
गम्यते तदपि देव! न प्रभोर्भाषितं समुचितं हि लङ्घितुम् ॥6.56॥
स्वस्ति तेऽस्तु सुखमास्यतां विभो! तन्नभोगहनमुत्पताम्यहम् ।
सज्जतां नररथेभवाहिनी वाहिनी यदुपते! तवोच्चकैः ॥6.57॥
इत्युदीर्यवचनं महामना माधवाय वितरञ्छुभाशिषः ।
अम्बुजासनतनूद्भवस्तदा गन्तुमुत्सुकमतिर्मुदाऽभवत् ॥6.58॥
सन्निवार्य शपथैरुदारधीरम्बुजाक्षमनुयान्तमादरात् ।
मानसं मुनिरुवाह दुःखितं कः सतां विरहतो(37a)न दूयते ॥6.59॥
श्रीपतेर्गुणगणानुवादिनीमादरेण परिवादिनीं मुहुः ।
वादयन्मुदितमानसो मुनिः पर्वतेन सहितोऽथ निर्ययौ ॥6.60॥
उल्लसन्मणिमयूखधारिणीं हारिनीरजविलोललोचनाम् ।
बिभ्रतीं कनककुम्भमम्भसां पूरितं पथि ददर्श नारदः ॥6.61॥
स्पन्दमानमधिगम्य दक्षिणं लोचनं स्वकमकारणादपि ।
आशशंस विधिसम्भवस्तदा सन्निकृष्टगमभीष्टमात्मनः ॥6.62॥
अर्चितो नगरवासिभिर्जनैरादरान्नयनपङ्कजस्रजा ।
कौतुकोत्तरलितः शनैः शनैर्नारदो नगरतोऽथ निर्ययौ ॥6.63॥
गच्छतो विधिसुतस्य दूरतोऽप्यागतानि पतिताः प्रदक्षिणम् ।
मङ्गलानि श[कुना]नि सर्वतः कूजितैः शकुनयो वितेनिरे ॥6.64॥
उल्लसत्फलभरानताश्चलच्चारुमारुतविलोलपल्लवाः ।
आदरादिव महीरुहास्तदा तं प्रसूननिकरैरवाकिरन् ॥6.65॥
पल्वलेषु परिपीय पङ्कजस्यन्दमा[नमकरन्दमादरात्]।
मन्दमन्दगतिना नभस्वता सेवितो मुनिरवाप संमदम् ॥6.66॥
सारसारवविराजिताश्च सच्चक्रवाकचयचारुतां गताः ।
उल्लसन्न[लिन]रेणुरञ्जिता[ः]सन्निरीक्ष्य सरसीः स हर्षितः ॥6.67॥
क्वापि माधवगुणान्मनोरमान् पर्वताय सुहृदे निवेदयन् ।
वर्त्म दूरमपि लङ्घितं जवान्मोदवान्नहि विवेद नारदः ॥6.68॥
देवराजनगरीं गरीयसीं नन्दनन्दननि[दे]शतो व्रजन् ।
काननाचलसरस्तरङ्गिणीरुत्ततार तरसा स नारदः ॥6.69॥
क्वाप्यभ्रंलिहसौधशेखरमहीमध्यास्य विश्रान्तये
क्वाप्यारुह्य रथानिवातिविततानम्भोधरानुच्चकैः ।
[रा]जन् क्वापि च भानुमानिव [निरा]लम्बे वियन्मण्डले
देवाधीशपुरं प्रति प्रमुदितो धातुस्तनूजो ययौ ॥6.70॥
विविधनगरदेशग्रामशैलस्रवन्ती-
र्द्रुतमथ समतीत्य स्वीयसिद्धिप्रभावात् ।
कमलबवतनूजः पर्वतेनानुयातः
सपदि तुहिनशैलाभ्याससाद ॥6.71॥
(38a)स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्ण पूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गस्तु षष्ठो ययौ ॥6.72॥
.
[ सप्तमः सर्गः ]
अथ कान्तिशतेन शोभमानं विधिसूनुस्तुहिनाचलं विलोक्य ।
हृदि मोदमुदारमादधानो विबुधाधीशपुरीं प्रति प्रतस्थे ॥7.1॥
क्वाचिदुल्लसदिन्द्रनीलकान्त्या वलितानां वरहीरकावलीनाम् ।
स निरीक्ष्य रुचिं सुरस्रवन्तीयमुनासङ्गममोहमाबभार ॥7.2॥
क्वचिदिद्धसुधाकरानुकारा रुचिधारा शिखारात् समुल्लसन्ती ।
सममानि मुनीश्वरेण सद्यः सुरगङ्गेव नभोङ्गनात्पतन्ती ॥7.3॥
क्वचिदुच्चरवैर्निनाद्यमानाः सरसैः सारसहंसचक्रवाकैः ।
सरसीः सरसीरुहाभिरामा मुनिरालोक्य मुदं तदा ततान ॥7.4॥
विलसद्वनराजिराजितानां रुचिमालोक्य मनोज्ञमेखलानाम् ।
अवलेपमधान्मु(38b)निस्तदानीमतिमात्रं नवनीरदोत्करेऽरि ॥7.5॥
अतिनूतनमालतीलतानां कुसुमान्युच्छ्रितभृङ्गसङग्तानि ।
कमलासनसम्भवोऽवलोक्य स्फुटतारानिकरभ्रमं बभार ॥7.6॥
क्वचिदाकुलितान्मृगेन्द्रनादैर्भयविभ्रान्तविलोचनान्मुनीन्द्रः ।
हरिणानवलोक्य धावमानान् करुणाकोमलचित्तवृत्तिरासीत् ॥7.7॥
सरसीषु सरोरुहावलीनां मकरन्दासवमुच्चकैर्निपीय ।
मृदुना पवनेन सेव्यमानो मुदमुद्दामतमां मुनिः प्रपेदे ॥7.8॥
नखदारितदाडिमीफलोद्यद्द्रवलोभेन मुहुः करं लहिन्तः ।
कपयो वलदङ्गभङ्गिभाजो विधिसूनोर्मुदमुत्तमां वितेनुः ॥7.9॥
सविकासपलाशभूरुहस्य स्तवकस्तेन तदा मुदा व्यलोकि ।
दहनाय मुहुर्वियोगभाजामुदितः कामशिखीव काननेषु ॥7.10॥
नवकेसरकानने विकीर्णां कुसुमालीमवलोकयाञ्चकार ।
विषदीग्धमुखीमुदार(39a)मालां शरधारामिव मन्मतस्य राज्ञः ॥7.11॥
विलसिद्वमलेन्द्रीनीलकान्तीञ्जलदानत्यनुरागमालकय्य ।
मदमेदुरमानसा मुनीन्द्रं शिखिनस्तं खलु तोषयाम्बभूवुः ॥7.12॥
दधतोऽपि महोन्नतिं समन्तात् पवनान्दोलनलोलचारुशाखाः ।
कुसुमैस्तमवाकिरन्नशोका वलते कुत्र न मानमुन्नतानाम् ॥7.13॥
विहगारवरम्यव[ा]ग्विलासो विलसत्पल्लवकल्पिताञ्जलिश्रीः ।
गिरिरानतवृक्षमौलिरुच्चैर्विधिसूनुं प्रणयादिव प्रणेमे ॥7.14॥
क्वचिदुज्ज्वलितं हुतैर्हुताशै रुचिरं चारुतरोटजावलीभिः ।
मुमुदेऽतितरां विरिञ्चिसूनुर्यमिनामाश्रममण्डलं विलोक्य ॥7.15॥
अतिनूतनभूरुहाननेकान् स्नपयन्तीः कलशाम्भसां समूहैः ।
नववल्कलवाससः समन्तान्मुनिकन्याः स विलोक्य हर्षितोऽभूत् ॥7.16॥
गुरुकार्यपरोऽपि पुण्यचित्तैर्विहितातिथ्यविधिस्तपोधनौधैः ।
क्षणमाश्रममण्डले स तस्थौ न महान्तो(39b)हि कदापि लङ्घनीयाः ॥7.17॥
मरुतापहृता नभोऽन्तराले ददृशे तेन सरोजरेणुराजी ।
घनमानविमर्दनाय यूनोर्मदनस्येव चमूसमूहरेणुः ॥7.18॥
अपि कौतुकलक्षमीक्षमाणो न विलम्बं विधिसूनुराललम्बे ।
अकृतार्थितभर्तृशासनानां वलते क्वापि न धीमतां प्रमोदः ॥7.19॥
गततृष्ण इवोच्चकैर्ममत्वं द्रुतमुत्तीर्य हिमाचलं विशालम् ।
कृतयोग इवाशु मोक्षलक्ष्मीं विधिसूनुर्दिविषत्पुरीमवाप ॥7.20॥
अथ लोचनगोचरस्तदानीमभवद्देवपुरी विरिञ्चिसूनोः ।
अतिनिर्मलमुग्धसौधमालाविलसत्कान्तितरङ्गसङ्तश्रीः ॥7.21॥
द्युतिभिर्यदुदारमन्दिराणां परमालोक्य मयूखमेदुराणाम् ।
अरुणत्वमवाप यद् विविस्वानरुणस्तेन जनैर्निगद्यतेऽसौ ॥7.22॥
किरणैर्वरहीरनिर्मितानां भवनानामनुवेलमुल्लसद्भिः ।
रुचिरत्वम[धा]दुदारकान्तिर्विहसन्तीव निरन्तरं जगन्ति ॥7.23॥
वरहारलता(40a)वदातदेहैः स्फुटतारेव वराप्सरः समूहैः ।
रुचिवञ्चितवारिजातगर्वैर्बहुचन्द्रेव मुखैर्विलासिनीनाम् ॥7.24॥
कुलकम् ।
अथ देवपुरीमुदाररूपां तरसोत्कण्ठितमानसो विलोक्य ।
कमलासनसम्भवस्तदानीमिदमूचेऽनुगतेन पर्वतेन ॥7.25॥
निजशिल्पकलाविलोकनोत्को भुवनान्यम्बुजसम्भवः ससर्ज ।
तदुपर्युचितां यशःपताकामिव देवेन्द्रपुरीमिमामकार्षीत् ॥7.26॥
इह सौधशते निवेशितानां विशदानां शशिकान्तधोरणीनाम् ।
अधियामिनि कान्तयः समन्तादपि गङ्गाभ्रममावहन्ति नित्यम् ॥7.27॥
अवलम्ब्य चिराय नर्महर्म्ये त्रिदशाः पार्वणशर्वरीशबिम्बम् ।
समतां दयितास्यमम्डलानामिह कौतूहलतो विलोकयन्ति ॥7.28॥
पवनाः परितोऽपि कल्पवल्लीप्रसवामोदमुदारमुत्किरन्तः ।
श्लथयन्ति सदैव गाढबद्धामपि नीवीमिह कामिनीजनानाम् ॥7.29॥
इह पश्य वयस्य!कौ(40b)तुकानि स्फुटमालोक्य मुखं मृगेक्षणानाम् ।
रचयन्ति चिराय झङ्कृतानि प्रथयन्तो मुदमुत्तमां चकोराः ॥7.30॥
मदमेदुरवारणेन्द्रदानप्रसरत्सौरभमुग्धमानसानाम् ।
पटलान्यलिनां नभोवकाशे ददते जङ्गमकुञ्जपुञ्जशङ्काम् ॥7.31॥
परितः पुरवासिनो दिगीशा विपटी कल्पतरुः सरिच्च गङ्गा ।
अधिपः खलु यत्र वृत्रहन्ता कथमेषा वचसां च गोचरः स्यात् ॥7.32॥
नियमैर्बहुभिस्तपोभिरुग्रैर्वसुसङ्घैरसुभिश्च मुच्यमानैः ।
यतते यदवाप्तुमात्र लोकस्तदिदं पत्तनमैन्द्रमुज्जिहीते ॥7.33॥
स्मितमञ्जुमुखैः सखीसमूहैः सह केलीविपिनेषु सञ्चरन्ती ।
गजराजगतिर्विलोकितेन व्यथमानं युवचित्तमातनोति ॥7.34॥
विलसद्वनमालयातिरम्यं कलितश्रि द्विजराजिसेव्यमानम् ।
दनुजारिशरीरवद्विनोदं तनुते नन्दनकाननं मदक्ष्णोः ॥7.35॥
(41a)इति वादिनि पर्वते समन्तात् कुतुकोत्फुल्लविलोचनो मुनीन्द्रः ।
दुरवापमनर्जितोरुपुण्यैस्रिदशाधीशसदः समाससाद ॥7.36॥
अव[ग]त्य समागतं मुनीन्द्रं वलदानन्दपयःप्रवाहपूरैः ।
जलयन्त्रनिभानि सन्दधानो नयनानि द्रुतमागमन्महेन्द्रः ॥7.37॥
उपसृत्य विधेयकोविदोऽसौ प्रणनाम प्रसभं मुनिं महेन्द्रः ।
अथ तं च शुभाशिषां समूहैः स समन्तादभिनन्दयाम्बभूव ॥7.38॥
अथ कारणमागमस्य वेत्तुं विधिसूनुः समवादि वासवेन ।
द्रुतमप्युपचक्रमे स वक्तुं नहि जल्पावसरे हिताय मौनम् ॥7.39॥
विबुधेश! निदेशहा[रका]णां परुषं चेदपि जायतेऽभिधानम् ।
क्षमणीयमिदं तदा महद्भिर्न हि सन्देशहरा मृषा वदन्ति ॥7.40॥
चतुरश्चतुरब्धिमेखलायाः पतिरुर्व्याः प्रसरद्भुजप्रतापः ।
यदुवाच मुरान्तको (41b)[भवन्तं]तदुदन्तं श्रृणु शक्र!सावधानः ॥7.41॥
घनमानपिनद्धमानसायाः प्रणयिन्याः प्रसभं विनोदनाय ।
अचिरेण सुरद्रुमं प्रदातुं स्फुटभङ्गीकृतवानहं सभायाम् ॥7.42॥
तदुदारमते!नतैकचित्ते मयि देवेश!दयोदयस्तवास्ताम् ।
यशसे सुकृतात्मनां प्रभूणां प्रणतेषु प्रणयादृते न पन्थाः ॥7.43॥
किमदेयमुदेति पण्डितानां त्रिजगत्यामपि याचकाय जिष्णो!।
निजमस्थिचयं च याच्यमानो न दधीचिः किमदान्मुदा भवद्भ्यः ॥7.44॥
किमवेक्ष्य फलं पयोधराली परितो यच्छति जीवनानि भूयः ।
परमानसपूरणाय नित्यं सरसानामघृणा हि हृद्विलासाः ॥7.45॥
त्वयि निर्मलमानसेऽग्रजन्मन्यमराधी[श!परि] स्फुरत्प्रतापे ।
न ममापि समीहितं यदि स्यात् कथमन्ये स्पृहयन्तु बान्धवेभ्यः ॥7.46॥
(42a)विबुधेन्द्र!विलोक्य लोकवृत्तं विशदं वीक्ष्य यशस्तथात्मनीनम् ।
करुणावरुणालयैर्भवद्भिर्विनिधेयो मयि पादपप्रसादः ॥7.47॥
इदमाह मुरारिरत्युदारो विबुधाधीश!भवन्तमादरेण ।
अथ यच्च भुजप्रतापदर्पादयमूचे तदपि स्फुटं वदामि ॥7.48॥
विनयेन मयापि याच्यमानो यदि दर्पान्न ददासि पारिजातम् ।
असुरेन्द्रविमर्ददृष्टसारा तदुदाराशनिरर्प्यतां स्वपाणौ ॥7.49॥
मखभङ्गभवापमाननायां यदभूः कोपकषायितस्त्वमुच्चैः ।
विदितो न जनैस्तदैव किं ते भुजयोरुग्रतरः पुरः प्रतापः ॥7.50॥
विनयोज्ज्वलमुज्ज्वलं प्रतापैरिदमूचे सुरराज!मां मुरारिः ।
निखिलं च मया निवेदितं ते सुमते!कृत्यविधौ भवान् प्रमाणम् ॥7.51॥
इति वादिनि हंसयानसूनौ प्रसरत्कोपभरारुणाननेन्दुः ।
(42b)घनशोणिमसम्मृतं तदानीमवहल्लोचनपद्मवृन्दमिन्द्रः ॥7.52॥
अथ कोपमनर्गलं कथञ्चिन्मदमत्तेभमिव क्षणं निगृह्य ।
वसृणिनेव नयेन गर्वगर्भं विबुधेशो विधिसूनुमाबभाषे ॥7.53॥
विनयोल्लसितापि वाङ् मुरारेः परुषत्वं समुपैत्यहङ्कतेन ।
विशदाम्बुरपि स्फुटं स्रवन्ती भजते भीषणतां हि नक्रचक्रैः ॥7.54॥
प्रणयेन यदाह मां मुकुन्दस्तदशेषं खलु मे विधेयमेव ।
परमस्य वचोभिरत्युदग्रैः कठिनत्वं समुपैति मानसं नः ॥7.55॥
प्रथयन् बहिरार्जवं समन्तान्मलिनं सन्ततमन्तरादधानः ।
मधुदिग्धमुखो विषावसक्तः पिशुनः कुम्भ इवानिशं विशङ्क्यः ॥7.56॥
प्रणयाद्यदि याचते मुकुन्दस्तदलं तस्य समुद्धतैर्वचोभिः ।
अथ शक्तिरुदेति चेत्तदानीं विफलं याचनयानयाच्युतस्य ॥7.57॥
उदयं समवाप्य मूढचेता महतां न्यक्कृतिमु(43a)च्चकैः करोति ।
स्पृशति प्रसभं समुज्जिहानो निजपादैरपि कं न वा मृगाङ्कः ॥7.58॥
गिरिराजसुतापि यत्प्रसूनं लभते याचनया चिरात्कथञ्चित् ।
तमसौ तरुमीहतेऽपहर्तुं किमसाध्यं समुदेति धृष्टतायाः ॥7.59॥
तनुते निजगौरवं मुकुन्दो विविधानुग्रहलालितो मयैव ।
बत विस्मरति स्म तुच्छचेताः श्रियमासाद्य नितान्तमात्मनोऽपि ॥7.60॥
वद नारद!मद्गिरा मुरारिं स्वयमायातु स योद्धुमुद्धतश्रीः ।
ज्वलिते मम वज्रवाडवाग्नौ नरवीराः शलभा भवन्तु सर्वे ॥7.61॥
आगत्याभिमुखं कथञ्चिदपि मे सन्नद्धसैन्यो भयात्
त्वं गन्तासि न चेन्ममाशनिघनज्वालावलोकालुकः ।
सन्दास्यन्ति तदासुरेभदलनव्यापारप़ञ्चानना
गर्वाखर्वसुपर्वयोधनिवहाः कोदण्डदण्डे दृशः ॥7.62॥
निगदितमनुरुपं शौर्यधैर्योच्चलक्ष्म्याः
स(43b)पदि कुलिशपाणेः सम्मदादाकलय्य ।
समुचितमिदमुच्चैस्त्वादृशस्येति जल्प-
न्मुनिरपि बहु मेने मौलिनान्दोलितेन ॥7.63॥
अथ कथमपि रम्यैर्वाग्विलासैस्तदानीं
सुरपतिमनुयान्तं सन्निवार्योरु[शातः]।
अतनुतनुमयूखैर्द्यौतयन् दिग्विभागा-
नलभत विधिसूनुः सन्निधिं माधवस्य ॥7.64॥
युद्धालोकरसा[त्]परस्परमहादुर्वारवैरानलं
वाग्व्यापारसमीरणैरुरुतरैरुद्दाममुद्दीपयन् ।
ऊचे सर्वमनुक्रमेण स मुनिः कंसद्विषः सन्निधौ
को वात्मीयसमीहितोदयविधौ नानन्दमाविन्दति ॥7.65॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्णपूरकृतिना कौतुहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽगमत्सप्तमः ॥7.66॥
.
[ अष्टमः सर्गः ]
आकर्ण्य कर्णविरसानि विरिञ्चिसूनो-
रास्यान्मुहुर्निगदितानि पुर(44a)न्दरस्य ।
रोषारुणास्रिदशराजतरुं हठेन
हर्तुं तदा मतिमधान्मधुसूदनोऽ[पि]॥8.1॥
संमन्त्र्य मन्त्रनिपुणैरथ मन्त्रिमुख्यैः
कार्यं विचार्य च मुहुर्मुहुरात्मबुद्ध्या ।
सम्पूर्णशक्तिरनुरक्तसमस्तलोकः
प्रस्थानमेव मुरजिद्विजयाय मेने ॥8.2॥
गम्या सुराधिपपुरी वियति प्रचारो
हार्यस्तरुर्दिविषदां बलभिद्विजेयः ।
सोल्लासमास तदपीह मनो मुरारेः
पारे गिरां जयति साहसिनां हि तेजः ॥8.3॥
उद्दीप्तचारुकनकासनसन्नविष्टो
हृष्टो वलन्मधुरहासलन्मुखेन्दुः ।
गन्तुं सुराधिपपुरीं परिपूर्णकामो
दामोदरो निजबलानि समादिदेश ॥8.4॥
आज्ञामवाप्य महतीं मदुसूदनस्य
सेनापतिर्मधुरवाक् प्रसरत्प्रतापः ।
आनन्दतुन्दिलमनाः पृतनां तदैव
सज्जीचकार नरनागरथाश्वपूर्णाम् ॥8.5॥
आकर्ण्मय दुन्दुभिरवं तरसा मुरारे-
र्यावन्निदेशयति सैन्यपतिः समन्तात् ।
उद्धेलितोदधिसमः किल तावदेव
संव्यानशे दश दिशोऽपि चमूसमूहः ॥8.6॥
रिङ्गात्तुरङ्गचयचारुचलत्पदाति
गर्जद्गजावलि वलद्रथयूथमुच्चैः ।
आलोक(44b)यन् बलमनर्गलमुद्गतश्री-
र्मेने हरिः करगतं किल पारिजातम् ॥8.7॥
उद्गासितः स्फुरदमन्दतमुप्रभाभि-
रालोकितस्मितरसैरमृतोपमानैः ।
तां वाहिनीं कुमुदिनीमिव रम्यरूपा-
माह्रादयन् हरिरमानि जनैः कलावान् ॥8.8॥
अत्रान्तरे चतुरगैस्तुरगैरुपेतः
केतुस्फुरद्विहगराजिविराजमानः ।
सज्जो जगद्धिजयसिद्धिरिव न्यवेदि
कंसद्विषे रथवरः किल दारुकेण ॥8.9॥
उन्मीलदिन्दुकरचारुशरीरशोभै-
र्वेगाधरीकृतसमीररयैरुदारैः ।
[गर्ज]द्भिरभ्रवनसङ्गरसेन सम्यग्
विभ्राजमानमतितुङ्गतरैस्तुरङ्गै ॥8.10॥
दीर्घादरादधिगतेन शिखण्डिवर्गैः
कल्पान्तमेघवरकोटिसमुत्कटेन ।
उद्दामचक्रनिनदेन विदीर्यमाण-
मन्तः सदा विरचयन्तमरिव्रजानाम् ॥8.11॥
वित्रासितारिनिवहेन महोग्रवेग-
प्राग्भारकम्पितसमस्तकुलाचलेन ।
उज्जृम्भमाणरुचिरध्वजवंशमुच्चै-
प्विभ्राजमानमहसा पतगाधिपेन ॥8.12॥
रिङ्गत्तुरङ्गनिखिलाङ्गनिवेशितस्य
श्रीमन्महामणिगणस्य\महोच्च[^3]भासः ।
अत्यन्तमुल्लसितकान्तिशतैः समन्ता-
न्मार्तण्डमण्डलमिवोज्ज्वलमुज्जिहानम् ॥8.13॥
दर्पं सविग्रहमिवोरुतरैस्तुरङ्गै-
र्मूर्तं जगज्जयमिवायुधधोरणीभिः ।
आलोक्य तं रथमतिस्फुरदाननेन्दु-
रानन्दतुन्दिलमना मधुसूदनोऽभूत् ॥8.14॥
कुलकम् ।
आबद्धतीक्ष्णतरवारिरुदग्ररूपः
श्रीमान् महोज्ज्वलशरसनमादधानः ।
विन्यस्य दारुककरे करमेकमुच्चैः
सोल्लासमाशु मुरजिद्रथमारुरोह ॥8.15॥
आरोहति प्रसभमेव रथं रथाङ्ग-
पाणौ वलद्विनयनम्रशरीरभाजः ।
ह्रेषारवैर्मुदिरेदुरनादसान्द्रै-
र्वाहा महाविजयमङ्गलामाश[शं]सुः ॥8.16॥
आरुह्य निर्मलमणिव्रजराजमान-
मत्युच्छ्रितं रथमुदारमपारतेजाः ।
चामीकराचलशिरः समुपाश्रितस्य
चण्डद्युतेरपि निनिन्द रुचं मुकुन्दः ॥8.17॥
आकृष्टरश्मिरपि [मांसलवेगदर्पाद्
वलात्खुरे]क्षणमनुक्षणमाव्रज[न्ती]।
हर्षोदयादिव सुरेशजयाय तेने
वाहावली मुरहरस्य पुरः प्रयाणम् ॥8.18॥
आत्तायुधान् प्रमनसः प्रसरत्प्रतापा-
नुग्रत्विषः प्रबलवीर(45b)[वरान् विधेयान्।
आरोहणाय धुरि सज्जितवाहनानां]
भ्रूसंज्ञया मुररिपुः स्फुटमादिदेश ॥8.19॥
उद्यन्मनोरममणिव्ररजराजमाना-
नत्युच्छ्रितान् प्रबलदर्पभृतः प्रवीराः ।
पञ्चाननाः क्षितिधरानिव साव[धाना
दन्तावलान्]त्वरितमारुरुहुः प्लुतेन ॥8.20॥
वल्गायुतान् सरसभं विनिधाय हस्तान्
ग्रीवासु गाढमतिचञ्चलतामुपेतान् ।
शान्तान् कथञ्चिदनुलालनया तुरङ्गान्
सोल्लासमारुरुहुरुग्ररुचोऽश्ववाराः ॥8.21॥
आरोहणावसर एव कृतप्लुतोऽपि
वाहस्तदा झटिति केनचिदध्यरोहि ।
तत्कौशलं सपदि संप्रशशंसुरन्ये
मन्ये गुणे महति नैव यशो दुरापम् ॥8.22॥
संवेशितोऽपि चिरलालनया कथञ्चि-
न्निस्पन्दकर्णयुगलः समुदग्रमौलिः ।
वेगादुपेत्य पदघातभिया प्लुतेन
दुष्टो गजः सपदि केनचिदध्यरोहि ॥8.23॥
आरुह्य कश्चन करेणुमथ प्लुतेन
द्रागारुरोह मदमत्तमपि द्विपेन्द्रम् ।
हीनः स्वशक्तिविभवैरपि सत्सहाय-
मासाद्य साधयति को न सुखादभीष्टम् ॥8.24॥
प्रासोल्लसत्करलताः स्फुरदुग्रभास-
स्तुङ्गा(1)……….॥8.25॥
F.N.
(1.folios 46-48 covering portions of cantos 8and9 are lost.)
.
[ नवमः सर्गः ]
(49a)[अथाश्लथोत्साहचलद्वरूथिनी-
गजाश्वपत्तिध्वनिभि]र्निनादितः ।
व्यलोकि लोकत्रितयैकमण्डनं
मुरारिणा वर्त्मनि काञ्चनाचलः ॥9.1॥
रणोद्धुरासु ध्वजिनीषु शार्ङ्गिणो
निशम्य माद्यद्गजगर्जमूर्जितम् ।
द्रुतं समुन्मुच्य निजान् गुहागृहा-
नखर्वगर्वा हरयो विदुद्रुवुः ॥9.2॥
क्वचिन्महापादपपल्लवावली-
निषक्तहसत्तान् समुदञ्चिताननान् ।
निहत्य गाढं सृणिभिर्निषादिन-
श्चिरेण निन्यु[र्न]दतो मतङ्गजान् ॥9.3॥
वनद्विपानां मदगन्धमुल्बणं
हठादुपालभ्य रुषा प्रधावतः ।
शिताङ्कुशाघातशतैर्महागजान्
निषादिनः संरुरुधुः कथञ्चन ॥9.4॥
खुरैरुदारैर्दलितापि वाजिनां
गिरेर्विरेजे वरविद्रुमस्थली ।
स एव धन्यः सहजो गुणो न यः
पराभिभूतोऽपि बिभर्ति विक्रियाम् ॥9.5॥
समुच्छितं सानुगणं महागिरे -
रुदञ्चितोर्ध्वाङ्गभृतश्चलाननाः ।
विना समुत्तेजनमप्यधीशितु-
र्द्रुतं जवादारुरुहुस्तुरङ्गमाः ॥9.6॥
पदातिपादाभिहतस्य यद्रजो
गिरेस्तदा गौरिकरक्तमुत्थितम् ।
विलिप्तदेहः किल तेन भानुमान्
सदैव लोकैररुणो निगद्यते ॥9.7॥
क्विचिन्महोच्चानि शिरांसि भूभृतो
द्रुतं[व्रज]न्ती हयराजिरुज्ज्वला ।
अमानि सिद्धैरधिकादरा(49b)दसौ
नभःपतन्तीव नदी दिवौकसः ॥9.8॥
महीभृतः श्रृङ्गशतन्युपेयुषां
मुहुर्भटानां मुकुटालिमुज्ज्वलाम् ।
विलोक्य साशङ्कमुदञ्चितेक्षणै-
रधारि तारामतिरञ्जसा जनैः ॥9.9॥
प्रतिप्रसूनप्रसरन्मधुद्रवा
विहाय वल्लिरपि चारुसौरभाः ।
निपेतुरानन्दभृतो मधुव्रताः
कटेषु सन्नद्धमदेषु दन्तिनाम् ॥9.10॥
क्वचिल्लतानां कुसुमैर्विभूषितो
महागजः पेचकमेचकच्छविः ।
उदारतारानिकरैः करम्बितो
रराज जीमूत इवोत्तमद्युतिः ॥9.11॥
भरं वहन्तोऽपि महान्तमुच्चकै-
र्जवेन जग्मुर्बलदर्पिणो वृषाः ।
समुत्कटे कार्यविधावपि स्फुटं
न कुण्ठितं मानसमुग्रतेजसाम् ॥9.12॥
श्रमोल्लसत्फेनमुखेषु निर्भर-
प्रवृद्धनिःश्वासविशुष्कतालुषु ।
गतेषु मान्द्यं महिषेषु वर्त्मनि
त्वरावरोधाश्चुकुपुर्भृशं जनाः ॥9.13॥
विदूरिताशेषनरे समन्ततः
पथि व्रजन्त्यः करिणीरधिश्रिताः ।
विलोकयन्त्यो रुचिरं महीधरं
नरेन्द्रदारा[मु]दुमुत्तमां दधुः ॥9.14॥
निवार्यमाणोऽपि रुषारुणेक्षणैः
कशाकरैः कञ्चुकिभिर्जनव्रजः ।
पलायमानोऽपि विवर्तिता(50a)ननं
विलोकयामास मुहुर्नृपाङ्गनाः ॥9.15॥
नृपाङ्गनाग्रेसरकञ्चुकिव्रज-
प्रहारभीत्या द्रुतगामिनो जनाः ।
विलोकयन्तोऽथ पुरो मदद्विपं
विहाय वर्त्मापि वनान्तराविशन् ॥9.16॥
क्वचित्समुन्मूलितपाद[पो द्वि]पैः
क्वचित्समारुढशिराः पदातिभिः ।
क्वचित् समाकृष्टमणिव्रजो जनै-
र्द्विषद्दशामाप हरैर्बलाद्गिरिः ॥9.17॥
अधिष्ठितः केशवसैन्यराजिभि-
र्भयादिव व्याकुलपत्रिनादवान् ।
समुन्नयन्निर्झरघर्ममुच्चकै-
र्मुहुर्मुहुः कम्पमवाप पर्वतः ॥9.18॥
पदातिपादाहति[मर्दितौ]षधी-
रसप्रवाहानवहन्महीधरः ।
मुरारिमातङ्गभराभिघातज-
व्रणव्यथाशान्तिमुपानयन्निव ॥9.19॥
दलावनद्धाञ्जलयो मुहुर्मुहुः
प्रसूनवर्षं रचयन्त उच्चकैः ।
समीरणासङ्गविनम्रमौलयः
प्रणेमुरेनं प्रणयादिव द्रुमाः ॥9.20॥
उदश्रुरुद्भासितनिर्झराम्भसा
समुल्लसन्निर्मलकाशहासभृत्।
समन्ततश्चारुविहङ्गभाषितै-
र्मुदेव पप्रच्छ हरिं महीधरः ॥9.21॥
रणोद्धुराभिर्ध्वजिनीभिरन्वितः
परिस्फुरद्दर्पहरः सुरद्विषाम् ।
प्रकाशयन् भानुरिव (50a)स्वतेजसा
सुवर्णशैलं मुदमाप माधवः ॥9.22॥
अथामृतोद्यद्द्रवदीर्घिकादृशो-
र्जगन्मनस्तोषणसिद्धिरुद्धता ।
स्फुरन्महापातकपादपाशनि-
र्व्यलोकि लोकैर्दिविषत्तरङ्गिणी ॥9.23॥
निषेव्यमाणा विमलैर्द्धिजव्रजै-
र्विशुद्धवर्णा शमिनी महैनसाम् ।
पवित्रयन्ती सततं जगत्त्रयीं
त्रयीव पुण्या द्रवतामुपागता ॥9.24॥
पयोभिरुद्भासिसुधारसोपमै-
र्विवर्द्धयन्ती सततं जगत्त्रयीम् ।
अनन्तसन्तापसमृद्धिनाशिनी
महोदयं या जननीव यच्छति ॥9.25॥
तिमिङ्गिलास्फालसमुत्थितैर्मुहु-
र्विभूषिता नित्यमुदारशीकरैः ।
समर्च्यमानेव सुरैर्द्दढादरा-
द्दिवश्च्युतैर्निर्मलमल्लिकाशतैः ॥9.26॥
निजेन नैर्मल्यमदेन निर्भरं
प्रकाशयन्ती मुखपङ्कजं मुहुः ।
समुल्लसत्फेनपरंपरामिषात्
सदा हस्नतीव शरत्सुधा[निधिम्]॥9.27।
परिस्फुरच्चारुदलान्तरुसल्लस-
त्प्रवालवल्लीनिकरच्छलान्मुहुः ।
अजस्रसञ्चारनिकारशान्तये
निषेव्यमा[णे] व सहस्रभानुना ॥9.28॥
क्वचिन्मनोहारिहरिन्म(51a)णिव्रज-
स्फुरन्मरीचिप्रकरैः करम्बिता ।
निरीक्ष[माणे]क्षणसौख्यदायिनी
दिवाकरस्यात्मजयेव सङ्गता ॥9.29॥
समुद्यदिन्दीवरचारुसौरभे-
र्मनोरमैर्विद्रुमदीपमण्डलैः ।
तटोल्लसन्निर्मलकाशचामरै-
रुपास्यमानेव दिवानिशं द्विजैः ॥9.30॥
वियन्मनोहारिमरालमण्डली
महीमहामण्डलमौक्तिकावली ।
भुजङ्गमावासविलासदीर्घिका
जगन्महामोहतमः प्रदीपिका ॥9.31॥
पयोभिरुद्यद्विषवेगसम्भृतै-
रुदारफूत्कारपराहतैरपि ।
निवेदयन्ती भुजगं जलस्थितं
कुचेष्टितेनेव मलीमसं मनः ॥9.32॥
समीरसंसर्गविशेषस़ञ्चर-
त्पयःपरूवर्तविवर्तिताम्बुजा ।
विलोकितुं माधवमुद्गतद्युतिं
मुहुः परावृत्तमुखीव कौतुकात् ॥9.33॥
उदारवर्णा सुगुणैरलंकृता
महोज्ज्वलोदाररसेन रञ्जिता ।
विनोदयन्ती हृदयं वलद्ध्वनि-
र्महाकवेर्भव्यतरेव भारती ॥9.34॥
कुलकम् ।
मनोनुकूलामतिनिर्मलोदकां
विरासिभिः पद्मवनैर्विराजिताम् ।
विलोक्य तां नेत्रमनोविनोदिनीं
द्रुतं स संमोदमुदारमाप्तवान् ॥9.35॥
(51b)स्फुरन्मनोहारिसरोरुहावली-
र्वि[धून]यञ्छीकरसङ्गशीतलः ।
सुरस्रवन्त्येव मुदोपढौकितः
प्रभञ्जनः स्वान्तमतोषयद्[भृशम्]॥9.36॥
अथावतीर्याशु रथाद्विदूरतो
विवर्धमानाधिकभक्तिभावितः ।
ननाम लोकत्रितयैकपावनीं
विनीतमूर्तिर्मुरजित् सुरापगाम् ॥9.37॥
समागता शीघ्रतया वलद्ध्वनि-
र्महोग्रवेगापि मुरारिवाहिनी ।
बभार मान्द्यं त्रिदशापगान्तिके
कराः खरांशोरिव विन्ध्यमूर्द्धनि ॥9.38॥
मुहुः कशाघातशतैस्तुरङ्गमान्
प्रवर्तयन्तः सलुलेषु सादिनः ।
द्रुतं समुत्तेरुरुदाररंहसो
महौजसां क्वापि न कुण्ठितं मनः ॥9.39॥
नियोजितोऽपि प्रबलेन सादिना
मुहुर्मुहुस्तीरमगात्तुरङ्गमः ।
विनीयमानोऽपि खलः सुबुद्धिना
जहाति न क्वापि कदापि वक्रताम् ॥9.40॥
दृढामुदारां गुणराजिराजितां
समाश्रिताः केचन नावमञ्जसा ।
कृपामिवासाद्य विभोर्भवार्णवं
सुखेन तेरुर्दिविषत्तरङ्गिणीम् ॥9.41॥
स्फुरन्महादुर्वहदेहभारतो
निमज्जतो वारिणि वेगवत्तरे ।
प्रवृद्धफूत्कारकरैः करैर्गजा-
नलक्षयन् सन्तरतस्तट(52a)स्थिताः ॥9.42॥
सुरापगावारिणि वेगभङ्गुरे
समुत्प्लवन्तो वृषभाः सहस्रशः ।
सुनीतिभाजो विपदीव भूभुजः
कथञ्चिदुत्थानमवापुराकुलाः ॥9.43॥
अधिष्ठिताः प्राणसमैः प्रियाजनै-
र्न यावदापुस्तटस्थलीम् ।
उदञ्चिताक्षः किल तावदुच्चकै-
र्दधार शङ्कां सुजनो निरन्तरम् ॥9.44॥
निषिद्ध्यमानोऽपि करेण सन्तर-
ञ्छ्रमोदयाद्धारिणि कोऽपि संश्लथः ।
समुद्ध्रतोऽपि [स्वजनैः कृतत्वरै-
रुदञ्चयामास भृशानतं शिरः ॥9.45॥
मुरद्विषस्तुह्गतुरङ्गधोरणी-
मदान्धगन्धद्विपसङ्घसंग[ता]।
सुरापगा धीरतरङ्गकम्पिनी
भियेव भेजे कलुषत्वमुच्चकैः ॥9.46॥
अनीकिनीभिः [परि]वारितोऽभितो
द्रुतं समुत्तीर्य तरङ्गिणीं दिवः ।
मनोरमे मेरुशिरस्युदारधी-
र्बलं निवासाय दिदेश केशवः ॥9.47॥
अभीप्सितां वासमहीमनुत्तमां
जवादहंपूर्विकया प्रधावताम् ।
हरेर्भटानां परमोत्कटत्विषां
त्वराविरासीन्महती समन्ततः ॥9.48॥
हिरण्मयस्तम्भशतेषु सम्भृता-
श्चिरं विरेजुः पटमन्दिरव्रजाः ।
समुद्गता मेरुशिरःसु शा(52b)रदाः
सितांशुबिम्बा इव निर्मलत्विषः ॥9.49॥
वितन्यमानैः पटमन्दिरव्रजै-
र्नियम्यमानैस्तुरगैर्गजैरपि ।
प्रसार्यमाणैर्विविधापणोत्करै-
र्मुरद्विषः सा शुशुभे वरूथिनी ॥9.50॥
अथोपवेश्य प्रसभं करेणुकां
करावलम्बैरवतार्य सादरम्।
विदूरयन्तोऽथ नरान् स्वमन्दिरा-
नजीगमन् कञ्चकिनो नृपाङ्गनाः ॥9.51॥
विहाय तल्पान्यपि संस्थिताः सुखा-
दुदारदूर्वादलकोमलस्थले ।
उदञ्चयन्त्यः पटवेश्म सस्पृहं
समीरणासङ्गमवापुरङ्गनाः ॥9.52॥
बलेन विद्राव्य हरीन् मदोद्धतान्
प्रसक्तमुक्ताफलपूरपूरिताः ।
मनोरमोद्दामलतासमावृता
[गिरेर्]गुहा भूमिभुजः समाश्रिताः ॥9.53॥
विषेव्य शीतं सलिलं समुत्थितान्
मुहुस्तटाघातसुखोपबृंहितान् ।
वितर्प्य दीर्घद्रुमसंगतान् गजान्
सदन्नपानैस्तुतुषुर्निषादिनः ॥9.54॥
निवासहेतोरपि कल्पितं स्थलं
ददुर्भटा विश्रमणाय वाजिनाम् ।
विलोकयन्ति स्वशरीरतोऽधिकं
यशस्करं साधनमेव साधवः ॥9.55॥
अथोपवेश्याशु विमोचयन् गुणा-
न्बिभर्ति गोणीं न हि यावदीशिता ।
[दुरु]त्थि(53a)तस्तावदधावदुष्ट्रको
दधाति किं स्थैर्यगुणं गुणोज्झितः ॥9.56॥
क्वचित् समाकल्पितपाकमुच्चकैः
क्वचित् समारब्धमनोज्ञताण्डवम् ।
क्वचित् समासादिततल्पकल्पनं
चिरं विरेजे बलमुद्धतं हरेः ॥9.57॥
फलैर्विशालैरतिनिर्मलैर्जलैः
समुल्लसत्पल्लवसंस्थितैरपि ।
स्फुरन्मनोहारिमणिप्रदीपकै-
र्महीभृतातिथ्यमकारि सर्वतः ॥9.58॥
वृक्षावसक्तवरभूषणभूषितेन
श्रृङ्गार्पितप्रचुरवस्त्रगृहोज्ज्वलेन ।
अभ्यागते मुररिपावचलेन लक्ष्मी-
रुच्चैरवापि किमुदेति न सत्सकाशात् ॥9.59॥
मत्तेभव्रजगर्जितैरुपचितैर्ह्रेषारवैर्वाजिना-
मुद्यन्मङ्गलसन्मृदङ्गनिनदैरुष्ट्रावलीनर्दितैः ।
गङ्गावारिविराजिताश्रुरकरोदाक्रन्दमत्युच्चकैः
श्रीभर्तुर्बलभारभङ्गुरतनुर्दुःखादिव क्ष्माधरः ॥9.60॥
श्रीरु[द्दा]तमा मनोरमहारत्नप्रदीपावली
पीयूषद्रवदर्पहारि सलिलं लोला लतामण्डपाः ।
आया[ते]ऽन्तिकमुज्ज्वले यदुपतौ जग्मुर्गिरेः सार्थतां
यत्राभ्येति महाजनस्त्रिभुवने तद्धन्यमन्यद् वृथा ॥9.61॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
(53b)धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽङ्कसंख्यो गतः ॥9.62॥
.
[ दशमः सर्गः ]
अथ हरिः परितः परिवारितः
सहचरैरमरैरिव वासवः ।
कनकशैलमुदै[क्ष]त कौतुकी
सुरुचिरं रुचिरञ्जितपादपम् ॥10.1॥
नवतमालविशालतरत्विषां
ललितनिर्मलनीलमहात्मनाम् ।
स्फुरितकान्तिकदम्बकडम्बरैः
सतमसं तमसंख्यलतावृतम् ॥10.2॥
नखविदारणकारगतोऽभितो
भयमुदारतरं दधुरुच्चकैः ।
प्रतिदिनं खलु यत्र मृगेन्द्रतो
मदयुतादयुतान्यपि दन्तिनाम् ॥10.3॥
सुरतकेलिषु यत्र समुल्लस-
द्गुरुपरिश्रमखिन्नहृदां सदा ।
अपहृता पवनेन लतागृहे
विलसताऽलसता सुरसुभ्रुवाम् ॥10.4॥
नवहरिन्मणिमेदुरकान्तिम-
द्घनदलावलिसंपिहिताम्बरैः ।
सततमेव लतानिकरैर्वरै-
र्ललितनीलितनीपवनावृतम् ॥10.5॥
निबिडपल्लवराजितिरोहित-
द्युमणितापमुदार[ल]ताशतम् ।
दधतमुद्धतपुष्पभरैर्मनो-
हरतमं रतमन्दिरसन्निभम् ॥10.6॥
अति\विजृम्भितपी[^4]नमणिव्रज-
स्फुरितकान्तिभरेण विसर्पता ।
भवति वासर एव चिराय यो
घनतमोनतमोहविवर्धनः ॥10.7॥
शशिकराचितशीतकरोपल-
द्रवमन्दपयःस्नपिता सदा।
वहति यत्र कदाचिदपि स्फुर-
द्वनलता[ऽनलताप]कथामपि ॥10.8॥
रुचिरहीरकराजिविराजिते
शिरसि यस्य महोज्ज्वलतां ग[ते]।
समुदितोऽपि विधुर्न विभाव्यते
सकलया कलयापि समन्वितः ॥10.9॥
सुरभिसुन्दरकुन्दलतावल-
त्कुसुमसङ्गतभृङ्गनिनादितम् ।
चकितचारुचमूरुचयाचितं
सुविपिनं विपिनद्धमहीरुहम् ॥10.10॥
शिखिगणेन मनोरमकेकया
मदयता हृदयान्यपि योगिनाम् ।
प्रतिपलं किल यत्र विषेव्यते
धनवनी नवनीरदमेघया ॥10.11॥
सुरभिशीततमेन नभस्वता
मृदुलयापि च पल्लवशय्यया ।
वपुषि येन चिराय निधीयते
रुचिरता चिरतापभृतामपि ॥10.12॥
दलितमत्तमतङ्गजशोणित-
प्रकरपूर्णमृगेन्द्रनखद्युतिः ।
दिशति यत्र पलाशमहीरुहां
मुकुलताऽऽकुलतां जगमानसे ॥10.13॥
मसृणमञ्जुहरिन्मणिमेदुर-
स्थलपरिस्खलदंघ्रिचयान् मृगान् ।
(54b)दधति यत्र सुखेन तरक्षवो
द्रुततया ततयापि समुन्नतान् ॥10.14॥
आदिकुलप
अथ पृथातनयो विनयोज्ज्वलो
नगविलोकिनमाह मुरद्विषम् ।
विमलयन् गगनं हसितामृतो-
ल्लसितया सितया दशनश्रिया ॥10.15॥
इह नवोद्गतशोणमणित्विषां
ततिषु संवलिताः खलु भास्वतः ।
दधति निष्कलतां रुचिराजयो
हरिपुरो रिपुरोषचया इव ॥10.16॥
ललितपल्लविताखिलपादपे
मृदुचलन्मलयानिलशोभिनि ।
सततमत्र समुद्यति माधवे
वलति का लतिका न घनद्युतिः ॥10.17॥
इममुदारतरं मुदमुत्तमां
विरचयन्तमवाप्य महीधरम् ।
अभिलषन्ति कदापि हृदाप्यहो
न विबुधा विबुधालयसंस्थितिम् ॥10.18॥
ललितगीतिषु तालविलासत-
श्चलितबाहुमृणालसमुद्गतैः ।
इह पतत्त्रिकुलानि चलीकृता-
न्यबलया वलयावलिशिञ्जितैः ॥10.19॥
ज्वलदमन्ददिनेशमणिद्युति-
स्नपितशाखमेवक्ष्य महीरुहम् ।
इह वहन्ति भयानि पतत्त्रिणों
भुजगराजगरानलशङ्कया ॥10.20॥
इति विलोकय कौतुकमुच्चकै-
रनुसरञ्छनकैरिह शौनिकः ।
समधिगत्य वना(55a)न्तलतान्तरे
शशवरं शबरः समुदीक्षते ॥10.21॥
मृदुमनोज्ञलतावरमन्दिरे
मलयमारुतसङ्गमशीतले ।
प्रणयिनीमिह मानविनोदिनीं
सविनयं विनयन्ति विलासिनः ॥10.22॥
सुरतकेलिकलासु कलावती
ललितहासरसादिभिरुच्चकैः ।
मुदमुदञ्चयतीह सदा स्मरो-
द्धुरतरा रतरागिणि वल्लभे ॥10.23॥
अयमुदारतरो गिरिरुच्चकैः
सरससारसनादितयानिशम् ।
वहति मेखलया द्युतिमुत्तमां
घनवितानवितायितशोभया ॥10.24॥
हरिमिवोल्लसितं वनमालया
हरमिवोदितभूतिविभूषितम् ।
श्रयति सौख्यममुं जनता श्रिता
विकलिता कलितापशतैरपि ॥10.25॥
दयितयानुगतेन विलासिना
ललितरङ्गतरङ्गवतानिशम् ।
सुरगणेन मुदैष निषेव्यते
समदनो मदनोदितचेतसा ॥10.26॥
मृगदृशामपराधपरायणे
प्रिय[त]मे बत कोपकथामपि ।
अपनयन्ति रुतैरिह कोकिलाः
किल रसालरसादनदर्पिताः॥10.27॥
इह समुच्छ्रितश्रृङ्गपरम्परा
विकटसङ्कटकोटिषु भास्वतः ।
वहन्ति हन्त रथं कथमप्यसौ
चतुरगा तुरगावलिरन्वहम् ॥10.28॥
विहरदम्भसि पल्वलसम्भवे
चलदपि स्थलनिर्मल(55b)वल्लिषु ।
चपलचिल्लकपातविशङ्कितं
विकुलमाकुलमाशु निलीयते ॥10.29॥
द्युमणितत्पतनुः करशीकरैः
सततमेव शिशुं परिषिञ्चती ।
गजवधूरिह वारिणि वीक्ष्यते
सकलभा कलभाषिणि सारसे ॥10.30॥
मुखरकिङ्किणिकारवबोधित-
श्चकितचारुविलोलविलोचनः ।
रुचिमयं रथमाकुलमीक्षते
मृगगणो गगनोदरगं रवेः ॥10.31॥
नवहरिन्मणिकान्तिकरम्बिते
निवसतां वरकन्दरसीमनि ।
समुदितोऽपि चच पेचकपक्षिणां
दिनकरो न करोति मनोभयम् ॥10.32॥
इह मनोज्ञतमेन नभस्वता
शबरराजबधूरनुरञ्ज्यते ।
विशदवंशवनानि शनैः शनै-
र्ध्वनयता[नयताऽऽननविश्रमम्]॥10.33॥
इह लताभवनेऽतिसुशीतले
मणिशिलातलतल्पनिषादिनी ।
स्वपिति कामवती श्रममन्थरा
विगतरागतराधरपल्लवा ॥10.34॥
इह विकासितकिंशुकपादपो
ललितकोकिलनादविनोदवान् ।
सततमेव वनानि विभूषयन्
सुमधुरा मधुरातनुते लताः ॥10.35॥
भ्रमति चारु करोति कलध्वनिं
विशति पत्रचये द्रुतमञ्चति ।
इति निजप्रियया सह संचर(56a)-
न्निविरलं विरलंकुरुते लताः ॥10.36॥
मुदितमत्तमधुव्रतमण्डली
मधुरकाकलिकाभिरलंकृता।
इह सदैव विभाति लतावली
सकुसुमा कुसुमाकरसङ्गमात् ॥10.37॥
नवविकस्वरनिर्मलमल्लिका-
कुसुमसौरभसेव्यसमीरणः ।
इह तपर्तुरुदञ्चिततारकं
सुखमयं खमयं कुरुते सदा ॥10.38॥
निविडपल्लवभाजि लतागृहे
दयितया सह केलिपराः सुराः ।
अपि तपर्तुदिने न विदन्त्यमी
सुखरताः खरतास्तपनत्विषः ॥10.39॥
सुरभिधीरसमीरतरङ्गिते
विकसदम्बुजराजिविराजिते ।
इह विहारसुखं दयितासखः
सरसि को रसिको न विगाहते ॥10.40॥
व्यपगतालसतास्तुहिनोदया-
दतिसुशीतलहैमनमारुतैः ।
प्रमुदिताः परिरभ्य चिरं स्मरो-
द्धुरजनी रजनीषु विलासिनः ॥10.41॥
स्फुरति कुन्दलता कुसुमान्विता
वहति शीततमश्च समीरणः ।
शिशिरसङ्गमतोऽत्र सदा गिरौ
रसमयः समयः समुदञ्चति ॥10.42॥
विशदकाशविकासिदुकूलिनी
समदहंसवतंसविभूषिता ।
विकसदब्जमुखीह विलासिनां
रसमुदे समुदेति शरद्वधूः ॥10.43॥
अतिसमुच्छ्रितश्रृङ्गस(56b)मुद्गत-
त्रिदशराजवधूमुखवीक्षणात् ।
इह दिनेऽपि विधूदयशङ्किनी
कमलिनी मलिनीभवति क्षणम् ॥10.44॥
मृगपतावपि विश्रुतविक्रमे
मदभरादवलेपपरा द्विपाः ।
अनुभवन्ति सुखं सकरेणवः
समकरा मकराकुलितेऽम्भसि ॥10.45॥
वलितलोहितलोचनभीषणा
विपुलश्रृङ्गधरा वनसैरिभाः ।
दधति भीतिमुदारतरां सदा
रणरवेण रवेरपि वाजिनाम् ॥10.46॥
निबिडपङ्ककदम्बकरम्बिता
जलदजालसमानतनुत्विषः ।
विरचयन्ति च दुर्दिनदुर्दशा-
मिह वराहवरा वनसीमनि ॥10.47॥
अयमुपैति रुचिं धरणीधरो
विलसता निकरेण महीरुहाम् ।
सुरभिशीतसमीरणसङ्गतेः
प्रचलता च लतामृगशालिना ॥10.48॥
विशदशीतलवारिविराजिताः
सरससारसहंसनिनादिताः ।
इह सदा विलसन्ति सरोवराः
कमलकोमलकोकनदान्विताः ॥10.49॥
सततमस्य गिरीन्द्रशिरोमणे-
र्मसृणमञ्जुमणिव्रजकान्तयः ।
शिखरतः प्रसरन्ति सहस्रशो
मदपरादपराधगणा इव ॥10.50॥
निवसता नलिनोदरमन्दिरे
मृदुमृणाललतादलमोदिना ।
(57a)विशदहंसगणेन निधीयते
सरसता रसता सरसामिह ॥10.51॥
हुतुहुताशनधूमपरम्परा-
सुरभिताखिलकाननराजयः ।
इह वसन्ति सदैव तपस्विनो
जपरताः परतापपराङ्मुखाः ॥10.52॥
विकसितं किरणैरमृतद्युतेः
कुमुदकाननमुद्गतसौरभम् ।
विहरतीह समं दयिताशतै-
रलिनि केलिनिकेतमिहेक्ष्यते ॥10.53॥
किरणभिन्नदरीतमसः सदा
वलदमन्दमहौषधिवल्लयः ।
इह रुचिप्रकरेण समन्विता
रुरुचिरे रुचिरेण दिवानिशम् ॥10.54॥
विधुरिवातिमनोरमतां गतो
ललितकान्तिकलः कनकाचलः ।
सुमनसामयमातनुतेतरां
चिरमुदारमुदानुगतं मनः ॥10.55॥
प्रबलमत्तमतङ्गजसेवितो
वहति भूधरराजपदं सदा ।
कनकभूभृदसौ परिषेवित-
श्चमरचामरचारुसमीरणैः ॥10.56॥
तरलतारलतावरमन्दिरे
सरससारससान्द्रनिनादिते ।
विहरतीह रतीश इवानिशं
सरमणी रमणीयगुणो जनः ॥10.57॥
कामिनीमिह सुचारुहारिणीं
हारिणीं मदनतापसंपदाम् ।
(1)कामयन्त्यनुगता विभा[व]रीं
भावरीतिचतुरा विलासिनः ॥10.58॥
F.N.
(1.कामयमानं प्रेरयन्ति।)
(57b)स्वेदबिन्दुनिचयाद् घनालका
सालकाननतिरोहितातते ।
अत्र संचरति सार्वकामिके
कामिकेलिनिपुणा सुराङ्गना ॥10.59॥
सदुज्ज्वलश्रीरयमिन्दुसुन्दरो
बिभर्ति मेरुः शिखरैरनुत्तमैः ।
विलासिनः कुण्डलिनः सुभोगिनो
विलासिनः कुण्डलिनः सुभोगिनः ॥10.60॥
हरिचरणविराजमानमौलिं
बहुवयसानुगतं सुवंशजातम् ।
अमुमृषिमुपमानयन्ति लोका
बहुवयसानुगतं सुवंशजातम् ॥10.61॥
इति निगदति पार्थे वीक्ष्य मेरुं नमेरु-
व्रजरुचिरमुदारं स्फीतमालैस्तमालैः ।
मुररिपुरपि मोदं प्राप दुष्प्रापमुच्चै-
र्दधति मुदमुदारां कौ तु के कौतुके न ॥10.62॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽगमद्दिक्समः ॥10.63॥
.
\[ ***एकादशः सर्गः*** \]
अथ वीक्ष्य सुवर्णभूधरं रुचिरं दिव्यमुदारसम्पदा ।
नववारिविहारकौतुके तरसा चित्तमधात्ततो हरिः ॥11.1॥
रुचिरा रुचिरूर्जि[तं यशो]विमलं यौवनमुन्नतं मनः ।
अनुरागपरा मृगीदृशो न किमुद्दीपनकारणं हरेः ॥11.2॥
कृतभूरिविभूषणाः समं हरिणा(58a)केलिकलाविलासिना ।
करिणीरधिरुह्य सादरं ललनाः काननमुज्ज्वलं ययुः ॥11.3॥
शरदिन्दुसमाननत्विषां नवकौसुम्भमनोज्ञवाससाम् ।
सुदृशां तनुकान्तिधारया रुचिराकारमकारि काननम् ॥11.4॥
धृतकञ्चुकिपाणयः शनैरवतीर्याथ करेणुसंघतः ।
सह केलिविदा मुरद्विषा विविशुः काननमम्बुजेक्षणाः ॥11.5॥
घटमानकटाक्षसायका कुटिलभ्रूघनुरुल्लसद्गुणा ।
शुशुभे ललनावली तदा मदनस्येव घना वरूथिनी ॥11.6॥
दयिताभिरुदारमानसे विशति श्रीमति काननं हरौ ।
ऋतवो निजसम्पदूर्जिता युगपत्काननमासिषेविरे ॥11.7॥
विकसत्सहकारपल्लवैर्ललितैः कोलिलकूजितैरपि ।
मधुना समकारि कानने रुचिरा काचन कान्तिरुच्चकैः ॥11.8॥
श्रमखेदहरः समीरणो ललितं कोलिलकाकलीशतम् ।
विकसत्कुसुमानता लताः सुरभिः किं न चकार तन्मुदे ॥11.9॥
स्तवकेषु विरेजुरुच्चकैरलयः सम्यगशोकशाखिनाम् ।
जगदुन्मथितुं हुतास्तिला मधुनाग्नाविव कामसाधकाः ॥11.10॥
अतिनिर्मल(58b)मल्लिकावलत्कुसुमामोदमुदारमुद्गिरन् ।
मरुदुष्मणि मानसे हरेर्मुदमुद्दामतमामकल्पयत् ॥11.11॥
विचकास कदम्बडम्बरो व्यनदन् प्रावृषि मत्तबर्हिणः ।
त्रिजगन्मथनाय निर्भरं समनह्यन् मुदितोऽथ मन्मथः ॥11.12॥
नवव[ा]रिदगर्जमूर्जितं निनदं कौतुकिनां च केकिनाम् ।
उपलभ्य न का नितम्बिनी कृतकोपापि ययौ प्रीयान्तिकम् ॥11.13॥
विमलं वियदुज्ज्वलः शशी विशदं वारि विकासि पङ्कजम् ।
समदाः परितः पतत्त्रिणः शरदाकारि जगन्मुदावृतम्॥11.14॥
मदमांसलहंसनादिता विकसत्पङ्कजरेणुरञ्जिताः ।
रुचिरा वनराजयस्तदा मदयन्ति स्म मनो विनोदिनाम् ॥11.15॥
हिमसङ्गमशीतमारुतो विकसत्कुन्दमरन्दमोदुरः ।
रचयन् परिणाहिनीर्निशाः शिशिरः सौख्यमधान्मुरद्विषः ॥11.16॥
शरदिन्दुमुखीशतैः समं रममाणस्य हरेः परिश्रमम् ।
शमयन्ननिशं शनैः शनैर्विववौ हैमनमारुतस्तदा ॥11.17॥
परपुष्टकुटुम्बिनीरुतैः सहिता मत्तमयूरनिःस्वनाः ।
अधिकं रुचिरत्वमूहिरे गुणयोगो हि गुणा(59a)य भूयसे ॥11.18॥
अधिकोकिलकेलिकूजितं रमणीनामपि चारुभाषितम् ।
उदियाय समन्ततस्तदा तुमुलो नाद इव स्मराहवे ॥11.19॥
अथ मन्मथकोटिसुन्दरे सविधं श्रीदयिते समीयुषि ।
प्रमदासु तदा समुद्गताः प्रसभं भावतरङ्गराजयः ॥11.20॥
प्रियमानसमोहनेच्छया स्फुटयन्ती कुचकाञ्चनाचलौ ।
परिवृत्तमुखी मुहुर्मुहुः कबरीमुद्गतबाहुरस्पृशत् ॥11.21॥
अवलम्ब्य करेण नीविकां घमघर्मस्तिमितस्तनाम्बरा ।
मुरजिद्वदनार्पितेक्षणा ललना काचन मोहभूरभूत् ॥11.22॥
कुपितेव जवादुपागता भ्रमयन्ती नवनीपकोरकम् ।
हरिहासविलासमोहिता तरुणी चित्रगतेव काप्यभूत् ॥11.23॥
अतिनिश्चललोचना वलद्घनघर्मप्रकरैः करम्बिता ।
अवलम्ब्य सखीं स्थिता चिरं शरविद्धेव दृढं मनोभुवा ॥11.24॥
मुरजिद्वदनावलोकिनी तरुणी काचन चञ्चलेक्षणा ।
स्खलति स्तनशैलतोऽम्बरे कबरीमेव मुहुः परामृशत् ॥11.25॥
इति मुग्धमना नितम्बिनीनिकरः कौतुकभाजि कानने ।
वनमालिमयं समन्ततो जगदेव प्रसभं व्यलोकयत् ॥11.26॥
(59b)रमणीगणचित्तपूर्तये रुचिरश्रीरनुरागकर्षितः ।
भगवानपि योगमायया शतशः स्वीयतनूरकल्पयत् ॥11.27॥
चतुरैर्दयिताशतैः समं रममाणे मुदिते रमापतौ ।
कुसुमेषुरजस्रमर्जयन् निजसाम्राज्यभरानजृम्भत ॥11.28॥
कुसुमानि निजैः कराम्बुजैर्मुहुरादाय जवादुपागताः ।
कुतुकेन मुरारिमस्तके व्यकिरन् सादरमब्जलोचनाः ॥11.29॥
सुदृशः कुसुमानि कौतुका[द्]द्रुतमादातुमुदीर्णबाहवः ।
रचिताः स्तनवस्त्रहारिणा हरिणा कोपवलत्त्रपालसाः ॥11.30॥
कनकाभकदम्बकोरकै[र्गुलिका]स्त्रैरिव कामधऱन्विनः ।
विदधुः कपटाहवं तदा कुतुकोत्फुल्लविलोचनाः स्त्रियः ॥11.31॥
अधरं[भ्रमरेण खण्डितं]दयित!द्रागवशोच्यतामिह ।
गदितः प्रययेति सादरं हरिरालिङ्ग्य चिरं चुचुम्ब ताम् ॥11.32॥
दयितो नवपल्लवभ्रमात् प्रणयिन्याः करमग्रहीन्मुहुः ।
हसितोऽपि चिरं सखीजनैर्घनघर्माम्बुभिरेव बोधितः ॥11.33॥
दयितेन भृशं कुतूहलात् स्थलपद्माहतया मृगीदृशा ।
तरसा यदकारि सीत्कृतं मदनस्तेन कृतार्थतामगात् ॥11.34॥
घनघर्मकरम्बिताम्बरे(60a)कुचशैले स्फुटतामुपेयुषि ।
सुदृशा नवकेसरावलीरजसाकारि चिरं निगूहनम् ॥11.35॥
अवधूय रसालमञ्जरीर्घनमादाय परागमञ्जसा ।
व्यकिरन् कुतुकात् परस्परं निभृतं नेत्रदलेषु सुभ्रुवः ॥11.36॥
नवनीपपरागशङ्कया प्रणयिन्या नयने निमीलिते ।
दयितोऽथ चुचुम्ब सादरं चतुरश्चारुतरं तदाननम् ॥11.37॥
अतिकोमलमल्लिमालया दयितेन प्रसभं समाहता ।
कुपितेव शनैरताडयत् सुमुखी तं च पलाशपल्लवैः ॥11.38॥
कुसुमप्रकरैः करम्बितां कबरीमब्जदृशो निभालयन् ।
अवलेपमधात्तदा[भृशं]रसिकः केलि[कि?]कलापकेष्वपि ॥11.39॥
निभृतं कुतुकेन कामिनं निवसन्तं गहने लतागृहे ।
अवलोक्य चिरान्मृगीदृशः करतालोत्तरलं मुदाहसन् ॥11.40॥
रुचिराणि सुचारुसौरभैरधरोदारमधूर्जितानि च ।
मुखवारिरुहा[णि]सुभ्रुवां भ्रमरा निर्भरमासिषेविरे ॥11.41॥
प्रमदातनुविच्युतैर्वनं रुचिराकारमभूद्विभूषणैः ।
हरिकेलिविलोकनोत्सवाद्वरतारानिकरैरिवा[चि]तम्॥11.42॥
स्खलिता कबरी च्युताः स्रजो गलितं पत्रमभूषणा तनुः ।
(60b)पुपुषुस्तदपि श्रियं परां प्रमदाः किं रुचिरस्य भूषणैः ॥11.43॥
घनघर्मकरम्बिता तनुर्विततश्वासविशुष्कमाननम् ।
सुदृशां स्तनभारमन्थरा गतिरासीदलसं च मानसम् ॥11.44॥
हृतचम्पकचारुसौरभो विकसत्कुन्दमरन्दतुन्दिलः ।
श्रमवारि विहारसम्भवं ललनानां मृदुमारुतोऽहरत् ॥11.45॥
घनचन्दनसेकसङ्गिना व्यजनानामनिलेन वीजिताः ।
विजहुः श्रममम्बुजेक्षणा नवताम्बूलनिषेवणादिभिः ॥11.46॥
विहरन्नपि कानने घने दयिताभिः सममब्जलोचनः ।
जलकेलिषु चित्तमादधे विविधेष्टं हि मनो विनोदिनाम् ॥11.47॥
करिणीभिरिवोन्मदद्विपाः सुरनारीभिरिवेश्वरा दिशाम् ।
सहिता दयिताभिरादराद्यदुवीरा दिविषन्नदीं ययुः ॥11.48॥
वरसारसहंसनिःस्वनैर्विकसच्चारुसरोरुहानना ।
द्युनदी जगदीशमाह्वयत् प्रणयेनेव तरङ्गपाणिभिः ॥11.49॥
मृदुशीकरिभिः समीरणैर्वलदम्भोरुहचारुसौरभैः ।
सुरराजनदी[मृ]गीदृशां मुदमुद्दामतमामकल्पयत् ॥11.50॥
अथ वारिविहारकौतुकप्रसरन्निर्भरमोदमेदुराः ।
सलिलं विविशुर्मृगीदृशो(61a)द्रुतमन्योन्यकरावलम्बितैः ॥11.51॥
परिपीनपयोधराचलैर्निहता, सर्वत एव सुभ्रुवाम् ।
सभया इव वारिभङगयस्तरसैवापरतीरमाश्रिताः ॥11.52॥
पुलिनानि रनितम्बडम्बरैः स्फुरदम्भोजकुलानि लोचनैः ।
अलिकेलिरुतानि भाषितैर्विजितानि प्रमदाभिरञ्जसा ॥11.53॥
कृतकोप इवाम्बुना मुहुर्दयितेनाभिहता मनस्विनी ।
कुचशैलयुगेन कामिनी कुटिलभ्रुर्द्दढमाजघान तम् ॥11.54॥
कुतुकोल्लसिता मृगीदृशः प्रसरत्कोपकषायिता इव ।
सिषिचुः सलिलैः परस्परं वलयध्वानमनोहरैः करैः ॥11.55॥
सुदृशः परिवार्य सर्वतः सिषिचुः कामपि केलिगर्विताम् ।
अथ सापि सि[षेच]तास्तदा नतवक्त्रैव भिया न निर्ययौ ॥11.56॥
नवनीरजकानने घने निवसन्त्याः कुतुकान्मृगीदृशः ।
मुखमब्जिधिया परामृशन् हसितः कश्चन कामिनीगणैः ॥11.57॥
जलसिक्तमुखी यदञ्जसा ललना चारु चकार सीत्कृतम् ।
अतनोरपि तत्तदाभवत् त्रिजगन्मोहनसिद्धिरुद्धता ॥11.58॥
अतिगर्ववशादुपागता तरुणी कापि समीपमञ्जसा ।
वरबाहुयुगेन निदयं दयि(61b)तेन द्रुतमेव सस्वजे ॥11.59॥
चलितोऽपि जवेन[व]ल्लभो द्रुतमादाय सनालमम्बुजम् ।
अथ वीक्ष्य मुखं मृगीदृशो हृतचेता इव तस्थिवांश्चिरम् ॥11.60॥
कुतुकोत्तरलेन केनचित् कुचशैलादपसारितेऽम्बरे ।
अरुणानतलोचना तदा चिरमाकण्ठममज्जदम्भसि ॥11.61॥
जलकेलिपराङ्मुखीं रुषा तरुणीं कामपि चीरचारिणीम् ।
उपगृह्य तदानयद्बलादबला वारि गभीरमञ्जसा ॥11.62॥
परितः परिवार्य सुभ्रुवः प्रणयक्रोधभरारुणाननाः ।
करवारिजवारिशीकरैः सिषिचुर्माधवमानताननम् ॥11.63॥
अध[रश्च्यु]तरागभूषणोऽरुणमक्षिद्वयमाकुलाः कचाः ।
मुखमुच्चमुदारसीत्कृतं सुदृशां नीरनिषेवणादभूत् ॥11.64॥
सभयेव निमज्जती जले कपटात् काचन चञ्चलेक्षणा ।
सविधेऽपि समस्तसुभ्रुवां प्रियकण्ठग्रहसौख्यमन्वभूत् ॥11.65।
निभृतं समुपेत्य कौतुकात् कुचशैलेऽर्पयति प्रिये करम् ।
चकितानतभङ्गुरभ्रुवा सुदृशाकारि भृशानतं शिरः ॥11.66॥
प्रमदा मदमेदुरान्तरा रुचिरोदारविहारमन्त[रा]।
अतिकम्पकरम्बिता गिरः प्रवदन्त्यो युवचित्तमा[हरन्]॥11.67॥
हरतापि विभूषणश्रियं घनकम्पप्रसरप्रदायिना ।
अधिकः समकारि वारिणा रमणीनां रमणीयतामदः ॥11.68॥
दवदब्जदृशां चकाशिरे कुचशैलेषु नखक्षतस्रजः ।
त्रिजगद्विजयोर्जितौजसो मदनस्येव यशःप्रशस्तयः ॥11.69॥
घमकम्पभृतो मृगीदृशामधरा वागमृतैः करम्बिताः ।
तुहिनस्तिमितैर्दधुस्तुलामनिलान्दोलितवल्लिपल्लवैः ॥11.70॥
कुचकुङ्कुमकर्दमोत्करैर्नवकौसुम्भरसैश्च वाससाम् ।
अनुरागवतीव माधवे द्युनदी द्रागरुणां रुचिं दधौ ॥11.71॥
हरिवारिविहारकौतुकं ललितं वीक्षितुमुत्कचित्तया ।
सुदृशेव घनाम्बराशया विचकाशेऽम्बरसीम्नि सन्ध्यया ॥11.72॥
चरमाचलबन्धुजीवकस्तबकस्तोमरुचौ दिवाकरे ।
हृदयानि रथाङ्गपक्षिणामामदुनोद् भाविवियोगवेदना ॥11.73॥
ददता करम्बरान्तरे स्फुरदस्ताचलकुञ्जचारिणा ।
दयितेव चिरानुरागिणा चरमाचुम्बि दिगुष्णभानुना ॥11.74॥
वियदङ्गनविद्रुमस्थली दिवसाशोकविलोलपल्लवम् ।
चरमाचलकुम्बिकम्बलो विमलोऽलक्ष्यत भा(62b)नुमण्डलः ॥11.75॥
नयनं जगतामधीशितुर्विमलानामवलम्बनं रुचाम् ।
निपपात तथापि भास्करो विधियोगः किल केन वार्यताम् ॥11.76॥
मिहिरेऽस्तगते निमीलिता नलिनी विष्णुपदं मलीमसम् ।
विरहाकुलिता च चक्रिणी तनुते किं न विपन्महौजसाम् ॥1.77॥
अथ धीरतरः समीरणः कुसुमामोदमुदारमुद्गिरन् ।
हिमशीकरसङ्गशीतलो मदयामास मनो विनोदिनाम् ॥11.78॥
अथ वदनविसारिसीत्कृताभि-
र्घनतरकम्पतरङ्गितस्तनीभिः ।
सममखिलकलाविलासिनीभिः
प्रभुरपि तीरमगात्तदाम्बुनद्याः ॥11.79॥
[ल]सन्नितम्बस्तनभारमन्थरै-
र्विमुच्यमानं प्रमदाकदम्बकैः ।
वियोगदुःखादिव लोलतां गतं
सुरापगावारितटान्तमुद्ययौ ॥11.80॥
मुकुलितनलिनानि प्रोल्लसत्कैरवाणि
प्रसृमरतिभिराणि ध्वस्तसूर्यातपानि ।
मदमुदितचकोरीनादसान्द्राणि कामं
दधुरधिकमनोज्ञां कान्तिमाशामुखानि ॥11.81॥
प्रत्यङ्गसङ्गतकुरङ्गमदं मनोज्ञं
वैदूर्यहारमपि नीलनिचोलमुच्चैः ।
एणीदृशां रमणवेश्मविनिःसृताना-
मुक्तार्थ(63a)यन्निव रराज घनान्धकारः ॥11.82॥
आलिम्पन्निव निर्भरं दशदिशः कालागुरूणां रसै-
रातन्वन्निव भूषणं त्रिजगतां सान्द्रेन्द्रनीलोत्पलैः ।
तल्पं संपरिकल्पयन्निव दिवस्तापिच्छवल्लीदलैः
प्रत्याशं च समुल्ललास तरसा गाढान्धकारोत्करः ॥11.83॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
पूर्णः श्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽयमेकादशः ॥11.84॥
.
[ द्वादशः सर्गः ]
उद्भासयन्नथ नभः कनकावदातै-
स्तेजोभि[र]ज्बविनिमीलनसिद्धमन्त्रः ।
आनन्दयन् कुमुदकाननमुद्धतश्रीः
शीतद्युतिः कनकशैलमलंचकार ॥12.1॥
उज्जृम्भमानघनभासि तुषारभानौ
स्फीता दिशो दश विनोदपराश्चकोराः ।
आनन्दिनी कुमुदिनी विमलं विहायः
को वा बिभर्ति न सतामुदयेन मोदम् ॥12.2॥
सञ्चारयन् मृदु[करान्]परितः प्रजाना-
मासञ्जयन् मुदमुदारतराननश्रीः ।
स्फीताम्बरप्रचुरकान्तिभराभिरामो
राजा जगद्वलयमुज्ज्वलयांचकार ॥12.3॥
(63b)चामीकराचलशिरोविशदातपत्रं
पौरन्दरोज्ज्वलहरिद्वदनारविन्दम् ।
व्योमाङ्गनारुचिरदर्पणबिम्बमारात्
सौधाकरं सपदि मण्डलमुल्ललास ॥12.4॥
आरोपितो वियदनर्गलवेदिकायां
पीयूषपूरहविरुद्गतकान्तिबिन्दुः ।
चेतोऽनिशं वशयितुं रसिकस्य काल-
होत्रा हुतो मदनवह्निरिवाविरासीत् ॥12.5॥
उद्यत्तमालदलभासिनभोवकाशे
रेजुर्निशाकरकरप्रकरास्तदानीम् ।
विस्तारिता इव हरिन्मणिवेदिकाया-
मुद्दामकुङ्कुमरसाः कुसुमायुधेन ॥12.6॥
शोणाम्बुजैरिव वियद्वरुणालयस्य
रक्तांशुकैरिव निशामणिमेखलायाः ।
काश्मीरपङ्कनिकरैरिव दिग्वधूना-
मुद्भासितं भुवनमिन्दुमहःप्रतानैः ॥12.7॥
ताराभिरामगजमौक्तिकपंक्तिहार-
हृद्येन निर्मलगुणोत्करगुम्फितेन ।
वक्षःस्थले ललितभासि निशारमण्या
मणिक्यनायकदशापि सुधाकरेण ॥12.8॥
विभ्राजमानघनकान्तिसमुज्जिहान-
ज्वालाशतो वितततीव्रकलङ्कधूमः ।
आदीपयन् वियदुदारवनीमनेकां
दावानलो विधुरमानि वियोगिनीभिः ॥12.9॥
सङ्गार्थिनी ललितमन्मथव(64a)ल्लभस्य
रात्रिर्वियद्विमलतल्पतले निषण्णा ।
संवीक्षितुं मुखमुदारतरं दधार
प्रोद्दामदर्पणमिषेण शशाङ्कबिम्बम् ॥12.10॥
विभ्राजमानवदनानि हरिद्वधूना-
मामोदयन् कुमुदकाननसौरभेण ।
शीतो मुहुस्तुहिननीरनिषेवणेन
सायन्तनो हृदि मुद पवनस्ततान ॥12.11॥
तिग्मद्युतौ विरतिभाजि यदन्धकार-
वारांनिधौ निरवधौ जगदाममज्ज ।
द्रागुद्यता तदुदधारि करोत्करेण
शीतांशुना किमुरुधामभृतामशक्यम् ॥12.12॥
शीतद्युतिद्युतिनिरस्तसमसस्तशोभा-
सर्वस्वमब्जुजवनं तरसा विहाय ।
श्रीरध्युवास कुमुदेषु मुदा तदानीं
निःस्वेषु कः प्रणयमर्हितमादधाति ॥12.13॥
पीयूषनिर्मलजलप्रकरेण पूर्णः
कान्तिप्रवालपटलं सकलं दधानः ।
कन्दर्पमङ्गलमहाकलशः सितांशु-
रुद्यन्नभःस्थलमलङ्कतमाततान ॥12.14॥
श्रीमान् वियद्विपिनसीम्नि यथायथाव-
त्तारापतिः करमुदारतरं ततान ।
दिक्चक्रवालभुजगप्रकरस्थथैव
यद्यो जरत्तिमिरकञ्चुकमुन्मुमोच ॥12.15॥
स्फीताम्बरा चलचकोरविशालनेत्रा
तारोल्लसद्विमलभूषणसंहितश्रीः ।
चन्द्रानना कुमुदसौरभसम्भृताङ्गी
सं(64b)मोदमाशु रजनीरमणी वितेने ॥12.16॥
आलम्ब्य निर्मलकरैः स्फुरदम्बरान्तं
कान्ते मुदान्तिकमुपेयुषि शीतभानौ ।
ध्वान्तांशुकं तुहिनघर्मकरम्बिताया
द्रागापपात रजनीनलिनेक्षणायाः ॥12.17॥
शुभ्रे निशाकरकरैर्गगनेऽतिमन्द-
मावाति कैरववनीपवनेऽतिशीते ।
आनन्दितैर्यदुगणैः सह कामिनीभि-
रारेभिरे सपदि कामकलाविलासाः ॥12.18॥
संकेतकेतकनिकुञ्जगतागताभ्या-
माकल्पतल्पपरिकल्पनया च भूयः ।
दौत्यैः परस्परकृतैरनुरागभाजां
सा यामिनी पदमभूत्कमनीयतायाः ॥12.19॥
उत्फुल्लकैरववनीकमनीयसान्द्र-
सौरभ्यसारसुभगेन समीरणेन ।
स्वैरं चकोरचरितैरपि मानिनीनां
मानापनोदनविधिं विधुराततान ॥12.20॥
उद्दामकामहिमधाभसमीरणादि-
संतप्यमानमनसः सुचिरं युवानः ।
एणीदृशां चरितचारुसुधासमुद्र-
संगाहनान्मुदमुदारतरामवापुः ॥12.21॥
केचित् समुत्सुकहृदो निबिडानुरागा
द्रागागता ललितकेलिनिकुञ्जगेहम् ।
तत्रासमीक्ष्य दयितामतितापभाज-
स्तद्वर्त्मदत्तनयना मु(65a)मुहुर्युवानः ॥12.22॥
अङ्गेषु चन्दनरसं मृगनाभिबुद्ध्या
वासः सितं मलिनचोलधियार्पयन्ती ।
संप्रस्थितै रमणवेश्म मुदा तदानीं
काचिद् न्यषेधि सहसैव सखीजनेन ॥12.23॥
संप्रस्थिता तमसि सान्द्रमसीसमाने
स्वैरं सरीसृपपरीतपथा कथञ्चित् ।
काचित्तदा कुलकलङ्कभयप्रदत्त-
तोयाञ्जलिः प्रणयमुज्ज्वलयांचकार ॥12.24॥
दूतीकरार्पितकरा दलदिन्द्रनील-
सान्द्रद्युतौ तमसि काश्चन मोहवत्यः ।
एणीदृशः फणिफणमणिरश्मिजालै-
रालोक्य केलिवनवर्त्म दधुः प्रमोदम् ॥12.25॥
[शू]न्या दिशो दश विषं विषयाभिलाषः
कामो यमस्तुबिनभानुरसौ कृशानुः ।
प्राणैः शपे सुमुखि! संप्रति संप्रतीहि
जीवोऽपि मे खलु दुनोति मनोऽनुवेलम् ॥12.26॥
इत्यादिवाग्विलसितैरनुमीयमान-
मानातिरेकवलितापि चिरं प्रियेण ।
अश्रूणि काचन तदा प्रमदा मुमोच
तन्नास्ति यच्चतुरचारुगिरामसाध्यम् ॥12.27॥
कुलकम् ।
कामोपमाः सुरतकेलिविलासभाजो
राजोचितप्रचुरभूषणभूषिताङगाः ।
सार्धं प्रियाभिरनुरागरसार्द्रचित्ताः
स्वैरं पपुर्मधु मनोज्ञगुणं युवानः ॥12.28॥
एणीदृशां वदन(65b)वारिरुहाणि रेजु-
रुज्जम्भमाणमधुकाञ्चनभाजनेषु ।
आसेवितुं हृदयमाशु विलासभाजा-
मभ्यागता इव विमोहकरा विकाराः ॥12.29॥
आपीय सीधु मधुरं सुचिरं विमूढा
शोणाननाम्बुजरुचिस्तरसालसाङ्गी ।
व्याघूर्णमाननयना मदनानुविद्धा
सुष्वाप कापि रसिकोरसि कोपनापि ॥12.30॥
सद्योऽधरद्युतिरहारि हठादपूरि
लीलागतिर्द्रुतमकारि विकारि चेतः ।
एणीदृशस्तदपि सीधुनि सानुरागाः
को वेद वामनयनाहृदयं द्रढीयः ॥12.31॥
कान्तैः समं सुरतकेलिरसोऽनुवेल-
मेणीदृशां गलितलज्जसमज्जदुच्चैः ।
आसेविते मधुनि मुग्धदृशामुदार-
व्याघूर्णमाननयनाम्बुजशोणभासाम् ॥12.32॥
स्वेदाम्बुहारिणि मनोहरवारुणीना-
मामोदमुद्गिरति धीरतरे समीरे ।
दीर्घादरं सुरतरङ्गविधौ तदानी-
मेणीदृशो नवनवत्वमियाय चेतः ॥12.33॥
दीर्घादरं मधुमदारुणलोचनाभि-
र्विस्तारिते घनदृगन्तशते तदानीम्।
साम्राज्यमूर्जितमवाप्य मनोभवेन
नारोपितः किल करोऽपि धनुर्ललतायाम्॥12.34॥
स्वेदाम्बुसंवलितमुद्गतलोमहर्षं
पीयूषपूरघनसारतुषारशीतम्।
कामी करं हृदि(66a)[निधाय सुलोचनाया-]
स्तत्याज शम्बररिपोरपि बाणभीतिम् ॥12.35॥
आलिभ्गति द्रुतमतिप्रणयेन कान्ते
सद्यःस्फुरद्विपुलकम्पकरम्बितायाः ।
आलीव धर्मपयसा घनतामुपेता
काञ्ची कथञ्चन निचोलमुवाह तन्व्याः ॥12.36॥
कान्तेन कौतुकसमाहृतमानसेन
किञ्चिन्मुदा गदितया परिहासपूर्वम् ।
सान्तःस्मितं ललनया यदवादि सद्य-
स्तत्कस्य वा वचनगोचरतामुपैतु ॥12.37॥
स्वेदाम्बुसंवलितचारुकुचामुदार-
कम्पालसां रतपरिश्रमनिःसहाङ्गीम् ।
कान्तामसीममदमेदुरलोचनान्ता-
मालिङ्ग्य कामपि युवा मुदमाततान ॥12.38॥
स्वैरं समर्पयति कामिनि कौतुकेन
पाणिं पयोधरमहीधरयोर्नताङ्ग्याः।
सञ्जीवयन्निव मनोभवमञ्जसैव
मुग्धो न कामिनिकरः स्फुटमुल्ललास ॥12.39॥
लोलालकं चलकुचाचलयुग्ममुच्चैः
शिञ्जानकिङ्किणि रणद्घनघर्मजालम् ।
विस्तार्य चारु पुरुषायितमायताक्षी
यूनो मनोमुदमुदारतरां वितेने ॥12.40॥
ग्रस्तो महान्धतमसा सहसा सुधांशु-
रुच्चैर्मुहुर्मुहुरकम्पि कुलाचलाभ्याम्।
तारावली प्रसभमेल पपा (66b)त सद्यः
को वा[दशां वदतु]काममहीधरस्य ॥12.41॥
आस्यानि चञ्चदलकानि विलासिनीनां
स्वेदाम्बुभिः परिवृतानि चिरं निनिन्दुः।
निस्यन्दमानकरन्दरसालसानि
शैवालजालजटिलानि सरोरुहाणि॥12.42॥
[उद्दाम]कामकुतुकाहृतमानसाना-
मेणीदृशां रतपरिश्रमनिःसहानाम्।
आलिङ्ग्य तुङ्गकुचशैलतटीं पटीर-
पङ्काङिकताः प्रतिपलं मुदिता युवानः॥12.43॥
अतिलकमलकं च्युताधरश्री-
र्नखरनखक्षतदन्तुरौ स्तनाद्री।
तदपि मृगदृशो रतेऽनुरक्ताः
शिव शिव किं न मनोऊवस्तनोति ॥12.44॥
अलिभिरधिकमाद्यन्मानसैः सेव्यमानो
लुलितकुसुमतल्पामोदसम्भारगर्भः ।
श्रमजलबमलमानामा चचाम प्रकामं
रजनिविरतिशङ्काधीरधीरः समीरः ॥12.45॥
प्रियकण्ठनिषक्तबाहुमूलाः
प्रबलप्रेमभृतो विलासवत्यः ।
अधिगत्य निशावसानमुच्चैः
सहसोद्वेगमहोदधो ममज्जुः ॥12.46॥
निद्रालसामेव शनैस्तदानी-
मानीय वक्षः प्रिय आदरेण।
आलिङ्ग्य कश्चिद् दयितां विलासी
दीर्घं मुहुर्निःश्वसितं ततान ॥12.47॥
चिरेण हित्वा बत बाहुबन्ध-
मन्योऽन्यमा[लिङ्ग्य दृढं च शश्वत्]।
\उद्वेल्ल[^5]तोर्निःश्वसतोस्तदानीं
यूनोर्मनो मन्थरमाविरासीत् ॥12.48॥
बिभ्राणाः श्लथमंशुकं मधुमदाद्भूयःस्खलन्त्यो वलद्-
घर्माम्भःस्नपिताः सखीकरतटीविन्यस्त[हस्ताम्बुजाः]।
उद्यज्जागररागमेदुरदृशः प्रातः शनैर्निर्ययुः
केलीमन्दिर[तो]रतोत्सवभरायासालसाः सुभ्रुवः ॥12.49॥
उपचितदशनक्षताधरौष्ठं
वलदलकाकुलमुद्गतश्रमाम्भः।
मदमुदितदृशो मुखारविन्दं
मनसि न कस्य महोत्सवं ततान ॥12.50॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविकर्णपूरकृतिना कौतुहलान्निमिते
काव्ये चारुणि पारिजातहरणे सर्गोऽगमद् द्वादशः ॥12.51॥
.
\[ ***त्रयोदशः सर्गः*** \]
अथ निर्भरभूभारहारिणा नरकारिणा।
प्रेषितः प्राप तरसा सात्यकिः सुरपत्तनम् ॥13.1॥
आसाद्य त्रिदशाधीशसंमद शिनिपुङ्गवः ।
उवाच तरसाखर्वगर्वगर्भाः पुरो गिरः ॥13.2॥
विक्रमाक्रान्तदिक्चक्रचञ्चत्कीर्त्तिहिमद्युतेः ।
दूतोऽहं यदुवीरस्य सात्यकिस्त्वामुपस्थितः ॥13.3॥
चतुरश्चतुरम्भो(67b)धिमेखलाक्षितिनायकः ।
यदुवाच मुरारातिः सुराधीशावधेहि तत् ॥13.4॥
याचितः कतिधा नैव भवान देवद्रुमं मया।
न तथापि त्वयाकारि मयि सानुग्रहं मनः ॥13.5॥
तदायतोऽस्मि रभसादद्याहमतिथिस्तव।
समालोच्य समं स्वीयैरत्र युक्तं विधीयताम् ॥13.6॥
आवयोः सदृशी तृष्णा जिष्णो! देवद्रुमं प्रति ।
विना पौरुषमेतस्य कोऽपि नातः परं प्रभुः ॥13.7॥
इत्यालोच्य वचोऽस्माकं स्मृत्वा स्वीयं च भाषितम्।
संग्रामाङ्गणसीमानमलंकुरु बलान्तक!॥13.8॥
मद्दोर्दण्डमहोद्दण्डशरधारापराजितः ।
स्वां दिशं च न वेत्स्यन्ति कान्दिशीका दिवौकसः॥13.9॥
विद्राव्य भवदुद्दामवाहिनीगणमोजसा ।
यदकारि न केनापि तद्विधातामहाहवे ॥13.10॥
मदुद्दामगदाघातविदलद्गण्डमण्डलः ।
मदोन्म[ा]दोऽपि ते हस्ती न स्थिरीभावमेष्यति ॥13.11॥
स्वर्गिणां जीवनं सद्यः कृत्वाहिविशिखानने ।
मयाशयाम्बुजक्रोडे कृतं देवद्रुमः फलम् ॥13.12॥
कुण्डलीकृतकोदण्डो यमदण्डोपमैः शरैः ।
अद्य सद्यो विधास्यामि निर्दैवतमिदं जगत् ॥13.13॥
मद्वाहिनीगणान्दो(67b)[लालोलचेतास्तदप्रियम् ।
वि]दधातु विधातापि कथमत्यन्तशङ्कितः॥13.14॥
मयि बिभ्रति कोदण्डे के वराका दिवौकसः ।
किमुदेति तमः क्वापि प्रखरे भाति भास्करे ॥13.15॥
अञ्जसा शिञ्जिनीं शार्ङ्गे यावदासञ्जयाम्यहम् ।
विलासः सुरनारीभिस्तावदेवानुभूयताम् ॥13.16॥
[आकर्णयन्ती सेनायाः सिंहनादं ममोर्जितम्] ।
सुपर्ववाहिनी नूनं मूकतामेष्यति क्षणात्॥13.17॥
स्थितोऽसि यदि संग्रामे वीरव्रतमनुस्मरन् ।
तद् द्रक्ष्यसि मुदद्दण्डदोर्दण्डद्वयजृम्भितम् ॥13.18॥
देहि देवद्रुमं शक्र! वक्रता मयि का तव ।
प्रणयो वर्धतामुच्चैरावयोरावयोरिव ॥13.19॥
इत्यवेत्यामराधीश! मयि देहि सुरद्रुमम् ।
सीमन्तेषु सुरस्त्रीणां सन्तु सिन्दूरबिन्दवः ॥13.20॥
इति व्याख्यातमखिलं भाषितं दनुजद्विषः ।
अथ यच्च मयेदानीमुच्यते तन्निशम्यताम् ॥13.21॥
कः सहेत जगज्जैत्रं तेजो दनुजविद्विषः ।
वेगं विहगराजस्य किं रुणाद्धि सरीसृपः ॥13.22॥
दूरादपि समाकर्ण्य धनुर्ध्वानं मधुद्विषः ।
कस्तथास्ति महावीपो यो धीरो भवति क्षणम् ॥13.23॥
लीलया छिन्दतानेन बाणाबाहुमहावनम्।
रणे न गणिता रुद्राः केऽन्ये क्षुद्रा दिवौकसः ॥13.24॥
अस्ति कस्तादृशो लोके श्रीमानुग्रपराक्रमः ।
युधिः यः स्पर्धतामद्धा शार्ङ्गिणा रणरङ्गिणा ॥13.25॥
तज्जहीहि रणारम्भदम्भसम्भारमञ्जसा
भ\वेदे[^6]व तथा वह्नौ शलभस्येव ते गतिः॥13.26॥
बलफाल्गुनकामाद्याः सन्तु वीरा मधुद्विषः ।
अहमेव क्षमो हर्तुमेकः सुरमहीरुहम् ॥13.27॥
इत्युच्यमाने वचने मुहुः सत्यकसूनुना ।
तरसैव सुरेशस्य शोणत्वं दधिरे दृशः ॥13.28॥
पराहतोऽपि दूतोक्तैस्तरङ्गैरिव वारिधेः ।
तत्याज न हरिः स्थैर्यं शिलोच्चय इवोच्चकैः ॥13.29॥
अथ रोषारुणीभूतलोललोचनरोचिषा ।
शोणयन् संसदागारमवदत्पाकशासनः ॥13.30॥
पुरैव श्रुतमस्माभिर्नारदात्तदुदीरितम् ।
शैनेय! नाधिकं किञ्चित् त्वयाद्य विनिवेद्यते ॥13.31॥
परं तु यदि संग्रामकामस्ते यदुनन्दनः ।
तदायातु समं स्वीयैरशनेरस्य संमुखम् ॥13.32॥
गाढाहङ्कारझङ्कारक्रूरा यदुपतेर्गिरः ।
यास्यन्ति व्यर्थतां सद्यः शरद्घनरवा इव ॥13.33॥
मौनमाश्रयते सूर्यस्त्रिलोकीं तापयन्नपि ।
न प्रायः[शक्तिमन्तो हि वृथावाग्जाल] वल्गिनः ॥13.34॥
लालितोऽपि मया कृष्णः प्रकाशयति वक्रताम् ।
सुधासिक्तोऽपि सन्तापमातनोति हुताशनः ॥13.35॥
वर्धितस्तापयत्युच्चैर्दहत्याशु स्वमाश्रयम् ।
स्वभावः(69a)कोऽपि दुर्ज्ञेयः खलस्य ज्वलनस्य च ॥13.36॥
स्नेहैः संवर्ध्यमानोऽपि मालिन्यं तनुतेऽधिकम् ।
न मुञ्चति त कौटिल्यं पिशुनः केशपाशवत् ॥13.37॥
समुदेति प्रदोषेषु न तेजः सहते क्वचित् ।
अन्धकार इव क्रूरः सदा जगति दुर्जनः ॥13.38॥
तिरस्करोति गर्वान्धो गुरूनपि गतत्रपः ।
आन्दोलयति किं मेरुशिखरं चञ्चलोऽनिलः ॥13.39॥
यदवादि मुकुन्देन निजवीर्यमदोष्मणा ।
तद् युक्तमेव वीराणां यदि स्थाता स सङ्गरे ॥13.40॥
क्व तेजः सुरवीराणां जगद्विजयजाङ्घिकम् ।
क्व मानवगणैर्युद्धं विदधाति न किं विधिः ॥13.41॥
मन्महाशनिसम्भूतज्वालाजालमहानलः ।
भूलोकं भस्मसात् कर्ता [वीक्षमाणे]मधुद्विषि ॥13.42॥
क्षान्तमेव मया सर्वं यदवादि मधुद्विषा।
दूषणेऽपि यदज्ञानामज्ञतैव समर्थनम् ॥13.43॥
यातु सत्वरमद्यापि निवृत्य यदुनन्दनः ।
न सन्तु यदुवीराणां दारा हारावकर्षिताः ॥13.44॥
इतिवादिनि सक्रोधं पुरुहूते मुहुर्मुहुः ।
प्रत्युवाच शनेर्नप्ता सप्तार्चिरिव संज्वलन्॥13.45॥
उक्तमुक्तं हरेरद्य तवापि श्रुतिमीरितम् ।
कलहे युवयोरिन्द्र!भद्रं नाकलयाम्यहम् ॥13.46॥
परं त्वहमिदं मन्ये दृष्टतद्वीर्यवैभवः ।
हस्त एवास्ति विन्यस्तः कंसारेर्दैवतद्रुमः ॥13.47॥
विक्रमाक्रान्तदिक्चक्रे धृतचक्रे मुरद्विषि ।
पुरुहूतादयो देवाः के वा सङ्गरसीमनि ॥13.48॥
तदुपेहि सगीर्वाणगणो मानोन्नतो रणम्।
केसरीव करीन्द्रं त्वां लक्ष्मीशश्चिरमीक्षते ॥13.49॥
इति सात्यकिरत्युग्रगर्वगर्भमुदीरयन् ।
जगाम तदनुज्ञातः सविधं मधुवैरिणः ॥13.50॥
प्रयातेऽथ मुकुन्दस्य दूते रोषारुणेक्षणे ।
चकार स्वबलं सज्जमूर्जितश्रीः पुरन्दरः ॥13.51॥
तर्जयन् जगतीमुच्चैरूर्जितैर्गजगर्जितैः ।
प्रतस्थे समरारम्भदम्भो दम्भोलिभृत्स्वयम् ॥13.52॥
अथैरावणमुद्दाममारोहति पुरन्दरे ।
द्रुतमारुहुहुर्देवाः स्वानि यानानि सर्वतः॥13.53॥
समीक्ष्य समरोद्योगमपर्वणि सुपर्वणाम्।
असुरत्राससंमूढा मुमुहुः सुरसुभ्रुवः ॥13.54॥
सम्भाव्यविरहव्याधिमुग्धा यदमरस्त्रियः।
व्रजतां सुरसङ्घानां तदेवासीदमङ्गलम् ॥13.55॥
उद्धतध्वजिनीनादैर्धनुर्ध्वानैश्च सर्वतः ।
नादयन्तो दिशः सर्वाः सुपर्वाणः प्रतस्थिरे ॥13.56॥
विभूषणगणोद्द्योतविद्योतितनभस्थलाः ।
ध्वजि(70a)नीं भूषयामासुः कुञ्जरा मदमेदुराः ॥13.57॥
दन्तिदन्तसमोद्दामबाहुमण्डलमण्डिताः ।
ययुः समरसंरम्भदम्भपूर्णाः पदातयः ॥13.58॥
नर्तयन्तस्तुरङ्गालीः प्रासोल्लासितपाणयः ।
अश्ववारवराश्चेरुर्दर्पा इव शरीरिणः ॥13.59॥
अन्वीयमानस्तरसा सुपर्वभिरखर्बधीः ।
जगाम समरारम्भदम्भो दम्भोलिभृत् स्वयम् ॥13.60॥
धूमधूम्रच्छवीः कुर्वन् परितो हरितोऽनिशम् ।
उद्धतं प्रययौ यौद्धुं प्रज्वलन् ज्वलनः स्वयम् ॥13.61॥
महोद्दण्डेन दण्डेन ब्रह्माण्डं दण्डयन्निव ।
प्रययौ शमनः शीघ्रमरातिशमनाशया ॥13.62॥
प्रज्वलज्जलनाकारा महोदारास्त्रपाणयः ।
लक्षशो राक्षसा जग्मुर्योद्धुमुद्धतचेतसः ॥13.63॥
कल्पयन् प्रलयाशङ्कामकालेऽपि जलोत्करैः ।
जगाम समराशंसी पाशी पाशयितुं द्विषः ॥13.64॥
कम्पयन् प्रबलैर्वेगैः सर्वतः कुलपर्वतान् ।
आन्दोलयामास महीमञ्जसैव प्रभञ्जनः ॥13.65॥
गलहालाहलज्वालाजटालैर्लोचनानिलैः ।
रुद्रा विद्रावयामासुर्दिशामाशु प्रसन्नताम् ॥13.66॥
उद्दामसमरारम्भदम्भसम्भारसम्भृतः ।
गदापाणिरुदारश्रीर्यक्षेशोऽपि क्षणाद् ययौ ॥13.67॥
आजगाम न यच्छेषः प्रत्यात्यपि दिवस्पतौ ।
(70b)तेनैव प्राप स प्रौढां पीडां भुवि भरार्दितः ॥13.68॥
किरणैः क्रोधपूर्णानामचिरेण सुपर्वणाम् ।
कोटिसूर्योर्जितद्योतिविद्योतितमभून्नभः॥13.69॥
निनदेन महोद्दामवरूथिन्या बलद्विषः ।
भुवनानि महोत्पातवातेनेव चकम्पिरे ॥13.70॥
हरिरैरावतस्कन्धनिषण्णः क्षितिमण्डले ।
अर्पयामास दर्पेण दृशः कोपकषायिताः ॥13.71॥
कलयन्निव संग्रामे सुरराजपराजयम् ।
बलधूलीभरव्याजान्मन्दतापाम भानुमान् ॥13.72॥
सर्पतां परितः प्रौढगजानामूर्जितत्विषाम् ।
निपेतुर्मुशलाकारा मदधारा महीतले ॥13.73॥
आपवन्ती जवाद् वाजिराजिरत्युज्ज्वल[ा]कृतिः ।
व्यलोकि कुतुकोत्फल्लैः सुरगङ्गेव गां गतैः ॥13.74॥
वैमानिकविमानौघज्योतिर्मण्डलमण्डिते ।
व्योम्नि व्याजृम्भमाणोऽपि दिदीपे दिवाकरः ॥13.75॥
यावदाकर्णयन्नादमुत्पश्यति वियज्जनः ।
तावदेव सुराधीशध्वजिनी मेदिनीमगात् ॥13.76॥
अथ देवबलोद्दामवेगवायुपराहता ।
चकम्पे मृदुशम्पेव मेरोः शिखरसंहतिः ॥13.77॥
तुरङ्गमरवैरुग्रैरूर्जितैर्गजगर्जितैः ।
वसुधा ब(71a)हुधा कम्पमाबभार भयादिव ॥13.78॥
नलिनान्दोलिना चारुशीकरोत्करशालिना ।
रचिता विहितायासाः समीरेण दिवौकसः ॥13.79॥
अथ विविधविनोदानादधानो निकामं
रुचिरकनकशैलाभ्यासमासाद्य सद्यः ।
द्रुविणमिव दरिद्रः काङ्क्षमाणो मुकुन्दं
सुरपतिरमितश्रीर्यामिनीं तामनैषीत् ॥13.80॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
पूर्णः श्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽग्निचन्द्राङ्कितः ॥13.81॥
.
[ चतुर्दशः सर्गः ]
अथोद्धतैर्देवपतेर्वचोभिर्निवेद्यमानैः शिनिपुङ्गवेन ।
समीरवेगैरिव रोहिताश्वो हरिस्तदानीमधिकं दिदीपे ॥14.1॥
अखर्वगर्वं बहलं बालेर्यथा यथा सात्यकिराशशंस ।
तथा तथा कोपकषायितश्रीर्ददौ दृशं चक्रधरः स्वचक्रे ॥14.2॥
अथोग्ररोषारुभीषणश्रीर्ललाटबद्धभ्रुकुटीतरङ्गः ।
निर्यातुमत्यूर्जितबाहुवूर्यो बलानुजः स्वं बलमादिदेश ॥14.3॥
गुणान्ममोज्ञादिव कीर्तिधारास्त्रिनेत्रनेत्रादिव वह्निभासः ।
अपामधीशा(71b)दिव भङ्गसङ्घा गिरेर्निरीयुर्मुरजिद्घ्वजिन्यः ॥14.4॥
उदग्रवेगातुलदर्पभाजस्तुरङ्गमानध्वनि नर्तयन्तः ।
सुवर्णसन्नाहभृतोऽश्ववाराः प्रासोल्लसत्पाणितला निरीयुः ॥14.5॥
आयोघनारम्भघृतोरुदम्भाः सम्भावयन्तो विजितं महेन्द्रम् ।
वीराः परामर्दनवर्धमानरुषो हृदा मोदमुदारमापुः ॥14.6॥
प्रचण्डतुण्डाः समुदग्रशुण्डा हिरण्मयोद्दामकुथावनद्धाः ।
ययुर्जवैर्जङ्गमशैलकल्पाः कल्पान्तपाथोदसमाः करीन्द्राः ॥14.7॥
स्फुरन्महोत्तुङ्गतुरङ्गनादमुद्दामचक्राकमितारिचक्रम् ।
सुवर्णसन्नाहभृदुग्रमानी रथाङ्गपाणी रथमारुरोह॥14.8॥
अथान्तकं वैरिमहीपतीनां प्रयान्तमुद्वीक्ष्य रथाङ्गपाणिम् ।
सर्वे सुपर्वेशमहेशतुल्यास्तमन्वधावन् बफलाग्लुनाद्याः ॥14.9.॥
धनाभिलाषीव वदान्युमुच्चैरुच्चैः श्रवः स्वामिनमीक्षमाणः ।
अतिष्ठदाकृष्टसुरारिमानोऽनुगम्यमानो ध्वजिनीभिरीशः ॥14.10॥
अथोद्धतैर्माधवसैनिकानामुद्दण्डकोदण्डरैरतीव ।
फणीव पादाहतिभिस्तदानीं महोग्रमानी हरिराप रोषम् ॥14.11॥
सुपर्वसङ्घैः परितः परीतो मुदोपनीतोज्जवलमङ्गलश्रीः ।
(72a)[दम्भोलिपाणिः प्रखर]प्रतापसन्तापितारिः समरं जगाम॥14.12॥
ततः प्रवृद्धोद्धतयुद्धरङ्गी प्रतापतुङ्गीकृतबाहुवीर्यः ।
सुपर्वसैन्यैः परितः परीतः पुरन्दरः प्राप हरेः समीपम् ॥14.13॥
जवात्पतन्तावतिवीर्यवन्तौ तरङ्गसंघाविव सागरस्य।
समीयतुः सङ्गरभूभिभागानुपेन्द्रदेवेन्द्रचमूसमूहौ ॥14.14॥
अनल्पकल्पान्तसमीरसङ्गात् समुत्पतन्ताविव वारिवाहौ ।
बलोत्करावेत्य तयोः समन्ताद्वितेनतुर्द्रागतिसान्द्रनादान् ॥14.15॥
पदातिपादोद्धतधूतिजालमहान्धकारे ग्रसति त्रिलोकीम् ।
मुहुर्मुहावीरपरम्पराणां तनुप्रभैवोद्भटभानुभासः ॥14.16॥
निजप्रभोर्नाम समुद्गिरन्तो रणोग्र[विक्रान्ति]पराः प्रवीराः ।
मिथः शरानुग्रतरान् वितेनुः पयःप्रवाहानिव वारिवाहाः ॥14.17॥
यशो हिमांशुप्रतिमं स[म]न्तादसुव्ययेनापि समीहमानाः ।
परस्परस्पर्द्धितया तदानीमस्त्रप्रहारान्विदधुः प्रवीराः ॥14.18॥
समित्समारम्भधृतोरुदम्भाः सम्भावयन्तो विजयं स्वकीयम् ।
निपातयामासुरपारसाराः प्रहारधारावलिभिर्विपक्षान् ॥14.19॥
ललाटबद्धभ्रुकुटीतरङ्गाः सगर्वमागत्य पदाति(72b)संघाः ।
निपातयामासुरसिप्रहारैरुदग्रदन्तावलदन्तकुन्तान्॥14.20॥
मुहुर्मुहोत्साहनियोज्यमानैरथाशु दूनैर्द्विषदाशुगेन ।
समीहितार्थैरिव दुर्णयानां शिलीमुखैरर्द्धपथे निपेते ॥14.21॥
अपि प्र[कामा]र्जितवीर्यभाजामसून् हरन्तस्तरसानुवेलम् ।
तदान्तकस्येव कटाक्षधारा महोग्रसारा विशिखा निपेतुः ॥14.22॥
विभिन्नवक्षाः क्षतजोक्षिताङ्गो रेजे तुरङगोपरि कोऽपि वीरः ।
रणश्रिया दीर्घतरानुरागं सभाजितः शोणमणिस्त्रजेव ॥14.23॥
मुहुर्मुहुः स्वामिसमर्प्यमाणसम्मानदानप्रणयादिकानाम् ।
विधातुमानृण्यमिवेहमाना महोग्रमाना युयुधुर्युवानः ॥14.24॥
निषूदिताधोरणयोर्विपक्षेर्द्विपेन्द्रयोरुन्मदयोस्तदानीम् ।
महोग्रसंग्रामविलोकानोत्कैरकारि वीरैः क्षणमाजिमान्द्यम् ॥14.25॥
सुचारुचामीकरपूर्णपुंखैः पतद्भिरुद्भासितपत्रिपक्षैः ।
[अमृ]ष्यतां बाणगणैरनेकैर्विकीर्यमाणं वियदाबभासे ॥14.26॥
भुहुर्महावीरगणैर्विभिन्नमहोग्रकुम्भाः समराजिरेषु ।
युगान्तवातैरिव पात्यमाना महीधरा दन्तिवरा निपेतुः ॥14.27॥
समीर(73a)वेगाविव वावदूकवचःप्रपञ्चाविव चाव्यवस्थम् ।
मुहुर्मुहुर्भङ्गजयौ तदानीं समापतुर्माधवेवसैन्ये ॥14.28॥
संभिद्यमानेषु निजाङ्गकेषु विच्छिद्यमानेष्वपि वाहनेषु ।
द्विषत्प्रवाहस्फुरदुग्ररोषैरकारि वीरैर्न मनोऽपि दूनम् ॥14.29॥
उदञ्चयन्तश्चलचामराणि चर्माणि चारूणि पदातिसङ्घाः ।
प्ररोहयामासुरसिप्रहारैरुषर्बुधं वारणदन्तकुन्तात् ॥14.30॥
वीरप्रहारोत्करमूर्च्छितानां महागजानां रुधिरप्रवाहाः ।
उद्दामभूमीधरनिर्झराणामवापुरुग्रां रुचिमाहवेषु ॥14.31॥
विभूतिभारैरिव रोहिताश्वो मदैरुदारैरिव सद्गुणौघः ।
विनिर्जितो माधववीरवर्गैश्चमूसमूहो न हरेर्विरेजे ॥14.32॥
विलोकयन्तः स्वबलं दिगिन्द्रा विद्रावितं माधववाहिनीभिः ।
विस्तारयन्तः शितशस्त्रधारा रणाङ्गणं रोपपराः समीयुः ॥14.33॥
उषर्बुधः कोपभरैः परीतः समुज्ज्वलन्तीं तनुमादधानः ।
धृतायुधः प्रोद्धतयुद्धरङ्गी ज्वालाजटालः स्फुटमाविरासीत् ॥14.34॥
प्रकम्पयन्तं श्वसितेन शैलानुदग्र[श्रृङ्ग]ज्ञतभानुबिम्बम् ।
अधिष्ठितः कासरमुग्ररूपं ययौ यमो योद्धुमथोद्धतश्रीः ॥14.35॥
(73b)धृतायुधैर्विग्रहवद्भिरुग्रैः पाथोधिभिर्द्राक् परितः परीतः ।
जगाम संग्राममहीमहीनतेजाः प्रजानामधिपः प्रचेताः ॥14.36॥
महीधराणामपि श्रृङ्गसंघानान्दोलयन् वेगभरैरुदारैः ।
उद्वेल्लयन् वारिधिवारिपूरान् प्रभञ्जनोऽहयुरथ प्रतस्थे ॥14.37॥
स पुष्पकं कामगमं विमानमारुह्य यज्ञैरनुगम्यमानः ।
दधद्गदामुग्रमदारुणश्रीर्धनाधिनाथस्त्वरितः प्रतस्थे ॥14.38॥
विभ्राजमानः स्वमहोभिरुच्चैरुच्चैःश्रवःपृष्ठगतो गरिष्ठः।
अवार्यवीर्यः[ः]प्रययौ जयन्तो विस्तारयंस्तोषभरं मघोनः ॥14.39॥
द्रुतं समारुह्य निजानि यानान्युदीरयन्तोऽथ गिरः सगर्वाः ।
सर्वे सुपर्वेशनिदेशभीता दिवौकसः सङ्गरभूमिमीयुः ॥14.40॥
सुपर्वणां दुर्विषहैर्महोभिरापूर्यमाणेषु हरिन्मुखेषु ।
बलं बलाद्यैरभिपाल्यमानं विभीषिताप्रायमभून्मुरारेः ॥14.41॥
भयाकुलं स्वं बलमीज्ञमाणा महोग्रमानाधिकदर्पभाजः ।
बलादयः प्रौढभुजप्रतापाः संग्रामसीमानमथाभिजग्मुः ॥14.42॥
यमं बलः पाशकरं किरीटी गदोऽनिलं सात्यकिरग्निमुग्रम् ।
मुदा(74a)[श्रयं तं च जवाज्जयन्तं जगाम कामः स]मराभिरामः ॥14.43॥
बिभ्रद्गदामुग्रमदारुणश्रीः क्रोधोद्धतो युद्धमहीमुपेतः ।
विलोकितो निर्भरभीतलोकैर्यमो यमस्यापि स सीरपाणिः ॥14.44॥
रणाङ्गणे नि[स्तुललाङ्गलास्त्रैः कालं वि]निर्जित्य जगर्ज भूयः ।
करीव वल्लीमथ कामपालो विलोकयामास सुपर्वसेनाम् ॥14.45॥
अथागतः प्रौढबलैरुपेतः क्रोधोद्धतः पाशयितुं विपक्षान् ।
निरुद्धवेगः शरवर्षपाशैरकारि पाशी किल फाल्गुनेन ॥14.46॥
विद्येव दारिद्य्रर्भरैरुदाररैस्तुषारपूरैरिव पङ्कजश्रीः ।
पराहतः फाल्गुनबाणवर्षैरपां पतिर्निष्प्रभतामुवाह॥14.47॥
गदोग्रबाणव्रजदीर्यमाणो यदाप मान्द्यं समरे समीरः ।
वसन्नपि श्रीमति चन्दनाद्रौ जहाति नाद्यापि तदेव नूनम् ॥14.48॥
अनल्पकल्पान्तहुताशनश्रीः समुज्ज्वलज्वालटालदेहः ।
दहन् दवप्रायमरातिसैन्यमग्निर्ययौ सात्यकिमत्युदग्रः ॥14.49॥
विनिर्दहन्तं ध्वजिनीं मुरारेः स्पृशन्तमुद्दामशिखाभिरग्र्यान् ।
उपर्बुधं वारुणबाणवर्षैः शिनिप्रवी(74b)रः शमयांबभूव ॥14.50॥
अथाकिरन् बाणतरङ्गसङ्घान् ययौ जयन्तो जलधिप्रकाशः।
असह्यतेजाः किल तं विषह्य बभौ तदा सह्य इवाशु कामः ॥14.51॥
[क्रमेण]बाणग्रहणेन योगेनाकर्षणेनैव विमोक्षणेन ।
अलिक्षि शिक्षावशतस्तदानीं तयोः करः क्वापि युधि प्रवीरः ॥14.52॥
महेन्द्रसूनुस्तरसा शरोघैर्जघान् वाहान् युधि शंबरारेः ।
छित्त्वा स तूणं च धनुस्तदानीमथोर्जितश्रीः प्रसभं जगर्ज ॥14.53॥
अमृष्यमाणः किल तस्य नादान् फणीव पादाहतिमुग्रवीर्यः ।
गदामुपादाय ललाटपट्टे जयन्तवाहस्य जघान कामः ॥14.54॥
तरङ्गराजस्तदुरुप्रहारमासाद्य सद्यो विकलीकृताङ्गः ।
विषादयन्निन्द्रमनस्तदानीमुदारनादान् सुचिरं मुमोच ॥14.55॥
आकृष्य रश्मीनतियत्नभाजा निवारितोऽपीन्द्रसुतेन गाढम् ।
उवाह वाहः स्थिरतां न किं वा चला[चलत्वं न भयार्दितानाम्]॥14.56॥
महोग्रवेगैर्घनबाणवर्षैर्यदुप्रवीरैरभिहन्यमानाः ।
अकर्णधारेव तरिस्तदानीं बभ्राम देवध्वजिनी निकामम् ॥14.57॥
अथोत्तरङ्गः स्फुरदुग्रकुम्भीकुम्भीरभीमः समरः प्र(74a)वीरः ।
[उदीर्णशस्त्राहिरपूर्वभा]भिरवाप कल्पान्तपयोधिलक्ष्मीम् ॥14.58॥
करीन्द्रदन्तार्पितकर्णभूषाः कृतास्त्रहाराः श्रतजाङ्गरागाः ।
मदोन्मदाः शोणितसीधुधाराः कपालपात्रैरपिवन् पिशाच्यः॥14.59॥
[क्षतक्षरद्वीरशरीर]मुच्चैरादाय दर्पात् परिचर्चयन्तः ।
उत्तालतालोत्तरलं तदानीं पिशाचसंघा ननृतुः समन्तात् ॥14.60॥
शिवारवैर्भूरितरैर्गभीरैर्महोग्ननादैरपि कौणपानाम् ।
विदीर्यमाणेव शरैरुदारैर्मही महाक्रन्दितमाततान॥14.61॥
शूलेन विद्धः कुपितेन यन्त्रा संचूर्ण्यमानोऽपि पदा गजेन ।
सहैव संरम्भमहोग्रदम्भैर्मुमोच कश्चिद् युधि जीवितानि ॥14.62॥
धन्यं विमानमधिरुह्य सुराङ्गनानां
स्वीयं वपुः समरसीम्नि समीक्षसाणाः ।
आनन्दतुन्दिलहृदः स्फुटमाशशंसु-
र्वीरान्वये निजजनुर्जननान्तरेऽपि ॥14.63॥
मार्तण्डः कुमुदोत्करानिव गु(75b)णग्रामानिवोच्चैर्मदः
कालः प्राणिगणानिव स्फुरदनभ्यासोऽथ विद्यामिव ।
दौर्जन्यं प्रणयानिव स्फुटशिखो वह्निर्वनालीमिव
श्रीमानुग्रपराक्रमो रिपुचमूर्द्रागाममर्दाच्युतः ॥14.64॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
पूर्णः श्रीकविकर्णपूरकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गोऽब्धिचन्द्राङ्कितः ॥14.65॥
.
\[ ***पञ्चदशः सर्गः*** \]
देवसैन्यमथ दैन्यमुपेतं वीक्ष्य कोपभरभङ्गुरितभ्रूः ।
व्याकिरन्निशितसायकधारामाजगाम समरं सुरराजः ॥15.1॥
क्रोधविद्धहृदयस्य बला[रेः शोण]लोचनसहस्त्रमयूखैः।
उल्लसच्छिखिशिखाभिरिवोच्चैः शोणिमानमवहन् घनमाशाः ॥15.2॥
उग्रकान्तिरधिरुढकरीन्द्रः सङ्गरे सुरपतिः स विरेजे ।
मेरुमूर्ध्नि घनरोचिरुदग्रो(76a)[भानुमानिव निदाघसमृद्धः]॥15.3॥
[वीक्ष्य]कोपकलितैर्नरवीरैर्हन्यमानमपि दैवतसैन्यम् ।
अर्पयन्नपि करं शरपुङ्खेः लज्जते स्म बलवृत्रनिहन्ता ॥15.4॥
गण्डमण्डलगलन्मदधारानिर्झरेषु दनुजारिगजेषु ।
[पर्वतेष्विव पुरा परमौजाः सं] मुमोच मघवा निजमस्त्रम् ॥15.5॥
भज्यमानहृदयत्रिकपृष्ठा भिन्ननेत्रकरकर्णललाटाः ।
पीडिता मघवता शरजालैर्जीवितानि मुमुचुर्युधि वीराः॥15.6॥
बाहुभिर्निपतितैस्तरुणानामुल्लसन्मणिमयूखविचित्रैः ।
रेजिरे रणभुवः सुखसुप्तैर्दीप्तमूर्धभिरिवोरगराजैः ॥15.7॥
बिभ्रत्कोदण्डमुग्रं कुपितयममहोद्दण्डदण्डायमानैः
काण्डव्रातैः प्रचण्डैः समिति विचरतां खण्डयन् मुण्डखण्डान् ।
क्रोधज्वालाजटालां नयनदशशतीमुद्गतामादधानो
मानोद्दामः सुरेन्द्रोऽनल इव निखिलैर्वीरलोकैर्व्यलोकि॥15.8॥
कुण्डलीकृतशररासनो मनोजा(76b)ग्रदुग्रतरकोपपावकः ।
वीरनीरनिधिमन्थरमन्दरः संचचार परितः पुरन्दरः ॥15.9॥
केसरीव करजैः करिङ्घान् सायकैर्युधि निहत्य नृवीरान् ।
मौक्तिकैरिव यशोभिरुदारैराततान विशदां हरिरुर्वीम् ॥15.10॥
अथाकुलं स्वं बलमीक्षमाणो मानोन्नतो दर्पहरो रिपूणाम् ।
मुहुः प्रसन्नाननपुण्डरीको जगाम योद्धुं जगतामधीशः ॥15.11॥
धन्यं धनुर्जयधुरन्धरमादधानो
दानोन्नतद्विरदराजसहस्त्रदर्पः ष।
सन्नाहवान् समरसीम्नि हरिस्तदानीं
वीरो रसः स्फुट इव त्रिदशैरमानि ॥15.12॥
आकृष्य मौर्वीं भुजगेन्द्रगुर्वीं सदा रणोर्वीवलदुग्रगर्वः ।
स तीक्ष्णबाणैरशनिप्रमाणैः सन्तापयामास सुप[र्वसंघान्]॥15.13॥
[प्रसह्य विद्धाः]समरे सरोषं शरैरुदारैर्मधुसूदनेन ।
चक्राभिघातैरिव शैलकूटाः समन्ततो देवभटा निपोतुः ॥15.14॥
वितत्य कोदण्डमखण्डधामा कामाभिरामोऽपि यशायमानः ।
स कोटिमेको(77a)दशवेगकोट्या शरैस्तदैकं रिपुमाजघान ॥15.15॥
शिक्षादक्षतया तदा मुररिपोरालोकितः कैरपि
ज्याबन्धेन शरः शरेणम च करस्तत्रापि न स्पन्दनम् ।
किं त्वेतद् घटमानकारणशरासारैर्ययौ दृक्पथं
न द्यौर्नैव नभो न वा वसुमती नापि द्विषन्मण्डलम् ॥15.16॥
दैत्यारयः स्फुरतरोषभरारुणाभि-
र्वाग्भिर्द्दशामरुणतामवतारयन्तः ।
नीहारनीरनिकरैरिव पर्वतेन्द्रं
श्रीमन्मुकुन्दमकिरन्नुरुशस्त्रसंघैः ।15.17॥
सगर्वमुरुविक्रमैर्दितिजवैरिवीरोत्करै-
र्विमुञ्चति समन्ततो निशितशस्त्रसंघान्मुहुः ।
अदीपि न दिवाकरो न विरराज दिङ्मण्डलं
व्यलोकि न नभस्तलं न गतिमाप्तवान् मारुतः ॥15.18॥
निवारयन् वैरिसमीहितार्थान् सुधीरिवोद्दामनयप्रयोगान् ।
विनाशयन् दैवतबाणवर्षं वायव्यमस्त्रं मुरजिन्मुमोच ॥15.19॥
उन्मूलयन् गुरुतरानपि भूधरौघा-
नान्दोलय[न्न]पि शिरांसि कुलाचलानाम्।
निर्द्धूय तत् त्रिदशबाणमहास्त्रवर्षं
विश्वं प्रकाशमयमाशु मरुच्चकार ॥15.20॥
शरान्धकारे स्तिमिते जगत्यामादित्यबिम्बे च विराजमाने ।
सन्तापयामास शरैर्विपक्षानुद्दण्डको[दण्डधरो]मुरारिः ॥15.21॥
जवादहंपूर्विकया प्रधावतां सुपर्वणां वाहखुराभिघातजैः ।
समुद्यदुद्दाभरजोभिरूर्जितैरकारि कासां न दिशां विवर्णता ॥15.22॥
दर्पादाह्वयकां(1)मिथः प्रसरतां[वीर]व्रजानां मुहुः
शस्त्राशस्त्रिः कचाकचि प्रविलसद्दोर्दण्डचण्डद्विषाम् ।
संरम्भादभिधावतां मदवतामत्यूर्जितं गर्जतां
दन्तादन्ति च दन्तिनामपि महत्यासीदमीषां समित् ॥15.23॥
(F.N.)1.आत्मनेपदमुचितमू।
निपातयन्तः सदसिप्रहारै-
ररातिवीरानवहेलयैव ।
अलातचक्रप्रतिमाः समन्तात्
तुरङ्गिणः संगरसीम्नि चेरुः ॥15.24॥
(2)संयुध्यतां समरसीमनि वैरिवीर-
प्रौढप्रहारभरनिर्भरमूर्च्छितानाम् ।
संजीवनौषधम(78a)[भूद्धरिदृष्टिवृष्टि-
रिष्टार्थकृत्सति]विधौ सदये न को वा ॥15.25॥
F.N.(2)क्यजन्तमिदम् ।
मुरद्विषद्बाणविभिद्यमान-
सुपर्वसेनागणशोणितानाम् ।
सहस्रशः सङ्गरसीम्नि धारा
नदानुकाराः ससृपुः समन्तात् ॥15.26॥
निजबलमवलोक्य[भीतिभुग्नं
क्षतमभितो बत]दह्यमानचेताः ।
अथ समरमहीमहीनवीर्यो
हरिमभि दैवतनायकः प्रतस्थे ॥15.27॥
महोद्दामसंग्रामसंभाव्यदम्भा
जयं भावयन्तो निजं तोषवन्तः ।
बलद्वर्णसौवर्णसन्नाहनद्धा
ययुर्योद्धुमद्धा समृद्धाः सुरेन्द्राः ॥15.28॥
ततः प्रेर्यमाणो मघोनानुवेलं
मुदा माद्यदैरावणः संगरेषु ।
समुद्दण्डशुण्डाप्रचण्डातिपातै-
रपारोग्रसारान् ममर्दारिवीरान् ॥15.29॥
मदोन्मादिना तेन गाढं गजेन
प्रवृद्धान् युद्धाङ्गणे सैनिकानि।
वनानीव कल्पान्तवाताभिघाता-
च्चलच्छेलराजेन चूर्णीकृतानि ॥15.30॥
गजं वीक्ष्य संख्योद्धतं पङ्कजाक्षो
ब(78b)लक्षोभमत्युद्भटं भावयित्वा ।
करे कार्मुकं बाणसन्धानबद्धं
तदोल्लासफुल्लाननश्रीश्चकार॥15.31॥
जवादापतन्तं बलं मर्दयन्तं
करीन्द्रं तमुद्दामदर्पान्नदन्तम् ।
बलद्दानदम्भे महोदारकुम्भे
शरेणोरुसारेण शौरिर्जधान ॥15.32॥
अपारसारेण शरेण शौरेः
पराहतो मर्मणि वारणेन्द्रः।
धुन्वन् मुहुर्मौलिमुदीर्णनादो
न्यषेधि शक्रेण पलायमानः॥15.33॥
मान्थर्यं गतवति वारणे समन्ता-
दत्यन्तप्रसरदुदारकोपपूर्णः।
सन्नद्धैः सुरनिकरैः समं समस्तै-
शस्त्राणि त्रिदशपतिस्तदा मुमोच ॥15.34॥
विमुञ्चतोर्बाणमहास्त्रसङ्घा-
नुदारदर्पान्नदतोः[प्रकामम्]।
क[ल्पान्तमे]घप्रभयोस्तदानीं
युद्धं तयोरेव तयोरिवाभूत् ॥15.35॥
इत्थं तयोर्वीर्यवतोस्तदानीं
प्रवर्तमानेषु महाहवेषु।
व्यलोकि लोकैर्विततेऽस्त्रवर्षे
न द्यौर्नभो नै(79a)वा[नवा ध]रित्री ॥15.36॥
अथोद्यत्तदुद्द्योतविद्योतमाना
महोद्दाममानाः क्रुधा युध्यमानाः ।
निजानस्त्रपूरानपारोग्रसारान्
सुराः सङ्गरे शार्ङ्गिणि द्राग् वितेनुः ॥15.37॥
मरुद[नलपरेतराजवास्तो-
ष्पतिसुतपा]शिविशालशस्त्रशङ्घे ।
ग्रसति निजबलं बलानुजन्मा
स्मितपरिपूर्णमुखो धनुर्दधार ॥15.38॥
शरैः प्रतीकारपरैस्तदानीं
निहत्य तद्दैव[त]शस्त्रसंघान् ।
संपीडयन्निर्भयमुग्रतेजाः
संमोहयामास सुरान् मुरारिः ॥15.39॥
संमुग्धेषु सुरेषु शौरिविशिखैः सैन्ये च विद्राविते
मान्थर्यं गमिते च वारणपतौ वीरेषु गर्जत्सु च ।
वैरान्तं तरसा विधातुमधिकक्रोधोद्धतस्तत्क्षणाद्
वज्रं जर्जरितारिपञ्जरमघात् पाणौ पतिर्नाकिनाम् ॥15.40॥
उद्यज्ज्वालाजटालः सपदि दश दिशो धूमधूम्रा वितन्वन्
कुर्वन् गर्वोद्धतानां समिति विचरतां मानसं मानशून्यम् ।
स्वैरारावैस्त्रिलो(79b)कीं सपदि(1)बधिरतामानयन्नुग्ररूपो
दम्भोलिर्दम्भभाजां त्रि(2)दशपतिकरे प्रौढदीप्तिर्दीदिपे ॥15.41॥
F.N.(1)Ms विविधताम्।
F.N.(2)Ms भाजस्त्रि ।
कल्पान्तसंततपयोधरघोरनाद-
मुद्धीक्ष्य वज्रममरेशकरे मुरारिः ।
उद्दामदानवदवानलमुज्जिहान-
ज्वालावितानघनमाशु दधार चक्रम् ॥15.42॥
निजैर्ज्वालाजालैः कवलयति दिक्चक्रमुदिते
महाचक्रे कोटिस्फुरदुरुखरांशुप्रतिनिधौ ।
चकम्पे शम्पेव त्रिभुवनमभूद् व्यग्रमरुणं
जजागार स्फारो मुरहरजयश्रीपरिकरः ॥15.43॥
उद्भ्रामयन् पाणितलेन यावत्
स्वचक्रमुन्मुञ्चति चक्रपाणिः ।
शिवाय शक्रस्य तु तावदेव
ब्रह्मादयो देवगणाः समीयुः ॥15.44॥
मुदा नमन्मौलिरुदारचेताः
कृताञ्जलिः स्तोत्रशतं तदानीम् ।
स्वरेण धीरेण हरेः पुरस्तात्
प्रपञ्चयामास चिरं विरिञ्चिः ॥15.45॥
यस्येहया जगदिदं समुदेति सद्यो
यद् योगिनो विगतरागभया भजन्ते ।
वेदान्तवेद्य(80a)मनवद्यगुणाभिरामं
तद्धाम संविदवलम्बितमाश्रयामः ॥15.46॥
यद्भ्रूविलासवलितेषु जगत्सु नित्यं
लोकेशकेशवमहेशमुखा मखेशाः ।
निर्माणपालनविनाशकृताधिकारा-
स्तस्मै पुराणपुरुषाय नमो नमस्ते ॥15.47॥
करुणावरुणालयाय नित्यं
दलदिन्दीवरदामसुन्दराय।
अनवद्यगुणैकमन्दिराय
प्रणतत्राणविधायिने नमस्ते ॥15.48॥
यो बिभर्त्तिं भुवनानि नितान्तं
शेषतामुपगतो गुरुसारः ।
तं रसातलनिवासिनमीशं
सादरं नतदृशः प्रणमामः ॥15.49॥
वितत्य भूतानि जगद्विभूतये
करोति यः सर्गमपाररूपिणम् ।
निलीयते यत्र च भूतसंहति-
र्गतिर्ममास्तां स परात्परः पुमान् ॥15.50॥
निहत्य दैत्यानुरुभारभङ्गुरां
महीमहीनां लघुमाशु कुर्वते।
कृपावताराय मुहुर्महात्मने
घनेन्द्रनीलद्युतये नमो नमः ॥15.51॥
आविर्भवन्ति विरमन्ति यतो(80b)जगन्ति
यत्राविशन्ति न गिरोऽपि महामुनीनाम् ।
तद्धाम योगिजनचित्तनिवासि नित्यम्
आनन्दमन्दिरमुदारतरं भजामः ॥15.52॥
क्रोधं विभो! संहर संहराशु
पुरन्दरे मन्दमतौ मदान्धे।
जरापराभूततनौ मुकुन्द!
तवायमास्तां मयि सुप्रसादः ॥15.53॥
स्तुतिशतपरिणद्धं भक्तिनम्रस्य धातु-
र्गदितमिदमुदारं गौरवादाकलय्य ।
हरिरतिकरुणावान् संजहाराशु चक्रं
हृदुदयति न वक्रं मानिनामानतेषु ॥15.54॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हॄद्गतं नवजवासिन्दूरसान्द्रं महः।
संपूर्णः कविकर्णपूरकृतिना कौतुहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गः शरेन्द्वङ्कितः ॥15.55॥
.
[ षोडशः सर्गः ]
अथ स्तुतो वेदविदा विरिञ्चिना
कृतापराधेऽपि पुरन्दरे चिरम्।
मुमोच रोषं मुरजिन्महामना
क्षमा (1)हि कीर्तिः प्रणतेषु मानिनाम् ॥16.1॥
F.N.(1)ह कीर्तिं Ms.
(81a)ततो विधातारमपारविक्रमो
विमोचयन् भीतिभरात् पुरन्दरम् ।
स्मितद्युतिद्योतितसङ्गराङ्गणो
विनोदयामास गिरा मुरान्तकः ॥16.2॥
त्वया सरोजासन! हेलयैव किं
विधातुमिन्द्रस्य शतं न शक्यते ।
[तथा]पि यन्मोचयसीन्द्रमुच्चकै-
रिह त्वदीया करुणैव कारणम् ॥16.3॥
तपोभिरुच्चैः फलितं ममाधुना
विधे! सनाथस्य तवानुकम्पया।
अहो महायोगिजनैरवीक्षितं
महस्तवोद्दाममि[दं]यदीक्ष्यते॥16.4॥
गुणान्मनोज्ञादिव चारुकीर्तयो
मदादिवोद्दामविकारराजयः ।
विधे! विनिर्यान्तु समन्ततः सदा
प्रजाः प्रजानाथ! शरीरतस्तव ॥16.5॥
मुदा विनिर्मासि जगत्त्रयीमिमां
दधासि विद्रावयसि क्षणादपि ।
जगत्प्रसूतेर्महिमानमद्भुतं
न वेद वेदोऽपि तवेश तत्त्वतः ॥16.6॥
विदूरिता दैवतनाथदुर्गतिः
कृतार्थिता मे च विलोचनत्विषि ।
इतः परं देव! निदेशयाशु मां
निदे[श]कारी करवाणि किं तव ॥16.7॥
मुदा तदावादि गरिर्विरिञ्चिना
न नाथ! वाच्यं भवतेति मत्पुरः ।
भवादयो देव! वयं च तेऽवरा
न शासकः कोऽपि तवेश! दृश्यते ॥16.8॥
विलोकितं तावकपादपङ्कजं
निपीतमेतत्तव भाषितामृतम् ।
समुज्झिता पताकतापसंहतिः
किमन्यदस्ति स्पृहणीयमीश!नः ॥16.9॥
इदं तु देव! प्रणतोऽहमर्थये
भयेषु रक्ष्यो भवता शतक्रतुः ।
वयं च चञ्चत्करुणाकरम्बितै-
र्विलोकनीया नलिनैर्दृगञ्चलैः ॥16.10॥
सुरैः समन्तादभिवादितस्तदा
मुदा मुकुन्देन च भक्तितोऽर्चितः ।
विलोचनासेचनकस्तिरोहितो
विरिञ्चिपीयूषमयूखमण्डलः ॥16.11॥
अथ द्विषन्निर्भरभीतिवर्धने
निवारिते कंसजिता निजायुधे ।
हतत्विषां नाकनिवासिनां तदा
विजृम्भितं चेतसि जीविताशया ॥16.12॥
स्मितावलोकैरमृतद्रवोपमै-
र्विनोदयन् मानसमाशु नाकिनाम् ।
[नवोन्नमद्(82a)]वारिदधीरनिस्वनो
मनोहरश्रीरिदमाह माधवः ॥16.13॥
शुभाः शिखावन्त इव द्विजन्मनां
सदैव नः पूज्यतमाः सुरोत्तमाः ।
भवत्सु मान्येष्वपि मेऽद्य दुर्णयो
ददाति किं दुःसमयो न देहिनाम् ॥16.14॥
फलार्थिभि[र्निर्भरभ]क्तिभावितैः
समर्च्यते (1)यत्प्रतिमापि मानवैः ।
मदोद्धतं युद्धमकारि तैरहो
सदोन्मदान् मूढधियो धिगस्तु नः ॥16.15॥
F.N.(1)यः प्रतिमा Ms.
अधीशितारो जगतां सुरोत्तमाः
क्षमध्वमेतं मम दोषमुद्ध[तम्]।
विधेर्विधानाद् विरुणद्धि कस्य वा
न मानसं मोहमहातमःस्थितिः ॥16.16॥
भयं न मत्तो भवतां भविष्यति
व्रजन्तु सर्वे समरं च मुञ्चत।
सुरद्रुमः किं तु कियद्दिनं मयि
प्रदीयतां चेत् करुणा भवादृशाम् ॥16.17॥
मुरारिरुद्यद्विनयो नयोर्जितं
वचस्तदानीमिदमाह वासवम् ।
अथाललम्बे खलु मौनमञ्जसा
न साधुवृत्ता बहुभाषिणः क्वचित् ॥16.18॥
दयावता शार्ङ्गभृता निवेदितं
वचः सुधासारतुषारसुन्दरम् ।
(82b)द्रुमान् प्रदग्धानिव वृष्टिरुच्चकै-
र्विनोद[या]मास तदा दिवौकसः ॥16.19॥
कृतापराधेऽपि रणोद्यतायुधे
दिवौकसां भर्तरि निर्जिते बलात् ।
हरेर्दयोदारमवेत्य भाषिचं
द्रुतं न केषां द्रवतामगान्मनः ॥16.20॥
अथ त्रपासम्मदपूर्णमानसो
यदा न शेके गदितुं शतक्रतुः ।
उवाच वाचस्पतिराशु माधवं
तदेङ्गितज्ञो गुणगुम्फिता गिरः ॥16.21॥
कृतापराधः प्रसरत्त्रपाभरो
हरिर्न शक्नोति मुकुन्द! भाषितुम् ।
अथास्य यच्चेतसि चित्रितं वच-
स्तदिङ्गितज्ञेन मया निवेद्यते ॥16.22॥
विदन्ति यं वेदविदो न तत्त्वतो
यतो जगन्मण्डलमाशु जृम्भते ।
विशन्ति यं योगरता मुमुक्षवः
प्रयातु[स]ज्ञानपथं कथं भवान् ॥16.23॥
वधाय देवद्विषतां परः पुमान्
कृतावतारः क्षितिमण्डले भवान् ।
विदन्ति मोहान्धिधियस्तु मादृशा
न तावकं देव! महत्त्वमुत्तमम् ॥16.24॥
विहाय वैकुण्ठसुखान्यपि क्षितौ
[कृतावता(83a)]रोऽसि हिताय नाकिनाम् ।
अतोऽभितो राजति ते दिवानिशं
हरे! नतत्राणसमुद्गतं यशः ॥16.25॥
कृतोऽपराधः सुमहान्मरुत्वता
क्षमा च तस्मिन् भवता प्रकाशिता ।
न ते पुनः क्वापि तवापचीयते
स्फुरत्कृपा[पालिक]रम्बितं मनः ॥16.26॥
सुरद्रुमो देव! तवैव नीयतां
यथेच्छमिन्दीवरसुन्दर! त्वया ।
तदस्ति किं वस्तु जगत्त्रयीगतं
त्वमीश्वरो यस्य जनैर्न मन्यसे॥16.27॥
समुल्लसत्सम्मदनद्धमानसः
समीहते[यत् खलु]देव! वासवः ।
निवेद्यते तच्च मया भवत्पुरो
विधेयमेतद् भवता दयानिधे! ॥16.28॥
निजापराधान् परया ,पर्यया
हरे!(1) तिरोधातुमसौ शतक्रतुः ।
भवन्तमत्यन्तमनोविनोदितः
समीहते नेतुमसौ स्वमालयम् ॥16.29॥
F.N.(1)अन्तर्भावितण्यर्थः ।
भवत्पदाम्भोजरजोभिरूर्जितैः
कुशस्थलीवातिपवित्रताश्रयः ।
सन्नचित्ते त्वयिः माधव! द्रुतं
सुराधिराजस्य पुरी भविष्यति॥16.30॥
सुरङ्गना मङ्गलपाणयः स्थिताः
(1)शिवोऽयमा(83b)वाति शनैः समीरणः ।
अकुण्ठकण्ठीरवविक्रमाधुना
त्वया सुनासीरपुरी निरीक्ष्यताम् ॥16.31॥
F.N.(1)शिरोऽय Ms.
त्रपानतः सम्मदवाष्पधारया
निरुद्धकण्ठो विकसन्मुखाम्बुजः ।
उदारमौनेन गुरोरुदीरितं
चिरं चकारानुमतं पुरन्दरः ॥16.32॥
निशम्य गीर्वाणगुरोर्गरीयसीं
गिरं तदानन्दमयो नयोज्ज्वलः ।
मनः सुराणां हसितामृतद्रवै-
र्विनोदयन् वाचमवोचदच्युतः ॥16.33॥
वयं गुरो! निर्भरभक्तिभाविताः
सदा सुपर्वेशनिदेशकारिणः ।
असौ यदाज्ञापयति प्रसन्नधी-
स्तदाशु धार्यं शिरसैव मादृशैः ॥16.34॥
इति ब्रुवाणं यदुनन्दने तदा
मुदा परीतः परयाः पुरन्दरः ।
सिषेच पीयूषरसेन सर्वतो
रणस्थलीं मूर्च्छि[त]जीवहेतवे ॥16.35॥
प्रबोधितास्तल्पतलादिवोन्मदा
मुदा तदानीमतिपूर्णमानसाः ।
सुधाभिषिक्ताः परितो रणाङ्गणात्
परासवः सत्वरमुत्थिता बभुः ॥16.36॥
वनाग्निकल्पैर्विविधास्त्रसञ्चयै-
र्विशो[षिताना(84a)]मुरुवीरवीरुधाम् ।
नवाम्बुवर्षैरिव निर्भरं तदा
नवीनताकारि भृशं सुधारसैः ॥16.37॥
करैरुदारैरिव निर्भरं हरेः
पराहता वैरिवरूथिनीशतैः ।
चिरं रजन्यामिव तारकोत्करा
रणाजिरे वा[सवसैनिका बभुः]॥16.38॥
[पुरा]सुरैः प्रापि वरा सुराङ्गना
ततः सुधासेककृता नवीनता।
अतः सुखावाप्तिविरोधि तत्क्षणं
जितारयो जीवनमेव मेनिरे ॥16.39॥
ततः सुधासङ्गमजातजीवितं
विलोकयन् चारुबलं महोज्ज्वलम् ।
गजेन्द्रमारुह्य मुदा मदोन्मदं
मुरारिणा सार्धमगात् पुरन्दरः ॥16.40॥
सुखोपविष्टाः स्फुरदुग्ररोचिषो
महेन्द्रदत्तासु विमानराजिषु ।
प्रयान्तमिन्दीवरसुन्दरं हरिं
मुदानुजग्मुर्यदवः समं सुरैः ॥16.41॥
तनुप्रभोद्भासितदिग्विहायसो
विराजमाना वरवीरराजयः ।
मुदा तदालोकयतां समन्ततो
वितेनिरे चेतसि भास्करभ्रमम् ॥16.42॥
उदारसंमोदपरा दिवौकसः
समुद्गिरन्तो मुरवैरिणो गुणान् ।
द्रुतं सुरा(84b)धीशपुरीमरुश्रियं
विलोकयामासुरखिन्नमानसाः ॥16.43॥
विलोक्य तां नेत्रमनोविनोदिनीं
सुराधिराजस्य पुरीमरुश्रियम् ।
ननन्दुरानन्दसुधापयोनिधौ
(1)निमज्जमाना इव माधवानुगाः ॥16.44॥
F.N.(1)ताच्छीह्ये चानश।
ततस्तरङ्गिण्य इवेशमम्भसां
श्रियः समृद्धा इव नीतिशालिनम्।
मरुत्वतस्तां नगरीं गरीयसीं
यदुप्रवीरा विविशुः समं सुरैः ॥16.45॥
विलोलिताभिर्मृदुना नभस्वता
महागृहोद्दामदुकूलविल्लिभिः ।
समाह्वयामास मृदङ्गनादिनी
करारविन्दैरिव सा पुरी सुरान्॥16.46॥
अमन्दमन्दारसुचारुसौरभैः
सुरापगाशीतलशीकरैरपि ।
विधूनयन् वारिरुहाणि मारुतो
विनोदयामास मनो मधुद्विषः ॥16.47॥
समुद्यदुद्दाममृदङ्गनिःस्वनैः
सुराङ्गनानामपि वल्गुगीतिभिः।
अमन्दमानन्द[म]यीव सर्वतः
सुराधिराज[स्य]पुरी तदाभवत् ॥16.48॥
विराजमानो नवरोचिरुच्चकै-
र्घनस्वनस्यन्दनमध्यमास्थितः ।
हरिः सुराधीशपुरीनिवासिभि-
(85a)र्मुदा तदालोकि शशीव शारदः ॥16.49॥
अथ त्रिलोकीतिलकीभवद्द्युतौ
प्रयाति पूर्णेन्दुमुखे मुरद्विषि ।
समन्ततो देवपुरौकसामभू-
न्मनस्तदालोकनकौतुकोत्सुकम् ॥16.50॥
दिदृक्षया संचलितैरितस्ततो
[विलो]कितो वर्त्मनि कैश्चिदच्युतः ।
अचिन्त्यचिन्तामणिलाभसंभव-
प्रमोदसंभारमपारमार्पयत् ॥16.51॥
मुकुन्दमालोकयितुं समागता
जवेन काचित् कमनीयलोचना ।
अथैतदुद्दाममहःप्रमोहिता
हिताहितं किञ्चन तत्र नाविदत् ॥16.52॥
मुरद्विषद्वीक्षणजातकौतुकात्
प्रकाशयन्तीव मनः समुत्सुकम् ।
चकार काचिन्न करं कलावती
नितम्बबिम्बस्खलितेऽपि वाससि ॥16.53॥
समं सखीभिर्भवनादुपागता
समास्थिता वर्त्मनि लोकसंगमे ।
अधात् तदानीं हरिणीव संभ्रमात्
कुलाङ्गना काचन चञ्चले दृशौ ॥16.54॥
मुहुर्वदन्त्यो मुरवैरिसद्गुणान्
घनानुरागाः स्खलदम्बरस्रजः।
श्रमाम्बुसंभारकरम्बि(85b)ताननाः
सुराङ्गनाः संभ्रमसंभृता ययुः ॥16.55॥
हरेर्मृखालोकनलोलचेतसां
विनिर्यतीनां भवनान्नतभ्रुवाम् ।
निमेषशून्यैर्नयनैर्नभः स्थलं
रराज राजीवमयं समन्ततः ॥16.56॥
विलोकितुं माधवमुद्गतद्युतिं
द्रुतं व्रजन्त्या भवनान्नतभ्रुवः ।
उदारहारच्युतमौक्तिकोत्करै
सखीजनः पद्धतिमन्वमीयत॥16.57॥
मृगीदृशामाननबिम्बकान्तिभि-
र्विरेजिरे चारुगवाक्षराजयः ।
दलान्तराणीव सुमेरुकानने
समुल्लसच्चन्द्रमासः करोत्करैः॥16.58॥
न सा सुपर्वेशपुरे नितम्बिनी
यया न दृष्टो हरिरेत्य सादरम् ।
न तादृशः कोऽपि बभूव च स्फुटं
न यस्तदामोदमुदारमाप्तवान् ॥16.59॥
निपीतपीताम्बरकान्तिकौमुदी-
सुधारसाः संमदपूर्णमानसाः ।
नितम्बवत्यः प्रतिवर्त्म नागरै-
र्विलोकिताश्चित्रगता इवानिशम् ॥16.60॥
समागताः सादरमाशु सन्निधिं
मुदा सुपर्वेशपुरे मृगीदृशः ।
मुकुन्दमा[न]न्दमयैर्विलो(86b)चनै-
श्चिरं पिबन्त्योऽपि न तृप्तिमाययुः ॥16.61॥
तमालनीलद्युतिरक्तलोचनो
मनोविनोदं जनयन् मृगीदृशाम् ।
क्षणं च यद्येष निरीक्ष्यते तदा
मुधा सुधापानकदर्थनाशतैः ॥16.62॥
इति ब्रुवाणाः स्फुरदिन्दुसुन्दरे
मुखारविन्दे वनमालिनोऽबलाः ।
निमज्जयामासुरुदारमानसाः
समं हृदा नेत्रमधुव्रतावलीम् ॥16.63॥
सभाजितो देवनितम्बिनीगणै-
र्विलोचनोदारसरोजराजिभिः ।
मुदा तदानीमतिपूर्णमानसो-
ऽविशन् मुकुन्दोऽथ महेन्द्रमन्दिरम् ॥16.64॥
सभागृहद्वारमवाप्य सादरं
मतङ्गजेन्द्रादवरुह्य वासवः ।
नियोजयन् भृत्यगणानितस्ततः
प्रकाशयामास निजां विनीतताम् ॥16.65॥
करावलम्बैरवतार्य वाहनात्
पुरःसरः संमदपूर्णमानसः ।
विनीतमूर्तिर्मघवा मरद्विषं
प्रवेशयामास निवेशमात्मनः ॥16.66॥
स्वयं सुराणामधिपेन सादरं
सुवर्णसिंहासनसन्निवेशिताः ।
विरेजिरे संसदि वीरराजयो
मुखेषु वेदिज्वलिता इवाग्रयः ॥16.67॥
नमस्कृता सादरमाशु सत्यया
चिरं परिष्वज्य पुलोमसंभवा ।
समं सखीभिः परया मुदान्विता
निनाय तामाशु निजं निकेतनम् ॥16.68॥
पुलोमजार्धासनसंगतां तदा
चिरा[य सत्रा]जितराजनन्दिनीम् ।
सभाजयामासुरुदारमानसाः
सुरस्त्रियः कुङ्कुमचन्दनादिभिः ॥16.69॥
पुरन्दरोऽपि स्मितसुन्दराननः
सभाजयित्वानुगता[न्]मुरद्विषः।
महर्द्धिसंभारभृतो निजालयान्
निवेशयामास निवासहेतवे ॥16.70॥
विसृज्य भूमीपतिमण्डलं तदा
सुरानपि स्मेरमुखो विसर्जयन् ।
समं मुकुन्देन मुदा करम्बितः
पुरन्दरो मन्दिरमुज्ज्वलं ययौ ॥16.71॥
हर्म्येषु हेमखचितेसु तदा वसन्तः
सन्तोषसन्ततिपराः सरसान्नपानैः ।
तल्पैः सुकोमलदुकूलमनोनुकूलैः
सर्वे क्षपां नृपतयः क्षपयांबभूवुः ॥16.72॥
सविनयमनुवेलं लालितो वासवेन
त्रिदशयुवति(87a)वृन्दैरादरादर्च्यमानः ।
सपदि मुदितचेताः किन्नरीचारुगीतै-
र्मुररिपुरपि रम्यां यामिनीं तामनैषीत् ॥16.73॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः ।
धीरश्रीकविक[र्णपू]रकृतिना कौतूहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गो ययौ षोडशः ॥16.74॥
.
[ सप्तदशः सर्गः ]
श्रीपतिः परमया मुदान्वितै-
रर्चितः प्रणयनिर्भरैः सुरैः।
नाकनाथनगरेऽति[सज्जिते
स]त्यया सममवाप संमदम् ॥17.1॥
नाकनायकगणैः समर्चितः
किन्नरीभिरुपवीणितो मुदा।
सर्वतः सुरपुरे परिभ्रम-
न्नुत्सवं हरिरपारमाप्तवान् ॥17.2॥
संविगाह्य[यदवो यदृच्छया
स्वच्छशी]तलजलां सुरापगाम् ।
पारिजातपरिकल्पितस्रजो
भूभुजो मुमुदिरे सुरा इव ॥17.3॥
वीक्ष्य लोचनमनोविनोदिनं
पारिजातमुपजातकौतुकम्।
बह्वमानि मनसैव सादरं
[केशवेन सुरलोकवैभवम्]॥17.4॥
(87b)चन्दनानिलविलासलालिते
सेविते सुरभिणा दिवानिशम्।
संचरन् दयितया समं शनै-
र्नन्दने मुदमवाप माधवः ॥17.5॥
नृत्यगीतगुणगर्वितात्मना-
मुल्लसल्ललितकायरोचिषाम् ।
[नन्दनन्दनमनन्दयन् भृशं
चेष्टिता]नि सुरराजसुभ्रुवाम्॥17.6॥
देवराजनगरीनिवासिनां
लोललोचनचकोरसंचयः।
शारदेन्दुसमसुन्दरद्युतौ
श्रीपतौ मुदमविन्ददुच्चकैः ॥17.7॥
कायकान्तिभ[रमज्जितान्तरं
संप्रसूतकुतु]केन तेजसा ।
लोचनैस्तमपिबन् मुदान्विताः
शर्वरीशमिव सर्वतो जनाः ॥17.8॥
ताण्डवैर्ललितगीतनिल्वनै-
र्वाहनैर्वसनभूषणैरपि।
सप्रियं सुरपुरीनिवासिनो
माधवं प्रमुदिताः [सि]षेविरे॥17.9॥
शारदेन शशिनेव शर्वरी
कामिनेव ललिता कलावती।
देवराजनगरी गरीयसी
माधवेन सह सा विभूषिता ॥17.10॥
संततस्मितसुधालसन्मुखे
नीलनीरदनिभे रमापतौ।
लोचनै[रभिसृत्य चेतसः
प्राभवन्न सुरलोकसुभ्रुवः]॥17.11॥
(88a)याभिरैक्षि नलिनेक्षणस्त]दा
शारदेन्दुरुचिरो रमापतिः ।
ताभिरुल्लसितगर्वनिर्भरं
द्रागमानि सफलं निजं जनुः ॥17.12॥
अम्बराभरणपानभोजनै-
स्तोषिता मघवता निरन्तरम् ।
उल्लसत्कनकहर्म्यवा[सिनो
भूभृतः सुरवधूरतो]षयन् ॥17.13॥
[पानभोजनविलासजस्तथा
नैव भूमिवलये कदाचन]।
अन्वभावि सहसैव तैर्यथा
संमदो नवनवः प्रतिक्षणम् ॥17.14॥
यद् यदिष्टमिह विष्टपत्रये
वस्तु चारु ददृशर्दिवौकसः ।
आदराद् ददुरुदारमानसा
माधवाय[सबलाय तत्तदा]॥17.15॥
[बान्धवान् प्रणयसंभृतान् यदा
स्वैरमस्मरदसौ सुपर्वभिः]।
पूजितोऽपि मुरजिन्निजां पुरीं
गन्तुमुत्सुकमतिस्तदाभवत्॥17.16॥
वीक्ष्य गन्तुमनसं मधुद्विषं
वाष्पपूर्णनयनो[मरुत्पतिः]।
[आलिलिङ्ग]मुहुरेनमुत्सुको
वत्सलो विरहशङ्कया भृशम् ॥17.17॥
माधवाय ददतस्तदादरात्
[काममा]शिषमुदारमा[न]साः ।
नारदप्रभृतयो मुनीश्वराः
साम संभृतपदस्वरं जग्मुः ॥17.18॥
तत्र पूर्णदधिपात्रपाणयो
मङ्गलोल्लसितचारुगीतयः ।
[प्रस्थितस्य शकुनानि शार्ङ्गिणः
सर्वतो व्यरचयन् सुराङ्गनाः ॥17.19॥
(88b)किन्नरीमधुरगीतनिस्वनै-
रप्सरोललि]तभाषितैरपि।
चारुतूयनिनदश्च निर्भरं
स क्षणो रसमयस्तदाभवत् ॥17.20॥
तुङ्गमङ्गलमभङ्गमिच्छतां
तत्र पुण्यजनुषां द्विजन्मना[म्]।
उल्ललास समयोचितोऽभितः
श्रौतमन्त्रनिनदः श्रुतिप्रियः ॥17.21॥
ये सुरेन्द्रसदने द्विजास्तदा
[क्षेम्य]कृत्यभरयन्त्रिता भृशम्।
प्रस्थिते यदुपतौ निजालयं
तेऽपि पुण्यजनुषः समाययुः ॥17.22॥
भाविमाधववियोग[शङ्कया
म्लानमिन्द्रपुरसुभ्रुवां मुखम् ।
अञ्जसा बत तदाजयत्तमा-
मुद्यदिन्दुरुचि]संभृताम्बुजम् ॥17.23॥
आशिषा सममशेषसंपदः
प्रीतये मुररिपोरदाद् विधिः ।
सिद्धयोऽथ सहसाणिमादय-
[स्तत्र सन्निचकृषुवशवदाः ॥17.24॥
प्रत्यपादि हरयेऽद्भुता द्युतिः
प्राज्यसंमदधृ]ता शिखावता ।
आतपत्रमथ काञ्चनप्रदं
पाथसां पतिरदान्मुदान्वितः ॥17.25॥
माधवस्य वपुषि स्वकं तदा
वीर्यमूजितमदान्मुदानिलः ।
यक्षभूभृदपि कोषमक्षयं
[न ह्यवै]क्षत मुरारयेऽर्पयन् ॥17.26॥
आहवे विजयसिद्धिमुद्धतां
दीर्घमायुरपि संददौ यमः ।
नायकोऽथ फणिनामदान्मुदा
रत्नराशिममितं मुरारये ॥17.27॥
यद्यदिष्टमभवद्दिवौकसां
वाहनं वसुविभूषणादिकम् ।
आदरादुपगत[ा मुरार]ये
तत्तदाशु ददुरुल्लसत्त्विषः ॥17.28॥
सुप्रतीकसदृशा(1)नुरुत्विषो
दन्तिनो मदभरेण मेदुरान् ।
वाजिनश्च तुरगेशसन्निभान्
लक्षशः सुरपतिस्तदा ददौ ॥17.29॥
F.N.(1)ददृशा Ms.
नृत्यगीतगुणकेलिकोविदा[ः
का] मिनीर्ललितकायरोचिषः।
किन्नरैः सममदान्मुदान्वितो
माधवाय सदयः (2)शतक्रतुः॥17.30॥
F.N.(2)ददता Ms.
भूषणं सुरपुरस्य पूरकं
याचकेहितभरस्य वासवः ।
देहविद्धमिव च स्वकं यशः
पारिजातमददान्मुरारये ॥17.31॥
आदरेण परिरभ्य निर्भरं
बाष्पपूर्णनयना पुलोमजा ।
भूषणाम्बरविलेपनादिभि-
र्माधवस्य दयितामतोषयत् ॥17.32॥
उल्लसन्मणिमयं महास्वनं
स्यन्दनं हयसहस्रयोजितम्।
मातलिर्मघवतो नि(89b)देशतो
माधवस्य पुरतो न्यवेदयत् ॥17.33॥
संविसृज्य विनयोर्जितस्तदा
धातृशङ्करमुखा[न्]दिवौकसः।
हीरहस्तिहयहाटकादिभि-
र्याचका[न्]द्रुतमतोषयद् विभुः ॥17.34॥
अश्रुपूर्णनयनाब्जशोभिना
वासवेन परिरभ्य निर्भरम् ।
सादरं शरसि चुम्बितो मुदा
सन्ननाम मुरजिद्दिवौकसः ॥17.35॥
सन्निवार्य शपथैरुदारधी-
रश्रुपूर्णनयनं सुरेश्वरम् ।
आरुरोह दयितायुतो रथं
मेरुमिन्दुरिव रोहिणीसखः ॥17.36॥
ऊर्जितैर्द्विरदवृन्दगर्जितै-
र्निर्भरैरपि च तूर्यनिस्वनैः।
पूरयन् दश दिशः समन्ततो
निर्जगाम सगणो यदूद्वहः ॥17.37॥
संमदोल्लसितयादवं तदा
दूयमानसुरमैन्द्रपत्तनम्।
अर्धनद्धनवचन्द्रमर्धतो
वर्धमानतिमिरं नभोऽहसत् ॥17.38॥
कौतुकोत्तरलिताः समुल्लस-
ल्लोललोचनसरोजराजिभिः ।
माधवं त्रिजगदर्च्यमार्चयन्
सादराः सुरपुरीनिवासिनः ॥17.39॥
हासभासितमुखेन्दवस्तदा
लोललोचनचकोरस[न्निभाः।
प्रस्थितं हरिमवेत्य मेनिरे
स्वस्थितिं त्रिदशसुभ्रुवो वृथा]॥17.40॥
(90a)[र]क्षिणः सुरपतेर्निदेशतो
माधवस्य पुरतो महाबलः ।
चन्दनेन विपिनेन संहतं
कल्पवृक्षमवहन्मुदान्विताः ॥17.41॥
कायकान्तिनिकरैरनर्गलै-
र्भासयन् दश दिशो[ऽथ वृक्षराट्]।
[सञ्चरन् नभसि भानुमानिव
संततं प्रतिपदं व्यराज]त ॥17.42॥
दिग्विलोकनकुतूहलोल्लस-
ल्लोचनः परमया मुदा वृतः।
हासभासितमुखेन्दुरादरा-
च्छीपतिः प्रियतमामभाषत(1)॥17.43॥
F.N.(1)मभाषयत् Ms.
[पारिजातविटपी सचन्दन-
स्तन्वि! याति गगने यथा यथा।
पश्य भान्ति]परितस्तथ तथा
कौतुकादिव दिशः सकाननाः ॥17.44॥
इन्द्रनीलमणिनीलविग्रहा
वारिदाः सलिलभारमन्थराः(1)।
सञ्चरन्ति वि[यति]प्रसादिनः
पश्य संयति मतङ्गजा इव॥17.45॥
F.N.(1)मन्तराः Ms.
प्रेयसि! क्षणमवेक्ष्यतां पुर-
[श्चन्द्रचन्दनसुधा]समद्युतिः।
हीरहाररुचिमम्बरश्रियः
सन्तनोति दिविषत्तरङ्गिणी ॥17.46॥
दृश्यतामिदमुदारमम्बरे
मण्डलं हिमकरस्य राजते ।
कामिनी[वदनतः पराजया-
दर्जितं मलिनमङ्कमुद्वहत्]॥17.47॥
(90b)रत्नराशिरुचिभासितोऽभितः
काञ्चनो विबुधवास]भूधरः ।
देवि! सप्त मुनयो[नयो]ज्ज्वला-
रुन्धती च सकलं निभालय ॥17.48॥
स्यन्दमानतुहिने हिमद्युतौ
तन्वि! भाति [सविशेषमुद्वती]।
[अङ्गनेव सरसा पतिव्रता
पश्य पद्मनयने! कुमुद्वती]॥17.49॥
[नीलनीरदमवेक्ष्य] सर्वथा
[मानसे सर]सि संभृतादरा ।
चारुमारुतया नभस्तले
कुण्डलीयति मरालमण्डली ॥17.50॥
भ्राजमानमणिराजिराजित-
आरुकाञ्चन[रुचा विजृम्भितः]।
[मेरुरेष विबुधालयः पुरो
वल्लभे! गिरिगुरुर्निरीक्ष्यताम्]॥17.51॥
[अत्र]फुल्लशतपत्रलोचने!
कल्पपादपकृते सुरैः समम्।
युद्धमुद्धतगुणं पणीकृत-
प्राणमुन्नतहृदां बभूव नः ॥17.52॥
स्यन्दनेन ज[विनाऽऽत्तसन्निधिः
सारसाक्षि! नवीनरदद्युतिः।
उल्लसल्लहरिझरभ[ङ्गुरः]
पूर्णवारिनिधिरेष सुन्दरि ॥17.53॥
देश एष वरभूषणं भुवः
कामरूप इति विश्रुतः प्रिये ।
यद्भवैरगुरुसारसौरभै-
र्मोदमञ्चति चिरं जगत्त्रयी ॥17.54॥
स(91a)[र्वदा]प्रचुरसिद्धिकारिणी
नीलशैलशिखरे विलासिनी।
शङ्करेण सहिता गिरेः सुता
नैनमब्जनयने! विमुञ्चति ॥17.55॥
लोहितोऽयमतिनिर्मलोदको
दृश्यतां प्रचुरचारुसैकतः।
एष वामनयने! प्रणम्यतां
माधवो मणिमही[ध]रालयः ॥17.56॥
अम्बुजाक्षि! धवलाम्बुधारया
संगताथ कमता विलोक्यताम् ।
कालिका निखिललोकपालिका
सर्वदा रमति यत्र सर्वदा ॥17.57॥
देवपत्तनमिवातिसुन्दरं
नारिकेलवनराजिराजितम्।
उल्लसद्व[रण]मौलिमण्डलं
गौडमण्डलमिदं विलोक्यताम् ॥17.58॥
जानकीजननभूमिरीक्ष्यता-
मम्बुजाक्षि! मिथिलेयग्रतः।
अत्र विज्ञवदनेषु दर्पिता
नृत्यति प्रतिगृहं सरस्वती ॥17.59॥
काशिका परपदप्रकाशिका
कार्मुकाकृतिरियं विराजते।
यत्र चारुगुणरोचिरुह्यते
गङ्गया मृदुचलत्तरङ्गया ॥17.60॥
ये मनागपि वसन्ति मानवाः
पत्तनेऽत्र कुसुमाशुगद्विषः ।
तैरुदारचरितैः करे कृता
हेलयैव पुरुषार्थसिद्धयः ॥17.61॥
पातकाशनिरसौ सुरापगा
सङ्ग(91b)ता यमुनयातिधन्यया।
मज्जतामिह कदापि सज्जते
नाम्बुजाक्षि! जनिवेदना घना ॥17.62॥
जाह्नवीचलतरङ्गचामरं
तीर्थराजमिममाहुरा[र्थकाः]।
आतपत्रमिव यत्र राजते
नीलनीरदनिभो महावटः॥17.63॥
सुन्दराङ्गि! सरितौ सितासिते
संगते त्रिजगतां हितावहे।
व्याधिमाधिमथ जन्मयातना
ये हठेन हरतो विलोकिते ॥17.64॥
दूरिता रथरयेण भूरिणा
जाह्नवी सयमुना यदीक्षणात् ।
प्रात्पविप्लुतनिधिव्यथेव मे
मानसं बत दुनोति निर्दयम् ॥17.65॥
अम्बुजाक्षि! मथुरेयमुज्ज्वला
बाल्यकेलिशतसाक्षिणी मम।
अत्र केनचिदुदारचेतसा-
घानि भोजपतिरोजसान्वितः॥17.66॥
पालितं सपदि[पाण्डु]जन्मना
वारणावतमिदं वरानने।
राजसूयसमयेऽत्र निर्जिताः
के न भूमिपतयः समागताः ॥17.67॥
दृष्टशक्रसुतविक्रमं कुरु-
क्षेत्रमेतदबले! विलोक्यताम्।
आममर्द तरसा सुयोधनं
दुर्धरोऽत्र गदया वृकोदरः ॥17.68॥
श्रीरघूद्वहवियोगसाक्षिणी
दक्षिणा दिगि[यम(92b)क्षि]तोषिणी।
यद्विलोकनविनोदशालिना
भानुनापि बत मान्द्यमुह्यते॥17.69॥
चारुवाग्विलसितोज्ज्वलं महा-
राष्ट्रमण्डलमिदं मदालसे।
नागरीनयनतुङ्गभङ्गिभि-
र्यत्र याति मदनः कृतार्थताम्॥17.70॥
अग्निहोत्रपरिचायकाश्चिरं
वेदवादनिरता निरन्तरम्।
संवसन्ति तपनानलप्रभा
यत्र शुद्धमतयो द्विजातयः ॥17.71॥
नाकनायकपुरोपमं पुरो
भाति भाविनि! विदर्भमण्डलम् ।
सद्गुणां प्रणयिनीमिव प्रियो
यस्य रीतिमनुयाति सत्कविः ॥17.72॥
सागरोऽयमुरुभङ्गिनिर्भरा-
न्दोललोलजलजन्तुसन्ततिः ।
शीर्यमाणघनशुक्तिकापत-
न्मौक्तिकोत्करकरम्बितान्तरः ॥17.73॥
संहृतत्रिभुवनो निजेहया
पन्नगेशफणमध्यमास्थितः।
अत्र संस्वपिति योगनिद्रया
मुद्रितश्चिरतरं परः पुमान्॥17.74॥
केतकीकुसुमगन्धबान्धवो
लालयन् मृदुतरङ्गसंहतिः।
शीकरप्रकरसङ्गशीतलो
मन्दमन्दमयमेति मारुतः॥17.75॥
देहि देवि! दृशमादरादितो
द्वारकेयमुदिता गुणोत्करैः ।
यद्विलोकनकुतूहलान्मुहु-
र्मोदमेति मम मानसं प्रिये! ॥17.76॥
अत्र शोणमणिराजिराजिता
दृश्यतां सुदति! सौधमण्डली।
यत्प्रभाभिरभिको विभूषितो
भानुमानपि तिरीक्ष्यते नरैः ॥17.77॥
अस्मादागमनसंश्रुतिस्रव-
न्मोदबाष्पभरभूषितेक्षणाः।
संभ्रमादनधिरूढवाहना
निःसरन्ति नगरादितो जनाः॥17.78॥
इत्थमालपति म[ा]धवे मुदा
मातलिर्विदिततत्समीहितः।
आनिनाय रथमञ्जसा महीं
ना[नुगाः प्रभुरुचौ वि]लम्बिनः ॥17.79॥
तत्रावतीर्य रथतोऽथ रथाङ्गपाणिः
प्रत्युन्मुखान् गुरुजनान् प्रणनाम नम्रः।
भक्त्यानतः शिशुभिरस्रकलाविलाक्ष-
स्तानालिलिङ्ग समुदीर्य सुमङ्गलानि ॥17.80॥
सरभसमनुयातः स[म्मदा]दुत्तरङ्गैः
पथि पथि नगरीयैरादरादर्च्यमानः।
जयजनितविशालोल्लासफुल्लाननश्रीः
पुरमविशदमन्दानन्दसान्द्रो मुकुन्दः॥17.81॥
स्वान्तध्वान्तविधूननं प्रणमतां दीर्घादरं ध्यायता
धन्यं किञ्चन हृद्गतं नवजवासिन्दूरसान्द्रं महः।
पूर्णः श्रीकविकर्णपूरकृतिना कौतुहलान्निर्मिते
काव्ये चारुणि पारिजातहरणे सर्गो मुनीन्द्वङ्कितः ॥17.82॥
.
\[ ***अष्टादशः सर्गः*** \]
भुजभुजङ्गमराजविराजितो
युधि वि(93a)जित्य हरि]स्त्रिदशेश्वरम्।
सुरतरुं धरणीतलमानयन्
मनसि तस्य ततान न विस्मयम्॥18.1॥
मणिमयोत्तमकृत्रिमपर्वतो-
परि परिस्फुरदुग्रतरद्युतिः।
विनिहितो मुदितेन मधुद्विषा
सुरतरुर्विचकास सनन्दनः ॥18.2॥
रुचिरकाञ्चनकुम्भसुसंभृतै-
र्ललितकेलिसरःसलिलोत्करैः।
प्रमुदिताः सततं सह सत्यया
सिषिचुरब्जदृशः सुदशाखिनम् ॥18.3॥
सुरभिगन्धभरैः कुसुमोत्करैः
प्रचुरचारुपरागविराजितैः।
मृदुलयापि च पल्लवशय्यया
तमुपसेव्य मुदं दधुरङ्गनाः॥18.4॥
सुरपतिर्विजितः समराङ्गणे
द्रुतमहारि तरुस्त्रिदिवौकसाम्।
इदमुदारतरं परितः प्रजा
मुरहरस्य यशोऽभिनवं[ज]गुः ॥18.5॥
भुजबलेन विजित्य शतक्रतुं
सुरविभूषणवारणवाजिभिः ।
विनयनम्रमना मधुसूदनः
सपदि बन्धुगणान् समतोषयत् ॥18.6॥
विशदहासलसद्वदनेन्दुना
वचनचारुसुधारसवर्षिणा ।
मुरहरेण[म]नागपि वीक्षिता
मुमुदिरे रिपवोऽपि निरन्तरम् ॥18.7॥
न तदवादि कदापि मधुद्विषा
यदभवद् व्यथकं द्विषतामपि ।
व्यरचि तेन कदापि न तद् यतो
मुदमुदारतरां न दधुर्जनाः ॥18.8॥
सदुदयेन[सदाम्बरशालिना
त्रिजगतीदृगसेचनकत्विषा]।
मुरहरेण मनोज्ञकलावता
मुदमवापुरुदग्ररुचः प्रजाः ॥18.9॥
मुरहरेण मनोरमरूपिणा
निखिललोकविलोचनराजिषु ।
क्षणविलोकनतोऽपि वितेनिरे
द्रवदमन्दसुधारसवृष्टयः ॥18.10॥
ललितता[ललयेन]विचक्षणा
मधुरगीतकलापकलाविदः।
प्रतिसभं शुभशंसि हरेर्यशो
जगुरुदारतरं हरिणेक्षणाः ॥18.11॥
न वलितज्यमकारि धनुः क्वचिद्
व्यरचि नैव रुषारुणमाननम्।
तदपि वश्यमभून्मधुविद्विषो
[गुणगणै]र्निखिलं जगदञ्जसा॥18.12॥
दश दिशोऽपि यशोभरभूषिता
भुजबलेन विजित्य यदूद्वहः।
विविधदानकृतार्थितयाचक-
श्चिरमयष्ट महेष्टफलैर्मखैः॥18.13॥
विविधयागविशेषविनिर्मितैः
कनकयूपगणर्मुरवैरिणा।
(94a)[विशद]कीर्तिभरैरिव भासिताः(1)
सपदि वारिनिधेस्तटभूमयः ॥18.14॥
F.N.
(1)भाषिता Ms.
उपहृताभिरुदारतरत्विषा
कनकराजिभिराशु मुरद्विषा।
प्रतिबलीयकवेश्म विरेजिरे
कति न वाभिनवा इव पर्वताः ॥18.15॥
[विमलपर्वसुधानिधिमण्डलै-]
रिव पुरैः परितः परिवारिताः ।
दश दिशोऽपि शशंसुरनुक्षणं
जगति यस्य निरावरणं यशः ॥18.16॥
तपति तस्य पराक्रमपावके
रविरमानि हृदा न हि मानवैः।
अथ विभाति तदीयमुखाम्बुजे
सु[खम]वापि न शातरुचावपि ॥18.17॥
अनुगतो मनुवर्त्म महामना
विविधनीतिनियोगविचक्षणः।
अनुशशास भुवं सपयोनिधिं
सुजनरक्षणदक्षतमो हरिः ॥18.18॥
अपि जगद्विजयोर्जिततेजसो
[विनयन]म्रहृदो मुरवैरिणः ।
ललितकीर्तिसुधारसलेपनै-
र्विशदभावमगाज्जगदङ्गणम् ॥18.19॥
[अवति भूमि]मुदग्रतरे हरौ
गलितदस्युनिशाचरभीतयः।
विविधयागतपः कृतितर्पणै-
र्मुमुदिरे मुनयोऽपि वनस्थिताः॥18.20॥
सकलया कलया भुवि राजता
हिमरुचेव मनोरमरूपिणा।
नवनवः समकारि मुरारिणा
निखिललोकमनःकुमुदव्रजः॥18.21॥
अथ निधाय महीपरिपालनो-
द्भटभरं नयशालिषु मन्त्रि(94b)षु।
प्रभुदितप्रमदाभिरुदारधीः
सह विहारसुखं हरिरन्वभूत् ॥18.22॥
ऋतुगणेन सदैव निषेविते
मलयधीरसमीरविराजिते।
कुसुमसौरभशालिनि कानने
मुदमुदारतरां हरिराप्तवान् ॥18.23॥
[कुटजकेतकमञ्जुतरां]शुभि-
र्विशदयन् परितो हरितो भृशम्।
विहरति स्मरकेलिपरे हरौ
प्रतिपलं विललास घनागमः ॥18.24॥
घनतरोर्जितगर्जितशालिनो
नवहरिन्मणिमेदुरकान्तयः।
विदधुर[म्बुधराः परिवारिता]
वलदुदारतडित्तरला दिशः॥18.25॥
प्रतिवनं वनवारिविराजिता
रुरुचिरे वरकेतकराजयः।
स्फुटजगद्विजयोर्जिततेजसो
रतिपतेरिव काञ्चनशस्त्रिकाः ॥18.26॥
तनुतरांशुकचन्दनसे[विनां
ललित]मल्लिविकासविभूषया ।
दयितयेव विलासकलाविदां
द्रुतमहारि मनः शुचिसंपदा ॥18.27॥
सलिलमम्बुजराजिविराजितं
विशदशीतकरोज्ज्वलितं नभः।
वनभुवः कलहंसविभूषित[ा
न शरदा]किमकारि मुदान्वितम् ॥18.28॥
ललितकुन्दमरन्दभरालस-
स्तुहिननीरनिषेवणशीतलः ।
सुरतरङ्गतरङ्गितमानसं
हरिमसेवत हैमनमारुतः ॥18.29॥
प्रतिवनं नवकिंशुकशाखिनां
मृदुपलाशशतानि चकाशि[रे]।
(95a)सकुसुमप्रचयानि घना]टवी-
समुपजातहुताशशिखा इव ॥18.30॥
रसिकपाणिपराहतवल्लकी
मृदुगुणस्वनतोऽपि मनोरमैः।
जगदकारि मधौ वशमञ्जसा
मुदितकोकिलकोमलकूजितैः ॥18.31॥
[दिनतनूकरणादतनुप्रियो
विपुलय]न् सहसैव विभावरीः।
कुसुमसंवलितो बत रागिणां
मुदमुदारतमां विदधे मधुः॥18.32॥
नवरसालरसादनदर्पिताः
परभृता यदुदारतरं जगुः।
तदभवन्मदनस्य महोर्जितं
सपदि दग्धत[नोरनुजीवि]तम् ॥18.33॥
बकुलकुञ्जविगुञ्जदलिव्रज-
प्रचुरनादविकासिनि कानने।
नवनवत्वमियाय वनप्रिया-
रुतमुदारतरं बत रागिणाम् ॥18.34॥
अलिनि वल्गति वाति समीरणे
परभृते गिरमुद्गिरति स्फुटम्।
मकर[केतुरुदीर्ण]शरासनः
प्रसभमेव जिगाय जगत्त्रयम्॥18.35॥
कुसुमसौरभसारसुसंभृते
मलयमारुतसङ्गमशीतले।
नवलताभवने सह सत्यया
हरिरुदारतरं सुखमन्वभूत् ॥18.36॥
सुरतरुप्रसवैरधिकादरा-
द्विहित[मण्डन]मेव नव [प्रभैः]।
प्रियतमाकुचमाशु विभूषयन्
मुरहरो मुमुदे कुमुदेक्षणः ॥18.37॥
विविधकेलिविलासविशारदो
हरिरुदैक्षत यां कुतुकादपि ।
मदनबाणविमोहितचेतसा
द्रुतममानि तया सफलं जनुः ॥18.38॥
क्वचिदुदारतरश्रम[निर्भर-
श्लथतनुर्दरनिमीलितलोचना]।
[प्रियतमोरसि]कामवशंवदा
हरिवधू रसिका सहसापतत् ॥18.39॥
स्मितविकाशितचारुतरानना
मधुमदारुणलोलविलोचना।
प्रणयिनं त्वनुरागरसा[लसा
प्रियतमा]परिरभ्य मुदं ददौ॥18.40॥
मृगदृशां स्तनशैलसमुद्गता
रुरुचिरे नखरक्षतराजयः।
वशयितुं युवमानसपन्नगान्
मदनतान्त्रिकमन्त्रगणा इव ॥18.41॥
अधररागरसो नववल्लवै-
र्वरविभूषणभाः कुसुमोत्करैः ।
मधुरचारुगिरः पिकभाषितै-
रपहृता विपिनेषु मृगीदृशाम् ॥18.42॥
वलितघर्मघनस्तनमण्डले
ददति पाणिपुटं यदुनन्दने।
[दरनिमीलितदृग्]विशदस्मितं
मुखमकारि मृगेक्षणया नतम् ॥18.43॥
सरभसं परिचुम्ब्य मुखाम्बुजं
वसनसंग्रहणाय समुत्सुकः।
अथ निरुद्वकरः प्रियया स ता-
मनुनयेन मुरारिरतोषयत् ॥18.44॥
दशति केलिपरेऽधरपल्लवं
न[यदरोधि]करेण मृगीदृशा ।
रसिकचित्तविमोहनहेतवे
तदभवन्मदनस्य महौषधम् ॥18.45॥
विविधकेलिकलासु विशारदा
मृगदृशः शरदिन्दुसमाननाः।
कुसुमरागसमानतनुत्विषा
मुरहरेण मुदं दधुरन्वहम् ॥18.46॥
इत्थं सुखान्यनुभवन् सह का[मिनीभिः]
[आदृत्य वाम]नयनाः स घनानुरागः ।
लक्ष्मीपतिर्गतिरशेषमहाजनानां
कीर्त्या जगद्वलयमुज्ज्वलयांचकार ॥18.47॥
हिमरुचिरुचिरश्रीर्लोकशोकापहारी
दितिजगजसमूहोदारसंहारसिंहः ।
प्रतिपलमतिपूर्णः स्फीतसंपत्प्रतानै-
रधिधरणि ननन्दानन्दकन्दो मुकुन्दः ॥18.48॥(1)
F.N.(1)the Ms breaks off here.
.
]