[[गीतगोविन्दम् Source: EB]]
[
श्रीश्रीगीतगोविन्दम्
श्रीश्रीगौरगदाधरौ विजयेताम्
श्रीप्रबोधानन्दसरस्वतीकृतया श्रीश्रीगीतगोविन्दव्याख्यानाख्यटीकया समेतम् ।
श्रीश्रीगीतगोविन्दम्
(१)
प्रथमः सर्गः
सामोददामोदरः
शशधरमधुरमधुरमूर्तिश्रीवृन्दावनेश्वरीस्तनकुट्मलमकरीविरचनाकलितकरकमलदलानन्दकन्दलितमकरध्वजादेशचलितयोः श्रीमत्कालिन्दीतटसम्बन्धिमाधवीव्रततिस्फुटत्कुसुमकदम्बसौगन्ध्यलुब्धसच्चञ्चरीकपटलीध्वनिकलमाधुरीमुग्धस्वरगुणगणे विविधनिकुञ्जमञ्ज्वध्वद्रुमघनवनेऽवलम्बिनीं कन्दर्पकोटिलीलारसजलधिमग्नहृदयश्रीवृन्दावनकिशोरीकिशोरचक्रचूडामण्योः राधामोहनयोः समस्ततज्जनहृत्पङ्केरुहानन्दसंवर्धिनीं विहारमाधुरीं तत्कृपयैव वर्णयितुं श्रीजयदेवनामा अविरिष्टदेवतास्मरणलक्षणं मङ्गलमाचरति—मेघैरिति । तच्चायोग्येऽप्ययं जनस्तदनुगतत्वेनैव व्याचष्टे ।
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्
नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥१॥
मेघैरित्यादि । जयन्ति सर्वोत्कर्षेण वर्तन्ते । प्राकृताप्राकृतेभ्यो लीलास्वरूपयोरतिरेकात। उक्तं च—कृष्णस्तु भगवान्स्वयं [भा.पु. १.३.२८] इति । कान्ताः—रहःकेलयः सुरतक्रीडाः । रहो गुह्ये रते इति । रहःकेलयः एकान्तक्रीडा इति वा । सजातीयविजातीयेभ्योऽपि एकान्तत्वेन राधया सह केलीनामुत्कर्षो निरूपितः । उक्तं च—यन्नो विहाय गोविन्दः प्रीतोऽयमनयद्रहः [भा.पु. १०.३०.२८] इति । अथवा केलयः सुरतक्रीडाः, प्रकरणवशात। कस्मिन्सति ? रह एकान्ते सति, एकान्तार्थे रहोऽव्ययमिति ।
सखीभिरपि किञ्चिद्व्यवधाने स्थितत्वात। वक्ष्यति च—याते गेहाद्बहिरवहितालीपरिजने [गी.गो. ११.३३] इति जयन्तीत्यनेन नमस्करणीयत्वमुक्तम्, तेन नमस्क्रियया काव्यमुखं द्योतितम् । आशिषि लिङ्लोटौ [पा. ३.३.१७३] इति लोडर्थे लड्विधानात। आशीश्च—भगवतीदमाशीर्वादरूपं मङ्गलं भक्तप्रेम्णैव सङ्गच्छते, परमकल्याणरूपत्वात। केलय इत्यनेन कथालक्षणं वस्त्वपि निर्दिष्टम् । एवं महाकविना त्रिविधमपि काव्यमुखं समुन्मीलितं भवति । तथा च जयन्तीत्यनेन वर्तमाननिर्देशात्केलीनां नित्यत्वं प्रतिपादितम् । केलय इत्यनेन बहुवचनेनानन्तत्वं च दर्शितम् । कवेश्च लीलोपासनया परमैकान्तिकत्वं च स्फुटमेव ।
तासां स्थानं दर्शयति—क्व “यमुनाकूले” यमुनायाः कुलम्, तत्र “प्रत्यध्वकुञ्जद्रुमम्” अध्वानश्च कुञ्जाश्च द्रुमाश्च अध्वकुञ्जद्रुमाः, तान्प्रति । लक्षणेनाभि प्रति [पा. २.१.१४] इति समासः । अध्वनि अध्वनि कुञ्जे कुञ्जे द्रुमे द्रुमे इत्यर्थः । अनेन महाविलासित्वं कथितम्, तदुक्तम्, चापल्यसीम [कृ.क. ७४] इति कर्णामृते । तथा चाध्वादिषु केलयः, यथा—
कस्याः पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ [भा.पु. १०.३०.२७]
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥
इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।
प्रपदाक्रमणे एते पश्यतासकले पदे ॥
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ।
तानि चूडतया कान्तामुपविष्टमिह ध्रुवम् ॥ [भा.पु. १०.३०.३१३४] इति श्रीभागवते ।
यथा वा—
प्रियसखि परिरम्भानाभिमुख्यानुबन्धाद्
असदृशविनिवेशान्नर्मलौल्योर्जितानि ।
इयमविषममन्दन्यासतो जल्पगोष्ठीं
पदततिरिह राधाकृष्णयोरातनोति ॥ [वि.मा. ६.३२]
मनोहारी हारस्खलितमणिभिस्तारतरलैः
परिम्लायन्माल्यो मिलितपुरटालङ्कृतिकणः ।
अयं कुञ्जस्तल्पीकृतकुसुमपुञ्जप्रणयवान्
समन्तादुत्तुङ्गं पिशुनयति रङ्गं मुरभिदः ॥ [वि.मा. ७.४३] इति ।
यमुनाकुल इत्यनेन सम्भोगश्रमहरणाय शिशिरसमीरपद्माद्यवचयजलकेलीनामित्यादिसम्पत्तिः दर्शिता । कयोः ? “राधामाधवयोः” । राध साध संसिद्धौ इति राध्यते साध्यते संसिद्धिं प्राप्यते सौन्दर्यादिगुणैस्तादृशनायकशिरोमणेराकाङ्क्षितमनयेति सा राधा । अथवा—राध्यते साध्यते वशीक्रियते स्वासाधारणानुरागमाधुर्यकौशलेनाशेषनायकचूडामणिरनयेति राधा । तथा चोक्तं—अनयाराधितो नूनं भगवान्हरिरीश्वरः [भा.पु. १०.३०.२८] इति श्रीभागवते । अनेन नाम्नैवाशेषनायकगुणाः कथिताः । मां श्रियं शोभां वैकुण्ठेश्वरीं वा धुनोति निजसौन्दर्यादिगुणैः कम्पयति स्वप्रवणां करोतीति माधवः । धुञ् कम्पने पचाद्यच। यथाह लीलाशुकः—
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः [कृ.क. १]
इति लीलया शृङ्गाररसविक्रमेण जयश्रीः सर्वातिशायिनी शोभेति । अथवा जयस्य श्रीः विष्णोः प्रसिद्धा महिषी, जयं भर्तुर्वक्षसि नित्यमेव स्थितिलक्षणं सौभाग्योत्कर्षं तद्युक्तेति वा । उक्तं च—
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
लब्ध्वापि वक्षसि पदं [भा.पु. १०.२९.३७] इति ।
यद्वाञ्छया श्रीर्ललनाचरत्तपो
विहाय कामान्सुचिरं धृतव्रतः [भा.पु. १०.१६.३६] इति ।
अथवा मायाः सौन्दर्यादिगुणसम्पत्तेर्धवस्पतिः माधवः, धवस्पतिः प्रियो भर्ता इत्यभिधानात। मधौ मधुवंशे भवो माधव इति वा । अथवा मधौ मधुररसे भावो माधवः । वक्ष्यति च—शृङ्गारः सखि मूर्तिमानिव [गी.गो. १.४७] इति । मधौ वसन्ते भवो माधवः स्मर इति वा । तत्र भवः [पा. ४.३.५३] इति सूत्रेणाण् । ओर्गुणः [पा. ६.४.१४६] इति गुणः । तथा चोक्तं— साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.३], स्त्रीणां स्मरो मूर्तिमान्[भा.पु. १०.४३.१७] इति च । एभिर्व्याख्यानैर्नायकस्य गुणाः कथिताः । राधा च माधवश्च राधामाधवौ, तयोः । तथा च लक्ष्म्या काम्यमानोऽपि श्रीराधायामासक्तो बभूवेति तस्या परमोत्कर्षो निरूपितः । तेन चातिगुरुगुणगणगौरवेण कामकेलिषु नायिकायाश्च प्राधान्यात्तस्या पूर्वनिपातः । अल्पाच्तरं [पा. २.२.३४] इति वा । आस्तिककामुकोऽयं नायकश्च । तदुक्तं—
श्यामां परि स्त्रियं प्राप्य चुम्बनालिङ्गनादिभिः ।
नवांश्च जनयेद्भावान्स स्यादास्तिककामुकः ॥ इति ।
केचित्तु श्रिया विना भगवत्क्रीडासम्भवादिति गोपीषु लक्ष्मीत्वमापादयति । तत्तु रुक्मिणी कृष्णजन्मनीति, तस्या पृथङ्निर्देशात्, नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः [भा.पु. १०.४७.६०] इति निषेधाच्च न सङ्गच्छते । किं च, मूलप्रकृती रुक्मिणी [गो.ता.उ. २.५७] इत्युपनिषद्वचनात्रुक्मिण्याः पूर्णत्वमवगम्यते, ततोऽपि गोपीनां भावाधिक्य श्रवणात्तन्नाशङ्कनीयमिति । तद्यथा—तद्भावमापुरपि नित्ययुजां दुरापं [भा.पु. १०.८२.३९] इति नित्ययुजां पातिव्रत्यविधानेन नित्ययुक्तानां महिषीणामित्यर्थः ।
अन्यच्च—यद्यपि नित्याद्वितीयवल्लभौ राधामोहनौ तथाप्यनेन पारकीयत्वाभासेन शृङ्गाररसस्य परा प्रतिष्ठा ध्वनिता । तदुक्तं—
बहु वार्यते खलु यत्र प्रच्छन्नकामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ [उ.नी. १.२०] इति भरतः ।
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥ [उ.नी. ३.२०, शृ.ति. २.३०] इति रुद्रः ।
शृङ्गारतिलके च—
अनन्यशरणा स्वीया धनाहार्या पराङ्गना ।
अस्यास्तु केवलं प्रेम तेनैषा रागिणी मता ॥ [शृ.ति. १.६१] इति ।
किंलक्षणया राधामाधवयोः ? इत्थं वक्ष्यमाणप्रकारेण नन्दनिदेशतश्चलितयोः लोकानुसारतस्तु रूढ्या नन्दनिदेशत इति कदाचिच्छ्रीराधया श्रीकृष्णः सम्बन्धयोगेन असङ्कोचव्यवहाराद्वस्तुतः सङ्गमतृष्णयैव स्वव्रजे गोदोहार्थमानीतः । तस्मिन्नेव समये तन्निकटे स्वव्रजे श्रीव्रजेश्वरस्यागमनं जातम् । तत्र प्राणकोटिप्रियं पुत्रं मेघागमं च दृष्ट्वा प्रणयकोपोक्त्याह—हे वत्से ! राधे ! यतस्त्वयायमानीतस्तस्मात्तमेवेमं गृहं व्रजं प्रापयेति वचनोपक्रमेणैव तन्निदेशतः स्वाभीष्तसिद्धेऽविलम्बेनैव कदाचित्क्रीडाप्रतिबन्धकं कञ्चन जनं प्रस्थापनाय दास्यतीति चलितयोः ।
मेघैरित्यादि । कालदेशसम्पत्त्योद्दीपिताः केलयो यमुनायाः कुलेऽध्वकुञ्जद्रुमं प्रति जयन्तीति । मेघादीनां श्रीव्रजेश्वरदृष्ट्यैव भयानकहेतुत्वम्, तयोः रसिकशिरोभूषणभूतयोस्तु शृङ्गारहेतुत्वमेव चिन्त्यम् । तथा च प्रसिद्धिः—श्रीवृषभानोर्गवां कृष्णवत्सलानां दोहनं श्रीकृष्णः करोति, भगवत्प्रियाणां श्रीव्रजेश्वरस्य गवां श्रीदामादिना क्रियत इति ।
केचिच्च नन्दनिनाम्नी काचित्सखी, तस्या देशतः वचनादिति व्याकुर्वन्ति… ग्रन्थे प्रसिद्धनामकल्पनया न स्वीकारः । ग्रन्थानुसारी त्वयमर्थः—नन्दयतीति नन्दः—नन्दि ग्रहि पचादिभ्यो ल्युणिन्नचः [पा. ३.१.१३४] इति बहुलोक्तेरचिति नन्दश्चासौ निदेशश्च आनन्दकारिनिदेशः, स्वाभीष्टक्रीडायां प्रेरणात्कस्याश्चिद्राधायाः प्रियसहचर्याः भाषणं नर्मोक्तिस्तस्मात। सख्याः रसपोषकत्वात। तल्लक्षणम्, यथा—
स्वात्मनोऽप्यधिकं प्रेम कुर्वाणान्योन्यमच्छलम् ।
विश्रम्भिणी वयोवेषादिभिस्तुल्या सखी मता ॥ [उ.नी. ७.७०]
मिथः प्रेमगुनोत्कीर्तिस्तयोरासक्तिकारिता ।
अभिसारो द्वयोरेव सख्याः कृष्णे समर्पणम् ॥९७॥
नर्माश्वासननेपथ्यं हृदयोद्घाटपाटवम् ।
छिद्रसंवृतिरेतस्याः पत्यादेः परिवञ्चना ॥९८॥
शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः ।
तयोर्द्वयोरुपालम्भः सन्देशप्रेषणं तथा ।
नायिकाप्राणसंरक्षा प्रयत्नाद्याः सखीक्रियाः ॥ [उ.नी. ८.९७९९] इति चलितयोः ।
तमेव प्रकारमाह—हे सखि राधे ! तत्तस्माद्धेतोरिमं त्वन्मुखचन्द्रनिहितक्षणचकोरं त्वमेव गृहं प्रापय, क्रीडानिकुञ्जं प्रापयेत्यर्थः । अखिलभोग्यास्पदत्वेन गृहमित्युक्तम् । तेन च सम्भोगसम्पत्त्या एनं सुखयेति गूढाभिप्रायः । त्वमेवेत्यन्ययोगो निराकृतः । अथवा गृहं प्रापयेति सामान्यनारीव्यावृत्त्या गृहिणीनिर्वर्त्ये सम्भोगादिकर्मणि समुदिता भवेत्यर्थः । अत्र गृहशब्देन ताटस्थ्यात्गृहिण्युच्यते । गृहशब्दच्छलेन तामेव पुरस्कृत्य वनविहारदर्शनात। प्राप्नोतिरुदयार्थे वर्तते प्रलाभोदययुक्तिषु इति चूडामणिः । एवकारोऽन्ययोगव्यावृत्त्यर्थः । त्वयैवायं गृहिणीमान्स्यादिति सख्याः गूढपरिहसितमिति कुम्भकर्णोक्तेः ।
तस्मादिति किं ? यतोऽयं तवाधीनो जनो भीरुः मदनवेपितः एभिर्भावैर्हेतुभिः स्मरशरहतीः सोढुमसमर्थः । अत्र नक्तं भीरुरिमं गृहं प्रापयेत्यत्रेदमोऽन्वादेशे, द्वितीया टोस्स्वेन [पा. २.४.३४] इति सूत्रेण एनादेशः कथं न भवतीति न वाच्यम् । अन्वादेशविषयत्वाभावात। एकक्रियाविशिष्टेन कथितस्य पुनः क्रियान्तरविशिष्टत्वाभावान्नेहान्वादेशः । तानेव भावान्नाह—अन्वरमाकाशं मेघैर्मेदुरं सान्द्रं स्निग्धं वर्तते । अपरं च तमालद्रुमैर्वनभुवः श्यामा वर्तते । नक्तं रात्रिकालः । एवं देशकालवस्तुलक्षणादिभावाः सूचिताः । तथावद्भावानां श्यामात्वेन शृङ्गाररसतादात्म्याच्छृङ्गाररसरूपत्वं ध्वनितम् । उक्तं च—श्यामो भवति शृङ्गारः [ना.शा. ५.४२] इति । किं च, वनभुवः श्यामा इति नायिकासाहचर्यः, तमालद्रुमैर्मेघैश्च नायकस्येति । तथा चोक्तं—प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रं [भा.पु. १०.२१.१६] इति ।
अत्र काव्ये शृङ्गारप्राधान्यात्तस्य मेघाद्यास्त्रयोऽप्युद्दीपनविभावाः, राधाद्याश्चलम्बनविभावाः । भीरुरित्यनुभावः । हर्षावेगशङ्कोत्सुक्यव्रीडाचपलतादयः व्यभिचारिण उक्ता भवन्ति । एवं कारणकार्यसहकारिभिरिति स्थायिभावः सकलरसराट्प्रपञ्चः संयोगाख्योऽभिलाषेर्ष्यासूयालक्षणो विप्रलम्भाक्यश्च शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तं—
कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥
विभावानुभावास्तावत्कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायि भावो रसः स्मृतः ॥ [का.प्र. ४.२७२८]
तथा चाभाणि भरतेन—विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः [ना.शा. ६.३१] इति । एवमेव कविना रसमुख्ये स्थिरीकृते तदाशयमबुद्ध्वा कैश्चिन्नायकस्य शिशुत्वं नायिकायाः प्रौढत्वं शृङ्गारविभावानां भयानकहेतुत्वं पितुश्च निदेशः इति व्याहृतम् । तदा कविनिरूपितस्य रसस्यान्यथात्वमुपपद्यते । तेन पूर्वव्याख्यानमेव समीचीनम् । अथवा निदेशो भाषणादेशसामीप्यार्थे वर्तते इति नन्दनिदेशतः नन्दसमीपात्नन्दनिदेशतः व्रजाद्वा । अथवा उभयोर्यत्र सङ्गमो जातः तदेवाह्लादकारी श्रीवृन्दावनान्तरदेशविदेशविशेषस्तस्मात्, पक्षत्रयेऽपि कृष्णोक्तेरनु चलितयोरित्यर्थः । तत्र कातर्येण सोच्छ्वासं सम्बोधयति—हे राध इति । इमं मल्लक्षणो जनो भीरुस्तत्पार्श्वं त्यक्तुमसमर्थ इति । अत्रानुकूलो नायकः, स्वाधीनपतिका नायिका । तयोर्लक्षणं च वक्ष्यतेऽग्रे । पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः । अपरार्धे सम्भोगश्च शृङ्गारः ॥१॥
—ओ)०(ओ—
कविरिदानीं सकलरसज्ञजनमनोहारिहरिचरितानुवर्णनेन समुचितेष्टदेवताभावितान्तःकरणः शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रतिजानीते—
वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं
एतं करोति जयदेवकविः प्रबन्धम् ॥२॥
जयदेवकविः जयः श्रीकृष्णस्तं द्योतयति, महाभाग्यवतां तद्रहस्योपासने प्रवर्तकत्वेन प्रकाशयत्यसौ जयदेवस्तेन प्रकाशमानो वा, अत एव कविः । अथवा जयश्चासौ देवश्च, जयदेवो भगवान्स्वयमेवास्मिन्ग्रन्थे जयदेवव्यपदेशेन कविरित्यर्थः । जयेन श्रीराधिकाविजयेन दीव्यतीति जयदेवः, स चासौ कविश्चेति वा । एतं गीतगोविन्दाख्यं प्रबन्धं प्रकर्षेण बध्यतेऽस्मिंश्छ्रोत्èणां हृदयमिति प्रबन्धस्तं करोति । तत्र हेतुगर्भं विशिनष्टि—कीदृशं ? श्रीर्वराङ्गना राधा । अथवा शिर्ञ् सेवायाम्, क्विप्च [पा. ३.२.७६] इति क्विप्दीर्घोऽप्रसारणं च । श्रयत एतां कृष्णे रसार्थमिति श्रीः । श्रीयत अनेनेति वा, सा श्रीः राधैव ।
वसुषु दीव्यतीति वसुदेवो नन्दः । उक्तं च—द्रोणो वसूनां प्रवरः [भा.पु. १०.८.४८] इत्यादि । वसुभिर्दीव्यतीति वा । तस्यापत्यं वासुदेवः कृष्णः । अनेन धनाढ्य इति नायकगुणः कथितः । अथवा वसु निवासे वसत्यस्मिन्वृन्दावने श्रीराधागणो वा इति वासुः । अथवा धातूनामनेकार्थत्वात्वासयति सर्वमिदं स्वविलासपरिमलेनेति वासुः । औणादिक उण्प्रत्ययः । स्वसौन्दर्यादिगुणैः । दीव्यतीति देवः । द्योतयति सर्वमिदमिति वा निजकौशलेन सर्वान्विजयते इति वा । अथवा शृङ्गाररसेन रुचिमान्प्रियजनान्रोचयतीति वा, स्वविलासेन प्रियजनान्मदयतीति वा । तैः हर्षवानिति वा देवः । दिव्क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्विति । विलासवान्गुणवान्सर्वातिशायी शृङ्गारवान्मोदमांश्चेत्यर्थः । वासुश्चासौ देवश्चेति वासुदेवः, तयोः श्रीवासुदेवयोः रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं युक्तम्, रतिरनुरागस्तेन केलिषु यन्नागरयोः संवादस्तत्सहितमिति वा ।
ननु तयोरत्यद्भुतानुरागिणोः श्रियादिभिर्द्युर्वितर्क्यालापज्ञाने कथमधिकारः ? तत्राह—किंलक्षणः कविः ? वाक्चासौ देवता चेति । वाचां देवतेति वा वाग्देवता परा सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसम्पन्नलोकोत्तरकाव्यरचनाविशेषरूपेण चित्रितं चित्तरूपं सद्म यस्य स्थितः । अत्र विचित्रभगवद्गुणवर्णनेन विचित्रकवितारूपमहाधननिधानत्वेन समस्तभक्तजनविश्रामसुखाश्रयत्वेन च चित्तस्य गृहसाम्यम् । अथवा—यतो वाचो निवर्तन्ते [तै.उ. २.४.१] इति श्रुतेः । तदागोचरत्वादयमर्थः—वाक्वर्णनीयभगवद्गुणरूपा वाणी सैव परमपुरुषार्थत्वेन देवता तस्याश्चरितेनाविर्भावेन नित्यानन्दरूपत्वात्चित्रितमाश्चर्ययुक्तं कृतं चित्तमेव सद्म गृहं यस्य स्थितः । वाक्परा सरस्वती तस्या देवता सर्वोत्तमत्वेन सर्वोपास्यतया श्रीराधाप्रियः तच्चरितेन विलासेन चित्रितमालेख्ययुक्तं कृतं चित्तं सद्म च यस्येति वा । अपरमपि गृहं विविधालेख्यैर्मण्डितं भवतीति ध्वनितम् । तथा चास्य गृहमपि भगवता साक्षादाविर्भावेन परमगोप्यमपि स्वहस्तलिखनेन च मण्डितमिति भागवतैः प्रसिद्धम् ।
ननु कथं तादृशं प्रसादभाजनत्वमस्येत्यत आह—पुनः कीदृशः ? पद्मं करे यस्याः सा पद्मावती शरादीनां च [पा. ६.३.१२०] इति दीर्घः । सर्वसौभाग्यलक्षणान्विता श्रीराधा । पद्मा भगवद्वशीकरणकान्तिः चक्रवर्ती सर्वाधिकः प्राप्ततादृशप्रसादपात्रत्वमित्यर्थः । अथवा चरणयोर्विषयभूतयोरेव चारणचक्रवर्ती नर्तकश्रेष्ठः । नृत्यादिना सदा तत्पादाराधनपरः । अथवा पद्मावती तस्य पत्नी तस्याश्चरणयोर्यच्चारणं नर्तनं तेन चक्रवद्वर्तितुं शीलमस्यासौ तादृशम्, एतेन तद्भक्त्याधिक्यं कवेः सूचितम् । यथाह—तद्योगयुक्ता हि गणयन्ति न लौकिकमिति । लौकिकश्चायमर्थः—चरणयोश्चरति परिचरतीति चरणचारणः पद्मावत्येव चरणचारणा चरणसेविका यस्य स चासौ चक्रवर्ती मुख्यश्च स इति तस्य शृङ्गारित्वं कथितम् । तेन च सरसकाव्यकरणेढिकारः । उक्तं च—
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत।
स एव चेद शृङ्गारी सर्वं विरसतां व्रजेत॥ इति ।
आलेख्याश्चर्ययोश्चित्रमित्यमरः । चारणस्तु कुशीलवाः इत्यपि । कविः काव्यकरे सुरौ इति विश्वः ॥२॥
—ओ)०(ओ—
यदि हरिस्मरणे सरसं मनो
यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं
शृणु तदा जयदेवसरस्वतीम् ॥३॥
हे सज्जनगण ! यदि हरिस्मरणे कृष्णानुचिन्तने मनः अखिलव्रजजनयुवतिचित्तचौरेऽन्यविग्रहव्यावृत्त्या श्रीमत्कमनीयकिशोरव्रजेन्द्रनन्दने भक्तिरित्यर्थः । उक्तं च—गोविन्द एव निखिलात्मनि रूढभावाः [भा.पु. १०.४७.५८] इति । किं च, भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्मिन्मनसः कल्पनमेतदेव नैष्कर्म्यं [गो.ता.उ. १.१५] इति तापन्याम् । तत्रापि सरसं रसः शृङ्गारः तत्सहितम् । यदि च विलासकलासु विलासः स्त्रीणां भगवत्प्रेयसीनां राधादीनां हावविशेषस्तत्सम्बन्धीषु कलासु क्रीडासु कुतूहलमुत्सुकं—तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु [द.रू. २.३८] इति । तदुक्तं—
स्खलति बहुलं पादन्यासे विलोकिनी… न्यतः
स्थिरमपि तदाम्भोजं प्रयाति विधूननम् ।
स्मितमपि मुधा व्यर्थः क्रोधो वृथैव चमत्कृतिर्
दयितसविधं यान्त्यास्तन्व्या विलासरसोऽप्ययम् ॥ इति ।
एतेन भगवत्परिजनेषु भक्तिरुच्यते । कला स्याच्चन्द्रकलायां कला स्यात्क्रीडनादिषु इति विश्वः । तदा जयदेवकवेः सरस्वतीम् । अथवा हे दाः बहुदानेन पुणातिशयवन्तः शृणुत अत्यादरेणावधारयत । कलासु चतुःषष्टीरूपासु रतिकलासु । चतुःषष्टिश्चेत्थम्—
हसितं गीतं पठितं नृत्यं तथा वीणा वेणुवाद्यं
तालः पुस्तकज्ञानमायुषो वेदः ।
धनुर्वेदश्च शिक्षा च राजशिक्षा च रत्नयोः शिक्षा ।
कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तिकः ॥
परभाषा पुराणं च स्मृती रामायणस्तथा ।
महाभारतमाख्यानं राजलक्षणवेदनाम् ।
नियुद्धयुद्धोत्तरणं भूततन्त्रप्रहेलिका ।
सर्पाशीविषसंरोधो भूमिदृष्टीष्टसाधनम् ।
चिन्तानिवर्तनं पुष्टिवर्तनं पिण्डकर्षणम् ।
विकल्पोच्चारकरणं विचित्रकरमर्दनम् ॥
लिखितं चित्रकविता राजनीतिस्तथा परा ।
सभापाण्डित्यवक्तृत्वं दुर्गसेनारिवीक्षणम् ।
अङ्गसंवाहनं चारुदर्शनं चोपलक्षणम् ।
प्रादादनन्तु रुष्टस्य स्त्रीचित्तहरणं तथा ॥ इति ।
कीदृशीं जयदेवसरस्वतीं ? मधुरकोमलकान्तपदावलीं शृङ्गाररसप्राचूर्यान्मधुरा, झटिति बोध्यत्वात्कोमला सुकुमारा, गेयत्वात्कान्ता कमनीया, मधुरा चासौ कोमला चासौ कान्ता च पदपरम्परा यस्यास्तादृशमित्यर्थः । तत्र मधुरा, यथा—
मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माध्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ [काव्यादर्श १.५१]
सुप्रयोगैर्महच्छब्दैर्युक्तमस्पष्टसन्धिभिः ।
सुकुमारार्थसंयुक्तं सुकुमारं प्रचक्षते ॥ इति लीलारविन्दे (२) ।
जन्मनः श्रोतृविशदं प्रह्लादजनकं भवेत।
शब्दबन्धानुयोगेन तत्कान्तमिति कीर्तितम् ॥
तथा च मधुरत्वं द्विविधं—शब्दाश्रितमर्थाश्रितं च । तत्र शब्दकोमलत्वमर्थकोमलत्वं च परुषेऽप्यर्थेऽपरुषत्वं च । तद्यथा—मृते यशःशेषे इति । एवं कान्तत्वमपि । बद्धविशेषादि नाम न श्रोत्रप्रीतिपदत्वमुज्ज्वलत्वं शब्दाश्रितम् । अर्थाश्रितं प्रदीप्तरसवत्त्वम् । शृङ्गारादौ रसे वीर्ये गुणे रागे द्रवे रसः इत्यमरः । । एभिः पद्यैः विषयप्रयोजनसम्बन्धाधिकारिणो दर्शिताः । रहःकेलयो जयन्तीति विषयो दर्शितः । उक्तगुणवतोः श्रीराधामोहनयोः उक्तलक्षणासक्तिः प्रयोजनम् । प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । उक्तलक्षणः एतद्रसभावितान्तःकरणः अधिकारी । एवं चत्वारो निरूपिताः ॥३॥
—ओ)०(ओ—
इदानीं ग्रन्थनिर्दोषत्वाय प्रामाण्यापादनाय च केनचिन्महाभागवतेन महाकविसभायां वर्णितं पद्यं सङ्गृह्यते—
वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन
स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कविक्ष्मापतिः ॥४॥
उमापतिधरनामा कविः लक्षणसेनामात्यो वाचः पल्लवयति विस्तारयति व्यङ्ग्यार्थशून्यं शब्दार्थगुणशून्यं चास्य कवित्वमिति ध्वनितम् । श्रणः शरणनामा कविः दुरूहस्य विषमार्थकाव्यस्य शीघ्ररचने श्लाघ्यः स्तुत्यः । गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं च तस्यापि काव्यं चेति । तथा च शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र । शृङ्गारेण उत्तरं प्रधानं वा यत्सत्प्रमेयं तस्य रचनैः कवितायाः ग्रथनैराचार्यगोवर्धनस्पर्धी गोवर्धनाचार्येण सह स्पर्धवान्कोऽपि न विश्रुतो न ख्यातः । रसान्तरप्रवेशेन माधुर्यादिगुणसम्पन्नपदरचनायां सोऽप्यशक्त एवेति भावः । इतरविधाध्यापनादिना, न तु सत्कवितायामाचार्यत्वमिति सोपहासमुक्तमाचार्येति । धोयी कविक्ष्मापतिः धोयीनामा कविराजः श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थादिग्राही, न तु तस्य कवितायां कौशलमिति भावः । क्ष्मापतिपदेनाहङ्कारित्वं जाड्यं चेति ध्वनितम् । गिरां वचसां सन्दर्भशुद्धिं गुणालङ्कारसम्पन्नग्रथनविशेषं जयदेव एव जानीते, नान्यः । तथा च गिरां सन्दर्भशुद्धिं जयदेव एव जानाति, भगवद्गुणवर्णनाकारत्वात। तदुक्तं श्रीभागवते—
न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥
तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भा.पु. १.५.१०११]
इति विशिष्टशब्दार्थवत्तया च महाकाव्यत्वं दर्शितम् । वैशिष्ट्यं विषयनिर्दोषवत्त्वे गुणवदलङ्कारयोगित्वे सति रसवत्त्वम् । तदुक्तं—
निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन्कीर्तिं भक्तिं च विन्दति ॥ [स.क.आ. १.२] इति ।
पल्लवः स्यात्किशलये विटपे विस्तरे बले इति विश्वः । लघु क्षिप्रमरं द्रुतमित्यमरः । उत्तरं प्रतिवाक्ये स्यादूर्ध्वादीच्योत्तमेऽन्यवतिति च ॥४॥
—ओ)०(ओ—
॥ प्रथमप्रबन्धः ॥
मालवगौडरागेण रूपकतलेन गियते । अष्टापदी ।
ननु पूर्वमुक्तं राधामाधवयोः रहःकेलयः जयन्ति, तेन पारकीयत्वेन,
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ [भा.पु. १०.२९.२६]
इति भयादिनिन्दाक्रान्तत्वात्तुच्छत्वाच्च कथं रसनिष्पत्तिः ? कथं वा जयन्तीत्युक्तं ? तदेव निरतिशयात्यद्भुतशक्तिमत्त्वनिरूपणेन सर्वनियामकतया महात्यद्भुतैश्वर्येणानियम्यगोपकिशोराखिलचिन्मयरसास्वादलीलामयमूर्तेरवतारगुणैर्नायकश्रेष्ठत्वापादनेन सर्वविघ्ननिवर्तये नमस्क्रियया मङ्गलमप्याचरन्नित्यानन्दरूपतां चापादयनुक्तदोषं परिहरति—
प्रलयपयोधिजले धृतवानसि वेदं
विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर
जय जगदीश हरे ॥५॥
उक्तं चास्मिन्नेवार्थे—
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक॥
अनुग्रहाय भूतानां मानुषं देहमाश्रितः ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत॥ [भा.पु. १०.३३.३६] इति ।
तासां माहात्म्यमपि भगवतैवोक्तं तत्रैव—
एवं मदर्थोज्झितलोकवेद
स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ [भा.पु. १०.३२.२१]
न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विबुधायुषापि वः ।
यामाभजन्दुर्जरगेहशृङ्खलाः
संवृश्च्य तद्वः प्रतियातु साधुना ॥ [भा.पु. १०.३२.२२] इति ।
एतदुक्तं भवति—नायकोऽयं पुरुषोत्तमः, तास्तु नित्यप्रियाः प्रेमरसैकमूर्तयः । अतो निःसीमरसास्पदत्वं सोत्कृष्टत्वमपि सिद्धमिति सिद्धान्तः । अस्वर्ग्यमित्यादि यदुक्तं भगवता, तत्तु प्राकृतविषयम्, रसनिष्पत्त्यै वक्रोक्त्या तद्भावपरीक्षार्थं वेति । गीतस्यास्य मालवरागो रूपकतालः । तयोर्लक्षणं—
नितम्बिनीचुम्बितवक्त्रपद्मः
शुकद्युतिः कुण्डलवान्प्रमत्तः ।
सङ्गीतशालां प्रविशन्प्रदोषे
मालाधरो मालवरागराजः ॥ इति ।
रूपके स्याद्द्रुतं लघु इति ।
गीतार्थस्तु—हे केशव ! जय ! कः ब्रह्मा ईशो रुद्रः तौ वशयतीति केशवस्तादृश ! भक्तसुखकारितया सर्वोत्कर्षेण वर्तस्व । ननु मम भक्तसुखसम्पादने कुतः सामर्थ्यमित्यत आह—जगदीशेति । जगतां चतुर्दशभुवनानामीश नियन्तः । तथा च चतुर्दशभुवननाथस्य ते तन्न कथं सामर्थ्यमिति भावः । तत्र हेत्वन्तरमप्याह—हे हरे ! हरति भक्तानां क्लेशमिति हरिः । तदेव अकृत्यकरणेनापि भक्तकार्यपरत्वं भगवतो दर्शयति—धृतमीनशरीर इत्यादिना । कीदृश धृतमीनशरीर ? धृतं परिगृहीतं स्वेच्छयाविष्कृतं मीनस्य मत्स्यस्य शरीरं येन तादृश । एतत्तु ध्रुवपदं प्रतिपदमनुवर्तमानत्वात। तदुक्तम्—
उद्ग्राहो प्रथमो भागस्ततो मेलापकः स्मृतः ।
ध्रुवत्वाच्च ध्रुवः पश्चादाभोगश्चातिशोभनः ॥
इति चतुर्भिरवयवैः प्रबन्धो भवतीति । यद्यपि क्वचिद्धृतमीनशरीरेति क्वचिद्धृतकच्छपरूपेत्यादि भिन्नमेव पदमस्ति, तथापि “जय जगदीश हरे” इत्यस्य प्रतिपदमनुवर्तमानत्वात्ध्रुवत्वम् ।
ननु किमिति मीनशरीरं मया परिगृहीतं ? इत्यत आह—त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परं मिल्तिआ ये पयोधयः समुद्रास्तेषां जले वेदं निमज्जन्तं मीनशरीरमुपादाय धृतवानसि । कथं तथा स्यात्? विहितवहित्रचरित्रं विहितं कृतं वहित्रस्य पोतस्य चरित्रं यथा स्यात। अखेदमखेदरहितं यथा स्यात्तथा परमानन्दनिदानत्वात। अथवा वेदं ज्ञानं धृतवानसि सत्यव्रतायार्पितवानसि इत्यर्थः । अतो भक्तानुरागेणागणितखेदत्वादखेदमित्युक्तम् ।
अत्र पयोधिपदेनैव जलवत्त्वे प्राप्ते पुनः जलेपदोपादानमन्तर्द्वीपविरहितत्वेन विशृआमस्थलाभावं सूचयितुम् । तथा च निरालत्वेऽपि पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव ते शरीरपरिग्रह इति भक्तकार्यपरत्वं दर्शितम् । पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः इत्यमरः ॥५॥ (१.१)
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणीधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप
जय जगदीश हरे ॥६॥
क्षितिरित्यादि । हे केशव धृतकच्छपरूप धृतं कच्छपरूपं येन तादृश जय । कूर्मावतारेऽपि हेतुमाह—तव पृष्ठे क्षितिः पृथिवी तिष्ठति । तिष्ठतीति वर्तमानकालनिर्देशेनाधुनापि तिष्ठतीति प्रसिद्धमेवेति भावः ।
ननु पञ्चाशत्कोटियोजनविस्तृता मम पृष्ठे कथं स्थितेत्यत आह—अतिविपुलतरे इति अतिशयेन पृथिव्यपेक्षयाप्यधिकविस्तीर्णे । पुनः कीदृशे ? धरणीधरणकिणचक्रगरिष्ठे, धरण्याः पृथिव्याः धारणेन यत्किणचक्रं चर्काहतिरुधिरमण्डलं तेन गरिष्ठे गौरवयुक्ते तच्छोणितग्रन्थिरूपं चक्रं गरिष्ठं यस्मिन्तादृश इति वा । कूर्मे कमठकच्छपौ इत्यमरः । । व्रणचिह्नघूणकिणौ इति हारावली । तथा च भक्तकृते पृथिव्यादिधारणकर्मणा भगवतो भारवहनमप्युक्तमिति भावः ॥६॥ (१.२)
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप
जय जगदीश हरे ॥७॥
वसतीत्यादि । हे केशव धृतं सूकरस्य रूपं येन तादृश जय । वाराहावतारपरिग्रहप्रयोजनमाह—तव दशनशिखरे दन्ताग्रे लग्ना संश्लिष्टा धरणी लोकधारणकर्त्र्यपि पृथ्वी वसति । कुत्र केव ? शशिनि चन्द्रे निमग्ना लीना कलङ्ककलेव लाञ्छनलेश इव । अत्र निमग्नेति पदोपादानेन बालचन्द्रस्य दीर्घतया सादृश्यमपि सङ्गच्छते । निमग्नेति पदवैयर्थ्यमपि न । किं च, दन्तश्लिष्टायास्तस्या पोषणमप्युक्तमिति भावः । रदना दशना दन्ता रदाः इत्यमरः । अग्रं शिखरमित्याहुरद्रिशृङ्गे च तन्मतमिति धरणिः ।
कला स्यान्मूलविवृद्धौ शिल्पादावंशमात्रके ।
षोडशांशे च चन्द्रस्य कलना कालयोः कला ॥ इति विश्वः ॥७॥ (१.३)
तव करकमलवरे नखमद्भुतशृङ्गं
दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप
जय जगदीश हरे ॥८॥
तव करेत्यादि । हे केशव धृतं नरहरेः नरसिंहस्य रूपं येन तादृश जय । नृसिंहावतारप्रयोजनमाह—तव करकमलवरे करो हस्तः स एव कमलरवः पद्मश्रेष्ठः तत्र नखं तिष्ठति । कीदृशं ? अद्भुतमाश्चर्यभूतं शृङ्गमग्रभागो यस्य तादृशम् । अद्भुतत्वमेवाह—दलितो विदारितो हिरण्यकशिपोर्दैत्यस्य तनुर्देहः स एव भृङ्गो भ्रमरो येन तादृश । भृङ्गो हि पुष्पदलविदलनार्थं प्रवर्तते । विदलयति च तत्, अनेन पुनर्दलरूपनखेन भृङ्ग एव विदारित इत्यद्भुतत्वम् । तथा च बृहतोऽपि हिरण्यकशिपुकायस्य भृङ्गत्वनिरूपणेन श्रीनृसिंहकराम्बुआपेक्षयातिसूक्ष्मत्वं ध्वनितम् । भक्तद्रुहो हिराण्यकशिपोर्वित्रासायात्र च सिंहवपुराविष्करणमिति भावः ।
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ इत्यमरः ।
शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ।
विषाणोत्कर्षयोश्चाग्रे शृङ्गं स्यात्कूर्चशीर्षके ॥ इति विश्वः ।
पुनर्भवः कररुहो नखरो नखमस्त्रियामित्यमरः ।
तनुः काये कृशे चाल्पे विरले चापि वाच्यवतिति च ।
द्विरेफपुष्पलिड्भृङ्ग षट्पद भ्रमरालयः इत्यमरः ॥८॥ (१.४)
छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनितजनपावन ।
केशव धृतवामनरुप
जय जगदीश हरे ॥९॥
छलयसीत्यादि । हे केशव धृतं वामनस्य स्वरुपं येन तादृश जय । वामनावतारप्रयोजनमाह—हे अद्भुतवामन ! आश्चर्यरूपवामन ! विक्रमणे पदाक्रमणं निमित्तमुपादाय बलिं दैत्यराजं छलयसि वञ्चयसि । भगवानुपेन्द्रो वामनरूपं धृत्वा बलेः सकाशात्पदत्रयापूरणे तं बलिं गृहीत्वा त्रिलोकीमिन्दृअयाददादिति पुराणप्रसिद्धेरद्भुतत्वम् । स चात्मनो भगवतो भक्तपरवशत्वेन छद्मनापि भक्तकार्यसाधनमिति चाद्भुतवामनेत्युक्तम् । दर्शयति—पदनखसम्बन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं जनानां पावनं पावित्र्यं येन तादृश ! अत्रापि प्रवर्धमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठनखाग्रेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दं प्रक्षालयदेवागतं यद्द्वितीयावरणजलं ब्रह्मदत्तार्घजले नैकीभूतं क्रमेण मर्त्यलोकं प्राप्तं गङ्गेति लोकान्प्लावयतीति पुराणप्रसिद्धेः । तथा च भूर्लोकस्थितेनातिवृद्धेन वामनेन ब्रह्माण्डजलस्यात्रानयनादाश्चर्याच्छद्मवतः चरणनखस्पृष्टजलेनापि सेशलोकपावनत्वमित्यद्भुतमहिमयोगेनात्याश्चर्यमित्यपि ध्वनितम् । किं च, छलयसीति भूतेऽप्यद्यापि बलिसमीपे वर्तमानत्वाद्वर्तमानप्रयोगः । पावन इति नायकगुणश्च कथितः । अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरमित्यमरः ।
बलिश्चामरदण्डे स्याज्जरया श्लथचर्मणि ।
उदरावयवे दैत्ये करे पूजोपहारयोः ।
गृहदारुविशेषे च गन्धके च क्वचिन्मतः ॥ इति विश्वः ॥९॥ (१.५)
क्षत्रीयरुधिरमये जगदपगतपापं
स्नपयसि पयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप
जय जगदीश हरे ॥१०॥
क्षत्रीयेति । हे केशव धृतं भृगुपतेः परशुरामस्य रूपं येन तादृश जय । तत्प्रयोजनमाह—क्षत्रीयाणां यद्रुधिरं तन्मये तद्विकारे पयसि कुरुक्षेत्राख्यतीर्थजले जगत्प्राणिजातमपगतपापं नष्टकलुषं यथा स्यादेवं स्नपयसि स्नानं कारयसि । यदवधि परशुरामेणैकविंशतिवारान्क्षत्रियान्हत्वा तद्रुधिरैः कुरुक्षेत्रे पञ्चह्रदान्विधाय पितृतर्पणं कृतम्, तदवधि तन्महातीर्थं जातमिति पुराणप्रसिद्धेः । कीदृशं जगत्? शमितभवतापं शमितो नाशितो भवस्य संसारस्य तापः सन्तापो यस्य तादृशम् । प्राणिनां पापसम्बन्धादेव तापस्तत्तीर्थस्नानेन तु सर्वपापनाशे स तापनाश इति भावः । जले मज्जतः सन्तप्तस्य तापनाश उचित एवेति ध्वनिः । रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः इति विश्वः । भवः संसारसम्प्राप्तिश्रेयःशङ्करजन्मसु इति च । अनेनापि धर्मरक्षणाय तद्विरोधिक्षत्रकुलसंहरणरूपं भक्तकार्यं दर्शितम्, तथा च रुधिररूपे जले मज्जतां साधनकोटिसंसाध्यध्वंसलक्षणपावनात्वापादनेनाद्भुतपावनत्वं वीर्यं च कथतमिति भावः ॥१०॥ (१.६)
वितरसि दिक्षु रणे दिक्पतिकमनीयं
दशमुखमौलिबलि रमणीयम् ।
केशव धृतरामशरीर
जय जगदीश हरे ॥११॥
वितरसीत्यादि । हे केशव धृतं रघुपतेः रामचन्द्रस्य रूपं येन तादृश ! जय । श्रीरामावतारकृत्यमाह—रणे सङ्ग्रामे दिक्षु दशदिशासु दिक्पदेनैव दशसङ्ख्योपस्थितिर्ज्योतिषि । दशमुखस्य रावणस्य ये मौलयः मस्तकानि तान्येव बलिमुपहारं वितरसि ददासि । कीदृशं ? दिक्पतिकमनीयं दिशां ये पतयः इन्द्रादयः, तेषां कमनीयमभीष्टम् । तत्र हेतुः—रमणीयं रावणवधद्वारा लोकाभिरामत्वात। प्रत्येकं विभागकथनाय दशमुखपदोपादानं किरीटमूर्धचूडासु मौलिः केशे च सज्जने । अत्रापि लोकपालानां स्वभक्तानां कार्यपरत्वं तैरपि सेव्यमिति चाद्भुतवीर्यकौशलं च दर्शितम् । प्रत्येकं तन्मौल्यर्पणात॥११॥ (१.७)
वहसि वपुषि विशदे वसनं जलदाभं
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप
जय जगदीश हरे ॥१२॥
वहसीति । हे केशव धृतं हलधरस्य बलभद्रस्य रूपं येन तादृश जय । तल्लीलामाह—विशदे शुभ्रे वपुषि देहे जलदाभं सजलमेघे नीलं वसनं वस्त्रं वहसि धारयसि । कीदृशं ? हलहतिभीतिमिलितयमुनाभं हलेन हतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इव आभा दीप्तिर्यस्य तादृशम् । इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनया उत्प्रेक्षागर्भोपमा । भीरूणां विकम्प उचित एव इति भावः । कदाचिद्वृन्दावने वारुणीं पीत्वा गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूता मत्तप्रलापोऽयमिति मत्वा गर्वेणान्तिकमनागच्छन्ती कालिन्दी रोषतो हलाग्रेण कृष्टेति पुराणप्रसिद्धेः । अस्मिन्नप्यवतारे ताभिः प्रेयसीभिः रममाणस्य तत्सुखार्थं यमुनाकर्षणादिलीलाविष्करणात्तत्परत्वमिति । किं च, हलधरपदेन दुष्टनिग्रहार्थमेव हलं धृतवानिति भक्तकार्यपरत्वमवतारप्रयोजनं च ध्वनितम् । गात्रं वपुः संहननं शरीरं च कलेवरम् इत्यमरः । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः इति च । वस्त्रमाच्छादनं वासश्चैलं वसनमस्त्रियाम् इति च । भीतिः साध्वसकम्पयोः इति विश्वः ॥१२॥ (१.८)
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सदयहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर
जय जगदीश हरे ॥१३॥
निन्दसीति । हे केशव धृतं बुद्धशरीरं येन तादृश जय । ननु वेदनिन्दकस्य कथं स्तुतिरित्याह—यज्ञविधेः श्रुतिजातं क्रतुविधानसम्बन्धिवेदवाक्यसमूहं निन्दसि, न तु सर्वमित्यर्थः । सोऽपि किमिति निन्द्यते ? इत्यत आह—अहह कष्टं दर्शितो बोधितः पशूनां घातो येन तादृशम्, वेदोऽपि पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति भावः । एतादृशनिन्दायामपि हेतुमाह—सदयहृदयेति दया कृपा तत्सहितं हृदयं यस्य तादृश ! अयं भावः—रागवशान्निरङ्कुशान्दृष्ट्वाग्नीषोमीयं पशुमालभत इत्यादिविधिवाक्यैः स्वर्गादिफलप्रदर्शनपुरस्कारेण गुडजिह्विकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलजनकं निरपराधिबहुप्राणिवधसाध्यं यागादिकं युक्तिविरोधित्वान्न तेषामत्यन्तहितमिति विचार्य परमपुरुषार्थसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं—न हिंस्यात्सर्वभूतानि इत्यादिना यज्ञादिबोधकवेदस्य निन्दां करोषि, न तु सर्वथा वेदनिन्दायामेव तव तथापिअम् । अत एव गूढं तवैतत्तथापिअमज्ञात्वा दुरात्मनां वैदिकमार्गे अविश्वास इति तेषां मोहनायैव तदवतारपरिग्रह इति । स्वजनार्थं तद्विरोधिनां श्रेयसि वञ्चनरूपमवतारप्रयोजनमप्युक्तमिति । अहहेत्यद्भुते वा । अहहेत्यद्भुते खेदे इति विश्वः । वेदे श्रवसि च श्रुतिः इत्यमरः । जातं जात्योघजन्मसु इति विश्वः ॥१३॥ (१.९)
म्लेच्छनिवहनिधने कलयसि करवालं
धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर
जय जगदीश हरे ॥१४॥
म्लेच्छनिवहेति । हे केशव धृतं कल्किनः शरीरं येन तादृश जय । तच्चेष्टितमाह—त्वं
म्लेच्छनिवहनिधने म्लेच्छानां निवहाः समूहास्तेषां निधने नाशनिमित्तं करवालं खड्गं कलयसि धारयसि । कीदृशं ? किमपि करालमतिशयेन भयङ्करम् । किमिव ? धूमकेतुमिव औत्पत्तिकग्रहविशेषमिव, रणे उदितं तत्करवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम्, धूमकेतौ औत्पातिकग्रहविशेषेऽप्युदिते तं पश्यतां प्राणिनां विपदो भवन्तीति भावः । यद्वा, धूमः केतुश्चिह्नं यस्य स धूमकेतुर्वह्निस्तमिव । अत्र खड्गस्य नीलत्वाद्धूमसाम्यं मुष्टेश्च सुवर्णमयत्वादग्निसाम्यम् । म्लेच्छः पापरतौ जातिभेदे स्यादपभाषणे इति विश्वः । समूहे निवहव्यूहसन्दोहविसरव्रजाः इत्यमरः । निधनं स्यात्कुले नाशे इति विश्वः । खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः कौक्षेयको मण्डलाग्रः करवालः कृपाणवतित्यमरः । धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः इति विश्वः । करालो भीषणेऽन्यवतिति च ॥१४॥ (१.१०)
धृतवानसीत्यादिभिर्वर्तमानप्रयोगैरवताराणां भगवतश्च लीलाया नित्यत्वं दर्शितम् । एवं तत्तदवतारगुणैः स्तुतिं कृत्वा सम्प्रत्यवतारिणं स्तुवन्प्रार्थयते—
श्रिजयदेवकवेरिदमुदितमुदारं
शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप
जय जगदीश हरे ॥१५॥
हे केशव धृतानि दशविधानि रूपाणि येन तादृश त्वं जय । के अखण्डामन्दसुखे शेते इति केशवः । तादृशस्यापि दशविधमत्स्यादिरूपाण्यङ्गीकृत्वापि तादृशैः कृत्यैरपि स्वभक्तकार्यसाधनेन तादृशमहिम्नः उद्घोषेण तव भजने मम महती रुचिर्जाता, अतो भक्तसुखसम्पादनेन जय । मम चेदमिति । इदं जयदेवकवेः उदितं भाषितं शृणु । कीदृशं ? सुखदं श्रोत्रमनःसन्तोषप्रदम् । पुनः कीदृशं ? शुभदं मङ्गलप्रदम् । तत्र हेतुः—भवसारं जन्मरहस्यं वर्णनीयत्वेन यत्र तादृशम् । अथवा भवे सारं श्रेष्ठं परमपुरुषार्थसाधनत्वेन जन्मसाफल्यकरत्वात। अत एव उदारं परमार्थप्रदम् । अथवा उदारं महत्, झटिति पदार्थार्पकमिति वा । कृष्णकीर्तनत्वात्तत्प्रियजनकथान्वितत्वाच्च एतानि विशेषणानि । उक्तं भाषितमुदितमिति । सारो बले मज्जनि च स्थिरांशे न्याय्ये च नीरे धने च सारम् । वरेऽन्यवत्सारमुदीरयन्ति इति विश्वः ॥१५॥ (१.११)
—ओ)०(ओ—
अंशावतारान्स्तुत्वा सम्प्रति वर्णनीयं पूर्णतममखिलनायकशिरोरत्नं श्रीकृष्णाख्यं प्रणमति—
वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥१६॥
वेदानिति ।
कृषिर्भूर्वाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
इति सर्वमयः अखिलपरिपूर्णमहाशक्तिमांश्च कृष्ण इति स्वानन्यमाधुर्येण प्रियजनाकर्षणाच्च कृष्ण इति तद्रूपाच्चेति कृष्णस्तस्मै निरवधि परमानन्दघनरूपाय स्वप्रियजनैः रममाणाय श्यामसुन्दराय शृङ्गाररससर्वस्वमूर्तये तुभ्यं नमः । तथा च श्रुतिः—अक्षरात्परतः परः [मु.उ. २.१.२] इति, परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च [श्वे.उ. ६.८] इति, अक्षरादपि चोत्तमः [गीता १५.१८] इति भगवद्गीतायाम् । नराकृति परं ब्रह्म सच्चिदानन्दविग्रहः [प.पु. ६, बृहद्विष्णुसहस्रनाम्नि] इति च ।
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ [ब्र.सं. ५.३७]
वक्ष्यति च—शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति [गी.गो. १.४७] इति च । उक्तं च शुकेनापि—साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.२] इति ।
ननु मीनाद्यवतारवानीश्वरः केशवः, के जले शेते, पृषोदरादीनि यथोपदिष्टानि [पा. ६.३.१०९] यथास्थितान्येव स्युरिति केश्वः आदिनारायणः । उक्तं च—एतन्नानावताराणां निधानं बीजमव्ययं [भा.पु. १.३.६] इति । तस्य स्तुतिः कृतैवेदानीं गोपकिशोरं वनविहारिणं मां किमिति स्तौषीत्यत आह—दशाकृतिकृते तुभ्यमिति मीनादिदशरूपधारिणे तुभ्यं नमः । अयमर्थः—तत्तद्दशावतारवानीश्वरो नारायणस्तवैवांशः । तदुक्तं ब्रह्मणा—नारायणस्त्वं [भा.पु. १०.१४.१४] इति । श्रीभागवते अक्रूराय वैकुण्ठदर्शने—नटो नाट्यमिव [भा.पु. १०.४१.१] इति शुकोक्तिश्च । एते चांशकला पुंसः कृष्णस्तु भगवान्स्वयं [भा.पु. १.३.२८] इति प्रथमस्कन्धे अवतारनिर्णये । ब्रह्मसंहितायां च—विष्णुर्महान्स इह यस्य कलाविशेषः [ब्र.सं. ५.४८] इति । अतः परमेश्वरत्वात्त्वामेव स्तौमीति ।
इत्थं निश्चित्य उक्तावतारकर्मभिः सङ्क्षेपेण पुनराह—किंलक्षणाय ? मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय ? जगन्ति भुवनानि कच्छपरूपेण वहते धारयते । भूगोलं पृथिवीमण्डलं वाराहरूपेण उद्बिभ्रते ऊर्ध्वं प्रापयते । दैत्यं हिरण्यकशिपुं दारयते नृसिंहरूपेण विदारयते । बलिं दैत्यं वामनरूपेण छलयते वञ्चयते । क्षत्रक्षयं दुष्टानां क्षत्रियाणां नाशं परशुरामरूपेण कुर्वते । पौलस्त्यं रावणं श्रीरामरूपेण जयते । हलं दुष्टनिग्रहाय आयुधत्वेन कलयते बलभद्ररूपेण धारयते । कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते । म्लेच्छान्कल्किरूपेण मूर्च्छयते नाशयते इत्यर्थः । एवं तत्तदवतारकर्मकर्तृत्वेन भगवतः पूर्णत्वमखिलशक्तिमत्त्वं च प्रतिपादितम् । आकृतिः कथिता रूपसामान्यवपुषोः इति विश्वः ॥१६॥ (५)
—ओ)०(ओ—
॥ प्रबन्धः २ ॥
गुर्जरीरागनिःसारतालाभ्यां गीयते ।
एवं तावत्तत्तदवतारचरितैस्तान्तान्नायकगुणाननुवर्ण्य इदानीं समस्तनायकचूडामणेः पुरुषोत्तमस्य प्रथमपद्ये रहःकेलयः इत्यनेन सङ्क्षेपतः क्रीडां सूचयित्वा सम्प्रति सख्युक्त्या स्वाधीनभर्तृकावर्णनेन भगवतस्तस्य लोकोत्तरधीरललितशृङ्गारित्वादिगुणान्वर्णयन्नेव मङ्गलान्तरमप्याचरति—श्रितेत्यादिना ।
किं च, सर्वपूर्णशक्तिमत्त्वेऽप्यत्रानन्दविलासरसमय्याः शक्तेरेवोद्रिक्तत्वमन्यत्र त्वन्यासाम्, क्वचिदत्रापि तत्पोषणाय तासामप्यूह्यम् । तत्रैवं क्रमः—धीरोद्धताः वामनपरशुरामादयः, तल्लक्षणं—
मात्सर्यदर्पभूयिष्ठः छद्माहङ्कारवान्बली ।
चण्डो विकत्थमानश्च धीरोद्धत उदाहृतः ॥
तद्गुणाश्च—यशस्विता दक्षता धार्मिकत्वं चेति ।
धीरोदात्तः, तल्लक्षणं—
क्रियाधनपतिगम्भीरो विनीतश्च विकत्थनः ।
धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा ॥ इति ।
शान्तो विनीतो धीरश्चेति धीरशान्तः, मीनबुद्धादिः ।
तद्गुणाश्च—यशस्विता दक्षता धार्मिकत्वं चेति ।
विदग्धो नवतारुण्यः परिहासविशारदः ।
निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ [भ.र.सि. २.१.२३०]
शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा ।
विलासवान्वामशीलः सुभगः स्थिरवाक्युवा ।
पतिः सधैर्या दृष्टिश्च सविलासस्मितं वचः ॥ इति सङ्गीतराजे ।
इत्यादि वर्णनीयगुणवान्नायकः श्रीराधाप्रियः । तद्गीतेन वर्णयति—
श्रितकमलाकुचमण्डल धृतकुण्डल ए
कलितललितवनमाल
जय जय देव हरे ॥१७॥ [ध्रु.]
गीतस्यास्य गुर्जरीरागः मण्ठश्च तालः । तयोर्लक्षणं—
श्यामा सुकेशी मलयद्रुमाणां
मृदुल्लसत्पल्लवतल्पमध्ये ।
श्रुतिस्वराणां दधती विभागं
तन्त्रीमुखा दक्षिणगुर्जरीयम् ॥ इति ।
गुरुलघुद्वयं यत्र भृङ्गतालं स कथ्यते ।
मङ्गलो मण्ठके ज्ञेयो रसे चाद्भुतसंज्ञके ॥ इति ।
अद्भुतकेलिप्रकटनादद्भुतत्वम् ।
गीतार्थस्तु—हे देव ! दिव्यतीति देवः, तत्सम्बोधनम् । श्रीराधया सह विलासासक्तेति वा । हरे स्वसौन्दर्यादिनाखिलभुवनयुवतीचित्तचौर जय जय । आदरे द्विरुक्तिः । इदं च ध्रुवपदम् ।
अथ पदानि । श्रितमाश्रितं कमलायाः कामयत इति कम कान्तौ पचादित्वादच। तं लाति गृह्णाति स्वगुणैर्वशीकरोतीति सा कमला । ला आदाने इति । यद्वा, कमला श्रीराधैव तस्या कुचमण्डलं स्तनरूपमेव दुर्गं कामभयादिव येन तादृश ! अनेन सकलनायिकामुकुटमणेर्गुणाधिक्यं कथितम् । तथा चानेन केलिकौशलेन रतिकौशलरूपो नायिकागुणश्चोक्तः । स्वाधीनभर्तृका नायिका चेयम् । तल्लक्षणं वक्ष्यतेऽग्रे [१२.१] ।
धृतकुण्डल धृते मकराकृतिकुण्डले कर्णाभरणे येन । अथवा तदाज्ञया धृते तस्या एव श्रुत्योः कर्णाभरणे येन । अथवा पुष्पादिना तत्कर्णभूषणार्थं निर्माय उपहारीकृते कुण्डले येन तादृश ! पुनः कीदृश ? कलितललितवनमाल । कलिता धृता ललिता मनोहरा वनमाला चरणपर्यन्तावलम्बिनी माला येन तादृश । एतद्विशेषणद्वयेन भव्यत्वमुक्तम् । वनमम्भसि कानने इत्यभिधानात्पद्ममाला वा । आपादप्रमितां मालां वनमालेति तां विदुः इति शाश्वतः । अथवा कलिता धृता ललिता मनोहरा वनमाला पुष्पमाला पद्ममाला वा प्रियायाः कण्ठे येन तादृश । अथवा कलितावगाहिता प्रियामण्डनार्थे वनमाला चम्पकादिवनश्रेणी येन तादृश । अथवा कलिता धृता ललिता मनोहरा प्रियाया मण्डनस्पर्शोत्था सात्त्विकविकारेण वनमाला स्वेदजलबिन्दुसन्ततिर्येन तादृश । अथवा धृता सम्भोगश्रमजलश्रेणी येन तादृश । व्यभिचारी भावोऽयम् । प्रियामण्डनार्थं कलिता बहुविधनिर्मिता वनमाला येनेति वा । एभिर्व्याख्यानैः कुशलः कलाविद्विलासीत्यादि गुणाश्च कथिताः ।
स्यान्मण्डलं द्वादशराजके च
देशे च बिम्बे च कदम्बकेऽपि ।
कुष्ठप्रभेदेऽप्युपसूर्यके च
भुजङ्गभेदे शुनि मण्डलः स्यात॥ इति विश्वः ॥१७॥ (२.१)
दिनमणिमण्डलमण्डन
भवखण्डन ए
मुनिजनमानसहंस
जय जय देव हरे ॥१८॥
दिनमणीत्यादि । दिनमणिः सूर्यस्तस्य मण्डलमिव ततोऽपि श्रेष्ठः कौस्तुभाख्यो मण्डनमलङ्कारो यस्य तादृश । दिनमणिमण्डलवत्मण्डनं यस्येति वा । अनेन धनाढ्य इति नायकगुणः कथितः । भवखण्डनेति व्रजराजकुले स्वजन्मना देवादीनां भवो जन्म तं खण्डयसि तिरस्करोषीति तथाभूत । देवा अपि गोपीकुले जन्म वाञ्छन्तीति भावः । भवः रुद्रस्तं गान्धर्वविद्यया खण्डयसि पराजयं प्रापयसीति तादृश । उक्तं च—
विविधगोपचरणेषु विदग्धो
वेणुवाद्य उरुधा निजशिक्षाः ।
तव सुतः सति यदाधरबिम्बे
दत्तवेणुरनयत्स्वरजातीः ॥
सवनशस्तदुपधार्य सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
कश्मलं ययुरनिश्चिततत्त्वाः ॥ [भा.पु. १०.३५.१४१५] इति ।
प्रियजनानां विरहदुःखादीनामुद्भवविदारणेति वा । एतेन कुलीनः कलाविच्चोक्तः । मुनिजनेति मुनिवृत्तिर्मौनं तद्युक्तो जनः गोपीलक्षणः, तस्य मानसं चित्तंतदेव मानसं सरोवराविशेषस्तत्र हंसो मरालः । सौभाग्यमदलीलया मानादिना वा मौनयुक्तायाः श्रीराधायाश्चित्ताभिप्रायावगाहेऽत्यासक्त्यानन्यगत्या तत्रैव कृतस्थितिमरालेत्यर्थः । अथवा हे मुनिजनेति पृथक्पदं मननशीलो मुनिः स चासौ जनश्च, तस्या प्रियायाः सौन्दर्यादिगुणगणनस्वभावेत्यर्थः । हे मानसहंस ! त्यक्तान्यसमस्ततद्धृदि कृतनिवास ! मुनीत्यारभ्यैकपदं वा—मुनिश्चासौ जनश्च स चासौ मानसहंसश्चेति ।
इदं च परम्परितरूपकमलङ्कारः । तदाहुः—
नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ॥ [का.प्र. ९५ ] इति ।
मानसं सरसि स्वान्ते इति विश्वः । हंसो विहङ्गमेऽपि स्यात्परमात्मनि योगिनि इति च ॥१८॥ (२.२)
कालियविषधरगञ्जन
जनरञ्जन ए
यदुकुलनलिनदिनेश
जय जय देव हरे ॥१९॥
कालियेति । कालियनाम्नो विषधरस्य गञ्जन तिरस्कारक ! अनेन चतुःषष्ठिकलाकुशलत्वं दर्शितम् । जनान्मधुरवचनादिना रञ्जयसीति जनरञ्जनेति । अनेन शुभवचनत्वं कथितम् । अथवा सखीजनान्श्रीराधानुकूल्येनानुरक्तं करोषीति । तामेव रागादिना मण्डयसीति वा । यदुकुलेति यदुकुलमेव नलिनं पद्मं तस्य दिनेश सूर्य, तत्प्रकाशकत्वात। यादवानां हितार्थाय धृतो गोवर्धनओ मया इति वचनात्यदुकुलमिति गोपकुलमेव । आशीविषो विषधरश्चक्री व्यालः सरीसृपः इत्यमरः । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलमिति च । रञ्जनो रागजनने रञ्जनं रक्तचन्दने चेति विश्वः ॥१९॥ (२.३)
मधुमुरनरकविनाशन
गरुडासन ए ।
सुरकुलकेलिनिदान
जय जय देव हरे ॥२०॥
मधुमुरेत्यादि । मधुमुरनरकादीनां विनाशकारिन्! गरुडासन गरुडः पक्षिराजः स एवासनमुपवेशनं यस्य तादृश ! अथवा मधुः मधुराख्यरसस्तं मुरयति वेष्टयति स्वजनार्थमावृत्य रक्षतीति मधुमुरः । मुर वेष्टने इगुपधेति कप्रत्ययः । तेन च नरकं नराणामितरसुखं विनाशयतीति, तत्तुच्छीकरोतीत्यर्थः । उक्तं च—इतररागविस्मारणं नृणां [भा.पु. १०.३१.१४] इति । गरुडवद्बन्धविशेष आसनं यस्येति च । अनेन रतिकौशलं कथितम् । सुरकुलेति—सुरकुलकेलीनामादिकारणे, देवा हि क्रीडाचतुराः इति प्रसिद्धिः । तैरपि त्वत्त एव शिक्षिता इति भावः । अनेन विलासित्वं सामर्थ्यं चोपपादितम् । सजातीयगणे गोत्रे देहेऽपि कथितं कुलमिति ॥२०॥ (२.४)
अमलकमलदललोचन
भवमोचन ए
त्रिभुवनभुवननिधान
जय जय देव हरे ॥२१॥
अमलेति । अमलं निर्मलम् । यत्कमलं तस्य यद्दलं पत्रं तत्सदृशे लोचने यस्य तादृश । अनेनापि भव्यत्वमेवोक्तम् । हे भवमोचन ! भवं जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश ! भक्तानां नित्यविग्रहप्रदानेन तस्य नित्यपरमानन्दरूपत्वात्भजनत्वमुक्तम् । अथवा, भवः रुद्रस्तं महाविपद्रूपत्वाद्वृकासुरान्मोचयतीति तत्तथा । अथवा कमलदललोचनादिसौन्दर्येणाकृष्य रुद्रं समाध्यादियोगव्रतान्मोचयतीति स्वप्रवणं करोतीत्यर्थः । त्रिभुवनभवननिधान—त्रिभुवने भवनं गृहं श्रीवृन्दावनाख्यं तदेव निधानं वासस्थानं महानिधिरिति वा यस्य तादृश ! निधानं त्वालये निधौ इति विश्वः । भवनं भाववेश्मणोः इति च । पत्रं पलाशं छदनं दलं पर्णं छदः पुमानित्यमरः ॥२१॥ (२.५)
जनकसुताकृतभूषण
जितदूषण ए
समरशमितदशकण्ठ
जय जय देव हरे ॥२२॥
जनकेति । हे जनकसुताकृतभूषण व्रजजनानां कं सुखं यस्मात्स जनकः, व्रजजनेषु प्रधानो वा श्रीवृषभानुः, तस्य सुता श्रीराधा, तस्या कृतानि भूषणान्यलङ्करणानि मकरिकापत्रादीनि येन तादृश ! जितदूषण—जितानि निजगुणैः स्वस्मिन्तिरस्कृतानि दूषणानि दोषा येन तादृश ! अनेन सकलकलाकौशलरूपस्तारुण्यरूपश्च नायकगुण उक्तः । समरेति—समरे रतिरणे शं कूजिताख्यं सुखमितं प्रापितं दशसङ्ख्यातानां नायिकानां कण्ठे येन तादृश ! अनेन रतौ सामर्थ्यं कथितम् । अथवा समये सुरतिसङ्ग्रामे यत्शं तेन इता प्रापिता कूजिताख्या दशा अवस्था नायिकायां कण्ठे येन ॥२२॥ (२.६)
अभिनवजलधरसुन्दर
धृतमन्दर ए
श्रीमुखचन्द्रचकोर
जय जय देव हरे ॥२३॥
अभिनवेति । अभिनवो नूतनो यो जलधरः सजलो मेघस्तद्वत्सुन्दर महारसवर्षिन्! अनेनास्य महासौन्दर्यमेवोक्तम् । अत्र मन्दरपदेन गोवर्धन एव, यथा गोपालस्तवे शङ्कराचार्येणोक्तम्—धृतैकहस्तमन्दर इति । श्रीमुखचन्द्रचकोर—श्रीयुक्तः शोभावान्श्रीराधाया मुखमेव चन्द्रः आह्लादकरत्वात्, तस्य चकोर, तदास्वादसर्वस्व ! अत्र तस्या आननचन्द्राधरसुधापानसोत्कण्ठत्वेन भगवतश्चकोरत्वेन निरूपणम् । अनेनापि रतिकौशलमेवोक्तम् । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः इत्यमरः ॥२३॥ (२.७)
एवं सप्तभिः पदैर्नायकगुणाः कथिताः । तदुक्तं—
त्यागी कुलीनः कुशलो रतेषु
कल्पः कलावित्तरुणो धनाढ्यः ।
भव्यः क्षमी स्थिररुचिः सुभगोऽभिमानी
स्त्रीणां मतं शुभवचा इह नायकः स्यात॥ [शृ.ति. १.२३]
इति शृङ्गारतिलके । इदानीं कविः सर्वनायकोत्कृष्टत्वेन श्रीकृष्णं स्तुत्वा प्रार्थयते—
तव चरणे प्रणता वयं
इति भावय ए
कुरु कुशलं प्रणतेषु
जय जय देव हरे ॥२४॥
तव चरणे वयं प्रणताः । हे कृष्ण इति भावय चिन्तय जानीहीति । प्रणतेषु अस्मासु कुशलं कुरु विघ्नराहित्यं कुर्वित्यर्थः ॥२४॥ (२.८)
श्रीजयदेवकवेरिदं
कुरुते मुदमे
मङ्गलमुज्ज्वलगीतं
जय जय देव हरे ॥२५॥
श्रीजयदेवेति । इदं श्रीजयदेवकवेः सङ्गीतविशेषः मुदं कुरुते । कीदृशः ? मङ्गलमुज्ज्वलं दोषरहितं गानं यस्य तादृशम् । गीतदोषास्तु भरते—
शङ्कितं भीतमुद्घृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरःकम्पं तथा स्थानविवर्जितम् ॥
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् ।
व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः ॥
अथवा मङ्गलमिष्टप्रणतिरूपं मङ्गलाख्यतालो वेति—मङ्गलमिति ॥२५॥ (२.९)
॥ इति द्वितीयः प्रबन्धः ॥
* * * * *
पुनर्नायिकायाः सौभाग्योद्रेकं निरूपयन्नाशीरूपं मङ्गलमाचरति—
पद्मापयोधरतटीपरिरम्भलग्न
काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥२६॥
पद्मेति । मधुसूदनस्य उरो हृदयं वो युष्माकं प्रियं वाञ्छितमनुपूरयतु सम्पूर्णं करोतु, प्रतिक्षणं ददात्वित्यर्थः । नित्यविलासासक्तत्वात्तद्विशेषणविशिष्टस्य तस्य दातृत्वसामर्थ्यम् । वाञ्छितमपि तत्प्रियाणां तदेव रसानुभवमिति ध्वनितम् । मधुररसास्वादनलाभाय पद्येन मधुसूदनपदोपादानम् । कीदृशमुरः ? पद्मानि विद्यन्ते यस्यां सा पद्मा । अर्श आदिभ्योऽच्[पा. ५.२.१२७] इत्यच। पद्मगुणयोगाच्च पद्मेति पद्मकोटिसौगन्ध्यवती पद्मा सौभाग्यपरिमलख्यापनात्सौकुमार्यसौन्दर्यादिगुणैरपीति तस्या पद्मायाः पद्मिन्याः श्रीराधायाः पयोधरतटी स्तनप्रान्तदेशः तस्या परिरम्भेणालिङ्गनेन लग्नं यत्काश्मीरं कुङ्कुमं तेन मुद्रितं मुद्रा चिह्नविशेषः । तं प्रापितमित्यर्थः । इदं मधुसूदनस्य हृदयं ममैव, न त्वन्यस्येति ख्यापनाय निजस्तनतटीलिप्तकाश्मीरेण मुद्रेव दत्तेति भावः । तथा च पयोधरयोस्तटिपरिरम्भेण नायिकायाः वामताख्यापनेन तस्या वैदग्धी प्रतिपादते ।
पुनः कीदृशं ? खेलन्क्रीडां कुर्वननङ्गः कन्दर्पस्तस्मात्खेद आयासः सुरतश्रमः, तेन यत्स्वेदाम्बु प्रस्वेदजलम्, तस्य पुरः प्रवाहो यत्र तादृशम् । एतेन काश्मीरस्य स्वेदसम्बन्धेन मुद्रायोग्यत्वं सम्भोगातिशयत्वं च ध्वनितम् । कीदृशमिव ? व्यक्तानुरागमिव । व्यक्तं प्रकटीभूतोऽनुरागः स्नेहो यत्र तादृशमिव । तद्विषयकानुरागाधिक्यादभ्यन्तरे समावेशाभावात्कुङ्कुमरागव्याजेन बहिर्निःसृत इवेति भावः । मुद्रा सञ्जातास्येति मुद्रितमिति तारकादित्वादितच।
पुरो ज्वलप्रवाहे स्याद्व्रणसंशुद्धिखाद्ययोः इति विश्वः । स्त्रीस्तनाब्धौ पयोधरौ इति । कन्दर्पो दर्पकोऽनङ्गः इत्यमरः ।
पद्मिनीलक्षणं—
कमलमुकुलमृद्वी फुल्लराजीवगन्धिः
सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ।
चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे
कुचयुगलमनर्घ्यं श्रीफलश्रीविडम्बि ॥
तिलकुसुमसमानां बिभ्रति नासिकां च
द्विजगुरुसुरपूजां श्रद्दधाना सदैव ।
कुवलयदलकान्तिः कापि चाम्पेयगौरी
विकचकमलकोशाकारकामातपत्रा ॥
व्रजति मृदु सलीलं राजहंसीव तन्वी
त्रिवलिकलितमध्या हंसवाणी सुवेषा ।
मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा
धवलकुसुमवासो वल्लभा पद्मिनी स्यात॥ इति ।
तस्या अलौकिकगुणानां वर्णनाशक्यत्वातेते लोकग्राह्यत्वेनैव कथ्यन्ते इति सिद्धान्तः ॥२६॥ (६)
—ओ)०(ओ—
एतावता ग्रन्थेनाभिधेयप्रयोजनक्लिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि विधाय कविः शृङ्गाररसप्रधानभगवत्केलिवर्णनं चिकीर्षुस्तत्र प्रथमावसरसङ्क्षिप्तकेलिं निवाह्य विशेषक्रीडामारब्धुमिच्छतोः परमप्रैयतमयोः कदापि निमेषमात्रमपि विप्रलम्भमनिच्छतोः श्रीराधामोहनयोः सम्भोगरसपोषणाय रसयोगादेव विप्रलम्भाख्यशृङ्गाररसाविर्भावे जाते प्रथमं तावच्छृङ्गाररससर्वस्वभूताया नायिकायाश्चरितानि वर्णयितुं प्रस्तावयति—
वसन्ते वासन्तीकुसुमसुकुमारैरवयवैर्
भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
वलद् बाधं राधां सरसमिदमूचे सहचरी ॥२७॥
वसन्त इत्यादि । तत्र सम्भोगोत्कर्षं प्रति विप्रलम्भस्योपादानेऽलङ्कारिकाः—
सम्भोगो विप्रलम्भेन न विना पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान्रागोऽभिजायते ॥ इति ।
किं च, रसयोगादिभिर्यदुक्तं तत्शृङ्गाररसानुभवमिच्छामीति, नित्येच्छाज्ञानचिकीर्षाकृतिमत्त्वमिति तस्य भगवतो नित्येच्छयैव रसनियामकत्वेनापि नित्यानन्तशक्तिमतस्तस्य न स्वातन्त्र्यभङ्ग इति सिद्धान्तः । उक्तं च, स सत्यकामः [भा.पु. १०.३३.२५] इति । एवं नित्येच्छया कालविधानोऽपि निरस्तः ।
श्लोकार्थस्तु—काचित्सहचरी तुल्यवासना सखी वसन्ते सरसं रसोद्बोधसहितं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे उवाच । कीदृशीं ? अवयवैर्ङैरुपलक्षिताम् । कीदृशैरवयवैः ? वासन्तीकुसुमसुकुमारैः माधवीलतापुष्पवत्कोमलैः ततोऽपि मृदुलैरित्यर्थः । मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते [उ.नी. १०.३८] । तद्यथा—
अभिनवनवमालिकामयं सा
शयनवरं निशि राधिकाधिशिश्ये ।
न कुसुमपटलं दरापि जग्लौ
तदनुभवात्तनुरेव सव्रणासीत॥ [उ.नी. १०.३९] इति ।
स जग्लौ ग्लानिं न प्रापेत्यर्थः । पुनः कीदृशीं ? कान्तारे महारण्ये भ्रमन्तीम् । तत्र हेतुगर्भितं विशेषणमाह—बहुविहितेति । बहुवारं विहितं कृतं कृष्णस्यानुसरणमन्वेषणं यया तादृशीम्, तत्रापि हेतुगर्भविशेषणमाह—कन्दर्पज्वरेण जनिता या चिन्ता तत्कृता या आकुलता तया अमन्दमधिकं यथा स्यादेवं वलद्बाधं वर्धमानपीडाम् । अवयवैरित्यत्र जटाभिस्तापस इतिवद्विशेषणे तृतीया । महारण्ये दुर्गपथे कान्तारः पुंनपुंसयोः, पीडा बाधा व्यथा दुःखमित्यपि । तथा चनेनाभिलाषचिन्तारूपे दशे कथिते । तल्लक्षणं—
अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ [द.रू. ४.५३] इति दशरूपके ।
यथा—
कथं स वल्लभः प्राप्यः किं कुर्यां तस्य सिद्धये ।
कथं भवेदसौ वश्य इति चिन्ता भवेद्यथा ॥ इति शृङ्गारतिलके [२.८] ।
सुकुमारावयवैः कान्तारे भ्रमन्तीमित्यनेनाभिसारेऽनुरागसौष्ठवं दर्शितम् । तद्यथा—
चित्रोत्कीर्णादपि विषधराद्भीतिभाजो रजन्यां
किं वा ब्रूमस्त्वदभिसरणे साहसं माधवास्याः ।
ध्वान्ते यान्त्या यदतिनिभृतं राधयात्मप्रकाश
त्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायी ॥ [पद्या. १९६]
यथा वा—
द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं
कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः ।
कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा
तन्वङ्गी निरुपायमध्वनि परं श्रेणीभरं निन्दति ॥ [पद्या. २११ ] इति ।
अथवा अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया बहु विहितं कृष्णेनानुसरणं यस्यास्तादृशीम् । अतः कान्तारे भ्रमन्तीमित्यर्थः ॥२७॥ (७)
—ओ)०(ओ—
॥ प्रबन्धः ३ ॥
वसन्तरागयतितालाभ्यां गीयते ।
किमूचे ? इत्यत आह—
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
विहरति हरिरिह सरसवसन्ते
नृत्यति युवतीजनेन समं सखि विरहिजनस्य दुरन्ते ॥२८॥
ललितेत्यादि । गीतस्यास्य वसन्तरागो यतितालः । तयोर्लक्षणं—
शिखण्डिबर्होच्चयबद्धचूडः
पुष्णन्पिकं चूतलताङ्कुरेण ।
भ्रमन्मुदा राममनङ्गमूर्तिर्
मर्तो मतङ्गः स वसन्तरागः ॥
लघुद्रुतौ तालश्चेति । गीतार्थस्तु—सबाधां राधां महौषधं वचः सखी वक्ति—हे सखि राधे ! इह अत्रैव श्रीमद्वृन्दावने सरसवसन्ते रसः शृङ्गारस्तेन सह वर्तते इति सरसः, शृङ्गारोद्बोधकत्वात। सरसश्चासौ वसन्तश्च सरसवसन्तस्तस्मिन्तादृशे समये हरिः श्रीकृष्णः विहरति क्रीडति । क्व सति ? समं सशोभं साकं वा युवतिजने नृत्यति सति । किंभूते ? मिलनार्थं हेतुगर्भविशेषणं विरहिजनस्य दुरन्ते न, अपि तु दुरन्त एवेति काक्वा दुरन्ते दारुणे दुःखेनान्तः समाप्तिर्यस्य तादृशे वा निरवधावित्यर्थः ।
अथवा, अनो जीवनं तेन समं दुरन्ते । अथवा हरिरिह सरसवसन्ते बहुप्रेम्णाभिसृते तद्रूपाद्युन्मादिते युवतिजने गोपाङ्गनागणे नृत्यति सत्यपि त्वया सह नृत्यमिच्छन्ताभिः समं न विहरति । केचित्तु हरिरिह सरसवसन्ते युवतिजनेन समं विहरति । नृत्यति चेति व्याकुर्वन्ति । तत्तु राधाभिसाराय सख्या असूयाहेतुकथनान्न सङ्गच्छते ।
ननु प्रथमानुरागः स्यात्? सोऽपि न घटते, पूर्वक्रीडावर्णनात। वक्ष्यति च—रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासं [प्रबन्ध ५.१] इति । अतोऽत्र कृतं व्याख्यानमेव सिद्धम् ।
प्रकृतमनुसरामः—ताभिः समं न विहरतीत्यत्र हेतुम् । विरहिजनस्य त्वद्विरहितस्य कृष्णलक्षणजनस्य दुरन्ते । ताश्च वसन्तश्च त्वां विना न तस्य विलासोत्साहप्रदा भवन्तीत्यर्थः । अत एव त्वामेव कामयतीति भावः । विहरतीत्यनेनापि श्रीराधान्वेषणरूपो विहार उच्यते । मिलनसङ्कोचपरिहाराय सामान्ययुवतीनां सङ्ग इत्यप्युक्तः । तथा च यदि त्वं प्रियतमं तं नानुसरिष्यसि, तदायं वसन्तस्तवापि दुरन्तो भविष्यतीति ध्वनितम् । समं सह इत्यमरः । ध्रुवपदमिदम् । अत्र द्वादशलक्षणान्वितनिसृष्टार्था दूती सखी एव । तदुक्तं—
प्रवृत्तिकुशला दक्षा गूढमन्त्रा दृढप्रिया ।
स्वतन्त्रा विधवा दासी धृष्टा प्रव्रजिता सखी ॥
मालाकारादिनारी च कार्या दूतीष्टसिद्धये ॥
तस्या लक्षणानि, यथा—
कालोचितोद्यमाभिज्ञा सुवेषा दृढमित्रता ।
धृष्टा इष्टा सुशीला च दक्षा चापल्यवर्जिता ।
अक्षुद्रा चाप्यनुद्विग्ना प्रशस्या द्वादशैव तु ॥ इति ।
किं च,
विलासिनोश्च स्वान्तस्थमर्थं ज्ञात्वा यतेत या ।
अनुरूपाविमौ चेति ह्याकलय्यानुकूलकृत।
न्सृष्टार्थेति सा ज्ञेया कौतूहलसमन्विता ॥ इति ।
तथा च सप्तविंशतिर्दूतीकर्माणि, यथा—
-
प्रोत्साहनं
-
अर्थदर्शनं
-
गुणकथनं
-
विस्रम्भणं
-
तदनुरागाख्यापनं
-
कलानिवेदनं
-
शौर्यप्रकटनं
-
बहुमित्रता
-
सुवेषता
-
दुःखसहिष्णुता
-
मधुरवाग्वादिता
-
दृढमन्त्रिता
-
सौख्यवत्ता
-
स्वच्छन्दानुवर्तिता
-
उपायज्ञता
-
कालज्ञानवेदिता
-
देशविवेकिता
-
स्वभावज्ञता
-
सर्वकर्मकुशलता
-
दोषाच्छादनं
-
गुणनिरूपनं
-
सौन्दर्यप्रशंसा
-
पिशुनवाक्यराहित्यम्
-
मृदभाषणम्
-
अर्थप्रदानकथनं
-
विचेष्टितप्रशंसनं
-
परतत्त्वज्ञानं चेति ।
तत्र कालज्ञताप्रोत्साहनार्थदर्शनादिगुणान्प्रदर्शयन्ती वसन्तस्य सरसतामाह—ललिता मनोहरा या लवङ्गलता तस्या परिशीलनमालिङ्गनं तेन कोमलो मृदुलो मलयसमीरो मलयाचलसम्बन्धी वायुर्यत्र तादृशे । एतेन वायोस्त्रैविध्यमुक्तम्, लवङ्गलतानायिकायोगात्समीरस्योद्दीपनता कथिता । अन्यांश्चोद्दीपनविभावान्दर्शयति । पुनः कीदृशे वसन्ते ? मधुकरनिकरेण भ्रमरसमूहेन करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः मधुरशब्दयुक्तः कृतः कुञ्ज एव कुटीरोऽल्पा कुटी यत्र तादृशे ।
शीलनालिङ्गने समे इति विश्वः । समीरमारुतमरुज्जगत्प्राणसमीरणाः इत्यमरः । मधुव्रतो मधुकरो मधुलिण् मधुपालिनः इति च । स्तोमौघनिकरव्रातवारसंघातसंचयाः इत्यपि । मिश्रिते करम्बितः इति शाश्वतः । अला कुटी कुटीरः स्यातित्यपि ॥२८॥ (३.१)
वसन्तस्य दुरन्ततामाह—
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे ॥२९॥
उन्मदेति । उन्मद उद्भटो मदनो यत्र, उद्गतौ मदमदनौ यस्मिन्निति वा तादृशो मनोरथो येषां तादृशो ये पथिकानां वधूजनास्तैर्जनितो विलापो यत्र तादृशे । पुनः कीदृशे ? अलिकुलैः भ्रमरसमूहैः सङ्कुलो व्याप्तो यः कुसुमसमूहः, तेन निराकुलो निःशेषेणाकुलो व्याकुलो बकुलकलापः केसरसमूहो यत्र तादृशे । अथवा बकुल एव कलापो भूषणं यस्य । कलापः स्मरशरतूणीरो वा ।
सङ्कुलं वाच्यवद्व्याप्ते विस्पष्टार्थवचस्यपि चेद्विश्वः । केसरे बकुलः इत्यमरः । कलापो भूषणे बर्हे तूणीरे संहतावपि इति च ॥२९॥ (३.२)
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारण मनसिजनखरुचिकिंशुकजाले ॥३०॥
पुनः कीदृशे ? मृगमदस्य कस्तूरिकाया यः सौरभरभसः सौरभवेगस्तस्य वशंवदा आयत्ततावादिनी नवदलमाला नूतनपत्रपङ्क्तिर्येषां तादृशास्तमाला यत्र तादृशे । पुनः कीदृशे ? युवजनानां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तादृशा ये मनसिजस्य कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां जालं समूहो यत्र तादृशे, किंशुकजालानि पलाशकलिका इति वा । अत्र पलाशकोरकस्य वक्रत्वेनारक्तत्वेन च हृदयविदारणाद्रुधिराक्तमनसिजनखस्य सादृश्यं नखसौन्दर्यं च कथितम् ।
मृगनाभिर्मृगमदः कस्तूरी च इत्यमरः । । रभसो वेगहर्षयोः इति विश्वः । रुचिर्मयूखे शोभायामभिसङ्गाभिलाषयोः इति । पलाशः किंशुकः इत्यमरः । जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः इति विश्वः ॥३०॥ (३.३)
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकाशे ।
मिलितशिलिमुखपाटलपटलकृतस्मरतूणविलासे ॥३१॥
मदन एव । महीपतिस्तस्य यः कनकदण्डः सुवर्णघटितच्छत्रस्तस्येव रुचिर्यस्य तादृशस्य केशरस्य नागकेशरपुष्पस्य विकाशः प्रकाशो यत्र तादृशे । अत्र कनकदण्डशब्देन कनकदण्डयुक्तं छत्रमिति वा । महीपतिशब्दसाहचर्यात। अथवा विरहिणां दण्डनार्थं दण्ड इव । पुनः कीदृशे ? मिलिताः शिलीमुखा भ्रमरा एव शिलीमुखा बाणा यस्मिन्तादृशं यत्पाटलिपटलं पाटलपुष्पसमूहस्तेन कृतः स्मरतूणस्य कन्दर्पतुणीरस्य विलासश्चेष्टितं यत्र तादृशे । अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम् ।
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः इत्यमरः । अलिबाणौ शिलीमुखौ इति च । समूहे पटलं न ना इत्यपि । तूणोपासङ्गतूणीरनिषङ्गा इत्यपि ॥३१॥ (३.४)
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥३२॥
विगलितं विशेषेण गलितं लज्जितं लज्जा यस्य तादृशस्य जगतः प्राणिगणस्य विलोकनेन दर्शनेन तरुणकरुणैः नवीनकरुणवृक्षैः पुष्पविकाशव्याजेन कृतो हासो यत्र तादृशे । यत्र हास्यरसस्य श्वेतत्वात्पुष्पविकाशसाम्यम्, यदाह भरतः— श्वेतो हास्यः प्रकीर्तितः [ना.शा. ६.४२] इति । अथ च तरुणकरुणैः इत्यनेन वृन्दावनवृक्षादीनां नित्यतारुण्यमेव प्रतिपाद्यते, भगवत्प्रियत्वात। अथवा विगलितलज्जितानां जगतां वियोगिजनानां दर्शनेन तरुणैरर्थातवियोगिभिः करुणं करुणं करुणरससहितं यथा स्यातेवं कृतो हासो यत्र तादृशे । हा विरोहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणाः, लज्जां हृत्वा विलपन्तीति च हासस्तेषामिति भावः । बाला रसानभिज्ञा एव, वृद्धाः परप्रच्यवेऽपि च कृतसंवरणाः । अतस्तरुण इत्युक्तम् ।
अथवा विगलितं विभिः कोकिलादिभिः पक्षिगणैः शब्दायमानैः गलितं भुवि स्खलितम् । अत एव लज्जितम् । गच्छतीति जगत्पथिककुलम्, विभिः गलितं च तत्लज्जितं च तत्जगच्चेति समासः । तस्यावलोकनेन तरुणैः संयोगिभिः कारुण्येन कृतो हासो यत्र तादृशे । पुनः कीदृशे वसन्ते ? विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृति कुम्भ आयुधविशेषस्तस्य मुखमग्रभागः, तस्य इव आकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता विषमीकृता वा आशा दिशो यस्मिन्तादृशे । क्वचित्“केतकिदन्तुरिताशे” इति पाठः । तदा याकारौ ह्रस्वौ क्वचिदित्यत्र क्वचिद्ग्रहणस्य लक्ष्यानुरोधार्थत्वात्कृतह्रस्वेन केतकीशब्देन समर्थनीयः । लज्जितेत्यत्र नपुंसके भावे क्तः । “कृति छेदने” ह्रस्वोऽप्यनुबन्धोऽप्यस्तीति केचित। तस्य षुच्प्रत्ययान्तस्य निकृन्तनमिति प्रयोगः साधुः ।
करुणस्तु रसे वृक्षे कृपायां करुणा मता इति विश्वः । प्रासस्तु कुम्भः इत्यमरः । निम्नोन्नते तथा व्याप्ते दन्तुरं कथ्यते बुधैः इति धरणिः । आशा तृष्णादिशोः इति विश्वः ॥३२॥ (३.५)
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारीणि तरुणकरणबन्धौ ॥३३॥
पुनः कीदृशे ? माधविकाया वासन्त्याः परिमलेन सौरभेण ललिते मनोहरे । श्लेषेण माधवस्येयं माधविका नायिका तस्या परिमलेन कान्तविमर्दसौरभेण ललिते मनोज्ञे । उक्तं च—
आलिङ्ग्यैव प्रियं याति कामनिर्जितचेतसा ।
स्फुरति प्रत्युक्तिरचना माधवी नायिकेति सा ॥ इति ।
माधवशब्देन वसन्त एव नायकः । कृष्णसङ्गमाय तां त्वरयति विभावोद्रेककथनेन चेति ध्वनितम् । पुनः कीदृशे ? नवमालिकया नवमालिकापुष्पैः अतिसुगन्धौ अतिशयेन सौरभयुक्ते । पुनः कीदृशे ? मुनिमनसामपि मोहनकारिणि मोहजनके । अन्येषां किं वक्तव्यमित्यपि शब्दार्थः । तथा च माने मुनिवृत्तानां मानिनीनां मोहकारिणीति ध्वनितम् । पुनः कीदृशे ? तरुणानां विलासिष्वजनानामकारणबन्धौ स्वाभाविकमित्रे परमानन्दप्रद इत्यर्थः । नवमालिकजातीति पाठे नवमालिकं नवमालिकाकुसुमं च जातिश्चेति ताभ्यामित्यर्थः ।
विमर्दोत्थे परिमलो गन्धे जनमनोहरे इत्यमरः ॥३३॥ (३.६)
स्फुरदतिमुक्तलतापरिरम्भनमुकुलितपुलकितचूते ।
वृन्दावनवीपिने परीसरपरिगतयमुनाजलपूते ॥३४॥
पुनः कीदृशे वसन्ते ? स्फुरन्ती कममाना शोभमाना वा या अतिमुक्तलता वासन्तीलता तस्या परिरम्भणेनालिङ्गनेन मुकुलितपुलकितः मुकुलितं मुकुलं तदेव पुलको रोमाञ्चस्तद्युक्तश्चूत आम्रो यत्र तादृशे । अत्र कान्तस्य सङ्गमरसेन सात्त्विकोद्रेकां कम्पमानाया लताया नायिकायाः परिरम्भेण चूतनायकस्यापि रोमोद्गमेन अचेतनयोरपि कामोन्मेषः कथितः । तेन वसन्तस्यातिदुरन्तत्वं कथितम् । तथा चातिमुक्तपदेनातिशयमुक्तानामपि परिरम्भणौत्सुक्यमिति ध्वनितम् । अतिमुक्तायाः कस्याश्चिद्भगवन्माधुर्यभराकृष्टायास्तदुपासनार्थं वृन्दावने लतारूपत्वमिति वा । तदा अतिमुक्ता चासौ लता चेति समासः । अनेनातिमुक्तैः वैकुण्ठवासिभिरपि वृन्दावने लतात्वं स्पृहणीयमित्यत्र माधुर्यभरो निरूपितः । उक्तं च—
आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनां [भा.पु. १०.४७.६१] इति ।
एतावता वसन्तस्य सरसतां दुरन्ततां चोक्त्वा सम्प्रति क्रीडायाः स्थानविशेषमाह—वृन्दावनेत्यादि । वृन्दावननाम्नि विपिने हरिर्विहरतीत्यन्वयः । कीदृशे विपिने ? परिसरे समीप प्रदेशे परितः सर्वतो गतेन व्याप्तेन यमुनायाः जलेन पूते पवित्रे । परिसरपरिगतं च तत्यमुनाजलं च तच्च पूतं यत्र तस्मिन्निति वा, पावनस्य यमुनाजलस्याप्यधिकपावनत्वेन । किं वक्तव्यं तत्पावनत्वमित्यर्थः । तथा च—
रसो यः परमाधारः सच्चिदानन्दलक्षणः ।
ब्रह्मेत्युपनिषद्गीतः स एव यमुना स्वयम् ॥ इति वचनात् ।
एवं नूतमहिम्नोपलक्षितायास्तस्या पावनत्वेनातिमुक्तैः स्पृहणीयत्वं तस्य सिद्धमिति दर्शितम् । पावनत्वमत्र भगवद्रसविशेषानुभवादुच्यते, न तु पापमात्रक्षयादिति । वृन्दमवतीति वृन्दावनं चम्पकादिवृन्दम्, गोपीवृन्दं वा भगवत्केलिसुखसम्पादनात।
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता इत्यमरः । पर्यन्तभूः परिसरः इत्यपि ॥३४॥ (३.७)
सम्प्रति गीतार्थमुपसंहरन्स्वभणितेरुत्कर्षमाह—
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥३५॥
श्रीजयदेवेत्यादि । श्रीजयदेवकवेः इदं भणितमुदयति राजते, अयतेरुभयपादित्वात्परस्मैपदम् । तत्र हेतुः—हरिचरणयोः स्मृतिः स्मरणं तेन सारं श्रेष्ठम् । अथवा हरिचरणस्मृतिरेव सारो यत्र तादृशम् । पुनः कीदृशं ? सरसं शृङ्गाररसप्रधानं वसन्तसमयसम्बन्धिनो वनस्य वर्णनं यत्र तादृशम् । अत एवानुगतमदनविकारमनुगतः सम्बद्धोऽनुस्यूतो मदनस्य विकारः भावोद्रेकः । राधां प्रति सख्याः वर्णनानुगतः यस्मिन्ममोदिते तादृशम् । मदनसम्बन्धिविकारोऽनुगतः श्रोतृहृदि यस्मात्तदिति वा । सरसवसन्तसमयवनवर्णनमित्यस्य विशेषणं वानुगतमदनविकारमिति ॥३५॥ (३.८)
॥ इति माधवोत्सवकलाकरनामा तृतीयः प्रबन्धः ॥
* * * * *
इदानीं वसन्तकालीनवायोरपि विरहिजनसन्तापकरत्वमाह—
दरविदलितमल्लीवल्लिचञ्चत्पराग
प्रकटितपटवासैर्वासयन्काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः ॥३६॥
दरविदलितेत्याह—इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति, अर्थात्विरहिणाम् । किं कुर्वन्? काननानि वनानि वासयन्सुरभीकुर्वन। कैः ? दर ईषत्विदलिता या मल्लीवल्लिः, तस्या सकाशात्चञ्चन्त उद्गच्छन्तः ये परागाः पुष्परेणवस्त एव प्रकटिताः पटवासाः पिष्टातकास्तैः । कीदृशो गन्धवाहः ? केतकीगन्धबन्धुः केतकीसौरभसहचारी । पुनः कीदृशः ? प्रसरतः प्रतिदिशं सञ्चरतोऽसमबाणस्य प्राणवत्प्राणसदृशः । अथवा प्रसरता असमबाणेन प्राणवान्शक्तिसम्पन्नो यो गन्धवाहः इत्येकमेव पदम् । अथवा किंभूतं चेतः ? प्रसरतर्थात्मनोरथं प्रति, असमबाणप्राणवत्कामस्य जीवितमिव ।
ईषदर्थे दराव्ययमिति विश्वः । परागः पुष्परजसि इति च । पिष्टातः पटवासकः इत्यमरः । गन्धवाहानिलाशुगाः इति च ॥३६॥ (८)
—ओ)०(ओ—
अद्र्योत्सङ्ग वसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयाद्
उन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥३७॥
श्रीखण्डशैलानिलो मलयपर्वतसम्बन्धी पवनः ईशाचलमीशस्य महादेवस्य अचलं पर्वतं हिमालयमनुसरति । कस्मादिव ? अद्रेः मलयस्य उत्सङ्गे क्रोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेन जनितो यः क्लेशः सन्तापः तस्मादिव । तर्हि हिमाद्रिं किमिति व्रजति ? इत्यत आह— प्रालेयेत्यादि । प्रालेयं तुषारः तस्य प्लवनमवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसम्पर्कादधिकं विरहिणां सन्तापकत्वं ध्वनितम् । वस्तुतस्तु दक्षिणवायोः शीतलत्वात्सुखकरत्वाच्च विरहिणां दुःसहपरिणामेन सर्पग्रसनहिमाप्लवनमित्याक्रोशः । न केवलमिदमेव दुःसहम्, वसन्ते अपरमपीथाह—किं चेति । पिकानां कोकिलानां कुहूः कुहूरिति गिरः कुहूः कुहूरित्येवंरूपाः शब्दा उन्मीलन्ति प्रकटीभवन्ति । कीदृश्यः ? कलोत्तालाः, कला अव्यक्तमधुरा उत्ताला उद्भटाः । कस्मात्? स्निग्धा ये रसाला आम्रवृक्षास्तेषां ये मौलयः अग्रभागास्तत्र यानि मुकुलानि, तानि आलोक्य वीक्ष्य यो हर्षोदय आनन्दस्याविर्भावः, तस्मात। अत्र क्वचिदद्योत्सङ्गे इति पाठः । तदा अद्य वसन्त इत्यर्थः ।
तुषारस्तुहिनं हिमं प्रालेयं मिहिका च इत्यमरः ।
चषालो होमकुण्डे स्याद्गर्ते चोत्ताल उत्कटे ।
श्रेष्ठेपि विकरालेऽपि स्यादुत्तालः प्लवङ्गमे ॥ इति विश्वः ॥३७॥ (९)
—ओ)०(ओ—
सम्प्रति वसन्तदिवसानामपि दुरन्तत्वमाह—
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर
क्रीडत्कोकिलकाकलीकलकलैर् उद्गीर्णकर्णज्वरः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण
प्राप्तप्राणसमागमरसोल्लासैरमी वासराः ॥३८॥
उन्मीलदित्यादि । अमी वसन्तसम्बन्धिनो वासरा दिवसाः पथिकैः कथमपि महता कष्टेन नीयन्ते समाप्यन्ते । कीदृशा वासराः ? उद्गीर्णः प्रकटीकृतः कर्णज्वरः श्रोतृसन्तापो येषु तादृशाः । कैः ? उन्मीलन्ति प्रकटीभवन्ति यानि मधूनि गन्धाश्च तेषु लुब्धा लोलुपा भ्रमरास्तैः व्याधूत ये चूताङ्कुरा आम्रमुकुलानि तेषु क्रीडतां कोकिलानां याः काकल्यः अव्यक्तमधुरध्वनयः, ताभिः कृता ये कलकलाः कोलाहलैस्तैः । तदुक्तं वसन्ते पञ्चमं वदति कोकिलः इति उद्दीपनविभावो दर्शितः । केन प्रकारेणानीयन्त इत्यत आह—ध्यानेत्यादि । स्वप्रियाचिन्तने यदवधानं तत्परता तेन तत्क्षणं प्राप्तो यः प्राणसमाया जीविततुल्यायाः समागमरसस्तस्मिन्नुल्लासो येषां तादृशैरिति । अनेन श्रीकृष्णस्यापि प्रियाध्यानेन कष्टेन वसन्तवासरनिर्वाह इति ध्वनितम् ।
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे इत्यमरः । कोलाहलः कलकलः इति च ॥३८॥ (१०)
—ओ)०(ओ—
एवमुद्दीपनविभावा दर्शिताः । सम्प्रत्यनुभविष्यत्वर्णयति—
अनेकनारीपरिरम्भसम्भ्रम
स्फुरण्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयन्त्यसौ
सखी समक्षं पुनराह राधिकाम् ॥३९॥
अनेकनारीत्यादि । असौ सखी राधिकां पुनराह—पुनः कथितवती । किं कुर्वती ? आरात्दूरे समक्षं प्रत्यक्षं मुरारिमुपदर्शयन्ती । कीदृशं ? अनेकनारीणां परिरम्भसम्भ्रमेण आलिङ्गनादरेण स्फुरन्यो मनोहारी विलासः अनङ्गविकारस्तेन लालसा औत्सुक्यनर्थात्राधायां यस्य तादृशं मथवा अनेकनारीणां परिरम्भसम्भ्रमेण स्फुरन्चित्तारूढो भवन्यो मनोहारी हरेश्चित्तापहारी श्रीराधाया विलासः हावादिलक्षणस्तस्मिन्लालसा यस्य । परिरम्भसम्भ्रमः अन्योन्यसख्यालिङ्गनेक्षणाभियोगस्तेन स्मारितश्रीराधाविलासेन तत्सखीषु लालसं प्रार्थनमिति वा । अथवा मुरारिमारात्कृष्ण एव कामस्तस्मादनेकनारीणां परिरम्भसम्भ्रमेण स्फुरन्नाविर्भवन्यो मनोहारी विलासस्तेन लालसमौत्सुक्यं भावविकारं दर्शयन्तीत्यर्थः । अनेन तदभिसरणाय तासां भावक्रियानिरूपणेन नायकगुणाधिक्यं दर्शितम् । वक्ष्यति चाग्रे—पीनपयोधर [१.४१] इत्यादिना ।
लालसो लालसापि स्याद्याच्ञातृष्णातिरेकयोः औत्सुक्ये च इति विश्वः । आराद्दूरसमीपयोः इत्यमरः । तथा च सम्भ्रमपादोपादानात्लालसमित्यनेन च तासामालिङ्गनोपेक्षया तदालिङ्गनादराधिक्यं दर्शितम् । किं च, आराद्दूरे समीपे वा तस्या प्रत्यक्षं यथा स्यात्तथा इति ॥३९॥ (११)
—ओ)०(ओ—
॥ प्रबन्धः ४ ॥
रामकरीरागयतितालाभ्यां गीयते ।
तदेव गीतेन प्रपञ्चयति—
चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥४०॥
हरिरिह मुग्धवधूनिकरे विलासिनि विलासति केलीपरे ॥ध्रु॥
चन्दनेत्यादिना । रागलक्षणं—
स्वर्णप्रभा भास्वरभूषणा च
नीलं निचोलं सुतनौ वहन्ती ।
कान्ते पदोपान्तमधिश्रितोऽपि
मानोन्नता रामकरी प्रदिष्टा ॥ इति ।
ताललक्षणं प्रागुक्तम् । गीतार्थस्तु—हे विलासिनि विलासशीले ! इह वृन्दावने मुग्धवधूनिकरे सुन्दरवधूनिचये हरिर्विलसति क्रीडां करोति । कीदृशे वधूनिकरे ? केलिपरे क्रीडापरायणे । अत्र मुग्धपदेन हावाद्यनभिज्ञत्वं केलिपर इत्यनेन सामान्यक्रीडापरत्वं च तासां ध्वनितम् ।
तथा च विलासिनीत्यनेन हावाद्यभिज्ञां त्वामेव सकलकलाभिज्ञोऽपेक्षत इति भावः । मुग्धाः सुन्दरमूढयोः इति विश्वः । विलासो हावविशेषः । तल्लक्षणं—
यानस्थानासनादीनां नेत्रवक्त्रादिकर्मणाम् ।
उप्तद्यते विशेषो यः स विलासः प्रकीर्तितः ॥ इति भरते ।
अथवा केलिः परा उत्कृष्टा सर्वातिशयिनी यस्यास्तत्सम्बोधनम्—केलिपरे इत्यपि । मुग्धाश्च ताः वध्वश्च मुग्धवध्वः । मुग्धेति नायिकालक्षणान्वितास्तासां निचये । हरिः स्वविलासकशलैरखिलनागरीमनोहारीति । सकलकलाकुशलस्य तासु मुग्धासु तादृशहावाद्यनुपपत्त्या त्वयैव तस्याभिलषितक्रीडापर्याप्तेस्त्वामेव कामयत इति त्वया तत्र गन्तव्यमिति भावः । मुग्धाया लक्षणं शृङ्गारतिलके—
मुग्धा नववधूस्तत्र नवयौवनभूषिता ।
नवानङ्गरहस्यापि लज्जाप्रायरतिर्यथा ॥ [शृ.ति. १.३५] इति ।
किं च,
कृतापराधे दयिते बाष्परुद्धावलोकना ।
प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा ॥ [उ.नी. ५.१४] इति ।
नवयौवनवत्त्वेनापि—
ईषच्चपलनेत्रान्तं स्मरस्मेरमुखाम्बुजम् ।
सगर्वजरजोगण्डमसमग्रारुणाधरम् ॥
लावण्योद्भेदरम्याङ्गं विलसद्भावसौरभम् ।
उन्मीलिताङ्कुरकुचमस्फुटाङ्गकसन्धिकम् ॥
प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।
अपेक्षते मृदुस्पर्शं सहते नोद्धतां रतिम् ॥
सखीकेलिरता स्वाङ्गसंस्कारकलितादरा ।
न कोपहर्षौ भजते सपत्नीदर्शनादिषु ।
नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते ॥ [र.सु. १.२६३२६६] इति तल्लक्षणात।
अथवात्र दाक्षिण्यरूपो नायकगुण उक्तः । तदुक्तं तत्रैव—
यो गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति ।
न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः ॥ [उ.नी. १.३२] इति ।
केचित्तु नायिकास्वप्यनेकासु तुल्यो दक्षिण उच्यते इत्यत्र न घटते । श्रीराधामनु रागातिशयश्रवणात। यथा सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा इति पाद्मे । श्रीभागवते च—अनयाराधितो नूनं भगवान्हरिरीश्वरः [भा.पु. १०.३०.२८] …
पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥४१॥
… रो मधुराङ्गविचेष्टितैः इति । किं च, कृष्णस्यानुगानेन गीतशिक्षापि न्यूनेति ध्वनितम् । समशिक्षयैव रसोत्पत्तिः । तद्यथा—
काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात॥ [भा.पु. १०.३३.१०] इति श्रीभागवते ।
अथवा सरागमित्यादि हरेर्विशेषणम् । कीदृशं हरिं ? सरागं रागेण तव सम्भोगे स्खलितसिन्दूरेण सह वर्तमानः सरागस्तम्, त्वै सानुरागं सरागमिति वा । तत्र हेतुमाह—पुनः किंलक्षणं ? उदञ्चितपञ्चमरागमुदञ्चितः आतारावधि ऊर्ध्वे नीतः पञ्चमः स्वरो येन तादृशम् । तदुक्तं भरतेन—मध्यं पञ्चमभूयिष्ठं हास्यशृङ्गारयोर्भवेत्[ना.शा. २९.१३] इति । शृङ्गारे पञ्चमः स्वरो बाहुल्येन भवतीति उदञ्चितोऽनुरागो येन तादृशम् । उक्तं च—
निषादर्षभगान्धारषड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥
[अन्यत्र]
निषादं हेषते वाजी गावस्त्वृषभभाषिणः ।
अजाविकं तु गान्धारं धैवतं बृंहते गजः ॥
षड्जं मयूरा ब्रुवते मृगा मध्यमभाषिणः ।
पुष्पसाधारणे काले कोकिला रौति पञ्चमम् ॥
क्वचिच्च—
षड्जं वदेन्मयूर ऋषभं चातको वदेत।
अजा वदति गान्धारं क्रौञ्चो वदति मध्यमम् ।
पुष्पसाधारणे काले कोकिलः पञ्चमं वदेत।
दर्दुरा धैवतं चैव निषादं च वदेद्गजः ॥ इति ।
हास्यशृङ्गारयोर्ज्ञेयौ स्वरौ पञ्चममध्यमौ ।
षड्जर्षभौ तथा ज्ञेयौ वीरे रौद्राद्भुते रसे ॥
गान्धारश्च निषाधश्च कर्तव्यौ करुणे रसे ।
धैवतश्चैव कर्तव्यो बीभत्से च भयानके ॥
भैरवः पञ्चमो मेघमल्लारो गौडो मालवः ।
देशाख्यश्चेति षड्रागाः प्रोच्यन्ते लोकविश्रुताः ॥
सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ।
श्रुतीनां द्वाविंशतिश्चैव तानाः पञ्चाशदूनकाः ॥ इति ।
एवं तद्रागमोहितायास्तव सम्भोगचिह्नितेन त्वत्सङ्केतं गायता सहालिङ्गनानुगानेन तस्या मौग्ध्यं स्फुटमेव कथितमिति भावः । तथा च स्त्रियो हि गीतेन मोहिता भवन्ति, तदुक्तं—
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप ।
स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ॥ [भा.पु. १०.३४.२४] इति श्रीभागवते ।
श्रुतिश्च—
अपक्रम्यातिष्ठत्तद्रोहिजन्म ते देवा अब्रुवन्नययुष्मदक्रमीन्नास्मानुपावर्तते । विह्वयामहा इति ब्रह्मगन्धर्वा अतदन्न गायन्देवाः सा देवानुगायत उपावर्तत । तस्माद्गायंस्त्रिंषु कामयते कामुका एतं स्त्रियो भवन्ति इति ।
श्रीराधाया अग्रे तस्या अगौरवसूचनाय काचिदित्युक्तम् ।
पञ्चमो रागभेदे स्यात्पञ्चानामपि पूषणे ।
पञ्चमश्चतुरे हृद्ये पञ्चमः पाण्डवोऽस्त्रियाम् ॥ इति विश्वः । ॥४१॥ (४.२)
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥४२॥
कापीति । कापि मुग्धवधूर्मधुसूदनस्य वदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति । कीदृशं ? विलासेन विलोलयोश्चञ्चलयोर्विलोचनयोर्यत्खेलनं तेन जनित उत्पादितो मनोजः कामो येन अर्था तस्यामेव, ताम् । अधिकमित्यपि मुखस्य विशेषणं वा, तदा पुनः कीदृशं ? मुखपद्मं ? अतुललावण्यास्पदमित्यर्थः । सौगन्ध्यादिगुणख्यापनाय मधुररसस्यन्देनापि कामोद्बोधकत्वाच्च स्वापहारकत्वाच्च वदनस्य सरोजोपमा । मधुसूदनपदेन तस्यामनुरागस्यास्थिरत्वं ध्वनितम् । तथा च प्रत्यक्षस्य ध्यानादकौशलेन मुग्धवधूरित्युक्तम् ॥४२॥ (४.३)
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥४३॥
कापि कपोलेति । कापि नितम्बवती दयितं श्रेष्ठं कपोलतले चारु मनोहरं यथा स्यात्तथा चुचुम्ब चुम्बनं कृतवती । किंलक्षणा ? किमपि कार्यं लपितुं मन्त्रयितुं श्रुतिमूले कर्णमूले मिलिता संलग्ना । कीदृशे ? पुलकै रोमाञ्चैरनुकूले प्रियाभिलाषसूचके । औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन चातुर्यं प्रसार्य तदारब्धमिति भावः । अत्रापि स्वयमेव प्रथमं चुम्बनेन तस्या अधीरत्वं ध्वनितम् । नितम्बवतीत्यनेन सौन्दर्याधिक्यं च कथितम् । अथवा कापि नितम्बवती सुन्दरी परमविदग्धा तव सखी श्रुतिमूले लग्ना । किंअर्थं ? किमपि तव सङ्गमवार्तां लपितुं कथनार्थमित्यर्थः । तदा किं कृतवती ? तदाह—दयितं पुलकैरनुकूले कपोलतले चारु चुचुम्ब । तव कथाश्रवणोदितसात्त्विकविकारेण त्वय्यनुगतत्वसूचके कपोलतले । अत एव चारु यथा स्यात्तथा चुचुम्ब अनुमोदनं कृतवती । अयं भावः—यदा तव वार्ताश्रवणेनापि एतादृशो भवति । तदा किं वक्तव्यं तव सङ्गमानुरागः, ततो मिलनमेव कार्यम् ॥४३॥ (४.४)
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥४४॥
केलीत्यादि । काचिद्गोपी अमुं कृष्णं केलिकलाकुतुकेन दुकूले पट्टवस्त्रे विषये विचकर्ष आकृष्टवती । दुकूले गृहीत्वामुं विचकर्षेति केचिद्योजयन्ति । कीदृशं ? मञ्जुलो मनोहरो वञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं तव सखीशिक्षया तासां वञ्चनाय प्राप्तम् । कुत्र विचकर्ष ? यमुनाजलकूले च यमुनाया जलयुक्ते रोधसि तवागमनाशया निलीय वञ्जुलकुञ्जस्थं श्रीकृष्णं यमुनाकूलं प्रति क्रीडार्थमाकृष्टवतीत्यर्थः । अत्राप्यन्यानुरक्तस्य वस्त्राकर्षणादधीरत्वं व्यङ्ग्यम् । अथवा केलिकलाकुतुकेन तव वलासौत्सुक्येन तासां वञ्चनं कृत्वा यमुनाजलकूले तटे यो वञ्जुलकुञ्जस्तत्र गतममुं काचित्करेण दुकूलं विकर्षेत्यन्वयः ।
कुतुकं च कुतूहलमित्यमरः । मनोज्ञं मञ्जु मञ्जुलमिति च । वञ्जुलो बकुले ख्यातो वञ्जुलो वेतसे मतः इति धरणिः । दुकूलं क्षौमे सूक्ष्मांशुकेऽपि ॥४४॥ (४.५)
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सहनृत्यपरा हरिणा युवती प्रशशंसे ॥४५॥
करतलेत्यादि । ननु गोपीभिः सह क्रीडां कुर्वतः कृष्णस्य कुत्र मय्यनुरागः ? कथं वृथा प्रलापं करोषि ? इत्यत आह—स्वयमेव शृणु । काचिद्युवती वराङ्गना राधाभिधाना हरिणा कृष्णेन प्रशशंसे स्तुता । कीदृशी ? रासरसे रससमूहो रासः, स चासौ रसश्च तस्मिन्रासे बहुनर्तकनार्तकीनां नृत्यविशेषो रासस्तस्मिन्यो रसः सङ्गीतकौशलेन चमत्कारविशेषस्तत्र वा । सहनृत्यपरा कृष्णेन सह तुल्यं नृत्यन्ती । कीदृशे रासरसे ? करतलयोस्तालेन परस्परं वादनेन तरला चञ्चला वा वलयावलिः कङ्कणपङ्क्तिः, तया कलितो मिश्रितः कलस्वनः अव्यक्तमधुरशब्दस्तत्सहितो वंशो वेणुर्यत्र तादृशे ।
अयमभिप्रायः—रासरसे रासानुरागे सति सहनृत्यपरा युवतिः हरिणा प्रशशंसे । कस्मिन्? करतलतालतरलवलयावलिकलितकलस्वनवंशे । सम्प्रति तत्करतलतालमिलिते वेणुकलध्वनौ केनापि सङ्केतेन तव स्तुतिं करोत्येव ताभिर्न लक्ष्यते । अतस्तासां मौग्ध्यमिति भावः ।
द्रुमभेदे करास्फाले तालं तु हरितालके इति विश्वः । । तरलश्चञ्चले खड्गे हारमध्यमणावपि इति च । वंशो वेणौ कुले वर्गे पृष्टस्यावयवेऽपि च, रासरसस्तु रासे स्यातिति च । रासस्तु गोदुहां क्रीडा इति हारावली ॥४५॥ (४.६)
श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति स स्मितचारु पराम् अपरामनुगच्छति वामाम् ॥४६॥
श्लिष्यतीत्यादि । कामपि रामां क्रीडाशीलां श्लिष्यति आलिङ्गति, कामपि चुम्बति, कामपि मधुरवचनादिना रमयति क्रीडयति । स श्रीकृष्णः स्मितेन चारु यथा स्यात्तथा परां गोपीं पश्यति । एवं तास्वभिसृतासु दाक्षिण्येनालिङ्गनादिकं दृष्ट्वा रोषेण गच्छन्तीमपरां वामां वक्रस्वभावां मनोहरस्वभावां वा तव सखीमनुगच्छति अनुनयार्थमनुगतिं करोति । अथवा एवं सस्मितावलोकादिमात्रेण तासां वञ्चनं कृत्वा वामां त्वामनुगच्छति अनुनयार्थमनुरागः (?), अतः सङ्गमार्थं विलम्बं मा कृथा इति भावः । सुन्दरी रमणी रामा इत्यमरः ॥४६॥ (४.७)
श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् ।
विपिनविनोदकलावलितं वितनोतु शुभानि यशस्यम् ॥४७॥
श्रीजयदेवेत्यादि । श्रीजयदेवकवेः इदं सर्वस्वरूपं गीतं शुभानि वितनोतु विस्तारयतु । कीदृशं ? अद्भुतकेशवस्य केलिरहस्यं क्रीडाकौशलं यत्र तादृशम् । राधारसाकृष्टस्यापि अनेकविलासवतीनामनुरञ्जकत्वाद्भुतत्वम् । केशवपदेन सौन्दर्यं च कथितम् । पुनः कीदृशं ? विपिनविनोदकलया वनविहारकौशलेन वलितं संसक्तम् । पुनः कीदृशं ? यशस्यं यशःप्रदम् । वृन्दावनविपिने ललितमिति पाठे तदा इदं ललितं गीतं शृङ्गारचेष्टितं वा वृन्दावने अद्भुतकेलिरहस्यम् ।
अत्राभिसारिका एव नायिकाः । धृष्टदक्षिणानुकूलशथश्च नायकः । तत्र कामपि रमयति रामां सरागमित्यनेन च धृष्टः । तद्यथा—
अभिव्यक्तान्यतरुणीभोगलक्ष्मापि निर्भयः ।
मिथ्यावचनदक्षश्च धृष्टोऽयं खलु कथ्यते ॥ [उ.नी. १.४०]
दक्षिणस्तु कथितो प्राक्[गी.गो. १.४० टीका] । शठस्तु यथा—
प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥ [शृ.ति. १.२७]
मञ्जुलवञ्जुलकुञ्जगतमिति निगूढमपराद्धं चेत्यनेनोक्तः । अपरां रामामनुगच्छतीत्यनुकूलश्च कथितः । तल्लक्षणं वक्ष्यतेऽग्रे [प्रबन्धः १६] । श्रीराधायामनुकूलोऽयं सदा धीरोदात्तानुकूलताप्यस्यात्र संघटते । तद्यथा—
कुवलयदृशः सङ्केतस्था दृगञ्चलकौशलैर्
मनसिजकलानाटीप्रस्तावनामभितन्वताम् ।
न किल घटते राधारङ्गप्रसङ्गविधायिता
व्रतविलसिते शैथिल्यस्य च्छटाप्यघविद्विषः ॥ [उ.नी. १.२८]
यद्यपि धीरललितानुकूलोऽयं नायकः, तथापि सर्वे नायकगुणाः श्रीराधारसपोषणाय तत्तद्भावैः श्रीकृष्णे संभजन्ति ॥४७॥ (४.८)
॥ इति चतुर्थः प्रबन्धः ॥
* * * * *
ननु सकलकलाभिज्ञः श्रीकृष्णः कथं हावाद्यनभिज्ञाभिर्गोपीभिः सह केलिं कृतवान्? इत्यत आह—
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥४८॥
हे सखि राधे ! मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति । किं कुर्वन्? विश्वेषां गोपीजनानां सर्वेषां प्राणिनां वा अनुरञ्जनेन आनन्दं जनयन। पुनः किं कुर्वन्? इन्दीवराणां नीलकमलानां वा श्रेणी पङ्क्तिस्तद्वत्श्यामलैः नीलैः कोमलैः सुकुमारैरङ्गैरवयवैः अनङ्गस्य कामस्य उत्सवमुपनयन्नुपस्थापयन्स्वावयवांशभूतैरवयवैस्तस्यापि साङ्गीकरणात। सौकुमार्यं च कोमलस्यापि स्पर्शाशतोच्यते, तदुदाहृतिः प्राक्कृतैव । अङ्गैरिति सौन्दर्यं कथितम् । तदुक्तं—
अङ्गप्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमितीर्यते ॥ [र.सु. १.२८६] इति ।
कीदृशो हरिः ? अभितः सर्वतः बाह्यैरवयवैः अन्तश्चेतसा उभयतः प्रत्यङ्गमङ्गमङ्गं प्रति स्वच्छन्दम्, यथा स्यादेवं व्रजसुन्दरीभिरालिङ्गितः । क इव ? मूर्तिमान्शरीरी शृङ्गार इव शृङ्गाररस इव । तथा च शृङ्गाररसस्य श्यामत्वात्श्रीकृष्णसादृश्यम् । तदुक्तं भरतेन—श्यामो भवति शृङ्गारः सितो हासः प्रकीर्तितः [ना.शा. ६.४२] इति । यथा मुग्धो मनोहरः शृङ्गारो रसो मधौ वसन्ते क्रीडति सर्वत्र विलसति । किं कुर्वन्? अनुरञ्जनेन यूनोः परस्परानुरागजननेन विश्वेषां प्राणिनामानन्दं जनयन। पुनः किं कुर्वन्? अङ्गैः शृङ्गाररसस्याङ्गभूतैः कटाक्षादिभिः सञ्चारिभिश्च अनङ्गोत्सवमुपनयन्, न केवलमेतैः विभावैरपीत्याह—इन्दीवरेत्यादि । इन्दीवरश्रेणीभिः नीलोत्पलपङ्क्तिभिः श्यामलैः गाढान्धकारः नीलनिचोलतमालवनादिभिः स्यादेवं मृदुशय्यादिभिः । अत्र हेतुगर्भविशेषणमाह—स्वच्छन्दमित्यादि । स्वच्छन्दं यथा कोमलैः व्रजसुन्दरीभिः । अङ्गमङ्गं प्रति आलिङ्गितः आश्रितः । शृङ्गाररसस्याङ्गानां विभावादीनां मध्ये कयाचित्ताम्बूलस्रक्चन्दनाद्युद्दीपनविभावरूपम् । कयाचित्स्मितकटाक्षाद्यनुभावरूपम्, कयाचिच्च शङ्कासूयादिसञ्चारिभावरूपम्, कयाचिच्च रोमाञ्चस्वेदादिसात्त्विकभावरूपम्, शृङ्गाररसस्याङ्गमाश्रितमिति भावः । विभावादीनामङ्गत्वं प्रति तु भरतः—
विभावैरनुभावैश्च भावः सञ्चारिसात्त्विकैः ।
जनितो बोधितः स्फीतो वृद्धः शृङ्गार इष्यते ॥ इति ।
विभावस्य सामान्यलक्षणं तु रसरत्नदीपिकायां—
भक्तियोग्२इ विशेषेण ये रसान्वै मनोहरान।
ते विभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥ [र.र.दी. ३.१]
तत्र शृङ्गारविभावा भरतेनोक्तम् ।
ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः ।
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ [ना.शा. ६.४७]
अनुभावसामान्यलक्षणं—
क्रिय्न्ते वै रसाः सम्यक्लोकानुभवगोचराः ।
तेऽनुभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥ [र.र.दी. ३.१०]
तत्र शृङ्गारानुभावाः—
नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च ।
मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ [ना.शा. ६.४८]
व्यभिचारिसामान्यलक्षणं दशरूपके—
विशेषादभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ [द.रू. ४.७]
तत्र शृङ्गारव्यभिचारिणः शृङ्गारतिलके—
शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस्तथा ॥
विषादो जडता निद्रावहित्थं चापलं स्मृतिः ।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ [शृ.ति. १.२८२९] इति ।
सात्त्विकभावाः शृङ्गारतिलके—
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ [शृ.ति. १.१५] इति ।
एतेषामवान्तरलक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलकलाभिज्ञस्यापि व्रजसुन्दरीभिः सह तत्तदनुसारेण क्रीडतः कृष्णस्य न दक्षत्वहानिः, तासां तथैवानुरञ्जनात। अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जकत्वं कृष्णस्योक्तम् । तेन च तासु साधारणप्रेमकथनेन तस्या एवोत्कर्षः कथित इति भावः ।
अथवा, हे सखि ! तवानुरञ्जनेन प्रीत्युत्पादनेन विश्वेषां सर्वेषां सखीजनानां नः आनन्दं जनयन्क्रीडतीत्यर्थः । स्त्रीसंयोगेनास्मिन्नसूया न कर्तव्येति । ताभिः स्वातन्त्र्येणालिङ्गितत्वात। तस्य तु तवालिङ्गने प्रीतिरिति भावः । अन्यत्समानम् ।
शृङ्गारः सुरते नाट्यरसे च गजमण्डने इति विश्वः । विश्वं सर्वं भवश्चापि इति च । इन्दीवरं तु नीलेऽस्मिनित्यमरः । कालश्यामलमेचकाः इति च । मूर्तिः काठिन्यकाययोः इचि च ।
पुंसः स्त्रियाः पुंसि सम्भोगं प्रति या स्पृहा ।
सा शृङ्गार इति प्रोक्तो रतिक्रीडादिकारणम् ॥ इति ।
तथा च व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गित इत्यनेनाभितः सर्वतो यदङ्गं या आलिङ्गितवती तदङ्गं माधुर्यातिरेकात्सा त्यक्तुं समर्था न बभूवेति भावः । उक्तं च साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.२], काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा [भा.पु. १०.३२.४] इत्यादि । स्वच्छन्दमिति च यथेष्टविलासास्पदत्वं तस्य कथितम् ॥४८॥ (१२)
—ओ)०(ओ—
इदानीं सर्गस्यान्ते कविराशिषं प्रयुङ्क्ते—
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवाम्
अभ्यर्णं परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुद्भटचुम्बितः स्मित मनोहारि हरिः पातु वः ॥४९॥
हरिः श्रीकृष्णः वो युष्मान्पातु रक्षतु । किम्भूतो हरिः ? स्मितेन मन्दहसितेनैवान्यनारीणां मनो हर्तुं शीलमस्य स तथा । पुनः किम्भूतः ? राधया उद्भटं प्रकटमेव यथा स्यात्तथा चुम्बितः । किं कृत्वा ? आभीरवामभ्रुवां गोपसुभ्रुवामभ्यर्णे समीपे उरो वक्षः निर्भरं गाढं यथा भवत्येवं परिरभ्यालिङ्ग्य । किंलक्षणानां गोपाङ्गनानां ? रासे रासक्रीडायामुल्लासभरेण हर्षातिशयेन विभ्रमभृतां विलासवतीनां विभ्रमभृत्न पश्यतीति ।
ननु भवतु तासु विभ्रमः । प्रत्यक्षं युवतिगणं पश्यन्त्या तया कथं चुम्बितः ? तत्राह—प्रेमान्धया प्रेम्णा हर्षातिशयेनान्धया । श्रीकृष्णं विनान्यत्र पश्यतीति तया । लज्जाजनकस्य द्वितीयस्यादर्शनादेव निर्भरमालिङ्ग्य चुम्बनं कृतवतीति भावः । तत्रापि न केवलं ग्राम्यतया कृतवती, किन्तु सचातुर्यमित्याह—त्वद्वदनं त्वन्मुखं सुधामयममृतमयं साधु शोभनमिति व्याहृत्य उक्त्वा गीतस्तुतिव्याजाद्गानप्रशंसाच्छलेन । यद्गीतममृतमयं तत्त्वद्वदनं सुधानिधानमिति साधु युक्तमेतदिति चातुरीमारचय्य चुम्बनं कृतवतीति भावः ॥४९॥ (१३)
॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥
**********************************************************************
.
(२)
द्वितीयः सर्गः
अक्लेशकेशवः
पूर्वसर्गेऽभिलाषचिन्तारूपां दशां च निरूप्येदानीं स्मरणरूपां दशां वर्णयति । तल्लक्षणं वर्ण्यतेऽग्रे [७.२, ८.१] । तत्तद्वचनैः सख्या प्रेरिता राधा समक्षमन्याभिः सह वर्तमानं कृष्णं द्रष्टुमसहमाना क्वचित्कुञ्जान्तरे गत्वा सखीमाह । तदेव दर्शयति—
विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गताऽन्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली
मुखरशिखरे लीन दीनाप्युवाच रहः सखीम् ॥१॥
श्रीराधा सखीं रहोऽपि गोप्यमपि वक्ष्यमाणमुवाच उक्तवती । कीदृशी सा ? ईर्ष्यावशेनासहिष्णुतया अन्यतः अन्यत्र गता । ईर्ष्यायां हेतुमाह—विगलितेत्यादि । विगलितो गतो निजः स्वीय उत्कर्षोऽहमेवास्यातिप्रणयिनीत्येवंरूपः, तस्मात। अन्यस्त्रीभ्यो निजात्रेकापगमादित्यर्थः । क्व सति ? हरौ कृष्णे वने विहरति सति । कीदृशे हरौ ? साधारणो राधायामन्यगोपाङ्गनासमानः प्रणयः प्रेमा यस्य तादृशे । असाधारणप्रणये इति वा अतुलितप्रेमवतीत्यर्थः । अतो दीना दुःखिता । पुनः कीदृशी ? क्वचिदपि लताकुञ्जे लताभिरतिनिविडे कुञ्जे लीनादृश्यतयैव स्थिता । कीदृशे कुञ्जे ? गुञ्जतः शब्दायमाना ये मधुव्रता भ्रमराः, तेषां मण्डली पङ्क्तिः, तया मुखरं वाचालं शिखरमग्रभागो यस्य तादृशे । अत्र कुञ्जेनैव लताच्छादितगृहप्राप्तौ लतापदमतिनिविडत्वसूचनाय । प्रणयः प्रेम्णि विश्रम्भे इति विश्वः । ईर्ष्यामाहुः समानेषु मानदानादमर्षणम् । तथा च भ्रमराणां शब्देनाधिकभावोद्रेकः कथित इति भावः । ईर्ष्यावशेनेत्यनेन व्यभिचारिभावानां प्रवेशः कथितः ॥१॥ (१४)
—ओ)०(ओ—
किमुवाचेत्यत आह—
॥ प्रबन्धः ५ ॥
गुर्जरीरागेण यतितालेन गीयते ।
सञ्चरदधरसुधामधुर
ध्वनिमुखरितमोहनवंशम् ।
चलितदृगञ्चलचञ्चलमौलि
कपोलविलोलवतंसम् ॥२॥
रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासम् ॥ [ध्रु]
गीतस्यास्य गुर्जरी रागः, तालस्तु प्रतिमण्ठकः । रागलक्षणं प्राक्कथितं (गीत २.१) । ताललक्षणं तु—
तारश्चाप्यपरश्चैव विचारः कन्दुसंज्ञकः ।
चत्वारः कथिता ह्येते प्रतिमण्ठा विचक्षणैः ॥
विरामान्तद्रुतद्वन्द्वं गुरुश्चैकस्ततः परम् ।
सुरङ्गतालः गातव्यस्तालस्तु प्रतिमण्ठकः ॥
गुरुरेको भवेद्यत्र सन्निपातः स कथ्यते ।
अपरप्रतिमण्टोऽसौ विद्वद्भिस्तेन गीयते ॥
लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ।
विचारो गीयते तेन विलम्बश्चाल्लशो भवेत॥
द्रुतमेकं भवेद्यत्र स तालो खण्डसंज्ञितः ।
द्रुतत्रयेण गातव्यः कुन्दश्च प्रतिमण्ठकः ॥
सुरङ्गः सन्निपातः कन्दुकः खण्ड इति प्रतिमण्ठश्चतुर्विधः । श्रीराधायाः सुष्ठुरङ्गवर्णनां सुरङ्गोऽयं प्रतिमण्ठकः । अपरेऽग्रिमप्रबन्धेषु ज्ञेयाः ।
गीतार्थस्तु—हे सखि ! मम मनो हरिं चित्तवृत्तिचोरं स्मरति स्मृतिगोचरं करोति, पूर्वानुभूतविषयत्वात। कीदृशं ? इह वने रासक्रीडायां विहितविलासं विहितः कृतो विलास मया सह क्रीडा येन तादृशम् । पुनः कीदृशं ? कृतः परिहासो नर्मकेलिर्येन स तथा तम् । अथवा, अन्यगोपाङ्गनानां कृतपरिहासं यथा स्यात्तथा मया सह विहितो विविधविभ्रमो येन तादृशं हरिं चित्तचोरमिह लताकुञ्जे लीनाया अपि मम मनः स्मरति । अथवा, विहितः कृतो मम विलासो विभ्रमो येनातिरसावहानुरागेण मत्तः कारितः इत्यर्थः । तदुक्तं च—
अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् ।
विभ्रमो वामतोद्रेकात्स्यादित्याख्याति कश्चन ॥ [उ.नी. ११.४२]
तद्यथा—
त्वं गोविन्द मयासि किं नु कवरीबन्धार्थमभ्यर्थितः
क्लेशेनालमबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे ।
वक्त्रस्यापि न मार्जनं कुरु घनं घर्माम्बु मे रोचते
नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥ [उ.नी. ११.४३] इत्युज्ज्वले ।
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ।
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥ इत्यमरः ।
तथा च स्मरतीत्यनेनाष्टविधसम्भोगेच्छैव ध्वन्यन्ते । यतस्तस्याष्टविधस्य स्मरणमेव साधनम् । यथा—
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ [वै.मा. १२.१४४५] इति ।
तत्र केलिः मानसी क्रीडा । दिदृक्षया प्रकर्षेण ईक्षणं प्रेक्षणम् । कथं मिलिष्यतीति विचारः सङ्कल्पः । अध्यवसायो मिलननिश्चयः । सुरतसुखप्राप्तिः क्रियानिवृत्तिः ।
केचित्तु इह रासे इति व्याकुर्वन्ति, तत्तु न समीचीनं, अनुपपत्तिग्रस्तत्वात्, इहपदार्थस्य प्रत्यक्षे शक्तत्वात। तदुक्तं भट्टैः—इदमः प्रत्यक्षगतमिति । तस्मान्न चात्र रासः प्रत्यक्षस्तस्यातीतत्वात्राधायाश्च लताकुञ्जे लीनत्वात्, न तद्विना रासस्य सम्भव इति । एतच्च ध्रुवपदम् ।
उत्तमामध्येयं नायिका । तल्लक्षणं—
दोषानुरूपकोपा यानुनीता च प्रसीदति ।
रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥
कान्ते किं कुपितासि ? कः परजने प्राणेश कोपो भवेत्?
कोऽयं सुभ्रु परस्त्वमेव दयिते ? दासोऽस्मि कस्ते परः ? ।
इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया
नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥ इति शृङ्गारतिलके (८९) ।
यथा वा—
कर्तुं शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं
चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे
राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥ [उ.नी. ५.९८] इति ।
किं च,
समानलज्जामदना प्रोद्यत्तारुण्यशालिनी ।
किञ्चित्प्रगल्भवचना मोहान्तसुरतक्षमा ।
मध्या स्यात्कोमला क्वापि माने कुत्रापि कर्कशा ॥ [उ.नी. ५.२७]
अथ पद्यानि—कीदृशं हरिं ? सञ्चरता तानप्रतानक्रमेण स्फुरता अधरेण ओष्ठेन सुधामधुरध्वनिमुखरितो वादितो मोहनवंशः परमोहकारी वेणुर्येन तादृशम् । अथवा, सञ्चरन्त्या सङ्क्रममाणया अधरसुधया मधुरध्वनिर्यत्र, तद्यथा स्यात्तथा मुखरितो मोहनाख्यो वेणुर्येन तादृशम् । सञ्चरदधरसुधामधुरध्वनीति क्रियाविशेषणं, क्रियाव्यवविशेषणानां क्लीबत्वमेकवचनान्तत्वं वाच्यमिति । का स्त्र्यङ्ग ते कलपदामृतवेणुगीतसम्मोहितार्यचरितान्न चलेत्[भा.पु. १०.२९.४०] इति वा । यथा वा—
सत्यं शृणोमि सखि नित्यनवप्रियोऽसौ
गोपस्तथापि हृदयं मदनो दुनोति ।
युक्त्या कथञ्चन समं गमितेऽपि तस्मिन्
मां तस्य कालमुरली कवलीकरोति ॥ [पद्या. २३३]
इति तद्वंशरवमोहितं मम मनः साम्प्रतं कृतापराधमपि तं स्मरतीति भावः । पुनः कीदृशं ? चलितः केनापि भावविशेषेण मत्सम्माननाय घूर्णितो दृगञ्चलोऽपाङ्गो यत्र, एवं यथा स्यात्तथा चञ्चलौ वतंसौ कर्णाभरणे च यस्य तादृशम् । अनेन शिरःकम्पदोषं विनैव शेखरकुण्डलचालनेन वादकवैचित्री कथिता । तथा चाधरसुधापदोपादानेन तदाननस्य चन्द्रादप्यानन्दकरत्वं द्योतितम् ।
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे इति । वतंसः अवतंसः । वष्टि भागुरिरल्लोपमिति अवस्याकारलोपः ॥१॥ (२)
ननु व्यासङ्गादिना स विस्मर्यतामित्यत आह—
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥३॥
चन्द्रकेण विचित्रवर्णचिह्नितेनाग्रभागेन चारूणां मनोहराणां मयूरशिखण्डकानां मयूरपिच्छानां मण्डलेन समूहेन वलयिता वेष्टिताः केशा येन तादृशम् । तथा चात्र मयूरादिदर्शनेनापि तस्यैव स्मरणं भवतीति ध्वनितम् । पुनः कीदृशं ? प्रचुरैर्बहुलैः पुरन्दरधनुर्भिरनुरञ्जितः चित्रितो यो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वत्शोभनो वेश आकृतिर्यस्य तादृशम् । अत्र नानामणिखचितहारमुकुटकेयूरादीनामिन्द्रधनुर्भिर्साम्यं, श्रीकृष्णस्य च मेघसाम्यं बोध्यम् । इयं चाभूतोपमा प्रचुरपुरन्दरधनुर्भिरनुरञ्जनस्याप्रसिद्धेः । समौ चन्द्रकमेचकौ इत्यमरः । शिखण्डस्तु पिच्छबर्हे नपुंसके इत्यमरः । वेष्टितं स्याद्वलयितमित्यपि । मुदिरः कामुकेऽम्बुदे इति विश्वः । मुदिरो जलदः प्रोक्तो मुदिरो हर्षसम्मतः इत्यनेकार्थः । वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके इत्यपि ॥३॥ (२)
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥४॥
गोपेत्यादि । गोपकदम्बस्याभीरसमूहस्य या नितम्बवत्यः प्रशस्तनितम्बशालिन्यः स्त्रियस्तासां चुम्बने लम्भितः प्रापितो लोभो येन तम् । अथवा, गोपकदम्बनितम्बवतीनां मध्ये मम मुखचुम्बने लम्भितः लोभो यस्य तमिति वा । तस्य तु प्रणयो मय्येव स्वाभाविकस्ताभिर्बलात्कारित इति भावः । पुनः कीदृशं ? बन्धुजीवपुष्पवत्मधुरो मनोहरोऽधरपल्लवो यस्य तम् । अथवा, बन्धुं जीवयति इति बन्धुजीवः प्रियजनस्य जीवनममृतनिधानत्वात्, स चासौ मधुरोऽधरपल्लवो यस्य तम् । मधुरपदेन सरसता, पल्लवपदेन सुकुमारतरुणता च कथिता । उल्लसितेन विकसितेन स्मितेन शोभा यस्य तम् । अनेन इन्दीवरे बन्धूकोद्भवः, तत्र कुन्दोदय उपमीयते । तथा च बन्दूकादिभिः स एव स्मार्यत इति भावः । रक्तकस्तु बन्धूको बन्धुजीवकः इत्यमरः । सरसोऽपि मधुरः प्रोक्तो मधुरोऽथ मनोहरः इत्यनेकार्थः ॥४॥ (३)
विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥५॥
विपुलेति । विपुलो विस्तीर्णः पुलको रोमाञ्चः यत्र तादृशाभ्यां भुजपल्लवाभ्यां पल्लववत्कोमलाभ्यां बाहुभ्यां वलयितं वेष्टितं वल्लवयुवतीनामाभीरकान्तानां सहस्रं येन तादृशम् । अत्र वलयितमित्यनेनापि अवज्ञया तासां वेष्टनमात्रं, सरहस्यालिङ्गनादिकं तस्य तु मय्येवेति ध्वनितम् । पुनः कीदृशं ? करयोश्चरणोरसि च यानि मणिमयानि भूषणानि अलङ्करणानि, तेषां किरणैर्विभिन्नं नाशितं तमिस्रं तमो येन तम् । अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः इत्यमरः ।
अथवा विपुलः पुलको यासां तास्ताश्च भुजपल्लवेन वलयिता वेष्टिताश्च, एवंभूता या वल्लवयुवतयस्ताभिः सह समकालमेव स्रवतीति सहस्रमिति । एवंविधं का युवती न स्मरतीति भावः । करचरणोरसि मणिगणभूषणकिरणविभिन्नं तं विशेषेण विभिद्भेदो येभ्यस्ते विभिदः सपत्नरूपा शत्रवो नता यस्मात्तं तद्भूषणैर्भूषितां मां दृष्ट्वा सपत्नीनां पराभवोऽभवदित्यर्थः । उस्रमिति पाठान्तरेण उस्रशब्दः किरणवाची । ततः उस्रं प्रकाशमानमित्यर्थः । केचिदेव व्याकुर्वन्ति ॥५॥ (४)
जलदपटलवलद् इन्दुविनिन्दकचन्दनतिलकललाटम् ।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् ॥६॥
जलदपटलेति । पुनः कीदृशं ? जलदपटले सजलमेघसमूहे वलतः सम्भजमानस्य इन्दोश्चन्द्रस्य विनिन्दकस्तुच्छोभातिशात्यी चन्दनतिलको ललाटे यस्य तम् । क्वचित्जलदपटलचलदिन्दुविनिन्दकचन्दनबिन्दुललाटमिति पाठः । तदा जलदपटले चलन्सञ्चरन्य इन्दुश्चन्द्रस्तस्य विशेषेण निन्दकस्तिरस्कारकश्चन्दनबिन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललातं यस्य तम् ॥६॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥७॥
मणिमयेत्यादि । मणिमयमकरमनोहरे कुण्डले मण्डिते याभ्यां तादृशौ कपोलौ यस्य तम् । तदुक्तं—भूषणभूषणाङ्गं [भा.पु. ३.२.१२] इति । किं च, विभूषणं विभूष्यं स्याद्येन तद्रूपमुच्यते [भ.र.सि. २.१.३३८] इति । रूपं लावण्यं कथितं—
मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥ [उ.नी. १०.२८] इति ।
तद्यथा—
शृणु सखि तव कर्णे वर्णयाम्यत्र नीचैर्
विरचय मुखचन्द्रं मा वृथाराद्विवर्णम् ।
इयमुरसि मुरारेरस्ति नान्या मृगाक्षी
मरकतमुकुराभे बिम्बितासि त्वमेव ॥ [उ.नी. १०.३०] इत्युज्ज्वले ।
अत एव उदारं सुन्दरमित्यर्थः । तथा च एतादृशं सुन्दरवरं कथं न स्मरामीति भावः ? । औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः [उ.नी. ११.२३] इति विनयगुणयुक्तं वा ।
अथवा, मणिमयमकरमनोहरकुण्डलाभ्यां मण्डितौ अलङ्कृतौ मम कपोलौ येन तम्, अत एव उदारमौदार्यगुणयुक्तम् । रहसि ममाभिलषितं सर्वं तत्क्षणमेव पूरितवानिति स कथं न स्मर्यत इति ध्वनितम् ।
पुनः कीदृशं ? पीतं वसनं वस्त्रं यस्य तादृशम् । पुनः कीदृशं ? अनुगता आश्रिता ये मुनिवराद्या सुरवराद्यास्तास्त एव परिवाराः परिजना यस्य तम् ।
अथवा, अनुगतानामाश्रितानां मुनिवराद्यासुरवरास्तानां परिवारः प्रकर्षो यस्मात्तम् । परिवारः परिकरे परिक्लेशप्रकर्षयोः इति विश्वः । द्वन्द्वान्ते वरपदस्य मुन्यादिपदैः प्रत्येकमभिसम्बन्धः । तथा च तैरपि अधिगतस्वस्वाभिमतफलैः सततं सेव्यत इति तस्यौदार्यं ख्यातमेवेति भावः । तत्र मुनिवराः शुकनारदादयः, मनुजवराः परीक्षिदादयः, सुरवरा ब्रह्मरुद्रादयः, असुरवराः प्रह्लादादयः ।
अथवा, अनुगता ये मुनिमनुजसुरासुरास्तेभ्योऽपि वरः श्रेष्ठो गोपलक्षणो गोपीलक्षणो वा परिवारो यस्य तम् ।
अथवा, अनुगतः अनुसृतः माधुर्यभरेणाकर्षणात्मुन्यादीनां वरपरिवारः श्रेष्ठपरिग्रहो येन तम् । उक्तं च—आरुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया [कृ.क. ८७] इति । का स्त्र्यस्तद्दुरापाः [भा.पु. १०.४७.१५] इति च । अनुगतो मुन्यादीनां परिग्रहो यस्मात्तमिति वा ।
दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् ।
स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् ॥ [ना.शा. २२.४०]
इति नायकौदार्यलक्षणम् ॥७॥ (६)
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥
विशदेति । पुनः कीदृशं ? विशदस्य निर्मलस्य कदम्बस्य तले मूले मिलितं संलग्नं, मत्सङ्केतितकदम्बतले मदपेक्षया अग्रत एव गत्वा काचिन्मां मा पश्यत्विति मया सह नर्मार्थं वा निलीय स्थितम् । पुनः कीदृशं ? कलिः प्रलयकलहस्तस्माद्यत्कलुषं चित्ते कश्मलं, “अहं सङ्केते समागता, अयं नागतः, प्रायशोऽन्यनारीसक्तो भविष्यतीति । अतः परं यद्यायास्यति तदा मया न सम्भाषणीयः” इत्येवंरूपम् । “एकाकिनी कथमत्र तिष्ठामि ?” इति च भयम् । अथवा, यन्मानाद्यद्भयं, एतद्द्वयं कदम्बमूलातुपेत्य चाटूक्तिभिः शमयन्तम् ।
पुनः कीदृशं ? किमप्यनिर्वचनीयं यथा स्यातेवं तरङ्गद्तरङ्ग इवाचरद्वारं वारमुद्गच्छननङ्गः कामो यत्र एतादृक्यादृक्तया दृशा दृष्ट्या मनसा च मामपि रमयन्तम् । यद्वा, मत्सन्निधौ विश्वस्मिन्तरङ्गदनङ्गमेव पश्यतीति तरङ्गदनङ्गदृक्तादृशेन मनसा मामपि तस्य कदाचिल्लोकोत्तरप्रणयस्य पात्रमासमिति ध्वनितम् । एवंभूतं कृष्णं मे मनः स्मरतीति भावः । कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि इति विश्वः । कलुषं त्वाविलैनसोः ॥८॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥९॥
श्रीजयदेवेति । श्रीजयदेवकवेरिदं भणितं पुण्यवतां श्रीकृष्णचरणस्मरणजनकपुण्यविशिष्टानां हरिचरणस्मरणं प्रति श्रीराधाकथितरासक्रीडाद्याचरणं तस्य स्मरणं प्रति इदानीमपि अनुरूपं योग्यं तादृशभावविशेषेणास्वादनीयमिति भावः । कीदृशं ? अतिसुन्दरं मोहनं गोपवधूमोहकारि मधुरिपोः कृष्णस्य रूपं वर्णनीयत्वेन यत्र तादृशम् ॥९॥ (८)
॥ इति श्रीरत्नकण्ठिका नाम पञ्चमः प्रबन्धः ॥
* * * * *
ननु कृष्णस्त्वां विनान्यगोपीभिः सह विहरति । त्वं किमिति तं स्मरसि ? इत्यत आह—
गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥१०॥
मम मनः कृष्णे पुनरपि काममभिलाषं करोति, तत्किं करोमि ? कीदृशे कृष्णे ? युवतिषु बह्वीषु गोपवधूषु वलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एव मां विना विहारिणि वारं वारं विहरणशीले । कीदृशं मनः ? वामं प्रतिकूलम् । वामत्वे हेत्वन्तरमप्याह—गणयतीत्यादि । तस्य गुणानां सौन्दर्यादीनां ग्रामं समूहं गणयति परिसङ्ख्याति, भामं क्रोधं भ्रामादपि नेहते नेच्छति । दोषं मद्विधप्रणयिन्यवधीरणादिकं दूरतो विमुञ्चति । तत्र हेतुमाह—परितोषं सन्तोषं वहति ।
अत्र विभावनाविशेषोक्ती अलङ्कारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशात। अन्याङ्गनासक्तिरूपवैगुण्याकथनाच्च । तथा काव्यप्रकाशव्याख्येयकारिका—
क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ।
विशेषोक्तिरखण्डेषु कारणेषु फलावचः ॥
एषा च काव्यप्रकाशकृता व्याख्यातो—हेतुरूपक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना । मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः इति ॥
ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूरके इति विश्वः । भामः क्रोधरवौ दीप्तौ इति च । वामं सव्ये प्रतीपे च इति । कामं स्मरेऽभिलाषे च इत्यपि ॥१०॥ (१५)
—ओ)०(ओ—
अथोतकण्ठिता रसमयी श्रीराधा सखीं स्वमनोरथानाह—
॥ प्रबन्धः ६ ॥
मालवगौडरागेन एकतालीतालेन च गीयते ।
निभृतनिकुञ्जगृहं गतया
निशि रहसि निलीय वसन्तम् ।
चकीतविलोकितसकलदिशा
रतिरभसभरेण हसन्तम् ॥११॥
सखि हे ! केशीमथनमुदारम्
रमय मया सह मदनमनोरथ
भावितया सविकारम् ॥ ध्रु. ॥
गीतस्यास्य मालवगौडरागः । [भैरवरागेणेति कौम्भसम्प्रदायः] एकतालीतालः । रागलक्षणं कथितं प्राक्[गीत १], ताललक्षणं—
एकताली त्रिधा प्रोक्ता गीतशास्त्रविशारदैः ।
रामचन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् ॥
द्रुतमेकं भवेद्यत्र तालोऽयं खण्डसंज्ञितः ।
रामानेनैकताली तु कीर्त्यते गायनोत्तमैः ॥
गुरुद्वयं भवेद्यत्र तालो ललितसंज्ञकः ।
चन्द्रिका चैकताली स्यात्तेन सौभाग्यदायिनी ॥
कोकिलप्रियताले वै द्रुतं त्रयमुदाहृतम् ।
विपुला चैकताली स्यात्तेन गीतज्ञसम्मता ॥
खण्डललितकोकिलप्रियाः इति भेदास्तत्र ज्ञेयाः ॥
उत्कलिकायाश्च लक्षणं—
उद्दाममन्मथमहाज्वरवेपमानां
रोमाञ्चकण्टकितमङ्गमुद्वहन्तीम् ।
संवेदवेपथुघनोत्कलिकाकुलाङ्गीम्
उत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥ इति ।
गीतार्थस्तु—हे सखि ! मया सह केशीमथनं श्रीकृष्णं रमय क्रीडय । कीदृश्या मया ? मदनस्य यो मनोरथ इच्छा तद्युक्तो भावो रत्याख्याः सञ्जातो यस्यास्तादृश्या । अथवा, मदनमनोरथेन । भावितया प्राप्तया ।
ननु के वेद मया प्रार्थने कृते कदाचिन्नायातीत्यत आह—उदारमौदार्यगुणयुक्तं त्वत्प्रार्थितमवश्यं दास्यत्येवेति भावः । अथवा, मदनः श्रीकृष्णः तत्क्षोभकत्वात्, तस्य यो मनोरथः सम्भोगेच्छा तयैव भावितया ।
ननु कथं तस्येच्छा ज्ञातव्येत्यत आह—सविकारमिति विकारो मानसो भावस्तत्सहितम् । एवमन्योन्यानुरागपूर्वकत्वेन शृङ्गाररसपोषणमुक्तम् । यथाह—
अनुरागोऽनुरक्तायां रसावह इति स्थितिः ।
अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः ॥ इति ।
तथा चात्र महाभावमयी उत्तमा नायिका ज्ञेया । नायकश्चोत्तमः, तद्गुणाः निरूपिताः प्राक। सविकारमिति क्रियाविशेषणं वा, तदा विकारः स्तनप्रान्तादिप्रकटनं तत्सहितं, यथा स्यादेवं मदनमनोरथभावितयेत्यन्वयः । तदुक्तं रसिकसर्वस्वे—
नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषिताम् ।
साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च ।
केशभ्रंशनसंयमौ च कमितुर्मित्रादिसन्दर्शनैः ।
सौभाग्यादिगुणप्रशस्तिकथनैस्तासां तु रागेक्षितम् ॥ इति ।
अत्र सामर्थ्यख्यापनाय केशिमथनपदोपादानं, तत्प्रयोजनं च निःशङ्ककेलिप्रतिपादनम् । अथवा, प्रशस्ताः केशा यस्य स केशी तं मथ्नातीति केशिमथनस्तं, स्वसौन्दर्येणाशेषसुन्दरीणां क्षोभकमित्यर्थः । केशी चासौ मथनश्च केशिमथन इति वा, स्वसौन्दर्येणाशेषनागरीणां चित्तक्षोभकमित्यर्थः । उक्तं च, वीक्षालकावृतमुखं [भा.पु. १०.२९.३९] इत्यादि ।
अथवा, कं काममीशितुं शीलमस्यासौ केशी । सुप्यजातौ णिनिस्ताच्छील्ये, अजात्यर्थे सुपिधातोर्णिनिः स्यात्ताच्छील्ये [पा. ३.२.७८] इति । मथ विलोडने नन्दिग्रहिपचादिभ्यः [पा. ३.१.१३४] इति ल्युः, मत्नातीति मथनः । केशी चासौ मथनश्चेति कामस्यापि कामं मम मानसक्षोभकं चेत्यर्थः । उक्तं च, साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.२] इति ।
अथवा, केशिनं कामनियन्तारं योगिवर्षमपि स्वमाधुर्येण क्षोभयतीति तथाभूतं केशिमथनं किं पुनः रागिणमिति भावः । मूर्ध्नि मत्ते जले काये सुखे ब्रह्मणि मारुते । कामे काले सुवर्णे च कशब्दः इत्यनेकार्थः । भावितेत्यत्र प्रथमव्याख्याने तारकादिभ्य इतच। द्वितीयपक्षे, भावितं वासिते प्राप्ते इति विश्वः । ध्रुवपदम् ॥
अथ पदानि । पुनः कीदृश्या मया निभृतमेकान्तं यन्निकुञ्जरूपं गृहं तत्र गतया । कीदृशं कृष्णं ? निशि रात्रौ रहसि एकान्ते निलीय तिरोहितीभूय वसन्तम् । एवंभूतं मां राधा मा पश्य्त्विति कुतुकेन मया परिहसितुं सङ्कुचितमात्मानं कृत्वावस्थितमिति भावः । अन्या काचिन्मा पश्य्त्विति वा ।
पुनः कीदृश्या ? चकीतं यथा स्यादेवं विलोकिताः सकला दिशो यया तादृश्या, कुत्र कृष्णो निलीय तिष्ठतीति कृत्वाभिसरन्तीं मां मा कश्चन पश्यत्विति वा । चकितं पश्यन्त्येति भावः । इयं च विभ्रान्ता दृष्टिः । तदुक्तं सङ्गीतरत्नाकरे—
या तु क्वचिदविश्रान्तमविषह्यं विलोकने ।
विस्तीर्णचञ्चलोत्फुल्लतारा सा दृष्टिरुच्यते ॥
विभ्रान्ता विभ्रमे वेगे सम्भ्रमे च भवेदसौ ॥ इति ।
कीदृशं कृष्णं ? रत्यनुरागेण, अथवा रतौ सम्भोगे यो रभस उत्साहस्तद्युक्तो यो रसः शृङ्गाराख्यस्तेन हसन्तम् । क्रीडायां कालापेक्षासहिष्णुतयात्मप्रकटनार्थं पुरःस्थितमपि मामियं न पश्यतीति कृत्वा हसन्तमिति भावः । निभृतं रह एकान्तमिति धरणिः । रभसो वेग उत्साहः इत्यमरः ॥११॥ (१)
प्रथमसमागमलज्जितया
पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया
शिथिलीकृतजघनदुकूलम् ॥१२॥
पुनः कीदृश्या मया ? प्रथमसमागमेन लज्जितया व्रीडितया, नित्योपभुक्तचरेऽपि हरौ केनापि रसविशेषमाधुर्येण नित्यनूतनतया प्रथमसमागमेत्युक्तम् । यथा श्रीभागवते—
यद्यप्यसौ पार्श्वगतो रहोगतस्
तथापि तस्याङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदाच्
चलापि यच्छ्रीर्न जहाति कर्हिचित॥ [भा.पु. १.११.३४] इति ।
तथा च प्रथमसमागमे कामिन्यो लज्जन्ते, वामतामावहन्ति च । यथाह भरतः—
श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन्वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ [अमरु ५८] इति ।
प्रथमसमागमवत्लज्जितयेति वा योजनीयम् । कीदृशं कृष्णं ? पटु नायिकाप्रसादनक्षमं यच्चाटुशतं प्रियवचनशतं तेनानुकूलं विनयोक्तिशतैरनुनयपरमित्यर्थः । तत्क्षणमधुनेत्यादिना प्रकटयिष्यति, शृङ्गारशास्त्रे च तद्यथा—
प्रथममिह हि देयं पुष्पपूगादिकं स्यात्
मृदुमधुरवचोभिर्योजयेत्सन्निधाने ।
करतलमथ गात्रे भ्रामयेच्छश्वदस्याश्
छूरितमुदरपृष्ठे मन्दमाश्लिष्य दद्यात॥ [शृङ्गारविवेक] इति ।
एवं वा वैलक्ष्यापनोदनचातुर्यं, तदुक्तं—
मुग्धामनुनयत्येष मृदूपायेन सान्त्वयन।
नातिभीतिकरैर्भावैर्निबन्धेऐर्बालभीषकैः ॥
तद्यथा—
सरति सससस्तीरादेषा भ्रमद्भ्रमरावली
सुमुखि विमुखी पद्मे मन्ये तवास्य पिपासया ।
इति निगदिते किञ्चिद्भीत्या विवर्तितकन्धरा
वदनकमले बाला भर्त्रा चिरं परिचुम्बिता ॥ इति शृङ्गारतिलके [१.३७] ।
पुनः कीदृश्या मया ? मृदु कोमलं माधुर्यगुणयुक्तं मृद्वल्पं मधुरं रसवत्वा स्मितयुक्तं च भाषितं यस्यास्तया । तदीयचाटूक्तिभिरपहतलज्जायाः । किं च,
श्रुतं रसविशेषेण ह्यभिलाषं नयेच्छ्रुतिम् ।
यन्नायिकामुखगतं मार्दवं तदुदीरितम् ।
माधुर्यं च भवेद्यत्र शब्देऽर्थे चास्फुटो रसः ॥ इति ।
कीदृशं कृष्णं ? शिथिलीकृतं स्मितादिनानुकूलां मां ज्ञात्वा श्लथीकृतं जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम् । अशेषनायकशिरोमणेः श्रीकृष्णस्य दर्शनेन दृढबन्धापि नीवी स्वयमेव स्खलिष्यति, ततो मेखलावलम्बितं जघनस्थितमेव वासस्तेनापहरणीयमिति जघनदुकूलमित्युपात्तम् । तदुक्तं रतिरहस्ये—
ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवत्
धम्मिल्लः कुसुमाकुलो विगलति प्राप्नोति बन्धं पुनः ।
प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रोणीतटं दृश्यते
नीवी च स्खलति स्थितापि सुदृढा कामेङ्गिते योषिताम् ॥ [सामान्य २६] इति ।
यथा वा—
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्
वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः
कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥ [अमरु १०१] इति भरतः ।
रतेः पूर्वावस्थेयं सूचिता—
त्रुटत्यङ्गं स्फुरद्वक्षः विकसन्मुखपङ्कजम् ।
निमीलन्नयनं नीविनाभिशैथिल्यमेव च ॥ इति ।
चाटुर्नारीप्रियोक्तिः स्यातिति रत्नमाला । जघनं कटेरधोभागे इति हारावली ॥१२॥
कीसलशयननिवेशितया
चिरमुरसि ममैव शयानम् ।
कृतपरिरम्भणचुम्बनया
परिरभ्य कृताधरपानम् ॥१३॥
पुनः कीदृश्या मया ? कीसलशयने पल्लवशय्यायां निवेशितया ।
कीदृशं कृष्णं ? चिरं बहुकालं व्याप्य ममैव उरसि शयानं सुप्तम् । एतेनालिङ्गनविशेष उक्तः । तदुक्तं पञ्चसायके—
गात्रोपविष्टादथ तल्पमध्ये
संलीयते यन्मिथुनं शरीरम् ।
कामाभिमानाक्षतपूर्णचेष्टं
तत्क्षीरनीराख्यमिदं प्रदिष्टम् ॥ इति ।
पुनः कीदृश्या मया ? कृते परिरम्भणचुम्बने यया तादृश्या, एतच्च गघनोपश्लेषरूपालिङ्गनाभिप्रायेण । तदुक्तंअं रतिरहस्ये—
जघनकलितकान्ता श्रोणिरङ्गोपरिष्टात्
व्रजति यदिह नारी स्रस्तकेशोत्तरीया ।
करजरदनकृत्यं चुम्बनं वा विधित्सुः
कलयति जघनोपश्लेषमेनं मुनीन्द्रः ॥ इति ।
चुम्बनमपि पञ्चसायके च—
ओष्ठेन कान्तस्य मुखौष्ठयुग्मं
निपीड्य जिह्वाञ्चितभालुभागम् ।
चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं
समौष्ठं मुनिभिः पुराणैः ॥ इति ।
कीदृशं कृष्णं ? परिरभ्यालिङ्ग्य कृतं मदीयाधरपानम्, येन तम् । अनेन लालाटिकमालिङ्गनमुक्तम् । तदुक्तं पञ्चसायके—
अन्योन्यसंसक्तमुखं कपोलं
नेत्रं ललाटं हृदयं च बाह्यम् ।
सानन्दभावश्रममीलिताक्षं
लालाटिकं तत्त्वविदो वदन्ति ॥ इति ।
यथा वा,
सङ्केततल्पे च सुखोपविष्टां
गाढं पतिः श्लिष्यति सापि कान्तम् ।
अन्योन्यगात्रे विशतीव रागाद्
द्वन्द्वं तदाकृष्टजलाभिमानम् ॥ इति ।
पल्लवोऽस्त्री किशलयमित्यमरः ॥१३॥ (३)
अलसनिमीलितलोचनया
पुलकावलिललितकपोलम् ।
श्रमजलसकलकलेवरया
वरमदनमदादतिलोलम् ॥१४॥
पुनः कीदृश्या मया ? अलसेन आलस्येन निमीलिते लोचने यस्यास्तया । एतेनाङ्गिकः कामविकारः कथितः ।
यत्र मूर्धानमारभ्य पादपर्यन्तिकाः क्रियाः ।
अङ्गेन विहिता यस्मात्तस्मादाङ्गिकमुच्यते ॥ इति नायिकालक्षणे ।
तदङ्गसङ्गमरसस्पन्दे मुकुला दृष्टिश्च कथिता । तदुक्तं सङ्गीतरत्नाकरे—
स्फुरत्संश्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका ।
मुकुला दृष्टिरानन्दैरुच्छ्रयोः स्पर्शगन्धयोः ॥ इति ।
अथवा अलसे आलस्ययुक्ते, अत एव निमीलिते मुद्रिते लोचने यया । अत्र निमीलितेत्याद्युपादानादवघृष्टाख्यं चुम्बनमुक्तम् । तदुक्तं पञ्चसायके—
हस्तेन नेत्रे च निमील्य भर्तुः
सम्मीलिताक्षी वदने स्वजिह्वाम् ।
निक्षिप्य च क्रीडति यत्र लोला
ख्यातं रसज्ञैरवघृष्टसंज्ञम् ॥ इति ।
कीदृशं कृष्णं ? पुलकावल्या रोमाञ्चपङ्क्त्या ललितौ मनोहरौ कपोलौ यस्य तम् । अनेन सात्त्विकविकारः कथितः । तदुक्तं भरतेन —
स्मरणे सङ्गमे चैव प्रियस्यालोकने तथा ।
हेतुत्रयं समासाद्य सात्त्विकः सम्प्रवर्तते ॥ इति ।
पुनः कीदृश्या मया ? श्रमजलेन सुरतायासजनितश्रमवारिणा स्वेदेन सकलं सशोभं कलेवरया यस्यास्तया । श्रमजलशकलकलेवरयेति पाठे श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्यास्तया । क्वचिच्च श्रमजलसिक्तेति पाठः ।
कीदृशं कृष्णं ? वर उत्कृष्टो यो मदनकृतो मदो हर्षस्तेनातिशयेन लोलं चञ्चलम् । वरः प्रचुरो यो मदनस्तेन यो मदः मत्तता तयातिलोलमिति वा । प्रचुरश्रेष्ठयोर्वरः इति विश्वः ।
श्रमजलेत्यादिना निराकुला प्रगल्भेयं नायिका चोक्ता, यथा—
धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः
प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्यं महत।
अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं
कोऽयं का वयमत्र किं नु सुरतं नैव स्मृतिर्जायते ॥ [शृ.ति. १.४३] ॥१४॥ (४)
कोकिलकलरवकूजितया
जितमनसिजतन्त्रविचारम् ।
श्लथकुसुमाकुलकुन्तलया
नखलिखितघनस्तनभारम् ॥१५॥
पुनः कीदृश्या मया ? कोकिलस्य कलोऽव्यक्तमधुरो यो रवः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया । अथवा कलरवः पारावतपर्यायः । तदा कोकिलकलरवयोः कूजितमिव कूजितं यस्यास्तया । अनेन कूजिताख्यं बाह्यरतमुक्तम् । तदुक्तं पञ्चसायके—
पिकशिखिकलहंसप्रायपक्षिव्रजानां
स्वनितमनुकरोति ह्यङ्गना मनथार्ता ।
मुखदशनविवर्ता तत्कवीन्द्रा वदन्ति
स्तनितमिति समासाच्चित्रसम्भोगकाले ॥
यथा वा रसिकसर्वस्वे,
दात्यूहलावकमयूरकपोतहंस
पारावतादिरुतवद्ध्वनितं रताख्ये ।
तन्मिश्रनिःश्वसितसीत्कृतहानिनादैः
संयोजयेन्मदनचुम्बनमैथुनादौ ॥
तथा चोक्तम्—
कान्ते तथा कथमपि प्रथितं मृगाक्ष्या
चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितं मृदु वदद्भिरनेकवारं
शिक्षायितं गृहकपोतशतैर्यथा स्यात॥
ननु वात्स्यायनादिशास्त्रेऽन्ये एव क्रम उक्तः । तदुक्तं—
आश्लेषं प्रथमं कुर्याद्द्वितीयं चुम्बनस्तथा ।
तृतीयं नखदानं च दंष्ट्राघातं चतुर्थकम् ॥
पञ्चमं क्षेपणं प्रोक्तं षष्ठं प्रहरणं तथा ।
सप्तमं कण्ठशब्दश्च बन्धनं चाष्टमं रतम् ॥
इत्यत्र कण्ठशब्दस्य सप्तमरतस्याग्रे वक्ष्यमाणनखदानादिना श्रीकृष्णस्य रसिकताभङ्गः स्यात।
स्य कलोऽव्यक्तमधुरो यो रवः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया । इत्यत आह—जितेति ।
कीदृशं कृष्णः ? जितो वशीकृतः कामशास्त्रविचारो येन तम् । तत्र कामशास्त्रप्रवीणता, तद्यथा—
चतुर्दशविधा भार्या स्वीया सेव्या परा न तु ।
परकीयामपि भजन्नुत्तमामेव कामयेत॥
परापि बाला मध्या च प्रौढा वृद्धा चतुर्विधा ।
बाला बलकराश्लिष्टा मध्या श्लिष्टा रतिप्रदा ॥
प्रौढा बलक्षयकरी वृद्धा पुंस्त्वविनाशिनी ॥
एवं चतुर्दशविधानां देवादिसत्त्वानां मध्ये गान्धर्वसत्त्वां मध्यां रममाणं तु जितकामशास्त्रविचार इत्युक्तम् । गान्धर्वसत्त्वाया लक्षणं—
उद्यानकाननरता गीतवाद्यरता तथा ।
शिवभक्ता च सुस्नाता गान्धर्वी सा प्रकीर्तिता ॥
तत्सेवनं, यथा—
स्नात्वा सुगन्धद्रवैस्तु सङ्गीतध्वनिपूर्वकम् ।
मृद्वालिङ्गनदानेन गान्धर्वीं कामयेद्बुधः ॥ इति ।
अथवा, मनसिजतन्त्रविचारं बन्धादिकौशलम्, आनन्दावाप्तेः स्थितिरिति वा । अथवा, जितोऽवज्ञातो मनसिजतन्त्राणां कामपरायणानामन्यविलासिनां विचारः सिद्धान्तो येन । तदुक्तं साक्षान्मन्मथमन्मथः [भा.पु. १०.३२.२], कामिनां दर्शयन्दैन्यं [भा.पु. १०.३०.३५] इति । जितोऽभिभूतः विस्मारितः मनसिजतन्त्रस्य विचारो येन तमिति वा ।
अयं भावः—चतुःषष्ठिकलाकुशलस्यापि परमरसिकनायकस्य पुरुषोत्तमस्य स्वानुकूओत्तमानायिकासन्निधौ रसमग्नतया क्रमस्मरणाभावान्न दोषः, न च रसहानिः । तदुक्तं—रतिचक्रे प्रवृत्तस्य नैव शास्त्रं न च क्रमः [का.सू. ६.२.३२] इति ।
पुनः कीदृश्या मया ? श्लथाः केशग्रहणचुम्बनादानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तलाः केशकलापा यस्यास्तया । अथवा, श्लथकुसुमैराकुलाः कुन्तला यस्यास्तया ।
कीदृशं कृष्णः ? नखैर्लिखितोऽङ्कितो घनो निविडः स्तनभारो येन तम् । अत्र लिखितपदोपादानात्पङ्कजपत्राख्यं नखदानमुक्तम् । तदुक्तं पञ्चसायके—
अत्यूर्ध्वमेकं स्फुरितोऽर्धरेखं
प्राहुः क्षतं पङ्कजपत्रसंज्ञम् ।
दोर्मूलवक्षःस्तननाभिसन्धाव्
अस्योपयोगं मनुते महेशः ॥ इति ।
तन्त्रः प्रधानशास्त्रयोः इति विश्वः । चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः इत्यमरः ॥१५॥ (५)
एतावत्पर्यन्तं पञ्चपद्यालिङ्गनादिसप्तविधं बाह्यरतमुक्तम् । सम्प्रति बन्धाख्यमष्टमरतमाह—
चरणरणितमणिनूपुरया
परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया
सकचग्रहचुम्बनदानम् ॥१६॥
चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया । नायककृतबन्धविशेषो दर्शितः । यद्वा, एतच्च भ्रामरकनाम विपरीतरताभिप्रायेणोक्तम् । तदुक्तं रतिरहस्ये—
चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका
भ्रामरकं नृजघने समुच्छ्रिते ॥
कीदृशं ? परिपूरितः सर्वतः सम्पूर्णतां नीतः सुरतवितानो रतिविस्तारो येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । पक्षान्तरे भ्रामरकबन्धश्रान्तां विदित्वा किशलयस्थितां मां स्वयमपि रमयिष्यतीति भावः ।
पुनः कीदृश्या मया ? पूर्वं मुखरा शब्दायमाना पश्चाद्विशृङ्खला त्रुटितगुणा मेखला काञ्ची यस्यास्तया । अनेन प्रेङ्खोलितनामकं विपरीतरतमुक्तम् । तदुक्तं वात्स्यायनीये पुरुषायितप्रकरणे—
स्वजघनमेव दोलायमानं सर्वत्र भ्रामयेदिति प्रेङ्खोलितं [का.सू. ६.८.२७] इति ।
तत्र सर्वत्रशब्दो मनोरमाकारेण व्याख्यातः—मध्यात्पूर्वपश्चिमभागे दक्षिणोत्तरभागे च इति । रतिरहस्येऽपि—
सर्वतः कटितटभ्रमणं यदि प्रेङ्खपूर्वमिदमुक्तमूलितं [सुरत ४८] इति ।
अत्रापि सर्वशब्दार्थः स एव ।
कीदृशं कृष्णं ? सकचग्रहं केशग्रहणसहितं चुम्बनदानं यस्य तम् । केशग्रहपूर्वकं चुम्बनं विपरीतरत एवोक्तम् । तदुक्तं—
शृङ्गारे चुम्बनं कार्यं पुंसालिङ्गनपूर्वकम् ।
विपरीतग्रहे नार्याः सकचग्रहचुम्बनम् ॥ इति ।
मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः इति विश्वः । शृङ्खला कुमुदे काञ्च्या वस्त्रे च क्रमबन्धने इति ॥१६॥ (६)
रतिसुखसमयरसालसया
दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया
मधुसूदनमुदितमनोजम् ॥१७॥
पुनः कीदृश्या मया ? रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरानुभवकाष्ठां प्राप्तो यः सम्भोगशृङ्गाराख्यो रसः, तेनालसया मन्थरया ।
कीदृशं कृष्णं ? दर ईषत्मुकुलिते मुद्रिते नयनसरोजे नेत्रकमले यस्य तम् । अनेन द्वयोरानन्दावाप्तिर्युगपदेव सूचिता । तदुक्तं रतिरहस्ये—
मूर्छना मीलनं चाक्ष्णोश्च्युतिकालस्य लक्षणम् ।
सर्वमेतत्परिज्ञाय साधयेत्तत्स्वयं ततः ॥ इति ।
पुनः कृत्भावया ? निःसहा असमर्था अत एव किशलयशयने निपतिता तनुलता यस्यास्तया । अनेन सुरतान्तसमय उक्तः । तदुक्तं—
अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः ।
जाते च्युतिसुखे नार्या विरामेच्छा च जायते ॥ इति भरतः ।
तथा च विपरीतरतान्ते कोकः—
स्वेच्छया मिलितवल्लभोऽथवा
योषिदाचरति पुरुषायितम् ।
आदितो घटितमेव यन्त्रितं
भूपतनुकरणं च चेष्टते ॥ इति ।
तद्यथा—
अतिप्रयत्नेन रतान्ततान्ता
कृष्णेन तल्पादवरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्नाकृतानन्दमलिन्दमाप ॥ इति रसार्णवसुधाकरे (२.१४) ।
कीदृशं ? मधुसूदनं मह्दुररसास्वादलम्पटम् । अत्र मधुसूदनशब्दो भ्रमरपर्यायः । तदेव विशेषणेन स्पष्टयति—कीदृशं ? मधुसूदनमुदितमनोजम् । उदितस्तत्कालत्रुटितमुक्ताहारकाञ्चीगुणस्वस्वस्थानसङ्घटनसञ्जातपयोधरश्रोणिपरिसरस्पर्शादिना सलज्जस्मितराधापाङ्गविलोकनादिना च पुनराविर्भूतो मनोजः कामो यस्य तम् । तदुक्तं वात्स्यायने—
अवसानेऽपि च प्रीतिरुपचारैरुपस्थता ।
सविश्रम्भकथायोगैः रतिं जनयते पराम् ॥ इति ।
अनेन द्वयोर्माधुर्यभरः कथितः । अथवा, षुद क्षर श्रुतिहत्योः इति नन्द्यादेर्लुट। इति मधु माधुर्यं क्षरतीति मधुसूदनः स चासौ मुदितमनोजश्च, मुदितः माधुर्यभराच्छृङ्गाररसकौशलेनानन्दितो मनोजः कामो येनेति तमित्यर्थः । केचिच्च सामर्थ्यद्योतनाय मधुनामानं दैत्यं सूदितवानिति मधुसूदन इति व्याकुर्वन्ति ॥१७॥ (७)
श्रीजयदेवभणितमिदमति
शयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधू
कथितं वितनोतु सलीलम् ॥१८॥
श्रिजयदेवेति । इदं श्रीजयदेवकविना भणितं वर्णितं यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं तत्सुखं वितनोतु विस्तारयतु । पठतां शृण्वतामिति शेषः । कीदृशं ? अतिशयेन मधुरिपोः कृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवं रूपं, सलक्षणमिति लीला शृङ्गारजा क्रिया तत्सहितमित्यर्थः । सलक्षणं यथा स्यादिति वा । आयोधनं निधुवनं सुरतं च रतं सममित्यमरः । कथितमित्यत्र भावे क्तः ॥१८॥ (८)
* * * * *
इदानीमत्युत्कण्ठया सख्या नीयमाना गोपीगणावृतं कृष्णं दृष्ट्वा परावृत्य सखीमाह—
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
मामुद्वीक्ष्य विलज्जितं स्मृतसुधामुग्धाननकानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥१९॥
हे सखि ! अहं गोविन्दं कानने पश्यामि हृष्यामि च । पश्यामीति वर्तमानसामीप्याद्वर्तमानता । कीदृशं ? व्रजसुन्दरीगणवृतं गोपवधूकदम्बपरिवृतम् ।
ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षः ? इत्यत आह—मामिति । मामुद्वीक्ष्य दृष्ट्वा विलज्जितमन्यवधूभिः परिवृतोऽहमनया दृष्ट इति हेतोः लज्जासहितं यत्स्मितं, तदेव सुधा शुभ्रत्वादतिस्पृहणीयत्वाच्च तया मुग्धं मनोहरमाननं यस्य तम् । तथा च, सुन्दरीशतवृतोऽपि सापराधमात्मानं मन्यमानः मत्तो बिभेतीति हर्षौचित एवेति भावः ।
पुनः कीदृशं ? अनृजुः कुटिला भ्रूवल्लिर्भ्रूलता यासामेतादृश्यो या वल्लव्यः गोपवध्वस्तासां वृन्दमुत्सारयत्यपसारयतीत्येवंशीलः दृगन्तवीक्षितं नेत्रान्तेनावलोकितं यस्य तम् । मय्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयन्तमित्यर्थः ।
पुनः कीदृशं ? हस्तात्स्रस्तो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडावेणुर्यस्य तम् ।
पुनः कीदृशं ? अतिशयेन स्वेदैः प्रस्वेदैरार्द्रं गण्डस्थलं यस्य तम् । सर्वत्र मामुद्वीक्ष्येत्यस्य सम्बन्धः । अनृजुभ्रूवल्लिमद्वल्लवीत्यनेन तासां सौन्दर्यमुक्तम् । अथवा, अनृजुः कुटिला मदाधिक्यदर्शनेन वक्रा भ्रूलता यासां तासां वृन्दमपसारयतीत्येवंभूतं दृगन्तवीक्षितं यस्य । अथवा, अनृजुभ्रूवल्लिमत्कटाक्षावलोकितमपि यस्य । अत एव वल्लवीवृन्दमपसारयतीत्यर्थः । अत्रानृजुभ्रूवल्लीति प्रियादर्शनेन भ्रूनर्तनं कथितं, तत्सौन्दर्यमपि । अथवा, अनृजुभ्रूवल्लिमद्वल्लवीवृन्दं तद्भावोद्बोधकत्वेन उतधिकं सारि विस्तारणशीलं कटाक्षवीक्षितं यस्य तद्भावविस्तारकमित्यर्थः । तासामेवाभिसारकमिति वा । अथवा, अनृजुभ्रूवल्लिमद्वल्लवीवृन्देन मद्गुणदर्शनेनोत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षणं कटाक्षेक्षणं यस्य । एवं सकलगुणसम्पन्ननायिकामुकुटमणेः दर्शनादेव कृष्णे साङ्गरसोत्पत्तिः दर्शिता ।
तत्र राधामोहनावालम्बनविभावौ । अनुकूलप्रतिकूलभाववशकारिणी रतिः स्थायी भावः । वनाद्युद्दीपनविभावाः । स्मितकटाक्षाद्यनुभावाः । स्मितसुधामुग्धाननमिति दृगन्तवीक्षितमिति दर्शिताः । स्वेदकम्पादयः सात्त्विका अतिस्वेदार्द्रेत्युद्रिक्तत्वं तेषां दर्शितम् । हस्तस्रस्तविलासवंशमिति वेपथुना सूद्दीप्तसात्त्विकः । साध्वसादिति व्यभिचारिभावः । लज्जाभयादिकाश्च व्यभिचारिणः । इति महाकविना श्रीवृन्दावनेश्वर्याः परमविदग्धायाः कृष्णेन साङ्गो रससम्राट्शृङ्गारो वर्णितः । अलमतिविस्तरेण । अनुकूलश्चात्र नायकः । तदुक्तं—
अतिरक्ततया नार्यां त्यक्तान्यललनास्पृहः ।
सीतायां रामवत्सोऽयमनुकूलः प्रकीर्तितः ॥
राधायामेव कृष्णस्य सुप्रसिद्धानुकूलता ।
तदालोके कदाप्यस्य नान्यासङ्गः स्मृतिं व्रजेत॥ [उ.नी. १.२५२६] इति ।
तद्यथा—
वैदग्धीनिकुरम्बचुम्बितधियः सौन्दर्यसारोज्ज्वलाः
कामिन्यः कति नाद्य वल्लवपतेर्दीव्यन्ति गोष्ठान्तरे ।
राधे पुण्यवतीशिखामणिरसि क्षामोदरि त्वां विना
प्रेङ्खन्ती न परासु यन्मधुरिपोर्दृष्टात्र दृष्टिर्मया ॥ [उ.नी. १.२७] इति ।
प्रेयोनामायमलङ्कारश्च । तदुक्तं दण्डिना—
प्रीतिप्रकाशणं यत्तत्प्रेय इत्यभिधीयते ॥ [का.आ. २.२९७] इति ॥१९॥ (१६)
दुरालोकस्तोकस्तवकनवकाशोकलतिका
विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल
प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥२०॥
हे सखि ! स्तोकोऽल्पः स्तवको गुच्छो यस्या एतादृशी या नवकातिनवा अशोकलतिकाऽनुकम्प्याशोकशाखा, तस्या विकास उद्बोधो दुरालोको दुःखेनालोकितुं शक्यः । नवकेत्यत्र केऽणः [पा. ७.४.१३] इति ह्रस्वः । लतिकेत्यत्र अनुकम्पायां [पा. ५.३.७६] कन। मद्धस्तपालिता, अत एवानुकम्प्याशोकलतिका दुरालोकेति भावः । किमयं ? कासारः सरसी तत्सम्बन्धि यदुपवनं, तत्सम्बन्धी यः पवनो वायुः सोऽपि व्यथयति दुःखं ददाति । कासार इत्यनेन वायोः शैत्यं कथितम् । उपवनसम्बन्धित्वेन च सौगन्ध्यं मान्द्यं च ध्वनितम् । यतो वृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति । अथवा स्तोकेत्यादि वायोरेव विशेषणम् । तदा स्तोकस्तवकनवकाशोकलतिकां विकाशयतीत्येवंभूतः पवनो व्यथयतीत्यन्वयः ।
नन्वभिमुखमागच्छन्पवनोऽञ्चलादिना निवार्यतां ? इत्यत आह—दुरालोकः अतीन्द्रिय इत्यर्थः । तथा चाकस्मादेवोपतन्न दृश्यते इति भावः । अपिशब्देन तद्विकाशिताशोकलतिकापि व्यथयतीति ध्वनितम् । अपि चेयं शिखरिणी गोवर्धनपर्वते वर्तमाना चूतानामाम्राणां मुकुलप्रसूतिः कुड्मलोद्गमोऽपि न सुखयति । विकाशदशायां तु को वेद ? किं करिष्यतीति ध्वनितम् । अथवा, कीदृशी मुकुलप्रसूतिः ? शिखरिणी प्रशस्ताग्रभागवतीत्यर्थः । शिखरिणीति प्रशांसायामिन। अथवा, शिखरिणी मल्लिका न सुखयतीत्यर्थः । कीदृशी ? भ्रामन्तीनां भृङ्गीणां भ्रमराङ्गनानां रणितैर्गुञ्जितैः रमनीया । भृङ्गाङ्गनानां भ्रमणं नायकान्वेषानार्थमिति ध्वनितम् । शिखरिणीनामकं छन्द इदमित्यपि सूचितम् ।
स्तोकोऽल्पे चातके इति विश्वः । स्याद्गुच्छकस्तु स्तवकः इत्यमरः । लता ज्योतिष्मती वृक्षशाखावल्लिप्रियङ्गेषु इति विश्वः । कासारः सरसी सरः इत्यमरः । स्त्रीरत्ने मल्लिकायां च प्रोक्ता शिखरिणी बुधैः इति विश्वः ॥२०॥
सकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित
भ्रूवल्लीकमलीकदर्शितभुजामूलार्ध हस्तस्तनम् ।
गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं चिन्तयन्न्
अन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥२१॥
सकूतस्मितमित्यादि । केशवो हरिर्वो युष्माकं क्लेशं हरतु । किंलक्षणः ? गमिताकाङ्क्षः श्रीराधायां प्राप्ताभिलाषः, अन्यासु गोपीषु तद्दर्शनाद्गमिता निरस्ताकाङ्क्षा यस्य स इति वा । किं कुर्वन्? निभृतं यथा स्यात्तथा निरीक्ष्य, निभृतं रहस्यं भावप्रकाशनमिति यावन्निरीक्ष्येति वा । अन्तर्हृदये चिरं चिन्तयन।
किं निरीक्ष्येत्यपेक्षायामाह—सकूतस्मितं साभिप्रायमीषद्धसितम् । पुनः किं ? आकुलाकुलोऽत्यन्तास्तव्यस्तो गलनुन्मुक्तीभवन्धम्मिल्लः केशपाशस्तं कामोद्रेकाद्रोमोद्गमादिहेतुना । पुनः किं ? उल्लासितभ्रूवल्लीकमुत्क्षिप्तभ्रूवल्लीकम् । अलीकेन छलेन दर्शिता भुजामूलार्धहस्तस्तना यत्र कर्मणि तत। अत्रार्धशब्दो हस्तस्तनाभ्यामभिसम्बध्यते । हस्तौ च स्तनौ चेति द्वन्द्वसमासो जृम्भणादिव्याजेन भुजामूलार्धहस्तस्तनप्रकटनमिति भावः ।
कासां ? इत्यत आह—गोपीनाम् । किंभूतं तच्चतुष्टयं ? मुग्धं मनोहरमिति मुग्धानां मनो हरतीति तथा । किंलक्षणो हरिः ? नवस्तरुणः । तरुणं दृष्ट्वा स्त्रीणां कामविकारोऽभिजायत इति । अथवा, नवः श्रीराधां दृष्ट्वान्यादृश इव जातः । अत्यद्भुतगुणप्रकटनात। अथवा नवः नूयते नायकगुणैः स्तूयते इति । अथवा नवः नित्यनूतनः, नित्यानुभूयमानस्यापि नानुभूत इति प्रतीतेः । तद्यथा—
कुलवरतनुधर्मग्राववृन्दानि भिन्दन्
सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः
युगपदयमपूर्वः कः पुरो विश्वकर्मा
मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ [ल.मा. १.५२]
निभृतं भावप्रकाशनमिति व्याख्याने साकूतस्मितेत्यादिचतुर्णामपि पदानां भावविशेषणत्वम् । मुग्धमनोहरमिति च क्रियावत। प्रियजनानां क्लेशापहारी केशवो यत्र तादृशः । राधादर्शनाह्लादेन गतक्लेश इति वा ॥२१॥ (१८)
इति श्रीगीतगोविन्दमहाकाव्ये अक्लेशकेशवो नाम
द्वितीयः सर्गः
॥२॥
*******************************************************************************
.
(३)
तृतीयः सर्गः
मुग्धमधुसूदनः
सर्गद्वयेन श्रीराधायाः श्रीकृष्णविषयिणीमुत्कण्ठामुक्त्वा सम्प्रति कृष्णस्यापि तस्यामाह—
कंसारिरपि संसारवासनाबन्ध शृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥१॥
कंसारिरपि कृष्णोऽपि व्रजसुन्दरीस्तत्याज । त्यागे हेतुमाह—राधामिति । राधां हृदये आधायारोप्य सौन्दर्यवतीर्बह्वीरपि तत्याजेति कृष्णस्य श्रीराधायामनुरागातिशयो ध्वनितः । कीदृशीं राधां ? संसारविषयिणी या वासना संस्कारस्तस्य बन्धाय शृङ्खलामिव । अनेनाभिलाषाख्या प्रथमावस्था कथिता । तल्लक्षणं कथितं प्राक्[गी.गो. ७] । किं च,
सङ्गमोपायरचितप्रारब्धव्यवसायतः ।
सङ्कल्पेच्छासमुद्भूतिरभिलाषोऽत्र विक्रियाः ॥
प्रवेशनिर्गमौ तूष्णीं तद्दृष्टिपथगामिनौ ।
रागप्रकाशनपराश्चेष्टाः स्वात्मप्रसाधनम् ।
व्याजोक्तयश्च विजने स्थितिरित्येवमादयः ॥ [र.सु. २.३७९३८० ]
इति सकार्यस्यास्य पूर्वास्वप्यवस्थासु प्रवेशो ज्ञेयः । प्रथमकारणत्वात्, प्रेम्णो माधुर्यभरसम्पादकत्वाच्चेति ।
अथवा सम्यक्सारः संसारः आनन्दचिन्मयो मधुराख्यो रसः भगवद्विषयत्वात्, तद्विषयिणी या वासना नित्यसंस्कारः तस्मिन्बन्धाय शृङ्खलामिव निगडरूपामिवेत्यर्थः । उक्तं च—
आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितायां [५.३७] ।
अथवा सर्वात्मभावेनाभिसरणं श्रीराधामिति संसारः तद्विषयिणी या वासना निरन्तरा हृदयवृत्तिस्तया बन्धाय स्ववशीकाराय शृङ्खलामिव । तथा च कं सुखं सारयति विस्तारयतीति कंसारिः । औणादिक इनिति । कंसोऽपि यस्माद्बिभेतीति सामर्थ्यद्योतनाय कंसारिरिति वा । उक्तं च—भयात्कंसः [भा.पु. ७.१.१०] इति । शृङ्खला पुंसटीवस्त्रबन्धेऽपि निगडे च इति विश्वः ॥१॥ (१९)
—ओ)०(ओ—
इतस्ततस्तामनुसृत्य राधिकाम्
अनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी
तटान्तकुञ्जे विषसाद माधवः ॥२॥
इतस्तत इत्यादि । पुनः किं कृतवांस्तत्र स माधवः कलिन्दनन्दिन्याः यमुनायास्तटान्तकुञ्जे तीरप्रान्तलताहितोदरगृहे विषसाद विषादं चकार । अत्र माधवपदेन मा लक्ष्मीरस्या अपि धवः स्वामी यद्विरहव्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम् । किं कृत्वा ? इतस्ततः तेषु तेसू सङ्केतस्थानेषु तामखिलपरिजनत्यागेन स्वहृदि विनिहितां राधिकामनुसृत्यान्विष्य । कीदृशः ? अनङ्गः कामः, तद्बाणस्य यद्व्रणं क्षतम्, तेन खिन्नां दुःखितं मानसं यस्य सः । पुनः किदृशः ? कृतानुतापः—“पूर्वमेव कथं मया नानुनीता ? इदानीं तद्विना कथमवस्थातुं शक्यते ?” इति पश्चात्तापः कृतो येन सः । अनङ्गपदेनानिवार्यत्वं ध्वनितम् । अनेन श्लोकेन चिन्ताख्या द्वितीयावस्था कथिता । तल्लक्षणं कथितं प्राक॥२॥ (२०)
—ओ)०(ओ—
॥ प्रबन्धः ७ ॥
गुर्जरीरागयतितालाभ्यां गीयते ।
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारिताऽतिभयेन ॥३॥
हरि हरि हतादरतया गता सा कुपितेव ॥ध्रुवपदम् ॥
गीतस्यास्य गुर्जरीरागः । तालस्तु प्रतिमण्ठः । तयोर्लक्षणं कथितं प्राक्(गीत २.१, ५.१) । गीतार्थस्तु—हरि हरि हा कष्टं ! सा मत्प्राणकोटिवलभा प्रख्यातगुणा राधा हतादरतया नष्टबहुमानतया कुपितेव गता । विश्रम्भेण कुपितेवेत्युक्तम् । प्रणययोगेन समग्रकोपाभावात। व्यभिचारी भावोऽयं कोप इति ज्ञेयम् । इति ध्रुवपदम् ।
ननु सा कुपिता गतेति कथं त्वया ज्ञातमित्यत आह—मामियमित्यादि । मां वधूनिचयेन गोपवधूसमूहेन वृतं वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्यवहितपूर्वकाले क्त्वाप्रत्ययस्तेन गोपवधूवेष्टितं मां दृष्ट्वाव्यवहितकाल एव यतश्चलिता, ततो ज्ञायते कुपितेवेति भावः ।
ननु सा गच्छन्ती त्वया किं ? इति न निवारितेत्यत आह—सापराधतयेइत्मयातिभयेनातिशयितभीत्या सा न निवारिता । अस्या अग्रे कथं वक्तुं शक्यत इति । भये हेतुमाह—सापराधतयेति । अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तद्युक्ततया ॥७.१॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवितेन गृहेण ॥४॥
किं करिष्यतीति । सा चिरं विरहेण चिरकालीनमद्विश्लेषेण किं करिष्यति ? विरहतापशान्त्यर्थं कमुपायं करिष्यतीत्यर्थः । अनेन स्वविरहमहाज्वालामवधीर्य तद्दुःखाक्रान्तत्वेन सुष्ठु प्रणयोत्कर्षो दर्शितः । तद्यथा—
यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किं स्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ [भा.पु. १०.३१.१९] इति ।
अथवा चिरं विरहेण तप्तं मां ज्ञात्वा ममाङ्गीकारं किं करिष्यति ? यथाकथञ्चिदपीति शेषः । किमिति वितर्के । अत्र क्षणस्यापि विश्लेषे बहुकालस्फूर्तिः । तदुक्तं श्रीभागवते—क्षणं युगशतमिव यासां येन विनाभवत्[भा.पु. १०.१९.१६] इति महाभावस्यानुभावोऽयं चिरमित्यनेन कथितः ।
अथ च किं वदिष्यति अपराधक्षमापनार्थं चरणौ निपतितं मां दृष्ट्वा किं कोपेन तिरस्कारकवचनमपि कथयिष्यति ? अथवा, किं मया सह कदाचिन्माधुर्यवर्धिन्या वाण्या सद्वार्तां कथयिष्यति ? अथवा, किं मम सत्कथां वा वदिष्यति दोषान्वा वदिष्यतीत्यर्थः । अथवा, मयि चाटूक्तिभिर्मिलिते किं कोपादिकं करिष्यति ? किं परुषं वा वदिष्यति ? अपि तु कोपं विहाय प्रसन्ना सती मधुरमेव वदिष्यतीत्यर्थः । एवं मानादिप्रकरणेऽस्मिन्रसे मुनिआ हरिवंशे, जयदेवेन चात्रैव श्रीकृष्णस्य रसास्वादलीलामयमूर्तेः बहुधा चेष्टितं निरूपितम् । तेन एषु व्याख्यानेषु कल्पना नाशङ्कनीया ।
ननु एतावता तस्यामेव को वाग्रहः ? अन्यगोपीजनानुशीलनेन चित्तव्यावर्तनं कर्तव्यमित्यत आह—किं जनेनेति । तया विना मम जनेन गोपीरूपपरिजनेन किं ? धनेन पितुः श्रीव्रजेश्वरस्याखिललोकातिशायिन्या सम्पत्त्या मम किं ? न किमपीत्यर्थः । तद्वियोगे विविधविचित्रालङ्करणानामपि सन्तापकत्वेन परित्यागात। अतः सैव मम भूषणरूपा महाधनरूपा चेति भावः । वक्ष्यते चाग्रे—त्वमसि [गीत १९.३] इत्यादि ।
ननु धनं विना गृहसौख्यं न स्यादिति चेत्? तत्राह—गृहेण किं ? तया विना सुखं न स्यात्? अत आह—मम सुखेन किं ? तया विनान्यसुखेनापि मम किं प्रयोजनं ? सैव मम सुखरूपेति भावः । अथवा मम सुखेनात्मसम्बन्धिसुखेन किं ? क्व मम सुखं ? तद्दुःखानुभवेन सुखप्रदानामपि दुःखप्रदत्वात। तत्सुखेनैव मम सुखमित्यर्थः । किं जनेन धनेन किं मम जीवितेन गृहेणेति पाठे—मम जीवितेन किं ? तद्दुःखासहिष्णुतया मम जीवन्तमप्यकिञ्चित्करमित्यर्थः ।
स्मृत्याख्या तृतीयावस्थेयं कथिता । तदुक्तं रसार्णवसुधाकरे—
अर्थानामनुभूतानां देशकालानुवर्तिनाम् ।
सान्तत्येन परामर्शो मानसः स्यादनुस्मृतिः ॥
तत्रानुभावा निःश्वासो ध्याणं कृत्यविहस्तता ।
शय्यासनादिविद्वेष इत्याद्याः स्मरकल्पिताः ॥ [र.सु. २.३८५६] ॥४॥ (७.२)
इदानीं तद्दुःखाक्रान्तस्यापि कुपिताया अपि तस्या एवैकचिन्तनपरत्वेन प्रेमसौष्ठवं दर्शयति—
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोनपद्ममिवोपरिभ्रमताकुलं भ्रमरेण ॥५॥
अहं तदाननं चिन्तयामि स्मरामि । कीदृशं ? रोषभरेण आकुलं व्याप्तं शोणपद्ममिव रक्तपद्ममिव, अत्र रोषारुणे मुखे शोणपद्मसाम्यं बोध्यम् । वारं वारं वर्कीर्भवन्त्योश्च भ्रुवोः भ्रमद्भ्रमरोपमा बोध्या । अनेन गुणकीर्तनाख्या चतुर्थावस्था कथिता । तदुक्तं—
अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षणैः ।
न तस्य सदृशः कश्चिदित्यादिगुणकीर्तनम् ॥ इति ।
शोणः कोकनदच्छविः इत्यमरः । अनेनाव्यभिचारिसौन्दर्यं दर्शितम् । क्रुधापि शोभाप्रदत्वात। किं च, माधुर्यं नामैतदेव । तदुक्तं—माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [उ.नी. ११.१९] इति ॥५॥ (७.३)
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥६॥
तामहमित्यादि । अहं वने किं तामनुसरामि ? किमिति तस्या अनुसरणं करोमि ? इह किं वृथा विलापं करोमि ? हृदि सङ्गतां हृदि लग्नां तामनीशं निरन्तरं भृशमतिशयेन रमयामि क्रीडयामि । वियोगे संयोगस्फूर्तिः । महाभावविकारोऽयम् । अथवा किंशब्देन प्रश्ने, अहं तां हृदि सङ्गतामनिशं किं रमयामि ? किं वा, वने तामनुसरामि ? वृथा विलपामीत्यर्थः ॥६॥ (७.४)
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥७॥
हे तन्वि कृशाङ्गि ! तव हृदयमसूयया मयि दोषाविष्करणेन खिन्नं खेदयुक्तमाकलयामि पश्यामि जानामीत्यर्थः । इयं चोद्वेगावस्था । तदुक्तं शृङ्गारतिलके—
यस्मिन्रम्यमरम्यं वा न च हर्षाय जायते ।
प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ [शृ.ति. २.११] इति ।
इयं तु श्रीराधायां युज्यते । तथा च मनसः खेदयुक्तत्वात्तन्वीति सम्बोधनमुचितमेवेति । तन्न वेद्मीत्यादि त्वं कुतो गतासि ? तदहं न वेद्मि । तव नतेन प्रणतानुनयामि त्वामित्यर्थः । अथवा नु इति वितर्के । तेनेति लक्षणेऽव्ययम् । तथा च यं मार्गं लक्षीकृत्यागतासि, तेन तं मार्गं लक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि । ते इति सम्बन्धमात्रविवक्षया षष्ठी । अनेन विलापावस्था कथिता । तदुक्तं शृङ्गारतिलके—
बम्भ्रमीति मनो यस्मिन्रत्यौत्सुक्यादितस्ततः ।
वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ [शृ.ति. २.१२] इति ॥७॥ (७.५)
दृश्यसे पुरतो गतागतमेव मे विदधासि ।
किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥८॥
दृश्यस इत्यादि । हे सुन्दरि ! पुरेव पूर्वमिव ससम्भ्रमं सादरं भङ्ग्या सचकितं वा, परिरम्भणमालिङ्गनं किं किमिति न ददासि न प्रयच्छसीत्यर्थः । ससम्भ्रममिति स्वाभीष्टेऽपि प्रियतमाश्लेषे उद्वेगमिव व्यञ्जनाद्विव्वोकोऽनुभावविशेषो ध्वनितः । तदुक्तं—बिब्बोको मानगर्वाभ्यां स्यादभीष्टेऽप्यनादरः [उ.नी. ११.५२] इति । तद्यथा—
प्रियोक्तिलक्षेण विपक्षसन्निधौ
स्वीकारितां पश्य शिखण्डमौलिना ।
श्यामातिवामा हृदयङ्गमामपि
स्रजं दराघ्राय निरास हेलया ॥ [उ.नी. ११.५३]
यथा वा—
स्फुरत्यग्रे तिष्ठन्सखि तव मुखक्सिप्तनयनः
प्रतीक्षां कृत्वायं भवदवसरस्याघदमनः ।
दृशोच्चैर्गाम्भीर्यग्रथितगुरुहेलागहनया
हसन्तीव क्षीवे त्वमिह वनमालां रचयसि ॥ [उ.नी. ११.५४] इति ।
त्वं मे मम पुरतोऽग्रतः दृश्यसे, गतागतं यातायातं विदधासि करोषि । विरहिणो हि चित्तानुषङ्गात्सर्वतस्तामेव पश्यन्ति । यथा—
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ [अमरु १०२] ॥८॥ (७.६)
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥९॥
क्षम्यतामिति । हे सुन्दरि ! दर्शनीयरूपे ! क्षम्यतामिममपराधं क्षमस्व । कदापि तव ईदृशमपरं विप्रियं न करोमि करिष्यामि । इयं चोन्मादावस्था । तदुक्तं रसार्णवसुधाकरे—अतस्मिंस्तदिति भ्रान्तिरुन्मादो विरहोद्भवः [र.सु. २.३९५] इति ।
पुनः किञ्चित्सञ्जातविवेकः कथयति—देहीत्यादि । हे सुन्दरि ! मम मत्कृते, सम्बन्धमात्रे षष्ठी । दर्शनं देहि प्रयच्छ । त्वद्दर्शनसम्प्रदानत्वायोग्यत्वेऽपि मम कृपयापि दर्शनं देहीति योगेऽपि न चतुर्थीति ज्ञेयम् । तथा च सुन्दरीति सम्बोधनेन प्रोत्साहयति । मन्मथेन कामेन अहं दुनोमि सन्तप्तो भवामि ॥९॥ (७.७)
वर्णितं जयदेवकेन हरेरिदं प्रणतेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥१०॥
जयदेवकेन जयदेवेन स्वार्थे कः । इदं हरेश्चरितं वर्णितम् । कीदृशेन ? प्रणतेन अर्थात्हरिमित्यर्थः । प्रवणेनेति पाठः हरिपरायणेनेत्यर्थः । पुनः कीदृशेन ? केन्दुबिल्वो जयदेवकुलवृत्तिग्रामः, स एव महत्त्वात्समुद्र इव तत्र सम्भवो यस्य तादृशेन रोहिणीरमणेन चन्द्रेण यथा समुद्रोऽपन्नेन पूर्णचन्द्रेण तस्योन्नतिः क्रियते, तथा तत्कुलस्योन्नतिर्जयदेवेनाक्रियतेति चन्द्रसाम्यं, केन्दुबिल्वनाम जयदेवस्य कुलमेव पूर्वपुरुष इति कथयन्ति । ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ इति हारावली । तथा च पद्मावत्या उत्कर्षकथनाय रोहिणीरमणेत्युक्तम् ॥१०॥ (७.८)
* * * * *
इदानीं कामेव मे दुःखं प्रयच्छतीति तमेव उपालम्भगोचरं करोमीत्याशयेनाह—
हृदि बिसलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्याऽनङ्ग क्रुधा किमु धावसि ॥११॥
हे अनङ्ग ! कन्दर्प मयि न प्रहर, प्रहारं मा कुरु । किमु इति वितर्के मयि हरभ्रान्त्या महादेवभ्रमेण क्रुधा क्रोधात्त्वं धावसीति किमु तर्कयामि । अथवा, उ इति हे अनङ्ग ! हरभ्रान्त्या मयि किमिति धावसि ? कीदृशे मयि ? प्रियारहिते विरहिते । हरः सर्वदा प्रियायुक्तोऽहं त्वधुना प्रियारहित इति मयि हरभ्रमो न युक्त इति भावः । तथा च प्रियाविरहसनप्ते मयि प्रहरणमपि नोचितमिति ध्वनितम् । कामः पूर्वं हरेण तच्छरीरं दग्ध्वाङ्गरहितः कृत इति हरे कामस्य महद्वैरसूचनायानङ्गपदेन सम्बोधनम् ।
भ्रमबीजं निरस्यति—हृदि अयं बिसलतायाः मृणाललताया हरस्तद्विरहजन्यसन्तापशान्त्यर्थं धृतः । न तु भुजङ्गमनायकह्सर्पराजो वासुकिः । इयं कण्ठे कुवलयदलानां नीलोत्पलपत्राणां श्रेणी पङ्क्तिः, शैत्याय धृता, न तु सा गरलद्युतिः विषकान्तिः । इदं सर्वाङ्गे तापशान्त्यर्थं धृतं मलयजरजश्चन्दनधूलिः, न तु भस्म विभूतिः । अङ्गे लिप्तः प्रशिथिलचन्दनद्रवोऽपि विरहतापवशाद्धूलिभूत इति रजःपदेन सूचितम् । तथा च बिसलतायां शैत्यदीर्घत्वादिदर्शनात्तव वासुकिभ्रमात्, नीलोत्पलपङ्क्तौ श्यामत्वादिधर्मदर्शनाद्गरलभ्रमात्, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव न युक्त इति भावः ।
अयं च भ्रान्तिमानलङ्कारः, सादृशाद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमानिति तल्लक्षणात। वितर्के किं किमुत च इत्यमरः । उ सम्बद्धौ रोषोक्तौ च इति विश्वः ॥११॥ (२१)
—ओ)०(ओ—
चूतशायक्त्वेन कामः प्रसिद्धः । अत इमान्नवचूतमञ्जरीरूपान्बाणान्धनुष्यारोप्य मां ताडयिष्यतीति शङ्कया पुनरपि कामायैव दैन्यं करोति—
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
कृईडानिर्जितविश्व मूर्च्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिज प्रेण्खत्कताक्षाशुग
श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥१२॥
हे मनसिज मदन ! अमुं पुरःस्थितं चूतसायकमाम्रपुष्परूपं बाणं पाणौ हस्ते मा कुरु । वसन्तकालीनपुष्पोद्गमं दृष्ट्वाह—चापं धनुर्मारोपय प्रत्यञ्चायुक्तं मा कुरु । यद्वा, चूतशायकं हस्ते मा कुरु, हस्तेऽपि चेत्करोषि, तदामुं सायकं मा आरोपय मा सन्धेहीत्यर्थः । अत्र मनसिजिअपदेन मन्मनसो जातस्य ते मत्सन्तापकारित्वमनुचितमिति ध्वनितम् ।
हे कृईडानिर्जितवीश्व ! क्रीडया लीलया निर्जितं विश्वं जगद्येन तादृशस्य मूर्च्छितस्य मूर्छाप्राप्तस्य जनस्य मादृशस्य आघातेन प्रहारेण तव किं पौरुषं ? अपि तु न किमपीत्यर्थः । अथवा, मूर्च्छितजनाघातेन तव किं पौरुषं ? कुत्सितं पौरुषमित्यर्थः । मूर्च्छितत्वे हेतुमाह—तस्या एवेति । तस्या एव मृगीदृशः हरिणीदृशः, तस्या एवेति विरहाधिक्येन राधानामग्रहणाशक्तिः प्रतिपाद्यते । प्रेण्खन्तः प्रसर्पन्तो ये कताक्षास्त एवाशुगाः बाणास्तेषां श्रेणिभिः पङ्क्तिभिर्जर्जरितं खण्डखण्डीकृतं मनो मनागपि स्वयमपि न सन्धुक्षते न जीवतित्यादि । तथा च, तत्कटाक्षरूपबाणैरहं मूर्च्छितः, सम्प्रति मयि चूतमञ्जरीरूपसायकप्रहारो मृतमारणमिवाचरतीति लीलयैव येन विश्वमपि जितं, तस्य ते मूर्च्छितजनेषु प्रहारो यशोहानिकर इति ध्वनितम् ।
षयकः शरखड्गयोः इति विश्वः । अथास्त्रियौ धनुश्चापौ इत्यमरः । किं पौरुषमित्यत्र वितायव्याख्यानपक्षे, किं क्षेपे [पा. २.१.६४] इत्यनेन निन्दायां समासः । आशुगो मारुते बाणे इति विश्वः ॥१२॥ (२२)
—ओ)०(ओ—
ननु तत्कटाक्षादिस्मरणादेव तव दुःखं भवति, कामस्य तत्र कोऽपराध इत्यत आह—
भ्रूपल्लवं धनुरपाङ्गतरण्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायां
अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥१३॥
किमित्याक्षेपे । तस्यां राधायां स्मरेण कामेन अस्त्राणि अर्पितानि स्थापितानि इति तर्कयामि । नन्वस्त्राणि वीरेण हस्ते स्थापयितुमुचितानि, न त्वन्यत्र ? इत्यत आह—निर्जितेत्यादि । निर्जितानि जगन्ति यैस्तानि । तथा च तैरेवास्त्रैर्जगत्त्रयं जित्वा तत्र स्थापितानीति भावः । तर्ह्यन्यत्र किमिति न स्थापितानि ? इत्यत आह—अनङ्गेत्यादि । अनङ्गजयजङ्गमदेवतायां गमनशीलदेवतायां, तथा च तयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जातप्रयोजनानि, तत्रैव स्थापितानीति भावः । देवतया यदस्त्रं दीयते, तत्केनापि न प्रतिहन्तुं शक्यत इति ध्वनितम् । अहो देवताया माहात्म्यम् । अङ्गं विनैव यत्प्रसादेन जगज्जितम् । अत एवानङ्गस्तज्जितत्वादेव ईशं कृष्णं विहाय । तामेवाश्रितवानिति ज्ञेयम् । कानि तान्यस्त्राणीत्यत आह—भ्रूपल्लवमित्यादि । भ्रूपल्लवं तदेव धनुः । अपाङ्गतरण्गितानि कटाक्षस्य गतागतानि बाणाः । श्रवणपालिः कर्णलताप्रान्तमेव गुणः प्रत्यञ्चा । अत्र नीलस्निग्धत्वाद्भ्रुवः पल्लवत्वेन रूपणम्, अपाङ्गस्य परममभेदकत्वं बाणत्वेन रूपणम् । कर्णपालिश्च दीर्घत्वात्प्रत्यञिच्कात्वेन रूपितानि । अपाङ्गोऽङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च इति विश्वः । पालिः कर्णलताग्रेऽस्रौ पङ्क्तावङ्कप्रभेदयोः इति च ॥१३॥ (२३)
—ओ)०(ओ—
सम्प्रति राधाङ्गविलसितान्येव स्वररूपाणि मां पीडयन्तीति तस्या एवोपालम्भं करोमीत्याशयेन काममुपेक्ष्य पुरःस्थितामिव राधां सम्बोध्याह—
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कवरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बधरो रागवान्
सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥१४॥
भ्रूचापे भ्रूरूपे धनुषि निहितोऽर्पितः कटाक्ष… बाणो मर्मव्यथां मर्मपीडां निर्मातु … परमर्मपीडनमेव धर्म्यमिति तदुचितमेव । अथ च कुटिलः वक्रः श्यामः आत्मा स्वरूपं यस्य एतादृशः कवरीभारोऽपि ग्रथितवेणीसञ्चयोऽपि मारोद्यानं माराय मारणायोद्यमं पराक्रमं करोतु । अथवा मारस्य कामस्य उद्यमं करोतु, योऽन्तर्मलिनं कुटिलश्च भवति, सोऽन्यमारणाय यतत इत्यपि नानुचितम् । अथ च, हे तन्वि ! अयं बिम्बाधरो बिम्बफलतुल्योऽधरो मोहं मूर्छां तनुतां तनोतु । कीदृशो रागवान्रक्तताविशिष्टः । इदमपि नानुचितं, यतो मात्सर्ययुक्तः स परमोहं करोत्येवेति । अयं तव सद्वृत्तः सद्वर्तुलः स्तनमण्डलः कुचविस्तारो मम प्राणैः कथं किमिति क्रीडति प्राणग्रहणरूपां क्रीडां किमिति करोति ? सद्वृत्तस्य सच्चरित्रस्य परप्राणग्राहित्वमुचितमिति भावः ।
विरोधनामायमलङ्कारः । सद्वृत्तरूपगुणस्य परप्राणग्रहणक्रियया विरोधकथनात। तदुक्तं काव्यप्रकाशे—विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः [का.प्र. १०.२४] इति । विशिखस्तोमरे शरे इति विश्वः । श्यामो निन्दितकृष्णयोः इति धरणिः । कवरी केशपाशे स्यातिति हारावली । कवरी केशवेशः इत्यमरः । मारो मृतौ विषेऽनङ्गे इति विश्वः । बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले, देहच्छायायामपि । रागोऽनुरक्तौ मात्सर्ये रञ्जनेऽपि निगद्यते इति विश्वः । चरिते वर्तुले वृत्तमिति शाश्वतः । आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु इति विश्वः ॥१४॥ (२४)
—ओ)०(ओ—
ननु तस्या अपि नापराधो न वा स्मरस्य, किन्तु तदङ्गस्पर्शादिविषया…आच्चञ्चलं त्वच्चेतस्त्वात्दुःखीकरोतीत्यतोऽनुभूयमानां तां मन्वान…
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमास्
तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दि गिरां वक्रिमा ।
स बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥१५॥
स्पर्शसुखानि तदङ्गस्पर्शजन्यानि सुखानि, इदानीमनुभूयमानानि तान्येव पूर्वानुभूतान्येव । एतेन त्वगिन्द्रियविषयलाभः कथितः । दृशोर्नेत्रयोस्तरलाश्चञ्चलाः स्निग्धा स्नेहगर्भा विभ्रमा विलासास्त एव पूर्वानुभूता एव । अमेम चल्ऽसिर्विशेषोत्तमलाभ उक्तः । वक्त्राम्बुजसौरभं तस्या मुखपद्मसौरभं तदेव । अनेन घ्राणस्य विषयप्राप्तिरक्ता । गिरां वक्रिमा तद्वचसां सुधाममृतं स्यन्दते स्रवतीत्येवंशीलो वक्रिमा वक्रत्वमिदानीं श्रोत्रेण गृह्यमाणः स एव पूर्वानुभूत एव । अनेन श्रोत्रेन्द्रियविषयसान्निध्यमुक्तम् । बिम्बाधरमाधुरीति तस्य बिम्बफलप्रायस्य या माधुरी मधुरता अधुना मयास्वाद्यमाना सैव पूर्वानुभूतैव । अनेन रसनेन्द्रियस्य विषयलाभः कथितः । इत्येवंप्रकारेण विषयासङ्गेऽपि तत्तदिन्द्रियाणां स्वस्वविषयासक्तावपि मानसं मन्मनश्च तस्यां राधायां लग्नसमाधि तदेकाग्रं यदि, हन्तेति खेदे, तदा विरहव्याधिः तद्विश्लेषजन्यो व्याधिः कथं वर्धते ?
अपिशब्दो विरोधाभासालङ्कारसूचनार्थः । बाह्येन्द्रियविषयासङ्गे समाधेः सम्भवात। बाह्येन्द्रियवृत्तिनिरोधे सति मनस एकाग्रताया एव समाधिपदार्थत्वात। तथा च तत्तदिन्द्रियाणां स्वस्वाभिमतविषयालाभे एव विरहः सम्भवति, मम च तत्तदिन्द्रियाणां विषयविच्छेदस्याभावान्मनसश्च तच्चिन्तनैकपरत्वात्तया सह विश्लेष एव नास्तीति कथं विरहजन्यव्याधिसम्भव इति भावः । समाधौ व्याधेरनुभव इति ध्वनितम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी इत्यमरः । तस्मात्कोऽप्यद्भुतो दुर्वितर्क्यस्तत्प्रेमविवर्त इति सिद्धान्तः ॥१५॥ (२५)
—ओ)०(ओ—
इदानीं सर्गान्ते आशिषमास्ते—
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वम्शोच्चरद्
गीति स्थानकृतावधानललनालक्षैर्न संलक्षिताः ।
सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा
सारे कन्दलिताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥१६॥
मधुसूदनस्य कृष्णस्य कटाक्षोर्मयो नेत्रान्तदर्शनतरङ्गा वो युष्माकं क्षेमं दधतु कल्याणं प्रयच्छतु । दुरितासद्भावेन क्षेमदातृत्वं सम्भवतीति दुरितदारणसामर्थ्यद्योतनाय मधुसूदनपदोपादानम् । अतिचापल्यसूचनायेति वा । किंलक्षणा ? मधुरे अमृतादपि मधुरिमाश्रये राधाया मुखमिन्दुरिव तस्मिन्मृदुस्पन्दमीषच्चलनं संमुग्धमव्यक्तं च सुन्दरं च यथा स्यात्तथा कन्दलिताः पल्लविताः, तथा चेन्दुदर्शनात्तरङ्गा अतीवपल्लविता भवन्तीति कटाक्षाणां तरङ्गसाम्यम् । क्वचिच्च—
प्रेम्णा कन्दलिताः सुमुग्धमधुरे राधाननेन्दौ सुधा
सारे वो मधुसूदनस्य ददतु क्षेमं कटाक्षोर्मयः ॥ इति पाठः ।
तदा किंविशिष्टे मुखेन्दौ ? सुष्ठु मुग्धं च तन्मधुरं च तत्तस्मिन्रम्ये नव्ये चेत्यर्थः । मधुरस्तु प्रिये स्वादौ इति । पुनः किंभूते ? सुधासारे सुधायाः सारे ।
नन्वन्यासु पश्यन्तीषु कथं राधामुखचन्द्रे एव पल्लविता ऊर्मयः ? अत आह—वंशे उच्चरद्गीतिस्थानेषु गानपादेषु स्वरग्रामादिषु कृतावधानैः समर्पितचित्तवृत्तिभिर्ललनालक्षैः कामिनीकदम्बैर्न संलक्षिताः नावलोकिताः ।
तथा च सकल एव कलत्रकदम्बो वंशध्वनिमोहितो न किञ्चिदपश्यदिति तत्रैव पल्लविता इति भावः । वंशपूरणे स्वभावमनुवर्णयति—किंभूतस्य ? तिर्यक्वक्रं कण्ठो यस्य, विलोलश्चञ्चलो मौलिः किरीटो यस्य, तरलश्चञ्चल उत्तंसः कर्णाभरणं यस्य सः । तिर्यक्कण्ठश्चासौ विलोलमौलिश्चासौ तरलोत्तंसश्चेति कर्मधारयस्तथाविधस्येत्यर्थः ।
गीतिर्गानं, ललना तु नितम्बिनी इत्यमरः । उत्तंसः कर्णपूरेऽपि सुन्दरे नायकेऽपि इति धरणिः । कन्दलस्तु नवाङ्कुरे कलध्वनौ उपरागे च इति ।
ऊर्मिस्तरङ्गे पीडायां वेगभङ्गप्रकाशयोः ।
उत्कण्ठावस्त्रसङ्कोचलेखयोरपि कीरिता ॥ इति विश्वः ॥१६॥ (२६)
इति श्रीगीतगोविन्दमहाकाव्ये मुग्धमधुसूदनो नाम
तृतीयः सर्गः
॥३॥
*************************************************************************
.
(४)
चतुर्थः सर्गः
स्निग्धमधुसूदनः
पूर्वसर्गे श्रीकृष्णस्य विरहजनितावस्था वर्णिता । अत्र तु राधाविरहावस्थां श्रीकृष्णं प्रत्याह—
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥१॥
राधिकायाः सखी माधवं कृष्णं प्राह वक्ष्यमाणमुवाच । राधिकेत्यनुकम्पायां कः । कीदृशं ? प्रेमभरेण राधाविषयकस्नेहाधिक्येन उद्भ्रान्तमुत्क्षिप्तं चलनादिक्रियां कर्तुमशक्तम् । अत एव तदन्वेषणं विहाय यमुनायास्तीरे यद्वाणीरनिकुञ्जं, तत्र मन्दं निरुत्साहमास्थितमासीनम् । अमन्दमिति वचनविशेषणं वा, अतिशयव्याकुलां रूप्२ दृष्ट्वा अमन्दं सवेगमाहेत्यर्थः । मन्दः खले मन्दगते मूर्खे स्वैरिणि इति विश्वः । स प्रेमा भेदरहितं यूनोर्यद्भावबन्धनम् ॥ [र.सु. २.२५८] इति रसार्णवसुधाकरे ॥१॥ (२७)
—ओ)०(ओ—
॥ प्रबन्धः ८ ॥
कर्णाटरागैकतालीतालाभ्यां गीयते ।
तदेव गीतेन दर्शयति—
निन्दति चन्दनमिन्दुकिरणं
अनुविन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलं
इव कलयति मलयसमीरम् ॥२॥
सा विरहे तव दीना ॥
माधव मनसिजविशिखभयाद्
इव भावनया त्वयि लीना ॥
॥ ध्रु. ॥
गीतस्यास्य कर्णाटरागः । तल्लक्षणं—
कृपाणपाणिर्गजदन्तपत्रं
एकं वहन्दक्षिणकर्णपूरे ।
संस्तूयमानः सुरचारणौघैः
कर्णातरागः शिथिकण्ठनीलः ॥ इति ।
एकतालीतालश्च । तल्लक्षणं प्राक्कथितं (गीत ६.१) । विरहोत्कण्ठिनी नायिका चेयम् ।
नैवागतः समुचितेष्वपि वासरेषु
प्राणेश्वरः स्वगुरुकार्यवशेन यस्या ।
दुर्धारवृत्तविरहज्वरतापिताङ्गीम्
उत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥ इति ।
गीतार्थस्तु—हे माधव ! सा राधा तव विरहे दीना दुःखिता । तथा च दुःखिता, भवांस्तु सस्त्रीक एवेति न तद्दुःखं जानातीति माधवपदेन कटाक्षितः । हा कष्टम् । यदि दुःखिता, तर्हि सा कथं वरीवर्ति ? तदाह—त्वयि लीना मग्ना । कस्मादिव ? मनसिजस्य कामस्य ये विशिखा बाणास्तद्भयादिव । भवतो मनसो जात इति त्वयि लीने सति तस्मात्भयं न भवतीति मनसिजेति ध्वनितम् ।
ननु, मयि कथं लीना ? इत्याह—भावनयेति । भावनया सर्वविषयनिन्दापूर्वकत्वत्स्मरणेनेत्यर्थः । विषयनिन्दामाह—चन्दनं मलयजं निन्दति, विरहिणामुपतापकरो वृथा शैत्याधाराभिधं बिभर्तीति निन्दां करोति ।
किं च, इन्दुकिरणं सुधांशुकिरणमनु लक्षीकृत्य खेदं कष्टं विन्दति प्राप्नोति । तत्रापि अधीरमनल्पम् । धीरस्तु कुङ्कुमे स्वल्पे बुधे धैर्यवतीषु इति विश्वः । अधीरं धैर्यरहितं यथा स्यात्तथा निन्दतीति वा । अधिकमीरयति कामशरान्प्रेरयतीति चन्दनविशेषणं वा ।
अपि च, मलयसमीरं मलयपर्वतसम्बन्धिवातम् । व्यालनिलयमिलनेन व्यालानां सर्पाणां निलयो निवासश्चन्दनवृक्षस्तस्य संसर्गेण गरलमिव विषमिव कलयति मन्यते । चन्दनवृक्षस्थितसर्पैः पीतोद्गीर्णा एते मलयवायवोऽत एव समीरयन्ति । स्थानात्स्थानान्तरं वस्त्विति समीरा वस्तुचालकस्वभावात्विषमयाः । कथमन्यथा शरीरसम्पर्कादेव मूर्छां जनयन्तीति गरलमिव मन्यत इति भावः ।
तथा च दुःखितस्य विरहिणो हि सुखहेतवोऽपि दुःखायैव भवन्तीति ध्वनितम् । विरहोत्कण्ठेन स्मरणरूपां दशां प्राप्नोति । तदुक्तं शृङ्गारतिलके—
द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् ।
श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥
इन्दुं निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते
कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।
श्वासैः केवलमेव खेदिततनुर्ध्यायत्यसौ बालिका
यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुष्याः स्थितः ॥ [शृ.ति. २.९] इति ।
व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि इति विश्वः । गरलं तु विषे माने गरलं तृणपूरके इत्यपि ॥२॥ (८.१)
अविरलनिपतितमदनशरादिव भवदवनाय वीशालम् ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम् ॥२॥ (३)
अविरलेत्यादि । स स्वहृदयमर्मणि हृदयरूपमर्मस्थाने सजलनीलदलजालं जलसहितपद्मिनीपत्रसमूहं वर्म कवचं करोति । कीदृशं ? विशालम् । किमर्थमिव ? अविरलं यथा स्यादेवं निपतितो यो मदनशरः कामबाणः । तस्माद्भवदवनायेव भवतो रक्षणायेव । तस्या हृदये त्वं सर्वदा तिष्ठसि । अतोऽविरलनिपतद्भिऋ मदनशरैस्ते पीडा माभूदिति कमलिनीपत्रैः सन्नाहमिव करोतीति भावः । केचित्तु—कीदृशं वर्म ? अविरलनिपतितमदनशरादवनाय स्वरक्षणाय [भय] भवदिव सम्पद्यमानमिवेति व्याकुर्वन्ति । अवनं रक्षणे प्रीतौ इति विश्वप्रकाशः । व्यथासहं स्थलं मर्म इत्यपि । विशालं विस्तीर्णमपि । भवदवनायेति प्रथमव्याख्याने सख्याः स्नेहाधिक्यं सूचितम् । तेन दूतीकर्मकुशलत्वमपि कथितम् ॥२॥ (८.३)
कुसुमविशिखशरतल्पमनल्पविलासकलाकमणीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥४॥
कुसुमविशिखमित्यादि । सा कुसुमशयनीयं पुष्पशय्यां करोइत्रचयति । कीदृशं ? अनल्पविलासकलायां बहुतरक्रीडाकलायां कमणीयं काङ्क्षणीयम् । एवंभूतावस्थायामपि त्वदागमनाशया अनुरागातिशयेन कुसुमशय्यामारचय्य त्वन्मार्गदत्तदृष्टिरेव तिष्ठतीति भावः । कमिव ? कुसुमविशिखः कामः, तस्य ये शराः कुसुमस्वरूपाः, तेषां शय्या यत्र तादृशं व्रतमिव । किमर्थं ? तव परिरम्भसुखाय आलिङ्गनसुखप्राप्तये ।
तल्पं च शयनीये स्यात्तल्पमाट्टकलत्रयोः इति विश्वः । एभिस्त्रिभिः पदैरुद्वेगाख्या पञ्चम्यवस्था कथिता । सुखस्पर्शं पुष्पमपि बाणतुल्यं भवतीति ध्वनितम् । अथवा, सा अनल्पविलासकलाकमनीयं कुसुमशयनीयं तव परिरम्भसुखाय कुसुमविशिखशरतल्पं व्रतमिव करोतीत्यर्थः ॥४॥ (८.३)
वहति च वलित विलोचनजलधरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥५॥
वहतीत्यादि । सा उदारं सुन्दरमाननकमलं मुखपद्मं वहति धारयति । प्रेमामृताश्रुदातृत्वेनोदारमिति वा । कीदृशं ? वलिते त्वन्मार्गप्रेक्षणाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जलधरौ रसवर्षिणौ मेघौ यत्र तादृशम् । यत्र निरन्तराश्रुवर्षित्वेन नेत्रयोर्जलधरत्वेन रूपणम् । कमिव ? चन्द्रमिव । कीदृशं ? विकटाः कराला विशाला वा ये विधुन्तुदस्य राहोर्दन्तास्तैर्दलनं पीडनं तस्माद्गलिता प्रच्युतामृतस्य धारा यतस्तादृशम् । अत्र मुखस्य विधुना मेत्रजलस्य चामृतधारया सादृश्याद्वाक्यार्थोपमा बोध्या । तथा चानेन वैवर्ण्यमपि ध्वनितम् । विकटः सुन्दरे प्रोक्तो विशालविकरालयोः इति विश्वः । तमस्तु राहुः स्वर्भानुः सैंहकेयो विधुन्तुदः इत्यमरः ॥५॥ (८.४)
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥६॥
ध्यानेत्यादि । अतिशयेन दुःखेन प्राप्यमतीवदुरापं भवन्तं ध्यानलयेन एकाग्रतया पुरः परिकल्प्य अग्रे लिखित्वा । अथवा, अतीवदुरापं दौत्यादिना अतिदुर्लभं त्वां ध्यानलयेन ध्यानं चिन्तनं तत्र यो लयः तत्परत्वं तेन पुरोऽग्रे परिकल्प्य साक्षात्कृत्वा । प्रथमपक्षे तु, विलिखति रहसि इत्युक्तत्वात्न कल्पना । सा विलपति—विलापो दुःखजं वचः [उ.नी. ११.८३], “शठ इयत्कालं यदर्थे विलम्बितोऽसि, तत्रैव गच्छ” इत्याद्युक्त्वा हसति उपहसति । विषीदति पुरःस्थितेऽपि चरणौ गृहीत्वानुनयतीत्येवं विषादं प्राप्नोति । पुनः कथमयं वश्यः स्यादिति रोदिति । तदुक्तं रुदितमुदितमस्त्रं योषितां विग्रहेषु इति माघे । चञ्चति चाटूक्तिभिरनुसृतं दृष्ट्वा गच्छति, पश्चादनुनीयालिङ्गिता तापं मुञ्चति स्वविश्लेषदुःखं त्यजति । यद्वा, रोदिति पश्चादनुनयन्तं प्रणयरोषान्मुञ्चति तिरस्करोति । अत एव तापं चञ्चति प्राप्नोतीत्यर्थः ।
अलङ्कारोऽत्र दीपकः—रहसि (गी. ८.५) इत्यारभ्य उन्मादावस्था कथिता । तदुक्तं—
श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ [शृ.ति. २.१३] इति ।
किलकिञ्चिताख्यश्चायं भावः । तदुक्तं दशरूपके—क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम् । अलङ्कारलक्षणं काव्यप्रकाशे—सैव क्रियासु बह्वीषु करकस्येति दीपकं [का.प्र. १०.१०३] । अयमर्थः—बह्वीषु क्रियासु कारकस्य सैव सकृद्वृत्तिरेव दीपकमिति ॥६॥ (८.५)
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥६॥
विलिखतीत्यादि । किं च, रहसि एकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशं ? असमशरभूतं कामरूपिणं, तेऽधः आसनस्थाने मकरं विनिधाय प्रणमति नमस्करोति । मकरवाहनत्वमेव मां किमिति सन्तापयसीति प्रणम्येष्टं त्वां याचत इति भावः ।
तथा च, वाहनारूढः प्रियतमःशीघ्रमागमिष्यतीति वाहनलिखनमिति ध्वनितम् । विरहिण्या व्यापारश्च कथितः । तदाह भरतः—
देवतापूजनं कुर्याद्दद्याद्बलिभुजे बलिम् ।
लिखेत्कान्तप्रतिकृतिं पाठयेच्छुकशारिकाम् ।
गणयेच्चावधिर्दिनं गीतं गायेत्तदङ्गकाम् ।
एवंविधविनोदेन नयेत्कालं वियोगिनी ॥ इति ।
मृगनाभिर्मृगमदः कस्तूरी गन्धशेखरः इति हारावली । यद्यपि वियोगिन्याः काममूर्तिलिखनं न घटेत, तथाप्यत्र कृष्णस्य कन्दर्पस्वरूपत्वात्तदाक्रान्तचित्तत्वेन तद्रूपेण लिखनम् ॥७॥ (८.६)
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥८॥
प्रतिपदमित्यादि । प्रतिपदमितस्ततश्चलन्ती पदं पदं प्रति, वचनं वचनं प्रतीति वा इति निगदति जल्पति—हे माधव ! तव चरणेऽहं पतिता, त्वां नमामीत्यर्थः । त्वयि विमुखे विश्लेषे सति सुधानिधिरपि अमृतनिधिः चन्द्रोऽपि तनुदाहं मच्छरीरसन्तापं तनुते विस्तारयति । अतनुदाहं स्मरतापं वा, अतनु यथा स्यात्तथा वा, तनु दुर्लक्ष्यं वा त्वं मायाः लक्ष्म्याः सहोदर इति त्वयि निकटे स्थिते सती लक्ष्मीः सपत्न्यपि किमपि कर्तुं न शक्नोति । त्वयि प्रतिकूले च सति स्वभगिनीसापत्न्यं मयि स्मरन्सुधानिधिरपि मे तनुदाहं तनुत इति माधवपदेन ध्वनितम् । सुधानिधेस्तापकारित्वं विरुद्धमिति विरोधनामायमलङ्कारः ॥८॥ (८.७)
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटणीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥९॥
श्रीजयदेवेत्यादि । श्रीजयदेवभणितं यदि मनसा नटणीयमभिनेतव्यं भावनयास्वादनीयमित्यर्थः । तदा इः कामस्तं ददातीति इदं तं कृष्णे तादृशाभिलाषप्रदमित्यर्थः । अत एवाधिकं सुखमधिकृत्य वर्तमानं हरिविरहेण आकुला या वल्लवयुवतिस्तस्या या सखी दूतीत्वेन प्रेषिता तस्या वचनं पठनीयम् ॥९॥
* * * * *
सा त्वां विना कुत्रापि निर्वृतिं न लभत इत्याह—
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि श्वसितेन दावदहनज्वालकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयन्शार्दूलविक्रीडितम् ॥१०॥
त्वद्विरहेण सा हरिणीरूपायते मृगीरूपामिवाचरति विश्लेषव्याधिजनिता पाण्डुवर्णा हरिणीरूपेण उपमीयते । तथा च यथा मृगवधूः वने समन्तात्प्रदीप्तदावाग्निज्वालोद्विग्ना व्याघ्रेण त्रासिताग्रे व्याधजालं विततं पश्यन्ती दशदिशश्चकितचकितं विलोकमाना क्वापि मन्दिरं विपिनायतेऽरण्यमिवाचरति ।
इयं सखीपङ्क्तिरपि जालायते, वियोगदुःखासहिष्णुतया प्राणमपि त्यक्तुं प्रवृत्तायाः तद्बोधकत्वात। यद्वा, तापशान्त्यर्थं प्रियसखीदत्ता मालापि जालायते यथा हरिणीबन्धनार्थं जालां क्षिप्यते, तद्वदाचरति ।
तापोऽपि विरहजनितः सन्तापोऽपि श्वसितेन निःश्वासेन सहायभूतेन श्वासवायुना वनाग्निज्वालावलीवाचरति । एवं खेदमभिनयन्त्याह—हा कष्टं ! सा कथं वर्तते ? यतः कन्दर्पोऽपि शार्दूलविक्रीडितं विरचयन्कृतान्त इवाचरति । हरिणीशब्देन एवंभूतायामवस्थायां मत्सख्याः मृग्या इव त्वयि स्नेहाधिक्यमिति सूचितम् ।
शार्दूलविक्रीडितं छन्दः । प्रथमपदे उद्वेगाख्यावस्था, शेषेऽष्टमी व्याध्यवस्था कथिता । तल्लक्षणं—
अभीष्टसङ्गमाभावाद्व्याधिः सन्तापलक्षणः ।
अत्र सन्तापनिःश्वासौ शीतवस्तुनिषेवणम् ॥ [र.सु. २.३९८]
नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥ [र.सु. २.४०१] इति ॥१०॥
—ओ)०(ओ—
॥ प्रबन्धः ९ ॥
देशाखरागैकतालीतालाभ्यां गीयते ।
स्तनविनिहितमपि हारमुदारम् ।
स मनुते कृशातनुरिव भारम् ॥११॥
राधिका तव विरहे केशव ॥ ध्रु. ॥
गीतस्यास्य देशाख्यरागः ।
आस्फोटनाविष्कृतरोमहर्षो
नियुद्धसन्नद्धविशालबाहुः ।
प्रांशुः प्रचण्डद्युतिरिन्दुगौरो
देशाख्यरागः किल मल्लमूर्तिः ॥ इति ।
एकतालीतलश्च तल्लक्षणं (गीत ६.१) प्राक्कथितम् । गीतार्थस्तु—हे हे केशव ! तव विरहे सा राधिकानुकम्प्या राधा स्तनविनिहितमपि स्तनयोरुपरि धृतमपि उदारं मनोहरं सम्भोगादौ स्वाङ्गसंसर्गितया दत्तं तं हारम् । अथवा पूर्वं येन स्वकण्ठधृतेन तव सङ्गमः प्राप्तस्तम् । अत एव उदारं बहुप्रदमपि अतिभारं मनुते । तत्र हेतुः—कृशा तनुर्यस्या इति । अतिकृशतया सखीजनैः प्राणरक्षार्थं वक्षसि समर्पितं तद्धारणेऽशक्या सा त्वया प्रीणनीयेति भावः । अनेन कार्श्यरूपो व्याधिरुक्तः । कृशतारूपोऽनुभावश्चायम् । तथा च कं सुखं तस्येशो नियन्ता केशः सर्वेषां सुखप्रद इति वममृतं मृतयुवतिजीवनं तद्रूपः केशश्चासौ वश्च केशवः । एतादृशेन त्वया एवंभूता प्रणयिनी मत्सखी दुःखिता भवति । तन्नोचितमिति केशवेति सम्बोधनेन ध्वनितम् ॥११॥ (९.१)
सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥१२॥
सरसमसृणमित्यादि । अपि च, मलयजपङ्कं चन्दनद्रवं वपुषि देहे सशङ्कं यथा स्यादेवं विषमिव पश्यति । कीदृशं ? स्निग्धार्द्रमपि । मसृणः कर्कशे स्निग्धे इति विश्वः । सरसः रसोद्बोधक इति वा ॥१२॥ (९.२)
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥१३॥
श्वसितेत्यादि । श्वसितपवनं निःश्वासवायुं वहति धावयति । कीदृशं ? अनुपमपरिणाहमुपमारहितः परिणाहो दैर्घ्यं यस्य तादृशम् । किमिव ? कामाग्निमिव । कीदृशं ? सदाहं यथा स्यात्तथा वहतीति वा ॥१३॥ (९.३)
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥१४॥
दिशि दिशीत्यादि । सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति क्षिपति । कीदृशं ? सजलकणजालं जलकणजालैरश्रुजलकणिकासमूहैः सहितम् । किमिव ? विगलितं नालं यस्य एवंभूतं नलिनमिव । आर्त्या साश्रुस्थानाद्बहिर्भूतप्रायनयनावलोकनं त्यक्तनालसजलप्रक्षिप्तपद्मेनोत्प्रेक्षितम् । तथा च स्नेहात्स्वनेत्रपद्मेन त्वदागमनमार्गसेचनं करोतीत्यपि ध्वनितम् ॥१४॥ (९.४)
नयनविषयमपि किशलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥१५॥
नयनेत्यादि । किं च, किशलयतल्पं नवपल्लवशयनीयं विहितो हुताशनस्याग्नेर्विकल्पः संशयो यत्र तादृशं कलयति । किंभूतं ? नयनविषयमपि दर्शनीयमपि प्रत्यक्षोपलभमानमपीति वा । अथवा, दृग्गोचरमपि एवं भवति । स्पर्शे किं वक्तव्यं ? यद्विश्लेषे मत्सख्या त्यक्तं शयनादिकमित्यपि ध्वनितम् । उद्वेगावस्था चेयं कथिता ॥१६॥
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥१६॥
त्यजतीत्यादि । सा सायं सन्ध्यासमये पानितलेन कपोलं न त्यजति । कीदृशं ? अलोलमचञ्चलम् । दिवसं तु यथाकथञ्चिन्नीतो, रात्रिं तु युगायमाना कथं नेतव्येति कपोले पाणिं कृत्वा सायं चिन्तयतीति भावः । कमिव ? बालशशिनमिव द्वितीया चन्द्रमिव । मुखार्धस्य करतलच्छन्नतया अर्धस्य दृश्यमानतया विरहेण पाण्डुतया सायमुदयेनालोलतया कृशत्वेन च द्वितीयाचन्द्रसादृश्यम् । इयं च जडतावस्था । तदुक्तं—
यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ।
अकाण्डहुङ्कृतिः स्तम्भो निःश्वासकृशतादयः ॥ [र.सु. २.४०२] इति ॥१५॥ (९.६)
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेव निकामम् ॥१७॥
हरिरित्यादिना । सा निकाममतिशयेन हरिरिति हरिरिति जपति । केव ? विरहेण त्वद्वियोगेन विहितमारब्धं मरणं यस्या सेव । कथं यथा स्यात्सकामं साभिलाषम् । एवं क्रमाद्दशम्यवस्थां प्राप्तायामपि साभिलाषमिति नवानुरागं कुर्वाणास्मिन्नेव शरीरे तव सङ्गमामृतं कामयमाना चिन्तामणिरूपं स्वसर्वस्वभूतं तव नाममङ्गलं जपति परमेष्टमन्त्रवदावर्तयतीत्यर्थः । मनोहारिगुणविशिष्टत्वाद्धरिति, अखिलक्लेशहरणाद्वा ।
अत्र प्राप्त्यभावः जन्मान्तरेऽपि स एव वल्लभो भूयादन्ते या मतिः, सा गतिरिति न्यायात। एवमनुरागे दशावस्था निरूपिताः । तदुक्तं—
अलोकालापसंरूढसंरोगाकुलचेतसोः ।
तयोर्भवेदसम्प्राप्तौ दशावस्थः स्मरो यथा ॥ इति ।
अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनम् ।
उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥
जडता मरणं चेति दशमी जायते क्रमात।
असम्प्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥ इति शृङ्गारतिलके (२.४६) ।
अत्र तु नित्यानन्दरूपयोर्मधुररससर्वस्वविग्रहयोर्नवावस्था एव सम्मताः । अनुरागकाष्ठां दर्शयन्तदाभासोऽत्र दर्शितः । साक्षात्तु केष्वेव श्रीकृष्णस्य माधुर्यभरदर्शनायैव शुकादिभिस्तादृशाधिकारिजनेषु निरूपिता । तेन नवानामिह लक्षणं कृतम् । तत्र व्याधिलक्षणं—
सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः ।
तनूकृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥ [शृ.ति. २.१४] इति ।
शेषाणां भेदाः पूर्वमेव दर्शिताः । यद्यपि कटुपरिणामा इव एते प्रभासन्ते, तदप्यानन्दरसविकारत्वाच्च । तत्पोषकत्वाच्चानन्दसन्दोहा एव ह्येते भावा इति सिद्धान्तः, वस्तुतस्तु न दुःखमयाः ॥१७॥ (९.७)
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपनीतम् ॥।१८॥
श्रीजयदेवेनेत्यादि । इति अमुना प्रकारेण श्रीजयदेवभणितं श्रीराधिकासख्या गीतं श्रीकृष्णं प्रति उपनीतं केशवपदं सुखयतु । त्वरया श्रीराधाभिसरणेन श्रीकृष्णस्य चरणं प्रति शं विदधातु । अथवा, यत्सख्याः श्रीकृष्णं प्रति कथितं, तदेव श्रीजयदेवेन रागतालादिना बद्धं गीतं गायतां शृण्वतां सुखयतु । केशवपदमुपनीतं समर्पितं, केशवस्य पदं स्थानं वैकुण्ठलोकं तत्रोपनीतं वा । वैकुण्ठलोकेऽपि गीयते इति भावः । अथवा उपनीतमुपस्थितीकृतं गीतं केशवपदं केशवः पदं त्राणं यस्य स वैष्णवस्तं सुखयतु । केशवस्य पदं स्थानमिति वा । पदं स्थाने च वाक्ये च सन्निधिव्यवसाययोः । त्राणेऽपि पदमाख्यातमिति विश्वः ॥१८॥ (९.८)
* * * * *
एवं दशम्यवस्थापर्यन्तं विरहोद्रेकं श्रुत्वा निरुपायस्थगितचित्तं प्रत्याह—
सा रोमाञ्चति शीत्करोति विलपत्युत्कम्पते ताम्यति
ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात्
स्वर्वैद्यप्रतिमा प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥१९॥
सा रोमाञ्चतीत्यादि । हे स्वर्वैद्यप्रतिम ! स्वर्वैद्यः धन्वन्तरिः प्रतिमा प्रतिबिम्बो यस्य तादृश रूपश्रियादिभिर्विरहव्याधिचिकित्सकतया त्वं चेत्प्रसीदसि प्रसन्नो भवसि, तदा एतावत्यतनुज्वरे कामसन्तापे सा वरतनुः, वरा त्वद्योग्या सौन्दर्यादिभिः श्रेष्ठा तनुर्यस्या ते रसात्सम्भोगशृङ्गाररसरूपामृतसञ्जीवनमहौषधात्किं न जीवेत्? अपि तु जीवेदेव । अन्यथा त्वद्रसव्यतिरेकेण तया हस्तकेऽपि त्यक्तस्त्यक्तप्रायो भविष्यतीत्यर्थः ।
सम्प्रति मूर्छायां वक्तुमपारयन्त्या तया हस्तकेन सखीषु व्यवह्रियते, त्वत्सङ्गमाभावे सोऽपि त्यक्ष्यत इति भावः । अथवा अन्यथा परो हस्तको हस्तक्रियाप्रकारः वैद्यकोपचारस्त्यक्त इत्यर्थः । क्वचित्त्वत्तोऽन्यथानान्तक इति पाठः । तदान्यथा यदि न प्रसीदसि, तदा त्वत्तस्तवापेक्षयान्तकः, न, अपि तु त्वमेवान्तक इत्यर्थः । तदेव कामज्वरजनितचेष्टितमनुवर्तयति—सा रोमाञ्चतीत्यादि । रोमाञ्चति पुलकमुद्गमयतीत्यर्थः । शीत्करोति शीत्कारशब्दमनुकुरुते, साभिलाषरोमोद्गमेन कण्ठध्वनिं करोतीत्यर्थः । विलपति शठो न मिलित इत्यादिविलापं करोति, विशेषेणोत्कण्ठया त्वद्गुणानालपति कथयतीति वा । उत्कम्पते कथमस्य विशेषः सोढव्य इति कम्पयुक्ता सती, ताम्यति ग्लाना भवति । अनेन वेपथुर्वैवर्ण्यरूपश्च सात्त्विकः कथितः । ध्यायति कथं लभ्येतेति चिन्तयति तीव्रचिन्तया उद्भ्रमति भ्रमं करोति । अनेनोन्मादः कथितः ।
तस्य विशेषणानि—प्रमीलति बाह्यभ्रमेण चक्षुर्मीलनं कृत्वा त्वयि मनो धारयति, हृदि स्फुरिते उद्याति गच्छति । कार्श्येन क्षीणतया पतति । त्वय्यप्राप्ते मूर्च्छति मूर्च्छां प्राप्नोति । अनेन मूर्च्छा कथिता । अपिशब्देन एतावत्यामपि व्यवस्थायां सकलगुणगणालयमशेषनायकशिरोरत्नं त्वामेव परमरसज्ञा सा पुलकादिभिः सात्त्विकैः शीत्कारादिभिरनुभावैः चिन्तादिव्यभिचारिभिरभिलाषाद्यवस्थाभिः साङ्गरसोदयेन कामयते, सा सर्वथैव त्वया प्राणनीया ।
तथा च तस्याः सङ्गमे अद्भुतमधुररसोत्सव आस्वादनीय इति भावः । वरतनुरित्यनेन त्वयापि तद्विरहः सोढुमशक्य इति ध्वनितम् । ज्वरव्याधौ एवंभूतानि लक्षणानि भवन्ति—शीतादिना रोमाञ्चति, वेदनया शीत्कारं करोति, विलपति मोहाद्यत्किञ्चिद्वदति, कम्पयुक्ता भवति, चिन्तयते कथं जीवामीत्यादिना, भ्रमति, ग्लानिमाप्नोति, मूर्च्छां प्राप्नोति । एवंविधेऽपि ज्वरे महावैद्यप्रयुक्तसिद्धरसात्जीवेदेव, तथा त्वत्सङ्गमरसादस्या अपि जीवितम् । क्रियादीपकोऽयमलङ्कारः । शार्दूलविक्रीडितं छन्दोऽपि ज्ञेयम् ॥१९॥ (३०)
स्मरातुरं दैवतवैद्यहृद्य
त्वदङ्गसङ्गामृतमात्रसाध्यम् ।
निवृत्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्रादपि दारुणोऽसि ॥२०॥
स्मरातुरमित्यादि । हे दैवतवैद्यहृद्य देववैद्यौ अश्विनीकुमारौ, ताभ्यामपि मनोहरमूर्ते ! मृतयुवतिजीवनरसज्ञ ! इति वा । अथवा, अस्माकमिष्टदेवतारूपमनोज्ञ वैद्य ! पुनः पुनः विरहव्याधेः रक्षणात। उप समीपेऽस्मिन्नेव वने निकटे वर्तमानां राधां, कथंभूतां ? स्मरातुरं कामेन रुग्नां विमुक्तबाधां विगतपीडां न कुरुषे न करोषि । इन्द्रवज्रादपि दारुणोऽसि कठिनोऽसि । अथवा, हे उपेन्द्र ! वज्रेणाप्यशक्यं कर्म येन त्वया साध्यते, अतः स्वरक्षणार्थमिन्द्रेण त्वं वृतः । तेन वज्रादपि कठिन इत्यर्थः ।
नन्वौषधं विचार्य सम्पादनीयं, किमेवमुपालभसे ? इत्यत आह—त्वदङ्गसङ्गः शरीरसम्बन्धः स एवामृतं परमानन्दरसरूपजीवौषधं तन्मात्रसाध्यं तदेकप्रतीकार्यम् । अथवा, त्वदङ्गस्य सङ्गः आसक्तिः सैवामृतं जीवनं तन्मात्रसाध्याम् । जीवनं सम्पाद्यमानामित्यर्थः । त्वदङ्गसङ्गः तवाङ्गसुखमिति वा । सङ्गः सुखं तथासक्तिः इति रत्नकोशः । उपेन्द्रवज्रनामैतच्छब्दोऽपि ॥२०॥ (३१)
ननु यावदहमागमिष्ये, तावच्छीतोपचारैरुपचर्यतामित्यत आह—
कन्दर्पज्वरसंज्वरातुरतनोरश्चर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति ।
किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥२१॥
अहो आश्चर्यं ! अन्याश्चेतः चन्दनचन्द्रमः कमलिनीचिन्तासु मलयजसुधांशुपद्मिनीस्मरणेऽपि सन्ताम्यति ग्लानिं प्राप्नोति, तत्रापि चिरम् । किंभूतायाः ? कन्दर्पज्वरेण यः संज्वरः सन्तापस्तेन आतुरतनोर्व्यथितदेहायाः ? विरोधोऽयमलङ्कारः ।
नन्वेतादृशसन्तापेन कथं जीवति ? इति तदप्यश्चर्यमित्याह—प्रियमात्मवल्लभं, अत एव क्षान्तिरसेन शीतलतरमनुभूतमपि त्वामेव एकमेव । प्रियमनन्यवल्लभमिति वा । ध्यायन्ती कथमपि महता कष्टेन । क्षीणाशक्ता क्षणं प्राणिति क्षणमात्रं जीवति । अस्मिन्नेव क्षणे त्वया तत्समीपे गन्तव्यमिति भावः । पुनः तस्या दर्शनमपि ते दुर्लभमिति त्वरयति । अथवा, क्षणं प्रतिक्षणं ध्यायन्तीति योज्यं, यस्य चिन्तनेन जीवति, तद्दर्शनेन नीरुजा भविष्यतीति किं वक्तव्यम् । शीतला ताम्यति जीवति चेति आश्चर्यं दर्शितम् । क्लान्तिवशेन वा ।
इनः सूर्ये नृप्ते पतौ इति विश्वः । शीतला कामज्वरजनितसन्तापहरा तनुर्यस्य तमिति । अरे विरुद्धशीतलादपि जीवतीति अत्याश्चर्यम् । शार्दूलविक्रीडितं छन्दः ॥२१॥ (३१)
—ओ)०(ओ—
पुनरपि उद्दीपनविभावेन विरहोद्रेकमाह—
क्षणमपि विरहः पुरा न सेहे
नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां
चिरविरहेण विलोक्य पुष्पिताग्रम् ॥२२॥
यया श्रीराधया तव सङ्गमेऽपि विरहः क्षणमपि न सेहे न सोढः । कथंभूतया ? नयनयोर्यन्निमीलनं निमेषस्तेन खिन्नया खेदयुक्तया । किमिति धात्रा चक्षुषोर्निमेषः सृष्टो यतः प्रियतमावलोके प्रत्यूहो भवतीति । तदुक्तं—जड उदीक्षतां पक्ष्मकृत्[भा.पु. १०.३१.१५] इति साऽसौ चिरविरहेण रसालस्याम्रस्य शाखां पुष्पितोऽग्रभागो यस्या तां दृष्ट्वा वसन्ते कथं श्वसिति, केन कारणेन जीवेत्? दुःखवलितानि निःश्वसितानि वहतीति वा । छन्दोऽपि पुष्पिताग्रानामकमिदम् ॥२२॥ (३२)
—ओ)०(ओ—
वृष्टिव्याकुलगोकुलवनरसादुद्धृत्य गोवर्धनं
बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः ।
दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥२३॥
वृष्टीत्यादि । कंसद्विषः श्रीकृष्णस्य बाहुर्भवतः शुश्रूषोः श्रेयांसि कल्याणानि तनोतु विस्तारयतु । अन्योऽपि हस्तेनैव दित्सितं प्रयच्छतीति बाहोः कर्तृत्वं, सामर्थ्यसूचनार्थमत्र कंसद्विट्पदोपादानम् । कथंभूतस्य ? गोपतनोः परमोदारश्रीगोपराजकुलोत्पन्नस्य । दातृत्वं दर्शयति—उद्धृत्य गोवर्धनं गिरिं बिभ्रत। कुतः ? वृष्ट्या व्याकुलं यद्गोकुलं तस्य यदवनं पालनं तत्र रसो रागो वीर्यं वा तस्मात। कथंभूतो बाहुः ? बल्लववल्लभाभिर्तत्प्रियाभिः अधिकानन्दाच्चिरं चुम्बितः ।
पुनः कीदृशः ? दर्पेण सौभाग्यमदेन ताभिः चुम्बनार्थमर्पिता याधरतटी तया सिन्दूरमुद्रयाङ्कितः चिह्नितः । अधरतट्यः एव सिन्दूरवद्रक्तास्ताभिरिति वा । शार्दूलविक्रीडितं वृत्तम् ॥२३॥ (३३)
॥ रासावलयनामा नवमः प्रबन्धः ॥
इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम
चतुर्थः सर्गः
॥४॥
*****************************************************************************
.
(५)
पञ्चमः सर्गः
साकाङ्क्षपुण्डरीकाक्षः
पूर्वसर्गे श्रीराधायाः प्रेमचेष्टितं निरूप्येदानीं पञ्चमे सर्गे श्रीकृष्णचेष्टितं वर्णयति । तत्र प्रियाया विरहचरितं श्रुत्वा तामभिसृत्य सङ्केतनिकुञ्जे स्थितः सन्, सापराधतया शङ्कमानहृदयः स्वयमागच्छन्विरहदुःखनिवेदनेनानुनीय आनयनाय तामेव सखीं प्रहितवान्—
अहमिह निवसामि याहि राधाम्
अनुनय मद्वचनेन चानयेथाः ।
इति मधुरीपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥१॥
अहमिहेत्यादि । मधुरिपुणा इति एवं प्रकारेण स्वयं नियुक्ता आज्ञप्ता सखी एत्य राधामिदं वक्ष्यमाणं जगाद उवाच । स्वयं मधुरिपुणेति आर्तिभरः कथितः । इति किं ? तं राधां याहि गच्छ, मद्वचनेन तामनुनय । ननु सा मानवती, स्वयमेव गत्वानुनीयतां ? तत्राह—कृतापराधेन मया साक्षादुक्तं, न शक्यतेऽतो त्वमनुनयेति भावः । चानयेथाः मत्समीपमानय । ननु कदाचिद्यस्यायास्यति चपलत्वं न लभ्यसे चेत्, तत्र सदैन्यमाह—अहं तदेकनिष्ठ इहैव तां बहुकालं प्रतीक्षमाणस्तिष्ठामि ॥१॥ (३४)
—ओ)०(ओ—
यत्सखी जगाद तदेव गीतेन कथयति—
॥ प्रबन्धः १० ॥
देशीवराडिरागेण रूपकतालेन गीयते ।
वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥२॥
तव विरहे वनमाली सखि सीदति ॥ ध्रु. ॥
गीतस्यास्य वराडीरागः रूपकतालः । रागलक्षणं तु—
विनोदयन्ती दयितं सुकेशी
सुकङ्कणा चामरचालनेन ।
कर्णे दधाना सुरपुष्पगुच्छं
वराङ्गनेयं कथिता वराडी ॥ इति ।
उद्दीपनविभावैः विरहोद्रेकमाह—हे सखि ! वनमाली कृष्णः तव विरहे सीदति अवसन्नो भवति । सुरतोत्सवे बहुयाच्ञाभिः प्राप्तां त्वदङ्गसंसर्गिणीं मालां धारयन्त्वयि प्रवणः सीदतीत्यत त्वमभिसरेति वनमालीपदोपादानम् । अथवा त्यक्तान्यसङ्गस्तव सङ्केतमनोरमनिकुञ्जे वनमालाद्वितीयः वर्तते । अतोऽवश्यं गन्तव्यमिति भावः । ध्रुवपदम् ।
क्व सति ? मलयसमीरे मलयाचलसम्बन्धिवाते वहति सति । किं कृत्वा ? मदनं काममुपनिधाय समीपवर्तिनं कृत्वा । पुनः क्व सति ? कुसुमनिकरे पुष्पसमूहे विरहिणां हृदयदलनाय मर्मपीडनाय स्फुटति विकसति सति । मदयतीति मदनः । अन्यान्मदयति स्वयं मत्तः सन्धितपुष्पबाणः । तदनुवर्तिवायोस्तत्प्रेषितबाणानां च परमर्मविदारणत्वमुचितमेव । अथवा, मदनस्य स्पृहामुपासाद्य समीरे वहति सति कुसुमसमूहे स्फुटति सति सीदतीति ॥२॥ (१०.१)
दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥३॥
दहतीत्यादिना । किं च, शिशिरमयूखे हिमकरे दहति सन्तापं जनयति सति मरणमनुकरोति, दशम्यवस्थाजनितपीडामनुभवति । त्वन्मुखानुभवेऽतितिरस्कृतश्चन्द्रः समस्तजनसन्तापहरोऽपि त्वद्विश्लेषे लब्धावसरो दहतीति भावः । अनुकरोतीत्यनेनानिष्टं वारितम् । दशम्यवस्थासदृशीं पीडामनुभवतीति त्वत्प्राप्त्याशया कष्टेन जीवनं धारयतीत्यर्थः । अथ च मदनविशिखे पतति सति कामबाणे पतनमारचयति सति विह्वलतरोऽतिविलपति अतिशयेन विलापं करोति । क्व प्रिये ! क्वासि रक्ष रक्षेति ॥३॥ (१०.२)
ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि कलितविरहे निशि निसि रुजमुपयाति ॥४॥
ध्वनतीत्यादि । किं च, मधुपसमूहे मधु पिबन्तीति मधुपा भ्रमराः, तेषां सङ्घे ध्वनति गुञ्जति सति, श्रवणं कर्णौ अपिदधाति हस्ताभ्यामाच्छादयति । एतेऽपि कामानुगा मधुपानेन मत्ताः, कामजयघोषमुद्घोषयन्ति, अतस्त्रस्तः कर्णमुद्रणं करोति । त्वदेकनिष्ठया त्वत्प्राप्त्यर्थमखिलशब्दादिविषयत्यागेन त्वामेवाहर्निशं कामयत इति भावः । महामधुरमोहनं ते वचनामृतं निपीय केनान्यशब्दः श्रुतिगोचरः क्रियते इति वा ।
ननु दिवा दिवा दृष्टश्रुतेनोद्विग्नः त्यक्तेन्द्रियविषयः यदि रात्रौ सुखी स्यात्? तत्राह—त्वद्विरहयुक्ते मनसि रात्रौ रात्रौ अधिकपीडामुपयाति प्राप्नोति । निशि विरहव्याधेरुद्रेकात्निशि निशीति तद्वृद्ध्यभिप्रायेण क्षणस्यापि युगायमानत्वात॥४॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥५॥
वसतीत्यादि । ननु बहुभिरपेक्षितोऽसौ तैः कथं न सुखीक्रियते ? अत आह—ललितं मनोहरं धाम पितुः श्रीव्रजराजस्य व्रजरूपस्थानं गृहं वा त्यजति जहाति । विपिनविताने वनविस्तारे वसति सन्तिष्ठते, सकलपरिजनत्यागेन योगीव कान्तारे निगूढं वसतस्तैः कथं सुखमिति भावः । अथवा, धाम शरीरमखिललावण्यास्पदं श्रीविग्रहमपि त्वां विना नाशास्त इत्यर्थः । धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः इति विश्वप्रकाशे । धामशब्दार्थान्सर्वानपि त्यजतीति ध्वनितम् ।
ननु किं प्रमाणं मय्येवैतावती प्रीतिः ? तदनुभावेन दर्शयति—स तव वल्लभः धरणिशयने भूशय्यायां लुठति त्वच्चरणारविन्दमकरन्दसंसिक्तश्रीवृन्दारण्यभूमौ लुण्ठनं करोति । अपि च, तव नाम “हे प्राणेश्वरि ! हे प्रिये राधे !” इत्येवं बहु वारं वारं विलपति विशेषेण लपति । अन्यत्साधनं साध्यं त्यक्त्वा त्वदेकनिष्ठः त्वया न निन्दनीय इति भावः ॥५॥
भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥६॥
भणतीत्यादि । कविजयदेवे भणति कथयति सति विरहविलसितेन वियोगविलासेन हरिरुदयतु आविर्भवतु, अर्थाद्गायतां शृण्वतां मनसि । कीदृशे मनसि ? रभसः प्रेमोत्साहस्तस्य विभवः प्राचुर्यं यत्र तादृशे । केन ? सुकृतेन, सुष्ठु भगवदाराधनरूपाचरणं सुकृतं तेन । अथवा शोभनं यज्जयदेवकृतं गीतं, तेन ॥६॥
* * * * *
परमप्रेष्ठदुःखश्रवणासहिष्णुतयाकुलचित्तां श्रीराधां दृष्ट्वा सखी स्थगितवाग्बभूवेति पञ्चपदीयं दशमी । पूर्वं तदुक्तं त्वदेकनिष्ठस्त्वामेव वाञ्छति, तदेव श्लोकेन दर्शयति—
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयस्
तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलिं
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥७॥
हे सखि ! माधवः कृष्णो भूयः पुनः त्वदीयौ कुम्भाविव तयोः निर्भरं गाढं यः परिरम्भः आलिङ्गनं तदेवामृतममृतवत्स्वादु जीवनसम्पादकं च परमानन्दसन्दोहलक्षणं तद्वाञ्छति । अनेनामृतरसपूर्णावमृतमयस्वर्णकलसाविति ध्वनितम् । माधवपदेन पूर्वोक्तगुणविशिष्टोऽपि त्वया वशीकृतः । कथं चेष्टदेवताराधनव्यतिरेकेण परमानन्दं कामयते ? तत्राह—त्वामेवेष्टदेवतामनिशं निरन्तरं ध्यायन्, अपि च तवालापा एव महामाधुर्यवर्षिणो रहसि सम्भाषणानि, त एव मन्त्राः हृदि मनुरिवावर्तनत्वात। तेषामावलिं श्रेणीं जपन।
ननु जपादिकमिष्टदेवतासन्धितीर्थे कृतं झटिति सिध्यति ? इत्यत आह—निकुञ्जमन्मथमहातीर्थे । मनो मथ्नातीति मन्मथः, तद्रूपो निकुञ्जः लतापिहितोदरः । मन्मथस्य विलासः साध्यते यत्रेति वा । तन्महातीर्थं झटिति सिद्धिकरं तस्मिन्वसन्सन। महत्त्वं दर्शयति—पूर्वं पुरा यत्र यस्मिन्तीर्थे त्वया प्राणकोटिवल्लभया सह रतिपतेः कामस्य सिद्धयः आसादिताः प्राप्ताः । अत्रावलीपदोपादानात्मालामन्त्रत्वमस्य प्रतिपादितम् । तेन सिद्धत्वात्तत्कालफलप्रदानसामर्थ्यं च निकुञ्जेत्यनेनापि । तदुक्तं—
स्वप्नप्राप्ते स्त्रिया दत्ते मालामन्त्रे तथैव च ।
वैदिकेषु च सर्वेषु सिद्धादीन्नैव शोधयेत॥
गृहगोष्ठवनारामनदीनगसुरालये ।
समीपे वा गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरा ॥ इति ।
एवशब्देन निष्ठा दर्शिता । वसन्निति यावत्सिद्धिस्तावत्स्थैर्यं च । एवशब्देन तां ध्यायन्सिद्धक्षेत्रे सिद्धमन्त्रान्जपननन्यः स्थिरः आशु सिद्धिं प्राप्नोतीति ध्वनितम् । इदं तु रसोद्बोधकं वर्णनचातुर्यम्, तयोस्तु मुख्यशृङ्गार एव रसः ॥७॥ (३५)
॥ इति श्रीगीतगोविन्दे हरिसमुदयागरुडपदनामा दशमः प्रबन्धः ॥
—ओ)०(ओ—
एवं स्वविषयकानुरागं श्रुत्वा प्रसन्नां तामभिसारयितुमुद्दीपनविभावं दर्शयन्कृष्णस्याभिसारमाह—
॥ प्रबन्धः ११ ॥
गुर्जरीरागेण एकतालितालेन गीयते ।
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥८॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ।
पीनपयोधरपरिसरमर्दनचञ्चलकरयुगशाली ॥ ध्रु. ॥
गीतस्यास्य गुर्जरीरागः, एकतालितालश्च । गीतार्थस्तु—हे नितम्बिनि प्रशस्तनितम्बवति ! न हृदयेशं प्राणकोटिप्रियमभिसरानुगच्छ । यथा श्रीकृष्णेन त्वां विना क्षणमपि स्थातुं न शक्यते, तथा त्वमपि तेन वशीकृतचित्तासीति हृदयेशमित्यनेन ध्वनितम् । तव हृदयमीशो यस्येति वा । तं तव हृदयानुवर्तिनमित्यर्थः ।
किं च, बृहन्नितम्बवत्त्वात्मद्नगामिन्यास्ते विलम्बनमकार्यमिति ध्वनितम् । नितम्बिनीति सम्बोधनम् । अतो विलम्बनमभिसाराय कालातिक्रमं न कुरु मा कृथाः ।
कीदृशं तं ? अभिसारे गतम् । अभिस्रियतेऽस्मिन्निति अभिसारः सङ्केतस्थानं तत्र गतं प्राप्तम् । कीदृशे अभिसारे ? रतिसुखं सम्भोगसुखं सारः उत्कृष्टं यत्र तादृशे । अथवा, सम्भोगसुखाय सारे यूनोः सुरतसम्पत्तिसम्पादनेन सर्वस्वरूपे इत्यर्थः ।
कथंभूतं तं ? मदनः जगन्मोहनः कामः, तस्यापिइ मनश्चित्तं हरतीति तथाभूतो वेशोऽभिसारोचितमण्डनप्रक्रिया यस्य तम् । किं वक्तव्यमङ्गसौष्ठवं ? इति भावः । अथवा, मदनं कामकदनं मनश्च हरतीति तथा तम् । अथवा, मदनं व्रजाङ्गनानङ्गमनोहरवेशं शकटभञ्जनमूर्तिम् । अनेन वीर्यवानिति नायकगुण उक्तः । मदनादपि मनोहारी वेशो यस्येति वा । व्रजाङ्गनानन्ङ्गत्वेन महाचित्ताकर्षकत्वाच्छीघ्रमभिसरणीयमिति भावः ।
सङ्केतस्थलं दर्शयति—यमुनायास्तीरे वने गहनकानने वनमाली कृतवनमालादिवेषो वसति अशेषाभिसारिकाः वञ्चयित्वा वनमालाद्वितीयः त्वत्प्राप्तिनिमित्तमात्मानं सङ्गोप्य गहने सन्तिष्ठते इत्यर्थः । वनमालीत्यनेनालिङ्गनौत्सुक्यं ध्वनितम् । कीदृशे ? धीरो मन्दः समीरो वायुर्यत्र तादृशे । यमुनातीरे वने इत्यनेन शैत्यं सौगन्ध्यं च कथितम् । त्रैगुण्ययुक्तवायुना सेवित इत्यर्थः । धीरः चतुरो वा । भवत्याः सेवनाय स्वगुणैः सावधानः इति । धीरः पण्डितमन्दयोः इति । ध्रुवपदम् ॥८॥ (११.१)
ननु कथं मदर्थमेवाभिसारे तिष्ठति मय्यनुरक्तश्च ? इत्यत आह—
नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् ।
बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥९॥
नामसमेतमित्यादि । सम्प्रति तव वल्लभो मृदु अन्या मा जानात्वेवं त्वन्नामकीर्तनेनानार्द्रचित्ततया पूर्यमाणत्वाद्वा कोमलं यथा स्यात्तथा वंशं ध्वनयति । तवानुरागानुभावोऽयम् । अभिसारसङ्केतं दर्शयति—हे राधे ! हा प्राणेश्वरि ! इति त्वन्नामसहितं यथा स्यातेवं कृतः सङ्केतः सङ्गोपनार्थसंज्ञा गीतादिना यत्र तादृशम् । मया सह कृतसङ्केतो यत्रेति वा यदा मया वेणुर्वाद्यते, तदा तत्र त्वया राधा आनेया इत्यर्थः । अथवा, नामसमेतमित्यादिना तव सौभाग्यख्यापनाय एव सा मम प्राणकोटिवल्लभा तदर्थमभिसारे तिष्ठामीति अन्या मायातु । सा भ्रमादन्यत्र मा यात्विति वादयते ।
किं च नन्विति सम्बोधने । ते तनुसङ्गतस्त्वदङ्गसम्बन्धी यः स्वल्पमपि सम्बन्धी वा यथा कथञ्चिद्वस्त्रादिसंसर्गवान्पवनो वायुस्तेन स्वभावादेव चलितम्, न तु तव प्रेरणात्तत्रापि तवाटव्याः रेणुमपि बहु मनुते, यदृच्छया प्राप्तमधिकं यथा स्यादेवमाद्रियते । अयं रेणुः धन्यो यस्तदङ्गसङ्गिना मरुता स्पृश्यते । धन्योऽहं तत्संसर्गिमरुता स्पृष्टेन रजसा यत्स्पृश्यते मादृशो जन इति । यद्येवं, तदा किं वक्तव्यं त्वदङ्गसङ्गमरसः ?
तन्विति पाठे—हे तनु तन्वि ! तनुशब्दस्य सम्बोधने ह्रस्वः । अथवा, पूर्वं बहु मनुते, ततश्च तनुते तानप्रतानमुद्रया शीतः परमानन्दप्रदश्चायं रेणुः इति गायति । अतनु अनल्पं यथा भवेदेवमिति क्रियाविशेषणम् ॥९॥ (११.२)
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥१०॥
स मोहनः परमकोमलपल्लवैः पुष्पदलैश्चपरमसुकुमाराभ्यां स्वकरपल्लवाभ्यां त्वदर्थं शयनं कन्दर्पलीलोचितां शय्यां विविधविचित्रसौगन्ध्यसंसिक्तोपधानादिभिः रचयति निर्माति । रत्या वेगेनार्त्या सचकितनयनं चञ्चलावलोकसहितं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म पश्यति । एतेन चक्षुरादीन्द्रियाणां तत्परत्वं च कथितम् ।
तदेवाभिनयेन दर्शयति—कथंभूतं पन्थानं ? शङ्कितमायाता मे प्राणेश्वरीति भवदुपयानं भवत्या उपयानं समीपे गमनं यत्र तादृशम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भाव इति भवतीशब्दस्य पुंस्त्वम् । क्व सति ? पतत्रे पक्षिणि पतति वृक्षात्वृक्षान्तरं गच्छति सति । पुनः क्व सति ? पत्रे वृक्षपत्रे विचलति सति । अनेन मनसस्तादात्म्यं दर्शितम् ॥१०॥ (११.३)
यथा श्रीकृष्णोऽभिसृतस्तथा त्वमप्यभिसारोचितव्यापारवती भवेत्याह—
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥११॥
मुखरमिति । हे सखि ! कुञ्जं चल गच्छ । नीलनिचोलं प्रच्छदपटं शीलय परिधेहि । सतिमिरपुञ्जं यथा स्यात्तथा इति क्रियाविशेषणम् । उद्द्योते हि अभिसारप्रतिबन्धं स्यादिति । अथवा कीदृशं कुञ्जं ? तिमिरपुञ्जेनान्धकारसमूहेन सहितम् । तिमिरकुञ्जनीलनिचोलैः अभिसारानुकूलरसपोषकसामग्री कथिता । गौराङ्ग्या त्वया नीलवस्त्रादिभिः शोभाविशेषतया मोहनस्यापि मोहनत्वं भविष्यतीत्यपि ध्वनितम् ।
प्रतिकूलं वारयति—मञ्जीरं नूपुरं त्यज । किंलक्षणं ? अधीरमज्ञं मन्दं वा प्रगल्भमित्यर्थः । अत एवाभिसारे मुखरं वाचालं समयोचितं न जानातीति तथाभूतम् । न केवलमेवं, किन्तु केलिषु लोलं चञ्चलं, केलिसुलोलमिति पाठे केलौ क्रीडायामतिचञ्चलमित्यर्थः । कमिव ? रिपुमिव सम्भोगक्रीडासु नर्मगोष्ठीसुधास्वादप्रतिबन्धकत्वात्, रिपुमिव त्याज्यमिति भावः । क्वचित्तु शृङ्गारोपयोगित्वान्मूकमण्डलधारणे तात्पर्यमिति ॥११॥ (११.४)
ननु मण्डनत्यागेन शोभाहानिः स्यादिति परस्परमीलितैर्भूषणभूषणाङ्गैरेव परमशोभा भविष्यतीत्युत्कण्ठां जनयन्नाह—
उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥१२॥
उरसीति । हे पीते ! नवपुरटगौराङ्गि ! मुरारिर्मुरयति वेष्टयति स्वभुजाभ्यां गाढालिङ्गनतृष्णयेति, मुर वेष्टने औणादिक आरिप्रत्ययः । मुरारिः श्रीकृष्णस्तस्य उरसि वक्षसि राजसि राजिष्यसीत्यर्थः । वर्तमानसामीप्ये वर्तमानवद्वा [पा. ३.३.१३१] इति लृट्योगे लट। कदा ? रतिविपरीते पुरुषायितसुरतसमये । किंविशिष्ट उरसि ? उपहितहारे पुंभावमापन्नतया त्वया त्वदालिङ्गनव्यवधानकृद्भूषणरहिते, अथवा स्वकीयकण्ठस्थितः आलिङ्गनचातुर्येणैव शोभाविशेषदर्शनाय उपहितोऽर्पितो हारो मुक्ताहारो यस्मिन्तादृशे । तत्रोत्प्रेक्षते—कीदृश इव ? घन इव तरलबलाके तरला चञ्चला बलाका बकपङ्क्तिर्यत्र तादृशे घनो मेघ इव । पुंभावचरितेन हारस्यापिइ चाञ्चल्यं ध्वनितम् । केव ? तडिदिव विचित्रविविधचमत्कारवती विद्युदिव । दृष्टान्तेनानेन सौरभकौशलं ध्वनितम् । अभूतोपमा चेयं कथितेति । दिवि मण्डितसजलमेघोपरि चञ्चला बकपङ्क्तिस्तदुपरि चञ्चला अबहुकालस्थैर्यवती विविधविचित्रचमत्कारवती च विद्युद्यदि स्यात्तदा एवं भवति । तदा भावात्तत्रान्यदपि प्रलोभनीयं विशेषणमाह—कीदृशे उरसि ? सुकृतविपाके सुकृतस्य शोभनचरितस्य विपाके विचित्रपरमफलरूपे इत्यर्थः । विपरीतरतौ सुकृतस्य सुष्ठु विलासरूपचरितस्य विपाको वा । तरलबलाक इत्यादि पदेऽपि तद्विशेषणानीति वा । तरला चञ्चला बलाका कामुकी सम्भोगरसाक्रान्ता वरस्त्री यत्र तादृशे । पुनः कीदृशे ? पीते गिरिधातुभिः स्त्रियाः पुरुषायितं यत्र तादृशे । सुकृतविपाके तस्य सुकृतस्य विपाके, श्रीराधायाः तादृशचेष्टितरूपफलसिद्धिर्यस्मिन्निति वा । अथवा, नायिकायाः सम्बोधनानि, उपहितहारे इत्यादि । उपहितः प्रथमसमागमे श्रीकृष्णेन उपहारीकृतः हारो यस्यास्तादृशि । अनेन दानादिकोपायो दर्शितः । तथा च तव कण्ठधृतः तदुरसि तस्मिन्समये तादृशशोभाप्रदो भविष्यतीति भावः । तरलबलाके अतिपुरुषायितं यस्यास्तादृशीत्यर्थः । अत एव हे रतिविपरीते इति । सुकृतविपाके तस्य सुकृतस्य परमफलरूपे तेनाभीप्सितत्वात। विपरीतरतेरेवैतानि विशेषणानि वा । तदा कीदृशे रतिविपरीते ? सुकृतविपाके उभयोः पुण्यपरिपाकरूपे, तत्र हेतुः—तरलबलाके अतएवोपहितहारे इति ।
बलाका बकपङ्क्तौ स्याद्बलाका विषकण्ठिका ।
बलाका कामुकी प्रोक्ता बलाकश्च बको मतः ॥ इति शाश्वतः ।
विपाकः कीर्त्यते स्वादौ परिणामे च दुर्गतौ इति विश्वः ॥१२॥ (११.५)
पुरुषायितं निरूप्येदानीं नायककर्तृकं सूचयति—
विगलितवसनं परिहृतरशनं
घटय जघनमपिधानम् ।
किशलयशयने पङ्कजनयने
निधिमिव हर्षनिधानम् ॥१३॥
विगलितेत्यादि । हे पद्मनयने ! श्रीकृष्णरचितनवपल्लवशय्यायां जघनमारोपय । कीदृशं जघनं ? विगलितवसनं विशेषेण स्खलितं स्वयमेव कन्दर्पकोटिरमणीयकान्तस्य सङ्गमे परमरसज्ञायाः शृङ्गाररसविक्रमेण वस्त्रमेव यस्मात्तम् । अतोऽपिधानं पिधानमावरणं तद्रहितम् । पुनः कीदृशं ? परिहृतरशनं पङ्कजनयनेन मन्मथशरमथितचित्तप्रेष्ठेन दूरीकृता क्षुद्रघण्टिका यस्मात्तादृशं तमेव वा, विगलितवसनमिति च । पुनः कीदृशं ? हर्षनिधानं परमानन्दस्याव्यभिचारिगृहम् । कमिव ? निधिमिव नायकशिरोमणेरभीष्टधनमिव । अथवा, विपरीतरतमेव वर्णयति—तदा हे सखि ! किशलयशय्यायां पङ्कजनयने श्रीकृष्णे परिहृतरशनादिलक्षणं स्वजघनं स्वजघनं तस्मिन्योजय इत्यन्वयः । तादृशावसरे शब्दायमानारसनाया अनुपयोगित्वात्विगलितवसनमित्यपि युक्तमेव । अन्यत्समानम् ॥१३॥ (११.६)
विलम्बमानां दृष्ट्वा भेदरूपमुपायं दर्शयति—
हरिरभिमाणी रजनिरिदानीं
इयमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं
पूरय मधुरिपुकामम् ॥१४॥
हरिरिति । हरिः सुन्दरवरः अभिमाणी अभितः सर्वतोभावेन त्वां प्रियां मानयतीत्यभिमानी । त्वय्यतिशयेन प्रेम्णाभिमानवानिति वा । अयमर्थः—यथा त्वमस्यातुलितवल्लभाहमिति अभिमानवती, तथा सोऽपि इयं ममातिवल्लभा ममाभिलषितं पूरयिष्यतीत्यभिमानवानिति । अतो मधुरिपोः मधुर्वसन्तः क्षोभकत्वेन रिपुर्यस्य तादृशस्य कामं त्वद्रमणरूपाभिलाषं पूरय परिपूर्णतां प्रापय, रिपुणाक्रान्तः प्रियः त्वत्सहायेन आनन्दितस्तथा वशीकृतो भविष्यतीति भावः । इयं रजनिः रात्रिरपि इदानीं सम्प्रति विराममवसानं गच्छति । मम वचनं मद्वाक्यं कुरु । कीदृशं ? सत्वररचनं त्वरासहितं गमनं रचयतीति तादृशम् । सत्वररचनं यथा स्यादेवं, “चल सखि कुञ्जं” इत्यादिलक्षणं मदुक्तं कुर्विति वा एवंभूतप्रेष्ठाभिलाषपूरणेन । रजन्यवसाने च यदि तव दुराग्रहेण औदास्यमाचरेत्तदा अहैतुकविरहदुःखज्वालालये पतनं भविष्यतीति भेदो दर्शितः । केचिच्च अभिमानी दर्पवानिति राधायामनुकूलत्वाद्धृष्टनायकगुणविशिष्टत्वेन रसभङ्गः स्यादिति न युज्यते । क्वचिच्च हरिरतिमानीति पाठः । तदा नायिकाकृतसुरतनिरूपणेन किं मयैव तस्य नैरपेक्षेणैव कर्तव्यम् । अत आह—कामकदनं हरतीति हरिः । सम्भोगस्तं बहु मानयतीत्यर्थः । एवं रसपोषकसामग्रीसमुदाये सम्पन्ने इदानीमेव मधुरिपोः सम्भोगेच्छां पूर्णां कुर्विति भावः ॥१४॥ (११.७)
श्रीजयदेवे कृतहरिसेवे
भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं
नमत सुकृतकमनीयम् ॥१५॥
हे वैष्णवाः ! उक्तलक्षणं हरिं नमत । एवंभूतचरितानुशीलनेन भजत इत्यर्थः । कीदृशं ? प्रमुदितमानन्दयुक्तं हृदयं यस्य तादृशं प्रियासङ्गमौत्सुक्येनेति भावः । तत्रापि अतिदयासहितं, भक्तप्रियत्वात। अथवा अतिसदयं हरिं सर्वोत्तमं, सर्वोत्तमा नायिका प्रसङ्गेन परिपूर्णगुणप्रकटनादातिशयेन सर्वेषां मनोहरणात्सदयं सतां शुभावहो विधिर्यस्मात्तमिति स्वानुभूतं वर्णितम् । यथा लोके प्रसिद्धिरेतयाष्टपद्या हरिः जयदेवस्य गृहे प्रकटीबभूवेति । क्व सति ? श्रीजयदेवे परमरमणीयं परमः परमानन्दरूपत्वात्रमणीयः रसवलितत्वात्, परमश्चासौ रमणीयश्चतं श्रीराधामोहनयोश्चरितानि भणति सति । कीदृशे जयदेवे ? कृतहरिसेवे । कृता हरेः उक्तलक्षणा सेवा येन तादृशे । कीदृशं ? सुकृतकमनीयं सुकृतैः शोभनाचरितैः कमनीयं काङ्क्षणीयं कोटिसुकृतैः काम्यते, तस्य दययैव महत्प्रसङ्गेन प्राप्यत इत्यर्थः । हरेरेव विशेषणं वा परमरमणीयमिति सुकृतकमनीयं च सुकृतैः शोभनैश्चरितैः कमनीयं सुन्दरमित्यर्थः । अभिसारिका चात्र नायिका । तल्लक्षणं—
मदनानलसन्तप्ता याभिसारयति प्रियम् ।
ज्योत्स्नातामस्विनी यानयोग्याम्बरविभूषणा ॥ [र.सु. १.२२५] इति ॥१५॥ (११.८)
* * * * *
पुनरप्यभिसारगतस्यान्यचेष्टितं निरूपयति—
विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुञ्जं गूञ्जन् मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥१६॥
विकिरतीति । हे कान्ते ! स्वकान्त्या वशीकृतवल्लभे ! तव प्रियः मदनस्य कामस्य त्वद्वियोगेन कदनं पीडनं तेन ग्लानो वर्तते । तथाविधः सन्किं करोतीत्यत आह मुहुर्वारं वारं त्वदागमनचिन्तया श्वासान्सन्तापनिःश्वसितानि विकिरति क्षिपति । पुरोऽग्रे मुहुर्दिश ईक्षते विलोकयति, अत्याकुलतया कस्या दिशः कदा वागमिष्यतीति युगपत्सर्वा दिशः पश्यतीत्यर्थः । तत्रापश्यन्मुहुः सङ्केतनिकुञ्जं प्रविशति । केनापि मार्गेण कुञ्जे प्रविष्टा भविष्यतीति मार्गं निरीक्ष्य निकुञ्जे विशतीत्युत्कण्ठातिशयो निरूपित इति भावः । कीदृशं कुञ्जं ? गूञ्जत्भ्रमरैः शब्दं कुर्वत्, अतो बहु अधिकं यथा स्यात्तथा ताम्यति ग्लानो भवति । एवंभूतोऽपि त्वदनुरागेण मुहुः वारं वारं केनाप्यद्भुतप्रक्रियाविशेषेण शय्यारचनं करोति । तत्रापि परितः यथा स्यादेवं मुहुरीक्षते ।
क्वचिच्च “विकिरति मुहुः श्वासान्नासपुरो मुहुरीक्षते, प्रविशति मुहुः कुञ्जं कूजन्मुहुर्बहु ताम्यति” इति पाठः । तदा नासपुरो मुहुरीक्षते त्वां ध्यायति, कूजन्मुहुः हा प्रिये हा प्राणेश्वरीति मुहुरार्तनादं कुर्वन्बहु ताम्यतीत्यर्थः । हरिणी छन्दः । दीपकोऽयमलङ्कारश्च ॥१६॥ (३६)
—ओ)०(ओ—
इदानीं साम्प्रतमेव गन्तुं साम्प्रतमिति हेतुमाह—
त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥१७॥
हे मुग्धे ! स्वसौन्दर्येण वशीकृतवल्लभे ! सुन्दरि ! स्वकार्यसाधनाज्ञानान्मूढे वा मुग्ध इति सम्बुद्धिः । तत्तस्माद्धेतोः विलम्बनं कालापनयनं विफलं हस्तगतसौख्यप्रतिबन्धकमित्यर्थः । असौ अभिसारक्षणः अभिसारयोग्यः समयः रम्योऽतिमनोहरः । तद्दर्शयति—त्वद्वाम्येन समं वक्रतया सहितं तिग्मांशुः सूर्यः समग्रं सामस्त्येन यथा स्यादेवमस्तं गतः । अथवा, समग्रमधुना आरम्भावसानमाधुर्ययुक्तो, न तु तव स तिग्मांशुः तव चित्तकाठिन्यं वियोगापादनेन सन्तापकत्वात। तमस्तिमिरं गोविन्दस्य मनोरथेन समं वाञ्छया सहितं सान्द्रतां निविडतां प्राप्तम् । गोविन्दस्य मनोरथोऽन्धकारश्च निविडो जात इत्यर्थः ।
अन्धकारस्योद्दीपनविभावात्प्रियागमनहेतुत्वाच्च मनोरथस्य निविडता । मदभ्यर्थना मद्याच्ञा दीर्घा बहुकालीना । कीदृशी ? कोकानां चक्रवाकानां करुणस्वनेन सदृशी तुल्या, विरहाधिक्येन कृपाविषयत्वप्रापकस्वभावात। त्वदेकनिष्ठः सोत्कण्ठः कान्तः, निविडान्धकारः, वक्रताधमताहमप्यनुकम्पनीयेति विलम्बनमयुक्तमिति भावः ।
सहोक्तिनामालङ्कारः । तदुक्तं दण्डिना काव्यादर्शे—सहोक्तिः सहभावेन कथनं गुणकर्मयोः [का.आ. २.३५१] इति । यथा सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः [का.आ. २.३५२] । शार्दूलविक्रीडितं वृत्तम् ॥१७॥ (३७)
—ओ)०(ओ—
यदुक्तं, रम्योऽभिसारक्षणः तदेवान्धकारस्यातिनिविडतया विविधरसचमत्कारत्वनिरूपणेन प्रलोभयन्ती वर्णयति—
आश्लेषादनु चुम्बनादनु नखोलेखादनु स्वान्तज
प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतोर्
दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥१८॥
इह तमसि दम्पत्योर्जायापत्योः व्रीडाविमिश्रो लज्जासमन्वितः कामरसः रसराट्मधुराख्यः कः कः नाम नो भवतीति न, अपि तु भवत्येवेत्यर्थः । किम्भूतयोर्दम्पत्योः ? अन्यार्थः सुरतादितरप्रयोजनमुद्दिश्य गतयोर्भ्रमान्मिलितयोः परिभ्रमणात्सङ्गतयोः सान्द्रे परस्परालापैः ज्ञातवतोः, “अहमस्याः पतिर्, अयं मम भर्ता” इति स्वरभङ्गादिलक्षणैः सात्त्विकविकारैः भावावगमाद्वा सम्भोगाभिप्रायमिति ।
तयोश्चेष्टितमाह—आश्लेषादनु चुम्बनम्, तदनु सुभटमन्मथक्षोभनार्थं नखोल्लेखः नखक्षतः । तदनु पश्चात्तस्य स्वान्तजस्य कामस्य उद्बोध उद्भटत्वम् । तदनु सम्भ्रमः कामोद्वेगात्नीव्यादि स्पर्शव्यग्रता । तदनु सुरतारम्भः, कामशास्त्रप्रणीतबन्धादिना सम्भोगारम्भः । तदनु प्रीतयोः समकालमेव लब्धानन्दयोः । तदुक्तं भरतेन—
आश्लेषचुम्बननखक्षतकामबोध
शीघ्रत्वमैथुनमनन्तसुखप्रबोधम् ।
प्रीतिस्ततोऽपि रसभावनमेव कार्यम्
एवं नितान्तचतुराः सुचिरं रमन्ते ॥ इति ।
अथवा कः कः रसो न भवतीति न, अपि तु सर्व एव रसो भवतीत्यर्थः । तत्र गाढान्धकारे भयव्याजेन शोकमिवानुकुर्वन्करुणस्याविर्भावः । नखक्षतादिना उत्साहात्मा वीरः । एवमपूर्वसुखानुभवनमिति सम्भ्रमाद्विस्मयसहचरोऽद्भुतः । कामोद्बोधेन हास्यः । रतारम्भात्सकलरसचक्रवर्ती रतिसखा शृङ्गारश्च समुल्लसति । तथा चोक्तं—
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ [ना.शा. ६.१७]
तेषु जुगुप्साक्रोधशमाः शृङ्गारविरोधान्न निरूपिताः । उक्तलक्षणानामप्यत्र तत्पोषणत्वेनैव ग्रहणं, न तु स्वातन्त्र्यम् । तथा च, दम्पत्योरपि अन्यप्रयोजनमुद्दिश्य गतयोरपि तमसः तादृशरसोत्पादकत्वकथनेन रससर्वस्वरूपयोर्भवतोर्मिलनविलम्बनमकार्यमिति ध्वनितम् ।
केचित्तु अन्यनायिकानायकनिमित्तं गतयोः भ्रमाद्भ्रान्त्या इयं ममाभिसारिका । अयं ममाभिसारक इति मिलितयोः परस्त्रीपरपुरुषत्वेन सङ्गतयोः सम्भोगानन्तरं सम्भाषणैर्जानतोः पश्चादुभयोः व्रीडाविमिश्रो रसो भवतीति व्याकुर्वन्ति, तन्न समीचीनम् । सख्या भगवत्प्रियाया अग्रे ग्राम्यरसकथनासम्भवात। शार्दूलविक्रीडितं वृत्तम् ॥१८॥ (३८)
—ओ)०(ओ—
इदानीं त्वत्प्राप्तिरेव तस्य सर्वस्वमित्याह—
सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरण्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥१९॥
हे सुमुखि ! सुन्दरवदने ! सुभगः श्रीकृष्णस्त्वां पश्यन्कृतकृत्यतां प्राप्नोतु, तव दर्शनादाविर्भूतसमस्तभगः स्यादिति भावः । उक्तं च—
ताभिर्विधूतशोकाभिर्भगवानच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ [भा.पु. १०.३२.१०] इति ।
कथंभूतां तां ? तिमिरेऽन्धकारे पथि वर्त्मनि सभयचकितं यथा स्यात्तथाभिसारसम्भ्रमेण मृगशावसदृशौ नेत्रे विन्यस्यन्तीं दिशि दिशि अर्पयन्तीव, अनेन विलोकनसौन्दर्यं च ध्वनितम् । पुनः किंलक्षणां ? प्रतितरु वृक्षं वृक्षं प्रति मुहुर्वारं वारं स्थित्वा स मे प्रियतमोऽत्रैवागमिष्यतीति पुनः मन्दं यथा भवेदेवं प्रतिकृति शोभनगत्या पदानि वितन्वतीं चरणारविन्दं धारयन्तीम् । पुनः कीदृशीं ? कथमपि भाग्योदयेन रहःप्राप्तामनङ्गस्य तरङ्गः उद्बोधो कामोल्लासो येषु यैर्वा तैरङ्गैरवयवैरुपलक्षिताम् । अङ्गैरिति विशेषणे तृतीया । अक्षैरनङ्गतरङ्गभिरिति सौन्दर्याधिक्यैरवयवानामप्युल्लासो ध्वनितः । सुभगः सुमुखीति च समानरूपत्वात्प्रीतियोग्यत्वं, चन्द्राननत्वादन्धकारेऽपि प्रकाशसामर्थ्यमपि ॥१९॥ (३९)
—ओ)०(ओ—
सर्गान्ते कविराशिषमाशास्ते—
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली
नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।
स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥२०॥
राधेति । देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु । किंभूतः ? श्रीराधायाः मुग्धं सुन्दरं यन्मुखारविन्दं, तत्र मधुपः मुखारविन्दे माधुर्यं पाति रक्षति नित्यानुकुलतया वृद्धिं प्रापयतीत्यर्थः । तन्माधुर्यमतितृष्णया पिबतीति वा । त्रिलोक्या यौ मौलिस्थली वृन्दाटवी तदलङ्कारायोचितनीलरत्नम् । उक्तं च—अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी [प.पु.] इति । पृथिव्या भाररूपोऽवतारो येषामसुराणां तेषामन्तको नाशकः । अत एव कंसस्य ध्वंसने धूमकेतुस्तद्विनाशपिशुनग्रहः । जातमात्र एव तस्य नाशं सूचितवानित्यर्थः । अथवा धूमकेतुरनलः स्वयमेव विनाशकः । अनेन स्वच्छन्दकेलिप्रतिपादाय सामर्थ्यरूपो नायकगुणः कथितः । तदेवाह—स्वच्छन्दं व्रजसुन्दरीजनस्य मनस्तोषाय चित्ताभिलाषपूरणाय चिरमपारं प्रदोषो रजनीमुखमिव । चिरं नित्यमेवावत्विति वा । तथा च—
द्वे नाम्नी नन्दभार्याया यशोदा देवकीत्यपि ।
अतः सखुयमभूत्तस्याः देवक्या शौरिजायया ॥
इति केचित्पुराणवचनं पठन्ति ॥२०॥ (४०)
—ओ)०(ओ—
इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्सो नाम
पञ्चमः सर्गः ॥
[साकाङ्क्षपुण्डरीकाक्सेति] श्रीराधानुरागोज्जृम्भितसङ्गमाभिलाषेण मन्मथाक्रान्तनयनः कृष्णो यत्र तादृशः पञ्चमः पञ्चमकामबाणतुल्यः ।]
**************************************************************************
.
(६)
षष्ठः सर्गः
**सोत्कण्ठवैकुण्ठः **
एवं पञ्चमे श्रीकृष्णस्य उत्कण्ठामभिसरणं च निरूप्येदानीं षष्ठेऽस्मिन्कन्दर्पशरपीडितां गन्तुमशक्तां राधां मनोरमसङ्केतनिकुञ्जे संस्थाप्य तच्चेष्टितं सखी कृष्णं प्रत्याह—
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥१॥
अथशब्दो मङ्गलार्थः आनन्तर्यार्थो वा । सखी तच्चरितं तस्याश्चेष्टितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच । कीदृशे ? मनसिजेन कामेन मन्दे व्यथिते । कामो मन्दस्तुच्छो यस्मात्कोटिकन्दर्पस्वरूप इत्यर्थो वा । किं कृत्वा ? तां श्रीराधां लतागृहे क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वा । अस्मिन्नेव निकुञ्जे समागत्य मामनुनेष्यतीत्येवं ज्ञात्वेत्यर्थः । कीदृशं ? अनङ्गविक्रियातः गन्तुमशक्तां चलितुमसमर्थाम् । अथ, गोविन्देऽनुरक्तामिति व्याख्येयम् । तेनैव बहुकालार्त्या प्रयातुमसमर्थामित्यर्थः ॥१॥ (४१)
—ओ)०(ओ—
सखी यदाह—तद्गीतेन कथयति—
॥ प्रबन्धः १२ ॥
गुणकरीरागेन रूपकतालेन गीयते ।
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥२॥
नाथ हरे सीदति राधा वासगृहे ॥ ध्रु. ॥
पश्यतीति । गीतस्यास्य गुणकरीरागः, रूपकतालः । रागलक्षणं—
रागोत्सुका कान्तपथि प्रतीक्षां
आपालयन्ती मृदुपुष्पतल्पा ।
इतस्ततः प्रेरितदृष्टिरार्ता
श्यामा तनुर्गुणकरी प्रसिद्धा ॥ इति ।
तालस्तु कथितः प्राक। गीतार्थस्तु—हे नाथ ! हे हरे ! राधा वासगृहे सङ्केतितनिकुञ्जे मन्दिरे सीदत्यवसन्ना भवति । विरहदुःखापहाराद्वात्र हर इति सम्बोधनम् । नाथेति नाथ नाधृ याच्ञोपतापैश्वर्याशीःषु इति हे स्वामिन्! समर्थेन त्वया स्वीयानां दुःखाशान्तिर्नोचितेति दैन्योक्तिः । ध्रुवपदम् ॥
अथ पदानि । तदद्भुतानुरागविवर्तं दर्शयति—रहसि एकान्ते भावार्थं त्वामेव दिशि दिशि प्रतिदिशं पश्यति । कीदृशं ? तत्तस्याः राधायाः यदधरं तदेव मधुरमधूनि स्वाद्वमृतानि पिबन्तं तदधरसंसर्गान्मधुराणि मधूनीव यान्यक्षराणि तानि शृण्वन्तमिति वा । अत्यादरेण श्रवणं पानमुच्यत इति ।
केचित्तु [रसमञ्जरी]—त्वदधरेत्यादि पठन्ति । त्वच्छब्दस्यान्यपरत्वादन्याया अधरमधुरमधूनि पिबन्तमिति व्याकुर्वन्ति च । तन्न समीचीनं, वासकलक्षणविरोधात। उक्तलक्षणं तु सम्भवति । यदुक्तं—त्रिभुवनमपि तन्मयं विरहे [पद्या. २३९] इति ॥२॥ (१२.१)
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ती चलन्ती ॥३॥
त्वदभिसरणे तवाभिसारे यो रभस उत्साहस्तेन वलन्ती अभिमुखी भवन्ती कियन्ती कतिपयानि पदानि चलन्ती गच्छन्ती सती पतति, त्वद्विरहमूर्छया गन्तुमसमर्थेत्यर्थः ॥३॥ (१२.२)
हा कष्टमेवं चेदशक्तात्, तर्हि कथं जीवतीत्याह—
विहितविशदबिसकिशलयवलया ।
जीवति परमिह तव रतिकलया ॥४॥
परं केवलं सा तव रतिकलया पूर्वानुभूतस्य तव रतेराकलनेनागमनं प्रतीक्षया, तव रतेः कलावृद्धिस्तया वा जीवति, जीवनं प्रवर्तयतीत्यर्थः । कीदृशी ? विहिताः कृताः सखीजनैः तापापनोदने विशेषेण हितं पथ्या इति वा । विशदाः शुभ्रा बिसकिशलया मृणालाङ्कुरा एव वलया कङ्कणानि यस्या तादृशी । कलनाकालयोः वृद्धौ कला इति विश्वः ॥४॥ (१२.३)
किं च—
मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥५॥
मुहुर्वारं वारं वीक्षिता मण्डनैः बर्हमुकुटमकराकृतिकुण्डलादिभिर्लीला तवानुकृतिर्यया सा । अहं मधुरिपुरिति भावनशीला चिन्तनपरा । रहसि तव वेशं विधायाहमेव मधुरिपुरिति चिन्तनस्वभावेत्यर्थः । लीला च हावविशेषस्तदाह वत्स्यायनः —
प्रियजनस्य चेष्टा वानुरागातिशयेन वा ।
क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः ॥ इति ।
तथा चोक्तम्—
गत्यानुरागस्मितविभ्रमेक्षितैर्
मनोरमालापविहारविभ्रमैः ।
आक्षिप्तचित्ताः प्रमदा रमापतेस्
तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥
गतिस्मितप्रेक्षणभाषणादिषु
प्रियाः प्रियस्य प्रतिरूढमूर्तयः ।
असावहं त्वित्यबलास्तदात्मिका
व्यवेदिषुः कृष्णविहारविभ्रमाः ॥ [भा.पु. १०.३०.२३] इति ।
मधुरिपुरिति कठिनचित्तस्य तस्य चिन्तनेन दृढचित्ततया कालक्षेपं करोतीति सख्याः कटाक्षितं, मधोर्वसन्तस्यापि रिपुः । तया सह विलासं विना व्यर्थकारीति वा ॥५॥ (१२.४)
तद्भावापन्नाया अपि तत्सङ्गमार्तिमाह—
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥६॥
हरिर्मच्चित्तापहारी विरहसन्तापहर्तेति वा । अभिसारसङ्केतस्थलं त्वरितं शीघ्रं कथं कस्माद्धेतोः नोपैति नागच्छतीत्यनुवारं वारं वारमिदं वदति ॥६॥
अपि च—
श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥७॥
सा मदनमदभ्रान्ता त्वय्याविष्टचित्ता हरिरुपगतः प्राप्त इति बुद्ध्या अनल्पमधिकं बहुमाननीयं वा तिमिरमन्धकारं श्लिष्यत्यालिङ्गति चुम्बति च । अनल्पं यथा स्यात्तथेति वा । कीदृशं ? सजलमेघसदृशम् ॥७॥ (१२.६)
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥८॥
भवति त्वयि विलम्बिनि विलम्बं कृतवति सति विगलितलज्जा गतलज्जा सति विलपति । हे निष्कृप ! कथमेतावदौदास्यं मयि त्वयाचरितमिति विलापं करोति, रोदित्यश्रूणि मुञ्चति । सा वासकसज्जा वासके लीलागृहे कान्तसङ्गमाय सज्जा सम्भृतसकललीलोपकरणा ।
भरताद्यैरभिदधे स्त्रीणां वासस्तु वासकः ।
स्ववासकवशात्कान्ते समेष्यति गृहं प्रति ।
सज्जीकरोति चात्मानं या सा वासकसज्जका ॥ इति ।
वासकसज्जकेयं नायिका । तथा चोक्तं शृङ्गारतिलके—
भवेद्वासकसज्जासौ सज्जिताङ्गरतालया ।
निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा ॥ [शृ.ति. १.७६] इति ॥८॥ (१२.७)
श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥९॥
श्रीजयदेवकवेरिदमुदितं कथितं गीतं रसिकजनं शृङ्गाररसभावभावितान्तःकरणमतिमुदितमतिशयेनानन्दं तनुतां विस्तारयतु, शृङ्गाररसविशिष्टभक्त्यास्वादचतुरेणास्वादनीयमित्यर्थः ॥९॥
* * * * *
विपुलपुलकपालिः स्फीतसीत्कारमन्तर्
जनितजडिमम्काकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी ॥१०॥
हे कितव धूर्त ! मृगक्षी मृगशावलोचना तवामन्दकन्दर्पस्य कन्दर्पकोटिरमणीयमूर्तेः त्वत्सम्बन्ध्यनल्पकन्दर्पस्य वा, अनल्पा कन्दर्पचिन्ता वा, स मम प्राणकोटिवल्लभः कदा वागमिष्यतीत्याद्येवंरूपा तां विधाय हृदि कृत्वा ध्याने लग्ना त्वयि सङ्गता सती रसजलधौ शृङ्गाररससमुद्रे मग्ना बभूवेत्यर्थः ।
किं च कुर्वती ? तत्स्पर्शोन्मदनोन्मथितचित्तस्य तव स्तनालभनाधरपाननीवीबन्धनमोचनासक्तिमाकलय्य काकुव्याकुलं काक्वा ध्वनिविकारविशेषेणाकुलं यथा स्यादेवं व्याहरन्ती कुट्टमिताख्यहावमाश्रित्य, मुञ्च मुञ्च न न मां मामित्यादिकुपितेव निषेधकं वाक्यं कथयन्तीत्यर्थः । उक्तं च—काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः इति । कुट्टमितलक्षणं, यथा—
केशाधरादिग्रहणे मोदमानेऽपि मानसे ।
दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत॥ [र.सु. १.३५८] इति ।
पुनः कथं यथा स्यात्? स्फीतः प्रवृद्धः शीत्कारो यत्र एवं यथा स्यात्तथा । नखोल्लेखादिनेवोद्भटशीत्कारं करोतीत्यर्थः । बाह्यविकाराननुवर्ण्येदानीमन्तर्विकारमाह—पुनः कथं यथा स्यात्? अन्तश्चित्ते जनितो जडिमा जाड्यं स्तम्भः आनन्दविकारस्तद्यथा स्यात्तथा । अनेन रताख्यः भाव उक्तः । एभिर्भावैः रसजलधौ मग्नत्वमुक्तम् । स्तम्भः चेष्टाप्रतिघातः इत्यानन्दावाप्तिलक्षणम् । जडताख्या नवम्यवस्थापीयं ध्वनिता । यर्हि पारोक्षेऽप्येवं तर्हि त्वत्सङ्गमे कीदृशः रसोदयो भविष्यतीति को वर्णयितुं समर्थ इति भावः । अन्यस्यापि जलधिमग्नस्यान्तर्जाड्यं रोमाञ्चः । शीत्कारः त्रुट्यद्वर्णभाषणं काकुनिर्गमनं चिन्ता च भवतीति ॥१०॥ (४२)
—ओ)०(ओ—
ननु मया सह रमणं जातमेव । किमर्थं मम तत्र गमनं चेदेवं रममाणापि साक्षात्त्वां विना वक्ष्यमाणव्यापारवृत्तापि निशां नेतुं समर्था भविष्यतीत्याह—
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥११॥
हे कृष्ण ! एषा वरतनुर्सुन्दराङ्गी त्वया विना त्वां ऋते निशां रात्रिं न नेष्यति प्रभातं प्रापयितुं समर्था न भविष्यतीत्यर्थः । कीदृशी ? इत्यनेन प्रकारेणाकल्पोऽलङ्कारः विकल्पः त्वदागमनशङ्का तल्पं शय्या, रचना दूतीप्रेषणादित्वदागमनोपायचिन्तनम् । एभिः सङ्कल्पो मनसो वृत्तिरित्यादिलीलाशतव्यासक्तापि त्वत्सङ्गमाभिलाषिण्यास्तस्याः न कुत्रापि मनसो विराम इति भावः ।
अलङ्कारादिव्यासङ्गं दर्शयति—अङ्गेष्विति । अङ्गेष्वाभरणमलङ्कारः तव सुखाय मङ्गलाय वा बहुशोऽनेकप्रकारेण करोति । इत्याकल्पः कथितः । पत्रेऽपि सञ्चारिणि वृक्षपत्रेऽपि पक्ष्यादिना चलति सति त्वां प्राप्तमागतं परिशङ्कते सर्वतः वितर्कयन्तीत्यर्थः । अनेन विकल्पः ।
अपि च तव कामकेलिनिमित्तं शय्यां वितनुते विविधविचित्रोपधानादिभिर्नानाप्रकारेण विस्तारयति—एवं तल्परचनेयं दर्शिता । चिरं बहुकालं ध्यायति त्वदागमनोपायं चिन्तयति । [इति सङ्कल्प उक्तः ।] । एभिर्व्यापारैस्तवागमनाशया कालं नयतीत्यर्थः । अयमल्पताख्यो हावः । तदुक्तं—
अल्पता सा तु कथिता प्रियस्यागमने सति ।
दिदृक्षयोभयोस्तद्वत्ससम्भ्रममलङ्कृतिः ॥ इति ।
आकल्पवेषौ नेपथ्यमित्यमरः । तर्को विकल्पः शङ्का च इति । सङ्कल्पः कर्म मानसमिति ॥११॥ (४३)
—ओ)०(ओ—
सर्गान्ते कविराशिषं प्रयुङ्क्ते—
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥१२॥
वाण्यो जयन्ति सर्वोत्कर्षेण वर्तन्ते । भावगर्भितया वक्तुर्वैदग्ध्याख्यापनेन तत्त्वेन च गुरुजनवञ्चनया सम्भोगसम्पत्तिसम्पादनात। किंभूता गिरः ? सायमतिथिप्राशस्त्यगर्भाः सायंकाले येऽतिथयः तेषां प्राशस्यः स्वागतादिप्रशंसा, धन्योऽयमित्यतिथिर्गृहिणां पुण्योत्पादकः । वस्तुतस्तु प्रियाभिसारसङ्केतज्ञापनादयं बहुसुखदाता इति गर्भेऽभ्यन्तरे यासां ताः । प्रशंसयाभ्यन्तरेऽभिप्रायविशेषयुक्ता इत्यर्थः । कीदृशस्य गोविन्दस्य ? नन्दान्तिके पितुः समीपे तत्तादृक्सङ्केतसूचनारूपमध्वगमुखान्निःसृतं श्रीराधाया वचनं गोपतः सङ्गोपनं कुर्वतः ।
किं तत्? इति । हे भ्रातः पथिक ! भ्रात इति कोमलामन्त्रणे । भाण्डीरभूमीरुहि वटवृक्षे किं विश्राम्यसि ? विश्रामं मा कृथाः । तत्र हेतुः—कृष्णभोगिभवने कृष्णश्चासौ भोगी च तस्य भवने कृष्णसर्पावासे । पक्षे—शृङ्गारिणः श्यामसुन्दरस्य विलासगृहे । पक्षद्वये—नेह स्थेयमिति भ्रातृपदोपादानम् । श्लेषालङ्कारश्च । इतो वटात्सानन्दं सकलर्द्धिमन्तं नन्दस्यास्पदं मन्दिरं न याहि, अपि तु याहीति । शून्यसर्पावासपरित्यागेन श्रीमद्गृहातिथ्येन च निर्वृतो भविष्यसीत्यर्थः । तद्दूरे भविष्यतीति । अत आह—दृष्टिगोचरमिति आसन्नमेव । पथिकवचनेन सङ्केतसूचनात्कृष्णस्य तादृग्वाग्वैभवप्रकटनेन श्रीराधायाः वाचो जयन्तीत्यपि ध्वनितम् ।
अत्र चातुर्यादिगुणविशिष्टौ राधामोहनावालम्बनौ, स्वयंदूती च नायिका । एवं रसराट्शृङ्गारो निरूपितः । वटाद्युद्दीपनविभावाः ॥१२॥ (४४)
॥ इति श्रीगीतगोविन्देऽभिसारिकावर्णने धन्यवैकुण्ठो नाम
षष्ठः सर्गः ॥
[धन्यवैकुण्ठेति] श्रीराधानुरागास्पदत्वेन धन्यश्चासौ विगतविरहमूर्छश्च वैकुण्ठो हरिर्यत्र सः ॥
***********************************************
.
(७)
सप्तमः सर्गः
नागरनारायणः
पूर्वं तावदुभयोरनुरागं निरूप्य इदानीं रसान्तरप्रवेशेन रसविशेषवैचित्र्या भावोद्रेकं प्रकटयन्पुनरपि हेतुपूर्वकं विप्रलम्भाख्यशृङ्गारमवतारयति—
अत्रान्तरे च कुलटाकुलवर्त्मपात
सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालैर्
दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥१॥
अत्रास्मिन्नेवावसरे इन्दुश्चन्द्रो अंशुजालैः किरणसमूहैर्वृन्दावनान्तरं वनमध्यमदीपयत्प्रकाशितवान। अनेनालौकिकश्चन्द्रोऽयं वृन्दावनान्तरं प्रकाशितवान्न त्वन्यत्रेति परम निविडस्यान्तरव्यापकत्वेन प्रकाशबाहुल्यमप्युक्तम् । अथवा वृन्दावनान्तरवर्तिनोर्नागरीकिशोरयोरङ्गमुद्दीपयन्नित्यर्थः, कामसहचरत्वात। चन्द्रस्योद्दीपनत्वमाह—कीदृशः ? दिक्पूर्वा दिक्सैव सुन्दरी तस्या वदने चन्दनबिन्दुः मण्डलाकारसकुङ्कुमोद्घृष्टश्रीखण्डतिलकः । श्रीराधावदने तिलकादिनिर्माणस्पृहा कृष्णस्यास्य दर्शनेन भवतीति भावः । विप्रलम्भहेतुत्वं दर्शयन्विशिनष्टि । कीदृशः ? स्फुटा प्रकटीभूता लाञ्छनश्रीः चिह्नविशेषशोभा यस्मिन्तादृशः ।
तत्रोत्प्रेक्ष्यते—कुलटाकुलस्य श्रीकृष्णेऽभिसारिकासमूहस्य यो वर्त्मपातः सङ्केत आगमनमार्गप्रतिबन्धस्तेन सञ्जातमुत्पन्नं पातकं यस्य तादृश इव । उक्तं च—
किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो
विषोढा भूयस्यः किमिति कुलपालीकटुगिरः ।
इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ
सरोजाक्षी शोणं दिशि नयनकोणं विकिरति ॥ [पद्या. १९५] इति ।
अत्र रूपकोत्प्रेक्षेऽलङ्कृती । केचित्तु श्रीवृन्दावनेश्वर्या विप्रलम्बमसहमानाः पूर्वसर्गान्ते संयोगमनुवर्णयन्त्यत्र सप्तमे च वैचित्त्यविप्रलम्बाख्यमद्भुतरसविवर्तं निरूपयन्ति । तत्रैवं सङ्गतिः—पूर्वसर्गे स्वयंदौत्येन संयोगः । अग्रिमाष्टपद्या प्रेमविलापः । ततः अजानन्त्या दूत्या विषादव्यञ्जनेन स्वीयमेव रमितमन्यामुद्दिश्य प्रबन्धद्वयेन श्रीराधाया निरूपितं सर्गान्ते प्रणयालापामृतं निपीय तत्सङ्गमचिह्नैरेव नागरमौलेः तस्या अग्रे प्राकट्यं—नीलनिचोलेत्यादि । ततोऽष्टमे उद्दण्डभावमदविह्वलया नागर्या कृतानुनयविनीतस्यापि याहि याहीति तिरस्कारः । तदग्रे सुगम एव ।
तदीयानां परितोषायैवेदं व्याहृतं, तत्क्षन्तव्यं [इति दीपिका] । तदानेन श्लोकेन श्रीराधया क्रीडति गोविन्देऽन्याभिसारिकाणां रोधकत्वं वर्णितम् । अत एव लाञ्छनश्रीरिति तासां वर्तमानपातकेन जातकलङ्कस्यापि तयोः प्रीत्यापादनेन शोभैव बभूवेत्यर्थः । अन्यत्समानम् ॥१॥ (४५)
—ओ)०(ओ—
विप्रलम्भस्य हेतुं प्रदर्श्येदानीं तद्दर्शयति—
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सपरितापं चकारोच्चैः ॥२॥
सा राधा उच्चैरत्यर्थं विरचितः कृतो नानाविधः—क्वासि कान्ते ? कथं शठ मामुपेक्षसे ? इत्यादिविलापो यत्र एवं यथा स्यात्तथा परितापं चकार कृतवती । किंभूता ? विधुरा विरहदुःखिता किं सति ? शशधरबिम्बे चन्द्रमण्डले प्रसरति सति । पुनः किं सति ? माधवे नायकशिरोमणौ विहितविलम्बे सङ्केतागमनं प्रति कालातिक्रमं कृतवति सति । प्रेमकौतुकदर्शनाय सखीभिः सह सम्मतं विधाय तत्रैव निलीय स्थिते सतीत्यर्थः । उद्दीपनविभावश्चन्द्रः ॥२॥ (४६)
—ओ)०(ओ—
यदुक्तं विलापं चकार तदष्टपद्या वर्णयति—
॥ प्रबन्धः १३ ॥
मालवरागयति तालाभ्यां गीयते ।
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥३॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ध्रुव॥॥
गीतस्यास्य मालवरागः, प्रतिमण्ठस्तु तालः । तल्लक्षणं कथितं प्राक। विप्रलब्धा चात्र नायिका—
प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥ [शृ.ति. १.७८] इति ।
गीतार्थस्तु—हे सखि ! इहास्मिन्समये स्वान्तर्दुःखप्रतीकाराय कं जनं शरणं यामि ? अथवा कं जलं तापशान्त्यै शरणं यामि ? तेन विना जलादिषु प्रविशामीत्यर्थः । किंभूताहं ? सखीजनवचनवञ्चिता सख्य एव जना इतरजनवदुपदिशन्त्यः तद्वचनैः वञ्चिता प्रतारिता वारं वारं स्वाभिमतोद्यमे हते अहं नानाप्रकारवाक्यैः वारितेत्यर्थः ।
को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च ।
पावके च मयूरे च सुखशीर्षजलेषु कम् ॥ इति विश्वः ।
शरणं गृहरक्षित्रोः इत्यमरः । ध्रुवपदम् ॥
केवलं सखीजनैर्वञ्चिता किं ? अपि तु, कोटिप्राणाभीष्टेनापीत्याह—हरिं स्मरणमात्रेण सकलदुःखहर्तापि कथितसमयेऽपि कथितो यः समयः कालोऽस्मिन्नेवावसरे सर्वथैव मया सङ्केतस्थलमागन्तव्यमिति । अहह खेदे, तदपि वनं सङ्केतनिकुञ्जं न ययौ न प्राप्तवान। अतो ममेदं यौवनं नवीनाद्भुततारुण्यममलरूपमपि निर्मलसौन्दर्यमपि द्वयं विफलमकृतार्थमित्यर्थः । यौवनलक्षणं—
नितम्बो विपुलो मध्यं कृशमङ्गं वरद्युति ।
पीनौ कुचावुरुयुग्मं रम्भाभं पूर्णयौवने ॥ [उ.नी. १०.२१]
तन्माधुर्यम्—
न वित्रस्ता का ते प्रतियुवतिरासीन्मुखरुचा
दधार स्तैमित्यं प्रणयघनवृष्ट्या तव न का ।
व्रजे शिष्या काभून्न हि तव कलायामिति हरेर्
निकुञ्जस्वाराज्ये त्वमसि रसिके पट्टमहिषी ॥ [उ.नी. १०.२३] इति ।
भूषणाभूषणाभ्यां हि चमत्कारेण नेत्रयोः ।
परस्परस्मृतमुदममलं तं प्रकीर्तितम् ॥ इति ॥३॥ (१३.१)
अपि च—
यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥४॥
यद्यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि वनमपि शिलितमनुभूतम् । अथवा गहनमपि न क्रियते, तदपि कृतम् । तेन श्रीकृष्णेन निमित्तभूतेन ममेदं हृदयं मर्म असमशरेण विषमबाणेन प्रणयकौटिल्येन कीलितं विद्धम् । असमशरेण कामेन॥४॥
मम मरणमेव वरमति वितथकेतना ।
किमिह विषहामि विरहानलमचेतना ॥५॥
एवं वञ्चिताया मम मरणमेव वरं श्रेष्ठं, न तु देहधारणम् । किंलक्षणाहं ? अतिवितथकेतना अतिशयेन वितथं मिथ्याभूतं केतनं शरीरं यस्यास्तादृशी, अकृतकार्यत्वात। अथवा, अतिक्रान्तवितथमतिवितथं सत्यं केतनं लाञ्छनं धिगियं मानवती प्रेष्ठोपक्षेयापि जीवतीति यस्यास्तादृशी । अथवा अतिवितथं निष्फलं केतनं प्रेष्ठसङ्गमं भविष्यतीति सखीनामुपनिमन्त्रणं यस्यास्तादृशी । अथवा अतिशयेन निरर्थकं जातं केतनं बहुप्रेम्णा चिरकालमनोहरघातैर्निर्मितशय्यादिभिः निकुञ्जरूपं गृहं यस्यास्तादृशी । इति हेतोः इह वने अचेतना ज्ञानशून्या । अथवा अः श्रीकृष्णश्चेतना यस्यास्तादृशी । अथवा, एवंविधाया अपि कृष्णे चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहाग्निं किं किमिति विषहामि सहामि । तस्मात्पूर्वनिश्चितमेव वरं मनागिष्टं यदि देहान्तरेऽपि तस्य प्राप्तिः स्यात।
न्यायं श्रेष्ठो वरः प्रोक्तो मनागिष्टे मतं वरमिति धरणिः । वितथं त्वनृतं वचः इत्यमरः । केतनं लाञ्छने काये गृहे चोपनिमन्त्रणे इति विश्वः ।
अतिवितथचेतनेति क्वचित्पाठः । तत्र अतिवितथमतिव्यर्थं चेतनं प्रत्याशा यस्या सेत्यर्थः । चेतनं तूपदेशे स्यात्प्रत्याशायां च चेतनमिति विश्वः ॥५॥ (१३.३)
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥६॥
मामित्यादि । अहहेति खेदे । इयं मधुरा सरसा मधुयामिनी वसन्तरात्रिर्मां परमसुखारूपाणि विधुरयति विकलयति । कापि कृतं सुकृतं यया तादृशी कामिनी स्फलः कामो यस्या हरिं तस्याः पीडां हरतीति तथाभूतमनुभवति आलिङ्गनादिनेति शेषः । विधुरं स्यात्प्रविश्लेषे विधुरो विकलेऽन्यवतिति विश्वः । मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे इति धरणिः ॥६॥ (१३.४)
अहह कलयामि वलयादिमणिभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥७॥
अहहेत्यादि । अहहेत्यद्भुते । वलयादिमणिभूषणं कटकादिकं विविधशैत्यादिगुणयुक्तरत्नखचितमलङ्कारं रत्नमयं वा, हरिविरहदहनवहनेन कृष्णविरहाग्निधारणेन बहुदूषणमनेकदोषयुक्तं कलयामि पश्यामि । तदङ्गतापेन तादृशानामपि तापकत्वमिति भावः ॥७॥ (१३.५)
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशिलया ॥८॥
कुसुमेत्यादि । स्रगपि पुष्पमालापि अतनुशरलीलया कामबाणविलासेन मां हृदि मनसि हन्ति ताडयति । कामबाणाः पुष्पाण्येव । स्रगपि पुष्पमयी । अतो तल्लक्षणयेत्युक्तम् । कीदृश्या लीलया ? अतिविषमशिलया अतिशयेन विषमं शीलं स्वभावः यस्यास्तया । तदुक्तं—
अपूर्वेयं धनुर्विद्या मन्मथस्य महात्मनः ।
शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ इति ।
बाणस्तावदन्यक्षिप्तोऽन्यं हन्ति, अयं तु येन धृतस्तमेव विध्यतीति विषमत्वं वा । अथवा अतनुशरलीलया स्थूलबाणचेष्टया अतनुः शरीररहितः प्रविशति, परं तु न तु दृश्यतेऽतो दुर्निवारः इति वा । कीदृशी ? कुसुमसुकुमारतनुं कुसुमादपि सुकुमारा तनुर्यस्यास्तादृशीं सजातीयेन सजातीयस्य हननमपीति विषमत्वमेव प्रतिपादितं, पीडासहनासामर्थ्यं च ध्वनितम् ।
कुसुमसुकुमारतनुरिति पाठः । किंभूता स्रक्? कुसुममयी सुकुमारा च तनुः सूक्ष्मा चेति । अत्रापि विषमत्वे तात्पर्यं शीलं स्वभावसद्वृत्ते इत्यर्थः ॥८॥ (१३.६)
किं च—
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥९॥
अहमिहेति । अहं दुःखितापि तदेकनिष्ठा इह निकुञ्जे निवसामि तिष्ठामि । कीदृशी ? न गणिता न सम्भाविताः वनवेत्रलताश्यथा तादृशी । अनेन दुर्लङ्घ्यमप्युल्लङ्घितमित्युक्तम् । अथवा शिरश्चालनेन गणितास्तमन्वेषयन्त्याः परिसङ्ख्याता वनवेतसः वृक्षा यया सा गणितवनवेतसाहमिह न निवसामि किं ? अपि तु निवसाम्येवेत्यर्थः । मधुसूदनः श्रीकृष्णो मां चेतसा स्मरति न । मधुसूदनपदेन कठिनत्वं चापल्यमपि सूचितम् । मधुं वसन्तं मधुररसं वा नाशयतीति वा मधुसूदनः । स्वाधीनचेतोमात्रसाध्यं यत्र स्मरणमपि न करोति, तत्र स्निग्धेन मनसा कुतो निरन्तरा ममानुवृत्तिरिति चेतसेत्यनेन ध्व्नैतमन्यथा स्मरणस्य चेतोजन्यत्वेन चेतसेत्यस्य पदस्य वैयर्थ्यापत्तेः ॥९॥ (१३.७)
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥१०॥
हरिचरणेति । हरिचरणौ शरणे यस्य एतादृशो यो जयदेवकविस्तस्य भारती वाणी हृदये वसतु, अर्थात्कृष्णभक्तानाम् । हरिचरणशरणेत्यनेन वाण्यो अलौकिकत्वमुक्तम् । कीदृशी ? कोमलाः अकठिनवर्णाः, कोमलत्वं सुखोच्चारः स्पष्टार्थपरिभूषितः इति । कलावती कवित्वकलायुक्ता । केव ? युवतिरिव कीदृशी कोमला मृद्बङ्गी कलावती चतुःषष्ठिकलाकुशला, अथवा हे कोमल ! सरसश्रोतः ! हे हरिचरणशरणेति वा । कलावती कलौ अतिक्रान्ता इः लक्ष्मीर्मोक्षादिसम्पत्तिर्यया सा यां भारतीं गायतां शृण्वतां मोक्षादिष्वप्यादरो न भवतीत्यर्थः । युवतिरपि कलौ प्रणयकलहे मानादिभङ्ग्यातिक्रान्ता लक्ष्मीर्यया सा । अथवा कलौ प्रेष्ठमाननामधिका लक्ष्मीः शोभा सौभाग्यसम्पत्तिर्यस्या सा । अथवा हे कोमल ! भक्तवात्सल्येन परममृदुल श्रीकृष्ण ! तव भक्तस्य भारती श्रीराधाचरितवर्णनरूपा वाणी यथा युवतिः पूर्वोक्ता वल्लभा श्रीराधेव तव मनसि वसति, तथैवेयमपि वसत्वित्यर्थः ॥१०॥ (१३.८)
* * * * *
तदेवमनयाष्टपद्या विप्रलब्धायाश्चेष्टितमनुवर्णेदानीं तस्याः कृष्णविषयकातिप्रेमदर्शनाय तदनन्तरमप्युत्कण्ठां वर्णयति—
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभिर्
बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सङ्केतीकृतमञ्जुवाञ्जुललताकुञ्जेऽपि यन्नागतः ॥११॥—
कान्तः कमनीयवल्लभः श्रीहरिः सङ्केतीकृतो यो मञ्जुर्मनोहरो वाञ्जुललताकुञ्जो वेत्रलतागृहं तत्रापि यत्यतो हेतोर्नागतः । तत्कामपि कामिनीं कामातुरां किमभिसृतः तदभिमुखं गतः ? कामिनीपदेन स्वसौभाग्याधिकं कटाक्षयति । स स्वभावतस्तु मामेवाभिलषति । तया बलात्किमाकृष्ट इति भावः ।
ननु मां विहाय कथमन्यामभिसरिष्यतीत्यन्यदाह—किं वेति । यद्वा, नित्यप्राप्तसङ्गमैर्बन्धुभिर्मित्रैः कलाकेलिभिर्क्रीडाकौशलैः बद्धो रुद्धः ? इदमपि न घटते । मद्विलासाकृष्टैस्तैः रोद्धुं न शक्यः । तत्राह—किमु वितर्के । मामभिसरन्सङ्केतस्थलमलभमानः अन्धकारिणि घनतरतरुच्छायया निविडान्धकारवति वनोपान्ते सङ्केतीकृतविपिनसमीपे भ्राम्यति परिभ्रमणं करोति किं ?
ननु नागरशिरोमणेः सहस्रशोऽनुभूतस्थलभ्रमः कथं भविष्यतीति निश्चित्याह—क्लान्तं मद्विश्लेषदुःखेन उपतप्तं मनो यस्य तादृशः मनागपि पथि मार्गे प्रस्थातुमेवाक्षमस्तेन चलितुमेवासमर्थ इत्यर्थः ।
उत्का चेयं नायिका—
उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।
तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा ॥ [शृ.ति. १.७५] इति तल्लक्षणम् ।
संशयाक्षेपालङ्कारोऽयं, तदुक्तं दण्डिना—
किमयं शरदम्भोदः किं वा हंसकदम्बकम् ।
रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ।
इत्येवं संशयाक्षेपः संशयो यन्निवर्तते ।
धर्मेण हंससुलभेनास्पृष्टघनजातिना ॥ [का.आ. १.१६३१६४] इति ।
वितर्के किं किमुत च इत्यर्थः । उपान्तः सविधेऽपि च इति विश्वः ॥११॥ (४७)
—ओ)०(ओ—
अथागतां माधवमन्तरेण
सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्कमाना रमितं कयापि
जनार्दनं दृष्टवदेतदाह ॥१२॥
अथेति । अथानन्तरमियं राधा एतद्वक्ष्यमाणं दृष्टवदाह—स्वयमवलोकितमिव कथितवती । किं कृत्वा ? सखीं माधवमन्तरेण कृष्णं विना आगतां वीक्ष्य दृष्ट्वा । किंभूतां सखीं ? विषादमूकां दुःखातिशयेन वार्तां वक्तुमसमर्थाम् । कीदृशी ? जनार्दनं कृष्णं कयाचिन्नायिकया रमितं विशङ्कमाना तर्कयन्ती । जनस्यार्दनस्वभावोऽयमतस्तस्य मम सन्तापकत्वमुचितमित्यभिप्रायेण जनार्दनपदोपादानम् ।
उपेन्द्रवज्रा वृत्तम् । पक्षान्तरे च श्रीकृष्णं सङ्केतनिकुञ्जेऽलभम्नानात्रापि व्याकुलां श्रीराधां निरीक्ष्य सखी विषादमूका तां वीक्ष्येत्यर्थः ॥१२॥
—ओ)०(ओ—
यदाह तद्गीतेन दर्शयति—
॥ प्रबन्धः १४ ॥
वसन्तरागयतितालाभ्यां गीयते ।
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥१३॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ ध्रुव ॥
गीतस्यास्य वसन्तरागः । एकताली तालश्च । गीतार्थस्तु—कापि युवतिः मधुरिपुणा श्रीकृष्णेन सह विलसति क्रीडति । किंभूता ? अधिकगुणा अधिकाः सौन्दर्यादयो गुणा यस्या सा । युवतिभिर्विलसतीति नायिकाकर्तृकं विपरीतरतमुक्तम् । तेन चान्याभिमुखस्य बलाद्रमणेनाधिकगुणेति न्यूनगुणेत्याकूतमपि व्यज्यते । मधुरिपुणेति मधुररसानभिज्ञेन चपलेन चेति कटाक्षितं च । किंलक्षणा ? स्मरसमरः कामसङ्ग्रामः सुरतमिति यावत। तत्रोचिता योग्यो विरचितः कृतो वेशः प्रसाधनं यया सा । पुनः कीदृशी ? गलितानि कुसुमानि येभ्यः तादृशा ईषद्विलुलिताः स्रस्ताः कृष्णेन सकचग्रहचुम्बनादानेन केशाः यस्या सा । विपरीतरते नायिकायाः केशग्रहणपूर्वकमेव चुम्बनं कार्यामित्युक्तं प्राक्(गीत ६.६) । कुसुमभरेति पाठे स्खलितः कुसुमभरो येभ्यस्तादृशा विलुलिताः केशा यस्या सेत्यर्थः ॥१३॥ (१४.१)
हरिपरिरम्भनचलित विकारा ।
कुचकलशोपरि तरलितहारा ॥१४॥
हरेः परिरम्भणेनालिङ्गनेन वलितो जातो विकारोऽनङ्गविक्रिया यस्या सा । कलशाविव कुचौ तत्र तरलितश्चञ्चलीकृतो हारो यस्या सा । कुचयोः कलशत्वेन तदुपरि हारस्य च वर्णनेन निर्विघ्नसुरतोत्सवनिर्वाहाय मङ्गलकलशस्थापनमिव कृतमिति ध्वनितम् । कामक्लेशहरणाद्धरिरित्युक्तम्, सम्भोगकौशलेन तच्चिन्तापहरणाद्वा ॥१४॥ (१४.२)
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥१५॥
क्रीडवशतो विचलद्भिश्चञ्चलैरलकैश्चूर्णकुन्तलैः ललितो मनोहरः आननचन्द्रो मुखशशी यस्या लालित्यं चालकानां मुखे चलत्कलङ्कचन्द्रमसः प्रतीतेः । पुनः कीदृशी ? तस्य श्रीकृष्णस्याधरपानरभसेन वेगेन कृता तन्द्रा तत्सुखानुभवेन चक्षुर्मीलनं यस्या सा । अतिमादकाधरपानेन मत्ततया कृतघूर्णेत्यर्थः ॥१५॥ (१४.३)
चञ्चलकुण्डलललित कपोला ।
मुखरितरशनजघनगतिलोला ॥१६॥
त्वां विना क्षणमप्यहं स्थातुं न पारये । त्वमेव मे प्राणवल्लभेत्येवं तस्यानुनयं श्रुत्वा, “धूर्त ! ज्ञातोऽस्येवं कथयन्त्याः शिरश्चालनेन क्रीडावेगेन वा चञ्चलाभ्यां कुण्डलेणभाव्ललितौ कपोलौ यस्या सा । पाठान्तरे—दलितौ मृदितावतिगतागतेन परमसुकुमारत्वात। किं च, मुखरिता शब्दायमाना रशना क्षुद्रघण्टिका यत्र तादृशस्य जघनस्य गतागतेन लोला चञ्चला । यथा सङ्ग्रामे विविधवाद्यैः शूराणां चापलं भवति । तथास्या अपि सुरतसङ्ग्रामेऽतिचपलायाः रसनाया मुखरत्वमिति भावः ॥१६॥ (१४.४)
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥१७॥
दयितस्य श्रीकृष्णस्य विलोकितेनाभिप्रायविशिष्टनिरीक्षणेन लज्जिता लज्जावती हास्ययुक्ता चेत्यर्थः । पुरुषमाणायास्तस्याः अधःस्थितस्याङ्गनायमानस्य तस्यावलोकनादीषदुत्पन्नलज्जायाः सुरतेऽनुपयोगत्वात्सम्भोगे हास्यमेवाभूदित्यर्थः । उक्तं च—सुरतादन्यत्र लज्जा परमभूषणमिति । बहुविधं पिकशिखिकलकण्ठहंसादीनामिव नानाप्रकारं कूजितं शब्दितं यत्र तादृशो यो रतिरसः सम्भोगानुरागस्तेन रसितं शब्दितं यस्या सेति वा । रसितं शब्दिते हृष्टे चेति ॥१७॥ (१४.५)
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥१८॥
विपुलाः प्रचुरा ये पुलका रोमाञ्चास्तेषां पृथुर्महान्यो वेपथुः कम्पः तस्य भङ्गास्तरङ्गा यस्यां सा । रोमाञ्चकम्पयोरुत्तरोत्तरोत्पत्त्या तरङ्गसाम्यम् । भङ्गस्तरङ्गे रुग्भेदे भङ्गो ज्वरविपर्यये इति विश्वः । अपि च, एवंभूतसुखानुभवेऽपि खेदो माभूदिति सुरतायासेन वा श्वसितं निःश्वासः परमानन्दावाप्तिसान्निध्यसूचकानुभवः, आनन्दव्याप्त्या च निमीलितमक्षिमुद्रणमिति श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवननङ्गः कामः रेतोलक्षणो यस्या । तदुक्तं रतिरहस्ये—
मुहुः स्वजघनाश्लेषः सीत्कारेण वीतलज्जता ।
हुङ्कारोच्छ्वसितं नार्या वीर्यसान्निध्यसूचकम् ॥ इति रतिरहस्ये ।
मूर्छना मीलनं चाक्ष्णोश्च्युतिकालस्य लक्षणमिति च ॥१८॥ (१४.६)
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥१९॥
कीदृशी ? श्रमजलकणभरेण सुरतायासप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं मुक्तास्रक्शोभां दधत्शरीरं यस्या सा । किं च, उरसि कृष्णवक्षसि परिपतिता पुनः सुरताय कृष्णोत्थानशङ्कया, स्वभुजाभ्यां तमावृत्य पतितेत्यर्थः । पतितेति निःसहत्वं कथितम् । तेन च सुरतान्तं सूचितम् । तदुक्तं—
अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंयतिः ।
जाते च्युतिसुखेनार्या विरामेच्छा च जायते ॥ इति ।
बन्धश्चायं हंसलीलकः—
नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि ।
कटिमान्दोलयेदाशु बन्धोऽयं हंसलीलकः ॥ इति ।
कीदृशी ? रतिरणे सुरतसङ्ग्रामे धीरा स्थिरा चतुरा वा । लवलेशकणाऽणवः इत्यर्थः । सुभगः सुन्दरश्च इति विश्वः । तथा च सप्तभिः पदैर्नायकस्य नैरपेक्ष्येणैव नायिकायाः क्रियाकथनात्पूर्वोक्तं न्यूनगुणत्वमेव सिद्धमिति भावः ॥१९॥ (१४.७)
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥२०॥
श्रीजयदेवकवेः भणितं यत्श्रीहरेः रमितं क्रीडितं, तत्कलेः कलुषं पापं हरिभजनवैमुख्यरूपमर्थात्गायकानां श्रोत्èणां च परिशमितं जनयतु निःशेषेण शाण्तिं नयतु ॥२०॥ (१४.८)
* * * * *
किं च, चन्द्रोऽयमधिकतरं व्यथयतीत्याह—
विरहपाण्डुमुरारिमुखाम्बुज
द्युतिरयं तिरयन्नपि वेदनाम् ।
विधुरतीव तनोति मनोभुवः
सुहृदये हृदये मदनव्यथाम् ॥२१॥
विरहेति । अये इति विषादे । अयं दृश्यमानश्चन्द्रो मम हृदये मदनव्यथां कामपीडामतीवाधिकां तनोति विस्तारयति । कीदृशः ? विरहेण विश्लेषेण पाण्डु धूसरं यन्मुरारेः कृष्णस्य मुखाम्बुजं वदनकमलं तस्य ##रिव द्युतिः कान्तिर्यस्य तादृशः । मदनव्यथां कथञ्चित्सोढ्वापि पाण्डु तन्मुखेन्दुस्मरणाद्दुःसा व्यथा जायत इति भावः ।
किं कुर्वन्? वेदनां ज्ञानमपि तिरयन्तिरोहितं कुर्वन्चन्द्रस्तदपराधमपि विस्मार्य चेतनोन्मूलनमपि करोतीत्यर्थः । व्यथाजनकत्वे हेतुमाह—मनोभुवः कामस्य सुहृन्मित्रं चन्द्रस्येश्वरमनोजन्यत्वेन कामस्य मनसिजत्वेन सोदरत्वम् । तेनापि क्षुब्धस्य कामस्य साहाय्यं चिकीर्षता चन्द्रेण व्यथा जन्यत इति भावः ।
चन्द्रमा मनसो जातः [ऋ.वे. १०.९०.१३] इति श्रुतेः । वेदना ज्ञानदुःखयोः, अये क्रोधे विषादे च सम्बुद्धौ सर्व्णेऽपि च इति विश्वः । तिरोऽन्तर्धौ तिर्यगर्थः इति च । तिरयन्प्रकटीकुर्वनिति वा ।
यमकालङ्कारश्चात्र । तदुक्तं दण्डिना—
एकद्वित्रिचतुष्पादैर्यमकानां विकल्पना ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ [का.आ. ३.२] इति ।
पक्षद्वयेऽप्येवं, तथापि द्वितीये व्याख्यानान्तरं—तदा अये इति स्मरणे—अये हृत्स्मरामि । यत्कृष्णेन मयैव क्रीडितमिति वेदनां दुःखं तिरोहितं कुर्वन्नपि किन्तु सम्प्रति तं न पश्यामीति मनोभुवः सुहृत्मां व्यथयतीत्यर्थः ॥२१॥ (४९)
—ओ)०(ओ—
पूर्वगीतेन कस्याश्चिद्रमणं निरूप्येदानीं स्वाधीनभर्तृका स्वमनोरथेनैव वर्णयति—
॥ प्रबन्धः १५ ॥
गुर्जरीरागैकतालितालेन गीयते ।
समुदितमदने रमणीवदने
चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं
मृगमिव रजनीकरे ॥२२॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ ध्रु. ॥
गीतस्यास्य गुर्जरीरागः, एकताली तालः । गीतार्थस्तु—मण्डनादिकौशलेन सर्वातिशायी, निःशङ्क इति वा । तद्गुणैर्न परा# वा । मुरारिरिति तद्वधकार्कश्येन रत्यभावं सूचयति । ## मुरारिपदेन सामर्थ्येन निर्भरक्रीडनं मुरयति वेष्टयति नारीं स्वरत्यामिति पुनरपि रतोत्सुकं वा । अधुना साम्प्रतं यमुनापुलिने यमुनायाः सैकते यद्वनं तस्मिन्रमते क्रीडति । अनेन सम्भोगश्रमहरणयोग्यदेशसम्पत्तिर्दर्शिता । ध्रुवपदम् ।
क्रीडामाह—रमणीवदने रम्यतेऽस्यामिति रमणी, तस्या वदने मुखे सपुलकं रोमाञ्चसहितं यथा स्यादेवं मृगमदतिलकं कस्तूर्या विशेषकं लिखति नानावैचित्र्या निर्माति । कीदृशे वदने ? समुदितः सम्यगुद्भूतोऽनुकूलनायकस्पर्शेन कामो यत्र तादृशे । अथवा कृष्णस्य समुदितो मदनो यस्मात्तादृशे । पुनः कीदृशे ? चुम्बनाय पानाय वलितः सम्मुखीकृत्य सङ्कोचितः कृष्णेन तयैव तन्मुखचुम्बनायाधरो यत्र तादृशे वलितः सेवितः सिन्दूररेखादिरचने व्या## चिरमुपासितोऽधरो यत्र तादृशे । चुम्बनाय बहुदैन्येन याचितो ##, वलितं याचिते स्याद्वलितं सेवितेऽपि च इति विश्वः । कस्मिन्कमितं रजनीकरे पूर्णचन्द्रे मृगमिव हरिणीमिव । कीदृशे चन्द्रे ? समुदिते ### तादृशे । अतश्चन्द्रदर्शनादमृतमिवाधरपाने प्रवृत्तिरपि । ## कारिमुखस्यालकसामीप्यं भजमानस्य निशाकरसाम्यं, कस्तूरी ## मृगसाम्यं प्रथमपक्षे । समुदितमदने चुम्बनवलिताधरे ### तस्या भावोद्रेकः कथितः, न तु नायकस्येति कटाक्षितम् । ### सादृश्येनापि शोभायाः न स्थैर्यमिति । नित्यमेव श्रीराधाया ### ईव्येन स्थिररागत्वात्तस्या एव प्रतिक्षणं सौभाग्यस्य शोभायाश्च ## ॥२२॥ (१५.१)
घनचयरुचिरे रचयति चिकुरे
तरलिततरुणानने ।
कुरुबककुसुमं चपला सुषमं
रतिपतिमृगकानने ॥२३॥
घनेति । तस्याः चिकुरे केशपाशे जातावेकवचनं, कुरुबककुसुमं पीतपुष्पविशेषम्, झिण्टीतिपर्यायमम्लानशोणपुष्पं वा रचयति यथाविन्यासं ##यति । कीदृशे चिकुरे ? घनचयरुचिरे मेघपटलवन्मनोहरे । पुनः कीदृशे ? रतिपतिः कामः स एव मृगः करी तस्य कानने निवासस्थाने । तस्य काननस्योद्दीपनविभावत्वेन कामोऽपि कामभयमाशंसमानः # सहित एव केशबन्धनपाशनिबद्ध इवात्र तिष्ठतीति रतिपदोपादानम् । पुनः कीदृशे ? तरलिततरुणानने तरलितं चञ्चलीकृतं तरुणाननं तरुणश्रेष्ठः श्रीकृष्णो येन कामोद्बोधेनेत्यर्थः । तादृशे तरलितो #विधोपमोत्प्रेक्षाभिस्तद्गुणवर्णनेन मुखरीकृतस्तरुणस्य नित्यकिशोरस्याननं मुखं येनेति वा । कानने इत्यस्य विशेषणे वा योज्यम् । तदा तरलितान्युद्भूतानि तरुणानां बालवृक्षाणां पुष्पादिरूपाणि आननानि यस्मिन्तादृशे । कामोद्बोधकत्वात्पुष्पविकाशाच्च ग्रथितकुसुमैः केशैः साम्यं च युक्तम् । कीदृशं कुसुमं ? चपलासुषमं चपलाया विद्युत इव शोभातिशायिता यस्य तत।
रूपकालङ्कारश्चात्र । अन्यनायिकारमणपक्षे रचयतीत्यनेन तत्केशादिगुम्फणे करकम्पाद्यनुत्पत्त्या नायकस्य । तस्यामनासक्तिरिति ध्वनितम् । तद्यथा—
मा गर्वमुद्वह कपोलतले चकास्ति
कृष्णस्वहस्तलिखिता नवमञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां
वैरी न चेद्भवति वेपथुरन्तरायः ॥ [पद्या. ३०२] इति ।
मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः इति विश्वः । काननं वने गेहे परमेष्ठिमुखेऽपि च इति । चिकुरं चञ्चले केशे गृहे ## भुजङ्गयोः इति । कुसुमं पूर्वपुष्पयोः इति । सुषमा परमद्यु## इति । चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः इत्यमरः ॥२३॥ (१५.२)
अपि च—
घटयति सुघने कुचयुगगगणे
मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं
नखपदशशिभूषिते ॥२४॥
कुचयुगमेव गगनं, तस्मिनमलं निर्मलं मणिसरं मुक्ताहारं त# तारकपटलं नक्षत्रसमूहं घटयति योजयति । आकाशस्थितशोभां निर्माति । कीदृशे ? सुघने सुतरां पीने अतिकठिने इत्यर्थः । पुनः कीदृशे ? मृगमदस्य कस्तूर्याः रुचिः दीप्तिस्तया रूषिते व्याप्ते । पुनः कीदृशे ? नखपदं नखाङ्कः स एव शशी तेन भूषिते अलङ्कृते नखक्षतं चेदमर्धेन्दुसंज्ञं बोध्यते । तदुक्तं पञ्चसायके—
अर्धेन्दुसङ्काशमिदं नखज्ञैर्
अर्धेन्दुसंज्ञं कथितं समासात।
कक्सानितम्बस्तनपार्श्वकण्ठे
दातव्यमेतत्करजं सदैव ॥ इति ।
अतोऽत्र शशिपदमप्यर्धचन्द्रपरं गगनपक्षेऽपि । कीदृशे गगने ? सुघने अतिविस्तारवति अभूतोपमार्थं शोभना घना मेघा यस्मिनिति वा । पुनः कीदृशे ? मृगमदकान्तिशोभिते, चन्द्रार्धैश्चालङ्कृते विमलतारकपटलं च यत्र । एवं कविसम्प्रदाये आकाशस्य श्यामत्वेनिव निरूपणात्समस्तरूपकमिदं ज्ञेयम् ।
घनं सान्द्रे दृढे दार्ढ्ये विस्तारे लोहमुद्गरे इति विश्वः । गुण्ठितरूषिते इत्यर्थः । कुचयुगयोर्गगनमिति केचित। तदा सुघने शोभनविस्तारवति । अन्यत्समानम् ॥२४॥ (१५.३)
जितबिसशकले मृदुभुजयुगले
करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं
वितरति हिमशीतले ॥२५॥
जितेति । मृदुभुजयुगले तस्याः कोमले भुजयुगले मरकतवलयमिन्द्रनीलमणि## तमेव मधुकरनिचयं भ्रमरसमूहं वितरति अर्पयति । कीदृशे भुजयुगले ? निजमार्दवेन गौरतया च जितमभिभूतं बिशशकलं मृणालखण्डं येन तादृशे । पुनः कीदृशे ? करतलमेव नलिनीदलं पद्मिनीपत्रं तादृशे । पुनः कीदृशे ? हिमशितले हिमादप्यतिशितले सन्तापहरणात। यद्यपि कविसम्प्रदाये क्वापि करतलस्य पद्मिनीपत्रत्वेन वर्णनं नास्ति, तथाप्यत्र भुजस्य बिशरूपत्वादविरुद्धमिति ।
किं च, मरन्दाधिक्यादिव मृणालदण्डे एव भ्रमरमण्डली स्थितेति भावः । नलिनी पद्मिनी वलयो मतः इति धरणिः । विश्राणनं वितरणं दानं च प्रतिपादनमित्यमरसिंहः । रूपकालङ्कारोऽयम् ॥२५॥
जित
रतिगृहजघने विपुलापघने
मनसिजकनकासने ।
मणिमयरशनं तोरणहसनं
विकिरति कृतवासने ॥२६॥
रतेः शृङ्गाररसस्य गृहे आश्रये जघने मुक्तामयीं मेखलां विकिरति क्षिपति । अत्र विकिरतीत्यनेन काञ्चीबन्धनसमये श्रोणीस्पर्शजनितसाध्वसवशात्कम्प्यमानकरः क्षिपति, न तु बध्नातीति ध्वनितः । कीदृशे बन्धने ? विपुलापघने विपुलो विस्तीर्णोऽपघनोऽवयवो यस्य तादृशे अतिमांसल इत्यर्थः । अथवा विपुलं महत्त्वयुक्तमपगतो घनः काठिन्यं यत्र तदपघनं कोमलं तच्च तच्च तत्तथा तस्मिन्महत्त्वसौकुमार्ययुक्ते इत्यर्थः । विशिष्टः पुलः पुलकः यस्मिन्स विपुलस्तादृशोऽपघनः शरीरं यस्येति उदितसात्त्विकविकारे इति वा । पुनः कीदृशे ? मनसिजकनकासने कामस्य सुवर्णमहाराज्यपीठे । कीदृशं मणिमयरशनं तोरणस्य माङ्गल्यस्रजः हसनमुपहासो यस्मात्तादृशम् । अन्योऽपि यदा सिम्हासन उपविशति, तदा तत्र परिजनैः वन्दनमालिका बध्यते, अतो मनसिजसिमःआसनभूते तस्या जघने क्षुद्रघण्टिकारूपमाङ्गल्यस्रजमयं निबध्नातीति भावः । पुनः कीदृशे जघने ? कृतं वासनं तदनुरूपसाटिकादिकं वस्त्रं तादृशे । कृतं वासनं श्रीकृष्णवशीकरणाय शृङ्गारशास्त्रोक्तधूपविशेषं यत्रेति वा । अथवा कृता तत्कान्तिदर्शनात्श्रीकृष्णेन वासना भोगेच्छा यस्य तादृशे । अथवा कृतं वासनं कामेन स्थानं यत्र तादृशे । यद्यपि मनसिजकनकासनेनैव कामस्थानत्वं प्राप्तं, तथापि नित्यं तत्सान्निध्यसूचनायैतदुक्तम् ।
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरमित्यमरः । वासनं वसने चाथ स्थाने ज्ञाने च बन्धने इति विश्वः । पुलः स्यात्पुलके च इति, रतिः कामस्य भार्यायां स्याद्रागे सुरतेऽपि च इति । रूपकालङ्कारः ॥२६॥ (१५.५)
चरणकिशलये कमलानिलये
नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं
जनयति हृदि योजिते ॥२७॥
चरणकिशलये चरण एव किशलयम्, ताम्रत्वात्कोमलत्वाच्च । तत्र पल्लवे यावकभरणमलक्तकपूरणं करोति । कीदृशे ? कमलायाः श्रियो निलये आश्रये कमलानिवासे इत्यर्थः । पुनः कीदृशे ? नखा एव ये मणिगणा मणिसमूहास्तैः पूजितेऽलङ्कृते । श्रीनन्दनन्दनस्य दुष्प्राप्याः श्रीः स्वविभूतिरूपाभिर्मणिभिस्तत्प्रियाचरणं सम्पूज्यात्मानं भगवत्यर्पणाय तच्चरणसौन्दर्ये लीना बभूवेति भावः । कीदृशं यावकभरणं ? बहिर्भूतमपवरणं संवरणं यस्य तादृशं स्पष्टमित्यर्थः । चरणस्य स्वभावरक्तत्वान्नावरकमिति वा ।
पुनः कीदृशे चरणकिशलये ? हृदि योजिते स्ववक्षसि अनुरागातिशययोगं प्रापिते । स्वहृदये तच्चरणपल्लवं निधाय यावकं रचयतीत्यर्थः । अथवा किंभूते हृदि ? कमलायाः निलये गृहे । पुनः कीदृशे ? नखा नखक्षतानि तान्येव मणिगणैस्तैः पूजिते भूषिते । श्रिया युक्तेऽपि हृदि तदीयचरणं धारयतीति तस्याः सौन्दर्याधिकां सौभाग्यातिशयं च कथितमिति भावः । पक्षान्तरे कमलायाः वरस्त्रियाः श्रीराधाया निलये निवासे, तया च तन्नखक्षतयुक्ते वक्षसि स्वयमेवालक्तकरचनाय योजिते दाक्षिण्येन यावकभरणं जनयति सामान्यतः रचयति, न तु चित्रादिरचनेनातो बहिर्भूतमपवरणमितस्ततः स्खलितमित्यर्थः ।
चरणकिशलये नखमणिगणपूजिते इत्यत्र किशलयमणिगणयोः परस्परमयोगादयुक्तं नाम रूपकमिदम् । तदुक्तं दण्डिना—
इदमार्द्रस्मितं ज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् ।
इति ज्योत्स्नोत्पलायोगातयुक्तं नाम रूपकम् ॥ [का.आ. २.७८] इति ।
नखः कररुहे शौण्डे गन्धद्रव्ये नखं मतमिति विश्वः ॥२७॥
रमयति सुभृशं कमपि सुदृशं
खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं
वद सखि विटपोदरे ॥२८॥
एवं कामपि सुदृशं शोभने दृशौ नेत्रे यस्यास्तां खलो दुर्जनो यो हलधरसोदरो बलभद्रस्य भ्राता कृष्णस्तस्मिन्सुभृशमतिशयेन रमयति सति, हे सखि ! वद कथय इह विटपोदरे कुञ्जमध्ये विरसं रसरहितं यथा स्यात्तथा, अत एवाफलं च यथा स्यादेवं चिरं बहुकालं व्याप्य किं किमित्यवसं स्थितास्मीत्यर्थः । हलधरसोधर इति तं ग्राम्यत्वेनोपालभते । विटोऽद्रौ लवणे धूर्ते मूषिके खदिरेऽपि च इति विश्वः ।
अथवा, इह विटपोदरे विटपोऽतिधूर्तस्तादृशस्यैवोदरमभ्यन्तरं यस्य तस्मिनेवंविधधूर्तनिमित्तं, निमित्ते सप्तमी, इह स्थले विरसमफलं च चिरं किमित्यवसमित्यर्थः । पक्षान्तरे सप्तभिः पदैः सख्योक्तमिदमित्यपि व्याकुर्वन्ति । तदा कमपि सुदृशं राधाभिधां खलहलधरसोदरे खलानां निग्रहाय हलरूपमायुधं धारयतीति खलहलधरो बलभद्रः, तस्य भ्रातरि दुष्टदमनसमर्थे बलवतीत्यर्थः । विटपोदरे चूडामणौ रमयति सति इह वने किमफलं विरसं वावसम्, अपि तु सफलं सरसमेवेत्यर्थः । निर्भयकेलिसम्पादनाय हलधरसाहचर्यमिति ध्वनितम् ॥२८॥
इह रसभणने कृतहरिगुणने
मधुरिपुपदसेवके ।
कलियुगरचितं न वसतु दुरितं
कविनृपजयदेवके ॥२९॥
इह एतत्काव्यकर्तरि कवीनां नृपे जयदेवके कलियुगे चरितमाचरितं कलियुगेन चरितं कृतं वा, [दुरितं] न वसतु तिष्ठतु । कीदृशे ? रसस्य शृङ्गाररसस्य भणनं कथनं यस्य तादृशे । पुनः कीदृशे ? कृतं हरेर्गुणनं चिन्तनं येन तादृशे । मधुरिपोः कृष्णस्य पदसेवके दुरितध्वंसनसामर्थ्यद्योतनाय मधुरिपुअपदोपादानम् ॥२९॥
* * * * *
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणैर्
उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥३०॥
हे दूति दौत्यकर्मकुशले ! निर्दयो दयारहितोऽत एव शठः कृतगूढापराधो यदि नायातः, तर्हि त्वं किं दूयसे किमिति दुःखिता भवसि ? केवलं शठो न भवति, किन्तु धृष्टोऽपीत्याह—स्वच्छन्दमिति । स बहुवल्लभोऽनेकनारीप्रियोऽत एव स्वच्छन्दं निःशङ्कं रमते, यया कयाचिद्गोपिकया सह केलिं करोतीत्यर्थः । तत्र तस्मिन्नर्थे ते तव किं दूषणं ? न किमपीत्यर्थः ।
ननु क्षणं समाश्वसिहि यावत्पुनरपि तदन्तिकं गत्वा तमानयामीत्यत आह—पश्याद्येति । अद्येदानीमेवाश्चर्यं पश्य प्रियस्य कृष्णस्य आद्यप्रियस्येति वा । सङ्गमाय मिलनाय इदं मम चेतोऽण्तःकरणं स्वयं स्वयमेव, न तु यत्नेन यास्यति गमिष्यति । कीदृशं ? दयितस्य प्राणकोटिवल्लभस्य गुणैः सौन्दर्यादिभिराकृष्यमाणं बलान्नीयमानम् । अपरमपि गुणै रज्जुभिराकृष्यमाणं बलादन्यत्र नीयत इति भावः । कीदृशं ? उत्कण्ठार्तिभरात्स्फुटमुत्कण्ठा औत्सुक्यमार्तिः पीडा तयोर्भरोऽतिशयस्तस्मातिव स्फुटं प्रकटीभवत्बहिर्भवदित्यर्थः । अपरमपि वस्त्वन्तरसङ्कुले भाराक्रान्तः विदीर्यत एव । अतःपरं दुःखं सोढुमशक्ततया तद्गुणानेव स्मरण्त्या प्राणा एव त्याज्यास्ततोऽन्ते या मतिः सा गतिरिति स्वयमेव चेतस्तत्र यास्यतीति । किमतः परं तव तत्र गत्यायासेनेति भावः ?
अत्र प्रथमपदे शठो नायक उक्तः । स्वच्छन्दमित्यादिना धृष्टः । तदुभयलक्षणं—शठो गूढापराधकृत्धृष्टो व्यक्तान्य्युवतीभोगलक्ष्मापि निर्भयः [र.सु. १.८१] इति । ## त्य्प्रणयसंरम्भोक्तिः, स तु श्रीवृन्दावनेश्वरामनुकूलमेव नित्यं तदग्रे प्रकटयिष्यति—क्रीते दास इवोपसेवितपदाम्भोजे [गी.गो. ११.२२] इति । अत्रोत्प्रेक्षानामालङ्कारश्च ॥३०॥ (५०)
—ओ)०(ओ—
सम्प्रति कृष्णेन सह रममाणायाः सौभाग्यसुखं, तद्विरहितायाश्च सन्तापमष्टपद्या कथयति—
॥ प्रबन्धः १६ ॥
देशवराडि रागेण रूपकतालेन गीयते ।
अनिलतरलकुवलयनयनेन ।
तपति न सा किशलयशयनेन ॥३१॥
सखि या रमिता वनमालिना ॥ ध्रु. ॥
गीतस्यास्य देशाखरागः । रूपकतालः । गीतार्थस्तु—हे सखि ! या वनमालिना कृष्णेन रमिता क्रीडिता, सा किशलयशयने नवपल्लवशय्यायां न तपति नोपतप्ता भवति । कृष्णाङ्गसङ्गे तत्सुखप्रदं भवति इति भावः । अथवा, या वनमालिनाऽरमिता सा किशलयशयने, घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि [भा.पु. १०.३१.१२] इति न तपतीति न, अपि तु तपत्येवेति काक्वा शिरश्चालनेन । अननुभूतत्वान्न तपतीति वा, या च रमिता साद्भुततत्प्रणयोत्कम्पया पुनः पुनः सङ्गमतृष्णया किशलयशयने न तपतीति नापि तृप्ता भवतीत्यर्थः । उक्तं च—
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छसि ॥
दिनपरिक्षये नीलकुन्तलैर्
वनरुहाननं बिभ्रदावृतम् । [भा.पु. १०.३१.१२] इति ।
कीदृशेन वनमालिना ? अनिलेन वायुना तरलं चञ्चलं यत्कुवलयं तद्वन्नयने यस्य स तथा तेन । अनिलवत्तरले कुवलयवच्च सुन्दरे नयने यस्येति वा । वनमालिपदेन शृङ्गारित्वमुपपादितम् । अथवा, वनमाया वृन्दावनलक्ष्म्या अलिना श्रीराधायाः तद्वनस्य च रसास्वादलम्पटेन भ्रमरेणेत्यर्थः । अनेन या काचित्कदाचिद्रमिता च, सा तपत्येव । तस्यामेवानुकूलत्वादित्यपि ध्वनितम् ॥३१॥ (१६.१)
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥३२॥
या वनमालिना रमितेति सर्वत्र योज्यम्, सा मनसिजविशिखेन कामबाणेन न स्फुटति, विद्धा न भवति । अन्यदपि प्रतिपदं पूर्ववज्ज्ञेयम् । कीदृशेन ? विकसितं फुल्लं यत्सरसिजं पद्मं तद्वल्ललितं मनोहरं मुखं यस्य तेन । मनसिजविशिखेन तन्मुखपद्मेन कामबाणपीडानिवृत्तिरिति साश्चर्यं निरूपयतीति भावः । अन्य्ष्वर्थेषु सूचितमेव ॥३२॥ (१६.२)
किं च,
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न स मलयजपवनेन ॥३३॥
या रमिता, सा मलयजपवनेन मलयाज्जातेन वायुना न ज्वलति, न दीप्यते । कीदृशेन ? अमृतादपि मधुरं मृदुतरमतिशयेन कोमलं वचनं भाषणं यस्य तेन । तदुक्तं—
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीर्
अधरसीधुनाप्याययस्व नः ॥ [भा.पु. १०.३१.८] इति ।
चन्दनतरुसर्पसम्पर्कसविषपवनज्वालाहरणाय वचनस्यामृतत्वेन निरूपणं, तथा चानेन प्रियंवद इति नायकगुणः कथितः ॥३३॥ (१६.३)
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥३४॥
या रमिता, सा हिमकरस्य चन्द्रस्य किरणेन न लुठति, तप्ताङ्गी भूमौ परिवर्तनं न करोति । कीदृशेन ? स्थलोद्भवं जलरुहं कमलं तद्वद्रुचिर्ययोस्तादृशौ करौ चरणौ च यस्य तेन । स्थलजलरुहयोरिव रुचिर्ययोः तादृशाविति वा ॥३४॥ (१६.४)
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि विरहभरेण ॥३५॥
या रमिता, सा हृदि विरहभरेण वियोगाधिक्येन न दलति दीप्यते । कीदृशेन ? सजलो जलसहितो यो मेघस्तस्य समुदयः सम्यगुदयः तद्वद्रुचिरेण मनोहरेण । अनेन नित्यनवीनत्वं स्पृहणीयत्वं सन्तापहारित्वं स्निग्धत्वमाप्यायनकरत्वं रसमयत्वं च भगवद्रूपस्य कथितमिति भावः ॥३५॥ (१६.५)
कनकनिकषरुचिशुचिवसनेन ।
श्वसिति न सा परिजनहसनेन ॥३६॥
या रमिता, सा परिजनानां हसनेनोपहासेन परितः सर्वतो जनानां हास्येन वा न श्वसिति सन्तापनिःश्वासं न मुञ्चति । कीदृशेन ? कनकनिकषः सुवर्णकषणपट्टिका तत्र गतलेखाया इव रुचिः कान्तिर्यस्य तत्तादृशं शुच्यनुपहतं च वसनं वस्त्रं यस्य तेन । अत्र कनकपदेनैव पीतत्वे प्राप्ते चाकचिक्यमानत्वजलादिसम्पर्केऽप्यम्लानत्वप्रदर्शनाय निकषपदोपादानम् । कनकनिकषः कनकाश्मा तद्वद्रुचिर्यस्य, शुचिनी शृङ्गारमये वसने यस्य कनकनिकषरुचिश्चासुअ शुचिवसनश्च तेनेति वा । शृङ्गारः शुचिरुज्ज्वलः इत्यभिधानात। निकषः कषपट्टिका इति हारावली । शुइचः शुद्धेऽनुपहते च इति विश्वः ॥३६॥ (१६.६)
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥३७॥
या रमिता, साऽतिकरुणेनातिशयितकरुणरसेनोपलक्षिता सती रुजं तद्विश्लेषजन्यां व्याध्यवस्थां न वहति न धारयति । कीदृशेन ? सकलभुवनेषु सर्वलोकेषु ये जना युवानस्तेभ्यो वरतरुणेनाद्भुतलावण्यवन्नित्यकिशोरेणेत्यर्थः । अथवा, कलया कान्त्या सह वर्तन्ते इति सकला भुवनजना यस्मात्तेन वरतरुणेन । तदुक्तं च—स्वमूर्त्या लोकलावण्यनिर्मुक्त्या [भा.पु. ११.१.६] इत्यादिना । यन्मूर्तिसौन्दर्यलेशतोऽन्येऽपि सुन्दरा इत्यर्थः । अथवा सकलं सशोभं च तद्भुवनं च वैकुण्ठाख्यं तत्र जनस्तदीश्वरः, स तु पुराणवयसा प्रसिद्धः । तस्मादपि सौन्दर्यादिना वरतरुणेन । उक्तं च—स्वस्यापि विस्मापनं [भा.पु. ३.२.१२] इति । तारुण्यं चात्र मध्यमं कैशोरमेव ।
ऊरुद्वयस्य बाह्वोश्च कापि श्रीरुरसस्तथा ।
मूर्तेर्मधुरिमाद्यं च कैशोरे सति मध्यमे ॥ [भ.र.सि. २.१.३२०]
तन्माधुर्यं यथा—
नवं धनुरिवातनोर्नटदघद्विषोर्भ्रूयुगं
शरालिरिव शाणिता नखरराजिरग्रे खरा ।
विराजति शरीरिणी रुचिरदन्तलेखारुणा
न का सखि समीक्षणाद्युवतिरस्य वित्रस्यति ॥ इति रसामृतसिन्धौ [२.१.३१८]
गोलोकत्वेन प्रसिद्धत्वात्व्रजरूपे भुवने रामश्रीदामसुबलादिभ्योऽपि वरतरुणेनेति वा । अतिकरुणेनेति कृष्णस्य विशेषणं वा । तदा प्रथमपक्षेऽतिकरुणेनातिशयस्निग्धेन परमरसावहेनेत्यर्थः । द्वितीये त्वतिक्रान्ता करुणा दया यस्य तादृशेन निर्दयेनेत्यर्थः ।
सर्गारम्भे यत्पक्षद्वयं प्रतिज्ञातं, तयोः प्रथमे चतुर्विधमपि राधोक्तिः । द्वितीये तद्बोधाय कस्याश्चित्सख्या उक्तिरपि सम्भवति सप्तभिः पदैरिति । हे सखि ! त्वमेव स्वाधीन –पतिका । तेन रमिता च । तव प्रियः पार्श्व एव वर्तते । किमिति विरहार्तेव विलपसि ? या त्वरमिता, सा एवं करोतु । रमिताया एवं प्रेमपराक्रम उचित इति वा, या त्वरमिता तस्यास्तदास्वादरहिताया एवं न घटत एव ॥३७॥ (१६.७)
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥३८॥
अनेन श्रीजयदेवभणितेन श्रीराधाया वचनेन तत्सख्या वा । तद्वचनमेव जयदेवभणितमित्यर्थः । तेन हरिर्हृदयापहार्यपि हृदयं प्रविशतु प्रियजनानां मनसि, श्रीराधावक्षसीति वा । हरिरद्भुतविक्रमो वा अवश्योऽपि रुद्धो भवत्वित्यर्थः । सङ्कटे प्रविष्टस्य निर्गमाभावात॥३८॥ (१६.८)
* * * * *
स्मरशरहता मलयानिलमुपालभते—
मनोभवानन्दन चन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण निधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥३९॥
हे चन्दनानिल ! चन्दनसम्बन्धिवायो ! प्रसीद प्रसादं कुरु । हे दक्षिण सर्वेषां विलासिनामनुकूलस्वभाव ! वामतां प्रतिकूलतां मुञ्च त्यज । चन्दनसंसर्गिणस्ते सत्सङ्गरतस्य दक्षिणस्वभावत्वान्न वक्रत्वमुचितमिति भावः । अथवा, रे दक्सिण ! प्रसीद, न चेत्प्रसीदसि, तर्हि वामतां मुञ्च ।
ननु मयि वामत्वं नास्तीत्यत आह—हे मनोभवानन्दन मनोभवं काममानन्दयसीति तदुद्बोधेनैव मत्प्रातिकूल्यमाचरसीत्यर्थः । यदि च वामतामपि न मुञ्चसि, तदा हे जगत्प्राण जगतां जीवातो ! क्षणं क्षणमात्रं माधवं पुरोऽग्रे निधाय कृत्वा मम प्राणहरो भविष्यसि । जगत्प्राणेति तस्यानयने स्वस्य प्राणहरणे सामर्थ्यं द्योतितम् । माधवं पुरो निधायेति दुस्त्यजश्रीकृष्णप्रणयाज्जीवनमेव प्रार्थयति, तत्प्राप्त्या जीवनमेव भविष्यतीति भावः । अन्योपभुक्तस्याग्रे प्राप्ते क्षणमपि प्राणा न स्थास्यन्तीति वा । कमनीयत्वेन चाञ्चल्ये च माधवमित्युक्तम् ।
दक्षिणस्य वामत्वं, जगत्प्राणस्य प्राणहरत्वमिति विरोधनामालङ्कारश्च । वामं प्रतीपे सुन्दरे च, दक्षिणः सरलावामपरच्छन्दानुवर्तिषु इति ॥३९॥ (५१)
—ओ)०(ओ—
अमुना ममैवायमपराधो नान्यस्येत्याह—
रिपुरिव सखिसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नैवं पुनर्वलते बलात्
कुवलयदृशां वामः कामो निकामनिरण्कुशः ॥४०॥
यस्मिन्कृष्णे मोनोगते चित्तारूढे अयं सखिसंवासः सखीभिः सहावस्थानं शत्रुमिव दुनोति उपतापयति, पुनः पुनः तस्मिन्नेव योजनात। अयं च हिमानिलः शीतलवायुरपि शिखीव अग्निरिव दुनोति । एवमनेन प्रकारेण स्वयं परेभ्यश्च व्यथयितृत्वात्, अदये दयारहिते, तस्मिन्तादृशे निर्दयत्वान्नामग्रहणायोग्ये, अत एव यत्तत्पदेन सूचिते, पतिभावाद्वा । हृदयमन्तःकरणचतुष्टयं पुनर्भूयोऽपि बलात्वलते निवार्यमाणमपि हठात्तत्रैव गच्छतीत्यर्थः । अतः कुवलयदृशां कामः कन्दर्पः निकामनिरण्कुशोऽतिशयेन त्यक्तमर्यादोऽत एव वामः प्रतिकूलः । अन्योन्यानुरागे हि कामो मनोहरो भवति । अत्र तु स मयि न सानुरागः, केवलं ममैव चेतस्तत्र धावतीति वामता कामस्येति भावः । अथवा, यस्मिन्गते अन्यत्र प्रस्थिते सति सखीसंवासो रिपुरिव मनो दुनोतीत्यादि योजना । सखीनां रिपुवत्, हिमानिलस्य वह्निवत्, सुधांशोर्विषवतिति विरुद्धमिति विरोधालङ्कारः । यमकालङ्कारश्चात्र । शिखिनौ वह्निबर्हिणौ इत्यमरः ॥४०॥ (५२)
—ओ)०(ओ—
सम्प्रति विरहदुःखमसहमाना मलयानिलादीन भूषणयति—
बाधां विधेहि मलयानिल पञ्चबाण
प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गैर्
अङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥४१॥
हे मलयानिल ! मलयशैलसम्बन्धि वायो ! बाधां पीडां विधेहि कुरु । अत्र मलयानिलपदेन उत्तमश्रितस्य ते याचकप्रत्याख्यानं नोचितमिति ध्वनितम् । हे पञ्चबाण काम ! मम प्राणान्पञ्चभिर्बाणैः पञ्चानामपि प्राणानां ग्रहणं कामस्य सुकरमिति सूचनाय पञ्चबाणेति सम्बोधनम् ।
ननु गृहमेव किमिति न गच्छसि ? इत्यत आह—गृहं पुनर्भूयो नाश्रयिष्ये न यास्यामि । तेन विना गृहमपि मे सन्तापजनकमेव भविष्यतीति भावः । हे कृतान्तभगिनि यमस्वसः ! स्वक्षमया शान्त्या किं किंप्रयोजनमित्यर्थः । तरङ्गैः कल्लोलैः ममाङ्गान्यवयवान्सिञ्चाप्लाव्य विरहानलजन्यदेहदाहः शाम्यतु निवर्ततां, मत्प्राणैः भ्रातुर्यमस्य हितमाचरेति भावः ।
किं च, निर्दयस्य स्वसस्ते दया न युक्तेति ख्यापनाय कृतान्तभगिनीति पादोपादानम् । भगिनी स्वसा इत्यमरः ।
सम्मोहनः क्षोभनश्च दहनः शोषणस्तथा ।
उच्चाटनश्च कामस्य बाणाः पञ्च प्रकीर्तिताः ॥ इति ॥४१॥ (५३)
—ओ)०(ओ—
सर्गान्ते कविराशिषमाशास्ते—
प्रातर्नीलनिचोलमच्युतमुरः संवीतपीतांशुकं
राधायाश्चकितं विलोक्य हसति स्वैरं सखिमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥४२॥
अयं नन्दात्मजः जगदानन्दायास्तु । कीदृशः ? अतिशयेन सहासं मुखं यस्य तादृशः । किं कृत्वा ? राधानने नयनयोरञ्चलं प्राप्तमाधायारोप्य । कथंभूतं ? लज्जया तरलं कटाक्षवीक्षितं कृत्वेत्यर्थः । उक्तं च—
यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् ।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥ [उ.नी. ७.५०] इति ।
क्व सति ? सखिमण्डले सहचरीवृन्दे च किञ्चित्स्मितं यथा स्यात्तथा स्वैरं स्वेच्छया हसति हास्यं कुर्वाणं सति । किं दृष्ट्वा ? प्रातः प्रभाते अच्युतं श्रीराधानुरागे च्युतिरहितं, तया सह नित्यविलासिनमित्यर्थः । अथवा अच्युतनामापि तस्याः सम्भोगरसावेशेन क्रीडासङ्गोपनेन शक्तो बभूवेत्यच्युतपदेन व्यङ्ग्यम् । नीलनिचोलं श्यामं वस्त्रं यस्य तं च पुनः राधाया उरः वक्षःस्थलं वीतपीतांशुकं परिहितं पीतवर्णमम्बरं यत्र तादृशं विलोक्य । एवं वस्त्रविनिमयः सखीनां हास्यकारणमित्यर्थः ।
नन्दात्मज इति धीरललितानुकूलोऽयं नायकः । तदुक्तं—
गहनादनुरागतः पितृभ्याम्
अपनीतव्यवहारकृत्यभारः ।
विहरन्सह राधया मुरारिर्
यमुनाकूलवनान्यलंचकार ॥ [उ.नी. १.२९] इति ।
शार्दूलविक्रीडितं वृत्तम् । नागरनारायणेति—तासु वर्तमानोऽपि तया न लक्षित इति नागरनारायणः ॥४२॥
—ओ)०(ओ—
इति श्रीगीतगोविन्दमहाकाव्ये विप्रलब्धावर्णने
नागरनारायणो नाम
सप्तमः सर्गः
॥७॥
*******************************************************************************
.
(८)
अष्टमः सर्गः
विलक्षलक्ष्मीपतिः
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयम् ॥१॥
अथशब्दो मङ्गलार्थः । अथानन्तरं वा । सा सौभाग्यातिशयेन विख्याता राधा प्रभाते प्रातःकाले प्रियं कान्तं साभ्यसूयं सेर्ष्यं यथा स्यादेवमाह उक्तवती । किं कृत्वा ? कथमपि कष्टेनापि यामिनीं रात्रिं विनीय नीत्वा समाप्तिं प्राप्येत्यर्थः । अत्र यामिनीपदेन प्रियविश्लेषे निशायाः दीर्घत्वं ध्वनितम् । उदरवती कन्येतिवत। किंभूता सा ? स्मरशरजर्जरितापि कामबाणपीडितापि प्रतिरोमविद्धापीत्यर्थः । दुःसहान्यकामिनीनखाङ्कादिचिह्नदर्शनजनितमहादुःखा विरहदुःखाप्युवाचेत्यर्थः । कीदृशं प्रियं ? अनुनयाय स्वापराधजनितकोपशान्तये विनयं न पुनरीदृशमाचरामीत्यर्थःविनयवाक्यं वदन्तम् । पुनः कीदृशं ? अग्रे प्रणतमपि पादाग्रे नम्रमपि । पक्षान्तरे साभ्यसूयमाह—गुणेषु दोषाविष्कारेण साभ्यसूया स्वरमितमपि चिह्नैरन्याभुक्तं परिकल्प्य तिरस्कारं चकारेत्यर्थः । रजनी यामिनी तमी इत्यमरः ।
स्मरशरजर्जरितापि प्रणतमपि सेर्ष्यमाहेति रसाधिक्यं सूचितम् । यदत्र वामतयैव चारुरसोदयो भवति रसज्ञानां सरलतया रसाभास एवातः परमोचितमेव चेष्टितं श्रीवृन्दावनचन्द्रप्रियायाः । ये त्वन्यथा कल्पयन्ति, ते रसपरिपाटीपराङ्मुखा ज्ञेयाः ॥१॥ (५५)
श्रीराधा यदाह, तदेव गीतेन कथयति—
॥ प्रबन्धः १७ ॥
भैरविरागयतितालाभ्यां गीयते ।
रजनिजनितगुरुजागररागकषायितमलसनिमेषम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥२॥
हरि हरि याहि माधव याहि केशव मा वद कैतववादम् ।
तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ध्रु. ॥
गीतस्यास्य भैरवीरागः । तल्लक्षणं—
सरोवरस्थे स्फटिकस्य मण्डपे
सरोरुहैः शङ्करमर्चयन्ती ।
तालप्रयोगे प्रैबन्धगीता
गौरीतनुर्नारद भैरवीयम् ॥
यतितालश्च । गीतार्थस्तु—हरि हरीति खेदे । हे माधव ! हे केशव ! याहि याहि, इतो गच्छ गच्छ । कोपावेशेन याहीत्यस्य द्विरुक्तिः । माधवेति चञ्चलाया भर्तुस्ते ईदृशं चापल्यं युक्तमेवेति भावः, समानशीलत्वात। एवमधिक्षेपे कृतेऽप्यसन्तुष्टो केशवेति, केशाद्वोऽन्यतरस्यां [पा. ५.२.१०९] केशा विद्यन्ते यस्य यस्मिन्वेति प्रश्स्ताः कामिन्याकर्षणेन विकीर्णा दृश्यन्त इति । त्वदैकपरायणोऽहमिति कथयन्तमाह कैतववादं मिथ्यावादं मा वद कथय । कैतवं तु छले द्यूते इति विश्वः ।
ननु त्वदर्थमेव खिन्नोऽस्मि । सूक्तेन सुखयेत्याह—तामिति । हे सरसीरुहलोचन ! कमलनयन ! तां नायिकामनुसरानुगच्छ, या तव विषादं दुःखं हरति दूरीकरोति । यदर्थं विखिन्नोऽसि, तयैव ते दुःखमपनेतुं युक्तम् । अहं तु स्वयमेव दुःखिता, ते विषादं कथं हरिष्यामीति भावः ।
तथा च, रात्रिजागरेणार्धमुकुलितं रक्तवर्णं च नयनयोः सरसीरुहवल्लोचनत्वेन ध्वनितम् । प्रियाध्यानेन मुद्रणं तद्रत्यानुरक्तमिति वा कटाक्षितम् । ध्रुवपदम् ॥
नन्वहं त्वय्यनुरक्तः । कथं ममानुरागस्त्वयान्यत्र ज्ञात इत्याह—रजनीति । हे कृष्ण ! तव नयनं नेत्रं तदनुरागमिव वहति धारयति । वहसीति पाठे त्वं नयनमनुरागमिव वहसीत्यर्थः ।
कीदृशं नयनं ? रजनिजनितो रात्रितो गुरुर्महान्यो जागरस्तज्जनितो यो रागः रक्तता तेन कषायितमीषल्लोहितम् । अत एवालसनिमेषमलसो मन्थरो निमेषो पक्ष्मविशेषो यस्य तादृशम् । अन्योऽपि यः किञ्चिद्वस्तु वहति, सोऽप्यलसो भवतीति ध्वनितम् । स्फुटं प्रकटमेव उदितः कथितोऽन्यकामिनीविषयकशृङ्गाररसस्याभिनिवेशस्तत्परता येन तादृशम् । उदितरसस्य उद्रिक्तशृङ्गाररसस्याभिनिवेशः आग्रहो यस्मिन्निति वा । तथा चान्यनायिकाकेलिव्यासङ्गेन वृथा जागरः कारित इति रागेण क्रोधेन मम स्नेहात्कषायितस्य नयनस्य सूचनं ममाग्रे युक्तमेवेति व्यङ्ग्यं ध्वनितमेतत। अथवा स्फुटमित्यादि अनुरागविशेषणम् । कीदृशं रागं ? स्फुटमतिबाहुल्येन अन्तर्व्याप्य बहिर्निर्यन्तमिति, उदितस्याभिनिवेषमिति च । हरिशब्दोऽप्ययं खेदवाची । कषायो लोहिते च इति ॥२॥ (१७.१)
ननु त्वदन्वेषणार्थं जागरान्मे नेत्रयोर्लौहित्यमित्यलं दुःखशङ्कया ? इत्यत आह—
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव क्र्स्ण तनोति तनोरनुरूपम् ॥३॥
हे क्र्स्ण ! अरुणमपि तव दशनवसनमधरस्तव तनोः शरीरस्यानुरूपं योग्यं तनोति विस्तारयति । तनुस्ते श्यामा, अधरोऽपि अधुना श्याम इति भावः । कीदृशं ? कज्जलेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीलिमा यत्र तादृशं रूपं यस्य तत्तादृशम् । चुम्बने लग्नतन्नेत्राञ्जनेन श्यामीभूतस्त्वदधर एव स्फुटं धूर्ततां प्रकटयतीति भावः । तदुक्तं—गण्डे नेत्रे ललाटे च चुम्बनं परिकीर्तितमिति । कज्जलमलिनेत्यादिना तस्या अवैदग्धी ध्वनिता । ओष्ठाधरौ तु रदनच्छदौ दशनवाससी इत्यमरः ॥३॥ (१७.२)
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् ॥४॥
तव वपुः शरीरं रतिजयलेखम्, “इदं वपुर्मया जितम्” इति सुरतविजयपत्रमनुहरति सदृशीकरोति । कीदृशं वपुः ? स्मरसङ्गरेऽनङ्गरणे खराणां तीक्ष्णानां नखराणां क्षतैराघातैः रेखा यत्र तत्तादृशम् । कस्या इव लेखं ? मरकतशकले नीलमणिखण्डे कलिता निर्मिता या कलधौतलिपिः सुवर्णद्रावाक्षरविन्यासस्तस्या इव ।
अत्र कृष्णवपुषः श्यामत्वान्मरकतशकलसाम्यं, सुवर्णस्य च कविसम्प्रदायेऽरुणत्वेन निरूपितत्वात्नखक्षतस्य तल्लिपिसाम्यम् । कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ इति विश्वः । शकलं त्वचि खण्डे स्यातिति । पुरर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियामित्यमरः ॥४॥ (१७.३)
ननु मार्गं विस्मृत्यागच्छतो मे वपुषि वने कण्टकादिस्पर्शादेवं दृश्यते, न तु नखाङ्कम्, इत्यत आह—
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्सयतीव बहिर्मदनद्रुमनवकिशलयपरिवारम् ॥५॥
इदं तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिशलयपरिवारं नूतनपल्लवसमूहम् । अथवा पल्लवत्वेनैव नूतनत्वं सिद्धं, तदा, नवं नव्ये स्तवे विदुरिति विश्वकोषात्श्लाघनीयं पल्लवसमूहमित्यर्थः । बहिर्बाह्यं दर्सयतीव प्रकटयतीव । अपरोऽपि वृक्षः सिक्तमूलः सन्पल्लवान्दर्शयतीति ध्वनितम् । रूपकालङ्कारश्च । अत एव उदारं मनोहरं दर्शनीयमित्यर्थः । महदिति वा, महतां किमपि गोपनीयं नास्तीति भावः । चरणकमलेति सौरभप्रदत्वं, मदनद्रुमेत्यनुरागम् । अलक्तसिक्तमिति शीतलत्वं च वृक्षस्य ध्वनितम् । क्रौञ्चाख्यबन्धश्च । तदुक्तं [स्मरदीपिकायां]—
योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कचान।
यथेष्टं ताडयेद्योनिं क्रौञ्चबन्धः प्रकीर्तितः ॥ इति ।
परिवारः परिकरे समूहे वेष्टनेऽपि च इति धरणिः ॥५॥ (१७.४)
ननु तव खेदेन त्वया ऐक्यान्मद्धृदये व्याधिविक्रिया जाता, कथमन्यथा कल्प्यते ? सत्यं, यदि तव मया ऐक्यं न स्यात्, तदा तव शरीरगतक्षतेन मम वेदना न स्यादित्याह—
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥६॥
भवदधरगतं भवतस्तवाधरस्थितं कस्याश्चिद्दन्तक्षतचिह्नं मम चेतसि खेदं दुःखं जनयत्युत्पादयति । एतत्तव वपुरधुनापि मया सह कथमभेदमैक्यं कथयतीत्यर्थः । अन्यशरीरक्षतस्यान्यत्र व्यथाजनकत्वासम्भवाद्वपुषोरभेदो ज्ञायते, अन्योपभोगलक्ष्मदर्शनादतिदुःखेनात्यन्तहृदयभेदेन कुतो वपुषोरैक्यमिति व्यङ्ग्येन भेद एव प्रतिपादित इत्यर्थः ।
प्रसिद्धाभेदकारणनिषेधे भेदकारणस्य विभाव्यमानत्वाद्विभावनालङ्कारः । तदुक्तं दण्डिना—
प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् ।
यत्र स्वाभाविकत्वं वा भाव्यं सा च विभावना ॥ इति ॥६॥ (१७.५)
ननु तवोआयनार्थं कमलत्रोटनं कृतवति मयि पद्मकोशादापतता भ्रमरेण ममाधरो दष्टो, न तु दन्तक्षतमित्यत आह—
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥७॥
हे कृष्ण ! नूनं निश्चयेन मनोऽपि चित्तमपि बहिरिव बाह्यमिव मलिनतरमतिशयेन मलिनं भविष्यति । यथा तव वपुः श्यामं तद्वत्तव मनोऽपि भविष्यतीत्यर्थः ।
ननु मम मनोमालिन्यं त्वया कथं ज्ञायतां ? इत्यत आह—कथमिति । अथेति प्रश्ने । त्वमेव पृच्छ्यसे यदि न तवान्तर्मलिनम् । तदासमशरज्वरदूनं कामसन्तापेन दुःखितम्, अत एवानुगतं त्वामनुसृतं मादृशं जनं कथं वञ्चयसे प्रतारयसि ? शरणागतजनवञ्चनमन्तरमालिन्यमन्तरेण न सम्भवतीति भावः । व्याजेन दन्तक्षतादिसङ्गोपनादतिमलिनोऽसीत्यपि ध्वनितम् ।
अथोऽव्ययं च सम्प्रश्ने मङ्गलारम्भयोरपि इति विश्वः । नूनमिति शब्दोपादानातुत्प्रेक्षानामायमलङ्कारः । तदुक्तं दण्डिना—
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इति ॥७॥ (१७.६)
पूर्वोत्कमेव क्रूरकार्येणापि स्पष्टयति—
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥८॥
भवान्वनेषु विपिनेष्वबलाकवलाय स्त्रीजनग्रासाय भ्रमति परिभ्रमणं करोति । अत्रास्मिन्नर्थे किं विचित्रं ? न किमपीत्यर्थः । तत्र हेतुमाह—प्रथयतीति । पूतनिकैव कंसप्रहिता पूतनैव वधूवधे स्त्रीमारणे तव निर्दयं दयारहितं बालचरित्रं शिशुचेष्टितं प्रथयति ख्यापयति । शिशुत्वे येन स्तनदानप्रवृत्ता राक्षसी हता, तस्येदानीं कैशोरे मादृशीनां कोमलाङ्गीनामबलानां हनने किं विचित्रमिति भावः ।
अथवा, हे वधूवधनिर्दय ! तव बालचरित्रं बाल्येऽपि तादृश्याः कंसभगिन्या मारणरूपचेष्टितं, बालचरितं कोमलचेष्टां वा, पूतनिकैव प्रथयति विस्तारयति इत्यर्थः । स्वार्थे कः । खण्डिता चेयं नायिका । तदुक्तं भरतेन—
निद्राकषायकलूसीकृतताम्रनेत्रो
नारीनखव्रणविचित्रिताङ्गः ।
यस्या कुतोऽपि गृहमेति पतिः प्रभाते
सा खण्डितेति कथिता कविभिः पुराणैः ॥ इति ॥८॥ (१७.७)
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥९॥
हे विबुधाः ! कृष्णमाधुर्यरसास्वादपण्डिताः ! इदं श्रीजयदेवभणितं वर्णितं रतिवञ्चिता सम्भोगरहिता या खण्डिता उक्तलक्षणा युवतिः कान्ता तस्या विलापं परिदेवनं शृणुत आकर्णयत । कीदृशं ? सुधातोऽपि मधुरम् । अत्र हेतुमाह—विबुधालयतोऽपि स्वर्गादपि दुष्प्रापम्, तत्रापि दुर्लभमित्यर्थः । उक्तं च—
तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यधः । [भा.पु. १.५.१८] इति ।
तव कथामृतं [भा.पु. १०.३१.९] इत्यादिना च श्रीभागवते ।
अथवा, सर्वशास्त्रप्रसिद्धमिदं—निःसीमप्रेमरसालम्बनः श्रीव्रजराजनन्दनः, प्रियजनसमुदायेषु श्रीगोपिका एव, तेन विबुधश्रेष्ठा वैकुण्ठवासिनः तेषामालयं वैकुण्ठाख्यं, तत्रापि दुष्पृआपमित्यर्थः । तदुक्तं श्रीभागवते—नायं श्रियोऽङ्ग [भा.पु. १०.४७.६०] इत्यादि, यद्वाञ्छया श्रीर्ललनाचरत्तपः [भा.पु. १०.१६.३६] इत्यादि ।
विबुधः पण्डिते देवे इति विश्वः । पक्षान्तरे रतिरनुरागः वैचित्त्यविप्रलम्भाख्यो भावविशेषस्तेन वञ्चिता छलिता या खण्डिता, न तु वस्तुतस्तस्या विलापमित्यर्थः । अथवा रतौ वञ्चिता चासौ अधरादौ खण्डिता च युवतिस्तस्या विलापं सम्भोगादिषु छलेनाधरादिखण्डनेन शुष्कक्रन्दनं, याहि याहीति । तत्तु कीदृशं ? सुधातोऽपि मधुरममृतादपि स्वादु, अत एव विबुधालयतोऽपि दुरापम् ।
तदा, ननु कामेन खिन्नोऽस्मि, याहि याहीति मा वद । सम्भोगार्थमनुसरामीति ? तत्राह—ममेच्छा नास्ति । तामनुसरेति राधोक्तिः ।
ननु रजनिजनितेति तव नयनं कन्दर्पानुरागं वहति कथं मां प्रतारयसीति कृष्णयोक्तिः ।
ननु तव वपुः प्रचुरकाममयं श्यामत्वात्, यतस्तव दशनवसनमरुणमपि तनोरनुरूपं तनोति । तत्त्वं सर्वं काममयं पश्यसीति कज्जलमलिनेत्यादि । अत एव तव वपुरित्यादि नवकिशलयपरिवारमिति पर्यन्तं पुनः राधायाः ।
अथ कृष्णस्य—एवमेवं भवतु नाम, प्रियाय मह्यं दीयतां रतोत्सवम् । ऐक्यमत आह—दशनपदमिति । त्वया मम ऐक्यं यदि न स्यात्, तदा तव वपुरभेदं कथं कथयतीत्यर्थः । धूर्त ! पुनरपि तदेव कामयसे ? अनुगतं जनमसमशरज्वरदूनं नखक्षततापपीडितमथानन्तरं कथं वञ्चयसे छलयसीत्यर्थः । अतो नूनं बहिरित्यादि निर्दयबालचरित्रमिति पर्यन्तं श्रीराधाया उक्तिः ।
एवमन्योन्यं विविधैर्हावभावादिभिः नागरमौलयोरतिरसेनाक्रान्तयोः सम्भोग एव नर्मादिगोष्ठी, अनयाष्टपद्या महाकविना निरूपिता । वक्ष्यति च—अधरसुधापाने कथानर्मभिः [गी.गो. ८०] इत्यादि । एवं तवेदमप्यग्रिमपदं सङ्गच्छत इति ज्ञेयम् । तत्र प्रणयभरभङ्गेन रङ्गेनोल्लासेनेत्यर्थः । सुरतानुरागप्रकटनेन सखीभ्यः लज्जा सम्भोगातिशयेन सुकुमाराङ्ग्या मे पीडया च शोकमित्यर्थः ॥९॥ (१७.८)
* * * * *
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालक्तच्छुरितमरुणच्छाय हृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥१०॥
हे कितव धूर्त ! त्वदालोकः तव दर्शनं प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भङ्गेन नाशेन हेतुना शोकादपि किमप्यनिर्वचनीयां लज्जां जनयति । शोकं तु जनयत्येव, परं तु शोकादपि लज्जां गुर्वीमुत्पादयतीत्यर्थः । तथा च प्रीतौ सत्यां परमानन्दजनकत्वमिदानीं तदभावाच्छोकजनकत्वमेव त्वदालोकस्येति भावः । कीदृश्या मे ? तवेदं प्रत्यक्षं हृदयं पश्यन्त्याः । कीदृशं ? प्रियापादालक्तेन प्रियायाश्चरणसम्बन्धियावकेन व्याप्तम् । अत एवारुणा छाया दीप्तिर्यस्य तादृशम् । अरुणद्योति इति पाठे अरुणः सन्ध्यारागस्तद्वद्द्योतितुं शीलमस्यास्तीत्यरुणद्योति, एतादृशम् । कमिव ? बहिः प्रसरदनुरागमिव हृदयं परिपूर्याधिक्याद्बहिर्निःसृतप्रेमेव । विपक्षे युवतिपरीहासशङ्कया शोकादपि मे धिक्कारः । छाया सूर्यप्रिया कान्तिरिति । अरुणः सन्ध्यारागे स्यादर्कसारथौ लोहितेऽपि च ॥१०॥ (५६)
—ओ)०(ओ—
इदानीं सर्गान्ते कविर्मङ्गलमाचरति—
अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविस्रंशन
स्तम्भाकर्षणदृष्टि हर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्व्यपोहयतु वः श्रेयांसि वंशीरवः ॥११॥
कंसरिपोः श्रीकृष्णस्य वंशीरवः मुरलिकानादः वो युष्माकं श्रेयांसि कल्याणानि व्यॉपहयतु ददातु । कल्याणदातृत्वसामर्थ्यकथनाय अत्र कंसरिपुपादोपादानम् । किंलक्षणः ? कुरङ्गीदृशां हरिणतरुणीनेत्राणामन्तर्मोहनं मनोमोहः मौलिघूर्णनं तन्नादप्रशंसार्थशिरश्चालनं मिलन्मन्दारस्य विस्रंसनमधःपातनं स्तब्धाकर्षणं स्तब्धानां मानिनीनामपि वशीकरणं दृष्टिहर्षणं नेत्रोत्साहः श्रवणनिर्वृत्त्या नेत्रविकाशो भवति । द्रव्यादिकर्मसाधने महामन्त्रः । पुनः किंलक्षणः ? दृप्यद्भिर्दर्पयुक्तैर्दानवैर्दैत्यैः दूयमानानामुपतप्यमानानां दिविषदां देवानां दुर्वारा अनिर्वार्या दुःखापदो दुःखसाधनीभूता चिन्तास्तासां भ्रंशो नाशकः । यत्श्रवणेन देवा दैत्यपीडाभयान्मुक्ता भवन्तीति भावः । अनेनापि सामर्थ्यलक्षणो नायकगुण उक्तः । तथा च देवादीनां विलाससाधको यस्य वेणुध्वनिः । किं वक्तव्यं तस्य पुरुषोत्तमस्य विलासित्वमिति भावः ॥११॥ (५७)
इति श्रीश्रीगीतगोविन्दे महाकाव्ये खण्डितावर्णने
विलक्षलक्ष्मीपतिर्नाम
अष्टमः सर्गः
॥८॥
*************************************************************************
.
(९)
नवमः सर्गः
मुग्ध मुकुन्दः
प्रणयकोपात्हरिमधिक्षिप्येदानीं कृतपश्चात्तापां सखी आह—
तामथ मन्मथखिन्नां
रतिरसभिन्नां विषादसम्पन्नाम् ।
अनुचिन्तितहरिचरितां
कलहान्तरितामुवाच रहसि सखी ॥१॥
अथशब्दो मङ्गलार्थः आनन्तर्यार्थो वा । कलहान्तरितां परुषवचनकथनाननरं कृतपश्चात्तापां श्रीराधां रहसि एकान्ते सखी उवाच कथितवती । कीदृशीं ? मन्मथखिन्नां मन्मथेन कामेन खिन्नां दुःखिताम्, अत एव रतिरसेन शृङ्गाररसेन भिन्नां सङ्गतां, रतिरसेन सम्भोगरागेण भिन्नां विदारितान्तःकरणां वा । अत एव विषादसम्पन्नामुद्वेगसहिताम् । अत एवानु वारं वारं चिन्तितं स्मृतं हरेश्चरितं पुरा विलसितं तत्कालीनविनयं वा यया ताम् ।
कलहान्तरिता चेयं नायिका । तदुक्तं भरतेन—
प्राणेश्वरं प्रणयकोपभरेण भीतं
या चाटूकारमचिरादवधीर्य पश्चात।
सन्तप्यते मदनवह्निशिखासहस्रैर्
बाष्पाकुला च कलहान्तरिता तु सा स्यात॥ इति ।
भ्हिन्नमन्यार्थवचने सङ्गते दारिते स्फुटमिति विश्वः ॥१॥ (५८)
—ओ)०(ओ—
तदेव गीतेन कथयति—
॥ प्रबन्धः १८ ॥
गुर्जरीरागयतितालाभ्यां गीयते ।
हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भवने ॥२॥
माधवे मा कुरु मानिनि मानमये ॥ ध्रु. ॥
गीतस्यास्य गुर्जरीरागः, यतितालः । गीतार्थस्तु—अये इति सम्बोधनम् । हे मानिनि ! मानवति ! माधवे श्रीकृष्णे मानं मा कुरु । अथवा, अये इति शुभावहविधौ प्रियसङ्गमलक्षणे इति यावत्निमित्तसप्तमीयम् । सम्भोगार्थं विलम्बं मानं मा कृथा इत्यर्थः । माधवपदेनापि माधवोऽपि त्वामेवं प्रसादयत्यतो मानं मा कुर्विति ध्वनितम् । ध्रुवपदम् ॥
मधुपवने वसन्तवायौ वहति सति कृष्णोऽभिसरति स्वयमायाति । हे सखि ! भुवने त्रैलोक्ये अपरं कृष्णाभिसरणादन्यत्किमुत्कृष्टं सुखं ? अपि तु न किञ्चिदित्यर्थः । अथवा, भुवने वैकुण्ठलोके लक्ष्म्यादिभिः किमतःपरमुत्कृष्टं सुखमनुभूयते ? न किञ्चिदपीत्यर्थः । तवार्तिनाशाय प्रवण इति हरिपदेन कथितम् ॥२॥ (१८.१)
अपि च,
तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥३॥
कुचकलशं स्तनघटं किं किमर्थं विफलीकुरुषे निष्फलं करोषि ? कृष्णकरार्पणादेव कुचकलशयोः साफल्यं, तदभावे वैफल्यमिति भावः । कीदृशं ? तालफलादपि तालफलापेक्षयापि गुरुं काठिन्यस्थौल्याभ्यां श्रेष्ठमित्यर्थः । अतिशयेन शृङ्गाररससहितं यथा चातिविमर्देनैव तालफलस्य रसप्रदत्वं भवति, तथैवात्राप्यतिविमर्देन शृङ्गाररसोद्भवो भवतीति ध्वनितम् । तथा च अपरोऽपि कलसो रसो जलं तत्सहितः मङ्गलाय प्रियजनागमे तत्करेऽर्प्यतेऽतोऽस्मिन्नवसरे त्वयाप्येवं कर्तव्यमिति भावः ॥३॥ (१८.२)
ननु यदा हरिरागतस्तदा त्वया न कथितमित्यत आह—
कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतीशयरुचिरम् ॥४॥
इदमचिरं साम्प्रतमेव अनुपदं स्थानं प्रति मया कति न कथितम्, कियन्न कथितं ? अपि तु बहु कथितमित्यर्थः । किमिदं ? हरिमतीशयरुचिरमतिशयेन मनोहरं चित्तचौरं मा परिहर उत्प्रेक्षस्व ॥४॥ (१८.३)
एवं श्रुत्वाश्रुमुखीं प्रत्याह—
किमिति विषीदसि रोदिषि विकला ।
विहसति युवतीसभा तव सकला ॥५॥
त्वं किमिति किमर्थं विषीदसि विखिन्ना भवसि ? ननु नास्मि विखिन्ना ? इत्यत आह—रोदिषीति । विकला विह्वला सती रोदिषि, अत एव सकला समस्ता युवतीसभा तरुणीपरिषद्विहसति हास्यं करोति । तव चेष्टितं विहसतीति वा । अथवा सकला चतुःषष्टिकलायुक्ता रसपरिपाटीकुशलेत्यर्थः ॥५॥ (१८.४)
तर्हि किं करोमीत्यत आह—
सजलनलिनीदलशीलित शयने ।
हरिमवलोकय सफलय नयने ॥६॥
सजलानि जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां शीलितं निर्मितं शयनं शय्या यस्यास्तादृशे । हरिं सकलसौन्दर्यादिगुणविशिष्टनायकरत्नमवलोकय पश्य, अत एव नयने नेत्रे सफलय कृतार्थय । तदुक्तं—अक्षण्वतां फलमिदं [भा.पु. १०.२१.७] इत्यादि । तथा च यद्विरहतप्ता त्वं निर्मितसजलनलिनीदलशयनासि, तमनुगतं सस्नेहावलोकनेन सत्कृत्य कृतकार्या भवेति भावः । अथवा, तव विरहतापेन सजलनलिनीदलशीलितशय्यायां हरिमवलोकयेति कति न कथितमित्यर्थः । सजलेत्यादौ सप्तमी, अस्मिन्शयने तवानुनयार्थमुपविष्टं हरिमवलोकयेति वा ॥६॥ (१८.५)
विचारयन्तीमाह—
जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥७॥
मनसि चित्ते गुरुखेदं महद्दुःखं किमिति जनयसि ? वक्ष्यमाणं मद्वचनं शृणु । कीदृशं ? अनीहितो नाकाङ्क्षितो भेदो वैरस्यं यत्र तादृशं युवयोर्हितकारिणमित्यर्थः । अथवा मया सह अनाकलितं भेदं यथा स्यादेवं मम वचनं शृणु । इयं मम सखी मत्तोऽभिन्ना, मदनिष्टं न वदिष्यतीति बुद्ध्वा मद्वचनं शृण्विति भावः ॥७॥ (१८.६)
तदेवाह—
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥८॥
हरिः श्रीकृष्णः उपयातु त्वदन्तिकं गच्छतु । बहु मधुरमतिसरसं यथा स्यादेवं वदतु, अधिकं चाटु वदत्विति वा । एवं सति स्वकीयं हृदयमतिविधुरं किमिति करोषि ॥८॥ (१८.७)
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥९॥
श्रीजयदेवेति । श्रीजयदेवभणितं हरिचरितं श्रीकृष्णस्य चरितं रसिकजनं भक्तिविशेषरसास्वादचतुरं भक्तजनं सुखयतु आनन्दयतु किंभूतं ? अतिललितं शृङ्गाररसं गीतविशिष्टत्वेनातिमनोहरमित्यर्थः । उक्तं च, शृङ्गारप्रचुरा चेष्टा यत्र तल्ललितं विदुः [भ.र.सि. २.१.२६७] इति ॥९॥ (१८.८)
* * * * *
स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥१०॥
हे विपरीतकारिणि विपर्ययविधायिनीति सम्बोधनम् । तत्ततो हेतोः त्वयि एतत्सर्वं युक्तमेव । तथा च यः परस्मिन्विपरीतमाचरति, तस्य सर्वं विपरीतमेव भवति । किं तत्? तव श्रीखण्डचर्चा विषं चन्दनानुलेपो विषमिव सन्तापजनको भवति । अथवा शीतांशुश्चन्द्रस्तपनः सूर्यः शीतलस्वभावोऽपि तापमाचरति । हिमं तुषारोऽपि हुतवहोऽग्निरिव दाहको भवति । क्रीडामुदः केलिप्रमोदाः यातना भवन्ति, यद्यतः स्निग्धे तस्मिन्प्रिये मधुरवचनैः स्नेहं प्रकाशयति सति परुषासि निष्ठुरभाषिण्यसि । यच्च प्रणमति तस्मिंस्त्वं स्तब्धासि, यच्च रागिणि अनुरागवति तस्मिंस्त्वं द्वेषं यासि द्वेषमवलम्ब्य स्थितासि, यच्च उन्मुखे आलिङ्गनाय सम्मुखे तस्मिंस्त्वं विमुखतां यातासि पराङ्मुखतां गतासि । यातना तीव्रवेदना इत्यमरः । विरोधालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥१०॥ (५९)
—ओ)०(ओ—
सर्गान्ते कविर्मङ्गलमाचरति—
सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादराद्
आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दिदिरम् ।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥११॥
वयं श्रीगोविन्दस्य पदारविन्दं चरणकमलं वन्दामहे नमस्कुर्महे । किमर्थं ? अशुभस्कन्दाय भक्तिप्रतिबन्धकदुरितस्य नाशाय, तादर्थ्ये चतुर्थी । बहुवचनं शिष्याद्यभिप्रायेण । दुरितनाशनसामर्थ्यं द्योतयति—स्वच्छन्दमिति । किंविशिष्टं ? स्वच्छन्दं यथा स्यादेवं मकरन्दवत्सुन्दरं च यथा स्यादेवं गलन्त्या मन्दाकिन्या गङ्गाया मेदुरं स्निग्धं तत्तथा । तथा च यस्माद्न्निःसृता गङ्गा जगत्पुनाति, किं वक्तव्यम्, तस्य सामर्थ्यमिति भावः । अरविन्दे हि मकरन्दो भवति, तेन मन्दाकिनी उपमीयते इत्युपमालङ्कारः । पुनः किंभूतं ? सान्द्रो निविड आनन्दो हर्षो येषां ते पुरन्दरादय इन्द्रादयो दिवि सीदन्तीति दिविषदो देवाश्च तेषां वृन्दैः समूहैः अमन्दादरातधिकादरादानम्रैः समन्तात्कायादिना नतियुक्तैस्तैः मुकुटेन्द्रनीलमणिभिः सन्दर्शिता इन्दिन्दिरा भ्रमरा यस्मिंस्तादृशम् । अनेन नमस्करणीयत्वं कथितम् । अत्र चरणस्य कमलोपमा, मन्दाकिन्या मकरन्दोपमा, सुरवृन्दमौलिनीलमणीनां भृङ्गोपमा, एवं पद्मरूपकता चरणस्य । तथा चात्र मन्दाकिनीपदेन व्यापकतयाविरतप्रवाहरूपाच्च भगवतः यशो वर्ण्यते । मन्दमुकुन्देति मन्दोऽलसो मन्दो यत्नवान्वा ॥११॥ (६०)
—ओ)०(ओ—
इति श्रीश्रीगीतगोविन्दे महाकाव्ये कलहान्तरितावर्णने
मुग्धमाधवो नाम
नवमः सर्गः
॥९॥
****************************************************************************
.
(१०)
दशमः सर्गः
चतुरचतुर्भुजः
इदानीं सख्या बोधितां मानिनीं स्वयमनुनयति—
अत्रान्तरेऽमसृणरोषवशामसीम
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवच ॥१॥
अत्रान्तरेऽस्मिन्नेवावसरे प्रदोषे निशामुखे हरिः कृष्णः सुमुखीं सुन्दराननां किञ्चित्कोपोपशमेन प्रसन्नवदनामित्यर्थः । श्रीराधामुपेत्य समीपं गत्वा सानन्दगद्गदपदमानन्देन गलदक्षरवाक्यसहितं यथा स्यात्तथा इति वक्ष्यमाणमुवाच । कीदृशीं ? मसृणरोषवशात्स्निग्धकोपयुक्तां सखीवचनैः किञ्चिन्नमितरोषामित्यर्थः । पुनः किंभूतां ? असीमभिरपारैः, निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्तां सव्रीडं सलज्जं यथा स्यादेवमीक्षितं सख्या वदनां मुखं यया ताम् ॥१॥ (६१)
**************************************************************************
.
(१०)
दशमः सर्गः
चतुरचतुर्भुजः
इदानीं सख्या बोधितां मानिनीं स्वयमनुनयति—
अत्रान्तरेऽमसृणरोषवशामसीम
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवच ॥१॥
अत्रान्तरेऽस्मिन्नेवावसरे प्रदोषे निशामुखे हरिः कृष्णः सुमुखीं सुन्दराननां किञ्चित्कोपोपशमेन प्रसन्नवदनामित्यर्थः । श्रीराधामुपेत्य समीपं गत्वा सानन्दगद्गदपदमानन्देन गलदक्षरवाक्यसहितं यथा स्यात्तथा इति वक्ष्यमाणमुवाच । कीदृशीं ? मसृणरोषवशात्स्निग्धकोपयुक्तां सखीवचनैः किञ्चिन्नमितरोषामित्यर्थः । पुनः किंभूतां ? असीमभिरपारैः, निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्तां सव्रीडं सलज्जं यथा स्यादेवमीक्षितं सख्या वदनां मुखं यया ताम् ॥१॥ (६१)
—ओ)०(ओ—
तदेव गीतेनाह—
॥ प्रबन्धः १९ ॥
देशवराडिरागाष्टतालीतालाभ्यां गीयते ।
वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचन्द्रमा
रोचयतु लोचनचकोरम् ॥२॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।
सपदि मदनानलो दहति मम मानसं
देहि मुखकमलमधुपानम् ॥ ध्रु. ॥
गीतस्यास्य देशवराडिरागः, अष्टतालीतालः । रागलक्षणं—
आरब्धगमनिद्रा
निघूर्णायमाननयनयुग्माघ्रा ।
सुखशायिनि निजदयिते
देशवराडि भवेद्गौरी ॥ इति ।
लघुर्दुर्तो लघुश्चेत्यष्टताली प्रकीर्तितः इति ।
सम्भोगकारणरहितं मानं मुञ्च त्यज । ननु मन्मानकृते तव का हानिर्जाता ? अत आह—सपदीति । सपदि त्वन्मानसमकाल एव मदनानलः कामाग्निः मम मानसं दहति तापयति । अतो मानत्यागस्य का वार्ता ? किन्तु मुखकमलमधुपानं देहि, मुखमेव यत्कमलं तत्सम्बन्धि यन्मधु सोत्पादिताग्निशमनाय तत्पानं देहि । अनेन सम्मुखे अपश्य्न्त्या मुखावलोकं याचितम् । चारुशीले मयि त्वदेकनिष्ठस्वभावे इति । अत एव अकारणं मानं मुञ्चेत्यर्थः । अत्यार्तो याचते—सपदि शीघ्रं मुखकमलमधुपानं मुखपद्मनिःसृतवचनामृतपानं देहि, अत्यादरश्रवणं पानमुच्यतेऽतः पानं देहीत्युक्तम् । मुखकमलमधुपानमधरामृतपानं वा ॥ ध्रुवपदम् ॥
अपि च—हे प्रिये ! त्वं यदि किञ्चिदपि प्रियाप्रियनिरपेक्षं स्वल्पमपि वदसि वक्षि, तदा दन्तरुचिकौमुदी तव दशनानां या दीप्तिः सैव कौमुदी चन्द्रज्योत्स्ना, सा अतिघोरमतिभीतं दरतिमिरं दरः साध्वसः, स एवान्धकारं तत्हरति दूरीकरोति । अपि च, तव वदनं चन्द्रमा इव सः स्फुरदधरसीधवे प्रकाशमानाधरामृतार्थं मम लोचनचकोरं चक्षुःपक्षिविशेषं रोचयति साभिलाषं करोति । सीधवे इति तादर्थ्ये चतुर्थी । अनेन वदनचन्द्रमसं न तृप्तिजनकत्वमिति कथितम् । लोचनयोश्चकोरत्वेन तदेकजीवनतया तदधीनत्वं चेति ध्वनितम् ॥२॥ (१९.१)
मृषा रोषं प्रकटयन्तीमाह—
सत्यमेवासि यदि सुदति मयि कोपिनी
देहि खरनखरशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम् ॥३॥
हे सुदति शोभनदशने ! त्वं सत्यमेव यथार्थमेव यदि मयि कोपिन्यसि, तदा खरास्तीक्ष्णा ये नखरास्त एव शरा बाणास्तैर्घातं प्रहारं देहि । तेनापि चेन्न तुष्यसि, तदा भुजबन्धनं बाहुभ्यां बन्धनं घटय, तेनाप्यसन्तोषे रदखण्डनं रदैर्दशनैः अधरे क्षतं जनय, येन वा सुखजातं सुखसमूहो भवति, तदेव कुरु । तथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुञ्चेति भावः । प्रभूणां हि स्वापराधेषु व्याजेन नखक्षतालिङ्गनचुम्बनादीन्प्रार्थयन्ते (सिच्) ॥३॥ (१९.२)
ननु या तव प्रिया, सा दण्डं विदधातु, किं मया ? अत आह—
त्वमसि मम जीवनं त्वमसि मम भूषणं
त्वमसि मम भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनुरोधिनी
तत्र मम हृदयमतियत्नम् ॥४॥
मम जीवनं त्वमसि, त्वयि विषण्णायां मम विषादो भवति । प्रसन्नायां प्रसाद इति त्वमेव मम जीवनम् । अतो जीवनादन्यत्किं प्रियो भवति ? अतस्त्वमेव मम वल्लभेति भावः । त्वं मम भूषणमलङ्करणमसि । गौराङ्गीं त्वां विना श्यामशरीरस्य मे केनापि भूषणेन शोभा न भवतीत्यर्थः । अनेनापि व्याजेनालिङ्गनं याचते । भवजलधौ गोपजन्मजलधौ व्रजरूपे रत्नाकरे त्वमेव मे रत्नमसि । यथान्यो रत्नाकरे प्रविश्य परिश्रान्तः क्वचिद्रत्नं लब्ध्वा पूर्णो भवति, तथाहमप्यस्मि । व्रजे त्वां स्त्रीरत्नं प्राप्य कृतार्थोऽस्मीति भावः । अनेन स्वस्य गोपकुलोद्भवं बहुमानयति, जन्मसाफल्यमप्येतावदेवेति ध्वनितम् । तथा च व्रजं समुद्रस्थानीयं व्रजाङ्गनाः रत्नानि, महारत्नं श्रीराधिकैवेति च । अब्धिजातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते इत्युक्तेः ।
उपसंहरति—भवत्विति । इह प्रवणे मयि भवती सततं सर्वदानुरोधिनी अनुकूला भवतु । तत्र त्वदनुकूलतायां मम हृदयमन्तःकरणसमुदायोऽतियत्नमतिशयितप्रयत्नवत। त्वदाराधनप्रयत्नयुक्तमस्तीत्यर्थः । अनुरोधोऽनुवर्तनमित्यमरः ॥४॥ (१९.३)
नीलनलिनाभमपि तन्वि तव लोचनं
धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपम् ॥५॥
नीलनलिनाभमिति । हे तन्वि कृशाङ्गि ! नीलनलिनस्य नीलोत्पलस्येवाभो कान्तिर्यस्य एतादृशं तव लोचनं कोकनदरूपं रक्तोत्पल सौन्दर्यं धारयति बिभर्ति । यदि च कुसुमशरः कामस्तस्य बाणभावेन बाणत्वेन तद्बाणाभिप्रायेण वा इदं कृष्णचक्षुरनुरञ्जयसि रक्तं करोषि, एतस्य चक्षुरनुरूपं योग्यं भवति । मन्मथशरमथितमानसानां रमणीनां नेत्राणि लोहितानि भवन्ति । बाणत्वेन च शरा हि सततं परमर्मभेदिनो रुधिराक्तत्वेन रक्ता भवन्ति । रोषं त्यक्त्वा सम्भोगाभिप्रायेण लोचनमनुरञ्जयेत्युचितमिति भावः । तरङ्गीति सम्बोधनेनापि कृशाङ्ग्यास्तव रोषो नोचित इति ध्वनितम् ।
अथवा, कुसुमशरबाणः कटाक्षः, तेन यो भावः शृङ्गाररसस्यानुभावः, तेन सस्नेहकटाक्षावलोकनेनेत्यर्थः । कटाक्षावलोकलालसं कृष्णं मां यदि रञ्जयसि, ममानुरञ्जनं करोषि, एतत्तव कामबाणस्य वा इदमनुरञ्जनमनुरूपं युक्तमित्यर्थः । श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनं युक्तमेवेति भावः ॥५॥ (१९.४)
किञ्चित्प्रसन्नां वीक्ष्याह—
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले
घोषयतु मन्मथनिदेशम् ॥६॥
मणिमञ्जरी हारलता कुचकुम्भयोः स्तनकलसयोरुपरि स्फुरतु, चञ्चला भवतु । तव हृदयदेशं वक्षःप्रदेशं रञ्जयतु स्वरश्मिभिः शोभयतु । त्वन्नयननलिनं रक्ततां धत्ते, त्वं च कृष्णं मां रञ्जयसि, अतो मणिमञ्जर्यपि ते वक्षो यदि रञ्जयति, तदानुरूपं भवतीति भावः । अत्र स्मरकेलिकर्मारम्भे मञ्जरीयुक्तपूर्णकलसस्थापनं मङ्गलायैवेति सूचनाय कुचयोः कलशत्वेन मणिहारस्य च मञ्जरीत्वेन निरूपणं युक्तमेव कृतम् ।
अपि च, तव घनजघनमण्डले मांसलजघनप्रदेशे रशनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु । मन्मथस्य कामस्य निदेशमाज्ञां घोषयतु, सम्भोगरणे मदनाज्ञया विलासिजनान्योजयत्विति भावः । वचनचातुर्येण, स्फुरतु मणिमञ्जरि, रसतु रशनापि इत्यादिना विपरीतरतं याचते ॥६॥ (१९.५)
अपि च—
स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि चरणद्वयं
सरसलसदलक्तकरागम् ॥७॥
हे मसृणवाणि ! स्निग्धवचने ! भण आज्ञापय, तव चरणद्वयं सरसः सान्द्रः सह रसेन शृङ्गारेण सह वर्तते इति वा सरसं यथा स्यादेवं लसत्शोभमानोऽलक्तकरागो यत्र तादृशं करवाणि कुर्याम् । कीदृशं चरणद्वयं ? स्थलकमलगञ्जनं स्थलोत्पन्नं यत्कमलं स्वकान्त्या तस्य तिरस्कारकं, अरुणतया सौगन्ध्यसौकुमार्येण च तिरस्कृतस्थलकमलसौन्दर्यमित्यर्थः । अनेन चरणस्य पद्मादपि शीतलत्वं कथितं, तप्तहृदयानुरञ्जकत्वात। पुनः कीदृशं ? मम हृदयरञ्जनं मद्धृदयानुरागजनकम् । अथवा, मम हृदयमपि क्रौञ्चबन्धादौ रञ्जयति, सम्भोगे स्खलितालक्तकरागयुक्तं करोतीति तथाभूतम् । अतो मयास्य रञ्जनमुचितमिति भावः । पुनः कीदृशं ? जनित उत्पादितो रतिरङ्गे सुरतकौशले सम्भोगरागस्य वा परभागः परस्परं शोभा येन तादृशम् । कामोद्रेककारीत्यर्थः । तथा च क्रौञ्चबन्धादौ मम हृदयलग्नं सत्परस्परशोभां दास्यति इति भावः । परस्परं तु या कान्तिः परभागः स कथ्यते इति, रङ्गः कौशलरागयोः इति धरणिः ॥७॥ (१९.६)
स्मरगरलखण्डनं मम शिरसि मण्डनं
देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो
हरतु तदुपाहितविकारम् ॥८॥
स्मरेत्यादि । हे प्रिये ! उदारं सुन्दरं पदपल्लवं चरणकिशलयं मम शिरसि देहि मस्तके स्थापय । अनेन प्रियजनचरणस्य भगवत्कृतगौरवातिशयेनोपास्यत्वमुच्यते । पल्लवपदेन सौकुमार्यं सौगन्ध्यं च, तापहारित्वं माङ्गल्यं सौन्दर्यं चेति । उदारं महतभीष्टप्रदं वा, तेन च सेव्यत्वे योग्यत्वमिति । कीदृशं ? मम मण्डनमलङ्करणम् । स्मरस्य यत्गरलं विषं तस्य खण्डनं नाशनम् । विरहिणि मूर्छादिप्रदत्वेन मलयानिलादेः स्मरगरलत्वनिरूपणात्स्मरस्य सर्पत्वमाक्षिप्यते । चरणपल्लवं धेहीत्यनेन नायिकाया गारुडिकत्वं चेत्याक्षेपरूपकमिदम् । अपरमपि सर्पादिविषं गारुडिकचरणाभिघातेनाभिमन्त्रितपल्लवाध्यारोपणेन च शाम्यतीति ध्वनितम् ।
किं च, यदि दारुणो दुःसहो मदनः कामस्तज्जनितं यत्कदनं तापः स एवारुणः सूर्यः ज्वलति, अतस्तेन उपाहितविकारं ग्लान्यादिरूपं हरतु दूरीकरोतु । अन्योऽपि सूर्यसन्तापः शिरसि पल्लवादिस्थापनेन शाम्यतीति ध्वनितम् । अरुणः स्फुटरागे स्यात्सूर्ये सूर्यस्य सारथौ इति । कदनं कलुषे तापे च इति ॥८॥ (१९.७)
इति चटुलचाटुपटुचारु मुरवैरिणो
राधिकामधि वचनजातम् ।
जयति जयदेवकविभारतीभूषितं
मानिनीजनजनितशातम् ॥९॥
इतीत्यादि । इत्यनेन प्रकारेण मुरवैरिणः कृष्णस्य राधिकामधि राधां लक्ष्यीकृत्य प्रोक्तं वचनजातं वाक्यसमूहो जयति सर्वोत्कर्षेण वर्तताम् । कीदृशं ? चटुलं मनोहरं चाटु प्रीतियुक्तं पटु चतुरं चारु सुकुमारम् । पुनः कीदृशं ? जयदेवनाम्नः कवेर्भारती भारतीसंज्ञा यस्या एवंभूता वाणी तया भूषितमलङ्कृतम् । मानिनीजनेति । मानिनीजनस्य मानवतीलोकस्य जनितं शातं सुखं येन तत्तथा ।
“जयति पद्मावतीरमणजयदेवकविभारतीभणितमतिशातम्” इति पाठान्तरे, पद्मावती जयदेवस्य पत्नीरस्या रमणो वल्लभो यो जयदेवकविस्तेन भारत्या भारतीसंज्ञया कवित्वं वर्णितम् । पुनः कीदृशं ? अतिशातमतिशयितं सुखं यस्मात्तादृशम् । भारत्या वाण्या भणितमिति तु व्याख्यानं मन्दम् । तथा सति पौनरुक्त्यापत्तेः । प्रथमपाठस्तु समीचीन एव । तदुक्तं रसार्णवसुधाकरे—शृङ्गारादिषु सर्वेषु रसेष्विष्टैव भारती [र.सु. १.२९१] इति । शृङ्गारतिलके च—
प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा ।
भारतीयं भवेद्वृत्तिर्वीरहास्याद्भुताश्रया ॥ [शृ.ति. ३.४४] इति ।
चटुलं सुन्दरे चले इति धरणिः । चटुलचाटू प्रियवाक्यमिति हड्डचन्द्रः । पट्टस्तीक्ष्णे नीरोगे च चतुरेऽन्यवदिति विश्वः । शर्मशातसुखानि च इत्यमरः ॥९॥ (१९.८)
* * * * *
इदानीमात्मानं निरपराधं ज्ञापयन्सम्भोगार्थं प्रोत्साहयन्नाह—
परिहर कृतातङ्के शङ्कां त्वया सततं घन
स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनी ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥१०॥
हे कृतातङ्के ! विहितकोपे श्रीराधे ! त्वं शङ्कां ममान्यकामिनीसम्भोगो जात इति संशयं परिहर त्यज । यतो ममान्तरं मम स्वान्ते चित्ते अन्तरमभ्यन्तरं वितनोस्तनुशून्यात्कामादन्यो धन्यो जनः तादृशसौभाग्ययुक्तः स्त्रीलक्षणः कोऽपि न विशति प्रविशति । कुतो न विशति ? इत्याह—परेति । परानवकाशिनी इतरावकाशशून्ये । अत्र हेतुमाह—त्वयेति । घने निविडे स्तनजघने यस्यास्तादृश्या त्वया सततं नित्यमेवाक्रान्ते व्याप्ते । तथा च सदा त्वयाक्रान्ते मदीये हृदयेऽन्यस्य प्रवेष्टुं स्थलमेव नास्ति । साङ्गस्य प्रवेशाभावातनङ्ग एव परं प्रविशति, तस्याङ्गाभावादित्यर्थः । हे प्रणयिनि ! तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां कर्तव्यतां विधेहि कुर्वित्यर्थः । आतङ्कः क्रोधशङ्कयोः इति धरणिः ॥१०॥ (६२)
—ओ)०(ओ—
यद्येवं न प्रत्येषि, तदा मय्यपराधानुकूलं दण्डमाचरेत्याह—
मुग्धे विधेहि मयि निर्दयदन्तदंश
दोर्वल्लिबन्धनिविडस्तनपीडनानि ।
चण्डि त्वमेव मुदमुद्वह पञ्चबाण
चाण्डालकाण्डदलनादसवः प्रयान्तु ॥११॥
हे मुग्धे ! सुन्दरि ! मूढे वा । निर्दयं दयारहितं दन्तदंशं दशनक्षतम्, अथ च दोर्वल्लिबन्धं भुजलताबन्धनं निविडं गाढं स्तनाभ्यामापीडनं च विधेहि कुरु । हे चण्डि ! अतिकोपने ! त्वमेव मुदमपराधिनो मम दण्डाचरणेनानन्दं च प्राप्नुहि, न पुनः पञ्चबाणः कामः । स एव निरपराधिजनहिंसकत्वेन चाण्डालस्तस्य काण्डदलनान्नाराचप्रहरणातसवः प्राणाः प्रयान्तु निर्गच्छन्तु । चाण्डालप्रहारेण न समीचीना गतिः । अतस्त्वया साक्षादेव यथोचितदण्डाचरणं विधेयमिति भावः । तथा च कामपीडया प्राप्तदशम्यवस्थयातिकातरः सम्भोगरूपं प्रसादं मानवत्याः सकाशद्याचत इति ध्वनितम् । चण्डी स्यादतिकोपना इत्यमरः ॥११॥ (६३)
—ओ)०(ओ—
ननु कोपो नास्त्येवेत्यत आह—
शशिमुखि तव भाति भङ्गुरभ्रूर्
युवजनमोहकरालकालसर्पी ।
तदुदितभयभञ्जनाय यूनां
त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥१२॥
हे शशिमुखि चन्द्रानने ! तव भङ्गुरभ्रूर्कुटिला भ्रूः भाति शोभते । कीदृशी ? युवजनानां मोहाय सम्मोहनाय कराला भीषणा कालसर्पी कृष्णाहिवधूः । अन्या भुजगी दृष्ट्वा मोहयत्यसौ दृष्टिमात्र एवेत्येतस्याः करालत्वम् । तदुदितभयभञ्जनाय तस्याः सकाशादुदितं यद्भयं तस्य नाशाय यूनां तरुणानां मल्लक्षणस्य यून इत्यर्थः । त्वदधरसीधुसुधैव त्वदीयाधरसीधुः मदिराविशेषः स एव सुधा अमृतं, स एव सिद्धः साधितो मन्त्रः । त्वमेवं चेदधरामृतं पाययसि, तदा परं तद्विषापहरणं न स्यादेव । अतोऽधरपानं दत्त्वा तव कोपसर्पदष्टस्य मम जीवनं सम्पादय इति भावः ॥१२॥ (६४)
—ओ)०(ओ—
एवमप्युत्तरमप्रयच्छन्तीं प्रत्याह—
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां
स्वयमतिशयस्निग्धो मुग्धे प्रियोऽयमुपस्थितः ॥१३॥
हे तन्वि कृशाङ्गि ! तव वृथा मौनं निष्प्रयोजनवचनसङ्कोचो मां व्यथयति पीडयति । कृशाङ्ग्याः तव एतावन्तं कोपधारणमनुचितमिति सूचनाय तन्विपदोपादानम् । तस्मात्त्वं पञ्चमं रागविशेषं प्रपञ्चय विस्तारय । हे तरुणि ! मधुरालापैर्माधुर्यवर्षिस्वरालापैः मधुरवचनैर्वा तापं मम सन्तापं विनोदयापसारय । हे सुमुखि ! शोभनवदने ! दृष्टिभिः कटाक्षावलोकैः विमुखीभावमौदास्यं विमुञ्च । सुमुख्यास्तु वैमुख्यमनुचितमिति भावः । हे मुग्धे ! अयं प्रियः स्वयमेव अनाहूत एवोपस्थित आगतः । कीदृशः ? अतिशयस्निग्धः अतिशयेन स्नेहवान। अतो मानं मुञ्च, स्वयमागतः प्रियो हातुं नोचित इति भावः ॥१३॥ (६५)
—ओ)०(ओ—
सम्प्रति मानापनोदनाय तदङ्गस्तुतिं करोति—
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर्
गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥१४॥
हे चण्डि ! हे प्रिये ! अयं तवाधरो बन्धूकद्युतिबान्धवः बन्धूकस्यारुणपुष्पविशेषस्य वा द्युतिर्दीप्तिस्तस्या बान्धवः सुहृत्पोषक इत्यर्थः । अनेन बन्धूकादपि श्रैष्ठ्यमुच्यते । अयं च स्निग्धो गण्डः कपोलः मधूकच्छविर्मद्विरहजनितपाण्डिमा मधूकस्येव छविः कान्तिर्यस्य एतादृशश्च शोभते । ते लोचनं नीलनलिनश्रीमोचनं स्वकान्त्या नीलोत्पलस्य कान्तिं मोचयति त्याजयतीति तादृशम् । स्वभावत एव नीलतारकत्वान्नीलं चक्षूरञ्जनेन विनापि सुतरां नीलोत्पलमप्यतिशेत इति भावः ।
हे कुन्दाभदन्ति ! कुन्दपुष्पस्येवाभा येषां तादृशा दन्ता यस्यास्तादृशी तव नासा तिलप्रसूनस्य पदवीं तिलपुष्पप्रसिद्धिमन्वेति प्राप्नोति । अत्येति पाठे अतिक्रमतीत्यर्थः । प्राय इति तर्कयामि । स प्रसिद्धः पुष्पायुधः पुष्पमेवायुधं शस्त्रं यस्य एतादृशः कामस्त्वन्मुखसेवया विश्वं जगत्विजयते । कामः पञ्चभिरेव शरैर्विश्वं विजयते । त्वन्मुखे बन्धूकमधुकनीलोत्पलतिलकुन्दपुष्पाणि सन्तीति त्वन्मुखादेव प्राप्तायुधः कामो विश्वं विजयत इति भावः । तथा च, रक्तपीतनीलकषायोज्ज्वलेति आकर्षणवशीकरणोन्मादनद्रावणशोषणेति कामस्य शरा कथिताः । त्वन्मुखसेनयेति पाथे त्वन्मुखमेव या सेना कटाक्षं, तया । बन्धूको बन्धुजीवे स्यातिति विश्वः । मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः इति हारावली ॥१४॥ (६६)
—ओ)०(ओ—
दृशौ तव मदालसे वदनमिन्दुमत्यास्पदं
गतिर्जनमनोरमा विधुत रम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवाव्
अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥१५॥
दृशौ तवेति । हे तन्वि ! त्वं पृथ्वीगता पृथिव्यां प्राप्ता सती विबुधयौवतं देवयुवतीनां समूहमहो आश्चर्ये वहसि धारयसि । एकैकेनैव अङ्गेन देवीं प्राप्ता सती विबुधाङ्गनानां सौन्दर्यं तिरस्करोषीत्यर्थः । तदेवाह—दृशाविति । तव दृशौ नेत्रे मदालसे मदेन हर्षेणालसे मन्थरे । तथा च स्वर्गे एकैव मदालसानाम्नी देवाङ्गना, त्वं तु नेत्रे एव द्वे मदालसे दधासीत्याश्चर्यमिति भावः । तव वदनमिन्दुमत्यास्पदमिन्दुविषयिणी या मतिस्तस्या आस्पदं विषय इत्यर्थः । तव मुखेऽयमिन्दुरिति मतिर्भवति । तथा चेन्दुमती देवाङ्गना तस्याः सौन्दर्यादप्यधिकशोभां मुखेनैव वहसीति श्लेषेण लभ्यते । तव गतिः गमनं जनमनोरमा लोकानां मनोहारिणी । अथवा, जनस्य मल्लक्षणभृत्यजनस्येति । मनोरमानाम्नी देवाङ्गना, तदात्मिका । अथवा, रमा लक्ष्मीः, तदात्मिका । लक्ष्म्याः सौन्दर्यादिकं तव गत्यन्तर्भूतं वर्तत इत्यर्थः । तवोरुद्वयमूरुयुग्मं विधुतरम्भं विधुता त्वच्छोभया तिरस्कृता कदली येन तादृशम् । तथा च ऊरुसौन्दर्येण तिरस्कृता रम्भानाम्नी देवाङ्गनापि । अथ च तव रतिः सुरतक्रीडा कलावती कामकलाकौशलशालिनी हावभावकिलकिञ्चितमोट्टायितबिब्बोकादिमतीत्यर्थः । तथा च सम्भोगकौशलेनैवाल्पीकृता कलावतीनाम्नी देवाङ्गनेति भावः । भ्रुवौ रचितचित्रलेखे निर्मितविचित्रलेखे विचित्रलेखा वा, रुचिरपाठे मनोहरे इत्यर्थः । तथा च स्वर्गे एका चित्रलेखा, अत्र तु त्वद्भ्रूभ्यां चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः ।
प्रेयोनामायमलङ्कारः । तदुक्तं दण्डिना—प्रेयः प्रियतराख्यानं रसवद्रसपेशलं [का.आ. २.२७५] इति । पृथ्वीनामकं चेदं छन्दः इत्यपि ध्वनितम् । तथा श्लोकद्वयेन मानवत्याः प्रसादनं कथितम् ॥१५॥ (६७)
—ओ)०(ओ—
कविः सर्गान्ते आशिषं प्रयुङ्क्ते—
प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान।
यत्र स्विद्यति मीलति क्षणमथ क्षिप्ते द्विपे तत्क्षणात्
कंसस्यालमभूज्जितं जितमिति व्यामोहकोलाहलः ॥१६॥
हरिः श्रीकृष्णो वो युष्माकं गायतां शृण्वतां प्रीतिमानन्दं तनुतां विस्तारयतु । भक्तानां क्लेशहारीति हरिः । किंलक्षणः ? रणे ###
संस्कारबोधो याभ्यां तादृशौ कुम्भौ यस्य तथाविधेन कुवलयापीडेन हस्तिना सार्धं सम्भेदवान्संसर्गवान। अत्र प्रचुरशृङ्गारित्वं, तथा च श्रीराधायां सर्वाधिको भावः, तथा च श्रीकृष्णस्याद्भुतवीर्यं शृङ्गारविरोधिभयानकहेतुमहासत्त्वहस्तिसङ्ग्रामे शृङ्गाररसाविर्भावेन वर्णितमिति ज्ञेयम् । तदेवाह—यत्र यस्मिन्रणे तत्कुम्भस्थलदर्शनोद्बुद्धसात्त्विकविकारेण स्विद्यति स्वेदं कृतवति, पुनः केनापि सुखोदयेन क्षणं मीलति ईक्षणं निमीलति सति, अथानन्तरं तत्क्षणमेव क्षिप्ते द्विपे क्षिप्ते हते सति कंसस्यालमतिशयेन जितम्, आवेगेन द्विरुक्तिः इति व्यामोहकोलाहलोऽभूत। अयमर्थः—प्रथमस्तावत्स्वेदमीलिताभ्यां कंससभायामानन्दो जातः । पश्चात्तत्क्षणमेव हते गजे आवेगात्शत्रुणा जितं जितमिति अमुना प्रकारेण व्यामोहः मूर्च्छा कोलाहलो हाहाशब्दश्चाभवदित्यर्थः । यद्वा, उदिते सात्त्विकविकारे तादृशस्य दर्शनात्व्यामोहात्भ्रान्त्या जितं जितमिति कोलाहलोऽभवदित्यर्थः ॥१६॥ (६८)
इति श्रीगीतगोविन्दमहाकाव्ये मानिनीवर्णने
मुग्धमाधवो नाम
दशमः सर्गः
॥ १० ॥
****************************************************************************
.
(११)
एकादशः सर्गः
**सानन्द गोविन्दः **
दशमे मानप्रकारमनुवर्ण्येदानीमेकादशे सम्मानिताया मानिन्या अभिसारमाह—
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ॥१॥
कापि अनिर्दिष्टाभिधा सखी श्रीराधां जगाद बभाषे । क्व सति ? प्रदोषे स्फुरति सति । कीदृशे ? दृष्टिमोषे दृशौ विमुष्णाति चोरयति स्वविषयग्रहणासमर्थं करोतीति तादृशे रसोद्बोधकरगाढान्धकार इत्यर्थः । पुनः क्व सति ? केशवे मृगाक्षीं हरिणनयनां श्रीराधां सुचिरं बहुकालं व्याप्य अनुनयेन प्रीणयित्वा प्रसादयित्वा कुञ्जशय्यां लताद्यावेष्टितकुटीराभ्यन्तरस्थशयनीये गतवति सति । सुचिरमित्यादिना तस्यां स्नेहाधिक्येन तद्वशता कथितेति ध्वनितम् । राधानुनय एव मम परमपुरुषार्थ इति ज्ञापनार्थं विविधपुष्पादिनालङ्करणादिकं येन तादृशे । कीदृशीं राधां ? रचिता रुचिरा मनोहरा भूषालङ्कृतिर्यया ताम् । पुनः कीदृशीं ? निरवसादां निर्गतोऽवसादः कृष्णानागमनजन्यं दुःखं यस्या तां, कृष्णानुनयाद्विगतखेदामित्यर्थः ॥१॥ (६९)
—ओ)०(ओ—
तदेव गीतेन कथयति—
॥ प्रबन्धः २० ॥
वसन्तरागयतितालाभ्यां गीयते ।
विरचितचाटुवचनरचनं
चरणे रचितप्रणिपातम् ।
सम्प्रति मञ्जुलवञ्जुलसीमनि
केलिशयनमनुयातम् ॥२॥
मुग्धे ! मधुमथनमनुगतमनुसर राधिके ॥ ध्रु. ॥
गीतस्यास्य वसन्तरागो यतितालश्च । तल्लक्षणं कथितं प्राक।
गीतार्थस्तु—हे मुग्धे सुन्दरि ! अनुगतमधुमथनानुसरणकृतविलम्बादनभिज्ञे वा । हे राधिके ! रूपेणाधिके सकलव्रजाङ्गनातिशयितसौन्दर्येण मोहितव्रजेन्द्रनन्दने, अथवा स्वमाधुर्यवर्षिण्या वाण्या पञ्चमादिस्वरेण वा वशीकृतकृष्णे ! वर्णितं च भगवत्प्रियैः—
कृष्णसारहरपञ्चमस्वरे
मुञ्च गीतकुतुकानि राधिके ।
प्रेक्षतेऽत्र हरिणानुधावितां
त्वां न यावदतिभीषणो जनः ॥ [उ.नी. ४.२६] इति ।
रस्तु शब्दे रूपे च इत्येकाक्षरः । मधुमथनं मधु मधुराख्यरसस्तं मथ्नाति विलोडयतीति तत्तथा, तं शृङ्गाररसास्वादचतुरमित्यर्थः । अथवा, मधुमथनः भ्रमरश्च त्वद्रसास्वादलम्पटस्तम् । अथवा, मधुः वसन्तस्तं मथ्नाति क्षोभयति, स स्मरस्तं कन्दर्पकोटिसुन्दरमनुसरानुगच्छ ।
कीदृशं ? अनुगतं तव सौन्दर्यलावण्यादिनाकृष्टम् । आनुकूल्येन त्वामनुसृतं वा । अथवा, कामेनाधिके इति राधिके शृङ्गारस्वभाव इत्यर्थः । रस्तु कामः इत्यप्येकाक्षरः । मधुं वसन्तमथ कार्त्स्न्येन सर्वतोभावेन नम तद्वशा भूत्वा नुगतं सङ्केतप्राप्तं प्रियमनुसर क्रीडापरा भवेत्यर्थः, वसन्तस्योद्दीपनविभावात। अथवा, हे राधिके ! अनुसर । नन्वनाहूता कथं व्रजामि ? इति चेत्, अत आह—मधुनामा विदूषकोऽयं समागतस्तं मधुं नमस्कृत्यानुसरेत्यर्थः ॥ ध्रुवपदम् ॥
अनुगतत्वमेवाह—विरचिता विहिता चाटुप्रियोक्तिः, “मम कोटिप्राणवल्लभा त्वमेवासि । त्वत्पादनखशोभयापि व्रजसुन्दरीकदम्बमपि न तुलयामि । त्वया स्वासाधारणगुणैर्वशीकृतोऽस्मि । त्वां विना क्षणमपि स्थातुं न शक्तोऽहम्” इत्यादिवचनकदम्बस्य रचना सन्दर्भो येन तादृशम् । पुनः कीदृशं ? तव चरणेऽङ्घ्र्यौ रचितः प्रणिपातो येन तादृशम् । अथवा, तवानुनयनाय मच्चरणे रचितः प्रणिपातो येन तादृशम् । चरणे सङ्केताभिमुखगमनार्थमिति वा । विविधानुनयपूर्वकनमस्क्रियाकथनायात्र रचितपदोपादानम् ।
तर्हि सम्प्रति कुत्रास्ति ? इत्याह—सम्प्रतीत्यादि । सम्प्रत्यधुना मञ्जुलो मनोहरो यो वञ्जुलो वेतसस्तस्य सीमनि पर्यन्ते अशोकलतिकातटे इति यावत्, यत्केलिशयनं क्रीडाशय्या, तामनु लक्ष्यीकृत्य यातं गतम् । तत्रस्थः त्वां प्रतीक्षत इत्यर्थः । वञ्जुलादीनामुद्दीपनविभावत्वेन परिगणनादुपादानम् ॥२॥ (२०.१)
तां प्रोत्साहयन्ती त्वरयति—
घनजघनस्तनभारभरे
दरमन्थरचरणविहारम् ।
मुखरितमणिमञ्जीरमुपैहि
विधेहि मरालनिकारम् ॥३॥
हे सखि ! उपैहि कृष्णमुपगच्छ । कथं यथा स्यात्? दरेण साध्वसेन मन्थरश्चरणविहारः पदविन्यासो यत्र एवं यथा स्यात। तत्र हेतुगर्भविशेषणेन सम्बोधयति—घनयोर्निविडयोर्जघनस्तनयोर्भारस्य भरोऽतिशयः यस्यास्तादृशि । मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जीरादिशब्देन च निकारं तिरस्कारं विधेहि कुरु । सम्प्रति मरालेषु शब्दायमानेषु सत्सु मञ्जीरादिध्वनिरपि मरालशब्दत्वेनैव लोकैर्ग्राह्य इति योग्योऽभिसारक्षण इति ध्वनितम् । अथ च हंसशब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य इति भावः । तदुक्तं वसन्तराजे—काष्ठासु सर्वास्वपि दर्शनेन हंसस्य शब्देन स सर्वसिद्धिः इति । मरालो राजहंसे स्यात्मरालो हंसमात्रके इति धरणिः । निकारः स्यात्परिभवे धान्यस्योत्करणेऽपि च इति विश्वप्रकाशः ॥३॥ (२०.२)
अन्यमपि उद्दीपनविभावं वर्णयति—
शृणु रमणीयतरं रमणी जन
मोहनमधुरिपुरावम् ।
कुसुमशरासनशासनवन्दिनि
पिकनिकरे भज भावम् ॥४॥
तरुणीजनानां मोहनं माधुर्यातिशयेन मोहजनकं मधुरिपोः कृष्णस्य रावं शब्दम् । करकमलेन करोमि चरणमहमागमितासि विदूरं [गीत २३.२] इत्यादिईनि मधुराणि सम्भाषणानि महामधुरमोहनात्यद्भुतस्वरग्राममूर्छनातानतालरागैरालापितं त्वद्गुणसङ्केतितवेणुनादं वा शृण्वाकर्णय । कीदृशं ? रमणीयतरमतिशयेन रमणीयं, अतो रमणीजनानां मोहनम् । मधुपविरावमिति पाठे मधुपानां भ्रमराणां विविधप्रकारेण रसोद्बोधकं शब्दम् । अथवा, मधुं मधुररसं पिबति अत्यासक्त्या स्वदतीति मधुपः श्रीकृष्णस्तस्य विविधानुनयालापमिति । मधुरिपुशब्देनापि भ्रमरश्लेषेण तद्रसलाम्पट्यं तद्गुणगानपरत्वं च कथितम् । तथा च श्रीभागवते—मधुरया गिरा [भा.पु. १०.३१.८] इति, का स्त्री [भा.पु. १०.२९.४०] इति च ।
पिकनिकरे कोकिलसमूहे कुसुमशरासनशासनवन्दिनि सति कुसुमान्येव शरासनं धनुर्यस्य तादृशः कामः, तस्य शासनं वन्दितुं नमस्कर्तुं शीलमस्य तादृशे कामाज्ञाकारिणि सतीत्यर्थः । भावं कृष्णेऽनुरागं भज आश्रय । अथवा, कामाज्ञया शब्दायमाने पिकनिकरे भावमभिप्रायं भज पिकनिनदं श्रुत्वा उद्रिक्तरसा प्रियतमसम्भोगावसरे पिकादीनां रुतमिव कूजितं प्रकटीकुर्वित्यर्थः । वन्दिनः स्तुतिपाठकाः इत्यमरः । अत्रापि पिकनिकरझङ्कारेण कृष्णस्य मधुरस्वरो यात्रायां गीतवाद्य्वत्शकुनमित्यपि ध्वनितम् ॥४॥ (२०.३)
अथ च—
अनिलतरलकिशलयनिकरेण
करेण लतानिकुरम्बम् ।
प्रेरणमिव करभोरु करोति
गतिं प्रति मुञ्च विलम्बम् ॥५॥
हे करभोरु ! करभः कनिष्ठातो मणिबन्धपर्यन्तं करस्य बहिर्भागस्तद्वत्निम्नोन्नते ऊरू यस्यास्तादृशि ! गतिं गमनं प्रति विलम्बं कालक्षेपं मुञ्च त्यज । अनिलेन वायुना तरलश्चञ्चलो यः किशलयनिकरः नवपल्लवसमूहस्तत्स्वरूपेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति, किशलयकम्पच्छलेनासमञ्जसमसहमानः लतासमूहोऽपि त्वां प्रेरयतीति विलम्बो न कार्य इति ध्वनितम् । शाकुनशास्त्रे च—
वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः ।
अनुकूलो वहन्वायुः प्रयाणे शुभसूचकः ॥ इति ।
समूहे निकुरम्बमस्त्रियामित्यमरः । मणिबन्धादाकनिष्ठं करस्य करभो बहिः इत्यर्थः । प्रेयोनामालङ्कारः ॥५॥ (२०.४)
अपि च—
स्फुरितमनङ्गतरङ्गवशादिव
सूचितहरिपरिरम्भम् ।
पृच्छ मनोहरहारविमलजल
धारममुं कुचकुम्भम् ॥६॥
कुचकुम्भं स्तनकलशं पृच्छ । सखी समीचीनमसमीचीनं वा वदतीति प्रश्नं कुरु । कीदृशं ? स्फुरितं सकम्पम् । कस्मादिव ? अनङ्गस्य कामस्य यस्तरङ्ग ऊर्मिः, तद्वशादिव । अत्रनङ्गतरङ्गेत्यनेन तस्या रसतरङ्गिणीत्वमाक्षिप्यते । अन्योऽपि कुम्भो नद्यास्तरङ्गैः प्रेर्यमाणः सकम्पो भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरङ्गिण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति भावः । इवशब्दोऽत्रोत्प्रेक्षाद्योतकः ।
पुनः कीदृशं ? मनोहरो यो मुक्ताहारः, स एव विमला निर्मला जलधारा यत्र तादृशम् । अत्र स्तनोपरि स्थितस्य हारस्य जलधारत्वरूपणात्, स्तनस्य पूर्णकलशत्वेन रूपणमाक्षिप्यते । पूर्णादेव कलशात्तरङ्गैरान्दोलने सति बहिर्जलधारानिःसरणसम्भवात।
पुनः कीदृशं ? सूचितो हरेः कृष्णस्य विरहतापहरणाद्धरिरिति परिरम्भ आलिङ्गनं येन तादृशम् । नारीणां स्तनकम्पः प्रियसङ्गमं सूचयतीति शाकुनिकाः । तदुक्तं—नित्यं नार्याः स्तने कम्पः प्रियसङ्गमसूचकः इति । पूर्णकलशत्वेन स्तनरूपणमपि यात्रायां पूर्णकलशदर्शनं शुभमिति सूचनाय ॥६॥ (२०.५)
सख्याः सकाशाल्लज्जमानां प्रत्याह—
अधिगतमखिलसखीभिरिदं तव
वपुरपि रतिरणसज्जम् ।
चण्डि रसितरशनारवडिण्डिमं
अभिसर सरसमलज्जम् ॥७॥
इदं तव वपुः सखीभिरतिशयेन रतिरणाय सुरतसङ्ग्रामाय सज्जं कृतालङ्करणादिसंविधानमधिगतं ज्ञातम् । अथवा, सखीभिरिदं तव वपुर्बहुधा रतिरणे सज्जमधिगतम् । इदानीं तासां का लज्जेति भावः । अहो हे चण्डि ! रतिरणरङ्गकर्कशे ! अलज्जं निःशङ्कं सरसं सोत्साहं, अथ च रसः शृङ्गाररसः, तत्सहितं सरागं वा रसितः शब्दायमानकृतो रसनायाः काञ्च्याः रवो ध्वनिः डिण्डिमो वाद्यविशेषः यत्र, एवं यथा स्यात्तथाभिसर श्रीकृष्णाभिमुखं सुरतरससङ्केतभूमिमुपैहि । अन्यत्रापि सोत्साहरणे डिण्डिमस्ताड्यते एवेति ध्वनितम् ।
अभिरमेति पाठे अलज्जं लज्जारहितं श्रीकृष्णेन सह सुरतं विधेहि । सम्भोगादौ लज्जाया अनुपयोगत्वातलज्जमित्युक्तम् । किं च, क्वचिदात्मनेपदिनोऽपि परस्मैपदिन एव यथाचलद्बाधां राधामित्यादि वलद्बाधामित्येतत्पदं दुर्गसिंहटीकायां प्रमाणीकृतम्, तथैवाभिरमेत्यपि पदं ज्ञेयम् । तत्र क्रियां विशिनष्टि—सरसमिति । हावभावमोट्तायितकुट्टमितैरेभिः रसः शृङ्गारस्तत्सहितं यथा स्यात्तथा । पुनः कथं यथा स्यात्? रसितरशनारवडिण्डिमं यथा स्यात। अनेन विपरीतसुरतमिति ध्वनितम् ।
ननु सखीभिर्लज्जयामि ? तत्राह—सखीभिः ज्ञातमेव । अतो विलम्बो न कार्य इति भावः ॥७॥ (२०.६)
तदेवाह—
स्मरशरसुभगनखेन सखीं
अवलम्ब्य करेण सलीलम् ।
चल वलयक्वणितैरवबोधय
हरिमपि निजगति शीलम् ॥८॥
हे सखि ! करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं चल गच्छ । कीदृशेन करेण ? स्मरस्य कामस्य ये शरास्तद्वत्सुभगाः सुन्दरा नखा यस्मिन्तादृशेन । अन्यस्मिन्नपि रणे शस्त्राणि भवन्ति, रतिरणे तु नखा एव स्मरस्य शस्त्राणीति भावः । अथ च, वलयक्वणितैः कङ्कणशब्दैः हरिमपि निजगतिशीलं स्वकीयगमनस्वभावं स्वरूपं वा । अथवा, गतिं प्राप्तिं शीलं चरित्रमवबोधय ज्ञापय । अन्यत्रापि समीचीनो योद्धा प्रतिभटमवहितं कृत्वैव युध्यत इति ध्वनितम् । निगदितशीअमिति पाठे कथितस्वभावमित्यर्थः ॥८॥ (२०.७)
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥९॥
श्रीजयदेवेति । इदं श्रीजयदेवेन भणितं हरिविनिहितमनसां हरौ विनिहितं तत्परं मनो येषां मादृशानामविराममनवरतं कण्ठतटीमधितिष्ठतु, कण्ठदेशे वसत्वित्यर्थः । कीदृशं ? अधरीकृतानन्द्स्वगुणैर्हीनाकृतो हारो येन तादृशम् । पुनः कीदृशं ? उदासितो स्वमार्गेण तिरस्कृतो हारो येन तादृशम् । अविराममिति भणितमित्यस्य विशेषणं वा । कीदृशं ? नित्यमित्यर्थः । कण्ठस्थितस्य हारस्य वामायाश्च विषयिणां भाप्रदत्वं सम्पदत्वं च भवति, श्रीजयदेवस्य भणितं महत्तमैः कण्ठे धृते तस्य माधुर्यास्वादनेन तयोः तिरस्कारो जायत इति भावः ॥९॥ (२०.८)
* * * * *
पुनरपि तस्योत्कण्ठाधिक्यं कथयन्ती त्वरयति—
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः
प्रीतिं यास्यति रंस्यते सखि समागत्येति सञ्चिन्तयन् ।
स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिरतमह्पुञ्जे निकुञ्जे प्रीयः ॥१०॥
हे सखि ! सा राधा आगत्य मां द्रक्ष्यति ईक्षिष्यते । दृष्ट्वापि मां स्मरकथां स्मरक्षोभेण स्खलितमधुरवक्रोक्तिं कन्दर्पकेलिसूचिकां कामकथां वक्ष्यति कथयिष्यति । स्मरालापं कृत्वा सा प्रत्यङ्गं प्रत्यवयवं ममालिङ्गनैः प्रीतिं यास्यति । प्रीतियुक्तापि मया सह रंस्यते केलिं करिष्यति इति चिन्ताकुलः स कृष्णः स्थिरतमह्पुञ्जे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति । स्वागमसाध्वसेन वेपते । पुलकयत्यङ्गानीति, अर्थात्तवालिङ्गनं विभाव्य स्पर्शसुखेन रोमाञ्चयुक्तो भवति । तेनैव सम्भोगश्रमेण स्विद्यति
प्रस्वेदयुक्तो भवति । पश्चात्सुरतान्ते पुनरपि सतृष्णं दृष्ट्वानिच्छयागच्छन्ती प्रत्युद्गमनं कृत्वानुगच्छति । त्वामदृष्ट्वा मूर्च्छति मूर्च्छां प्राप्नोति । अथवा, स प्रियतमः अत्युत्कण्ठया त्वां परोक्षेऽपि दृष्ट्वा प्रत्युत्थानं करोति, दर्शनेन निर्वृतो भूत्वा कम्पपुलकस्वेदादिसात्त्विकविकारान्प्रकटयतीत्यर्थः । साक्षात्समागमे कीदृशो रसोदयो भविष्यतीति केन वक्तुं शक्यते ? अतः शीघ्रं गन्तव्यमिति भावः । प्रत्यङ्गमालिङ्गनेन वृक्षाधिरूढलक्षणमाल्गिङनमुक्तम् । शार्दूलविक्रीडितं वृत्तम् । दीपकालङ्कारः ॥१०॥ (७०)
—ओ)०(ओ—
श्रीकृष्णस्य प्रेमानुवर्ण्येदानीमभिसारोचितनिविडान्धकारस्योद्दीपनत्वमनुवर्णयन्ती पुनरपि त्वरयति—
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीं
मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि
ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमलिङ्गति ॥११॥
हे सखि ! ध्वान्तमन्धकारः निकुञ्जे लतामण्डपे विष्वक्सर्वतः सुदृशां सुन्दरलोचनानां धूर्तानां परवञ्चकानामभिसरसत्वरहृदामभिसारे सत्वरं तीव्रं हृद्यासां परमविदग्धविलासिनीनामित्यर्थः । तासां प्रत्यङ्गं प्रत्यवयवमलिङ्गति आश्लिष्यति । किं कुर्वन्? अक्ष्णोर्नयनयोरञ्जनं कज्जलं निक्षिपदर्पयत्, श्रवणयोः श्रोत्रयोस्तापिञ्छगुच्छावलीं तमालस्य स्तवकपरम्परां निक्षिपत। मूर्ध्नि मस्तके श्यामसरोजदाम नीलकमलमालां निक्षिपत। कुचयोः स्तनयोः कस्तूरिकापत्रकं मृगमदचित्ररचनां निक्षिपत। कीदृशं ध्वान्तं ? नीलनिचोलचारु श्यामप्रच्छदवत्सुन्दरमभिसारोचितवस्त्रभूषणादिकं सर्वं ध्वान्तमेव करोतीत्यर्थः । अतो भूषादिनिर्माणेनापि कालातिक्रमो न युक्त इति भावः । शार्दूलविक्रीडितं वृत्तम् ।
तथा च—स्त्रीणामलङ्कारादिरचनाधिकारो नपुंसकादीनामेवेति नपुंसकनिर्देशेन ध्वनितम् । अपि च श्यामसुन्दरेणैव सर्वं भूषादिकं सम्पादनीयमित्यलं मण्डनविलम्बेनेति तत्सादृश्यं ध्वनितम् । धूर्तः स्याद्वञ्चके लोले च ॥११॥ (७१)
—ओ)०(ओ—
किं च, भवादृशीनां प्रेमपरीक्षाकारणमप्येतदित्याह—
काश्मीरगौरवपुषामभिसारिकाणां
आबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदलनीलतमं तमिस्रं
तत्प्रेमहेमनिकषोपलतां तनोति ॥१२॥
काश्मीरवत्कुङ्कुमदलवत्गौरं वपुः शरीरं यासां तादृशीनामभिसारिकाणामभिसारपराणां नायिकानामभितः सर्वतः रुचिमञ्जरीभिः कान्तिपरम्पराभिः आबद्धरेखमाबद्धा रेखा येन तादृशम् । एतत्तमालदलनीलतमं तमालदलवत्पल्लववततिशयेन नीलं तमिस्रं तमस्तत्प्रेमहेमनिकषोपलतां तासामभिसारिकाणां यत्प्रेम तदेव हेम स्वर्णं तस्य निकषोपलतां कषपाषाणतां तनोति विस्तारयति । परमकान्तिमतीनामेतादृश्यपि गाढान्धकारे कान्तारे सर्वमुपेक्ष्य कान्ताभिसारप्रस्थाने प्रेम्णः शुद्धिः परीक्ष्यत इति भावः ॥१२॥ (७२)
—ओ)०(ओ—
परमविदग्धा सखी रसोद्बोधवचनकदम्बैः सङ्केतनिकुञ्जसमीपमानीय लज्जावतीं पुनरपि निकुञ्जप्रवेशाय दिशति—
हारावलीतरलकाञ्चनकाञ्चिदाम
मञ्जीर कङ्कणमणिद्युतिदीपितस्य ।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीडावतीमथ सखीमीयमित्युवच ॥१३॥
अथानन्तरमियं सखी श्रीराधामिति वक्ष्यमाणमुवाच । कीदृशीं ? निकुञ्जनिलयस्य निकुञ्ज एव निलयः निभृतगृहं, तस्य द्वारे हरिं श्रीकृष्णं निरीक्ष्य दृष्ट्वा व्रीडावतिं लज्जायुक्तां, प्रथमसमागमे कामिनीनां लज्जा भवतीति लज्जावतीत्युक्तम् । कीदृशस्य निकुञ्जनिलयस्य ? हारावल्यो हारपङ्क्तयस्तरलो मध्यमणिः काञ्चनकाञ्चिदाम स्वर्णखचितमेखलादाम मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये मणयस्तेषां द्युत्या दीपितस्य प्रकाशितस्य । तरलश्चञ्चले षिड्गे हारमध्यमणावपि इति विश्वः । निलयश्चोरमन्दिरमिति रत्नकोषः ॥१३॥ (७३)
—ओ)०(ओ—
तदेव गीतेनाह—
॥ प्रबन्धः २१ ॥
वराडिरागेण मण्ठ तालेन च ।
मञ्जुतरकुञ्जतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥१४॥
प्रविश राधे माधवसमीपमिह ॥ ध्रु. ॥
गीतस्यास्य वराडिरागः, मण्ठतालः । गीतार्थस्तु—हे राधे ! माधवसमीपं कृष्णान्तिकं प्रविश । इह मञ्जुतरकुञ्जतलकेलिसदने, मञ्जुतरं यत्कुञ्जतलं +आनांकृताभ्यन्तरदेशस्तदेव केलिसदनं क्रीडामन्दिरं, तत्र विलस विलासं कुरु । कीदृशि ? रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं वदनं मुखं यस्यास्तादृशि । रतिरभसहसितं विद्यतेऽस्यासौ रतिरभसहसितवान्कृष्णस्तस्य अनः प्राणः यस्यां सा तत्सम्बोधनमिति वा । श्रीकृष्णस्य प्राणरूपे इत्यर्थः ।
अथ इह निकुञ्जे प्रविश, माधवसमीपं विलस सम्भोगं कुरु । हे मञ्जुतरकुञ्जतलकेलिसदने मनोहरतरकुञ्जतलमेव क्रीडागृहं यस्यास्तादृशि ! अथवा, इह माधवे विलस । कीदृशे ? मञ्जुतरकुञ्जतलकेलिसदनं यस्य तादृशे । पुनः कीदृशे ? रतिरभसेन हसितं वदनं यस्य तादृशे । प्रविश राधे माधवसमीपमिह विलसेत्यन्तं ध्रुवपदम् । प्रतिपदमनुवर्तमानत्वात। मा शोभा तस्य धवः माधवः सौन्दर्यनिधान इत्यर्थः । वल्लभायाः समागमे निरवधिसौन्दर्यप्रकटनान्माधवपदमुपात्तम् । कुञ्जपाठे (?) प्रकृष्टकुञ्ज इत्यर्थः ॥१४॥ (२१.१)
अपि च—
नवलसद् अशोकदलशयनसारे ।
प्रविश राधे माधवसमीपमिह
विलस कुचकलशतरलहारे ॥१५॥
नवं नूतनं लसत्शोभायमानं यदशोकदलमशोकपत्रं तन्निर्मितशयनं शय्या तदेव सारो युवतीनां महाधनं यत्र तादृशे । माधवसमीपं प्रविलसेत्यन्वयः । एवंभूतश्रेष्ठशय्यायां प्रविलस चेति वा । कीदृशि ? कुचकलशयोः स्तनकुम्भयोस्तरलश्चञ्चलो हारो यस्यास्तादृशि ! अपरस्मिन्नपि विलासगृहे महाधनं तिष्ठतीति ध्वनितम् । कुचकलसतरलहारे इत्यनेन विपरीतसुरतं सूचितम् । तत्र कलसहारयोः सम्भोगारम्भे मङ्गलाचरणमिव ध्वनितम् । अथवा, नवलसदशोकदलैः कृष्णनिर्मितशय्यायां सारं श्रैष्ठ्यं यस्या सा भावप्रधाननिर्देशः । तस्य शयनस्वरूपे इत्यपि तस्य एव सम्बोधनम् । अथवा तादृशं शयनमेव सारो यस्यास्तादृशि ! अथवा इह माधवे विलस । कीदृशे ? त्वदर्थे रचितशयनमेव सारो यस्य तादृशे । अथवा, नवलसदशोकदलशय्यायां वराङ्गनाया महाधने । पुनः कीदृशे ? पुरुषकर्तृकसम्भोगादौ त्वत्कुचकलशयोरुपरि चञ्चलो हारो यस्य तादृशे । अशोकदलपदेनाशेषविरहदुःखहानिः आनन्दावाप्तिश्च भविष्यतीति ध्वनितम् ॥१५॥ (२१.२)
कुसुमचयरचितशुचिवासगेहे ।
प्रविश राधे माधवसमीपमिह
विलस कुसुमसुकुमारदेहे ॥१६॥
कुसुमचयेति । हे राधे ! इह कुसुमचयने पुष्पसमूहेन विचित्रवितानैर्विविधमण्डनादिभिः शुचि अनुपहतमनुपभुक्तम् । अथवा, शुचिः शृङ्गारः तत्स्वरूपं शृङ्गारप्रधानानां भोग्ययोग्यं वा कृष्णेन निर्मितं त्वद्भोगार्थं वासगेहं लीलागृहं तत्र विलस । कीदृशि ? कुसुमादपि सुकुमारो देहो यस्यास्तादृशि ! अथवा, इह माधवे विलस । कीदृशे ? कुसुमचयेन रचितं शुचि वासगेहं येन तादृशे । पुनः कीदृशे ? कुसुमादपि सुकुमारो देहो यस्य तादृशे । अथवा, कुसुमचयेन रचितमर्थात्कृष्णेन वासगृहं यस्य तादृशीति सम्बोधनं, प्रविश राधे ! प्रकृष्टो विसरः प्रणयः आ सम्यक्धः कम्पः प्रकृष्टसोद्दीप्तप्रणयकम्पः समग्रसात्त्विकविकारः यस्यास्तादृशि ! इत्यपि सम्बोधनम् । श्लेषकथने सषशानामभेद इत्यलङ्कारिकाः । तथा च, तादृशशय्यारचनेन तस्य त्वयि भावः, त्वमपि तत्समीपे उदितसात्त्विकविकारेति विलसेत्यर्थः । युद्धे धः कम्पने तथा इति च । प्रसर प्रणये वेगे विसरः प्रसरेऽम्बुजे इति विश्वः । हे कुसुमसुकुमारदेहे ! कौ पृथिव्यां सुशोभना मा शोभा यस्य स कुसुमः श्रीकृष्णः तस्य सु सुतरां कुः अभीष्टत्वेनाश्रयो मारः यो कामस्तद्रूपो देहो यस्यास्तादृशि ! कृष्णाभिकाङ्क्षितस्वरूपे इत्यर्थः ॥१६॥ (२१.३)
चल मलयवन पवनसुरभिशीते ।
प्रविश राधे माधवसमीपमिह
विलस रतिवलितललितगीते ॥१७॥
हे राधे ! माधवसमीपं चल व्रज । इह केलिसदने प्रविश विलस च । कीदृशे केलिसदने ? मलयवनसम्बन्धी यः पवनो वायुस्तेन सुरभौ शीते च । अथवा, चलश्चञ्चलो यो मलयपवनवनस्तेन । मनांसि चालयतीति चलपदेन मान्द्यमेवोक्तम् । कीदृशि ? रतौ वलितं वर्धितं ललितं हावविशेष एव गीतं यया तादृशि ! अथवा, रतिवलिते रतौ मनोहरे,, कलवली कामधेनू इति ललितगीते ललितं कमनीयं गीतं गानं यस्यास्तादृशि । रतिवलिता चासौ ललितगीता च तस्याः सम्बोधनम् । रसवलितपाठे रसवलितं शृङ्गारसम्भिन्नं ललितं मनोहरं गीतं यस्यास्तादृशि ! रससहितं हावविशेषो गीतं यस्यास्तादृशि वा । अथवा, इह कृष्णे विलस । कीदृशे ? रत्या तव प्रेम्णा वलितं सम्भुक्तं ललितं मनोहरं गीतं तव गुणगानं यस्य तादृशे, रसवलितं वा । ललितलक्षणं तु—
नानाविधमनाहार्यं स्वभावेन मनोहरम् ।
शृङ्गारचेष्टितं स्त्रीणां ललितं सम्प्रचक्षते ॥ इति ॥१७॥ (२१.४)
विततबहुवल्लिनवपल्लवघने ।
प्रविश राधे माधवसमीपमिह
विलस चिरमलसपीनजघने ॥१८॥
हे राधे ! माधवसमीपं प्रविश । इह केलिसदने चिरं विलस च । कीदृशे ? विततैर्विस्तीर्णैर्बहुभिर्वल्लीनां लतानां नवैः पल्लवैर्घने सान्द्रे, एवंभूते शयने वा । कीदृशि ? अलसपीनजघने अलसे मन्थरे पीने मांसले जघने यस्यास्तादृशि ! अनेन निर्भयं बहुकालं शय्यायां सम्भोगसुखानुभवः ध्वनित इति व्यङ्ग्यः ॥१८॥ (२१.५)
मधुमुदितमधुपकुलकलितरावे ।
प्रविश राधे माधवसमीपमिह
विलस मदनरभसरस भावे ॥१९॥
कीदृशे केलिसदने ? मधुना पुष्परसेन मुदितान्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहैस्तैः कलितो रावः शब्दो यत्र तादृशे । अथवा, मधुमुदितमधुपकुलवत्त्वदागमनमहोत्सवे रावः शब्दो यस्य तादृशे माधवे । तस्याः श्रीराधिकायाः सम्बोधनं वा । कीदृशि ? मदनस्य कामस्य यो रसः शृङ्गाराख्यस्तत्र यो रभस उत्साहः, तेन उपलक्षितो भावो यस्यास्तादृशि । अथवा, इह माधवे विलस । कीदृशे ? मदनरसेन यो रभसस्तेनोपलक्षितो भावो यस्य तादृशे । यद्यपि मधुपेत्यनेनैव मधुपानं प्राप्तं, तथापि तदानीन्तनमधुपानप्राप्तये मुदितमित्युपात्तं, मधुना वसन्तेन ॥१९॥ (२१.६)
मधुरतरपिकनिकरनिनदमुखरे ।
प्रविश राधे माधवसमीपमिह
विलस दशनरुचिरुचिरशिखरे ॥२०॥
कीदृशे केलिसदने ? मधुरतरोऽतिशयेन मधुरो यः पिकनिकराणां कोकिलसमूहानां निनदः शब्दस्तेन मुखरे वाचाले । अथवा, श्रीराधायाः सम्बोधनं, तदा मधुरतरः पिकनिकराणामिव यो निनदः सुरते कण्ठकूजितं तेन मुखरे । पुनः कीदृशि ? दशनरुचिरेव दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । अथवा, दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि ! द्वितीयपक्षे विपर्यासोपमा बोध्या । तदुक्तं दण्डिना—
तवाननमिवोन्निद्रमरविन्दमभूदिति ।
सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ [का.आ. २.१८] इति ।
शिखरादपि रुचिरा दन्तकान्तिरित्यर्थः । अथवा, इह माधवे विलस । कीदृशे ? मधुरतरः पिकनिकराणामिव त्वत्सङ्गमे गोष्ठीशब्दस्तेन मुखरे । अनेन गोष्ठीष्वतृप्तिः कथिता । पुनः कीदृशे ? दशनरुचिरशिखरे । मधुतरलपाठे मधुना तरलश्चञ्चल इति । पक्वदाडिमबीजाभं माणिक्यं शिखरं विदुः इति शाश्वतः ॥२०॥ (२१.७)
विहितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि ।
भणति जयदेवकविराजराजे ॥२१॥
हे मुरारे ! जयदेवकविराजराजे मङ्गलशतानि कुरु । कीदृशे ? भणति तव गुणान्वदति । पुनः कीदृशे ? विहितः कृतः पद्मावत्याः श्रीवृन्दावनलक्ष्म्याः सुखसमाजः सुखसमूहो येन तादृशे । अथवा, कविराजराजे भणति गायति सति । किंभूते ? विहितः प्रियायाः सुखरूपः समाजः सङ्गमो येन तादृशे । भावविशेषोक्तिरियम् । “कुरु सुधीरे मङ्गलशतानि” इति पाठे, हे सुधीरे श्रीराधे ! जयदेवे मङ्गलशतानि कुरु । कीदृशे? विहितस्तव सुखरूपः समाजः प्रियसङ्गमो येन तादृशे । किं च, कविराजराज इति प्रौढोऽयं कविः । तदुक्तं—यथोचितनिजोत्कर्षवादी प्रौढ इतीरितं [र.सु. ३.१४७] इति । तद्रहस्यवर्णनेन सर्वाधिक्यादपि युक्तमेव कविराजराज इति ॥२१॥ (२१.८)
* * * * *
वैचित्र्येण प्रेरयति—
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासम्बाधबिम्बाधरम् ।
अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव
क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥२२॥
अथ कृष्णः अन्याभिः सुन्दरीभिः दुष्प्रापः, त्वया सुलभत्वेन वशीकृतः, त्वां चित्तेन मनसा वहन्धारयनतिश्रान्तोऽतिशयेन श्रमयुक्तो ज्ञातः । कन्दर्पेण कामेन च भृशमतिशयेन तापितः सन्तापितः । अतिसूक्ष्मे चित्ते पीनस्तनजघनभारधारणेन श्रमो युक्त एव । अन्योऽपि यो धत्ते गुरुतरभारं, तस्याप्यतिश्रमो भवतीति भावः । अतस्तवैव सुधयामृतेन सम्बाधं सङ्कटं बिम्बाधरं बिम्बफलसदृशमधरमोष्ठं पातुमिच्छति । एतदपि युक्तमेव, श्रान्तस्य तप्तस्य पानेच्छा पथ्यमेव । तत्तस्माद्धेतोरस्य कृष्णस्याङ्कं क्रोडं क्षणं त्वमलङ्कुरु भूषय ।
नन्वयं बहुभार्यानुरक्तोऽतस्तदङ्कारोऽणाद्बिभेमीत्यत आह—इह कृष्णे कुतः कस्माद्धेतोः सम्भ्रमो भयं ? कीदृशे ? उपसेवितं त्वदीयचरणकमलं येन तादृशे । उपसेवितेति नित्यपार्श्ववर्तिनीति भावः । तत्रापि हेतुगर्भं विशेषणमाह—भ्रूक्षेपस्य भ्रूचालनस्य या लक्ष्मीः सम्पत्तस्या यो लेशस्तेन क्रीते दासजने सम्भ्रमो न युक्त इति भावः । सम्भ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि इति विश्वः ॥२२॥ (७४)
सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
शिञ्जाना मञ्जु मञ्जीरं प्रविवेश निवेशनम् ॥२३॥
सेत्यादि । सा राधा निवेशनं क्रीडागृहं प्रविवेश प्रविष्टा । किं कुर्वाणा ? मञ्जुर्मनोहरो यो मञ्जीरो नूपुरस्तत्शिञ्जाना सशब्दं कुर्वती । शिञ्जानमञ्जुमञ्जीरमिति पाठे शिञ्जानश्चासौ मञ्जुर्मञ्जीरश्च तद्यथा स्यादिति क्रियाविशेषणम् । प्रविवेशेति तन्मोहनाय किमपि हावादिकं प्रकटयन्ती विवेशेति भावः । कथं यथा स्यात्? ससाध्वसं साध्वससहितं सानन्दमानन्दसहितं च यथा स्यात्तथा । कीदृशी सा ? गोविन्दे लोले चञ्चले लोचने यस्या सा । शिञ्जाना मञ्जुमञ्जीरमित्यनेन कम्पः सात्त्विकस्तेन पादस्खलनं, हर्षसाध्वसौ व्यभिचारिभावौ । लोललोचने इत्यनेनानुभावः कटाक्षरूपः । यद्वा, चापलो व्यभिचारी भावः ॥२३॥ (७५)
—ओ)०(ओ—
एवं दम्पत्योः समागमे रसोत्पत्तिरुक्ता । लीलागृहे प्रवेशं निरूप्य इदानीं दर्शनमहोत्सवेन रसविक्रियां गीतेनाह—
॥ प्रबन्धः २२ ॥
वराडिरागयतितालाभ्यां गीयते ।
राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥२४॥
हरिमेकरसं चिरमभिलषितविलासम् ।
सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ ध्रु. ॥
गीतस्यास्य वराडिरागः, रूपकतालः । गीतार्थस्तु—सा राधा हरिं कृष्णं ददर्श दृष्टवती । कीदृशं ? एकरसमेको मुख्यः शृङ्गाराख्यो रसो यस्य तम् । अथवा, एक एव राधाविषयो रसः सर्वातिशयितरागो यस्य तम् । राधाया यादृशः रसः कृष्णस्यापि तादृश एवेति वा । समानशीलत्वात। समानशीलव्यसनेषु सख्यमिति रसपोषणं भवतीति भावः ।
पुनः कीदृशं ? चिरं बहुकालं व्याप्य अभिलषितो वाञ्छितस्तत्सम्बन्धी विलासः केलिर्येन तम् । पुनः कीदृशं ? गुरुर्महान्यः प्रियाप्राप्त्या हर्ष आनन्दस्तस्य वशंवदमायत्तं वदनं यस्य तम् । अनेन उद्भटविकार उक्तः । संवरणायोग्यत्वेन तदधीनत्वात। पुनः कीदृशं ? अनङ्गनिकाशं कामसदृशम् । अनङ्गविकाशमिति पाठे कामस्य विकाशः स्फूर्तिर्यस्य तम् । गुरुहर्षवशंवदवदनमित्यनेन हरेरनुरागाभिलषितविलासत्वे अवगते इति भावः । तदुक्तं—
आकारैरिङ्गतैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्गतं मनः ॥ [हि. २.५०] ॥ ध्रुवम् ॥
अथ पदानि । राधेत्यादि । पुनः कीदृशं हरिं ? राधाया यद्वदनं मुखं तस्य विलोकनेन वीक्षणेन विकसिता उल्लसिताः विविधाः नानाविधाः विकाराः जृम्भणाङ्गक्षेपणकरविमर्शादिरूपाः, त एव विभङ्गा विशिष्टोर्मयो यस्मिन्तम् । कमिव ? जलनिधिमिव, समुद्रमिव । कीदृशं जलनिधिं ? विधुमण्डलस्य चन्द्रमण्डलस्य दर्शनेन तरलिताश्चञ्चलीकृतास्तुङ्गा अत्युच्चास्तरङ्गा ऊर्मयो यस्य तादृशम् । तत्रागाधशृङ्गाररसाश्रयत्वेन कृष्णस्य जलनिधिसाम्यम् । राधामुखस्य स्वाह्लादकारित्वादिना चन्द्रसाम्यम् । जृम्भणादिरूपाङ्गविकारस्योत्तरोत्पन्नतया तरङ्गसाम्यं बोध्यम् । उपमालङ्कारश्च ॥२४॥ (२२.१)
विकारानेवाह—
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥२५॥
पुनः कीदृशं कृष्णं ? विदूरमतिशयेन परिरभ्यालिङ्ग्य उरसि हारं दधतं बिभ्राणम् । कीदृशं हारं ? अमलतरोऽतिशयेन विमलस्तारः शुद्धमौक्तिकं यत्र तादृशम् । कमिव ? स्फुटतरः प्रकटतरो यः फेनसमूहः तेन करम्बितं मिश्रितं यमुनाजलपूरमिव कालिन्दीप्रवाहमिव । तत्र कृष्णशरीरस्य श्यामस्निग्धतया सौन्दर्यपरम्परया च यमुनाप्रवाहसाम्यं, हारस्य चातिशुभ्रतया फेनसमूहसाम्यं बोध्यम् । अत्र हारालिङ्गनेन स्वाभिलाषप्रकटनान्मोट्टायिताख्यो भावोऽत्र वर्णितः । तदुक्तं रसार्णवसुधाकरे—स्वाभिलाषप्रकटं मोट्टायितमितीरितं [र.सु. १.३५६] इति ।
तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके ।
तारं च रजतेऽप्युच्चैःस्वरेऽप्यन्यवदीरितम् ॥ इति विश्वः ।
परिलम्बितदूरमिति पाठे अतिशयेन दीर्घमित्यर्थः । तदापि स एव भावः । उरसि धारणेनालिङ्गनप्राप्तेः । हारश्च श्रीराधासंसर्गी ज्ञेयः ॥२५॥ (२२.२)
पुनश्च कीदृशं ?
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पितपरागपटलभरवलयितमूलम् ॥२६॥
श्यामलं नीलं मृदुलं कलेवरमण्डलं यस्य तम् । अत एवाधिगतमधिकं परिधेयत्वेन प्रियारूपसादृश्यात्ज्ञातं गौरं स्वर्णपीतं दुकूलं पट्टवस्त्रं येन तम् । अनेन गौराङ्ग्यास्तेन सह लतावेष्टनालिङ्गनेन परमशोभा भविष्यतीति ध्वनितम् । तदुक्तं रतिरहस्ये—
प्रियमनुकृतवल्लीविभ्रमा वेष्टयन्ती
द्रुममिव सरलाङ्गी मन्दसीत्कारदीर्घम् ।
वदनमुदितखेलाक्रन्दमचुम्बनार्थं
नमयति विनताङ्गी यल्लतावेष्टितं तत॥ इति ।
नीलनलिनमिव श्यामकमलमिव । कीदृशं ? पितो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो भरोऽतिशयस्तेन वलयितं वेष्टितं मूलं यस्य तादृशम् । अत्र कृष्णस्य स्निग्धत्वसौन्दर्यसौकुमार्यश्यामत्वेन नीलोत्पलसाम्यं, पीतपट्टाम्बरस्य च मूललग्नपीतपरागसाम्यम् । दृष्टान्तदार्ष्टान्तेन्नैवोद्दीपनविभावश्च दर्शितः । उपमालङ्कारश्चापि । बहिर्मूले परागावृतत्वाभावादभूतोपमेयम् । शरीरकान्त्याधिक्यात्तादृशी प्रतीतिरिति वा ॥२६॥ (२२.३)
तरलदृगञ्चलवलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥२७॥
तरलश्चञ्चलो दृगञ्चलः कटाक्षस्तस्य वलनेन मनोहरं सुन्दरं यद्वदनं तेन जनित उत्पादितो रतिरागो राधायाः सुरतेच्छा येन तादृशम् । अथवा, कटाक्षयुक्तं सुन्दरं यद्वदनं श्रीराधायाः तेन उत्पादिता सम्भोगेच्छा यस्येति वा । अनेन कान्ता दृष्टिरुक्ता, यथा—
आपिबन्तीव दृष्ट्या वा सविहासातिनिर्मला ।
सभ्रूक्षेपकटाक्षा च कान्ता मन्मथवर्धिनी ॥ इति ।
कमिव ? शरदि शरत्काले स्फुटकमलोदरे विकसितपद्मगर्भे खेलितं क्रीडितं खञ्जनयुगलं यत्र तादृशं तडागमिव । अत्र यौवनाविर्भावात्स्वच्छकान्तिमत्तया श्रीराधादर्शनात्संक्षुभिताशयत्वेन च रसाधारतयापि कृष्णस्य शरत्कालीनसरोवरसाम्यं, वदनस्य विकशितपद्मसाम्यं, तन्मध्ये चाञ्चल्येन विचित्रसौन्दर्येण च नेत्रयोः खञ्जरीटयुगसाम्यं युक्तमेव । शरत्काले जलाशयस्य कमलगर्भे खेलत्खञ्जनो दृष्टः सन्, यथा द्रष्टुर्वाञ्छितं प्रयच्छति, एवं चलदपाङ्गं च कृष्णवदनदर्शनं श्रीराधायाः वाञ्छितं केलिसुखं दास्यतीति शरत्कालीनपद्ममध्यस्थखञ्जनोपमा तेन ध्वनितम् । तदुक्तं वाराहसंहितायां—
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलब्धेषु ।
दधिपात्रधान्यकूटे दृष्टोऽभीष्टानि चेष्टते विहगः ॥ इति ।
अब्जेषु गोषु गजवाजिमहोरगेषु
राज्यप्रदः कुशलदः शुचिशाद्वलेषु ॥
खञ्जरीटस्तु खञ्जनः इत्यमरः । तडागस्तु जलाधारविशेषे इति विश्वः । युक्तरूपकालङ्कारोऽयम् । तल्लक्षणं—
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् ।
इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ॥ [का.आ. २.७७] इति ॥२७॥ (२२.४)
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥२८॥
पुनः कीदृशं कृष्णं ? वदनकमलस्य मुखपद्मस्य परिशीलनाय प्रकाशनाय अनुभवाय वा मिलितौ यौ मिहिरौ सूर्यौ, ताभ्यां समे कुण्डले ताभ्यां शोभा कान्तिर्यस्य तम् । अत्र कुण्डलयोर्नानामणिखचितत्वेन सूर्योपमा बोध्या । प्रियादर्शनेनातिविकसितपद्मोपमा वदनस्य । अभूतोपमेयं—
सर्वपद्मप्रभासारः समाहृत इव क्वचित।
त्वदाननं विभातीति तामभूतोपमां विदुः ॥ [का.आ. २.३८] इति ।
पुनः कीदृशं ? स्मितस्येषद्धासस्य या रुचिः कान्तिस्तया रुचिरो मनोहरोऽथ च समुल्लसितो राधाधरपानोत्कण्ठया प्रस्फुरित ईषत्कम्पितो योऽधरपल्लवस्तेन कृतो राधाया रतिलोभः सुरतेच्छा येन तम् ॥२८॥ (२२.५)
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् ॥२९॥
पुनः कीदृशं ? शशिकिरणैश्चन्द्रकिरणैश्छुरितं सम्भिन्नमुदरमभ्यन्तरं यस्य तादृशो यो जलधरो मेघस्तद्वत्सुन्दराः सकुसुमाः पुष्पसहिताः केशा यस्य तम् । अत्र केशानां श्यामतया मेघसाम्यं, तत्रस्थकुसुमानां च मेघान्तश्चारिचन्द्रकिरणसाम्यं बोध्यम् । पुनः कीदृशं ? तिमिरेऽन्धकारे उदितं प्रकटीभूतं यच्चन्द्रमण्डलं शशिबिम्बं तद्वन्निर्मलस्य मलयजतिलकस्य निवेशो विन्यासो यस्य तादृशम् । अत्र श्यामसुन्दरस्य ललाटे मण्डलाकृतितिलकस्य गाढान्धकारे पूर्णचन्द्रबिम्बसाम्यं, पूर्णचन्द्रोदये तिमिरस्यासम्भवादभूतोपमेयं बोध्या ॥२९॥ (२२.६)
वीपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥३०॥
पुनः कीदृशं ? वीपुलो यः पुलकभरो रोमाञ्चातिशयस्तेन दन्तुरितं व्याप्तम् । पुनः कीदृशं ? रतिकेलिकलाभिः चुम्बनालिङ्गनादिविशेषचातुरीभिरधीरं चञ्चलम् । पुनः कीदृशं ? मणिगणानां मणिसमूहानां किरणसमूहेन समुज्ज्वलानि मुकुटाङ्गदमञ्जीरादीनि तैः सुभगं सुन्दरं शरीरं यस्य तम् । मध्याभिसारिकेयं नायिका । मध्यालक्षणं—तुल्यलज्जास्मरा मध्या मोहान्तसुरतक्षमा इति । तथा च एभिः पदैः कृष्णे विभावानुभावसात्त्विकव्यभिचारिभिः साङ्गं शृङ्गाररसः स्थायिभावो निरूपितः ॥३०॥ (२२.७)
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम् ॥३१॥
हे जनाः ! हरिं प्रणमत नमस्कुरुत । किं कृत्वा ? सुचिरं बहुकालं व्याप्य हृदि चित्ते विनिधाय स्थापयित्वा । ननु यागादिना दुर्लभत्वेन देवतान्तरं भजनीयम् । हरेस्तु सुलभतया किं ? तत्राह—कीदृशं ? सुकृतोदयस्य पुण्योदय्स्सारं सारभूतम् । तदेव परमफलं, तेनैव पुण्योपचयः, तन्नामस्मरणेनैव यागाद्युपकारः क्रियते, न तं केऽपि उपकर्तुं शक्नुवन्तीति तस्यैव दुर्लभता, तदेव विधेयमिति भावः । श्रीजयदेवस्य भणितविभवे वाग्विभवे द्विगुणीकृतो भूषणभारो यस्य तम् । प्रथमस्तु स्वर्णाद्यलङ्कारो द्वितीयः काव्यालङ्कारविषयतया वर्णितगुणः इति ॥३१॥ (२२.८)
* * * * *
इदानीं श्रीराधाया रसविक्रियामाह—
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन
प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
तदानीं राधायाः प्रियतमसमालोक समये
पपात स्वेदाम्भः प्रसर इव हर्षाश्रुनिकरः ॥३२॥
हे सखि ! यदा राधा ददर्श, तदानीं प्रियतमसमालोकसमये श्रीराधाया अक्ष्णोर्वर्तमान आनन्दसमूहः अश्रुरूपेण पतितः, हर्षाश्रुनिकरः पपातेत्यर्थः । ननु समीचीनभाजने स्थापितः कथं पपात ? तत्राह—किंभूतयोरक्ष्णोः ? तरलतरतारं दर्शनासङ्गेनातिशयेन चञ्चलाक्षिकनीनकं यथा स्यादेवं पतितयोः सौन्दर्याधिक्येन अतिसतृष्णानिरीक्षणात्यस्मिन्नङ्गे दृष्टिः पतिता पुनरुत्थानासामर्थ्येन तत्रैव स्थिता इति ज्ञापनाय पतितयोरित्युक्तम् । तथा च भाजने पतिते तदाधारवस्तु पपातेति भावः । पाते हेतुमुत्प्रेक्षते—अतिक्रम्येति । अपाङ्गं नेत्रान्तदेशमतिक्रम्य उल्लङ्घ्य श्रवणपथपर्यन्तगमनप्रयासेनेव स्वेदाम्बुप्रसर इव कर्णवर्त्मावधि चलनजन्यायासेन स्वेदाम्बुपूर इव । अन्योऽपि दूरगमनेन श्रान्तः स्विद्यति, पतति च । तथा च तेन विशालनयनत्वं तस्याः सूचितम् । अथ च अन्तर्गतो हर्षोऽधिकतयान्तःस्थानमप्राप्य बहिरश्रुव्याजेन पतित इति भावः । उत्प्रेक्षालङ्कारः ॥३२॥ (७६)
भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित
स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरसरसमाकूत सुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥३३॥
तस्मिन्काले तल्पान्तं शय्यासमीपं भजन्त्या आश्रयन्त्या मृगदृशः हरिणनयनायाः श्रीराधाया लज्जापि सलज्जेव व्रीडावतीव दूरमतिशयेन व्यगमद्विगता, अतिदूरं वा । क्व सति ? अवहितालीपरिजने अवहितः कृतावधानो य आलीपरिजनः सखीपरिवारस्तस्मिन्गेहात्विलासनिकुञ्जात्बहिर्याते गते सति । कथं यथा स्यात्? कृता या कपटकण्डूतिः कर्णादिकण्डूयनं तेन पिहितमाच्छादितं स्मितं यथा स्यात्तथा । कीदृश्यास्तस्याः ? प्रियास्यं प्रियस्य मुखं पश्यन्त्याः । पुनः कीदृशं ? आकूतसुभगमाकूतेन तत्तत्क्रीडाभिप्रायेण सुभगं मनोहरं स्मरपरवशाकूतसुभगमिति पाठे स्मरपरवशं यताकूतमभिप्रायस्तेन सुभगम् ॥३३॥ (७७)
—ओ)०(ओ—
अत्राधिकः श्लोकः केषुचित्संस्करणेषु दृश्यते, अत्र न—
सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं
राधामाधाय बाह्वोर्विवरमनु द्र्ढं पीडयन्प्रीतियोगात।
तुङ्गौ तस्या उरोजावतनुवरतनोर्निर्गतौ मा स्म भूतां
पृष्ठं निर्भिद्य तस्माद्बहिरिति वलितग्रीवमालोकयन्वः ॥
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥३४॥
मुरजितो मुरारेर्भुजदण्डो जयति सर्वोत्कर्षेण वर्तते भक्तानां रक्षणाद्यर्थमित्यर्थः । किंलक्षणस्य ? भुजापीडस्य बाहुदण्डस्य क्रीडया विलासेन हतः कुवलयापीडनामा करी हस्ती येन तस्य । भुजदण्डमुत्प्रेक्षते—जयश्रिया विजयलक्ष्म्या विन्यस्तैर्विशेषेण दत्तैर्मन्दारकुसुमैः पारिजातपुष्पैर्महितः पूजित इव । कीदृशः ? स्वयमात्मना द्विपेन कुवलयापीडेन यो रणस्तस्मिन्या मुत्हर्षस्तेन सिन्दूरेण श्यामाङ्गे आरक्तमण्डनस्य शोभाप्रदत्वमतो मुद्रित इव चित्रित इव । नन्वेवं कथमुत्प्रेक्ष्यन्ते ? तत्राह—प्रकीर्णासृग्बिन्दुः विकीर्णा रुधिरबिन्दवो यत्र स तथा । अनेन सामर्थ्यलक्षणो नायकगुण उक्तः । एवंभूते भुजदण्डे गाढालिङ्गनादिना श्रीराधायाः निःशङ्कक्रीडनं सूचितमिति भावः ॥३५॥ (७८)
—ओ)०(ओ—
अत्राप्राप्तोऽयमधिकः श्लोकः केषुचित्संस्करणेषु दृश्यते—
सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो
राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले ।
रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापयन्
ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥
—ओ)०(ओ—
इति श्रीगीतगोविन्दे महाकाव्ये अभिसारिकावर्णने
सानन्दगोविन्दो नामैकादशः सर्गः
॥ ११ ॥
***************************************************************************
.
(१२)
द्वादशः सर्गः
सुप्रीतपीताम्बरः
इदानीं चिरकालवाञ्छितराधादर्शनोल्लासितमानसो हरिस्तामाह—
गतवति सखीवृन्दे मन्दत्रपाभरनिर्भर
स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥१॥
हरिः प्रियां राधामुवाच । क्व सति ? सखीवृन्दे सखीसमूहे गतवति सति । कीदृशी ं मन्दोऽल्पो यस्त्रपाभरो लज्जासमूहः, तेन निर्भरोऽतिशयो यः स्मरः प्रौढकामः, तत्परवशः, तदायत्तो य आकूतोऽभिप्रायः, तेन स्फीतं वृद्धं यत्स्मितं, तेन स्नपितौ व्याप्तौ अधरौ यस्यास्ताम् । पुनः कीदृशीं ? सरसं रसोऽनुरागः, तत्सहितं मनो यस्यास्ताम् । किं कृत्वा ? नवपल्लवप्रसवशयने नवपल्लवाश्च प्रसवाश्च कुसुमानि, तेषां शयने नवकिशलयपुष्पमये शयनीये निक्षिप्ताक्षीं विनिहितनयनां मुहुर्वारं वारं दृष्ट्वा विलोक्य । एवंभूतां प्रियां दृष्ट्वा हर्षमवाप्योवाचेत्यर्थः । अत्र शय्यावलोकनेन सम्भोगेच्छा ध्वनिता । अस्मिन्सर्गे स्वाधीनभर्तृका नायिका, तल्लक्षणं—
यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।
विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥ [शृ.ति. १.७४] इति ॥१॥ (७९)
—ओ)०(ओ—
गीतेन वक्ष्यमाणमाह—
॥ प्रबन्धः २३ ॥
विभासरागेन एकतालितालेन च ।
किसलयशयनतले कुरु कामिनि
चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवं
इदमनुभवतु सुवेशम् ॥२॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ध्रुव॥
गीतस्यास्य विभासरागः, तल्लक्षणं—
स्वच्छन्दसम्मानितपुष्पचापः
प्रिया रसस्वादुसुधाभितृप्तः ।
पर्यङ्कमध्यस्य कृतोपवेशो
भासः सुनिद्रान्वितहेमगौरः ॥
केचित्तु रमकरीति । एकताली तालश्च ।
गीतार्थस्तु—हे राधिके ! हे सुन्दरि ! अधुना मामनुसर भज । किंभूतं मां ? क्षणमनुगतं तव दर्शनोत्सवव्याप्तम् । अथवा, मामनुसर । किंभूतं ? क्षणमधुना तव सम्भोगोत्सवमधुना मदेन अनुगतं स्वाधीनम् । क्षणमनुगतमिति पाठे अनुगमनुवर्तिनमित्यर्थः ।
ननु विद्यमाने एवं कथयसि, परोक्षे स्नेहरहिते त्वयि कथं भजामि ? इत्यत आह—नारायणमिति । नारेषु अप्सु अयनं यस्येति त्वद्वियोगे विरहाग्नितप्तस्य मम जलमेवाश्रयोऽभूदित्यर्थः । अथवा, नारा अपस्तासामयनमाश्रयमश्रुजलमग्नमित्यर्थः । अथवा, जलाश्रयं जलधिं प्रेमसमुद्रमित्यर्थः । नार्या विलासोऽयं नारः, तस्येदं [पा. ४.३.१२०] इत्यण् । स एवाश्रयो यस्येति वा । उक्तशङ्कां परिहृत्य मां भजेति भावः । ध्रुवपदम् ॥
अथ पदानि—हे कामिनीति । तवेप्सितमेव तदिति साभिप्रायसम्बोधनम् । किसलयशयनतले नवपल्लवशय्यायां चरणनलिनस्य पादपद्मस्य विन्यासं कुरु । इत्यनेनास्यां शय्यायां विविधप्रकारचरणचेष्टितं भविष्यतीति ध्वनितम् । इदं सुवेशमपि सम्यग्वैचित्र्या रचनादिना सुष्ठ्वलङ्कृतमपि स्वभावतोऽतिसुन्दराकृतिर्यस्य तादृशमिति वा । दिव्यकिशयलमयत्वात्किशलयशयनं तव पदपल्लववैरि तव पदपल्लव एव यो वैरी शत्रुः, तस्मात्पराभवं तिरस्कारमनुभवतु । अथवा, तव पदपल्लवस्य वैरी स्पर्धी तव चरणविन्यासेन पराजयमनुभवत्वित्यर्थः ॥२॥ (२३.१)
करकमलेन करोमि चरणं
अहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव
नूपुरमनुगतिशूरम् ॥३॥
करेति । अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाहयामि । अथवा, चरणमहमित्येकपदम्, तव चरणयोर्महं पूजां संवाहनादिरूपां करोमि । कथं ? इत्यत आह—विदूरमतिशयेन दूरं त्वमागमितासि आनीतासि, अर्थात्मया । तथा च, दूरागमनजन्यं ते श्रममपनयामीति भावः । शयनोपरि शय्याया उपरि क्षणमपि मामुपकुरु । कीदृशं मां ? अनुगतौ तवानुसरणे शूरम् । कमिव ? नूपुरमिव । यथा तवानुगतिशूरस्य नूपुरस्य परिधानेन तव चरणसन्निधाने महार्घतापादनोपकारः, तथैव चरणारविन्दार्पणेन ममाप्यभिकाङ्क्षितरूपोपकारः भविष्यतीति भावः । तथा चापरोऽपि योऽनुगतिशूरो भवति, तस्योपकार उचित इति ध्वनितम् । अथवा, पादपद्मस्य स्पर्शं निषेधयन्तीं प्रत्याह—मामिवानुगतिशूरं नूपुरमुपकुरु, चरणपरिधानेन स्वीकुरु । अनेन धृतस्यापि नूपुरस्यार्पणच्छलोक्त्या तत्पादस्पर्शं प्रार्थयते ॥३॥ (२३.२)
गाम्भीर्येणानवगाह्यमानाभिप्राय उत्तरमप्रयच्छन्तीमाह—
वदनसुधानिधिगलितममृतमिव
रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधर
रोधकमुरसि दुकूलम् ॥४॥
हे प्रिये ! अनुकूलं रतिजनकं सम्भोगसम्पत्तिसम्पादकमिति यावत्वचनं रचय पदार्थानुप्रासमाधुर्येण संलापकदम्बं वद । कीदृशं ? वदनमेव सुधानिधिश्चन्द्रः, तस्माद्गलितं च्युतम् । कमिव ? अमृतमिव । अतः त्वदाज्ञया उरसि वक्षसि स्थितं दुकूलं पट्टवस्त्रमपनयामि दूरीकरोमि च । विरहमिव यथा तव सङ्गमे विरहोपभीतस्तथा स्तनाश्लेषप्रतिबन्धकमपीदमपनयामीति भावः । अथवा, विरहतापिताहं कथं वदिष्यामि ? अत आह— दुकूलमिव विरहमपनयामि । किंभूतमुभयं ? उरसि हृदि वर्तमानं ? पुनः किंभूतं ? पयोधररोधकं नवरसधारणेनाप्यायनकरत्वात्पयोधरपदोपात्तं, न तु परिणाहित्वापादनाय । तथा सति अभव्यत्वापत्तेः ॥४॥ (२३.३)
कुटिलमवलोकयन्तीमतिविह्वलः सन्नाह—
प्रियपरिरम्भणरभसवलितमिव
पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय
शोषय मनसिजतापम् ॥५॥
हे राधे ! त्वं मदुरसि मदीयवक्षःस्थले कुचकलशं रसपूर्णस्तनकुम्भं विनिवेशयार्पय । कीदृशं ? अतिदुरवापमतिदुर्लभं त्वदनुग्रहं विनातीवदुःखेनावाप्यत इति दुःखापम् । पुनः कीदृशं ? पुलकितम्, तत्र हेतुमुत्प्रेक्षते—प्रियपरिरम्भणे यो रभस उत्साहस्तेन वलितमिव युक्तमिव । अन्योऽपि यो हर्षयुक्तो भवति, तस्य रोमाञ्चो भवत्येवेति ध्वनितम् । तेन कलसार्पणेन मनसिजतापं कामजन्यं सन्तापं शोषय नाशय । सन्तप्तस्योपरि कलसोदकेनाभिषिक्तेन तापो यात्येव । उक्तिभङ्ग्या विपरीतरतं याचत इति तात्पर्यम् । तथा च मनसिजपदेन गृहोत्थिताग्निशान्त्यै तत्रवर्तिजन एव समर्थो भवति, नान्यत। अत एव त्वयैवास्य शान्तिरिति भावः । शोषयेत्यनेनापि तापं शोषय, न तु स्वविषयकं कामं, पुनः विलासमाधुर्यरुच्युत्पादकत्वात। तथा चास्यानुप्रासनिर्वाहकत्वं स्फुटमेव ।
ध्रुवपदमत्र श्रीराधाया उत्तरं वेति । हे कृष्ण ! त्वं सरम्, इतो गच्छ । किं सति ? राधिके इति । रः कामः, तेन आधिः सन्तापलक्षणो व्याधिः, के प्रकाशे सति । तर्हि क्व गच्छामि ? तदर्थमेव तवाश्रितोऽस्मि । न हि, नारायणमनुगतमिति नारायणं जलाश्रयमनु लक्ष्यीकृत्य । दूरे चेदत आह—गतं निकट एव प्राप्तं यमुनादिलक्षणं, तत्र कामतापशान्त्यै सरेत्यर्थः ॥५॥ (२३.४)
तदा त्वदेकजीवनोऽहं, त्वमेव जीवयेत्याह—
अधरसुधारसमुपनय भामिनि
जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानल
दग्धवपुषमविलासम् ॥६॥
हे भामिनि ! कामकलाकुशले प्रिये ! अधरसुधारसमधरसम्बन्ध्यमृतरसमुपनय वितर । दासं मादृशमनुगतं, दानपात्रमिति वा, दासृ दाने इति धातोः, जीवय । कीदृशं ? मृतमिव । अन्योऽपि मृतोऽमृतपानेन जीवतीति ध्वनितम् । दानपात्रत्वे हेतुमाह—त्वयीति । त्वयि विनिहितमनसं त्वय्यर्पितचित्तम् । पुनः कीदृशं ? विरहानलेन त्वद्वियोगरूपेणाग्निना दग्धं सन्तप्तं वपुर्यस्य तम् । अत एवाविलासं क्रीडनचेष्टारहितम् । अन्योऽपि भृत्यः स्वकार्ये दग्धः निशेष्टितः समर्थेन स्वामिना जीवनीय इति भावः ॥६॥ (२३.५)
चाटूक्त्या नातिप्रसन्नामाह—
शशिमुखि मुखरय मणिरशनागुणम्
अनुगुणकण्ठनिनादम् ।
श्रुतियुगले पिकरुतविकले मम
शमय चिरादवसादम् ॥७॥
हे शशिमुखि चन्द्रानने ! सुन्दरतयामृतस्यन्दितया च शशिमुखयो रूप्यरूपकभावः । मणिरशनागुणं मणियुक्तं काञ्चीदाम मुखरं सशब्दं कुरु । अनेन हंसलीलाख्यं विपरीतरतं मां भजस्वेति ध्वनितम् । तल्लक्षणोक्तं प्राक्[गीत १३.७] । कीदृशं मणरशनागुणं ? अनुगुणकण्ठनिनादम्, अनुगुणः सदृशः कण्ठनिनादः कण्ठशब्दो यस्य तादृशम् । रशनागुणानुकारिकण्ठशब्दं कुर्वित्यर्थः । अथवा, स्वरभङ्गेनालपन्तीमाह—कण्ठनादसदृशं रशनाशब्दं कुर्वित्यर्थः । तेन शब्देन मम श्रुतियुगले श्रोत्रयुग्मे चिरादवसादं चिरात्त्वदसङ्गमावधेः वर्तमानमवसादं खेदं शमय शान्तं कुरु, नाशयेत्यर्थः । कीदृशे श्रुतियुगले ? पिकरुतेन कोकिलकूजितेन विकले दुःखिते । विरहिणः पिकरुतं दुःसहं भवति ॥७॥ (२३.६)
किं च, तथाप्यनवलोकयन्तीमाह—
मामतिविफलरुषा विकलीकृतं
अवलोकितुमधुनेदम् ।
मीलितं लज्जितमिव नयनं तव
विरम विसृज रतिखेदम् ॥८॥
हे प्रिये ! तवेदं नयनं नेत्रं मामवलोकितुं मां वीक्षितुं मीलति मुद्रां प्राप्नोति । किमिव ? लज्जितमिव । कीदृशं मां ? अतिविफलरुषा अतिनिष्फलेन कोपेन विकलीकृतं विकलतां नीतं निरपराधदण्डनं मया कृतमिति महत्तया लज्जितमिवेति भावः । अतस्त्वमधुना इदानीं निष्फलकोपाद्विरम विरक्ता भव । रतिखेदं सम्भोगदैन्यं विसृज त्यज । कोपं त्यक्त्वा मया सह रमणं कुर्वित्यर्थः । अथवा, अधुना लज्जानिराकरणार्थं विशेषेण रम विविधकेलिं प्रकटय्य रतिखेदं रतेः दुःखं मुञ्च । रत्यायासं विशेषेण सृज उत्पादयेति वा । तथा च ते न नेत्रमुद्रणं समीचीनमिति भावः ॥८॥ (२३.७)
श्रीजयदेवभणितमिदमनुपद
निगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरम
रतिरसभावविनोदम् ॥९॥
इदं श्रीजयदेवभणितं श्रीजयदेवेन कथितं गीतं रसिकजनेषु एतद्रसभाविताशयलोकेषु मनोरमरतिरसभावविनोदं रतिः सम्भोगः रसः शृङ्गाररसः भावाः सञ्चारिसात्त्विकादयः, तेषां मनोरमं मनःप्रीतिकरं चित्ताकर्षकं विनोदं कौतुकं हर्षमिति यावत्जनयतु करोतु । अथवा, मनोरमरतिरसे भावना चमत्कृतिमुत्पादयतु । तदुक्तं, यदि हरिस्मरणे [गी.गो. ३] इत्यादिना । तेनैव कीदृशं भणितं ? अनुपदं प्रतिपदं निगदितो नितरां वर्णितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशं वाग्विलासरूपो मोद इत्यर्थः ॥९॥ (२३.८)
* * * * *
एवं वाग्विलासमनुवर्ण्येदानीं सुरतारम्भं निरूपयति—
प्रत्यूहः पुलकाङ्कुरेण निविडाश्लेशे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूद्
उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥१०॥
तयोः राधामाधवयोः स चिरं काङ्क्षितः लोकोत्तरो वा सुरतारम्भः, “ललितारम्भः” इति वा पाठे ललितो मनोहर आरम्भो यस्य एतादृशः शृङ्गारक्रीडाविशेषः । उद्भूत उद्भटः प्रियम्भावुकः प्रियभवनशीलो बभूव जातः । स कः ? इत्यत आह—यस्मिन्ललितारम्भे निविडाश्लेषे दृढतरालिङ्गने कर्तव्ये पुलकाङ्कुरेण रोमाञ्चोद्गमेन प्रत्यूहोऽभूत्, अन्तरायो जातः । अनेनालिङ्गनेनोद्दीप्तमहासात्त्विकविकारः अङ्कुरपदेन सूचितः । अतिरूढभावश्च स्थायी येनालिङ्गनेन रोमाङ्कुरस्यापि असहिष्णुता जाता । एवं परमावधिरसोत्पत्तिर्दर्शिता ।
अपि च, क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्वकमभिप्रायपूर्वं यद्विलोकितं, तत्र निमेषेण नेत्रस्पन्देन प्रत्यूहोऽभूत्, सतृष्णसाभिप्रायावलोकने निमेषमात्रस्यापि असहन्मभूदित्यर्थः । तदुक्तं—जड उदीक्षितां पक्ष्मकृद्दृशां [भा.पु. १०.३१.१५] । अथ च, अधरसुधापाने अधरामृतास्वादे कर्तव्ये कथानर्मभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत। अनेन पानेऽतृप्तिरुक्ता । तथा च, सुधामत्तः कथयत्येवेति कथायाश्चासंवरणम् । प्रत्येकमपीन्द्रियाणां तत्तद्भावानां चातिप्राबल्यं समुद्रतरङ्गानामिव इति भावः ।
अथ च, मन्मथकलायुद्धे कामस्य चतुःषष्ठिकलाब्धिसुरतसङ्ग्रामे आनन्दाधिगमेन हर्षलाभेन प्रत्यूहोऽभूत। अनेन निरतिशयस्पृहणीयत्वमुक्तम् । सम्भोगस्य नालंप्रत्यय इति भावः । क्रियानन्दयोश्चापारत्वमपि ध्वनितम् । व्यङ्ग्यवृत्तिश्चेयम् । सम्भोगाख्यः शृङ्गारो रसः भावविभावानुभावसात्त्विकव्यभिचारिभिश्च रसतां नीतो भङ्ग्यात्र महाकविना साङ्गो निरूपितः ॥१०॥ (८०)
उज्ज्वलनीलमणौ १५.२५६श्लोकाङ्क उद्धृतोऽयं श्लोकः.
—ओ)०(ओ—
तदेवं विपरीताख्यमुक्तिवैचित्र्येण कथयति—
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैर्
आविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।
हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥११॥
दोर्भ्यां बाहुभ्यामर्थात्नायिकायाः, संयमितः बद्धः, पयोधरभरेण स्तनभारेणापीडितः, पाणिजैः नखैरेवाविद्धस्ताडितः, दशनैर्दन्तैः क्षताधरपुटः दष्टाधरपुटो यस्य तादृशः कृतः । श्रोणीतटेन नितम्बेनाहतः आस्फालितः, हस्तेनानमितः कचे केशे धृत्वेत्यर्थः । अधरमधुस्यन्देन अधरामृतपानेन संमोहितः, सम्यक्मोहं प्रापितः, एवं विशिष्टोऽपि कान्तः कामप्यनिर्वचनीयां तृप्तिमाप प्रापत्, तत्ततो हेतोरहो इत्याश्चर्ये कामस्य वामा विरुद्धा गतिः, वामा रमणीया वा । यस्य बन्धनादिकं क्रियते, सोऽपि प्रीतिं प्राप्नोति, अत एव वामेति भावः । अनेन विपरीतसुरतं कथितम् । अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना—
ज्ञेयः सोऽर्थान्तरन्यासो वस्तु निर्दिश्य किञ्चन ।
तत्साधनसमर्थस्य वचनं यत्र दृश्यते ॥ इति ।
तथा च, संयमनापीडनादिभिर्वीरशृङ्गारानुभावैर्वीरशृङ्गारोऽनुवर्णितः । अथ च, सापराधेन नायकमौलिना यो दण्डः प्रार्थैतस्तयापि स एवानुष्ठित इति भावः ॥११॥ (८१)
—ओ)०(ओ—
तदेव स्पष्टयति—
माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥१२॥
माराङ्के मारस्य कामस्य चिह्ने युद्धपक्षे मारणं चिह्नं यत्र तादृशे रतिकेलिसङ्कुलरणारम्भे रतिकेलिभिः चुम्बनालिङ्गनबन्धादिरूपाभिः सङ्कुले व्याप्ते रणारम्भे कामयुद्धारम्भे तया राधया साहसप्रायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि पुरुषायितमारब्धम्, यत्सम्भ्रमात्संवेगात्, तस्या राधिकाया जघनस्थली निष्पन्दा निश्चला जाता, दोर्वल्लिः बाहुलता शिथिलिता श्लथीभूता, वक्षो हृदयमुत्कम्पितं, अक्षि मुद्रितम् । ततः स्त्रीणां पौरुषरसः पराक्रमाभिलाषः कथं सिध्यति, अपि तु न सिध्यत्येवेत्यर्थः । अनेन क्रियानिवृत्तिः कथिता । सम्भोगान्ते नायिकाया एवं भवत्येव, वस्तुतस्तु विजय एव जातः ॥१२॥ (८२)
उज्ज्वलनीलमणौ १३.१८ श्लोकाङ्क उद्धृतोऽयं श्लोकः.
—ओ)०(ओ—
तदेवाह—
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धौतोऽधर शोनिमा विलुलिताः स्रस्तस्रजो मूर्धजः ।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर्
एभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥१३॥
एभिः कामशरैः कन्दर्पबाणैः पत्युर्दृशोर्लोचनयोः प्रातर्निखातैरारोपितैर्मनः कीलितं विद्धमित्यद्भुतमाश्चर्यमभूत। अन्यत्र निखातैर्बाणैरन्यत्कीलितमित्यद्भुतमभूदित्यर्थः । मनः कीलितमभूदिति वा । कैः ? कामशरैः तस्या राधायाः पाटलेन रक्तेन पाणिजेन नखेन अङ्कितमुरः चिह्नितं वक्षः, निद्राकाषाये लौहिते दृशौ लोचने च । निर्धौतोऽधरशोनिमा चुम्बनादिना क्षालितो योऽधरस्य शोणिमा लौहित्यं स च, विलुलिताः प्रक्षिप्ताः सकचग्रहचुम्बनदानादिना, अत एव स्रस्ताः गलिताः स्रजः पुष्पमाला येषु तादृशाः केशाश्च । दरमीषत्श्लथं शिथिलमञ्चलं वस्त्रान्तं यस्मात्तथाभूतं काञ्चीदाम मेखलासूत्रं च । अथवा, काञ्चीदाम च दरश्लथाञ्चलमपि । तथा च सङ्गोपनीयैरपि चिह्नैः रसावेशात्प्रकटनेन रसाधिक्यं कथितमिति ध्वनितम् । कीलितमित्यनेन नायकवशीकरणात्श्रीराधाया एव विजयो जात इति भावः ॥१३॥ (८३)
—ओ)०(ओ—
यदुक्तं पत्युर्मनः कीलितं, तदेव प्रकटयति—
व्याकोशः केशपाशस्तरलितमलकैः स्वेदलोलौ कपोलौ
दष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्ची काञ्चिद्गताशां स्तनजघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती सत्रपं मां तदपि विलुलितस्रग्धरेयं धिनोति ॥१४॥
इयं राधा विलुलितश्रग्धरा खण्डितमालाधारिणी, तदपि मां धिनोति प्रीणयति । किं कुर्वती ? सद्यस्तत्कालं स्तनजघनपदं पाणिना हस्तेनाच्छाद्य तिरोधाय सत्रपं लज्जासहितं यथा स्यादेवं मां पश्यन्ती । कथं सलज्जा ? इत्याह—केशपाशः कवरी व्याकोशः शिथिलो जातः, अलकैश्चूर्णकुन्तलैस्तरलितं, कपोलौ स्वेदलोलौ घर्मजलव्याप्तावभूताम् । अनु च दष्टा बिम्बाधरश्रीः खण्डिताधरलक्ष्मीः । कुचकलशरुचा स्तनघटदीप्त्या हारयष्टिः हारिता कुत्रापि त्यक्ता । अथवा, हारश्रीः शरीरशोभयैव हारिता चोरिता । अपि च, काञ्ची क्षुद्रघण्टिका काञ्चिदनिर्वचनीयामाशां गता । अनेन सम्भोगावेशो ध्वनितः । तथा च, भूषणादिरहितापि भूषणाङ्गलक्ष्म्या पत्युर्मनोहारिण्यभूदित्यर्थः । अनेन रूपमाधुर्यं निरूपितम् ।
अङ्गान्यभूषितान्येव केनचिद्भूषणादिना ।
येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥ [उ.नी. ११.२५] इति,
तद्यथा—
नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं
नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितम् ।
हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः
किं राधे तव मण्डनेन नितरामङ्गैरसि द्योतिता ॥ [वि.मा. ७.४८] इति ।
शोभा वा—
सा शोभा रूपभोगाद्यैर्यत्स्यादङ्गविभूषणम् ॥
यथा—
धृत्वा रक्ताङ्गुलिकिशलयैर्नीपशाखां विशाखा
निष्क्रामन्ती व्रततिभवनात्प्रातरुद्घूर्णिताक्षी ।
वेणीमंसोपरि विलुठतीमर्धमुक्तां वहन्ती
लग्ना स्वान्ते मम न हि बहिः सेयमद्याप्ययासीत॥ [उ.नी. ११.१३१४] इति ।
स्रग्धरानामकं छन्दश्चेदम् ॥१५॥ (८४)
—ओ)०(ओ—
मीलद्दृष्टि मिलत्कपोलपुलकं शीत्कारधारावशाद्
अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
श्यामोत्तुङ्गपयोधरोपरि परिष्वङ्गी कुरङ्गीदृशो
हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम् ॥१५॥
हर्षोत्कर्षविमुक्तनिःसहतनोः हर्षोत्कर्षेण नानाविधरतजनितानन्दातिशयेन विमुक्ता श्लथा निःसहा व्यापारासहा तनुर्यस्या एवंभूतायाः कुरङ्गीदृशो मृगवधूनयनायाः आननं मुखं धन्यः श्लाघ्यगुणवान्कृष्णो धयति पिबति, निर्निमेषं पिबतीत्यर्थः । अधरपानेन वा मुखं पिबतीत्युक्तम् । कीदृशः ? श्यामाया उत्तुङ्गौ रसोन्नतौ यौ पयोधरौ कुचौ तयोरुपरि परिष्वङ्गी आलिङ्गितः । अनेन स्पर्शतृष्णा ध्वनिता । किंभूतमाननं ? मीलद्दृष्टि मुद्रिते अक्षिणी, मिलत्कपोलपुलकं च सरोमोद्गमौ गण्डौ च यथा स्यादेवम् । शीत्कारधाराः शीत्काराणां श्लेषः, तद्वशादव्यक्ता अप्रकटा आकुलाश्च केलिकाकवः क्रीडाकाकवो ध्वनिविकारास्तैर्विकसन्तो ये दन्तांशवस्तैः धौतः प्रक्षालितोऽधरो यत्र तत्तथा । मीलद्दृष्टि मिलत्कपोलमित्याननस्य विशेषणं वा ॥१५॥ (८५)
—ओ)०(ओ—
अथ सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गि ।
राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥१६॥
अथशब्दो मङ्गलार्थः, आनन्तर्ये वा । सा प्रसिद्धा वशीकृतकान्ता राधा आनन्देन सहसा इदं वक्ष्यमाणं गोविन्दं प्रति जगाद उक्तवती । किंलक्षणा सा ? सुरतान्ते सम्भोगावसाने नितान्तमतिशयेन खिन्नाङ्गि सुरतायासयुक्तं शरीरं यस्या तादृशी । किंलक्षणं गोविन्दं ? सादरं किमपि सा मामाज्ञापयिष्यति, तदैव धन्यो भविष्यामीत्यादरेण सह वर्तमानम् । सुप्रीतं तत्प्राप्तुं मुखेन स्निग्धम् ॥१६॥ (८६)
—ओ)०(ओ—
तदेव गीतेनाह—
॥ प्रबन्धः २४ ॥
रामकरीरागरूपकतालाभ्याम् ।
कुरु यदुनन्दन चन्दनशिशिर
तरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभव
मङ्गलकलशसहोदरे ॥१७॥
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ ध्रु. ॥
गीतस्यास्य रामकरी रागः, रूपकतालः । गीतार्थस्तु—सा राधा यदुनन्दने निजगाद उक्तवती । कीदृशे यदुनन्दने ? क्रीडति रममाणे । पुनः कीदृशे ? हृदयानन्दजनके । ध्रुवपदम् ॥
किं निजगाद ? इत्याह—कुर्विति । हे यदुनन्दन ! गोपकुलकुमुदचन्द्र ! अत्र मम पयोधरे स्तने करेण मृगमदपत्रकं कस्तूरिकापत्रावलीं कुरु रचय । कीदृशेन करेण ? चन्दनशिशिरतरेण चन्दनादप्यतिशीतलेन । अथवा यदुनन्दने जगादेति पूर्वमेवोक्तं, तदा यदुनन्दनश्चन्द्रः चन्द्रादपि चन्दनादपि शीतलेन करेणेत्यर्थः । शीतलतरेण करेणेत्यनेन पुनः कामतप्तेनेति स्वाङ्गस्पर्शात्कामोद्बोधो दर्शितः उक्तिवैचित्र्येणेति भावः । कीदृशे पयोधरे ? मनोभवस्य कामस्य यो मङ्गलकलशो माङ्गल्याय कामस्य अभ्युदयाय स्थापितः पूर्णकुम्भः तस्य सहोदरे सदृशे । केचित्तु मङ्गलपदं हेमपरमाचक्षते । मङ्गलो भूमिपत्रे स्यान्मङ्गलं हेमहाटकमिति विश्वकोषः ॥१७॥ (२४.१)
अलिकुलगञ्जनसञ्जनकं
रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलं
उज्ज्वलय प्रिय लोचने ॥१८॥
हे प्रिय ! लोचने त्वदधराभ्यां यच्चुम्बनं तेन लम्बितं गलितं यत्कज्जलं तदुज्ज्वलय पुनरुद्दीपय । नयनयोः कज्जलं पुनरर्पयेत्यर्थः । कीदृशे लोचने ? रतिनायकस्य कामस्य सायकान्बाणान्मुञ्चतीति रतिनायकसायकमोचनं तस्मिन। कीदृशं कज्जलं ? अलिकुलस्य भ्रमरसमूहस्य यद्गञ्जनं तिरस्कारः, तस्य सञ्जनकं विधाय । उज्ज्वलो दीप्तिशृङ्गारविशदेषु विकाशिनीति विश्वः । गञ्जनोऽभिभवो नाशः इति रत्नकोषः ॥१८॥ (२४.२)
नयनकुरङ्गतरङ्गविकाश
निरासकरश्रुतिमण्डले ।
मनसिजपाशविलासधरे
शुभवेश निवेशय कुण्डले ॥१९॥
हे शुभवेश ! कल्याणमूर्ते ! शुभः शोभनो वेशोऽलङ्करणं यस्य तादृशेति वा । मम श्रुतिमण्डले कर्णप्रदेशे कुण्डले विनिवेशय स्थापय । कीदृशे श्रुतिमण्डले ? नयने एव यौ कुरङ्गौ मृगावतिवेगवत्त्वात्तयोस्तरङ्गस्य वेगस्य यो विकाशः प्रसरणं तस्य निरासकरे निरोधकारिणि । पुनः कीदृशे ? मनसिजस्य कामस्य यः पाशो बन्धनविशेषस्तस्य विलासधरे तल्लीलाभृति । यदि कर्णमण्डले कामव्याधपाशो न स्यात्, तर्हि कियद्दूरं नयनकुरङ्गयोः गतिः स्यादिति लोचनयोर्विशालत्वं व्यङ्ग्यम् । तथा च, कुरङ्गविकाश इत्यनेन कटाक्षाणां चाञ्चल्यमिति भावः ॥१९॥ (२४.३)
भ्रमरचयं रचयन्तमुपरि
रुचिरं सुचिरं मम सम्मुखे ।
जितकमले विमले परिकर्मय
नर्मजनकमलकं मुखे ॥२०॥
हे कृष्ण ! मम मुखे अलकं चूर्णकुन्तलं परिकर्मय भूषय । कीदृशमलकं ? रुचिरं मनोहरम् । पुनः कीदृशं ? नर्मजनकं क्रीडाजनकम् । कीदृशे मुखे ? विमले निर्मले । पुनः कीदृशे ? जितकमले जितं तिरस्कृतं निजशोभया सौरभेण च कमलं येन तादृशे । सम्मुखे प्रसादवति, अभिमुखे वा । किम्भूतमलकं ? सुचिरं चिरादुपरि वदनारविन्दस्योपरिष्ठात्भ्रमरचयं रचयन्तं भ्रमरमण्डलीशोभां जनयन्तमित्यर्थः । सम्मुखे इति मुखस्यातुलितलावण्यास्पदत्वम्, सुचिरमिति नित्यमेवाव्यभिचारिशोभाप्रदत्वं चालकानां कथितम् । सुचिरं विविधरचनया रुचिरं यथा स्यात्तथा परिकर्मयेति वा । जिता वशीकृता स्वासाधारणगुण् कमला श्रीर्येन तस्मिन्, जितकमल इति वा । जिता वशीकृता सर्वातिशायि, विमले विख्यात इत्यर्थः । किं चालकानामपि नर्मजनकमिति । विशेषणं युक्तं, तादृशशोभया तस्या मण्डनेनापि सर्वमेव परिहसतीति तादृशमित्यर्थः । नर्मयुक्तो जनः सखीजनः तस्य कं सुखस्वरूपमिति वा, क्रीडागलितालकदर्शनात्सखीनां नर्मसम्भवात। सुचिरमित्यनेनालकभ्रमराणां मुखमकरन्दपानेऽतृप्तिर्मकरन्दस्य वाक्षयत्वमिति ध्वनितम् ॥२०॥ (२४.४)
मृगमदरसवलितं ललितं
कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन
विश्रमितश्रमसीकरे ॥२१॥
हे कमलानन ! पद्ममुख ! अलिकरजनीकरे ललाटचन्द्रे ललितं मनोज्ञं तिलकं विशेषकं कुरु । कमला मुखे यस्येति वा, उभयतः चन्द्रेण मैत्री ध्वनिता । कीदृशं तिलकं ? मृगमदरसवलितं मृगमदरसेन कस्तूरीरसेन वलितं निर्मितम् । पुनः कीदृशं ? विहितकलङ्ककलं विहिता कलङ्कस्य कलं लाञ्छनस्य कला शोभा येन तादृशम् । अत्र तु श्यामरूपशोभासादृश्यात्कलङ्कशोभाग्रहणमिति भावः । कीदृशे अलिके ? विश्रमितो विश्रमं प्रापितो यः श्रमस्तज्जनितः सीकरोऽम्बुकणः यत्र तादृशे । अनेन व्यजनादिना तनुभूतानां प्रस्वेदबिन्दूनामतिशीततया हिमकणत्वमाक्षिप्यते, तेन चालिकस्य चन्द्रत्वरूपणं साङ्गं निर्दहतीति ध्वनितम् । ललाटमलिकं गोधिरित्यर्थः । अथवा विश्रामं प्रापितः श्रमजनितशीकरो यस्मात्तत्तादृश इत्यर्थः । प्रथमं व्यजनादिना प्रस्वेदमपहर, पश्चात्तिलकं रचय, स्वेदजले तिलकस्यासम्भवात॥२१॥ (२४.५)
मम रुचिरे चिकुरे कुरु मानद
मनसिजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि
शिखण्डिशिखण्डकडामरे ॥२२॥
अन्यमानिनीमानखण्डनोऽपि बहुमानप्रद ! सौन्दर्याद्यभिमानिनां स्वसौन्दर्यादिभिर्गर्वनाशनेति वा, मम रुचिरे चिकुरे जात्येकवचनं, केशपाशे इत्यर्थः । कुसुमानि पुष्पाणि कुरु रचय । कीदृशे चिकुरे ? रतिगलिते रतौ मुक्तबन्धने, सम्भोगावेशात्स्रस्त इत्यर्थः । ललिते मनोहरे, पूर्वं रुचिरपदेन सुरतपूर्वकालीनसौन्दर्यमुक्तम् । अत्र ललितपदेन रतिगलितत्वेऽपि सौन्दर्याधिक्यं कथितं, न तु पुनरुक्तिप्रसङ्गः । पुनः कीदृशे ? शिखण्डिनो मयूरस्य शिखण्डकस्य डामर आटोपो यस्य तादृशे ॥२२॥ (२४.६)
सरसघने जघने मम शम्बर
दारणवारणकन्दरे ।
मणिरशनावसनाभरणानि
शुभाशय वासय सुन्दरे ॥२३॥
हे शुभाशय ! शोभनहृदय ! अथवा, शुभः आ सामस्त्येन शयः करो यस्य तादृश ! रसनादीनां करसाध्यत्वादयमर्थो युक्तः । मम सुन्दरे जघने मणिरशनावसनाभरणानि मणिमयी या रसना क्षुद्रघण्टिका वसनं वस्त्रमाभरणानि च वासय परिधापय । कीदृशे जघने ? सरसघने सरसे शृङ्गाररससहिते स्निग्धे वा घने निविडे । पुनः कीदृशे ? शम्बरनामानं दैत्यं दारयतीति शम्बरदारणः कामः, स एव वारणः महाबलत्वान्मत्तमातङ्गः, तस्य कन्दरे । अपरोऽपि हस्ती गिरिकन्दरायां तिष्ठतीति भावः । कुञ्जरो वारणः करी इत्यर्थः । दरी तु कन्दरो वा स्त्री, वस आच्छादने इत्यस्य ण्यन्तस्य प्रयोगः ॥२३॥ (२४.७)
श्रीजयदेववचसि रुचिरे सदयं
हृदयं कुरु मण्डने ।
हरिचरणस्मरणामृतनिर्मित
कलिकलुषज्वरखण्डने ॥२४॥
श्रिया सौन्दर्यादिवैभवेन जयेन सर्वकलाकौशलेन विजयेन च दीव्यतीति श्रीजयदेवः कृष्णः तत्सम्बोधनम् । हे नागर ! मम वचसि मण्डने मण्डननिमित्तं हृदयं कुरु परमावधानेन भूषां रचयेत्यर्थः । किंलक्षणे मण्डने ? जयदे सपत्नीसकाशादुत्कर्षप्रदे । हरेस्तव चरणं स्वाधीनतया मण्डनरूपाचरणं तस्य स्मरणं मनस्यवगाहस्तदेवामृतं तेन कृतं कलिकलुषज्वरस्य मानादिषु कलहकालुष्यसन्तापस्य खण्डनं नाशनं येन तादृशे पूर्वरोषविस्मारक इत्यर्थः । अथवा, श्रीजयदेवस्य कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु । किंलक्षणे वचसि ? मण्डने सकलभक्तजनालङ्काररूपे जयदे सर्वोत्तमभक्तिप्रदानेन सर्वोपरि विराजमानतया विजयप्रदे । पुनः कीदृशे ? हरिचरणस्मरणमेव यदमृतं परमानन्दरूपमहौषधं तेन निर्मितं कलिकलुषज्वरस्य खण्डनं नाशनं येन तादृशे । कृतकलुषज्वरसंज्वरेति पाठे—कृत आचरितो यः कलुषज्वरः पापरूपसन्तापः स एव संज्वरः, तस्य खण्डने छेदके, पापसन्तापविदारणे वचसीत्यर्थः ॥२४॥ (२४.८)
* * * * *
रचय कुचयोश्पत्रं चित्रं कुरुष्व कपोलयोर्
घटय जघने काञ्चीमञ्च स्रजा कवरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे मणिनूपुराव्
इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत॥२५॥
हे प्रिय ! कुचयोः पत्रं मकरपत्रिकां रचय । कपोलयोश्चित्रं चित्रकाख्यं रचनाविशेषं कुरुष्व । अथ च, जघने काञ्चीं क्षुद्रघण्टिकां घटयार्पय । कवरीभरं ग्रथितकेशसमूहं स्रजा पुष्पमालया अञ्च पूजय, केशपाशे मालां प्रापयेत्यर्थः । अञ्चेत्यञ्च गतिपूजयोरित्यस्य लोट्मध्यमपुरुषैकवचनम् । वलयश्रेणीं कङ्कणपङ्क्तिं पाणौ हस्ते कलयर्पय । पदे चरणे नूपुरौ कुरु । इत्यनेन प्रकारेण राधया निगदितः उक्तः, पिताम्बरः तदा पीतवसनः श्रीकृष्णोऽपि तथैवाकरोदिति सन्तताश्रववल्लभेयमित्युक्तम् । तद्यथा—
षडङ्घ्रिभिरर्दितान्कुसुमसञ्चयानाचिनोद्
अखण्डमपि राधिके बहुशिखण्डकं त्वद्गिरा ।
अमुञ्च नवपल्लवव्रजमुदञ्चदर्कोज्ज्वलं
करोतु वशगो जनः किमयमन्यदाज्ञापय ॥ [उ.नी. ४.४८]
किं च, अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज [भा.पु. ९.४.६३] इति, ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं [गीता ४.११] इति च, क्षणं युगशतमिव यासां येन विनाभवत्[भा.पु. १०.१९.१६] इति निःसीमानुरागभरेण वशीकृतः । उक्तं च, श्रीमुखेनैव न पारयेऽहं [भा.पु. १०.३२.२२] इति । भगवान्पुरुषोत्तमः सच्चिदानन्दैकरसापारैश्वर्यमहिमगुणाप्रच्युतस्वरूपः तद्रूपैर्भावैस्तादृशैरेव प्रियजनैर्नित्यानन्दरूपचरितः नित्यमेव रममाण एवास्ते । आत्मारामयोगिभिर्भजनीयगुणत्वात। यत्र—आत्मारामाश्च मुनयः [भा.पु. १.७.१०] इति । उक्तं च—
न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम् ॥ [भा.पु. ३.२५.३८] इति ।
व्याकृतं स्वामिचरणैः—
नन्वन्यवत्मदीयानां भोक्तृभोग्यानां विनाशः स्यात्? तत्राह—हे शान्तरूपे ! शान्तं शुद्धं तद्रूपे मल्लोके वा मत्पराः कदाचिदपि न नङ्क्ष्यन्ति भोग्यहीना न भवन्ति । अनिमिषो मे हेतिः कालचक्रं च नो लेढि तान्न ग्रसति । तत्र हेतुः—येषामिति । सुत इव स्नेहविषयः, सखेव विश्वासास्पदम्, गुरुरिवोपदेष्टा, सुहृदिव हितकारी, इष्टं दैवमिव पूज्यः । एवं सर्वभावेन मां ये भजन्ति तान्मदीयं कालचक्रं न ग्रसतीत्यर्थः ॥
अथवा, प्रियः पतिः, आत्मा स्वरूपः, सुतः पुत्रः, सखा मित्रं, गुरुः पिता, सुहृत्सम्बन्धी, दैवमिष्टं सेव्यम् । एवं सति दासपुत्रबन्धुमित्रपितृपत्युश्च भक्ता निरूपिता ये त्वत्र प्राकृतत्वं निरूपयन्ति, ते मन्दमतयो ज्ञेयाः । उक्तं च भगवता—
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ [गीता ७.२४] इति ॥२५॥ (८७)
—ओ)०(ओ—
यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं
यच्छृङ्गारविवेकतत्त्वरचनाकाव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रिगीतगोविन्दतः ॥२६॥
हे सुधियः ! पण्डिताः ! सानन्दाः समाधानस्फुरणेन गतशयनानन्दसहिताः, भगवद्गुणानामानन्दरूपत्वात्च सानन्दाः सन्तः, जयदेवपण्डितकवेः यद्यपि पण्डितः कविरित्येकार्थपर्यवसायित्वं, तथाप्यत्र विचारक्षमयुक्तिवक्ता पण्डितः, सरसयुक्तिमात्रवक्ता कविरिति भेदः । यज्ञः क्रतुरित्यादाविव सयूपाः क्रतवः, अयूपा यज्ञा इति । श्रिगीतगोविन्दतः तत्सर्वं परिशोधयन्तु सर्वतोभावेन जानन्तु । तत्किं ? इत्याह—यद्गान्धर्वकलासु कौशलं गानविद्यासु यन्नैपुण्यं तत्सर्वं जयदेवपण्डितकवेः नैपुण्यम् । गन्धर्वः मार्गदेशवित्, मार्गस्य स्वरपदात्मकत्वात्, कलाः अङ्गविन्यासवैलक्षण्यादिकाः, तत्र नैपुण्यमिति पूर्वोक्तमेवार्थः । अथ च, वैष्णवं विष्णुसम्बन्धि यदनुध्यानमनुक्षणं चिन्तनं, यच्च शृङ्गाररसस्य यो विवेकः संयोगविप्रलम्भादिरूपेण विवेचनम्, तस्य तत्त्वं यथार्थज्ञानं, यदपि काव्येषु कविकर्मसु कवित्वनिर्माणरूपेषु लीलायितं विलसितमिति तत्सर्वमित्यर्थः । कीदृशस्य जयदेवस्य ? कृष्णैकतानात्मनः कृष्णैकतानस्तत्पर आत्मा मनो यस्य तादृशस्य । एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपीत्यमरः ॥२६॥ (८८)
—ओ)०(ओ—
कविग्रन्थसमाप्तौ श्रोत्èणामाशिषं प्रयुङ्क्ते—
पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे
सङ्क्रान्तप्रतिबिम्बसंवलनया बिभ्रद्विभुप्रक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः
कायव्यूहमिवाचरन्नुपचितीभूतो हरिः पातु वः ॥२७॥
हरिः स्मृतिमात्र एव वृजिनपुञ्जभञ्जनः वो युष्मान्पातु रक्षतु । भक्तप्रणयिताख्यापनेन रक्षणव्यसनतामाह—किंलक्षणः ? कायव्यूहं शरीरसमूहमाचरन्निव कुर्वन्निव उपचितीभूतो वृद्धिं प्राप्तः । तत्र हेतुः—पादाम्भोरुहं चरणसरोजं धारयितुं शीलं यस्यास्तादृशीं वारिधिसुतां लक्ष्मीं, अक्ष्णां शतैर्नेत्राणां सहस्रैर्दिदृक्षुः द्रष्टुमिच्छुः । कथं तथा भवेदत आह—पर्यङ्कीकृतः शय्यीकृतो यो नागनायकः शेषस्तस्य फणाश्रेणीनां पङ्कीनां ये मणयस्तेषां गणे समूहे सङ्क्रान्तप्रतिबिम्बसंवलनया सम्बद्धप्रतिकृतिप्रसरेण विभुप्रक्रियां विस्तारप्रकारं बिभ्रत्दधत। प्रतिबिम्बार्पकमणीनामनन्ततया देहानामनन्तत्वं, देहानामनन्ततया तादृशनेत्रलाभोऽभूदित्यर्थः ॥२७॥ (८९)
—ओ)०(ओ—
अन्यच्च—
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वक्षोऽञ्चलं
पद्मायाः स्तनकोरकोपरिमिलन्नेत्रो हरिः पातु वः ॥२८॥
हरिः श्रीकृष्णो वः पातु । किंलक्षणः ? हे सुन्दरि ! मूढो मृडानीपतिः रुद्रः क्षीरोदतीरोदरे क्षीरसमुद्रतटमध्ये मयि स्वयंवरपरां मदेकपतिकां त्वामप्राप्यलब्ध्वा कालकूटं हालाहलमपिबत्पीतवानित्यहं शङ्के तर्कयामि । इत्थमनेन प्रकारेण पूर्वकथाभिः पूर्वकथनैरन्यमनसोऽन्यमनस्काया राधाया वक्षोऽञ्चलं स्तनावरकं विक्षिप्यपसार्य स्तनौ कोरकाविव तदुपरि मिलन्नेत्रः नूतनोद्भवत्वे कोरकोपमा सौन्दर्यादिना च । अनेन पार्वत्याः सकाशादपि सौन्दर्याधिक्यं ध्वनितम् ॥२८॥ (९०)
—ओ)०(ओ—
साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्करासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते ।
माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं
यावच्छृङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः ॥२९॥
बालबोधिनी ः अथ हृद्रोगमाश्वपहिनोत्यचिरेण धीरः [भा.पु. १०.३३.३९] इति शुकोक्तप्रायत्वातेतच्छ्रवणकीर्तनस्मरणानुमोदनप्रभावमाह—साध्वीति । हे माध्वीक ! इह लोके यावत्जयदेवस्य वचांसि विष्वक्सर्वतः शृङ्गारसारस्वतं भावं ददति, तावद्भवततः चिन्ता साध्वी न भवति, मधुरत्वेऽपि मादकत्वादित्यर्थः । हे शर्करे ! त्वं कर्करासि, मादकत्वाभावेऽपि कठिनत्वादित्यर्थः । हे द्राक्षे ! के त्वां द्रक्ष्यन्ति, कोमलत्वेऽपि निन्द्यदेशोद्भवत्वादित्यर्थः । हे अमृत ! त्वं मृतमसि, मरणान्तरप्राप्यत्वादित्यर्थः । हे क्षीर ! ते रसो नीरं, नीरवदावर्तनाद्यपेक्षत्वात। हे माकन्द आम्र ! त्वं क्रन्द, त्वगष्ठ्यादिहेयांशसाहित्यात। हे कान्ताधर ! त्वं पातालमसुरालयं याहि, अधोदातृनामत्वात्तवात्र स्थितिरपि न युक्तेत्यर्थः । श्रीजयदेववर्णितमधुराख्यभक्तिरसास्वादनिर्वृतजनास्ते घृणामेव करिष्यन्तीति भावः ॥२९॥ (९१)
—ओ)०(ओ—
श्रीभोजदेवप्रभवस्य वामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥३०॥
बालबोधिनी ः अथ स्वपितृमातृस्मरणपूर्वकं पराशरादिमतज्ञातार एवाधिकारिण इति तान्प्रति आशिषयति—श्रीभोजेति । भोजदेवनामा तस्य पिता, वामादेवी नाम्नी जननी । तस्याः सुतस्य श्रीजयदेवकस्य पराशरादीनां ये प्रियास्तन्मतज्ञातारस्तेष्वपि ये बान्धवास्तन्मतानुसारेण श्रीराधामाधवरहःकेलिज्ञानेन बन्धुत्वं प्राप्तास्तेषामेव कण्ठे भूषणवत्सदा श्रीगीतगोविन्दाख्यं कवित्वमस्तु । अनेनास्य प्रबन्धस्य सर्ववेदेतिहासपुराणादिवक्त्èणां सम्मत्या सर्वसारत्वं दुरूहत्वं च बोधितम् ।
अत्रायं क्रमः—आदौ श्रीकृष्णस्य श्रेष्ठताप्रतिपादनं प्रलयपयोधिजले [गी. १] इत्यादि, वसन्ते वासन्ती इत्यन्तेन । ततः श्रीराधाया समधिकलालसावर्णनं, कंसारिरपि [४.१] इत्यन्तेन । तत्रैव साधारणलीला, तस्या उत्कण्ठावर्णनं च, ततः श्रीकृष्णस्यापि उत्कण्ठा, यमुनातीरे इत्यन्तेन । ततः श्रीकृष्णे राधिकोत्कण्ठा अहमित्यन्तेन । ततः तस्यां श्रीकृष्णोत्कण्ठितावर्णनं, पूर्वं यत्र इत्यन्तेन । ततोऽभिसारिकावस्थावर्णनं, अथ तामित्यन्तेन । ततो वासकसज्जा, अत्रान्तरे इत्यन्तेन । ततः चन्द्रोदयात्पुनरुत्कण्ठिता, अथागतामित्यन्तेन । ततो विप्रलब्धा अथ कथमपीत्यन्तेन । ततः खण्डिता तामत्थ [गी.गो. ५८] इत्यन्तेन । ततः कलहान्तरिता अत्रान्तरे मसृणरोष [गी.गो. ६१] इत्यन्तेन । ततो मानिनीवर्णनं, सुचिरं [गी.गो. ६९] इत्यन्तेन । ततो मेघावृते चन्द्रे सखीप्रार्थना, सा ससाध्वस [गी.गो. ७५] इत्यन्तेन । ततोऽन्योन्यावलोकनं, गतवति [गी.गो. ७९] इत्यन्तेन । ततः श्रीकृष्णप्रार्थना, प्रत्यूहः [गी.गो. ८०] इत्यन्तेन । ततो रहःकेलयः इति मनसा [गी.गो. ८६] इत्यन्तेन । ततः स्वाधीनभर्तृका, पर्यङ्कीकृत [गी.गो. ८९] इत्यन्तेन ।
अतः सर्गोऽयं समृद्धिमदाख्यसम्भोगरसानन्दितः पीताम्बरः यत्र सः, प्रियाधीनत्वेन तद्वर्णवसनप्रियः श्रीकृष्णो यत्र सः ॥३०॥ (९२)
इति श्रीजयदेव कृतौ श्रीश्रीगीतगोविन्दमहाकाव्ये
सुप्रीतपीताम्बरो नाम द्वादश सर्गः
समाप्तमिदं काव्यम्
—ओ)०(ओ—
अधिकौ द्वौ श्लोकौ केषुचित्संस्करणेषु दृश्येते, यथा—
साधूनां स्वत एव संमतिरिह स्यादेव भक्त्यार्थिनां
आलोच्य ग्रथनश्रमं च विदुसामस्मिन्भवेदादरः ।
ये केचित्परकृत्युपश्रुतिपरास्तानर्थये मत्कृतिं
भूयो वीक्ष्य वदन्तो अवद्यमिह चेत्सा वासना स्थास्यति ॥
इत्थं केलिततिर्विहृत्य यमुनाकूले समं राधया
तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर्
व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदम् ॥
***************************************************************************
.
]