[[गीतगोविन्दम् Source: EB]]
[
[TABLE]
(Registered according to the Government of India’s act
XXV of 1867.)
——————
(All rights reserved by the publisher.)
श्रीः
महाकविश्रीजयदेवविरचितं
गीतगोविन्दकाव्यम् ।
<MISSING_FIG href="../books_images/U-IMG-1724497139fg.PNG"/>
श्रीकुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया, महामहोपाध्याय-
श्रीशंकरमिश्रनिर्मितरसमञ्जर्याख्यव्याख्यया च
संवलितम् ।
रा० रा० तेलङ्ग इत्युपाह्वरामकृष्णात्मजेन मङ्गेशशर्मणा
वे० शा० सं० पणशीकरोपाभिधलक्ष्मणतनूजन्मना वासुदे-
वशास्त्रिणा च पाठान्तरादिभिः संस्कृत्य
संशोधितम् ।
<MISSING_FIG href="../books_images/U-IMG-1724497286gara.PNG"/>
तच्च
मुम्बय्यां जावजी दादाजी इत्येतेषां ‘निर्णयसागर’ यन्त्रालयाधिपतिना
तुकाराम जावजी इत्येतेन मुद्रयित्वा
प्राकाश्यं नीतम् ।
-
*
शकाब्दाः १८२०. सनाब्दाः १८९९.
-
*
[TABLE]
प्रस्तावना
<MISSING_FIG href="../books_images/U-IMG-1724498055fg.PNG"/>
श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थसंहतिबहुलं सरसरागनिबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डारसदृशमिदं गीतगोविन्दकाव्यं कैश्चिद्भूयो मुद्रयित्वा प्रकाशितमपि सहृदयाल्हादिन्या साहित्यसंगीतविवेकप्रचुरया टीकया समेतं केनापि प्रकाशितं नैव दृश्यते। अतस्तद्रसध्वन्यलंकाररागतालादिलक्षणानुगतिद्योतकेन टीकाद्वयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते।
अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जयदेवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां बहूनां कवीनामिव सम्यङ्नज्ञायते। यत्किञ्चिन्मधुकरवृत्त्या संकलितं तदत्र विद्वत्कौतुकाय संगृह्यते।
गीतगोविन्दकाव्यादेव यदस्य कवेः पितृनामादिकं लभ्यते तदेवम्—जयदेवस्य पितुर्नाम1 द्रष्टव्यम् ।") श्रीभोजदेव इति। मातुर्नाम राधादेवी रामादेवीति वा। पराशराभिधः कोऽपि रसिकोऽस्य सुहृदासीत्। जयदेवकवेर्भार्याया2 ।भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।") नाम पद्मावतीति। उमापतिधरः3 द्रष्टव्यम् ।") शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन्। जयदेवस्य कुलवृत्तिग्रामः किन्दुबिल्वाख्य4 ‘किन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन’ इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वपदस्य जयदेवकुलवृत्तिग्रामत्वेन व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु ’ बिन्दुबिल्व ’ इति पाठो दृश्यते ।") आसीदिति।
जयदेवकविः परमः कृष्णभक्त आसीत्। अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि भरतखण्डे विख्यातो बभूव। एतद्विषयकमस्य चरितं श्रीमच्चन्द्रदत्तकृतभक्तमालाख्यग्रन्थे5 ३९ त्तमसर्गमारभ्य ४१ त्तमसर्गपर्यन्तं त्रिभिः सर्गैर्वर्णितमस्ति। तदत्र बालबोधाय यथामूलमुपन्यस्यते। तद्यथा—
“पुनरग्रेप्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम्।
यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि॥
जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे।
बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः॥
तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः।
विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
१ गीतगोविन्दस्थे ’ श्रीभोजदेव ’ इत्यादिपद्ये ( पृ० १७१ ) द्रष्टव्यम् ।
२ गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस्य’ जयति ‘पद्मावतीरमणजयदेव’ इत्यादि पाठान्तरदर्शनात् ( पृ० १३३ ) ।भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।
३ गीतगोविन्दस्थे ‘ वाचः पल्लवयत्युमापतिधरः ’ इत्यादिपद्ये ( पृ० ९) द्रष्टव्यम् ।
४ गीतगोविन्दस्थसप्तमप्रबन्धस्यान्तिमपदे ( पृ० ५८ ) ‘किन्दुबिल्वसमुद्रसंभवरोहिणीरमणेन’ इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वपदस्य जयदेवकुलवृत्तिग्रामत्वेन व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु ’ बिन्दुबिल्व ’ इति पाठो दृश्यते ।
५ अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर-मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेतदध्यायत्रयम् ।
अथतत्रैव विप्रोऽन्यो देवशर्मेति विश्रुतः।
अनपत्यो बभूवासौ जगन्नाथमुपागतः॥
नमस्कृत्य हरिं मूर्धा स्वीचकार कृताञ्जलिः।
यदि मे संततिर्नाथ त्वत्प्रसादाद्भविष्यति॥
अपत्यं प्रथमं तुभ्यमर्पयिष्याम्यसंशयम्।
प्रतिश्रुत्य मनस्येवं स यातो निजमन्दिरम्॥
तत्र कालेन कियता कन्यैका प्रथमाजनि।
ततः पुत्रानलभत साधुवृत्तान्मनोहरान्॥
ततः स मनसा स्मृत्वा सपत्नीको द्विजोत्तमः।
कन्यां गृहीत्वा हर्षेण जगन्नाथमुपागतः॥
नमस्कृत्य जगन्नाथं देवशर्माब्रवीद्वचः।
देव देव जगन्नाथ प्रसादः फलितो मम॥
प्रथमा तनया जाता पुत्रास्तु तदनन्तरम्।
अतः प्रतिश्रुतां कन्यां ददामि प्रतिगृह्यताम्॥
इत्युक्त्वा तां करेणासौ गृहीत्वा तां प्रदर्श्य च।
पूजकेभ्योऽथ वृत्तान्तमादितो व्याजहार सः॥
ततो बहिः समागत्य सोऽवतस्थे क्वचिद्द्विजः।
रात्रौ तस्य च विप्रस्य पूजकस्य जगत्प्रभुः॥
स्वप्ने तं कथयामास जगन्नाथो द्रुतं वचः।
देवशर्मन्प्रसन्नोऽस्मि स्वीकृता ते सुता मया॥
परंतु जयदेवाय दीयतां मत्प्रियो ह्यसौ।
अहमेव स विज्ञेयो नात्र कार्या विचारणा॥
पूजकोऽप्येवमेवाथ स्वप्नं दृष्ट्वा प्रबोधितः।
देवशर्माणमागत्य स्वप्नं प्रोवाच हर्षितः॥
श्रुत्वैवं देवशर्मापि स्वप्नं सत्यममन्यत।
पूजकं तं नमस्कृत्य गृहीत्वा तनयां निजाम्॥
जगाम जयदेवस्य संनिधौ हृष्टमानसः।
तं तु पर्णकुटीमध्ये ग्रामाद्बहिरवैक्षत॥
दरिद्रं निरपेक्षं च शास्त्रं पश्यन्तमादरात्।
मनसा तु जगन्नाथं ध्यायन्तं मुदिताननम्॥
प्रणम्य जयदेवं तं देवशर्माब्रवीद्वचः।
इयं मे तनया ब्रह्मञ्जगन्नाथाज्ञया मया॥
नाम्ना पद्मावती तुभ्यं दीयतेऽनुगृहाण ताम्।
इत्युक्तो जयदेवस्तमुवाच मधुरं वचः॥
अहं न कन्यादानस्य पात्रं दीनोऽनिकेतनः।
ममापि न जिघृक्षास्ति किमिदं भाषसे वृथा॥
जगन्नाथाज्ञयेत्युक्त्वा यन्मां वञ्चयसि स्फुटम्।
कुत एवं मतिभ्रंशो गच्छ गच्छ यथासुखम्॥
आनाय्य पूजकं तत्तु देवशर्मातियत्नतः।
निवेदयामास मुहुस्तां च न स्वीचकार सः॥
ततः स्वतनयां तत्न स्थापयित्वा द्विजोऽव्रवीत्।
अयं तु ते पतिः पुत्रि त्वया पूज्यश्च सर्वदा॥
पतिसेवापरा नारी सुखमक्षय्यमश्नुते।
इत्युक्त्वा तां देवशर्माययौ पत्न्या सहाश्रमम्॥
सापि कन्या स्थिता तत्र जयदेवसस्यसंनिधौ।
जयदेवस्तु तां प्राह गतौ तौ पितरौ तव॥
त्वां विहाय त्वमप्येका कथं स्थास्यसि कानने।
अथ पद्मावती प्राह भगवन्किं ब्रवीषि भो॥
स्वमातृपितृदेयां वै स मां तुभ्यं ददौ पिता।
अतस्तवाहं तवं चेन्मामतिभक्तामनागसम्॥
त्यक्षसीत्यत्र कि कुर्यांनाहमेका त्वयि स्थिते।
पद्मावतीवचः श्रुत्वा जयदेवोऽप्यचिन्तयत्॥
अनया सत्यमुक्तं हि त्यागे दोषो महान्मम।
तस्मादस्याः पितुर्गेहं गत्वाहमनया सह॥
इमां प्रतिग्रहीष्यामि विधिना नात्र संशयः।
इति निश्चित्यमनसा जयदेव उवाच ताम् ॥
एह्यागच्छ मया सार्द्धं गच्छामि त्वत्पितुर्गृहम्।
विधिना तत्रते पाणिं ग्रहीष्यामि न संशयः॥
इत्येवं वचनं श्रुत्वा प्राह पद्मावती पुनः।
त्वदाज्ञाकरणं धर्म इत्येवं मां पिताब्रवीत्॥
अतो महाप्रसादोऽयमित्युक्त्वाग्रेस्थिताभवत्।
जयदेवस्तया सार्द्धं देवशर्मगृहं गतः॥
तमुक्त्वा गद्गदं सर्वंप्रतिगृह्ययथाविधि।
पद्मावत्या तया सार्धमाजगाम निजं गृहम्॥
उभौ तौ दम्पती तत्र एकप्राणौबभूवतुः।
नृत्यन्तौचापि गायन्तौ श्रीकृष्णार्चनतत्परौ॥
एकदा जयदेवस्तुमनस्येवमचिन्तयत्।
स्वयंकृतेन गीतेन तोषयिष्याम्यहं हरिम्॥
इति निश्चित्य निर्माय गीतगोविन्दनामकम्।
गायंस्तु देवदेवाग्रे पत्न्यासह ननर्तह॥
एवं नित्यव्रतं तस्य तत्रैकस्मिन्दिने पुनः।
बबन्ध रासचरितं कृष्णोक्तौराधिकां प्रति॥
शिरस्याधेहि मे पादमित्यर्थंच करं हृदि।
समायान्तं न तद्दातुं शशाकेश्वरतां स्मरन्॥
अन्यदन्वेषमाणोऽपि न लेभे तादृशं पदम्।
संस्थाप्य पुस्तकं स्नातुं जगामान्यद्विचिन्तयन्॥
तावज्जयदेवरूपेण कृष्णस्तत्र समागतः।
पद्मावतीमुवाचाथ पुस्तकं देहि मे प्रिये॥
पद्मावती समानीय ददौ तत्पुस्तकं द्रुतम्।
गृहीत्वा पुस्तकं तत्र जयदेवेन यत्कृतम्॥
मनसा तल्लिलेखासौ जयदेवस्वरूपधृक्।
पुनरुत्थाय स स्नातुं जगामातित्वरान्वितः॥
कश्चित्कालमतीत्याथ जयदेवः समागतः।
देवानभ्यर्च्य भुक्त्वा च गृहीत्वा पुस्तकं पुनः॥
मनसा कल्पितं पद्यं लिखितुं तु समुद्यतः।
ददर्श तत्र तत्पद्यं नालिखद्यदयं पुरा॥
अन्येन लिखितं ज्ञात्वा प्राह पद्मावतीं प्रियाम्।
अये केनेदमालेखि तं जानासि शुचिस्मिते॥
नाहमेतत्पदं पूर्वमलिखं नाक्षरं मम।
इति श्रुत्वा वचस्तस्य प्राह पद्मावती प्रिया॥
नाथ कोऽयं भ्रमस्तेऽद्य जयदेवं वचोऽब्रवीत्।
स्नातुं गतस्तु तत्काले पुनरागत्य सत्वरम्॥
गृहीत्वा पुस्तकं मत्तो लिखित्वा त्वं पुनर्गतः।
स्नातुमेवं तु जानामि कोऽन्यस्त्वत्तोऽत्र लेखकः॥
इति श्रुत्वा प्रियावाक्यं जयदेवोऽतिविस्मितः।
अहर्निशं तमेवार्थंचिन्तयन्नालभत्सुखम्॥
तस्मिन्दिने रात्रिशेषे स्वप्ने श्रीपुरुषोत्तमः।
उवाच जयदेवं तु सुस्वप्नेमुमुदे भृशम्॥
स्वपत्नीं सुभगां मेने पुरुषोत्तमदर्शनात्।
तदारभ्यातिभक्त्या वै पत्न्या सह हरिं भजन्॥
गायन्वै गीतगोविन्दं तोषयामास केशवम्।
निर्माय गीतगोविन्दपुस्तकं पुरुषोत्तमे॥
निवेद्य कृतकृत्योऽभूज्जयदेवो महामनाः॥
इति श्रीभगवद्भभक्तिमाहात्म्ये जयदेवचरितं नामैकोनचत्वारिंशः सर्गः ॥
पुनर्वक्ष्यामि तस्यैव चरितं परमाद्भुतम्।
जयदेवस्य विप्रस्य गीतगोविन्दसंभवम्॥
एकदा गीतगोविन्दं श्रुत्वा राजातिहर्षितः।
निजाग्रे स्थापयित्वा तत्काव्यं तादृशमेव च॥
स्वयं निर्माय विद्वद्भयो ददावाज्ञां नृपः पुनः।
अद्यारभ्य ममैतद्वै गीतगोविन्दनामकम्॥
पठ्यतां गीयतां सर्वैरन्यथा दण्डभाग्भवेत्।
इत्याज्ञाप्य द्वितीयं तद्गीतगोविन्दनामकम्॥
प्रख्यापयामास नृपः काव्यं स्वकृतमेव तु।
जयदेवकृतं कोऽपि न जगौ नृपशासनात्॥
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम्।
आगतस्तत्र देवाग्रे जयदेवं ददर्श ह॥
नृत्यन्तं स्वकृतं काव्यं गायन्तं नृप आह तम्।
अहो मदीयं काव्यं त्वं कुतो न स्वीकरोषि भो॥
श्रुत्वैवं जयदेवस्तु राजानं प्राह भीतवत्।
स्वीकृतं भवदीयं तु काव्यं राजन्न संशयः॥
परंतु मत्कृतेनायं यथा तुष्यति केशवः।
न तथात्वत्कृतेनेति परीक्षा क्रियतामिह॥
एतच्छ्रुत्वा तु वचनं जयदेवकृतं स्वकम्।
उभयं स्थापयामास जगन्नाथाग्रतः स्वयम्॥
उवाच देवं भो स्वामिन्किं तवातिप्रियं द्वयोः।
तत्स्थापयोपरिष्टात्तु यामः सर्वे बहिर्गृहात्॥
इत्युक्त्वा ते बहिर्याता द्वारे दत्वा कपाटकम्।
राजा च जयदेवश्च ये चान्ये तत्र वै द्विजाः॥
अग्रे स्थित्वा क्षणं तत्रोद्घाटितं स्वयमेव हि।
कपाटं मन्दिरे याताः सर्वे राजपुरस्सराः॥
ददृशुस्तत्र ते सर्वे जयदेवेन निर्मितम्।
उपरिष्टात्स्थापितं तु तदधो राजनिर्मितम्॥
दृष्ट्वा तत्परमाश्चर्यंराजा शोकसमन्वितः।
तत्याजान्नं च पानीयं रात्रौ तत्रैव तस्थिवान्॥
नृपः स्वप्रे ददर्शाथ पुरुषोत्तमरूपधृक्।
कश्चित्समागतो ब्रूते किमर्थं शोचसे वृथा॥
गीतगोविन्दसदृशं नान्यत्काव्यं प्रियं मम।
त्वत्कृतेनापि तुष्यामि भक्तस्त्वं नात्र संशयः॥
परंतु गीतगोविन्दं स्वीकरोतु भवानपि।
प्रख्यापयतु लोकेऽस्मिन्मम प्रीतिविवर्धनम्॥
एवं पश्यन्नृपः स्वप्ने जहौ निद्रां मुदान्वितः।
कृष्णं ननाम मनसा स्वापराधं क्षमापयन्॥
तदारभ्य नृपो जातो जयदेवेऽतिभक्तिमान्।
स्वयं तु गीतगोविन्दं प्रपठन्भक्तिपूर्वकम्॥
प्रख्यापयामास पुनर्देशे देशे नृपोत्तमः।
अथापरं प्रवक्ष्यामि तस्यैव चरितं शुभम्॥
एकदा तूत्कले देशे पुरुषोत्तमसंनिधौ।
कस्मिंश्चिन्नगरे काचिच्छाकविक्रयिणी मुदा॥
शरत्काले निशीथिन्यां चन्द्रिकाञ्चितदिग्दशे।
गायन्ती गीतगोविन्दं वृन्ताकवनमध्यगा॥
वृन्ताकं च विचिन्वन्ती विक्रयार्थमितस्ततः।
गायन्ती कृष्णचरितं जयदेवविनिर्मितम्॥
श्रुत्वा गानं तु भगवांस्तस्याः पश्चादितस्ततः।
शृण्वन्गीतं स बभ्राम व्रजन्ती सा यतो यतः॥
एवं भक्तिवशः कृष्णो वृन्ताकविपिने हरेः।
वृन्ताककण्टकैश्छिन्नं परिधानीयमम्बरम्॥
वृन्ताकानि गृहीत्वा सा मन्दिरं स्वं ययौ यदा।
तदा स्वधाम संप्राप्तो निशि श्रीपुरुषोत्तमः॥
प्रभाते तत्र पूजार्थमायातः पूजको हरेः।
पूजासंभारमादाय द्रष्टुं राजाप्युपागतः॥
प्रोद्घाट्यस कपाटं तु गत्वा देवस्य संनिधौ।
स्थापयन्परिधानीयमपश्यत्खण्डशः कृतम्॥
वृन्ताककण्टकैर्विद्धं किमेतदित्यचिन्तयत्।
आहूय स तु राजानं दर्शयामास चाम्बरम्॥
कथमेतदभूद्राजन्परमाश्चर्यमित्यहो।
मयैवागत्य च पुनः कपाटोद्घाटनं कृतम्॥
न बालो नापि चोन्मत्तः कश्चिदत्रागतो निशि।
कथमेतद्विजानीयां केनेदं कृतमीदृशम्॥
इत्युक्त्वा पूजयित्वा तं सह राज्ञा स पूजकः।
विस्मितो बहिरागत्य परां चिन्तामुपागतः॥
मुहुर्मुहुश्चिन्तयानो न लेभेऽद्भुतकारणम्।
तदा राजापि तत्रैव पूजकब्राह्मणेन वै॥
उवास रात्रौ श्रीकृष्णं प्रार्थयन्मनसा मुहुः।
केनेदमासीद्वस्त्रस्य खण्डशःकरणं विभोः॥
एवं चिन्तापरौ तौ तु त्यक्ताशनजलावुभौ।
रात्रौ सुषुपतुस्तत्र लेभाते नैव तौ सुखम्॥
तदा निशावशेषे तु स्वप्ने श्रीपुरुषोत्तमः।
ददृशतुरुभौ देवं तत्तद्रूपिणमागतम्॥
राजानं ब्राह्मणं चापि वदन्तं मधुराक्षरम्।
विषीदसि किमर्थंभो मद्वस्त्रच्छेदनादिना॥
शृणुष्व कारणं वासो येन च्छिन्नमनेकधा।
इतो विदूरे वृन्ताकवाट्यां काचिज्जगौ मुदा॥
फलविक्रयिणी गीतगोविन्दं मम वल्लभम्।
तच्छ्रोतुमगमं चाहं वाट्यां सार्द्धं तया पुनः॥
इतस्ततोह्यधावं तु ततो वृन्ताककण्टकैः।
खण्डशः स्फुटितं वस्त्रं सत्यमेतन्न संशयः॥
मा विषादं कुरुष्वात्र नैव दोषोऽस्ति कस्यचित्।
इति श्रुत्वा वचः स्वप्ने भूपतिः स च पूजकः॥
उत्थाय च ततो विप्रो राजसंनिधिमागतः।
राजानमुक्तवान्सर्वं स्वप्ने यद्यदवैक्षत॥
श्रुत्वा राजाथ तत्सर्वं सत्यमेतदिति ब्रुवन्।
उवाच स्वप्ने यद्दृष्टं राजापि स्वयमेव हि॥
परस्परं प्रशंसन्तौ शाकविक्रयिणीमुभौ।
जयदेवकविं चैव राजा तु ब्राह्मणः स च॥
अथ राजा तु तां शूद्रीं शाकविक्रयिणीं तदा।
आनाय्य जीविकां दत्त्वा वसात्रैव पुरे सदा॥
गायन्ती गीतगोविन्दं नित्यं श्रीपुरुषोत्तमम्।
तोषयेति नृपस्त्वाज्ञां दत्वा संपूज्य केशवम्॥
भुक्त्वा प्रसादं देवस्य जगाम भवनं निजम्।
जयदेवं ततो राजा भक्तराजममन्यत॥
मुहुस्तद्दर्शनाकाङ्क्षी कविवेश्म ययौ नृपः।
एवं भक्तिवशः कृष्णः किं किं न कुरुते प्रभुः॥
तस्मादद्यापि भक्तिर्हि नृणां सर्वार्थसाधिनी।
अथापरं प्रवक्ष्यामि पद्मावत्या विचेष्टितम्॥
जयदेवस्य चरितं महदाश्चर्यमुत्तमम्।
एकदा तत्र नृपतेर्भ्राता कश्चित्सगोत्रजः॥
ममार कालधर्मेण तत्पत्नी सुव्रता सती।
अनुगन्तुं मनश्चक्रे निश्चितं पतिदेवता॥
ततो राजा ददौ सर्वंसंभारमौर्ध्वदेहिकम्।
स्वयं तत्र गतो राजा पुरवासिजनैर्वृतः॥
तस्मिन्नेव क्षणे राज्ञी द्रष्टुं पद्मावती ययौ।
राज्ञी प्रणम्य तां प्राह सतींद्रष्टुं किमेषि भो॥
इति श्रुत्वा वचो राज्ञ्याःप्राह पद्मावती सती।
अहो पाषण्ड इत्येष मृते पत्यौ मनस्विनी॥
एवं मर्तुमुपायं यत्प्रसाधयति सुव्रता।
अहं तु मन्ये भो राज्ञि पत्युर्मरणसंश्रुतम्॥
तत्क्षणाद्देहजे वह्नौ भस्मीभूतानयाभवत्।
का भक्तिः का च तत्प्रीतिर्व्रतं तस्याश्च किं पुनः॥
इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता।
किमिदं भाषसे साध्वि कथमेवं भविष्यसि॥
परीक्षां कारयिष्यामि किंचित्कालं प्रतीक्ष्य च।
इति श्रुत्वा वचस्तस्या राज्ञी विस्मयमागता॥
पद्मावत्यपि तां राज्ञीं समाभाष्य गृहं ययौ।
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम्॥
जगाम जयदेवं तं पुरस्कृत्यातिभक्तितः।
उवास तत्र तां रात्रिं जयदेवेन संगतः॥
अथ प्रभाते संजाते यावद्राजा न चागतः।
तावदेव तु सा राज्ञी कविपत्नीं समाह्वयत्॥
पद्मावती समायाता राज्ञींप्राह करोमि किम्।
तां दृष्ट्वा राजपत्नी सा रुरोदाह च विह्वला॥
राज्ञा सह कविस्तत्र देवं द्रष्टुं गतः किल।
तत्र कस्माद्विना दुःखं पतिस्ते देहमत्यजत्॥
तद्दुः स्ववशगो राजा नायाति स्वगृहं पुनः।
अमी समागता भृत्याः कथयन्तीदमप्रियम्॥
इति श्रुत्वा वचस्तस्या राज्ञ्याः पद्मावती सती।
अहो किमिदमित्युक्त्वा तूष्णीं तस्थौ क्षणार्धतः॥
निपपात पृथिव्यां सा गतासुरभवत्तदा।
अथ राज्ञी समागत्य हाहाकारं मुहुर्मुहुः॥
कुर्वन्ती स्वयमेवार्तां तामुत्थाय पतिव्रता।
नोत्तस्थौ तां मृतां ज्ञात्वा राज्ञी शोकसमाकुला॥
भयार्ता विललापायगर्हयन्ती निजां क्रियाम्।
अथ तत्र गताः सर्वे राजदाराः समन्ततः॥
चुक्रुशुः शोकसंतप्ताः किं जातमिति चाब्रुवन्।
अथ राजापि कविना समायातोऽतिविस्मितः॥
श्रुत्वा कोलाहलं शीघ्रं ययावन्तःपुरं स्वयम्।
जयदेवेन सार्द्धं च तत्र गत्वा ददर्श ह॥
पद्मावतीं मृतां भूमौ राजा त्वाह प्रियां प्रति।
किं जातमस्या येनेयं मृता कस्मात्कविप्रिया॥
श्रुत्वा राज्ञी नृपवचो भीता प्राह कृताञ्जलिः।
मम दुश्चरितं नाथ क्षम्यतां कथयामि ते॥
तव भ्राता मृतः पूर्वंतत्पत्नी सा तमन्वगात्।
तां दृष्ट्वा प्राह मामेषा कोऽयं पाखण्ड इत्यहो॥
मृते पत्यौ तत्क्षणात्तु भस्मसादभवन्न या।
तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः॥
इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम्।
अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम्॥
तच्छ्रुत्वैव पपातोर्व्यां मृता तत्क्षणमेव हि।
इदानीं त्वमिहायातः कविना सह संगतः॥
अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो।
इति श्रुत्वा वचस्तस्या राजा प्राहातिविस्मितः॥
वृथेयं घातिता देवि त्वया पद्मावती सती।
निवत्स्यति कथं गेहे जयदेवोऽनया विना॥
अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना।
घातने स्त्रीवधो मे स्यादवध्या हि स्त्रियो नृणाम्॥
इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः।
राजन्ननपराधेयं महिषी तव सुव्रता॥
न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाग्रतः।
कौतुकेन मृषावाक्यं भवत्येव न संशयः।
वाङ्मात्रेण न तत्रास्ति पातकं कस्यचिन्नृप।
किंच क्षणं जगन्नाथं स्मर त्वं सुमना भव॥
भजेऽहमपि तं देवं कल्याणं स करिष्यति।
इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः॥
प्रिये चार्विति यत्स्वोक्तं गीतं तत्परमानसः।
जगौ ततः क्षणादेव पद्मावत्याः कलेवरम्॥
संचचार ततः सर्वे विस्मयोत्फुल्ललोचनाः।
साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा॥
समुत्थाय जगौ पत्या सार्द्धं तु पश्यतां नृणाम्।
ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम्।
प्रणनाम मुहुर्भक्त्या क्षम्यतामिति भाषिणी।
ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया॥
स्वगृहं प्रययौ हृष्टः पद्मावत्या महोत्सुकः।
एवं भगवतो भक्तिर्मृतसंजीविनी नृणाम्॥
अद्यापि वर्तते लोके निश्चयोऽपेक्षितः किल।
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नाम चत्वारिंशः सर्गः॥
अपरं शृणु वक्ष्यामि कवेः सुचरितं महत्।
जयदेवसमः साधुर्न भूतो न भविष्यति॥
सर्वभूतसुहृल्लोके सममात्मसमं पुनः।
पश्चात्प्रारब्धभोगस्तु मनुते कर्मबन्धनम्॥
एकदा स क्वचिद्ग्रामे निमन्त्रणवशाद्गतः।
तत्र संमानितः शिष्यैर्वस्त्रालंकरणादिभिः॥
भोजयित्वा सुवर्णानि दत्त्वा प्रातर्विसर्जितः।
आगच्छद्विपिने मार्गे चिन्तयन्पुरुषोत्तमम्॥
ततः खड्गधरास्तत्र लुण्टकाः समुपागताः।
चत्वारो निर्दयास्तीव्राः कालान्तकयमोपमाः॥
तान्दृष्ट्वा जयदेवस्तु धनलोभाज्जिघांसतः।
उपायमकरोत्तत्र प्राणत्राणाय केवलम्॥
तानुवाच कविः प्रेम्णा वत्सा यूयं क्व गच्छथ।
पुरुषोत्तमपुरीं याम इत्युक्तस्तैः पुनः स तु॥
उवाच तान्मधुरया वाचा भद्रमभूदिह।
मयापि तत्र गन्तव्यं भवद्भिः साकमेव हि॥
परंतु वृद्ध एकाकी गृहीत्वैतद्धनानि भो।
गन्तुं न शक्तो यूयं चेद्धनमेतत्प्रगृह्य च॥
गच्छताद्य मया सार्द्धं तदा मे गमनं भवेत्।
इत्युक्त्वा तानि वस्त्राणि सुवर्णानि च सर्वशः॥
तेभ्यो दत्वा सुखं मेने प्राणत्राणं मुदान्वितः।
शनैः शनैस्ततः पश्चात्ततः सोऽप्यगमत्कविः॥
गृहीत्वैतानि वस्तूनि सुखं गच्छन्त्वमी पुनः।
यास्यामि स्वगृहं दैवान्महारिष्टाद्विमोचितः॥
अन्यथा माममी लोभाद्धातयेयुर्न संशयः।
इत्येवं चिन्तयन्तं तं जयदेवं शनैः शनैः॥
गच्छन्तं पुरतश्चौरा दीर्घनादैः समाह्वयन्।
अहो शीघ्रं समागच्छ गृहाणेदं निजं धनम्॥
त्वं तु गन्तुं न शक्नोऽषि दूरं गन्तव्यमस्ति नः।
इति श्रुत्वा वचस्तेषां जयदेवोऽतिशङ्कितः॥
किं करिष्यन्त्यमीत्येतच्चिन्तयन्पथि। (?)
तावत्ते मन्त्रयामासुरयं धूर्तोऽस्ति वै द्विजः॥
अस्माभिरेव वस्तूनि प्रापयिष्यति नः पुनः।
घातयिष्यति गत्वायं स्वग्रामे नात्र संशयः॥
तस्मादेनं निहत्याथ गमिष्यामो न चान्यथा।
एवं केनचिदुक्तेन तन्मध्ये कोऽप्यभाषत॥
अहो किं मरणेनास्य बद्ध्वा संस्थाप्यतां क्वचित्।
इत्युक्त्वा जयदेवं तु गृहीत्वा तेऽतिनिर्दयाः॥
हस्तौ पादौ तथैकत्र बद्ध्वाचिक्षिपुरन्यतः।
पुनस्तन्मध्यतः कोऽपि महादुष्टोऽतिनिर्दयः॥
खड्गेन पाणिपादं तद्बद्धं चिच्छेद यत्नतः।
ततस्ते गन्तुमनसश्चौरा जग्मुर्यदृच्छया॥
जयदेवोऽपि प्रारब्धभोगोऽयमित्यमन्यत।
चिन्तयानो जगन्नाथं तत्रारण्ये क्षुधार्दितः॥
अथ तत्रेत्य नृपतिर्मृगयां पर्यटन्वने।
एकाकी हयमारूढो धावन्तं मृगमन्वगात्॥
राजा तत्राजगामाथ जयदेवसमीपगम्।
मृगं दृष्ट्वा न विव्याध जयदेवेन शङ्कितः॥
आरोप्य शिबिकायां तमानिनाय निजं पुरम्।
तत्र पद्मावतीं साध्वीमानाय्य नृपतिस्तदा॥
सेवयामास सर्वैश्च जयदेवं नृपोत्तमः।
ततो राजा प्रतिदिनं जयदेवदिदृक्षया॥
जगाम तद्गृहं तस्य तदातिथ्यं चकार सः।
एवं गतेषु कालेषु कियत्सु च ततः कविः॥
समाजग्मुस्तु ते चौरा मुद्रामात्रविभूषिताः।
साधुवेषधरास्ते तमुपकारं दिदृक्षवः॥
आगच्छन्तो भगवतो गृहमायान्त्यसंशयम्।
पद्मावती समाहूय पाद्याद्यैस्तान्ह्यपूजयत्॥
ततस्तान्भोजयित्वा तमाजुहाव नृपं कविः।
राजा तत्रागतस्तं च जयदेवोऽभ्यभाषत॥
पुरस्कृत्य च तान्दुष्टानदुष्टेनान्तरात्मनां।
राजन्नेते गुरुसमा महान्तः शास्त्रपारगाः॥
एतेभ्यो देहि वित्तानि पात्रमेते न संशयः।
इति श्रुत्वा ततो राजा रत्नानि विविधानि च॥
वस्त्राण्याभरणादीनि ददौ परमभक्तितः।
गृहीत्वा तद्धनं ते वै यथेष्टं गन्तुमुद्यताः॥
तदा प्राह नृपं भूयो जयदेवोऽतिहर्षितः।
अहो मार्गे कियद्दूरं वनमत्यन्तभीषणम्॥
तस्य संतारणार्थाय भृत्यं तेभ्यो नियोजय।
वनाद्बहिरिमान्कृत्वा पुनरायातु मेऽन्तिकम्॥
इति श्रुत्वा ततो राजा पदातीन्पञ्चतान्प्रति।
नियोजयामास तदा ते जग्मुस्तैः सहाद्भुतम्॥
ततो सर्वनगास्ते(?) तु तरुच्छायामुपाश्रिताः।
राजभृत्याः कथाशेषे तानूचुश्च विनीतवत्॥
अहो कवेर्भवन्तः के तद्ब्रूत कृपया मुदा।
युष्मदर्थंतु भक्त्या यद्राजानं प्रार्थयत्कविः॥
इति श्रुत्वा वचस्तस्य राजभृत्यस्य ते खलाः।
ऊचुः प्रशंस्य ते सर्वे शृणु कारणमत्र भो॥
कर्नाटराजनिकटे वयं भिक्षाशिनः स्थिताः।
तत्रायमपि चायातो धनार्थी काव्यकृद्द्विजः॥
तथैकस्य गृहे चौर्य्यंचकारायं द्विजाधमः।
धनिकेन गृहीत्वाथ प्रापितो राजसंनिधौ॥
राजानं प्राह धनिको नायं विप्रकुलोद्भवः।
चौरोऽयं नित्यचौर्य्येण कदापि पतितः प्रभो॥
इदानीं मद्गृहे भृत्यैर्धृत्वा नीतस्तवान्तिके।
इति श्रुत्वा ततो राजा चाण्डालाय समर्पयत्॥
गृहीत्वेमं दुरात्मानं मम राज्याद्बहिष्कुरु।
अन्यराज्ये तु प्रापय्य जहि खड्गेन पापिनम्॥
इत्याज्ञां शिरसा कृत्वा चाण्डालस्तं प्रगृह्य च।
गच्छंश्च प्रार्थितो भूयो द्रव्येणापि वशीकृतः॥
अस्माभिरुक्तो नायं भो वध्यो युष्माभिरेव च।
देशान्तरमवश्यं तु प्रापयित्वाङ्गुलिद्वयम्॥
छित्त्वा यान्तु नृपद्वारं प्रत्ययार्थं प्रदृश्यताम्।
इत्येतदुक्तं स्वीकृत्य नीत्वा तं राज्यतो बहिः॥
अत्र राज्ये वने क्वापि च्छित्त्वा तत्पाणिपादकम्।
राज्ञे प्रदर्शयामासुरिति यातं पुरा स्म भो॥
ततोऽस्मानर्चयामास राज्ञः स्मृत्वात्मरक्षणम्।
इति तेषां कथयतां तुमुलः खेऽभवद्ध्वनिः॥
संपपाताशनिर्घोरं तेषां मूर्द्धसु तत्क्षणात्।
ततस्ते राजभृत्यास्तु दृष्ट्वा तन्महदद्भुतम्॥
क्षणात्तूष्णीं स्थिताः सर्वे संज्ञां संप्राप्य ते पुनः।
तत्र श्रुत्वा नृपं यान्तं जय देवस्य मन्दिरे॥
तत्रैव ते गताः सर्वे गृहीत्वा धनसंचयम्।
राजानं प्रणिपत्योचुस्ते बद्धकरसंपुटाः॥
राजंस्ते साधवोऽरण्ये मृता वज्रावघाततः।
वस्त्रादिकं गृहीत्वा तु वयमेव समागताः॥
इति श्रुत्वा ततो राजा किं जातमिति चाब्रवीत्।
ततस्ते निजप्रश्नादि वज्रपातान्तमब्रुवन्॥
श्रुत्वा तु जयदेवस्तु हाहा कृत्वा मुहुर्मुहुः।
रुरोद पद्भ्यां हस्ताभ्यां छिन्नाभ्यां ताडयन्महीम्।
तत्क्षणाज्जयदेवस्य पाणिपादं तु पूर्ववत्।
प्रादुर्बभूव सर्वेषां पश्यतां नात्र संशयः॥
असतां तादृशानां तु मृत्युं श्रुत्वा तु दुःखितः।
रुरोद च्छद्मना तस्मात्तुतोष पुरुषोत्तमः॥
ददौ हस्तौ च पादौ च किमाश्चर्यमिदं हरेः।
अथ राजातिचिन्तार्तो जयदेवं प्रणम्य च॥
पप्रच्छ किमिदं चित्रं ब्रूहि मत्कृपया द्विज।
उवाच जयदेवस्तं वृत्तान्तं पूर्वतः स्वकम्॥
चौराणां च यथा तत्त्वं ततो राजा मुमोद ह।
तुष्टाव जयदेवं तं धन्योऽसि त्वत्समो न वै॥
दृष्टः श्रुतो वा लोकेऽस्मिन्मित्रशत्रुसमः पुमान्।
धन्योऽहमिति नीचोऽपि त्वत्संसर्गान्न संशयः॥
इत्यादि वचसा राजा स्तुत्वागत्य स्वमन्दिरम्।
आश्चर्यंपुत्रदारेभ्यो मन्त्रिभ्यः प्रोक्तवान्स्वयम्॥
अथ कालेन कियता जयदेवो जरां गतः।
तथापि नित्यकर्मादि न तत्याज कदाचन॥
गङ्गास्नानव्रतं तस्य नित्यसंकल्पितं पुरा।
एकदा कृतशौचादिश्चलितो जाह्नवीतटम्॥
स्नानमार्गे जराक्रान्तो विशश्राम क्वचित्क्वचित्।
गत्वा कथंचिद्गङ्गायां स्नात्वा पीत्वा जलं पुनः॥
आगच्छन्पथि बभ्राम निपपात मुमूर्च्छ च।
ततस्ते पथिकाः सर्वे सिषिचुस्तं च वाससा॥
छायां चक्रुस्ततो राजा स्नात्वा तत्राजगाम ह।
दृष्ट्वा तं जयदेवं तु तामवस्थामुपागतम्॥
आरोप्य शिबिकायां तु प्रापयामास मन्दिरम्।
स्वयमागत्य च पुनः कृताञ्जलिरुवाच तम्॥
अहो जीर्णतरं चेदं शरीरं ते महामते।
मया हि पादचारेण स्नातुमद्यागतं पुनः॥
ददामि शिबिकां तुभ्यं कुरुष्व मम भाषितम्।
इति श्रुत्वा तु राजानं जयदेव उवाच सः॥
ममैव शिबिका राजन्संरक्ष भवनेऽधुना।
पादाभ्यामेव गत्वाहं स्नास्यामीति व्रतं मम॥
यथाशक्तिस्ततो यामि मा कुरुष्वाग्रहं पुनः।
इति श्रुत्वा ततो राजा जगाम भवनं स्वकम्॥
संपूज्य देवतां भुक्त्वा राजकार्यपरोऽभवत्।
अथ तस्यां तु रात्र्यां वै राजमान्यः पुरोहितः॥
राजादृता महान्तो ये तत्र ग्रामे द्विजाः स्थिताः।
वे सर्वे ददृशुः स्वप्ने जयदेवोऽपि चाद्भुतम्॥
शुक्लाम्बरधरा काचिच्छुक्ला मकरवाहना।
पद्महस्तारविन्दाक्षी समागत्याब्रवीदिदम्॥
अहं भागीरथी देवी प्रातरादिनिरन्तरम्।
जयदेवस्य वाप्यां वै निवसिष्याम्यसंशयम्॥
जानीहि प्रत्ययं तत्र पद्ममेतन्मया सह।
आविर्भविष्यति जले द्रष्टव्यं भवता पुनः॥
अयं तु जयदेवो मे भक्तोऽतीव प्रियः सदा।
नैतस्य व्रतभङ्गोऽस्ति वाप्यां स्नानं करोत्वयम्॥
त्वयापि बोधनीयः स नान्यथा मम भाषितम्।
किं चान्यं प्रत्ययं (?) तत्र प्रोच्यते तन्निशामय।
जयदेवेन सार्द्धं तु गलत्कुष्टोऽपि तत्र चेत्।
कुष्टरोगात्प्रमुच्येत स्नातः सप्तदिनादपि॥
एवं स्वप्नं प्रपश्यन्तः प्रबुद्धास्ते समागताः।
एकाग्रेस्वप्नमूचुर्वै कथां कृत्वा परस्परम्॥
नृपोऽमात्यैर्ग्रामवृद्धैर्जयदेवस्य मन्दिरम्।
समागत्याब्रवीत्सर्वं जयदेवाय भूपतिः॥
श्रुत्वा तज्जयदेवस्तु निजस्वप्नं स्मरन्हृदि।
नृपादीन्प्राह धन्या वै भवन्तो नात्र संशयः॥
यैर्दृष्टा जाह्नवी देवी स्वप्ने श्रीरिव रूपिणी।
किमाश्चर्यंभवद्भिर्यद्दृष्टं स्वप्नेऽतिदुर्लभम्॥
जगन्मान्या जगन्माता जगदुद्धारकारिणी।
आगमिष्यति वाप्यां सा सत्यमेतन्न संशयः॥
इत्युक्त्वा नृपतिस्तूष्णीं सामात्यः सपुरोहितः।
सदारस्तत्र स्नानीयं गृहीत्वा समुपापयौ॥
जयदेवोऽपि पूजार्थमर्घादीन्परिकल्प्य च।
जगाम तत्र वाप्यां तु स्नातुं पद्मावतीयुतः॥
तत्र वापीसमीपे तु गत्वा ते तु नृपादयः।
जयदेवं पुरस्कृत्य सर्वे तत्रावतस्थिरे॥
जयदेवोऽथ स्नानीयं मन्त्रं भक्त्या पठञ्जले।
प्रविवेश तदा गङ्गा तत्र प्रादुर्बभूव ह॥
ऊर्मितं तज्जलं जातं दुग्धकुन्देन्दुनिर्मलम्।
तादृशी सिकता जाता यथा गङ्गासरित्स्थिता॥
प्रादुर्बभूव पद्मं तज्जले दृष्ट्वातिहर्षिताः।
राजा च जयदेवश्च तथान्ये ये समागताः॥
तुष्टुवुस्तां जनास्तत्र गङ्गां त्रिपथगामिनीम्।
जयदेवोऽपि हर्षाश्रुपरिक्लिन्नदृगम्बुजः॥
स्नात्वा पाद्यादिभिश्चैव पूजयामास भक्तितः।
तस्मिन्सप्तदिनं तत्र दिव्यदेही बभूव सः॥
एवमन्येऽपि ये तत्र यं यं कृत्वा मनोरथम्।
स्नानपूजादिकं चक्रुरापुस्तेऽखिलमीप्सितम्॥
इत्येतज्जयदेवस्य माहात्म्यं कथितं मया।
यः पठेच्छृणुयादेतत्तस्य भक्तिर्दृढा भवेत्॥
कामी कामानवाप्येत जगन्नाथप्रसादतः।
उत्तमां गतिमाप्नोति दुर्लभामपि योगिनाम्॥
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकचत्वारिंशः सर्गः॥” इति।
श्रीयुतमहामहोपाध्यायश्रीदुर्गाप्रसादपण्डितैः काव्यमालायां प्रकाशितायाः श्रीगोवर्धनाचार्यप्रणीतार्यासप्तशत्याष्टिप्पणे जयदेवकविसमयो युक्तया निर्णीतः। तथाहि—“जयदेवकविश्च6 वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्रीसनातनगोस्वामिनां मतम्। ‘गोवर्धनश्च शरणो जयदेव उमापतिः। कविराजश्च रत्नानि समितौ लक्ष्मणस्य च॥’ इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत्। तस्माद्गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित्। लक्ष्मणसेनश्च स्त्रिस्तसंवत्सस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालयामासेति केचिदितिहासविदः’ इति। अतो जयदेवकविजीवनसमयोऽपि ख्रिस्तसंवत्सरस्यैकादशशतक आसीदिति फलितार्थः।
जयदेवकविकृतो गीतगोविन्दकाव्यादन्यः कोऽपि ग्रन्थो लोके न क्वापि श्रुतो नापि प्रसिद्धः। प्रसन्नराघवनाटककर्ता जयदेवस्तु कौण्डिन्यगोत्रो7")द्भवः सुमित्राकुक्षिजन्मा महादेवतनयः। शृङ्गारमाधवीयचम्पूप्रणेता जयदेवश्च अज्ञातपितृनामादिकः कृष्णदासे8त्युपपदवान्। अत उभावप्येतौ गीतगोविन्दकाव्य प्रणेतुर्जयदेवाद्भिन्नाविति सुविशदमेतत्।
गीतगोविन्दकाव्यस्थं ‘उन्मीलन्मधुगन्धलुब्ध’ इत्यादिपद्यं ख्रिस्तवर्षीयचतुर्दशशतकसमुद्भवेन वङ्गदेशीयेन श्रीविश्वनाथकविराजेन स्वकृतसाहित्यदर्पणाख्यग्रन्थस्य दशमपरिच्छेदे वृत्त्यनुप्रासोदाहरणतयोपन्यस्तं दृश्यते। एतेन तत्कालीना विद्वांसोऽपि गीतगोविन्दकाव्यं सत्काव्यतया स्वीचक्रुरिति ज्ञायते।
अत्र प्रकाशितयोष्टीकयोर्मध्ये प्रथमा तावद्रसिकप्रियाख्या श्रीकुम्भनृपतिविरचिता। अस्या आदर्शपुस्तकद्वयमस्मत्सुहृत्तमैः महामहोपाध्याय- श्रीमद्दुर्गाप्रसादपण्डितैः कतिपयसंवत्सरेभ्यपूर्वंमदभ्यर्थनयैव मन्निकटे प्रेषितमासीत्। लेखकप्रमादप्रचुराभ्यां निरुक्तादर्शपुस्तकाभ्यां यथामति संशोध्य प्रकाशितेयं टीका रसिकमनोविनोदनाय।
एतट्टीकाकर्ता श्रीकुम्भनृपतिस्तु संप्रति लोके ‘मेवाड’ इति नाम्ना प्रसिद्धे मेदपाटदेशे राज्यं चकारेति टीकावतरणिकात एव ज्ञायते। अस्य राज्यसमयस्तु ख्रिस्तसंवत्सरस्य चतुर्दशशतकस्य प्रथमपाद आसीदितीतिहासतोऽवगम्यते।
अत्र प्रकाशिता द्वितीया टीका रसमञ्जर्याख्या तु महामहोपाध्यायश्रीदिनेश्वरात्मजेन महामहोपाध्यायश्रीशंकरमिश्रेण संप्रत्यज्ञातकुलादिविशेषण- स्य श्रीशालिनाथाभिधानस्य पुरुषस्याज्ञया विरचितेति टीकापुष्पिकातो ज्ञायते। एतट्टीकाया आदर्शपुस्तकमेकमस्मत्सुहृद्वरैः श्रीमद्भिः पणशीकरो- पाव्हैर्वासुदेवशास्त्रिभिर्महता प्रयत्नेन संपादितम्। तदनुरोधेन च संशोध्य प्रकाशितेयमपि टीकात्र बालोपयोगितया।
उभयंटीकानुसारेण पाठान्तराण्यपि टिप्पणीषु नियोजितान्यस्मिन्संस्करणे मूलविवेकार्थम्।
एतत्पुस्तकस्य मुद्रितपत्रसंशोधनकर्मणि प्रथमं श्रीमद्भिर्वासुदेवशास्त्रिभिः कियत्सहाय्यं कृतम्। किं तु अग्रे मानुषस्वभावसुलभशरीरास्वास्थ्य- वशात्स्वदेशं प्रति यातेषु तेषु निरुक्तसंशोधनकर्म मय्येवापतत्। अतः प्रमादाद्यत्किञ्चिन्न्यूनमत्र दृश्येत तत्परमदयालुभिः सुधीभिः क्षन्तव्यमिति सविनयं प्रार्थयति
विद्वदनुचरः
तेलङ्गोपाख्यो रामकृष्णसूनुर्मङ्गेशशर्मा।
श्रीः
श्रीजयदेवकविविरचितं
गीतगोविन्दकाव्यम्।
<MISSING_FIG href=”../books_images/U-IMG-1724485334fl.PNG”/>
कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया
महामहोपाध्यायशंकरमिश्रनिर्मितरसमञ्जर्याख्यव्याख्यया च
संवलितम्।
प्रथमः सर्गः १
<MISSING_FIG href="../books_images/U-IMG-1724485443so.PNG"/>
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
रसिकप्रिया.
कल्याणं कमलापतिर्दिशतु मे यःकौस्तुभे राधया
वीक्ष्य स्वं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम्।
आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं
तिर्यग्वक्रितकन्धरं वलितया सासूयमालोकितः॥ १॥
सोऽव्यान्मामरविन्दनाभ उदयद्यन्नाभिपद्मालया
पद्मा पद्मविमीलमीलनविधिप्रावीण्यवन्नेत्रयोः।
योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरा-
वस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत्॥ २॥
दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं
शम्भुर्विश्वजयश्रियः परवशीकारैकसत्कार्मणम्।
यत्रैकाङ्गनवीनविभ्रमरसादेकाङ्गगुप्तेरना-
स्वादात्संभवदद्भुतैकपरमा जागर्ति हेमाद्रिजा॥ ३॥
नत्वा मतङ्गभरतप्रमुखान्सुगीत-
संगीतशास्त्रनिपुणाञ्जयदेववाचाम्।
रसमञ्जरी.
शंकरजगदम्बिकयोरङ्के पङ्केन खेलन्तम्।
लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः॥ १॥
_____________________________________________________________
श्रीकुम्भकर्णनृपतिर्विवृतिं तनोति
गानं निधाय सरसं रसिकप्रियाह्वाम्॥ ४॥
श्रीवैजयायेनसगोत्रवर्यः श्रीबप्पनामा द्विजपुङ्गवोऽभूत्।
हरप्रसादादपसादराज्यप्राज्योपभोगाय नृपोऽभवद्यः॥ ५॥
यदन्वये निर्जिततर्कवादिपदः पदं तत्परमा व्यभाति। (?)
श्रीमदपाटे गुहिलप्रधाने यत्राभवन्भूपतयः प्रसूताः॥ ६॥
तत्र क्रमाद्भव्यपरम्पराढ्ये हम्मीरनामा नृपतिर्बभूव।
चन्द्रादिरत्नप्रकरक्रमेण रत्नाकरे कल्पतरुर्यथासीत्॥ ७॥
दानानि संगतवनीपकमात्रपात्र-
मासाद्य यो ददिरनन्तगुणानि कामम्।
पञ्चाननो विषमधाडिषु यः प्रसिद्ध-
श्चक्रे मृधान्यखिलशत्रुभयावहानि॥ ८॥
तस्मादभूत्सत्तनयः प्रभूतनयः परायः सदयः शतायुः।
श्रीक्षेत्रसिंहः प्रतिपक्षनागसिंहः पराहंकृतिमत्तसिंहः॥ ९॥
ततोऽभवल्लक्ष उदीतलक्षविपक्षपक्षक्षयकारदक्षः।
गयाविमोक्षास्थितधर्मरक्षः स्वक्षः कृतत्र्यक्षसमस्तलक्ष्यः॥ १०॥
तन्नन्दनो निर्जितपूर्वराजचारित्रसंपादितमेदिनीकः।
श्रीमोकलेन्द्रः प्रणतारिमौलिमाणिक्यभाभासितपादपद्मः॥ ११॥
श्रीकुम्भकर्णस्तदनु क्षितीन्द्रः क्षितिं बिभर्तीन्द्रसमानसारः।
शेषादिकेभ्यो धरणे धरित्र्या भरस्य विश्राणितविश्रमः सन्॥ १२॥
स श्रीशभक्तिप्रवणः प्रवीणः संगीतशास्त्रेऽखिलशास्त्रवेत्ता।
श्रीगीतगोविन्दसुगीतकस्य नव्याकृतिं व्याकृतिमातनोति॥ १३॥
जित्वा तु पृथिवीं कृत्वा तत्पतीन्करदायिनः।
राधामाधवसारस्य रसिको रमतेऽधुना॥ १४॥
प्रत्यज्ञायि प्रबन्धो यो जयदेवेन धीमता।
न तस्य विद्यते लक्ष्म सर्वाङ्गैरुपलक्षितम्॥ १५॥
अतः स्वरादिभिः षड्भिरङ्गैः संयोज्य तथ्यताम्।
नीत्वा गीत्वा तदा हित्वा कुटीकासु प्रवर्त्यते॥ १६॥
शृङ्गारे सप्रपञ्चे रस इह रुचिरौचित्ययुक्तौ प्रकृष्टे-
ऽलंकारे नायिकाया गुणगणगणने वर्णने नायकस्य।
गीतौ प्रीतौ च वृत्तौ लयमनु रसिकाः कौतुकं चेत्तदेमा
दोषैर्मुक्ता गुणाढ्याः शृणुत नरपतेः कुम्भकर्णस्य वाचः॥ १७॥
स किं बन्धः श्लाघ्यो व्रजति शिथिलीभावमसकृ-
द्विचारेणाक्षिप्तो ननु भवति टीकापि किमु सा
_____________________________________________________
श्यामतामरसदामसुन्दरः पादपङ्कजनमत्पुरन्दरः।
वर्धमानभवदावपावकः पातु कोऽपि वसुदेवशावकः॥ २॥
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः॥ १॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
न या ग्रन्थग्रन्थिप्रकटनपटुः किं तु तददो
द्वयं युक्तं कर्तुं प्रभवतितरां कुम्भनृपतिः॥ १८॥
शृङ्गारोत्तरसत्काव्यवेदिविद्वन्मुदे मया।
मेघैर्मेदुरमित्यादिपद्यं व्याक्रियतेऽधुना॥ १९॥
गमकालापपेशलतया मध्यमग्रामे षाडवेन मध्यमग्रहेण मध्यमादिरागेण गीयते।
गणपतिमभिमतफलदं वरदं प्रणिपत्य सिद्धिगुणविशदम्।
गीतौ जयदेवकृते धातुं कुम्भो नृपस्तनुते॥ २०॥
अथ कुम्भकर्णनृपतिः स्तुत्वा नत्वा सरस्वतीं देवीम्।
स्वरपाठतेनकानां करोति गुम्फं सुमानार्थम्॥ २१॥
मेघैरिति। जयन्ति सर्वोत्कर्षेण वर्तन्ते। सर्वोत्कृष्टत्वेन नमस्करणीयत्वमुक्तम्। तेन नमस्क्रियाकाव्यमुखं द्योतितम्। आशीर्वा। कास्ता रहःकेलयः सुरतक्रीडाः। ‘रहो गुह्ये रहो रते’ इति। तासां विषयं निर्दिशति। क्व। यमुनाकूले प्रत्यध्वकुञ्जद्भुमम्। अध्वनि कुञ्जद्रुमोऽध्वकुञ्जद्रुमः। अध्वकुञ्जद्रुमं प्रतीत्यध्वकुञ्जद्रुमम्। ननु चात्र नित्यसमासत्वाद्वाक्येन न भवितव्यम्। नैतदस्ति। प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विहिता। तद्योगे यथा स्यादित्येवमर्थः। तस्याश्च वाक्य एव प्रयोगो नात्रेति वाक्यमपि स्यात्। ‘अर्थमर्थं प्रति’ इत्यादि भाष्यकारप्रयोगाच्च। कस्मिन्सति। रह एकान्ते। एकान्तं कयोः। राधामाधवयोः। अत्र राधाया जगद्गुरुपरिग्रहेण सकलमातृत्वेनाभ्यर्हितत्वादल्पाक्षरतरत्वाच्च पूर्वनिपातः। किंलक्षणयोः। इत्थं वक्ष्यमाणप्रकारेण। कृष्णोक्तेरनु नन्दनिदेशत इति। नन्दसमीपाच्चलितयोः। तमेव प्रकारमाह—हे राधे, तत्तस्माद्धेतोरिमं मल्लक्षणं जनं त्वमेव गृहं प्रापय। सामान्यनारीव्यावृत्त्या गृहिणीनिर्वर्त्येसंभोगादिकर्मणि समुदिता भवेत्यर्थः। अत्र गृहशब्देन तात्स्थ्याद्गृहिण्युच्यते। गृहशब्दच्छलेन तामेव पुरस्कृत्य वनविहारदर्शनात्।अत्र प्राप्नोतिरुदयार्थे वर्तते। ‘प्राक्ला भोक्ष्ययुक्तिषु’ इति चूडामणिः (?)। त्वयैवाहं गृहिणीमान् स्यामिति यावत्। एवकारोऽन्ययोगव्यावृत्त्यर्थः। तस्मादिति किम्। यतोऽयं मल्लक्षणो जनो भीरुः। भीरुरिति। एभिर्भावहेतुभिः स्मराहतीः सोढुमस-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
इह खलु प्रारीप्सितसमाप्त्यर्थमेतत्काव्यं प्रतिपाद्य राधामाधवकेलिस्मरणरूपं मङ्गलमादावाचरति — मेघैरिति । राधामाधवयो रहः केलय एकान्तक्रीडा जयन्ति सर्वोत्कर्षेण वर्तन्ते। किंभूतयोः । इत्थमनेन प्रकारेण नन्दनिदेशतो नन्दाज्ञया चलितयोः प्रस्थितयोः। कीदृशो नन्दनिदेश इत्यत आह—त्वमेवेत्यादि। हे राधे, तत्तस्मात्त्वमेवेमं कृष्णं गृहं प्रापय। अत्रैवकारः कोपोक्तौ। बाल्येऽयं यत्त्वयैतावद्दूरमानीतस्तस्मात्त्वमेव गृहमपि प्रापयेत्येवाभिप्रायात्। कुतः। यतोऽयं कृष्णो नक्तं रात्रौ भीरुः शिशुत्वाद्भयशीलः। भयहेत्वन्तरमाह—मेघैरित्यादि। अम्बरमाकाशं मेघैर्मेदुरं स्निग्धम्। तथा च वनभुवः
_________________________________________________________________________
मर्थः। तानेव भावानाह—अम्बरमाकाशं मेघैर्मेदुरं सान्द्रस्निग्धं वर्तते। अपरं च। तमालद्रुमैः श्यामा वनभुवो वर्तन्ते। अपरं च। नक्तं रात्रिकालः। एवं देशकालवस्तुलक्षणा विभावाः सूचिताः। किमुक्तं भवति। अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्यास्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति। राधाद्या आलम्बनविभावाः। भीरुरित्यस्यानुभावः। हर्षावेगशङ्कौत्सुक्यव्रीडाचपलतादयो व्यभिचारिणः। इत्थं कार्यकारणसहकारिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासूयालक्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति। तदुक्तम्—‘कारणान्यथ कार्याणि सहकारीणि यानि तु। रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः9’॥ तथा चाभाणि भरतेन— ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः—’ इति। एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयमबुद्ध्वाकैश्चिद्व्याख्यातं तत्तावन्न विचक्षणपरीक्षाक्षममीक्षामहे। तथाहि। इत्थं नन्दनिदेशतो नन्दादेशाच्चलितयोः केलयो जयन्ति। इत्थमिति किम्। राधा काचन गोपिका। तस्या नन्देन संबोधनम्। हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय त्वय्येव मम विश्वास इति। तदा नायकस्य शिशुत्वेन परवशत्वं, तस्याश्च धात्रीत्वं, नन्दस्य दूतीकर्म, शृङ्गारविभावानां भयानकहेतुत्वं, कविनिरूपितरसस्यान्यथात्वं चापद्यते। तत्र तेषामायुष्मतां क उपालम्भः। यतः—‘निर्देशो भाषणादेशसामीप्यार्थमजानतः। आदेश एव विश्रान्तमतेर्व्याख्या भवेन्न किम्॥ लोके किं कूपमण्डूकः समुद्रमपि तत्समम्। न वेद वेदवादोऽयमिति श्रुतिभिया किल॥’ अथैवं नन्दादेशादनु तथा ग्राम्यतायां शृङ्गारो विनाशितो भवति। यथाह—‘अथ शृङ्गारपरता सुतरां सा तिरस्कृता। यतः कुलवधूवत्सा चमत्काराय संवृता॥ श्वशुरे वदति प्रायः सूनो रतमनु स्नुषाम्। सा नाम ग्राम्यतापीष्टा सापि नेष्टा विपश्चितः। प्रयुक्तं कविना द्वित्वं तदाशयमजानतः(ता)। नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते। नायकत्वं यदाम्नातं हरेः काव्यकृताकृता। तस्यां तस्मिन्विनिक्षिप्तेगतिः का नाम तस्य ते॥ यो गीतगोविन्द इति प्रबन्धो गोविन्दनेतारमनु प्रबद्धः। राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः कथमत्र न स्यात्॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तन्नो भवितुं मुधार्हति गुरोराज्ञा विचार्या न यत्। तत्रेदं तु विचारणीयमिह यो यस्याः करो दीयते रक्षायै स च कामयेत यदि तां तत्किंचिदद्यावधिम्॥ शृङ्गारोपक्रमे चात्र भया-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
काननभूमयस्तमालद्रुमैस्तमालवृक्षैः श्यामाः। कुत्र जयन्तीत्यत आह—प्रत्यध्वेति। यमुनायाः कूले प्रत्यध्वकुञ्जद्रुमम्। अध्वन्यध्वनि कुञ्जेकुञ्जे द्रुमे द्रुम इत्यर्थः। यद्वाऽध्वनः कुञ्जान् द्रुमांल्लक्षीकृत्येत्यर्थः। न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र ‘द्वितीयाटौस्स्वेनः’ इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम्। अन्वादेशविषयत्वाभावात्। किंचित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। किंचित्कार्यं विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। भीरुत्वस्य अनु वाक्यत्वेन विवक्षितत्वात्। ‘अम्बरं व्योम्नि वा-
____________________________________________________________
नकनिमित्तता। मेघाडम्बरतादेस्तन्महद्व्याख्यानकौशलम्॥ अन्यहेतुभिरन्यस्योत्पत्तिश्चेद्दृश्यते तदा। विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम्॥ धात्रीयोगान्न शृङ्गारो न हास्यो रहसीङ्गितैः। न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम्॥ तस्मादत्र विभावानुभावसंचारिभिर्भवेत्। शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः॥ यथा द्रव्याणि नानात्वं भावान्तरविभावतः। व्रजन्ति नानारसतां तथा भावास्त एव हि॥ एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके। विभावाद्यवियुक्तेन भावकेन विभाविताः’॥ तस्मात्काव्याभिप्रायसूचितशृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति। अत्र मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिरा- क्रमणाच्चेतसोऽन्यथावृत्तिः सूचिता। अम्बरमिति स्वच्छन्दविहारभङ्गशङ्कां मा कृथा इति। वनभुव इति बहुवचनेन नानावस्थरतक्षमं प्रदेशबाहुल्यं द्योतितम्। नक्तमिति कालस्य स्वच्छन्दप्रच्छन्नकामुकयोग्यत्वमुक्तम्। माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः। यमुनाकूल इति रतिश्रमनिराससाधनशिशिरसमीरसद्भावार्थम्। अयमिति रत्युद्रेकाकुलतया स्वाङ्गेष्वप्यौदासीन्यद्योतनाय। यथा श्रीहर्षमिश्रस्य10 हंसेन स्वात्मनि निराशीभूतेन—‘गतिस्तयोरेकतरस्तमर्दयन्’ इत्याद्यभाणि। यथा वा श्रीकालिदासस्य ईश्वरेण तयावगणिते आत्मन्यनास्थापरत्वेन–‘अयं जनः प्रष्टुमनास्तपोधन’ इत्याद्यवादि। अत्र वर्णवृत्त्यनुप्रासः शब्दालंकारः। पूर्वार्धे समुच्चयोऽर्थालंकारः। तल्लक्षणं तु— ‘तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत्। समुच्चयोऽसौ’ । यथा—‘दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे’ इत्यादि। उत्तरार्धे चाशीः। तद्योजनं च— सर्वोत्कृष्टास्ताः केलयो विलासकलासु कुतूहलिनः पान्तु। अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टिः —‘सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः’ इति। अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्दरवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति। यथा—‘मग्नानि द्विषतां कुलानि समरे त्वत्खड्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा। मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ॥’ अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि। तन्न। तल्लक्षणाभावात् ॥ लक्षणं तु–‘^(….)काव्यलिङ्गं हेतोर्वाक्यपदार्थता’ इति। नात्र ‘वपुःप्रादुर्भावात्—‛इतिवद्धेतोर्वाक्यार्थता। नापि ‘प्रणयसलीलपरिहासरसाधिगतेः’ इतिवदनेकपदार्थता। नापि ‘भस्मोद्धूलन भद्रमस्तु भवते’ इतिवद्धेतोरेकपदार्थता। तस्य गतिं त एव प्रष्टव्याः। एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृति- मातनोति॥ तर्हि काव्यचारुतानिबन्धनशृङ्गाररसस्वीकारेण रसवदलंकारता इत्यपि
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
ससि’ इत्यमरः। ‘दोषा नक्तं रात्रौ ’ इति च । ’ त्रस्तो भीरुभीरुकभीलुकाः’ इत्यपि । ‘निदेशः शासनं च सः’ इति च । ‘निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे’ इति च । ‘रहश्चोपांशु चालिङ्गे एकान्तार्थेऽव्ययम्’ ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक-
वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्ती।
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
नाशङ्कनीयम्। यतोऽत्र शृङ्गारस्य प्राधान्यादलंकारत्वं येनालंकारता। यदाह—‘प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः’॥ प्रकृते तु शृङ्गारस्य प्राधान्यमपि प्रतिपन्नम्। अत्र वैदर्भीींरीतिः—‘अस्पृष्टा दोषमात्राभिरनल्पगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भीरितिरिष्यते’॥ शृङ्गारावस्थानसूचिका कौशिकीवृत्तिः। संभाविता गीतिः। तस्याश्च लक्षणम्— ‘संभाविता भूरिगुरुर्द्विकलावार्तिके पथि’। मध्यो लयः। प्रसादो गुणः। अनुकूलो नायकः। स्वाधीनपतिका नायिका॥ पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः। अपरार्धे संभोगश्च शृङ्गारः। एवं केलय इति कथाबीजलक्षणं वस्त्वपि निर्दिष्टं भवति॥ एवं च त्रिविधमपि काव्यमुखं महाकविना समुन्मीलितं भवति॥ यदत्र कश्चित्संभोगशृङ्गारलक्षणं वस्त्ववदत् स एव चास्य विवेचनक्षमः॥ शार्दूलविक्रीडितं छन्दः। यथा— ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्॥१॥ कविरिदानीं सकलकलिकलुषहारिहरिचरितानुस्मरणसरसतापादनेन
तद्भक्ताननुगृह्णन्समुचितेष्टदेवताभाव- नाभावितान्तःकरणस्तत्फलभूतं शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रतिजानीते—वाग्देवतेति। जयदेवकविरेतं गीतगोविन्दाभिधं प्रबन्धं करोति। अत्र जगदानन्दकन्दली- कन्दगोविन्दपदारविन्दमकरन्दामोदमधुरतरास्वादमधुकरमधुरचेता भागवतप्रधानः
परमकारुणिको जयदेवकविर्देवदेवे भगवत्याविष्टचित्तः कलिकलुषान्तः- करणत्वेनेतस्ततः परिविक्षिप्तान् सुखेन तदभिमुखीकरणाय कलावतीकेलिकुतूहलिनं हलिसोदरं निरूपयितुं निर्गुणं निरूपयिषुः ‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेष-निरूपणैः॥’ इति दर्शयितुं धर्मार्थकामाः स्वनुष्ठिता मोक्षायेति मोक्षोपायतया धर्मार्थयोरुपरि वर्तमानस्य पुरुषार्थविशेषस्य निदानत्वेन पितॄणामानृण्यहेतुभूतापत्योत्पत्तिद्वारेण नितम्बिनीमूलत्वमुपदर्शयितुं तद्विशिष्टं वासुदेवं विवर्णयिषुरिमं प्रबन्धमुपनिबध्नाति। तथा चोक्तमभियुक्तैः—‘संसारे यदुदेति किञ्चन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते। तल्लक्ष्मीसमुपार्जनं पुलकिनां रक्तस्वरं गायतां तत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः॥’ इति। कामशा-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
लजनमनोहरं शृङ्गाररसगर्भंभगवत्केलिवर्णनरूपं काव्यं क्रियत इत्यभिधेयं प्रतिजानीते—वाग्देवतेति। जयदेवकविरेतं गीतगोविन्दाख्यं प्रबन्धं करोति। कीदृशम्। श्रीलक्ष्मी राधारूपेणावतीर्णा, वासुदेवः कृष्णस्तयो रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं युक्तम्। ननु वासुदेवकेलिवर्णनं बहुषु ग्रन्थेषु वर्तत इति किमनेनेत्यत आह—वाग्देवतेति। वाक्स्वरूपा या देवता सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसंपन्नलोकोत्तरकाव्यरचनारूपेण चित्रितं चित्रमालेख्यं तद्युक्तं कृतं चित्तरूपं सद्म गृहं यस्य सः। अत्र सकल-जनाह्लादकारित्वेन नानावर्णमयत्वेन वाग्देवताचरितस्य चित्रत्वेन निरूपणम्। चित्तं च विचित्रकवितारूपमहाधन- निधानत्वने कृष्णकेलिवर्णनादिना संसारतापसंतप्तकविजनविश्रामस्थानत्वेन सद्मतया निरूपितम्। अपरमपि गृहं विविधपुत्रिकाभिरालेख्यैर्मण्डितं भव-
श्रीवासुदेवरतिकेलिकथासमेत-
मेतं करोति जयदेवकविः प्रबन्धम्॥ २॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
स्त्रेऽपि—‘किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते। न चार्थघ्नं सुखं चेति शिक्षास्तस्मिन्व्यवस्थिताः’॥ इति। परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय। यतः—‘कान्तासंमिततया’ इत्युपदेशप्रामाण्यात्। यथा—एवं श्रीवासुदेवरतिकेलिकथासमेतम्। श्रीश्च वासुदेवश्च तौ। तयो रतिकेलिकथासमेतम्। अत्र स्त्रीनामलाञ्छितं सर्वे श्रीरिति। श्रीशब्देन राधाभिधीयते। अथवा श्रीः शोभा लक्ष्मीर्वा तद्वतो वासुदेवस्य। तदसूचि पूर्वपद्ये माधवशब्देन। रतिकेलीति। सुरतक्रीडाकथनेन वा रत्या शृङ्गारस्थायीभावेनानुरागेण याः केलयः कथाः परस्परसंकथनानि तत्समेतम्। अथ कविरात्मनो विशेषणद्वारेण सरस्वतीचरणकिंकरत्वं अनु च प्रबन्धस्य पद्मावतीदेवतासमाराधनफलत्वमाह—वाग्देवतेति। वाग्देवताचरितेन चित्रितं संजातचित्रं चित्तसद्म यस्य स तथा। सरस्वत्यनुस्मरणपरहृदय इत्यर्थः। अपरं च। लक्ष्मीचरणसेवकाग्रणीः। पद्मं करेऽस्ति यस्याः सा पद्मावती लक्ष्मीः। ‘शरादीनां च’ इति दीर्घः। अथ पद्मावती अष्टाक्षरमन्त्राधिदैवतं तस्याश्चरणचारणेन परिचर्याविशेषेण चक्रवर्ती। कविराज इत्यर्थः। ‘पद्मावती तस्य कलत्रमेके वदन्ति यत्तन्न विचारचारु। यतः सदाचारपरम्परैषा गृह्णन्ति तन्नाम न नाम सन्तः॥ कर्मादि सद्दैवतसंप्रयोगे तत्कीर्तनं किं न विशेषगर्हम्। रहो विहाय क्वचनापि दृष्टं सतां स्वकान्ताप्रणयादिकं तु॥’ अत स्तद्व्याख्योपेक्षा। एवं यद्यप्यस्ति तत्त्वं तथापि महतामिहालौकिकचमत्कारिचरितं किंचिदीक्ष्यते—‘तथाहि सत्यभामाग्रे ननर्त नरकान्तकृत्। देहार्थे च बभारेमामीशो योगिवरोऽपि सन्॥ अथवा भक्तियोगस्य स्वभावः कोऽप्यनीदृशः। यतस्तद्योगयुक्ता हि गणयन्ति न लौकिकम्॥ अथात्मा जायते यस्यां सा जायेति श्रुतीरणात्। तत्स्वरूपपरस्वत्वात्सा भक्तिर्या तया सह॥ तथाहि धर्मकार्याणि न सन्त्यत्र तया विना। सर्वेषु धर्मकार्येषु पत्न्युक्ता दक्षिणाङ्गगा॥ किं तु सा भक्तिरत्रोक्ता योपचारेण वर्जिता। तां विनाऽतोऽनुरज्यन्ति सन्तः स्वेनेष्टदैवते॥ शृङ्गारित्वादथ स्वीयां जायां नर्तयतीह सः। परार्थनिष्ठबुद्धीनां न हि लोकव्यतिक्रमः॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम्। तत्र लोकस्य मुख्यत्वात्तदुक्तिर्नान्यथा भवेत्॥ अतः पद्मावती तस्य कलत्रमिति नान्यथा। परभागवतस्यास्य जयदेवस्य युज्यते॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
तीति ध्वनिः। तथाच यद्यपि कृष्णकेलिवर्णनमन्यत्रापि ग्रन्थे वर्तते तथापि पूर्वैर्वर्णितमपि लोकोत्तरापूर्वसत्काव्यरचनानिबद्धमतिचमत्कारकारि भविष्यति। यथा पुरुषैरभिधीयमान एवार्थोऽन्येषां वाङ्मनोवचनभङ्गिमारूढोऽन्यमेव श्रोत्रचमत्कारं करोतीति नानर्थको मे प्रयास इति भावः। पुनः कीदृशः कविः। पद्मावती नाम जयदेवपत्नीतस्याश्चरणयोर्यच्चारणं संचारणम्। नर्तनमिति यावत्। तेन चक्रवर्ती। नटसार्वभौम इत्यर्थः। एतेन कवेः कृष्णभक्त्याधिक्यं शृङ्गारित्वं च ध्वनितम्। तेन सरसकाव्यकरणेऽधिकारः सूचितः तदुक्तम्—‘शृङ्गारी चेत्कविः काव्यं जातं रसमयं जगत्। स एवाशृङ्गारी यत्र सर्वंविरसतां व्रजेत्॥’ इति । केचित्तु पद्मा इति संज्ञां विधत्ते सा इति। पद्मावती लक्ष्मीस्तस्या-
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम्।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम्॥ ३ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
लोकातीतचरित्रस्य लोकेशस्य पुरः सदा। स्वजायानर्तनं युक्तमिति युक्ततरं वचः॥’ अत्र चित्तसद्मनोरभेदारोपाद्रूपकालंकारः। अनुप्रासश्च॥ ‘उक्ता वसन्ततिलका तभजा जगौ गः’॥ ओजो गुणः। गौडीया रीतिः। भारती वृत्तिः। भूरिगुरुत्वात्संभाविता गीतिः॥ अत्र वसुभिर्दीयत इति तदपत्याभिधानेन प्राप्तपितृधनस्य केलिकरणमुचितमिति अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन वासुदेवपदेन सकलप्रबन्धस्यापि पीयूष-वर्षेणेव समुचितार्थविशेषेण प्रबन्धः स्फुरदिव चमत्कारकारितामापद्यते। तथाचोक्तम्— ‘उचितार्थविशेषेण प्रबन्धार्थः प्रकाशते। गुणप्रभावभव्येन विभवेनेव सज्जनः॥ यथा—‘जातं वंशे भुवनविदिते पुष्करावर्तकानाम्’—इत्यत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दूत्यायोग्यताभिधानाय प्रथितपुष्करावर्तकवंशत्वाद्युपन्यस्तम्॥ २ ॥ कविरिदानीं स्वप्रबन्धस्य प्रयोजनमाविष्करोति—यदीति। हे श्रोतरित्यध्याहार्यम्। तदा तर्हि जयदेवसरस्वतीं प्रबन्धरूपां वाणीं शृणु। किंलक्षणाम्। मधुरकोमलकान्तपदावलीम्। मधुरा कोमला कान्ता पदानामावलिर्यस्यां सा। एतेन माधुर्यौजः प्रसादाद्या दशापि गुणा उक्ता भवन्ति। तदेति किम्। यदि हरिस्मरणे मनः सरसं एकाग्रं सरागं वर्तते। अपरं च। यदि विलासकलासु कुतूहलम्। विलासिनां शृङ्गारिणां कलास्तासु। ‘विलासो गमनादिः स्याच्चेष्टा श्लिष्टाङ्गया कृता’ इति। एतेनास्यप्रबन्धस्य प्रयोजनाभिधेयसंबन्धाधिकारिण उक्ता भवन्ति। विलासकलाशिक्षा अवान्तरप्रयोजनम्। हरिस्मरणं परमं प्रयोजनम्। स्मार्यस्मारकलक्षणःसं-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
श्चरणयोर्विषयभूतयोश्चारणचक्रवर्ती नटसार्वभौमः। नुत्यादिना सदा लक्ष्म्याराधनपर इत्यर्थः। एतेन द्रारिद्र्यराहित्यं सूचितम्। दरिद्रेण हि शृङ्गारादिरसो न ज्ञायत इति भावः। ‘आलेख्याश्चर्ययोश्चित्रम्’ इत्यमरः। ’ गृहं गेहोदवसितं वेश्म सद्म निकेतनम्” इति च। ‘चारणास्तु कुशीलवाः’ इत्यपि॥ २ ॥ संप्रति प्रेक्षावत्प्रवृत्त्यर्थमितर-काव्यापेक्षया स्वकाव्यस्योत्कर्षं कथयन्नेव प्रकृतकाव्यस्याधिकारिप्रयोजनमाह— यदीति। हे सज्जनगण, यदि हरिस्मरणे कृष्णानुचिन्तने मनः सरसं सानुरागम्। यदि विलासकलासु विलासस्त्रीणां हावविशेषस्तत्संबन्धिनीषु कलासु कुतूहलं कौतुकं तदा जयदेवस्य कवेः सरस्वतीं शृणु। कीदृशीम्। मधुरकोमलकान्तपदावलीम्। मधुरत्वं द्विविधं शब्दाश्रितमर्थाश्रितं च। तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं चोक्तिवैचित्र्यं तद्युक्ता मधुरा। तथा कोमलत्वमपि द्विविधम्। तत्र शब्दकोमलत्वं बन्धस्यापरुषत्वम्। अर्थकोमलत्वं परुषेऽप्यर्थेऽपरुषत्वं तदुभययुक्ता कोमला। कान्तत्वमपि द्विविधम्। तत्र शब्दगतमुज्ज्वलबन्धविशेषादिना मनः श्रोत्रप्रीतिपदत्वं, अर्थगतं च दीप्तरसवत्त्वं तदुभययुक्ता कान्ता रमणीया। एतादृशी पदावली पदपरम्परा यत्र तादृशीम्। ‘शृङ्गारादौ रसे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः। विलासलक्षणं दशरूपके—‘तत्कालिको विशेषस्तु विलासोऽङ्गक्रियास्विति’। ‘कलाचन्द्रकलायां स्यात्क्रीडनात्’ इति कोषः। शब्दमाधुर्यादिलक्षणानि तु वामनेन लिखितानि ‘बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः।
वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरुहद्रुतेः।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-
स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः॥४॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
बन्धः। वैष्णवा अधिकारिणः। दीपकमलंकारः। द्रुतविलम्बितं वृत्तम्। ‘द्रुतविलम्बितमाह नभौ भरौ’। पाञ्चाली रीतिः। कौशिकी वृत्तिः॥ अत्र मधुरकोमलकान्तपदावलीत्यादिपदैर्विलासकलासु कुतूहलस्यौचित्योद्भावनेन शृङ्गाररसस्वरूपानुरूपो वाक्यार्थ उन्निद्रो भवति। तथाचोक्तम्— ‘औचित्यमुचितं वाक्यं सन्ततं संमतं सताम्। त्यागोदग्रमिवैश्वर्यंशीलोज्ज्वलमिव श्रुतम्’॥ ३ ॥ इदानीं कविः कविगणनायां परैरपि कविभिरहं परिगणित इति स्वप्रशंसार्थंक्षेपकमपि तत्कृतं श्लोकं स्वप्रबन्धस्य कुर्वन्नाह–वाच इति। तानेव परगणितान्कवीन्स्वस्वगुणेनोपश्लोकितानाह॥ उमापतिधरनामा कविः। वाचो वाणीः पल्लवयति विस्तारयति। साकूतैर्विशेषणैर्गद्यादिप्रबन्धेचतुरः। अपरं च। गिरां वाचां संदर्भशुद्धिं गुम्फवैशद्यं जयदेव एव जानीते। शरणसंज्ञः कविः दुरूहद्रुतेः श्लाघ्यो दुर्विचारपदपदार्थज्ञानात्प्रशस्यः। शृङ्गारप्रधाननिर्दोषार्थनिर्माणैराचार्यगोवर्धनस्पर्धीकोऽपि न। एतेन तस्य सर्वाधिक्यमुक्तं भवति॥ अप-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
अनेनैव पदन्यासाः कामं धारामधुच्युतः। बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम्। एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः॥ औज्ज्वल्यकान्तिरित्याद्दुर्गुणं गुणविपश्चितः। पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः॥’ इति। अर्थमधुरत्वादिलक्षणं तु वामने। तथा च तत्सूत्राणि—‘उक्तिवैचित्र्यं माधुर्यं’ ‘अपारुष्यं सौकुमार्यं’ ‘परुषेऽर्थेऽप्यपारुष्यं। यथा मृते यशः शेष इत्यर्थः’ ‘दीप्तरसत्वं कान्तत्वम्’ इति॥३॥ तद्गुणविशिष्टापि सरस्वती लक्ष्मणसेनमहाराजसभासु महाकवीनामुमापतिधरादीनामस्ति सा किं श्रोत्राणां न सुखावहेत्यत आह—वाच इति। उमापतिधरनामा लक्ष्मणसेनामात्यो वाचः पल्लवयति विस्तारयति। तथा चोमापतिधरस्य वङ्माधुर्यशून्यं शब्दार्थगुणशून्यं सच्चित्राख्यमधमकाव्यं न सहृदयहृदयमाह्लादजनकमिति भावः। शरणनामा कविर्दुरूहस्य काव्यस्य शीघ्ररचने श्लाघ्यः स्तुत्यः। तथाच शरणकवेरपि काव्यं गूढार्थत्वादिदोषयुक्तं प्रसादादिगुणरहितं चेति तदपि न विदग्धमनोविनोदास्पदमिति भावः। तथा शृङ्गारोत्तरेति। शृङ्गाररस एवोत्तरः श्रेष्ठो यत्र, शृङ्गारेणोत्तरं प्रधानं वा यत्सत्प्रमेयमुत्तमं वस्तु तस्य रचनैः कवितायां ग्रन्थनैराचार्यगोवर्धनस्पर्धी गोवर्धनाचार्येण सह स्पर्धावान्कोऽपि न विश्रुतो न ख्यातः। अत्र शृङ्गारेत्यादिना शृङ्गाररसप्रधानकाव्यरचनायामेव तस्य सामर्थ्यम्। रसान्तरवर्णने तु सोऽप्यप्रौढ एवेति तत्काव्ये वर्णनीयार्थस्य शुद्धत्वेऽपि माधुर्यगुणसंपन्नपदरचनायां सोऽप्यशक्तश्चेति ध्वनितम्। इतरविद्याध्ययनादिनाचार्यत्वं सत्काव्यरचनायामप्रयोजकमिति सोपहासमुक्तमाचार्येति। तथा च स न सत्कविर्नापि सत्कविहृदयं तस्येति भावः। धोयीकविक्ष्मापतिः धोयीनामा कविराजः श्रुतिधरः श्रुतिः श्रवणं तन्मात्रादेव ग्रन्थग्राही। तस्योच्चारितमात्रग्राहित्व-
अष्टपदी १
मालवरागेण रूपकतालेन गीयते।
प्रलयपयोधिजले धृतवानसि वेदम्
विहितवहित्रचरित्रमखेदम्।
केशव धृतमीनशरीर जय जगदीश हरे॥ध्रुवम्॥ १॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
रं च। श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः। अपरं च। धोयीनामा कविः कविक्ष्मापतिः। कविराज इत्यर्थः। धोयीति तस्य नाम देशरूढ्याव्युत्पन्नं प्रातिपदिकम्॥ इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः। शार्दूलविक्रीडितं छन्दः। समुच्चयोऽलंकारः॥ ४॥ इदानीं केलिं विवर्णयिषुर्नायकस्य वर्णनेन तद्गुणाकर्णनप्रवीणाञ्श्रोतृृन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं नायकं दशभिरवतारैस्तास्ताः केलीः कुर्वाणमुपश्लोकयति॥ आदितालेन गीयते। लघ्वादितालः। मालवरागेण—प्रलयेति। हे हरे। धृतमीनशरीर। केशव। जगदीश। असीति त्वं। अखेदं विहितवहित्रचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्तसागरवारिणि वेदं धृतवान्। अतो जय॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम्। तेन सर्वदाऽसाधारण्येन जगत्पाहीति योजना। एवं सर्वत्रासीति तिङन्तप्रतिरूपकं पदं युष्मदर्थेऽव्ययम्। अखेदं। अनुच। विहितवहित्रचरित्रमित्युभयमपि साधारणक्रियाविशेषणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नाप्तवानित्यर्थः। इति प्रथमं प-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
मेव न सत्कवितायां कौशल्यमिति भावः। महाहंकारकथनाय राजोपमा। तथाहंकारादेव स्वस्य कविराजपदवीमानीतवान्। सत्कविमध्ये तु तस्य गणनापि नेति भावः। गिरां वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचनाविशेषं जयदेव एव जानीते नान्यः। अतोऽन्यकाव्यश्रवणे तथा न संतोषो यथां जयदेवकविताश्रवणेनेत्येतदेव श्रोतव्यमिति भावः। ‘पल्लवः किसलये षिङ्गे विटपे विस्तरे बले’ इति विश्वः। ‘लघु क्षिप्रमरं द्रुतम्’। ‘उत्तरं प्रतिवाक्ये स्यादूर्ध्वेदिव्ये भ्रमेऽन्यवत्’ इति च॥ ४॥ भक्तजनमनोरथपूरणाय भगवतः सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित-बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भवगतोऽवताराणामसंख्यत्वेऽपि प्रधानतया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति—प्रलयेति। गीतस्यास्य मालवरागः। रूपकतालः। ‘ताललक्षणं रूपके स्यात्’ इति संगीतरत्नाकरः। गीतार्थस्तु हे केशव, जय सर्वोत्कर्षेण वर्तस्व। ननु मे सर्वोत्कर्षेण वर्तने कुतः सामर्थ्यमित्यत आह—जगदीशेति। जगतां चतुर्दशभुवनानामीशः प्रभुः। तथाच चतुर्दशभुवननाथस्य कथं न सामर्थ्यमिति भावः। तत्र हेत्वन्तरमाह —हे हरे। हरति भक्तानां क्लेशमिति हरिस्तादृश। पुनः कीदृश। धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन तादृश। एतद्ध्रुवपदं प्रतिपदमनुवर्तमानम्। तदुक्तम् ‘ध्रुवत्वाच्च ध्रुवो ज्ञेयः’ इति अत्रयद्यपि क्वचित्तनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमीनादिशरीरमयं किमिति ग्रा-
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणकिणचक्रगरिष्ठे।
केशव धृतकच्छपरूप जय जगदीश हरे॥ २॥
वसति दशनशिखरे धरणी तब लग्ना
शशिनि कलङ्ककलेव निमग्ना।
केशव धृतशूकररूप जय जगदीश हरे॥ ३॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
दम्॥ १ ॥ केशव हरे जगदीश इति संबोधनत्रयमादरातिशयद्योतनार्थम्। अत्र केशव धृतमीनशरीर जय जगदीश हर इति पाठः॥ इति ध्रुवपदम्॥ गानवेलायां केशव केशव इति द्विरुक्तिः॥ अत्रार्धमागधी रीतिः॥ अत्र केशवस्य केवलशब्दवाच्यत्वं हरिशब्दसहितकेशवशब्दवाच्यत्वं इति व्याख्यानम्। तत्पाठमात्रमप्यजानतां प्रमादेन क्रियाविशेषणानां कर्मसंज्ञा नपुंसकता च। धृतमीनशरीर इति मत्स्यावतारः। अत्रोपमातिशयोक्ती अलंकारौ। उत्साहस्थायीभावो वीरो रसः। दशस्वपि पदेषु धीरललितो नायकः॥ अथ कूर्मः। केशवेत्यादि ध्रुवपदं पूर्ववत्। धृतकच्छपरूप इति कूर्मावतारकथनं विशेषः॥ तवेति। तवातिविपुलतरे विशाले अतिक्रान्तं विपुलतरं तस्मिंश्च धरणीधरणेन हेतुना जातं यत्किणचक्रं तेन गरिष्ठे गौरवयुक्ते पृष्ठे क्षितिस्तिष्ठति इति भवप्रवाहस्यानादित्वादनेकवारं धरणीधरणेन चिह्नबहुत्वम्। इति द्वितीयपदम्॥ २ ॥ अथ वराहः। वसतीति। धृतसूकररूपेति ध्रुवे विशेषः। धरणी पृथ्वी तव दशनशिखरे दंष्ट्राग्रभागे लग्ना संसक्ता वसति। केव। शशिनि चन्द्रमसि मग्ना
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
ह्यमित्यत आह—प्रलयेति। त्वं प्रलयपयोधिजले प्रलयकालीनाः परस्परमिलिता ये पयोधयः समुद्रास्तेषां जले निमज्जन्तं वेदं मीनशरीरमुपादाय धृतवानसि। कथम्। अखेदं यथा स्यात्तथा विहितं कृतं वहित्रस्य पोतस्य चरित्रं यत्र तत्तथा। अत्र पयोधिपदत्वेनैव जलत्वे प्राप्ते पुनर्जलपदोपादानमन्तर्धानादिरहितत्वेन विश्रामस्थलाभावं सूचयितुम्। तथाच निरालम्बे पयोधौ वेदं धृतवानसीति वेदधारणार्थमेव तच्छरीरपरिग्रह इति भावः। ‘पृथुरोमा झषो मत्स्यो मीनो वैसारणोऽण्डजः ’ ॥ १ ॥ कच्छ्परूपं स्तौति—धृतकच्छपेति। हे केशव धृतकच्छपरूप धृतं कच्छपस्य रूपं येन तादृश, जय। ननु कच्छपरूपं मया कस्य हेतोर्धृतमित्यत आह—क्षितिरिति। तव पृष्ठे क्षितिः पृथ्वी तिष्ठति। तिष्ठततीवर्तमानकालनिर्देशेनाधुनापि तव पृष्ठे क्षितिस्तिष्ठतीति कच्छपावतारप्रयोजनं सर्वलोकप्रसिद्धमेवेति भावः। ननु पञ्चपञ्चाशत्कोटियोजनविस्तृता पृथ्वी मम पृष्ठे कथं स्थितेत्यत आह— अतिविपुलतर इति। अतिशयेन पृथ्व्यपेक्षयाधिकविस्तीर्णे। पुनः कीदृशे। धरणीति। धरण्याः पृथ्व्या धारणेन यत्किणं चक्रं रक्ताकृतिमृतरुधिरमण्डलं तेन गरिष्ठे गौरवयुक्ते। ‘कुर्मेकमठकछपौ’ इत्यमरः। ‘व्रणचिह्ने घुणे किणः’ इति हारावलिः॥२॥ वराहरूपं स्तौति—धृतशूकररूपेति। हे केशव धृतशूकररूप, धृतं शूकरस्य रूपं येन तादृश जय। क्रोडावतारपरिग्रहप्रयोजनमाह**—वसतीति।** तव दशनशिखरे दन्ताग्रे लग्ना संश्लिष्टा धरणिः पृथ्वी वसति। कुत्र केव। शशिनि चन्द्रे निमग्ना कलङ्ककलेव ला-
तव करकमलवरे नखमद्भुशृतङ्गं
दलितहिरण्यकशिपुतनुभृङ्गम्।
केशव धृतनरहरिरूप जय जगदीश हरे॥ ४॥
छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनितजनपावन।
केशव धृतवामनरूप जय जगदीश हरे॥ ५॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
अन्तर्गता कलङ्ककलेव। अनेन दंष्ट्राया महत्त्वं तदपेक्षया धरण्या अतिसूक्ष्मत्वं द्योतितम्। अत्रोपमालंकारः। इति तृतीयम्॥ ३॥ अथ नृसिंहः। धृतनरहरिरूप इति ध्रुवे विशेषः॥ तव करेति। तव करकमलवरे नखमद्भुतशिखररूपं भाति। किंलक्षणम्। हेतुगर्भविशेषणमाह। दलितहिरण्यकशिपुतनुभृङ्गम्। दलितो विदारितो हिरण्यकशिपोस्तनुभृङ्गस्तनुरेव भृङ्गो येन तत्तथा॥ तनुभृङ्ग इत्यत्र रूपकमलंकारः। करकमलवर इत्यत्रापि करस्य कमलत्वेन कमलाग्रत्वारोपः। भृङ्गः किल कमलाग्रमं विदारयति। अत्र कमलाग्रेण भृङ्गविदारणमित्यद्भुतोत्पत्तिः। इति चतुर्थम्॥ ४॥ अथ वामनः। धृतवामनरूप इति ध्रुवे विशेषः॥ छलयसीति। हे अद्भुतवामन। त्वं बलिं दानवं छलयसि वञ्चयसे। अत्र भूतेऽप्यद्यापि बलिसमीपे वर्तमानत्वात्, छलं
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
च्छनलेश इव। अत्र निमग्नापददानेन बालचन्द्रस्य सादृश्यं प्राप्तम्। अतस्तत्रैव कलङ्कलेशस्यानिमग्नात्वाद्बालचन्द्रस्य दीर्घतया सादृश्यमपि संगच्छते। अत एव निमग्नापदवैयर्थ्यमपि। ‘रदना दशना दन्ताः’ इत्यमरः। ‘अग्रं शिखरमित्याहुरद्रिशृङ्गे च तन्मतम्’ इति धरणिः। ‘कला स्यान्मूलके वृद्धौ शिल्पादावंशमात्रके। षोडशांशेऽपि चन्द्रस्य कलनाकालयोः कला’ इति विश्वः॥ ३॥ नृसिंहरूपं स्तौति—धृतनरहरिरूपेति। धृतं नरहरेर्नृसिंहस्य रूपं येन तादृश, जय। नृसिंहावतारस्य प्रयोजनमाह —तवेति। तव करकमलवरे। करो हस्तः स एव कमलवरं कमलश्रेष्ठं तत्र नखं तिष्ठति। कीदृशम्। अद्भुतशृङ्गं अद्भुतमाश्चर्यंशृङ्गमग्रभागो यस्य तत्तादृशम्।अद्भुतत्वमेवाह—दलितेति। दलितो विदारितो हिरण्यकशिपोर्दैत्यस्य देहः स एव भृङ्गो भ्रमरो येन तादृश।अन्यत्र तन्मकरन्दपानादिना भृङ्गाणां तृप्तिर्भवति, अत्र तु नृसिंहकरकमलाग्रभागेन भृङ्ग एव विदारित इत्यद्भुतत्वम्। अथवान्यत्र कमलपत्राणि भृङ्गेण विदार्यन्ते। अत्र तु कमलेनैव भृङ्गो विदारित इत्यद्भुतम्। अत्र नृसिंहकरस्य कमलत्वनिरूपणेन हिरण्यकशिपोर्दैत्यस्य देहस्य भृङ्गत्वनिरूपणेन च बृहतोऽपि हिरण्यकशिपोः कायस्य नृसिंहकराम्बुजापेक्षयाति-सूक्ष्मत्वं ध्वनितम्। ‘पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्’ इत्यमरः। शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुपत्रके। विषाणोत्कर्षयोश्चाग्रे शृङ्गः स्यात्कूर्चशीर्षके’ इति विश्वः। ‘तनुः काये कृशे चाल्पे विरले चाप्यवाच्यवत्’ इति च। ‘द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः’॥ ४॥ इतो वामनरूपं स्तौति—धृतेति। हे केशव धृतवामनरूप, धृतं वामनस्य खर्वस्य रूपं येन तादृश, जय। वामनावतारप्रयोजनमाह—छलयसीति।
क्षत्त्रियरुधिरमये जगदपगतपापं
स्नपयसि पयसि शमितभवतापम्।
केशव धृतभृगुपतिरूप जय जगदीश हरे॥ ६ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
कुर्वन्नसीति वर्तमानसामीप्याद्वा प्रवाहानादित्वेन प्रतिवामनावतारं छलनप्रारम्भापरिसमाप्तत्वाद्वर्तमानापदेशः। वामनस्याकारेण खर्वत्वात्प्रभाप्राग्भारेणाविभाव्य स्वरूपत्वादद्भुतत्वम्॥ क्व विक्रमणे विक्रमत्रयकरणे। अत्र हेतुगर्भविशेषणम्। पदेति। पदनखनीरेण जनितं जनपावनं येन। इदमत्राकूतम्। बलिना वामनस्य चरणार्घे क्रियमाणे सहसा वृद्धिमाप्ते चरणार्थं यदुदकं गृहीतं तन्नखमात्र एव पर्याप्तम्। अतः पदनीरे वक्तव्ये पदनखनीर इत्युक्तिः। अथवा तृतीये पदविन्यासे चरणाग्रएव ब्रह्मलोकमितो झटिति ब्रह्मणा दीयमानार्घजलजनितविष्णुपादाग्रसंभवजलेन पावन इति। अत्राद्भुतो रसः। अतिशयोक्तिरलंकारः। इति पञ्चमम्॥ ५ ॥ अथ परशुरामः। धृतभृगुपतिरूप इति ध्रुवे विशेषः। क्षत्त्रियेति। एतत्पदस्य पुराणकथासापेक्षा व्याख्या। हे राम, जगत्स्नपयसि। क्व। पयसि जले। किंभूते जले। क्षत्त्रियरुधिरमये क्षत्त्रक्षतजविकारे। परशुरामः किल क्षत्त्रक्षयं कृत्वा कुरुक्षेत्रे रामह्रदतीर्थे क्षत्त्रशोणितजलेन पितॄनताप्सीदिति पौराणिकाः। तत्राद्यापि जगत्स्नाति, अपगतपापं च भवति। तदेव कविराह। अत्रापि स्नानं प्रति रामशब्दस्यैव प्रवृत्तिनिमित्तत्वात्स्नपयसीति पदान्तराध्याहारेण भूतार्थालंकारस्थाने लये गतिश्चिन्तनीया॥ यस्त्वं स्नपयसि स जयेति वा। किंभूतं जगत्। अपगतपापमिति हेतुगर्भं विशेषणम्। अत एव शमितभवतापं शमितो भवतापोऽपगतभवतापत्वादाध्यात्मिका- दिदुःखत्रयं येनेति तत्तथा॥ अत्र भाविनि भूतवदु-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
हे अद्भुतवामन आश्चर्यवामन, विक्रमेण पराक्रमेण बलिं दैत्यं छलयसि वञ्चयसि। भगवानुपेन्द्रो वामनरूपं कृत्वा बलेः सकाशात्पदत्रयपरिमितां भूमिं प्रार्थ्य पश्चाद्बृहद्रूपं प्रकटीकृत्य चतुर्दशभुवनं पदत्रयेणापूर्य तदपराधेन तं बध्वा चाधः क्षिप्तवानिति पुराणप्रसिद्धिः। अद्भुतत्वमेवाह—पदनखेति। पदनखसंबन्धि यन्नीरं गङ्गाजलं तेन जनितमुत्पादितं जनानां पावनं पावित्र्यं येन तादृश। अत्रापि प्रवर्धमानस्य भगवतस्त्रिविक्रमस्य चरणाङ्गुष्ठनखाग्रेण विदीर्णे ब्रह्माण्डस्य प्रथमे पार्थिवावरणे तेनैव वर्त्मना तच्चरणारविन्दप्रक्षालनादेवागतंद्वितीयावरणजलं ब्रह्मदत्तार्घेण जलेनैकीभूतं क्रमेण मृत्युलोकमागतं गङ्गेति प्रसिद्धं लोकान्पावयतीति पुराणप्रसिद्धिः। अत एव भूलोकस्थितेनापि वामनेन ब्रह्माण्डजलस्यानयनादाश्चर्यम्। ‘अम्भोऽर्णस्तोयपानीयं नीरक्षीराम्बु शम्बरम्’ इत्यमरः॥ ५ ॥ परशुरामावतारं स्तौति—धृतभृगुपतिरूपेति। हे केशव, धृतं भृगुपतेः परशुरामस्य रूपं येन तादृश, जय। परशुरामावतारप्रयोजनमाह—क्षत्त्रियेति। क्षत्त्रियाणां रुधिराणि प्रचुराणि यत्र तादृशे पयसि कुरुक्षेत्राख्यतीर्थजले जगत्प्राणिजातमपगतपापं यथा स्यादेवं स्नपयसि। यदवधि परशुरामेणैकविंशतिवारं क्षत्त्रियान्हत्वा तद्रुधिरैः कुरुक्षेत्रे पञ्चह्रदान्विधाय पितॄणां तर्पणमकारि तदवधि तन्महातीर्थेजातमिति पुराणप्रसिद्धिः। की-
वितरसि दिक्षु र दिक्पतिकमनीयं
दशमुखमौलिबलिं रमणीयम्।
केशव धृतरामशरीर11 जय जगदीश हरे॥ ७ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
पचारन्यायेन स्नानेन पापहानिः। तथाच दुःखत्रयाभिघातः। उभयमपि क्रियाविशषणं वा। स्नपयसीति ‘ग्लास्ना -’ इति मित्वाद्ध्रस्वत्वम् । रुधिरमये इति विकारे मयट्। स्वभावोक्तिरलंकारः। अत्र बीभत्सो रसः। प्रलयेत्यादिपदषट्केधीरोद्धतो नायकः। तल्लक्षणं सङ्गीतराजे रसरत्नकोशे—‘मात्सर्यदर्पभूयिष्ठश्छद्म्यहंकारवाञ्छली। चण्डो विकत्थनश्चैव धीरोद्धत उदाहृतः॥ तद्गुणाः–दार्ढ्यं, तेजस्विता, दक्षता, धार्मिकत्वं चेति॥ तल्लक्षणं रसरत्नकोशे यथा—‘व्यवसायादचलनं दार्ढ्यंविघ्नशतैरपि। अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि॥ दक्षता क्षिप्रकारित्वं धार्मिकत्वं तु तत्कृतिः’॥१॥ अथ रामः। धृतरामशरीर इति ध्रुवे विशेषः। वितरसीति। हे राम, त्वं वितरसि ददासि। दशमुखमौलिबलिं रावणस्य मौलय एव बलिः। मौलिशब्दः शिरोवाची। अथवा मौलिशब्दः किरीटे वर्तते। ‘चूडाकिरीटकेशाश्च संयता मौलयस्त्रयः’ इत्यभिधानात् तथापि बलेर्मांससाध्यत्वान्मौलिशब्देन तात्स्थ्याच्छिरांसि लक्ष्यन्ते। शिरांसि छेदंछेदं दिक्पतिभ्यो बलिदानं कृतवानित्यर्थः। जगतां रक्षोपलक्षणोपद्रवोपशान्त्यै रक्षःशिरांस्येव बलित्वेनोपहृतवानिति। कुत्र। दिक्षु। किंभूतं बलिम्। दिक्पतिकमनीयमभिलषणीयम्। पुनः किंभूतम्। रावणवधद्वारा लोकाभिरामत्वाद्रमणीयम्। अत्र यावन्तो दिक्पतयस्तावन्त्येव शिरांसीति कमनीयत्वे हेतुः। अत्रापि वितीर्णवानिति वक्तव्ये तत्कालापेक्षया वर्तमानापदेशो वा। यो वितीर्णवान्स त्वं जय इत्यादिकल्पनीयम्। अत्र जातिरलंकारः। वितरसीत्यत्र धीरोदात्तो नायकः। तल्लक्षणं रसरत्नकोशे—‘कृपावानतिगम्भीरो विनीतश्चावि-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
दृशं जगत्। शमितभवतापं शमितो भवस्य संसारस्य तापः संतापो येन तादृशम्। प्राणिनां पापसंबन्धादेव संतापस्तत्तीर्थस्नानेन तु सर्वंपापं विलयं गतमिति ततः संतापना-शोऽप्यभूदिति। अस्य दर्शनमात्रेण तापो गच्छति, जले मज्जतःसंतप्तस्य तापनाश उचित एवेति ध्वनिः। ‘रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः’ इति विश्वः। ‘भवः संसार-संतापश्रेयःसंकरजन्मसु’ इति च॥ ६ ॥ अथ रामावतारं स्तौति—धृतरघुपतिरूपेति। हे केशव, धृतं रघुपते रामचन्द्रस्य रूपं येन तादृश, त्वं जय। श्रीरामावतारपुरुषार्थमाह—वितरसीति। रणे संग्रामे दिक्षु हरित्सु दशमुखमौलिबलिं रावणस्य ये मौलयो मस्तकानि समुकुटानि तान्येव बलिमुपहारं वितरसि ददासि। कीदृशम्। दिक्पतिकमनीयं दिशां ये पतय इन्द्रादयस्तेषां कमनीयमभीष्टम्। तत्र हेतुः रमणीयम्। ‘किरीटमूर्ध्नि चूडासु मौलिः केशे च संयते। करोपहारयोः पुंसि बलिःप्राण्यङ्गजे स्त्रियाम्’ इत्यमरः॥ ७ ॥
वहसि वपुषि विशदे वसनं जलदाभं
हलहतिभीतिमिलितयमुनाभम्।
केशव धृतहलधररूप जय जगदीश हरे॥ ८ ॥
निन्दसि यज्ञविधेरहहश्रुतिजातं
सदयहृदय दर्शितपशुघातम्।
केशव धृतबुद्धशरीर जय जगदीश हरे॥ ९ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
कत्थनः। धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा॥ ७ ॥ अथ बलदेवः। धृतहलधररूप इति ध्रुवे विशेषः। वहसीति। अत्र यद्यपि ‘रामो रामश्च कृष्णश्च इति कृष्णचरितं वर्णनीयं तथापि कृष्णस्यैवैते दशापीति कृष्णस्य नायकत्वेन वर्णनीये बलदेवोऽपि दशसु गणितः। तथा चोक्तम्—‘वनजौ वनजौ खर्वस्त्रिरामी सतपोऽतपः’ इति। हे राम, त्वं नीलं वसनं वहसि धत्से। किंलक्षणम्। जलदाभं मेचकम्। क्व। विशदे शुभ्रे वपुषि। तच्च यमुनयोपमीयते। हलहतिभयेन त्वामेव सेवितुमागता यमुनेव। तदिवाभातीति तदाभम्। धवलमेचकसंगत्या प्रयागत्वे तन्मूर्तेः पापहारित्वं कामदत्वं च व्यञ्जितम्। वहसीत्यत्र धीरललितो नायकः। तलक्षणम्—‘कान्तापरवशो धीरललितो निश्चितो मृदुः’। अथवा शृङ्गारी नायकः। तल्लक्षणं सङ्गीतराजे रसरत्नकोशे—‘शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा।विलासवाक्कायशीलः सुभगः स्थिरवाग्युवा॥ गतिः सधैर्या दृष्टिश्च सविलासस्मितं वचः’॥ ८ ॥ अथ बुद्धावतारः। केशव धृतबुद्धशरीरेति ध्रुवे विशेषः। निन्दसीति। हे सदयहृदय, त्वं यज्ञविधेः श्रुतिजातं क्रतुविधानसंबन्धि वेदवाक्यसमूहं निन्दसि। किंभूतम्। दर्शितपशुघातमुपदिष्टगवाश्वादिमारणम्। अहहेत्यद्भुते। परमेश्वर-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
अथ बलभद्रावतारं स्तौति—धृतहलधरेति। हे केशव, धृतं हलधरस्य बलभद्रस्य रूपं येन तादृश, जय। बलभद्रावतारस्य प्रयोजनमाह—वहसीति। त्वं विशदे शुभ्रं वपुषि देहे जलदाभं सजलमेघस्य दीप्तिमिव नीलं वसनं वस्त्रं वहसि धारयसि। कीदृशम्। हलहतीति। हलेन हतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इवाभा दीप्तिर्यस्य तादृशम्। इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनाया उत्प्रेक्षागमो यया। भीरूणां हि कम्प उचित एवेति भावः। कदाचिद्वारुणीं पीत्वा वृन्दावने गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूतां मत्तप्रलापोऽयमिति मत्वा गर्वेणान्तिकमनागच्छन्तीं कालिन्दीं रोषतो हलाग्रेण कृष्टवानिति पुरणप्रसिद्धिः। हलधरपदेन दुष्टनिग्रहार्थमेव हलं धृतवानित्यवतारप्रयोजनं ध्वनितम्। ‘गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः’ इत्यमरः। ‘शुक्लशुभ्रशुचिश्वेतविशदंश्येतपाण्डराः’ इति च। ‘वस्त्रमाच्छादनं वासश्चैलं वैसनमंशुकम्’ इति। ‘भीतिः साध्वसकम्पयोः’ इति विश्वः॥ ८ ॥ अथ बुद्धावतारं स्तौति—धृतबुद्धेति। धृतं बुद्धस्य शरीरं येन तादृश, जय। ननु बुद्धावतारेण वेदनिन्दकस्य मे कथं स्तुतिः क्रियत इत्यत आह—निन्दसीति। यज्ञविधेः श्रुतिजातं यज्ञस्य
म्लेच्छनिवहनिधने कलयसि करवालं
धूमकेतुमिव किमपि करालम्।
केशव धृतकल्किशरीर जय जगदीश हरे॥ १० ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
स्यैवोपदेष्टृत्वादिज्यत्वात्तत्फलदातृत्वाच्च किमपि प्रयोजनमभिसंधाय तन्निन्दा नाश्चर्यम्॥ ९ ॥ अथ **कल्क्यवतारः।**धृतकल्किशरीरेति ध्रुवे विशेषः। म्लेच्छेति। निन्दसीत्यत्र धीरशान्तो नायकः। तल्लक्षणम्—‘शान्तो विनीतो धीरश्च धीरशान्तो द्विजो वणिक्’॥ हे हरे, म्लेच्छनिवहनिधने म्लेच्छसमूहवधनिमित्तम्। अपि निश्चये। त्वं करवालं खड्गंकलयसि इति वितर्कयामि। किं वितर्के। अन्यथा चक्रादिषु सत्सु कथं खड्गस्यैव धारणम्। किंभूतं करवालम्। भीषणम्। किमिव। धूमकेतुमिव। म्लेच्छानामुत्पातशंसिनं धूमकेतुं ताराविशेषमिव। अथवा। धूमः केतुश्चिह्नंयस्य स तम्। म्लेच्छकुलविनाशपिशुनमिव। उत्पाते हि वह्निर्धूमशिखो भवति। स तु प्रायेण रत्नमयो भवति। खङ्गतेजो हि नीलभाखरं भवति। अत उभयसाम्येनोपमा।
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
विधानबोधकं वेदसमूहं निन्दसि न तु सर्वमित्यर्थः। सोऽपि किमिति निन्द्यत इत्यत आह—दर्शितमिति। अहह कष्टम्। दर्शितो बोधितः पशुनिघातो येन तादृशम्। वेदोऽपि पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति भावः। एतादृशनिन्दायामपि हेतुमाह—सदयहृदयेति। दया कृपा तत्सहितं हृदयं यस्य तादृश। अयं भावः। रागवशान्निरतहिंसाञ्जनान्दृष्ट्वा ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिविधिवाक्यैः स्वर्गादिफलदर्शनपुरस्कारेण गुडजिह्विकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलकं निरपराधि-बहुप्राणिवधसाध्ययागादिकं मुक्तिविरोधित्वाच्च तेषामत्यन्तमहितमिति विचार्य परमपुरुषार्थ-मोक्षसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं ‘न हिंस्यात्सर्वा भूतानि’ इत्यादिना यज्ञादिबोधकवेदस्य निन्दां करोषि नतु सर्वथा वेदनिन्दायामेव तवावतारतात्पर्यम्। अत एव गूढं तवेमं व्यवहारमज्ञात्वा दुरात्मनां वैदिकमार्गे विश्वास इति संमोहनायैव तवैषोऽवतारपरिग्रह इत्यवतारप्रयोजनमुक्तमिति। ‘अहहेत्याद्भुते खेदे’ इति विश्वः। ‘जातजात्योश्च जन्म’ इति विश्वः॥ ९ ॥ अथ कल्किनोऽवतारं स्तौति—धृतकल्किशरीरेति। हे केशव, धृतकल्किशरीर धृतं कल्किनः शरीरं येन तादृश, त्वं जय। ननु पूर्वंमम सदयत्वमुक्तं कल्क्यवतारे तु प्राणिवधनिरतस्य मे विरुद्धमित्यत आह—म्लेच्छनिवहेत्यादि। त्वं म्लेच्छनिवहनिधने म्लेच्छसमूहमारणे करवालं खड्गंकलयसि धारयसि। कीदृशम्। किमपि करालमतिशयेन भयंकरम्। कमिव। धूमकेतुमिव औत्पातिकग्रहविशेषमिव। रणे उदितं तत्करवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम्। अन्यस्मिन्नप्युदिते धूमकेतौ औत्पातिकग्रहविशेषे तं पश्यतां प्राणिनां विपदो भवन्तीति भावः। यद्वा धूमः केतुश्चिह्नंयस्य स धूमकेतुर्वह्निस्तमिव। अत्रास्य खड्गस्य नीलत्वाद्धूमसाम्यम्। मुष्टेश्च सुवर्णमयत्वादग्निसाम्यम्। म्लेच्छनिधनेत्यत्र ‘चर्मणि द्वीपिनं हन्ति’ इतिवन्निमित्तात्कर्मसंयोगे सप्तमी। ‘समूहे निवहव्यूहसंदोहविसरव्रजाः’ इत्यमरः। ‘निधनः स्यात्कलेर्नाशे’ इति विश्वः। ‘खड्गेतु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालःकृपाणवत्’ इत्यमरः। ’ धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः’ इति विश्वः। ‘क-
श्रीजयदेवकवेरिदमुदितमुदारं
शृणु शुभदं सुखदं भवसारम्।
केशव धृतदशविधरूप जय जगदीश हरे॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यान्दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥१२॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
म्लेच्छेत्यत्र धीरोद्धतो नायकः। तल्लक्षणमुक्तं प्राक्॥ १० ॥ इदानीं दशभिरवतारैः कृतविस्तारभेदेन श्रीकृष्णपरत्वेनोपसंहरन्नाह। तथा च वक्ष्यति वेदानुद्धरत इत्यादि। केशव धृतदशविधरूप जय जगदीश हरे इति ध्रुवे विशेषः। श्रीजयदेवकवेरिति। हे धृतदशविधरूप, जयदेवकवेर्मम इदं स्तोत्ररूपं उदितं भणितं शृणु। मामकीनोऽयं मां स्तौतीति बुद्ध्यावधारय। किंभूतम्। उदारम्। झटिति पदार्थार्थकम्। पुनश्च भवसारम्। भवे संसारे सारं साररूपम्। अथवा भवोच्छेदकहेतुमध्ये सारम्। मध्यमपदलोपित्वात्। अत एव सुखदम्। सद्यः परनिर्वृतिहेतुत्वात्। अत एव शुभदम्। शिवेतरक्षतिहेतुत्वात्। अत्र शान्तो रसः। पर्यायोक्तिरलंकारः॥ ११ ॥ इदानीं दशानामप्यवताराणामभेदं निरूप्य तत्तद्रूपं श्रीकृष्णं प्रणमति—वेदानुद्धरत इति। हे हरे, तुभ्यं कृष्णाय नमः। वेदानुद्धरत इत्यादि मीनावतारादिपदव्याख्याने-नैव निगदव्याख्यातम्। वृत्तमिदं शार्दूलविक्रीडितम्। दीपकोऽलंकारः। वेदानुद्धरत इत्यत्र पदेषूक्ता नायकाः। अत्र प्रलयपयोधीत्यादि एकादशस्वपि पदेषु कीर्तिधवलं नाम छन्दः। तल्लक्षणं यथा—‘अयुजि पदे द्वादशैव युजि तु यस्य हि दश वाष्ट मात्राश्चेत्। परमपि पदयुगमेवं तं कीर्तिधवलमिह धीराः प्राहुः॥ ध्रुवपदे तु ‘षता
रालो भीषणोऽन्यवत्’ इति च॥ १० ॥ प्रत्येकावतारपुरस्कारेण भगवतः स्तुतिं कृत्वा संप्रति समुदितदशावतारपुरस्कारेण श्रीकृष्णं स्तौति—धृतदशविधेति। धृतानि दशविधानि रूपाणि येन तादृश, त्वं जय। संप्रति जयदेवकविः संप्रदायागतत्वेन गीते स्वनाम निबध्नन् कृतां भगवतः स्तुतिं कृपयान्यानपि श्रावयितुमाह—श्रीजयदेवेति। इदं जयदेवकवेरुदितं भाषितं शृणु। किंभूतम्। सुखदं श्रोत्रमनःसुखप्रदम्। पुनः कीदृशम्। शुभदं मङ्गलप्रदम्। कृष्णकीर्तनत्वात्। अत एव भवसारं श्रेष्ठमहाधनरूपं वा। अतएवोदारं महत्। ‘विधा विधौ प्रकारे च’ इत्यमरः।’ उक्तं भाषितमुदितम्’ इति च। ‘‘उदारो दातृमहतोः’ इत्यपि। ‘कल्याणं मङ्गलं शुभम्’ इति च॥ ११ ॥ अंशावतारं स्तुत्वा संप्रति दशावतारिणं कृष्णं स्तौति–वेदानिति। कृष्णाय परिपूर्णस्वरूपिणे श्रीकृष्णरूपधारिणे तुभ्यं नमः। ननु मीनाद्यवतारवानीश्वरस्तस्य स्तुतिः कृता चेदिदानीं गोपालं मां किं स्वौषीत्यत आह—दशाकृतिकृते इति। मीनादिदशरूपधारिणे तुभ्यं नमः। तथा च तत्तदवतारवानीश्वरस्त्वमेव न त्वदन्य इत्यर्थः। ननु ईश्वरश्चेदहं तदा-
गुर्जरीरागनिःसारतालाभ्यां गीयते॥ प्र०॥२॥
श्रितकमलाकुचमण्डल धृतकुण्डल ए
कलितललितवनमाल जय जय देव हरे॥ ध्रुवम्॥ १ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
षचौ भ्रमर’ इति भ्रमरो नाम छन्दः॥ ‘वालभुजङ्गमललितं’ इति छन्दश्चूडामणिरपि। ‘छन्दसा कीर्तिपूर्वेण धवलेन विनिर्मितः। पदान्ताभोगरुचिरस्ततः पाठस्वराञ्चितः॥ दशावतारकीर्त्याढ्यधवलोऽयं प्रबन्धराट्। रागोऽत्र मध्यमादिः स्यादादितालो विलम्बितः’॥ ‘लयः स्यान्मागधीरीतिः शृङ्गारोऽत्र रसः स्मृतः। कीर्तनं वासुदेवस्य विनियोगो नृपोत्सवे’॥ १२ ॥ इति दशावतारकीर्तिधवलो नाम प्रथमः प्रबन्धः॥
इदानीं वर्ण्यमानं श्रीकृष्णं स्वरूपनिरूपणद्वारा मङ्गलगीतेन स्तौति। तत्रेदमाद्यं पदम्। ललितरागेण लघ्वादिताल इति आदिताले गीयते॥ ‘गीतमुद्ग्राह्यते येन स उद्ग्राहः प्रकीर्तितः। आभोगस्त्वन्तिम इति ध्रुवत्वाच्च ध्रुवः स्मृतः॥ उद्ग्राहादिधातूनां विश्रामभूमित्वात्। अन्यानि च उद्ग्राहादिप्रतिरूपकाणि पदानीति प्रतिबोद्धव्यम्। एवमन्यास्वष्टपदीषु ज्ञेयम् ॥ श्रितकमलेति। अत्र ‘ए’ काराद्यालापो ज्ञेयः। जय जय देव हरे इत्यत्र ध्रुवः। श्रितं कमलायाः कुचमण्डलं येन स तथा तस्य संबोधनम्। धृते कुण्डले येन स तथा तस्य संबुद्धिः। ए इति एतदन्ते रागपूर्त्यै गानवेलायां प्रतिपदं एतावत्पदम् । जयदेव हरे इति सर्वत्र ध्रुवपदम्। कलिता धृता ल-
नित्यमीनाद्याकृतयः किमिति मया धृता इत्याशङ्क्य अवताराणां प्रयोजनमाह—वेदानुद्धरते इति। वेदानुद्धरते मीनरूपेण वेदोद्धारं कुर्वते । पुनः कीदृशाय। जगद्भुवनं निवहते कच्छपरूपेण धारयते। पुनः भूगोलं भूमण्डलमुद्बिभ्रते वराहरूपेणोर्ध्वं प्रापयते। पुनः कीदृशाय। दैत्यं हिरण्यकशिपुं नरसिंहरूपेण दारयते विदारयते। पुनः किंभूताय। बलिं दैत्यं छलयते वामनरूपेण वञ्चयते। पुनः कीदृशाय। क्षत्त्रक्षयं कुर्वते परशुरामरूपेण दुर्वृत्तक्षत्त्रियाणां नाशं कुर्वते। पुनः कीदृशाय। पौलस्त्यं रावणं श्रीरामचन्द्ररूपेण जयते। पुनः कीदृशाय। हलं कलयते दुष्टनिग्रहायायुधत्वेन बलभद्ररूपेण कलयते। कारुण्यं कृपामातन्वते बुद्धरूपेण विस्तारयते। म्लेच्छान्कल्किरूपेण मूर्च्छयते नाशयते। ‘आकृतिः कथिता रूपे सामान्यवपुषोरपि’ इति विश्वः॥ १२ ॥
पूर्वे केलयो जयन्तीत्युक्तं केलिश्च नायकोत्कर्षंविना न संभवति। तस्मात्समस्तनायकचूडामणेर्भगवतः श्रीकृष्णदेवस्य लोकोत्तरगुणान्वर्णयन्नेव मङ्गलान्तरमंथाचरति—**श्रितेति।**गीतस्यास्य गुर्जरी रागस्तालश्च प्रतिमठः। गीतार्थस्तु हे हरे, जय। जयजयेत्यादरे द्विर्वचनम्। इदं तु ध्रुवपदम्। नायकगुणानाह—श्रितेति। श्रितमाश्रितं कमलायाः कुचमण्डलं येन। लक्ष्मीप्रियत्वेन धनाढ्यत्वमपि सूचितम्। ‘प्लुतमात्रे प्रवृत्तिः स्याद्यत्र ताले निरन्तरम्। प्रतिमठः स विज्ञेयः (?) सा गीयते रसः॥ कीदृश—धृतेति। धृते कुण्डले। कर्णाभरणे येन तादृश। पुनः कीदृश। कलिता धृता लम्बिता वनमाला मनोहरा चरणपर्यन्तावलम्बिनी पुष्पमाला येन तादृश। एतद्विशेषणद्वयेन सेव्यत्वमुक्तम्। ‘कमला
दिनमणिमण्डलमण्डन भवखण्डन ए
मुनिजनमानसहंस जय जय देव हरे॥ २ ॥
कालियविषधरगञ्जन जनरञ्जन ए
यदुकुलनलिनदिनेश जय जय देव हरे॥ ३ ॥
मधुमुरनरकविनाशन गरुडासन ए
सुरकुलकेलिनिदान जय जय देव हरे॥ ४ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
लिता मनोहरा आर्द्रा क्लिन्ना वनमाला पुष्पदाम येन। ‘वनमंभसि कानने’ इति तज्जत्वात्पुष्पाणि कमलानि वा तेषां माला॥ १ ॥ दिनमणीति। अत्रालापो बोद्धव्यः। मुनिजनेति। हे दिनमणिमण्डलमण्डन भानुमण्डलालंकरण। सवितृमण्डलमध्यवर्तित्वात्। तस्य संबुद्धिः। हे भवखण्डन संसारच्छेदक। ‘नन्दिग्रहि–‘इत्यादिना ल्युः। ए इति गानपदम्। मुनिजनेत्यादि ध्रुवः। मुनिजनानां मानसानीव मानसानि तेषु हंस इव हंसः। अथ मुनीनां मानसे ध्येयत्वाद्धंसः परंब्रह्म। मुनिमानस इति वक्तव्ये जनग्रहणं लोकपर्यायः। जनो लोक इति पर्यायेत्यभिधाने यावन्तो मुनय इति॥ २ ॥ कालियेति। अत्रालापः। यदुकुलेति। हे कालियाभिधसर्पदमन। तद्धातित्वाज्जनरञ्जन। बालेन महाबलेन महाविषधरदमनाज्जनानामाह्लादोऽभूत्। हे यदुकुलनलिनदिनेश यदुकुलं नलिनमिव तत्प्रकाशकत्वात्सूर्य इव। अत्र पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुभाव इति ध्रुवः॥ ३ ॥ मधुमुरेति। अत्रालापः। सुरेति। मधुमुरनरकान्विनाशयति यस्तस्य संबोधनम्। हे सुरकुलकेलिनिदान। असुरवधात्तत्कार-
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
श्रीर्हरिप्रिया’ इत्यमरः। ‘कुचौ स्तनौ’ इति च।’ आपादप्रापिता माला वनमालेति संविदुः’ इति विश्वः।’ पत्रपुष्पमयी माला वनमाला प्रकीर्तिता॥ १ ॥ पुनः कीदृश। दिनमणीति। दिनमणेः सूर्यस्य यन्मण्डलं तस्य मण्डन हारभूत। तथाच ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः’ इति पुराणोक्तवचनात्। एतेन स्थिरसखित्वमुक्तम्। पुनः कीदृश। भवं संसारं खण्डयतीति भवखण्डनः प्रलयकर्ता तादृश। अनेन सामर्थ्यरूपो नायकगुण उक्तः। पुनः किंभूत। मुनिजनानां मानसं चित्तं तदेव मानसं सरोवरविशेषस्तत्र हंसो मरालः। अत्र मुनिजनमानसं स्वच्छत्वाद्धंसाश्रयत्वेन च साधारणधर्मेण मानससरोवरत्वेन निरूपितम्। भगवतश्च मुनिजनमानसेषु समुचितस्थितिं मत्वा साधारणधर्मेण हंसत्वेन निरूपणम्। ‘मानसं सरसि स्वान्ते’ इति विश्वः॥ २ ॥ पुनः कीदृश। कालियेति। कालियनाम्नो विषधरस्य गञ्जन तिरस्कारक। अनेनातिसामर्थ्यमुक्तम्। पुनः कीदृश। जनरञ्जनेति। जनान्मधुरवचनादिना रञ्जयतीति जनरञ्जन। अनेन शुभवचनत्वं नायकगुण उक्तः। पुनः कीदृश। यदुकुलेति। यदुकुलमेव नलिनं कमलं तस्य दिनेशः सूर्यः। प्रकाशकत्वात्। एतेन कुलीनत्वं नायकेऽप्युक्तम्। ‘आशीविषो विषधरश्चक्री व्यालः सरीसृपः’ इत्यमरः। ‘वा पुंसि पद्मं नलिनम्’ इति च॥ ३ ॥ पुनः कीदृश। मधुमुरेति। मधु-
अमलकमलदललोचन भवमोचन ए
त्रिभुवनभवननिदान12 जय जय देव हरे॥ ५॥
जनकसुताकृतभूषण जितदूषण ए
समरशमितदशकण्ठ जय जय देव हरे॥ ६ ॥
अभिनवजलधरसुन्दर धृतमन्दर ए
श्रीमुखचन्द्रचकोर जय जय देव हरे॥ ७ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
णत्वम्। इति ध्रुवः॥ अमलेति। आलापः। त्रिभुवनेति। अमलकमलदले इव लोचने यस्य स तथा तस्य संबुद्धिः। अपरं च। हे भवमोचन हे संसारमोचन अथवा हे मेषरूप(?)शिवत्रातः। इति पदम्। हे त्रिभुवनभवननिदान हे त्रिलोकीसमुत्पत्त्यादिकारण। इति ध्रुवः॥५॥ जनकेति। अत्रालापः। समरेति। हे जनकसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन। जितो दूषणो राक्षसो येन इति पदम्। हे संगरक्षुभितदशकण्ठ संहारितो रावणो येन इति ध्रुवः॥ ६ ॥ अभिनवेति। अत्रालापः। हे अभिनवजलधरसुन्दर। हे धृतमन्दर। निगदव्याख्यानम्। इति पदम्। हे श्रीमुखचन्द्रचकोर श्रीमुखं चन्द्र इव तत्र चकोर इव।
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
नाम्नो मुरनाम्नो नरकनाम्नो दैत्यस्य विनाशन विनाशकारिन्। अनेनापि सामर्थ्यमुक्तम्। पुनः कीदृश। सुरकुलकेलीनां देवसमूहक्रीडानां निदान आदिकारण। अनेनापि सामर्थ्यमुक्तम्। ‘सुरो देवः’ इति विश्वः। ‘सजातीये गणे गोत्रे देहेऽपि भणितं कुलम्’ इति च। ‘निदानं त्वादिकारणम्’ इत्यमरः॥ ४॥ पुनः कीदृश। अमलेति। भवमोचन। भवो जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश। मोक्षप्रदेत्यर्थः। अतएव भवखण्डनेत्यनेनापौनरुक्त्यम्। यतस्तत्र भवपदस्य जगत्परतया प्रलयकारित्वमुक्तम्। अत्र तु भवपदस्य जन्मपरतया मोक्षप्रदत्वमुक्तमेव। अनेन मोक्षप्रदत्वेन परमानन्दरूपो नायक गुण उक्तः। पुनः कीदृश। त्रिभुवनेति। त्रिभुवनमेव भवनं गृहं तदेव निधानं वासस्थानं यस्य तादृश। यद्वा त्रिभुवने निधानमिव महाधनमिव। ‘दलं पर्णंछदः पुमान्’ इत्यमरः। ‘भवनं भाववेश्मनोः’ इत्यमरः। ’ निधानं त्वालये निधौ’ इति विश्वः॥ ५॥ पुनः कीदृश। जनकसुतेति। जनकसुताकृतभूषण जनकसुतायाः सीतायाः कृतानि भूषणानि मकरिकापत्रादीनि येन तादृश। अनेन सकलकलाकौशल-रूपस्तारुण्यरूपश्च नायकगुण उक्तः। पुनः कीदृश। जितो दूषणनामा राक्षसो येन स तादृश। यद्वा जितानि स्वस्मिन् तिरस्कृतानि दूषणानि दोषा येन तादृशेत्यर्थः। पुनः कीदृश। समरे सङ्ग्रामे शमितो नाशितो दशकण्ठो रावणो येन सः। अनेन परमाभिमानिनो रावणस्य वधेनाभिमानरूपो नायकगुण उक्तः। रामावतारपौरुषवर्णनेन रामक्षमारूपोऽपि नायकगुणः सूचितः। ‘अस्त्रियां समरानीकरणाः’ इत्यमरः॥ ६॥ पुनः कीदृश।अभिनवेति। अभिनवो नूतनो यो जलधरः सजलमेघस्तद्वत्सुन्दरः। अनेनापि भव्यत्वमुक्तम्। पुनः कीदृश। धृतः क्षीराब्धिमन्थनावसरे मन्दरो
तव चरणे प्रणता वयमिति भावय ए
कुरु कुशलं प्रणतेषु जय जय देव हरे॥ ८ ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए
मङ्गलमुज्ज्वलगीति जय जय देव हरे॥ ९ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
तन्मुखाधरसुधापानकरत्वात्। इति ध्रुवः॥ ७ ॥ तव चरणेति। उपसंहरति। हे उक्तस्वरूप श्रीकृष्ण। वयं तव चरणं प्रणताः तव चरणे कृतनमस्कारा इति भावय चिन्तय। इति पदम्। प्रणतेष्वस्मासु कुशलं कुरु। जयेत्यादि ध्रुवः। ‘भू शुद्धिचिन्तामिश्रणेषु’ चुरादिः परस्मैपदी। तस्य प्रयोगो भावयेति॥८॥ श्रीजयेति। अत्रालापः। मङ्गलेति। हे हरे। इदं मङ्गलं नाम गीतं गीतविशेषो मुदं प्रीतिं कुरुते। कस्य ते तव। इति अप्रयुज्यमानस्वान्यपेक्षया। अथवा। इदं गीतं ते तव मुदं कुरु। कुरुते इत्यर्थः। अथवा। इदं मङ्गलं मङ्गलगीतं जयदेवस्य मुदं कुरुते। अमुदं मुदं ददातीति मुदं वा। ते इति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते। अथवा। इदं गीतं गायतां शृण्वतां मुदं कुरुते। अथ तेगीतं त्वत्संबन्धि गीतं गायतां शृण्वतां च मुदं कुर्वित्याशीः। तस्य श्रीजयदेवस्य कवेः। किंभूतम्। उज्ज्वलम्। रम्यगानाद्यखिलैर्गीतगुणैर्युक्तं भीतशङ्कितादिदोषरहितम्। श्रितकमलाकुचेत्यादि। मङ्गलं नाम छन्दः। तल्लक्षणम्—‘मङ्गलं मङ्गलाख्येन छन्दसा तालसंयुतम्। विलम्बितलयोपेतमुत्सवे गीयते जनैः’। ‘^(…….)कारगणैः प्रतिपदगतैश्चैव। मङ्गलमाहुरिदं सुधियः खलु युक्तम्’। तथा च संगीतराजे—‘छन्दसा मङ्गलाख्येन खननं गद्यपद्ययोः। आलापश्च प्रतिपदं नानागमकपेशलः॥ ध्रुवः प्रतिपदं रागो ललितस्ताल उच्यते। आदितालःस्वरास्त्वेताः प्रबन्धे ते प्रतिष्ठिताः॥ स हरिविजयाढ्यश्च मङ्गलाचार उच्यते’। इति हरिविजयमङ्गलाचारनामाष्टमः प्रबन्धः॥ श्रितेत्यष्टपद्यां धीरललितो नायकः शृङ्गारी वा। लक्षणमुक्तं प्राक्। जयदेवस्य रतेर्भावः॥ ९ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
गिरिविशेषो मन्थानदण्डभूतो येन तादृश। अनेन सामर्थ्यमुक्तम्। पुनः कीदृश। श्रियो लक्ष्म्याः मुखमेव चन्द्र आह्लादकारित्वात्तस्य चकोर। अत्र लक्ष्मीमुखचन्द्राधरसुधापरमोत्कण्ठत्वेन भगवतश्चकोरत्वनिरूपणम्। अनेनापि रतिकौशलमेवोक्तम्। ‘प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः’ इत्यमरः। अनया सप्तपद्या नायकगुण उक्तः। नायकगुणस्तु—“त्यागी कुलीनकुशलोऽथ रतेषु विज्ञः^(……)कवित्वेच गुणी धानाढ्यः। भव्यः^(……)सोभावान्सुभगोऽभिमानी स्त्रीणामतः शुभवचा इह नायकः स्यात्’ इति॥ ७ ॥ कविः सर्वनायकोत्कृष्टं श्रीकृष्णं स्तुत्वा सर्वभक्तानां स्वस्यापि चाभीष्टं प्रार्थयते—तवेति। वयं तव चरणे पतिता इति भावय जानीहि। ननु मया तज्ज्ञातमेव तादृशभवतां किमिष्टं कर्तव्यमित्यत आह—कुरु इति। प्रणतेषु अनङ्गे कामदेवे सति कुशलं विघ्नराहित्यं कुरु॥ ८ ॥ श्रीजयदेवेति। श्रीजयदेवकवेः इदं उदितं। पदमिति शेषः। कुशलं विघ्नराहित्यं उज्ज्वलं गीतं गानं यस्य तादृशं ‘शङ्कितं भीतमुत्सृष्टमव्यक्तमनुनासिकम्। काकस्वरं शिरसिगतं तथा स्थानविवर्जितम्॥
पद्मापयोधरपटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य।
व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः॥१०॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
इदानीं श्रीकृष्णः क्रीडानिदानं वसन्तं दर्शयन्भक्तानभिनन्दति। खड्गादिकेन पूर्णेन वसन्तरागेण— पद्मापयोधरतटीति—अनुपूरयतु पूर्तिं नयतु। किं प्रियं वाञ्छितम्। केषां। वो युष्माकम्। किं कर्तृभूतम्। उरो वक्षः। कस्य। मधुसूदनस्य। किंभूतम्। पद्मायाः पयोधरौ तयोस्तटी भृगू तयोः परिरम्भेण लग्नं सक्तं काश्मीरं कुङ्कुमं तेन मुद्रितं कृतमुद्रम्। एतेन स्तनयोः शैलत्वात्तच्छिखरालिङ्गनेन तयोरतिशयालिङ्गनव्याजेन जाता मुद्रा यस्मिंस्तत्। अत एव व्यक्तानुरागमिव प्रतीयमानानुरागमिव। अनुरागो माऽन्यस्यां स्यादिति लक्ष्म्या मुद्रा दत्ता। अथवा नेदं कुङ्कुमं किं तु हृदिस्थोऽनुरागो बहिर्भूत इव। किंभूतम्! खेलन् अनङ्गस्वेदजातः सुरतश्रमजातः स्वेदाम्बुपूरो यत्र तत्तथा॥ अत्रेदमाकूतम्। अयमालिङ्गति मां परंत्वनुरागो राधायामेवेति मुद्रार्थः। तदसूचि कविना ‘राधामाधवयोः’ इति पूर्वपद्ये। अत्र मुग्धा नायका। कुशलो नायकः। वसन्ततिलका वृत्तम्। आशीर्वर्णानुप्रासालंकारौ उत्प्रेक्षा च। शृङ्गारो रसः। अत्र मधुसूदनस्य परमप्रेमास्पदकान्तोरःस्थलोपगूहनेन व्यक्तानुरागरूप-काश्मीरसंवलितस्य परमप्रीतिभाजनरसाद्यद्भक्तानां प्रियानुपूरणमाशीर्वचनमुक्तं ततः सुतरामौचित्यमा- वहति। यदुक्तम्—‘पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः। उचिताशीर्नृपस्येव भवत्यभ्युदयावहा॥ इति॥ १०॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
विस्वरं विरसं चैव विस्पष्टं विषमाहतम्। व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः’॥ ९॥ श्रीकृष्णनायकसामान्यगुणानुक्त्वा संप्रति नायकगुणान्कथयन्नेवाशीरूपं मङ्गलमाचरति—पद्मेति। मधुसूदनस्य उरो हृदयं वो युष्माकं वाञ्छितमनुपूरयतु संपूर्णं करोतु। कीदृशमुरः। पद्माया लक्ष्म्याः पयोधरतटी स्तनप्रान्तस्तस्य परिरम्भे आलिङ्गने लग्नं यत्काश्मीरं कुङ्कुमं तेन मुद्रितमिव मुद्रा चिह्नविशेषस्तद्युक्तमिव। इदं मधुसूदनहृदयं ममैव नत्वन्यस्येति ख्यापनाय लक्ष्म्या निजस्तनतटे लिप्तकाश्मीरमुद्रेव दत्तेति भावः। पुनः कीदृशम्। खेलति क्रीडां कुर्वति अनङ्गे कामदेवे सति यःखेद आयासस्तेन यत्स्वेदाम्बु प्रस्वेदजलं तस्य पूरः प्रवाहो यत्र तादृशम्। एतेन चिरलिप्तस्य काश्मीरस्य शुष्कत्वेऽपि स्वेदसंबन्धेन तस्य मुद्रायोग्यत्वमिति ध्वनितम्। कीदृशमिव। व्यक्तानुरागमिव। व्यक्तः प्रकटीभूतोऽनुरागः स्नेहो यत्र तादृशमिव। अत्र लक्ष्मीर्विषयानुरागाधिक्याद्दभ्यन्तरे समावेशाभावात्कुङ्कुमरागव्याजेन बहिर्निःसृतेति भावः। मुद्रा संजाता अस्येतितारकादित्वादिच्। ‘लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया’ इत्यमरः। ‘स्त्रीस्तनाब्दौ पयोधरौ’ इति च। ‘परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्’ इति च। ‘काश्मीरं कुङ्कुमं प्रोक्तं टङ्कपुष्करमूलयोः’ इति विश्वः। अनेन सर्वदा लक्ष्म्या दृढानुरागकथनेन दाक्षिण्यरूपो नायकगुण उक्तः। तदुक्तं शृङ्गारतिलके–‘यो गौरवं भयप्रेमसद्भावं पूर्वयोषिति। न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा॥’ इति॥ १०॥
वसन्ते वासन्तीकुसुमकुमारैरवयवै-
र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम्।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
वलद्बाधां13 राधां सरसमिदमूचे सहचरी॥ १ ॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
इदानीं भणितेषु मरिचावचूर्णनासा यूयं(नूनं) कटुरपि स्पृहावहेति योगमाश्रित्य विप्रलम्भपूर्वको हि संभोगो रसिकजनरसनीयतामापद्यत इति कविना आद्यपद्ये कथाबीजत्वेन संभोगस्य यद्विप्रलम्भपूर्वकत्वं सूचितं तदेव प्रकटीकुर्वन्कृष्णोत्कण्ठितां राधां क्वाप्युत्तम्भितमुखेन हरिकथया प्रोत्साहयन्नाह—वसन्ते वासन्तीति। काचन सहचरी इदं वक्ष्यमाणं सरसं रसवत् राधामूचे उक्तवती। किंभूताम्। वसन्ते ऋतौ अमन्दं यथा स्यात्तथा कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधाम्। कन्दर्पहेतुज्वरजनित-चिन्ताकुलत्वेन वलन्ती यातायातं कुर्वाणा बाधा यस्याः। चिन्ताकुले हि चेतसि बाधा यात्यायाति चेति प्रसिद्धम्। किंभूताम्। बहु अनेकधा दूत्यादिना विहितकृष्णानुसरणां तदर्थमेव कान्तारे भ्रमन्तीम्। किंभूताम्। वासन्तीकुसुमवन्माधवीलताकुसुमवत्सुकुमारैरवयवैरुपलक्षिताम्। वसन्ते हि माधवीकुसुममुद्रिक्तं भवति। अतः कामोद्रेकसौकुमार्ये च साम्यम्। अत्र लुप्तोपमालंकारः। दक्षिणो नायकः। तल्लक्षणम्—‘स्नेहलौल्यमवैषम्यवशत- स्तुल्यतामिषन्। नायिकास्वप्यनेकासु दक्षिणः स स्मृतो यथा’॥ विरहोत्कण्ठिता नायिका। ‘उक्ता भवति सा यस्या वासकेनागतः प्रियः। तस्या नागमने हेतुं चिन्तयत्याकुला यथा’॥ तस्याभिलाषो नाम दशांतिशेषो यथा—“व्यवसायो भवेद्यत्र बाढं तत्संगमाशया। संकल्पाकुलचित्तत्वात्साभिलाषः स्मृतो यथा॥’ इति वैदर्भीरीतिः। यथा। दादेर्लोपि समासे वा कर्मधारयं त्रिकाण्डकर्म कर्म कर्त्रार्णमुलीत्यादिना। वासन्तीकुसुमसुकुमारैरित्यत्र लुप्तोपमालंकारःअनुप्रासश्च। एकस्याप्यसकृत्पर इति वृत्त्यनुप्रासः। ‘रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी’। तस्थात्रैव नारिकेति संज्ञान्तरम्। यथा ‘माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते’ इति। बलद्बाधामिति
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋एतावद्भन्थेनाभिधेयप्रयोजनकेलिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि विधाय कविः शृङ्गाररसप्रधानभगवत्केलिवर्णनं चिकीर्षुस्तत्संभोगापेक्षया विप्रलम्भस्योत्कृष्टत्वादादौ विप्रलम्भशृङ्गारवर्णनाय विरहोत्कण्ठितराधायाश्चरितानि वर्णयितुं प्रस्तावयति—वसन्त इति। संभोगापेक्षयात्र विप्रलम्भस्योत्कर्षंप्रति त्वालंकारिकाः—“संभोगविप्रलम्भेन विना पुष्टिमनु(?)। कषायिते हि वस्त्रादौ भूयान्रागोऽभिजायते’ इति। श्लोकार्थस्तु—काचित्सहचरी सखी वसन्ते सरसं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे उवाच। कीदृशीम्। अवयवैरुपलक्षिताम्। कीदृशैरवयवैः। वासन्तीकुसुमसुकुमारैः माधवीलतापुष्पवत्कोमलैः। पुनः कीदृशीम्। कान्तारे महारण्ये भ्रमन्तीम्। तत्र हेतुगर्भविषेषणमाह। बहुविहितेति। बहु वारंवारं विहितं कृतं कृष्णानुसरणमन्वेषणं यया तादृशीम्।अत्र हेतुगर्भविशेषणमाह। कंदर्पेति। कंदर्पज्वरेण जनिता या चिन्ता तत्कृता या आकुलता तया अमन्दमधिकं यथा स्यादेवं चलद्बाधां प्रवर्धमानपीडाम्। अवयवैरित्यत्र
वसन्तरागयतितालाभ्यां गीयते॥ प्र०॥ ३॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे।
विहरतिहरिरिह सर स वसन्ते नृत्यति
युवतिजनेन समं सखि विरहिजनस्य दुरन्ते॥ ध्रुवम्॥ २॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
पाठे ‘वलङ् सृतिसंवरणयोः’ इत्यात्मनेपदी। वलङः परस्मैपदत्वं चिन्त्यम्॥१॥ अन्यत्रापि प्रयोगोऽप्यस्ति तथा। सावेवोत्तरत्रोदा दूष्णवान् पुनर्बलः(?)केवलादिति। अमुमेवार्थंविशदयति॥ झम्पातालेन द्रुतद्वयेन विरामान्तेन। ललितेति। विशेषणसौकर्यार्थं पूर्वं ध्रुवपदं व्याख्यायते–विहरतीति। इह राधासखी सबाधां राधां विनोदार्थं श्रीकृष्णं प्रति प्रेरयति। हे सखि राधे। सर चल। यं हरिं त्वं विलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति। क्व सति। समं सशोभं साकं युवतिजने नृत्यति सति। किंभूते वसन्ते। चलनार्थहेतुगर्भं विशेषणम्। विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्वोभयदर्शनम्। अथवा जनो जीवनं तेन समं दुरन्ते। जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन्। अथवा सरसवसन्त इति पदम्। सरसः साभिलाषः स चासौ वसन्तश्च तस्मिन्। विहरति युवतिजनेन समं नृत्यति च। चकारोऽध्याहार्यः। इति ध्रुवपदम्॥ ललितेति—ललितलबङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति। एतेन शीतो मन्दः सुरभिश्चेति वायोस्त्रैविध्यमुक्तम्। अत्र लवङ्गलतासमीरयोर्नायिकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम्। पुनः किंभूते वसन्ते। मधुकरनिकरेण करम्बितैर्मिश्रितैः कोकिलैः कूजितः शब्दितः कुञ्जएव कुटीरोऽल्पा कुटी यत्र
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
जटाभिस्तापस इतिवत् इत्थंभूतलक्षणे तृतीया। ‘वासन्ती माधवीलता’ इत्यमरः। कान्तारं वर्त्म दुर्गमम्’ इति च। ‘पीडा बाधा व्यथा दुःखम्’ इत्यपि॥२॥ किमूचे इत्यत आह—ललितेति। गीतस्यास्य वसन्तरागः। रूपकतालः। गीतार्थस्तु हे सखि, इह सरसवसन्ते शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति। क्रीडाप्रकर्षमाह। नृत्यतीति। युवतिजनेन सह नृत्यति। कीदृशे वसन्ते। विरहिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेनान्तः समाप्तिर्यस्य स तस्मिन्। अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह क्रीडतः कृष्णस्य त्वं विरहिणी। यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भविष्यतीति भावः। इदं च ध्रुवपदम्। ‘समं सह’ इत्यमरः। वसन्तस्य सरसतामाह—ललितेति। ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुलः मलयसमीरो मलयाचलसंबन्धी वायुर्यत्र तादृशे। पुनः कीदृशे। मधुकरनिकरेण भ्रमरसमूहेन करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुञ्जएव कुटीरोऽल्पकुटी यत्र तादृशे। ‘समीरमारुतमरुज्जगत्प्राणसमीरणाः’ इत्यमरः। ‘मधुव्रतो मधुकरो मधुलिण्मधुपालिनः’ इति च। ‘स्तोमौघनिकरव्रातवारसंघातसंचयाः’ इत्यपि। ‘मिश्रितेऽपि करम्बितम्’ इति विश्वः। ‘अल्पा कुटी कुटीरः स्यात्’ इति च॥ २॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे॥ विह०॥ ३॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले॥ विह०॥४॥
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे।
मिलितशिलीमुखपाटलपटल14कृतस्मरतूणविलासे॥ विह०॥ ५॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
वसन्ते॥ २॥ उन्मदमदनेति। किंभूते वसन्ते। उद्गतौ मदमदनौ हर्षकामौ यत्र। पूर्वंभूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र वसन्ते। उद्रिक्तस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन। अथवा उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते। अलिकुलव्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र। बकुला एव कलापस्तूणीरो वा स्मरशरधिः। ‘कलापो बर्हतूणयोः’॥३॥ मृगमदसौरभेति। मृगमदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां तादृशास्तमाला यत्र वसन्ते। वा तदामोदानि नवदलानि मालन्ते धारयन्तीति। युवजनेति। युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां ते तादृशाः किंशुकनां जालानि कोरका यत्र वसन्ते। अत्र कामस्य नखरायुधत्वं कविसमयेऽप्रसिद्धम्॥४॥ मदनमहीपतीति। अत्रालापः। कामराजस्य हेमदण्डच्छत्रसंनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र। अत्र केवलकनकदण्डस्य छत्रे वाच -
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
वसन्तस्य दुरन्ततामाह—उन्मदेति। उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे। पुनः कीदृशे। अलिकुलैर्भ्रमरसमूहैः संकुलो व्याप्तो यःकुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः केसरसमूहो यत्र तादृशे। यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे। ‘कलापो भूषणे बर्हे तूणीरे संहतावपि’ इत्यमरः॥ ३॥ पुनः कीदृशे। मृगमदेति। मृगमदस्य कस्तूरिकाया यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन्। पुनः कीदृशे। युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तादृशाः ये मनसिजस्य कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां जालं समूहो यत्र तादृशे। यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे। अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सादृश्यं बोध्यम्। ‘मृगनाभिर्मृगमदः कस्तूरी च’ इत्यमरः। ‘रभसो वेगहर्षयोः’ इतिच। ‘कामः पञ्चशरः स्मरः। शंबरारिर्मनसिजः’ इति च। ‘रुचिर्मयूखे शोभायामभिष्वङ्गविलासयोः’ इति विश्वः। ‘पलाशे किंशुकः स्मृतः’ इति च । ‘जालं गवाक्ष आनाये कोरके दृप्तविन्दयोः’ इति विश्वः॥ ४॥ पुनः कीदृशे। मदनेति। मदन एव महीपती राजा तस्य यः कन-
विगलितलज्जितजगदवलोकनतरुण15करुणकृतहासे।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतक16दन्तुरिताशे। विह०॥ ६॥
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ। विह०॥ ७॥
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
कत्वान्महीपतिशब्दसाहचर्यादविरोधः। अथवा हेमदण्डरुचीनि केसराणीति योज्यम्। महीपतेरग्रे कनकवेत्रधारिणो भवन्ति। मिलितेति। संगतशिलीमुखैः पाटलपटलैः पाटलाकुसुमसमूहैः। अथवा पाटलिपटलेति पाठः। कृतः स्मरशरधिविलासोऽनुकारो यत्र। शिलीमुखा भ्रमराः बाणाश्च। ‘अलिबाणैौ शिलीमुखौ’ इत्यभिधानात्॥ ५॥ विगलितेति॥ लज्जैव लज्जितम्। भावे क्तः। गतलज्जजगदवलोकनेन तरुणैः करुणैः कृतः कुसुमविकासव्याजेन हासो यत्र। विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तुरिता विषमीकृता आशा दिशो यत्र। निकृन्तनमिति चिन्त्यम्॥ ६॥ माधविकापरिमलेति। किंभूते वसन्ते। वासन्त्याः परिमलेन गन्धविशेषेण ललिते मनोहरे।
₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋₋
कदण्डः सुवर्णघटितदण्डयुक्तश्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः प्रकाशो यत्र तादृशे। पुनः किंविशिष्टे। मिलिताः शिलीमुखा भ्रमरा एव बाणा यस्मिंस्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य विलासश्चेष्टितं यत्र तादृशे। अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम्। ‘चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः’ इत्यमरः। ‘अलिबाणौ शिलीमुखौ’ इति च। ‘समूहे पटलं स्मृतम्” इति च। ‘तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः’ इति च॥ ५॥ पुनः कीदृशे। विगलितेति। विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्यावलोकितेन दर्शनेन तरुणकरुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे वसन्ते। अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम्। यदाह भरतः—‘श्वेतो हासः प्रकीर्तितः’ इति। यद्वा विगलितलज्जितानां विप्रयोगिजनानामवलोकितैस्तरुणैरर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे। विरहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति भावः। बाला रसानभिज्ञा एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्तरुणेत्युक्तम्। पुनः कीदृशे वसन्ते। विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त आयुधविशेषस्तस्य मुखमग्रभागस्तस्येवाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता आशा दिशो यस्मिंस्तादृशे वसन्ते।लज्जितेत्यत्रावलोकितेत्यत्रापि च नपुंसके भावे क्तः। ‘करुणस्तु रसे वृक्षे कृपायां करुणा मता’ इति विश्वः। ‘प्रासस्तु कुन्तः’ इत्यमरः। ‘निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः’ इति धरणिः। ‘आशा तृष्णादिशोः’ इति विश्वः। कृती छेदने। ह्रस्वान्तसंज्ञकोऽप्यस्तीति केचित्(?)। तस्य युप्रत्ययान्तस्य निकृन्तनमिति। क्वचिच्च ‘केतकिदन्तुरिताशे’ इति पाठः। ‘सपाकादौ स्वीकृतो ह्रस्वः क्वापि ’ इत्यत्र कविवचनस्य लज्जानुरोधार्थत्वात्कृतह्रस्वकेतकीशब्देन समर्थनीयम्॥ ६॥ माधविकेति।
**स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते।
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते। विह०॥ ८॥ **
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम्।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम्। विह०॥ ९॥
__________________________________________________________________________
पुनः किंभूते। नवमालत्या जात्यातिसुगन्धौ। पुनः किंभूते। मुनिमनसामपि मोहनकारिणि। तरुणानां का कथेति। व्यामोहकारके। सुरतार्थंप्रेरके वा। पुनः किंभूते। तरुणानामकारणबन्धौ निसर्गमित्त्रे। वसन्ते हि कामिन्यः स्वयमेव मानं त्यजन्ति॥७॥ स्फुरदतिमुक्तलतेति। किंभूते वसन्ते। स्फुरन्त्यश्चलन्त्योऽतिमुक्तलताया वासन्त्याः परिरम्भणेन मुकुलितः पुष्पितः पुलकितः जातरोमाञ्चश्च चूतः।अत्र पुष्पाणि रोमाञ्चेनोपमीयन्ते। अनेन सात्त्विकभावो दर्शितः। वृन्दावनेति। अत्र पूर्वं ध्रुवपदे इह वने हरिर्विहरतीत्यष्टपद्या एकवाक्यत्वात्। विहाराद्धेयत्वे वृन्दावनशब्दो व्याख्यातः। संप्रति वसन्तविशेषणत्वेन व्याक्रियते। किंभूते वसन्ते। वृन्दावनविपिने। वृन्दमवतीति वृन्दावनं तद्विपिनं यस्मिन्स तथा तस्मिन् परिसरे पर्यन्तभुवि परिगतं यद्यमुनाजलं तेन पूते॥ ८॥ श्रीजयदेवभणितेति। तेनेति मङ्गलवाचकम्। ततः पाटावाद्याक्षरोत्तरः। ततः स्वरः षड्जादिः। इदं श्रीजयदेवभणितं सरसवसन्तसमयवर्णनमुदयति उदयं प्राप्नोति सर्वोत्कृष्टत्वेन वर्तते। सरसं शृङ्गाररसयुक्तं वसन्तकालीनवनवर्णनं यत्र। सर्वोत्कृष्टत्वे हेतुमाह। हरिचरणस्मृतिरेव सारं यत्र। वा हरिचरणस्मृत्या हेतुभूतया सारम्। अथवा हरिचरणयोः स्मृतिश्चिन्तनं सारमुत्कृष्टं यत्र। सरसवसन्तत्वे हेतुमाह। अनुगतो मदनविकारो यत्र येन वा। अनुगतोऽनुस्यूतः॥ अस्यामष्टपद्यां जातिरलंकारः। मध्या ना-
____________________________________________________________
स्पष्ट। सा मुनिमनोमोहनकारिणी। किमन्येषां वक्तव्यमिति भावः। पुनः कीदृशे। तरुणानां विलासियुवजनानामकारणबन्धौ स्वाभाविकमित्रे। ‘विमर्दोत्थे परिमलो गन्धे जनमनोहरे’ इति॥ ७॥ कीदृशे। स्फुरदिति। स्फुरन्ती कम्पमाना शोभमाना वा यातिमुक्तलता तस्याः परिरम्भणेन मुकुलितं मञ्जरयुक्तं तदेव पुलको रोमाश्चः। रोमाञ्चकथनेनाचेतनयोरपि कामचेष्टा कथिता। तेन च वसन्तस्यातिदुरन्तत्वं कथितम्। अतिशयेन मुक्तानामपि परिरम्भणोत्सुकतेति अतिमुक्तपदेन कथितम्। एतावता वसन्तस्य सरसता दुरन्तता चोक्ता। संप्रति क्रीडायाः स्थानविशेषमाह—वृन्दावनेति। वृन्दावननाम्नि विपिने वने हरिर्विहरतीत्यन्वयः। कीदृशे विपिने। परिसरे समीपप्रदेशे परिगतेन सर्वतोगतेन यमुनाजलेन पूते पवित्रे। ‘अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता’ इत्यमरः। मुकुलं करोति तदाचष्टे। णिजन्ताद्भावे क्ते सति मुकुलितमिति बोध्यम्। पश्चान्मुकुलितमेव पुलकः संजातोऽस्येति तारकादित्वादितच्। ‘आम्रश्चूतः’इत्यमरः। ‘पर्यन्तभूः परिसरः’ इत्यपि॥८॥ संप्रति गीतार्थमुपसंहरति। प्रेक्षावत्प्रवृत्त्यर्थंस्वभणिते उत्कर्षमाह—श्रीजयदेवेति। जयदेवकवेरिदं भणितं गीतमुदयति। तत्र हेतुः। हरिचरणयोः स्मृतौ स्मरणे सारं श्रेष्ठं, हरिचरणस्मृतिरेव सारोऽत्र तत् रस-
दरविदलित17वल्लीमल्लिचञ्चत्पराग-
प्रकटितपटवासैर्वासयन्काननानि।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः॥१०॥
___________________________________________________________
यिका। गुर्जरीरागेण ऋषभादिना। दक्षिणो नायकः। तल्लक्षणं प्रागुक्तम्। विप्रलम्भाख्यः शृङ्गारो रसः। लयो नाम छन्दः। तल्लक्षणम्—‘मुनियगणैर्लयमामनन्ति तज्ज्ञाः’ इति। तदुक्तं छन्दश्श्चूडामणौ चलयइति। विप्रलम्भविभावप्रसङ्गाद्वायुं वर्णयति—‘रचितो गद्यपद्याद्यैर्वसन्ते पार्थिवोत्सवे। वसन्तरागे झम्पाख्यताले मध्यलयाञ्चिते॥ गमकालप्तिभूयिष्ठः पूर्णकल्पः प्रकीर्तितः। पूर्तौ पुनस्तेनपाटस्वराञ्चितविराजितः॥ माधवोत्सवकमलाकरनामा प्रबन्धराट्॥९॥ इति माधवोत्सवकमलाकरनामा तृतीयः प्रबन्धः॥ दरेति। इह वने वसन्ते वा गन्धवाहो वायुश्चेतो दहति। अर्थात् विरहिणाम्। किंभूतं चेतः। प्रसरत्। अर्थान्मनोरथं प्रति। पुनः किंभूतम्। असमबाणप्राणवत्कामस्य जीवितमिव। अथवा प्रसरदसमबाणप्राणवद्गन्धवाह इति पदम्। प्रसरता असमबाणेन प्राणवांश्चासौ गन्धवाहः। वा प्रसरन्योऽसावसमबाणश्च तस्य प्राणवज्जीवितमिव। प्राणवतो वा। किंभूतो वायुः। केतकीगन्धसहचरः। किं कुर्वन्। काननानि वासयन्। कैः। ईषद्विकसितमल्लीवल्लीनां जातीलतानां चञ्चन्तो गच्छन्तो ये परागास्तैः प्रकटिता ये पटवासाः वासचूर्णानि तैः॥ ‘ननमयययुतेयं मालिनी भोगिलोकैः’ इति मालिनीछन्दः। अत्र समासोक्तिवर्णानुप्रासोपमालंकाराः। विप्रलम्भाख्यः शृङ्गारो रसः। पाञ्चाली रीतिः। अत्र विरहिहृदयविदारणपटीयसः पवनस्य त्रैविध्येन चेतोदाहकत्वोपन्यासेन युवतिजनस्य आत्मसात्कर्तृत्वेन यत्स्मरप्राणवत्त्वमुदितं तदौचित्यसरणिसागरप्लवनतरणित्वमातनोतितराम्। यदभाणि क्षेमेन्द्रेण—‘तिलकं बिभ्रती सूक्तिर्भात्येकमुचितं पदम्। चन्द्राननेव कस्तूरी कृतं श्यामेव चन्दनम्’॥ १०॥
____________________________________________________________
मयसंबन्धिनो वनस्य वर्णनं यत्र। अत एव अनुगतमदनविकारं अनुगतः संप्राप्तो मदनस्य विकारो यत्र तत् तादृशम्॥९॥ संप्रति वसन्तकालीनवायोरपि विरहिजनसंतापकारित्वमाह—दरेति। इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति। अर्थाद्विरहिणाम्। किं कुर्वन्। काननानि वनानि वासयन्सुरभीकुर्वन्। कैः। दरं ईषद्विगलिता विकासिता मल्लीवल्लिर्मल्लिकालता तस्याः सकाशाच्चश्चन्तः प्रसरन्तो ये परागाः पुष्परेणवस्त एव प्रकटिताः पटवासाः पिष्टातकास्तैः। कीदृग्गन्धवाहः। केतकीगन्धबन्धुः केतकीपुष्पसौरभबन्धुः। पुनः कीदृशः। प्रसरतः प्रतिदिशं संचरतोऽसमबाणस्य कामस्य प्राणवत्प्राणसदृशः। यद्वा प्रसरता असमबाणेन प्राणवान् शक्तिसंपन्नो यो गन्धवाह इत्येकपदम्। ‘ईषदर्थे दरोऽव्याजम्’ इति विश्वः। ‘परागः पुष्परजसि’ इति च। ‘पिष्टातः पटवासकः’ इत्यमरः। ‘काननं वनम्’ इति च। ‘असवः प्राणाः’ इत्यपि। ‘शक्तिः पराक्रमः
**उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलरवै18रुद्गीर्णकर्णज्वराः।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः॥ ११॥ **
अनेकनारीपरिरम्भसंभ्रमस्फुरन्मनोहारिविलासलालसम्।
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम्॥ १॥
_______________________________________________________________
उन्मीलदिति॥ पथिकैरमी वसन्तसमयवासराः कथंकथमिव महता कष्टेन नीयन्ते। कैः कृत्वा। ध्यानावधानक्षणे प्रियानुचिन्तनैकाग्रताप्रस्तावे प्राप्तो यः प्राणसमासमागमरसोऽनुरागस्तस्य प्रकटीभावैः, अथवा रसस्योल्लासो येष्विति पथिकविशेषणम्। किंभूता वासराः। उन्मीलन्योऽसौ मधुगन्धः पुष्परसगन्धस्तत्र लुब्धा ये मधुपा भ्रमरास्तैर्व्याधूता आन्दोलिता ये चूताङ्कुरास्तेषु क्रीडन्तो ये कोकिलास्तेषां काकल्युपलक्षितरवैरुद्गीर्ण उत्पादितः कर्णज्वरो यैस्ते तथा। कोकिलो वसन्तमासे पश्चमं वदतीति स्थितिः। अत्र स चूतधूननेन मधुपे रोषावेशान्निषादकाकलीमुक्तवानित्याशयः। अथवा कथं कथमपीति ध्यानेनेत्यादिना योज्यम्। ततो विरहिणो ह्यनवस्थितचित्तत्वाद्ध्यातुमपि न शक्नुवन्ति। शार्दूलविक्रीडितं छन्दः। अत्र काव्यलिङ्गमलंकारः। गौडीया रीतिः। विप्रलम्भाख्यशृङ्गारो रसः। अत्र कामोद्दीपनविभावैः कोकिलकाकलीकलरवाद्यैः संजनितकर्णज्वरत्वेन प्राणसमसमागमाकाङ्क्षित्वेन विरहासहिष्णुत्वापेक्षया यद्वासराणां कर्मगतं बहुत्वमापादितं तत्सुतरामौचित्यकोटिमाटीकते॥११॥
** अनेकेति।** असौ सखी राधां पुनर्वक्ष्यमाणमाह। किं कुर्वती। आरात्समीपे समक्षं प्रत्यक्षं यथा स्यात्तथा मुरारिं दर्शयन्ती दृष्टिपथमवतारयन्ती। अनेकनारीणां परि-
_________________________________________________________________
प्राणः’ इति च। ‘गन्धवाहानिलाशुगाः’ इति च॥ १०॥ संप्रति वसन्तदिवसानां दुरन्तत्वमाह—उन्मीलदिति। अमी वसन्तसंबन्धिनो वासरा दिवसाः पथिकैः कथंकथमपि महता कष्टेन नीयन्ते समाप्यन्ते। कीदृशा वासराः। उद्गीर्णाः प्रकटिताः कर्णज्वराः श्रोत्रसंतापा येषु तादृशाः। कैः। उन्मीलन्ति प्रकटीभवन्ति यानि मधूनि गन्धाश्च तेषु लुब्धा लोलुपा ये मधुपा भ्रमरास्तैर्व्याधूताः कम्पिता ये चूताङ्कुरा आम्रमुकुलानि तेषु क्रीडतां कोकिलानां काकल्योऽव्यक्तमधुरध्वनयस्ताभिः कृता ये कलकलाः कोलाहलास्तैः। केन प्रकारेण नीयन्त इत्याह—ध्यानेति। ध्याने स्वप्रियचिन्तने यदवधानं तत्परता तेन क्षणं प्राप्तो यः प्राणसमाया जीवतुल्यायाः कान्तायाः समागमरूपो रसस्तस्मादुत्पन्ना ये उल्लासा उत्साहास्तैः। ‘काकली तु कले सूक्ष्मे’ इति ‘कोलाहलः कलकलः’ इति च॥ ११॥
अनेकेति। असौ सखी राधिकां पुनराह पुनरुवाच। किंकुर्वती। आराद्दूरतः समक्षं प्रत्यक्षं मुरारिमुपदर्शयन्ती। कीदृशम्। अनेकासां नारीणां परि-
रामकरीरागयतितालाभ्यां गीयते॥ प्र०४॥
चन्दनचर्चितनीलकलेवरपीतवसनवनमाली।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगः स्मितशाली॥ २॥
हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे॥ध्रुवम्॥
________________________________________________________
रम्भसंभ्रमेण त्वरया स्फुरन्तो मनोहारिणो ये विलासास्तेषु लालसा यस्य। तेषु लालस उत्सुको वा। ‘वदन्ति वंशस्थमिदं ततौ जरौ’ इति। वर्णसाम्यमनुप्रासः। दक्षिणो नायकः॥ १॥ तदेव गीतेन दर्शयति झम्पातालेन —चन्दनचर्चितेति पदानां बाहुल्यात्पूर्वंध्रुवपदं व्याक्रियते—हरिरिति। हे राधे हे विलासिनि, इह मुग्धवधूनिकरे हरिर्विलसति। कीदृशे निकरे। केलिपरे। पुनः कीदृशे। विलासिनि विलासो विद्यते यस्य। एकस्यैवोभयविशेषणत्वम्। इति ध्रुवः। अथ पदानि। चन्दनेत्यादि। चन्दनेन चर्चितमनुलिप्तम्। चर्चिस्तु यद्यप्यध्ययने वर्तते तथापि धातूनामनन्तार्थत्वादनुलेपे वर्तत इति। तथाचोक्तम्—“क्रियावाचि समाख्यातुं प्रसिद्धार्थप्रदर्शिनः। प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः॥’ इति। नीलं कलेवरं शरीरं यस्य, पीतं वसनं यस्य, वनमाला विद्यते यस्य ततः कर्मधारयः। अथवा चन्दनेन चर्चिते नीलकलेवरे पीतवसने वनमालाश्च विद्यन्ते यस्यासौ तथा। चन्दनेन चर्चिते ये नीलकलेवरपीतवसने तयोर्वनं संसक्तिरचनाविशेषस्तं मलते धारयतीति स तथा। केल्या चलन्ती ये मणिकुण्डले ताभ्यां मण्डितं गण्डयुगं यस्य स तथा। तथा स्मितशाली स्मिताढ्यः ईषद्धसितयुक्त इति द्वे पदे। अथवा द्वे पदे कृत्वा कर्मधारयः। अथवा ईदृशं गण्डयुगं च स्मितं च ताभ्यामाढ्यः। अथवा गण्डयुगे स्मिताढ्य इति तन्मात्रेणैवानुमेयं स्मितं
______________________________________________________________
रम्भसंभ्रमेणालिङ्गनादरेण स्फुरन् यो मनोहारिविलासस्तस्य लालसौत्सुक्यं यस्य तादृशम्। ‘संभ्रमास्त्रयमिच्छन्ति भयमुद्वेगमादरम्’। ’ सोऽत्यर्थं लालसा द्वयोः’ इत्यमरः। ‘आराद्दूरसमीपयोः’ इति च॥ १॥ तदेव गीतेन कथयति—चन्दनेति। गीतस्यास्य रामकरी रागः। तालश्च रूपकः। ताललक्षणं प्रागेवोक्तम्। गीतार्थस्तु हे विलासिनि विलासशीले, वृन्दावने मुग्धवधूनिकरे सुन्दरवधूनिचये हरिर्विलसति क्रीडति। कीदृशे वधूनिकरे। केलिपरे क्रीडापरायणे। अत्र मुग्धवधूनिकरे हावभावाद्यनभिज्ञे स्त्रीचये केलिपरे सामान्यक्रीडापरायणे विलसतीति ध्वनेरर्थः। तथा च हावाद्यभिज्ञां त्वां विना सकलकलाभिज्ञस्म हरेर्विलासो न शोभत इति भावः। ‘मुग्धः सुन्दरमूर्खयोः’ इति विश्वः। विलासो हावविशेषस्तलक्षणं तु भरते—‘स्थाने यानासने वापि नेत्रवक्रादिकर्मणा। उत्पाद्यते विशेषो यः स विलासः प्रकीर्तितः॥ इति। एतच्च ध्रुवपदम्। कीदृशो हरिः। चन्दनेन चर्चितो नीलकलेवरे श्यामशरीरे पीतवसनं वस्त्रं वनमाला च यस्य तादृशः। पुनः कीदृशः। केलिषु चलती कम्पमाने मणियुक्ते कुण्डले ताभ्यां मण्डितमलंकृतं गण्डयुगं कपोलयुग्मं यस्य तादृशः। पुनः कीदृशो हरिः। स्मितेन ईषद्धास्येन शाली शोभमानः। ‘अथ कलेवरम्। गात्रं वपुः संहननम्’ इत्यमरः। ‘गण्डे कपोलौं’ इत्यपि। स्मितलक्षणं तु भरते—‘ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः। अलक्षितद्विजं
पीनपयोधरभारभरेण हरिं परिरभ्य सरागम्।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम्॥हरि०॥३॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम्।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम्॥हरि०॥४॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले।
कापि19 चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले॥हरि०॥५॥
__________________________________________________________
नास्यप्रसारणेन॥२॥अथ परस्परं गोपिकानां केलिचेष्टितमाह—पीनपयोधरेति। काचिद्गोपवधूर्हरिं गायन्तं हरिमनुगायति वंशकृत्येन गायति। किं कृत्वा। सरागं साभिलाषं तमेव हरिं परिरभ्य। किंभूता। पीनपयोधरभारभरेणोपलक्षिता। अथवा विपुलस्तनभारातिशयेन परिरभ्य। किंभूतं हरिम्। सरागं तदालिङ्गनसाभिलाषम्। पुनः किंभूतम्। उदञ्चित आ तारावध्यूर्ध्वं नीतः पञ्चमरागो येन वा उदञ्चितः पञ्चमस्वरोपलक्षितो रागो येन, वा उदञ्चितः पञ्चमरागोऽनुरागो येन। अथवा उदञ्चितपञ्चमरागं यथा स्यात्तथेति गानक्रियाविशेषणम्। शृङ्गारे हि पश्चमभूयिष्ठस्य गानस्य प्राधान्यात्, अथवा उदञ्चितहृद्यरागं यथास्यात्तथा॥३॥कापि विलासेति। कापि मुग्धवधूरधिकं सातिशयं यथा स्यात्तथा मधुसूदनवदनसरोजं ध्यायति। अधिकं सुखमधिकृत्य वा। किंभूतम्। विलासेन चेष्टाविशेषेण विलोले चञ्चले ये विलोचने तयोः खेलनेनावर्तनेन जनित उत्पादितो मनोजो येन। अत्र सरोजे योजितो मधुसूदनशब्द औचितीमावहति। सूद स्तुतिहत्योरिति मुखसरोजान्मधु स्रवतीत्यतिशयाधानम्॥४॥कापि कपोलतलेति। कापि नितम्बवती दयितं श्रीकृष्णं कपो-
____________________________________________________________
धीर उत्तमानां स्मितं भवेत्॥ ‘इति॥२॥ गोपीनां सौन्दर्यविलासाद्यनभिज्ञत्वं च कथयन्नेव केलिमाह—पीनेति। काचिद्गोपवधूः पीनपयोधरभारभरेण पीनस्तनगौरवातिशयेन सरागं सानुरागं यश्रास्यादेवं हरिं परिरभ्यालिङ्ग्य उदञ्चित ऊर्ध्वमञ्चितः पञ्चमाख्यो रागो यत्र एवं यथा स्यात्तथानुगायति अनुपश्चाद्धरेर्गानानन्तरं गायति। अत्र गोप्याः सौन्दर्यं पीनपयोधरेत्यादिना प्रतिपादितम्। अवैदग्ध्यं तु कृष्णस्य परिरम्भोद्यमं विनैव स्वयं प्रथमं परिरम्भणात्। अन्योन्यकृते हि परिरम्भे शृङ्गाररसः पुष्टो भवति। तदुक्तं दशरूपके—‘रम्यदेशकलाकालवेषभोगादिसेवनैः। प्रमोदात्मरतिः सैव यूनोरन्योन्यसक्तयोः प्रकृष्यमाणः शृङ्गारो मधुराङ्गावचेष्टितैः॥’ इति। शृङ्गारे पञ्चमः स्वरो बाहुल्येन भवति स एवात्र कथितः। यदाह भरतः–‘मध्यमं पञ्चभूयिष्ठं हास्य शृङ्गारयोर्भवेत्’ इति॥३॥कापीति। कापि मुग्धवधूः मधुसूदनवदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति। कीदृशम्। विलासेन विलोलयोश्चञ्चलयोर्विलोचनयोर्नेत्रयोश्चलनं तेन जनित उत्पादितो मनोजःकामो येन अर्थात्तस्यामेव तादृशम्। अत्र प्रत्यक्षस्यापि मधुसूदनस्य ध्यानादवैदग्ध्यं तस्या अवगम्यते॥४॥कापीति। कापि नितम्बवती गोपी दयितं कृष्णं
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले॥ हरि०॥ ६॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे।
रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे॥ हरि०॥ ७॥
_____________________________________________________
लतले गण्डप्रदेशे चारु मनोहरं यथा स्यात्तथा चुचुम्ब। किंभूता। सखीषु चातुर्यात्किमपि कार्यान्तरं लपितुं श्रुतिमूले लग्ना। किंभूते श्रुतिमूले। अनुकूलेऽभिमुखमानीते। किंभूते कपोलतले। रोमाञ्चोपलक्षिते। हरेः सात्त्विकभावेन रोमाञ्चोद्गमः। अत्रानुगन्तुमशक्ता कार्यान्तरकथनव्याजेन हरिं स्थापयतीति नितम्बवतीत्युचितम्। सखीषु दयितचुम्बनं लज्जाकरमिति कार्यान्तरव्याजौचिती। अत्र प्रौढा नायिका। अनुकूलो नायकः॥ ५॥ केलिकलेति॥ काचिद्गोपी केलिकलाकुतुकेन क्रीडाविज्ञानकौतुकेनामुं कृष्णं करेण दुकूले विचकर्ष। किंभूतम्। यमुनावनकूले मञ्जुलमनोहरवञ्जुलबकुलकुञ्जगतम्, वेतसकुञ्जगतं वा। यमुनाया विपिनोपलक्षिततीर इत्यर्थः। अत्र चकारोऽनुक्तसमुच्चयार्थः। तेन परिहासाद्युच्चीयते। ‘यमुनाजलतीरे’ इति पाठः। अत्र यमुनातीर इति वक्तव्ये जलग्रहणं शैत्यपावनत्वसंनिकर्षादिद्योतनार्थम्॥ ६॥करतलेति॥ हरिणा कृष्णेन कापि युवतिः प्रशशंसे स्तुता। किंभूता। रासरसे गोपक्रीडानुरागे सहनृत्यपरा कृष्णेन सह तुल्यकालं नृत्यन्ती। किंभूते रासरसे। करतलयोस्तालस्तालिका तया तरला या वलयावलिर्हस्तकटकश्रेणिस्तया कलितोऽनुगतः कलस्वनो वंशो यत्र यस्मिं -
_____________________________________________________________
कपोलतले चारु मनोहरं यथा तथा चुचुम्ब चुम्बनं कृतवती। कीदृशी। किमपि कार्यं लपितुं मन्त्रयितुं श्रुतिमूले मिलिता संलग्ना। कीदृशे। पुलकै रोमाश्चैरनुकूले प्रियाविलाससूचके। औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन तया तदारब्धमिति भावः। अत्र प्रथमतो मुखस्पर्शनेन कृष्णकपोले रोमाञ्चमुत्पाद्य चुम्बने तस्यात्राधीरत्वं ध्वनितम् ॥५॥ केलिकलेति। काचिद्गोपी अमुं कृष्णं केलिकलाकुतुकेन दुकूले पट्टवस्त्रविषये विचकर्षाकृष्टवती। दुकूलं गृहीत्वामुं कृष्णं विचकर्षेति केचिद्योजयन्ति। कीदृशम्। मञ्जुलो मनोहरो वञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं प्राप्तम्। कुत्र विचकर्ष। यमुनाजलकूले यमुनाया जलयुक्ते रोधसि वञ्जलकुञ्जस्थं कृष्णं यमुनाकूलं प्रति क्रीडार्थमाकृष्टवतीत्यर्थः। अत्र अन्यानुरक्तस्य कृष्णस्य नायिकया वस्त्राकर्षणादधीरत्वं तस्या व्यङ्ग्यम्। ‘कुतुकं तु कुतूहलम्’ इत्यमरः। ‘मनोज्ञं मञ्जु मञ्जुलम्’ इति च। ‘वञ्जुलो वेतसे’ इति विश्वः। ’ दुकूलं क्षौमे सूक्ष्मांशुकेऽपि च’ इत्यपि॥ ६॥ करतलेति। काचिद्युवतिर्हरिणा प्रसशंसे स्तुता। कीदृशी। रासरसो गोपीनां क्रीडाविशेषस्तत्र सहनृत्यपरा कृष्णेन समं नृत्यन्ती। कीदृशे रासरसे। करतलयोस्तालेन परस्परं वादनेन तरला चञ्चला या वलयावलिः कङ्कणपङ्क्तिस्तया कलितो मिश्रितोऽव्यक्तमधुरशब्दसहितो वंशो वेणुर्यत्र तादृशे अत्र रासरसे। इत्यादिना गोदुहां क्रीडास्वेव सा स्तुत्या नतु सकलसंगीतकलास्विति ध्वनितम् \। ‘द्रुमभेदे करास्फाले तालं तु हरितालके’ इति विश्वः। ‘तरलश्चञ्चले खिन्ने हारमध्यमणौ’ इति च। ‘वलयं कङ्कणेऽपि च’ इति। ‘आवलिः
**श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम्।
पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम्॥ हरि०॥८॥ **
**श्रीजयदेवभणित20मिदमद्भुतेकशवकेलिरहस्यम्।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम्॥ हरि०॥९॥ **
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम्।
_______________________________________________________________________
स्तथा। अथवा अङ्गनामङ्गनामन्तरे माधव इममर्थं प्रकटयति॥ ७॥ एकस्यैव हरेः प्राकाम्यसिद्धया सर्वाभिः सहैककालं क्रीडनमाह – श्लिष्यतीति। स हरी रासरसे क्वचित्कामपि अन्ययान्यया सह उक्तरीत्या क्रीडति। रामेति रमणशीला तां रमयति। स्मितचारुतरेति रसदृष्टेरुपलक्षणम्। स्मिते हि रतिभाव उल्बणो भवतीति। वामामित्यनुनयेऽपि पराङ्मुखीत्वम्। तामनुगमनेन साधयतीति चातुर्यम्। अथवा नानारूपाणि विधाय तया तया सह तया तयावस्थया क्रीडितवान्। अथवा सममेवैकामाश्लिष्य तामाश्लिषन्नेव परां चुम्बति। तत्कुर्वन्नेवान्यां रमयति। चेष्टाविशेषेण तदैवान्यां पश्यति। अन्यामनुगच्छतीत्यनुकरोतीति योज्यम्। श्लिष्यतीत्यादिषु क्रमेण शठधृष्टदक्षिणानुकूलधूर्ता नायकाः। नायिकास्तु अभिसारिका एव॥८॥ उपसंहरति—श्रीजयदेवेति। अत्र स्वरा ऋषभाद्याः पाटाः। श्रीजयदेवकवेरिदमद्भुतके- शवकेलिरहस्यं अद्भुतं च तत्केशवकेलिरहस्यं च तच्चरितं शुभानि वितनोतु \। अर्थाद्गायतां शृण्वतां च। किंभूतम्। यशस्यं यशस्करम्। क्व। वृन्दावनविपिने। अत्रैकेनानेकासामुपरञ्जनादद्भुतत्वम्। लयो नाम छन्दः। तल्लक्षणम् —‘मुनियगणैर्लयमामनन्ति तज्ज्ञाः। तदुक्तं छन्दश्चूडामणौ। ‘चिलय इति॥९॥ इदानीं काचित्सखी राधां प्रति कृष्णस्यातिशयशृङ्गारशालितादर्शनव्याजेन तदुन्मुखीकर्तुमाह—विश्वेषामिति। हे सखि राधे,
_____________________________________________________________
पङ्क्तिः” इत्यमरः। ‘वंशो वेणौ कुले वर्गे काष्ठस्यावयवेऽपि च’ इति विश्वः। ‘रासस्तु वनरासे स्यात्’ इति च ‘रासस्तु गोदुहां क्रीडा’ इति हारावलिः॥ ७॥ श्लिष्यतीति। कामपि रामां क्रीडाशीलां गोपीं श्लिष्यत्यालिङ्गति, कामपि चुम्बति, कामपि रमयति, निभृतः संभोगेन क्रीडयति स कृष्णः स्मितेन चारुतरामतिशयेन मनोहरामपरां गोपीं पश्यति। कांचिद्वामां वामस्वभावां कोपवतीमनुगच्छति अनुनयार्थमनुगतिं करोति। अत्र कृष्णेनाश्लेषादौ क्रियमाणेऽपि ताभिर्न कृतमित्यप्यवैदग्ध्यं सूचितम्। ‘सुन्दरी रमणी रामा’ इत्यमरः। ‘विद्या वामा अपि स्त्रियाम्’ इति च॥ ८॥ संप्रति गीतसमाप्तौ कविः स्वनाम निबध्नन्नेवाशिषं प्रार्थयते—श्रीजयदेवेति। श्रीजयदेवकवेरिदं ललितं गीतं शुभानि वितनोतु विस्तारयतु। कीदृशम्। वृन्दावनेऽद्भुतं केशवस्य केलिरहस्यं गुप्तक्रीडा यत्र तादृशम्। अद्भुतत्वं चैकेनैव कृष्णेनानेककामिनीनां कामपूरणात्। पुनः कीदृशम्। यशस्यं यशःसहितम्॥९॥ ननु सकलशृङ्गारकलाभिज्ञः श्रीकृष्णः कथं हावाद्यनभिज्ञाभिर्गोपीभिः सह केलिं कृतवानित्यत आह— विश्वेषामिति। हे सखि हे राधे, मधौ
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति॥१०॥
__________________________________________________________
मधौ वसन्ते मुग्धः सुन्दरो हरिः क्रीडति। क इव। मूर्तिमाञ्शृङ्गाररस इव। ‘पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः’। किं कुर्वन्। अनुरञ्जनेनानुरागेण विश्वेषां सर्वेषां आनन्दं जनयन् हरिः शृङ्गारश्च। पुनश्च किं कुर्वन्। अङ्गैरनङ्गोत्सवमुपनयन्नुपस्थापयन्। किंभूतैरङ्गैः। इन्दीवरपङ्क्तिश्यामलकोमलैर्नीलोत्पलराजि- वच्छ्यामलसुकुमारैः। पुनः किंभूतः। व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः प्रतिप्रतीकमाश्लिष्टः। अभितः सर्वतः। कथं। खच्छन्दं यथास्यात्तथा। अथवा यद्यदङ्गं यया यया समासादितं तत्तत्तया तया समालिङ्गितमिति प्रतिप्रतीकशब्दार्थः। अत्र दीपकमलंकारः। वैदर्भीरीतिः। शार्दूलविक्रीडितं छन्दः। शृङ्गारो रसः। वाक्यौचित्यं च। चन्दनचर्चितेत्यत्र उत्क ण्ठिता नायिका। तल्लक्षणम्—‘प्रिये कृतव्यलीकेऽपि विरहोत्कण्ठितोन्मनाः॥ १०॥
_______________________________________________________________
वसन्ते मुग्धो मनोहरो हरिः क्रीडति। किं कुर्वन्। विश्वेषां गोपीजनानामनुरञ्जनेनानुरागं जनयन्नुपस्थापयन्। कीदृशो हरिः। अभित उभयतो बाह्यैरवयवैरन्तश्चेतसा प्रत्यङ्गं अङ्गमङ्गं प्रति स्वच्छन्दं यथा स्यादेवं व्रजसुन्दरीभिरालिङ्गितो मूर्तिमाञ्शरीरी शृङ्गार इव। शृङ्गारस्याशरीरत्वात्क्रीडारसः संभवतीति मूर्तिमानित्युक्तम्। अत्र शृङ्गाररसस्तस्य श्यामत्वात्कृष्णसादृश्यम्। तदुक्तम्—‘श्यामो भवति शृङ्गारः सितो हासः प्रकीर्तितः’ इति। यथा मुग्धो मनोहरः शृङ्गाररसो मधौ वसन्ते क्रीडति सर्वत्र विलसति। किं कुर्वन्। यूनोऽनुरञ्जनेन परस्परानुरागजननेन विश्वेषां प्राणिजनानामानन्दं जनयन्। पुनः किं कुर्वन्। अङ्गैः शृङ्गाररसस्याङ्गभूतैः कटाक्षादिभिरनुभावै रोमाश्वादिभिश्च सात्त्विकभावैः शङ्कासूयादिभिः संचारिभावैश्चानङ्गोत्सवमुपनयन्। न केवलमेतैः पूर्वभावैरपीत्याह—इन्दीवरेति। इन्दीवरश्रेणिभिः कमलपङ्क्तिभिः श्यामैर्गाढान्धकारनीलनिचोलवनमालावनादिभिः कोमलैर्मृदुशय्यादिभिः। अत्र हेतुगर्भविशेषणमाह—स्वच्छन्दमिति। स्वच्छन्दं यथा स्यादेवं व्रजन्गच्छन्सुन्दरीभिरङ्गमङ्गं प्रति आलिङ्गतः आश्रितः शृङ्गाररसस्याङ्गिनो विभावादीनां मध्ये कयाचित्ताम्बूलस्रक्चन्दनाद्युपनयनविभावरूपं कयाचित्सुस्मितकटाक्षाद्यनुभावरूपं कयाचिच्छङ्कासूयादिसहचारिरूपं कयाचिच्च रोमाञ्चित्वादिसात्त्विकभावरूपशृङ्गाररसस्याङ्गमाश्रितमिति भावः। विभावादीनामनङ्गत्वं प्रति भरतः—‘विभावैरनुभावैश्च भावः संचारिसात्त्विकैः। जनितो बोधितः स्फीतो वृद्धः शृङ्गार इष्यते॥’ इति विभावसामान्यलक्षणात्। रसरत्नप्रदीपिकायाम्—‘भावयन्ति विशेषेण ये रसान्वै मनोहरान्। ते विभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः॥’ इति। तत्र शृङ्गारविभावा भरतेनोक्ताः—‘ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गार। रसः समुद्भवति॥’ अनुभावसामान्यलक्षणं यथा—‘यथाव्याक्रियते सम्यग्लोकानुभवगोचराःतेऽनुभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः॥’ तत्र शृङ्गारानुभावाः–‘नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च। मधुरैः स्वाङ्गविकारैस्तस्याभिनयः प्रयोक्तव्यः॥’ व्यभिचारिसामान्यलक्षणं दशरूपके—‘विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः। शृङ्गारतिलके—‘शङ्कासूयातथा ग्लानिर्व्याधिश्चित्तास्मृतिर्धृतिः। औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादौ -
नित्योत्सङ्ग21वसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः।
किंच स्निग्धरसालमौलिकुसुमान्या22लोक्य हर्षोदया-
दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः॥११॥
_____________________________________________________________
श्रीखण्डशैलानिलो मलयाचलपवनःईशाचलं हिमाद्रिमनुसरति याति। ईशश्चासावचलश्चेति। अथवा ईशायाः पार्वत्याः गुरुरचलः। मध्यमपदलोपात् टाब्वधिनाच्। वा ईशोपलक्षिताचल इति। अथवा ईशाचलं कैलासमनुलक्षीकृत्य सरति। कया। प्रालेयप्लवनेच्छया हिमावगाहनेच्छया। अत्रोत्प्रेक्षितं हेतुमाह— नित्येति। नित्यमुत्सुङ्गे वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः तस्मादिव। अथ भुजङ्गकाद्यद्वलनं तेन यो जायमानः क्लेशः तस्मादिव॥ अथवा कवलनं कवलो दशनं तस्मात्। सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति॥ किंचेति विभावान्तरमाह। पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति। किंभूताः। कलोत्तालाः कलाश्चता उत्ताला उदीर्णाः। कुतः। हर्षोदयात्। किंकृत्वा। स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुड्मलास्तानालोक्य। अथवा स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य हर्षोदयादिति क्रिययोरेककर्तृकत्वात्पूर्वकालता। शार्दूलविक्रीडितं वृत्तम्। अत्र वर्णानुप्रासोपमाहेतवोऽलंकाराः। वैदर्भी रीतिः। अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यःस्थायीभावः। अत्र विरहिमनः करीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलामालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्टाङ्ककुहूरूपेण यदुन्मीलनलक्षणं यथा क्रियाखरूपनिरूपणमकारि तन्नितरामौचित्यकोटिमालम्बते। उक्तंच—‘सगुणत्वं
______________________________________________________________
भयं तथा॥ विषादो जडता निद्रा बहि; चापलं मतिः। इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः॥’ इति। सात्त्विकभावाः शृङ्गारतिलके—‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः॥’ इति। एतेषामवान्तरलक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते। अत्र सकलाभिज्ञस्यापि व्रजसुन्दरीभिःसह मुग्धतामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः। तासां तथैवानुरञ्जनात्। अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जनकत्वंकृष्णस्योक्तमिति भावः॥ १०॥ इदानीं राधां शीघ्रं गमयितुं मलयानिलादिदुःसहतामाह—अद्र्युत्सङ्गेति। श्रीखण्डशैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति। कस्मादिव। अद्रेर्मलयस्य उत्सङ्गे क्रोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेना श्लेषेण जनितो यः क्लेशः संतापस्तस्मादिव। तर्हि हिमाद्रिं किमिति व्रजतीत्यत आह—प्रालेयेति। प्रालेयस्तुषारस्तस्य प्लवनमवगाहनं तस्येच्छया। अत्र सर्वैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्कादधिकं विरहिणां संतापकत्वं ध्वनितम्। न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह।
रामोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया।
साधु त्वद्वनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितस्मितमनोहारी हरिः पातु वः॥ १२23॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः॥१॥
________________
______________________________________________________________
सुवृत्तत्वं साधुता च विराजते। काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया॥’ इति॥ ११॥ इदानीं सर्गान्ते कविराशिषमाशास्ते—रासोल्लासेति। हरिर्वो युष्मान्पातु। किंभूतो हरिः। राधया गीतस्तुतिव्याजात्। अमृतमयमुखनिर्गतत्वात्। इदं गीतममृतमेवेति मिषेणेति व्याहृत्य उत्कटं यथास्यात्तथा चुम्बितः। इतीति किम्। साधु युक्तमेतत् यद्गीतममृतकल्पम्। यतस्त्वद्वदनं सुधामयम्। अत्र विकारे मयट्। अत्रान्यनारीसंनिधौ चुम्बनमयुक्तमिति गीतस्तुतिव्याजोक्तिः। किं कृत्वा। निर्भरं गाढं यथास्यात्तथोरः परिरभ्य। क्व। आभीरवामभ्रुवां गोपाङ्गनानामभ्यर्णं समीपे। किंभूतानां वामभ्रुवाम्। रासो गोपक्रीडा तस्योल्लासः संहर्षप्रादुर्भावस्तस्य भरेण विलासवतीनाम्। किंभूतो हरिः। स्मितेनान्यनारीणां मनो हर्तुं शीलं यस्य स तथा। अथवा अन्यनारीसमीपे आलिङ्गनं लज्जावहमिति तत्परिजिहीर्षया राधाया हेतुगर्भं विशेषणमाह। प्रेमान्धयेति। ‘कामान्धः किंचिन्न पश्यति’ इति वचनादतिप्रम्णा व्याकुलयेत्यर्थः। अत्र विप्रलम्भः शृङ्गारः। आशीरप्रस्तुतप्रशंसाव्याजोक्त्याक्षेपहेतवोऽलंकाराः। प्रगल्भा नायिका। मुग्धो नायकः। अत्र ‘तरुमिव कमितारं चुम्बनार्ताधिरोढुं यदभिलषति नारी तच्च वृक्षाधिरूढम्॥’ इति कृत्वा वृक्षाधिरूढमाश्लेषः। ‘आभीरजाश्चुम्बनहार्यचित्तामिति॥ ‘नमितकमिदमाहुर्योषितो यद्बलेन प्रियमुखमभिवक्रं न्यस्य तिष्ठन्त्युदास्या’ इति रतिरहस्यात् नमितकं नाम चुम्बनविशेषः। शार्दूलविक्रीडितं छन्दः। अत्र राधाया वीरायितेनोत्साहात्मकस्य वीररसस्याविर्भावात्तदुपयोगिनी आरभटीवृत्तिः। द्वित्रिपदे तु पाञ्चाली रीतिः। अर्धमागधी गीतिश्चेति। स्थितलयं गानम्॥ १२॥
यत्सर्गंसंविधातुं नृपतिगुणनिधिं सर्गकर्तुर्निसर्गा-
च्छिक्षाभूत्सर्गवर्गः सकलकलितृणां स्वर्गिणामग्रिणां च।
__________________________________________________________________
किं चेति। पिकानां कोकिलानां कुहूःकुहूरित्येवंरूपाः शब्दा उन्मीलन्ति प्रकटीभवन्ति। कीदृश्यः। कलोत्तालाः कला अव्यक्तगिरो मधुराः, उत्ताला उद्भटाः। कस्मात्। स्निग्धा ये रसाला आम्रवृक्षास्तेषां ये मौलयोऽग्रभागास्तत्र यानि मुकुलानि तान्यालोक्य वीक्ष्य यो हर्षोदय आनन्दाविर्भावस्तस्मात्। अत्र क्वचित् ’ अद्योत्सङ्ग’ इति पाठः। तत्राद्य वसन्ते
________________________________________________________________________________
राज्ञा कुम्भेन तेन व्यरचि विवरणं नव्यसर्गे बिसर्गे-
ऽरीणां दक्षेण सर्गे प्रथमपरिमिते गीतगोविन्दसर्गे॥
यत्र स्याद्गुर्जरी रागस्तालो झम्पेति भागशः।
यथाशोभं प्रयोगोऽपि गद्यपद्याश्चितान्तरः॥
आभोगान्ते स्वराः पाटाः पुनः पद्यानि कानिचित्।
सामोददामोदराद्यः प्रबन्धो भ्रमरः पदम्॥
इति सामोददामोदरभ्रमरपदनामा चतुर्थः प्रबन्धः॥
इति श्रीमेदपाटसमुद्रसंभवमेरोहिणीरमणेन कुम्भकर्णेन विरचिते गीत-
गोविन्दविवरणे सामोददामोदरनामा प्रथमः सर्गः॥ १॥
____________________________________________________________________________________
इत्यर्थः। ‘तुषारस्तुहिनं हिमम्। प्रालेयं मिहिका चाथ’ इत्यमरः। ‘उत्तालः स्याद्धेमकुम्भे गर्भे चोत्ताल उत्कटे। श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालं प्लवंगमे’ इति विश्वः॥ ११॥
इति श्रीमहामहोपाध्याय श्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां प्रथमः सर्गः॥ १॥
द्वितीयः सर्गः २
अक्लेशकेशवः।
विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-
मुखरशिखरे लीना दीनाप्युवाच रहः सखीम्॥ १॥
___________________________________________________________________
धन्नासीरागेण गीयते॥
भुवनेशपादकमलं प्रणम्य कुम्भो नृपतिरतिविमलम्।
जयदेवरचितमातुं युनक्ति युक्तेन धातुना गातुम्॥
इदानीं हरेरभिलाषेर्ष्यारूपदोलारूढचित्ता राधा सखीमाह। पूर्वसर्गेऽभिलाषचिन्तारूपं दशाद्वयं निरूप्य स्मरणलक्षणदशाप्रदर्शनार्थं द्वितीयसर्गारम्भः॥ विहरतीति। राधा सखीं रहोऽपि गोप्यमप्युवाच। यद्यपि लताकुञ्जे स्वरहस्यं वक्तुं नोचितं तथापि स्मरपारवश्यविह्वलतया गोप्यागोप्यं नाज्ञासीत्। क्वसति। साधारणप्रणये सकलगोपिकासु समानस्नेहे हरौ वने वृन्दावने विहरति सति। किंभूता राधा। विगलितनिजोत्कर्षादन्यस्त्रीभ्यो निजातिरेकापगमात्। ईर्ष्यावशेनासहिष्णुतयान्यतो गता। यत्र स्थिता अन्याभिः क्रीडन्तं न पश्यतीति। अत्रार्थे पुनर्विशेषमाह। गत्वापि क्वचिदपि कुञ्जे लीना। किंभूते कुञ्जे। झङ्कारपरभ्रमरश्रेण्या वाचालाग्रभागे। अत एव दीना। अत्रापि तैरधिककामोद्दीपनात्। अत्र ‘रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा’ इति हरिणी छन्दः। विरहासहिष्णुतालक्षणो विप्रलम्भो रसः। रतेरेवात्युद्रेकाद्रसवदलंकारता। वर्णसाम्येनानुप्रासश्च। प्रौढा नायिका। अत्र गलितनिजोत्कर्षवशाद्दीनस्य वचनासक्तेर्यत्सखीं प्रति रहस्य- कथनमपिशब्देन द्योत्यते तन्नितरामौचित्यचमत्काराय। यदाह—’ उचितस्थानविन्यस्तैर्निपातैरर्थसंगतिः। उपादेयैर्भवत्येव सचिवैरिव निश्चला॥’ इति। श्लोकोक्त-
________________________________________________________________
एतद्वचनैः सख्या प्रतिबोधितायाः समक्षमन्याभिः सह निर्भरं क्रीडन्तं हरिं दृष्ट्वाऽसहमानायाः अतएव क्वचित्कुञ्जान्तरगताया राधाया अवस्थान्तरं वर्णयितुमाह—विहतीति। राधा सखीं इति वक्ष्यमाणमुवाचोक्तवती। कीदृशी। ईर्ष्यावशेनान्यतोऽन्यत्र गता। ईर्ष्यायां हेतुमाह — विगलितेति। विगलितो गलितो निजः स्वीय उत्कर्षोऽहमेव हरेः प्रणयिनीत्येवंरूपस्तस्मात्। क्व सति। हरौ कृष्णे वने विहरति सति। कीदृशे हरौ। साधारणो राधायामन्यगोपाङ्गनायां च समानः प्रणयः प्रेम यस्य तादृशे। अत एव दीना दुःखिता। पुनः कीदृशी। क्वचिदपि लताकुञ्जेलताभिर्वल्लीभिरतिनिबिडे कुञ्जे लीना निभृतं निलीय स्थिता। कीदृशे कुञ्जे। गुञ्जन्तः शब्दायमाना मधुपा भ्रमरास्तेषां या मण्डली पङ्क्तिस्तया मुखरं वाचालं शिखरमग्रभागो यस्य तादृशे। अत्र कुञ्जपदेनैव लताच्छादितगृहप्राप्तौ लतापदमतिनिबिडत्वसूचनाय। ‘प्रणयः प्रेम्ण विश्रम्भे’
**गुर्जरीरागेण यतिताले च गीयते॥ प्र० ५॥ **
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशं
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम्।
रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासम्॥ध्रुवम्॥ २॥
**चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम्।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम्॥रासे०॥ ३॥ **
________________________________________________________
मेवार्थंविशिनष्टि वर्णयतितालेन। ‘लघुश्चैको द्रुतद्वयम्’ इति॥ १॥ संचरदिति। तत्र पूर्वं ध्रुवपदं व्याक्रियते— रासेति। हे सखि, मे मनो हरिं स्मरति। स्मरतीति स्मृतेः पूर्वानुभूतार्थविषयत्वाद्दृष्टचरस्य हरेश्चरितं साक्षात्करोति। इह क्रीडावने रासे गोपक्रीडायां विहितो विलासो विभ्रमो येन स तं तथा। कथं यथा भवति। कृतपरिहासं कृतनर्मकेलि यथा स्यात्तथेति ध्रुवः। अथ पदानि। तंत्राद्यं पदम्। संचरदिति। संचरत्या संक्रममाणयाधरसुधया मधुरो ध्वनिर्यत्र तद्यथा स्यात्तथा मुखरितो मोहनो मोहकारी तन्नामा वंशो येन। अत एव चलितदृगञ्चलं नेत्रप्रान्तं यथा स्यात्तथा चञ्चलो यो मौलिः शेखरः शिरो वा तेन कपोलयोर्विलोलौ वतंसौ यस्य स तथा। किमुक्तं भवति। शिरःकम्पदोषं विना शेखरकुण्डलचालने वादकवैचित्री। अथवा वंशश्रवणाच्चलितदृगञ्चला या गोप्यस्तासु चञ्चलो यो मौलिस्तेन कपोलविलोलवतंसम्। अत्राधरसुधापानेन तदाननस्य चन्द्रादप्यानन्दकत्वं द्योतितम्॥ २॥ चन्द्रकेति। चन्द्रकचारुमयूरशि-
__________________________________________________________
इति विश्वः। ‘ईर्ष्यामाहुः समानेषु मानादानादमर्षणम्’ इति॥ १॥ राधा किमुवाचेत्याह—संचरदिति। गीतस्यास्य गुर्जरी रागः। तालस्तु प्रतिमठः। गीतार्थस्तु— मम मनोऽन्तःकरणं हरिं स्मरति। कीदृशं हरिम्। रासे गोपक्रीडाविशेषे विहितः कृतो विलासो येन तादृशम्। तथा कृतः परिहासो येन तादृशम्। एतच्च ध्रुवपदम्। कीदृशं हरिम्। संचरता प्रतानक्रमेण स्फुरताधरेणोष्ठेन सुधेव मधुरो ध्वनिर्यस्य तादृशो मुख- रितो वादितो मोहनवंशो मोहनकारी वेणुर्येन तादृशम्। तद्वेणुरवेण मोहितं मे मनः कृतापराधमपि तं स्मरतीति भावः। पुनः कीदृशम्। चलितः कथंचिन्मूर्च्छा प्रति रोषे प्रकटीकृते तत्संमानाय घूर्णितो दृगश्चलोऽपाङ्गो यत्र एतादृशश्चञ्चलः स्वयमेव वेणुद्वारा प्रकटीकृतस्य स्वरविशेषस्यान्येनाज्ञानात्स्वयमेव परितो दोषाद्दोलायमानो मौलिर्मस्तकं यस्य अत एव कपोले विलोलश्चञ्चलो वतंसः कर्णाभरणं यस्य तादृशम्। ‘पीयूषममृतं सुधा’ इत्यमरः। ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रयः’ इति च ‘पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ’ इति च॥ २॥ ननु व्यासङ्गादिना विस्मार्यतामित्यत आह—चन्द्रकेति। चन्द्रकेण विचित्रचिह्नेन चारुणा मनोहराणां शिखण्डकानां मयूरपिच्छानां मण्डलेन समूहेन वलयिता वेष्टिताः केशा येन तादृशम्। तथा चात्र मयूरादिदर्शनेऽपि त-
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम्।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम्। रासे०॥ ४॥
विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम्।
करचरणोरसि मणिगण24भूषणकिरणविभिन्नतमिस्रम्॥ रासे ॥५॥
____________________________________________________________
खण्डकानां मण्डले संघातेन वलयाकारेण वेष्टिताः केशा यस्य। तथा प्रचुरं घनं पुरंदरधनुषानुरञ्जितो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वत्सुवेशो दर्शनीयस्तम्॥३॥ गोपेति। गोपसमूहस्य नितम्बवतीनां पृथुनितम्बानां मुखचुम्बने लम्भितः प्रापितो लोभो येन। अर्थान्मुखस्य। अथवा गोपाङ्गनानां मुखचुम्बनेन लम्भितो लोभो येन। अथवा गोपवधूचुम्बने लम्बितो लम्बीकृतो लाभो येनेति पाठान्तरं युक्तम्। अपि च बन्धुजीववत् मधुरो मनोहरोऽधरपल्लवो यस्य। अपि च उल्लसिता स्मितेन शोभा यस्य तम्॥ ४॥ विपुलेति। विपुलपुलकौ पृथुरोमाञ्चौ यौ भुजौ तौ पल्लवाविव ताभ्यां वलयितं वलयीकृतं बल्लवयुवतीनां गोपाङ्गनानां सहस्रं
_____________________________________________________________
स्यैव दर्शनं भवतीति ध्वनितम्। पुनः कीदृशम्। प्रचुरैर्बहुलैः पुरन्दरधनुर्भिरनुरञ्जितः संवलितो यो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वच्छोभनो वेश आकृतिर्यस्य तादृशम्। अत्र नानामणिखचितहारकेयूरादीनामिन्द्रधनुः साम्यम्। श्रीकृष्णस्य मेघसाम्यम्। इयं चाभूतोपमा ज्ञेया। कुतः। प्रचुरपुरन्दरधनुर्भिरनुरञ्जितमे- घस्याप्रसिद्धेः। ‘समौ चन्द्रकमेचकौ’ इत्यमरः। ‘बर्हिकण्ठसमे वर्णे मेचकं ब्रुवते बुधाः’ इति कात्यः। ’ शिखण्डस्तु पिच्छबर्हे नपुंसके’ इत्यमरः। ’ वेल्लितं स्याद्वलयितम्’ इति च। ‘मुदिरःकामुकोऽम्बुदः ’ इति विश्वः। ‘वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके’ इति च॥ ३॥ ननु एवं चेत्त स्मिन्ननुरागिणि चेतस्तदा तं किमिति नानुसरसीत्यत आह—गोपकदम्बेति। गोपकदम्बस्याभीरसमूहस्य या नितम्बवत्यः प्रशस्तनितम्बशालिन्यः स्त्रियस्तासां मुखचुम्बने लम्भितः प्रापितो लोभो येन तम्। तथा च मदग्रेऽप्यन्यास्वनुरक्तः स इत्येतावदह- मसहमाना तं नानुसरामीति भावः। यद्वा नन्वयं त्वय्यनुरागरहितोऽन्याभिर्गोपीभिः सह क्रीडतीति त्वं तद्गुणकीर्तनमपि किमिति करोषीत्यत आह— गोपकदम्बनितम्बवतीभिर्मुखचुम्बने लम्भितः प्रापितो लोभो यस्य तादृशम्। तथा च तासु सहजस्नेहो नास्ति परंतु बलात्कारेण ताभिश्चुम्बने लोभः कारितः। सहजस्तु प्रणयो मय्येव तस्येति भावः। पुनः कीदृशम्। बन्धुजीवपुष्पवन्मधुरो मनोहरोऽधर एव पल्लवो यस्य तम्। उल्लसितान्तरीषद्धास्येन शोभा यस्य तम्। तथा च बन्धूककुन्ददर्शनेनापि तदीयाधरहास्यस्मारकेन स एव स्मर्यत इति भावः। ‘रक्तकस्तु बन्धुको बन्धुजीवकः’ इत्यमरः। ‘सुरसो मधुरः प्रोक्तो मधुलेशे मनोहरे’ इत्यनेकार्थः॥ ४॥ पुनः कीदृशम्। विपुलेति। विपुलः पुलको रोमाश्चो यत्र ताभ्यां भुजपल्लवाभ्यां पल्लववत्कोमलाभ्यां बाहुभ्यां वलयितं वेष्टितं बल्लवयुवतीनामाभीरपत्नीनां सहस्रं येन तम्। अत्र वलयितमित्यनेनावज्ञया तासां वेष्टनमात्रं न तु गाढालिङ्गनं सरहस्यं चुम्बनालिङ्गनादिकं तस्य
जलदपटलचलदिन्दुविनिन्दकचन्दनतिलकललाटम्।
पीनपयोधरपरिसरमर्दननिर्दयहृदयंकपाटम्॥ रासे०॥ ६॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम्।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम्॥ रासे०॥ ७॥
___________________________________________________________
येन। पुनश्च करौ च चरणौ च उरश्च तेषां समाहारः करचरणोरः। प्राण्यङ्गत्वात्समाहारः। ‘अमूर्धमस्तकात्स्वाङ्गादकामे’ इति सप्तम्या अलुक्समासः। तत्र स्थितानां मणिगणभूषाणां किरणैर्विभिन्नं तमिस्रं येन स तथा॥ ५॥ जलदेति। जलदपटलं घनसमूहः वलतः संभजमानस्येन्दोश्चन्द्रस्य विनिन्दकश्चन्दनतिलको ललाटे यस्य। वर्तुल इति यावत्। केचिच्चलदिति पठन्ति। जलदपटलं गच्छत् इति व्याख्येयम्। तत्पक्षे वंशे वाद्यमाने मूर्ध्नःकम्पेन ललाटे तिलकं चलदिव दृश्यते। अत्र ललाटस्य श्यामत्वात्तिलकस्य गौरत्वान्मेघचन्द्राभ्यामुपमानोपमेयभावः॥ अपिच पीनौ घनौ यौ स्तनौ तन्मण्डलमर्दने निर्दयं हृदयकवाटं यस्य। चलदित्यत्रापि तथैव॥ ६॥ मणिमयेति। मणिमये मकराकारे मनोहरे ये कुण्डले ताभ्यां मण्डितोऽलंकृतो गण्डो यस्य। अपि च उदारं दक्षिणम्। किंच पीते वसने यस्य। किंच। अनुगत
_____________________________________________________________
मयैव सहेति तस्य स्मरणमुचितमेवेति ध्वनितम्। पुनः कीदृशम्। करयोश्चरणयोरुरसि च यानि मणिमयानि भूषणान्यलंकरणानि तेषां किरणैर्विभिन्नं नाशितं तमिस्त्रं येन तम्। एतेन प्रथमाभिसारे स्वकीयालंकारकिरणैरुद्द्योते सति लज्जायाः परावर्तमानां मां सदानीय तां चेष्टां कृतवान्। येन तं क्षणमपि मनो न विस्मरतीति ध्वनितम् \। ‘अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रंतिमिरं तमः’ इत्यमरः॥ ५॥ पुनः कीदृशम्। जलदपटलेति। जलदपटले मेघसमूहे चलन्संचरन्य इन्दुश्चन्द्रस्तस्य विनिन्दकस्तच्छोभातिशायी चन्दनबिन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललाटं यस्य तम्। पुनः कीदृशम्। पीनौ मांसलौ पयोधरौ स्तनौ तयोः परिसरस्य पर्यन्तभागस्य मर्दने निर्दयत्हृदयकपाटं कपाटवद्विस्तीर्णे हृदयं यस्य तादृशम्॥ ६॥ पुनः कीदृशम्। मणिमयेति। मणिमये मणिखचिते मकरवन्मनोहरे ये कुण्डले ताभ्यां मण्डितौ कपोलौ यस्य तम्। पुनः कीदृशम्। उदारमौदार्यगुणयुक्तम्। अत्र रहसि मया यथोचितं तत्सर्वं तत्क्षणमेव पूरितवानिति स कथंचन स्मर्यत इति ध्वनितम्। पुनः कीदृशम्। पीतं वसनं वस्त्रं यस्य तम्। औदार्योपपादकं विशेषणमाह – अनुगता आश्रिता ये मुनयो नारदादयः, मनुष्या मनुजा भीष्मादयः, सुरा इन्द्रादयः, असुराः प्रल्हादादयस्त एव वराः श्रेष्ठाः परिवाराः परिजना यस्य तम्। तथा च तैरप्यधिगतः सुमनः फलैः सततं सेव्यत इति तस्यौदार्यं ख्यातमेवेति भावः। ‘परिवारः परिजने खड्गकोशे परिच्छदे’ इति विश्वः। ’ दानमभ्युपपत्तिश्च तथा च प्रियभाषणम्। स्वजनेऽपि परे वापि तदौदार्यमिति स्मृतम्॥’ इति नायकौदार्य-
**विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम्।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम्॥ रासे०॥ ८॥ **
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम्।
हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम्॥ रासे०॥ ९॥
_______________________________________________________________
आश्रितो मुनिमनुजसुरासुरलक्षणो वरपरिवारो यस्य तम्॥ ७॥ विशदेति। विशदकदम्बतले मिलितम्। अर्थान्मुन्यादिभिरुपस्थितम्। अत एव कलिकलुषभयं शमयन्तं पापं नाशयन्तम्। पुनः किं कुर्वन्तम्। मनसा करणभूतेन तरलतरङ्गदनङ्गदृशा। तरला चासौ तरङ्गदनङ्गा च। तरङ्गन्समूर्च्छन्ननङ्गो यत्र तथाविधया दृष्ट्यामामपि रमयन्तम्। अपीति गोपीश्च। अत एव कलिकलुषभयं कलहकालुष्यभयं शमयन्तम्। अत्र तरङ्गदनङ्गेति सरसदृष्टिरुक्ता॥ ८॥ श्रीजयदेवेति। अत्रालापस्तेनपाटः। हरिचरणस्मरणं प्रति हरेः कृष्णस्य चरणं रासक्रीडाद्याचरणं तस्य स्मरणं प्रति इदं श्रीजयदेवभणितम्। राधया अष्टपद्यादौ स्मरति मनो ममेत्यादि भणितम्। संप्रति इदानीमपि पुण्यवतामनुरूपं योग्यम्। सतां हरिचरणस्मरणे हेतुर्भवतीति। यावत्। किंभूतम्। अतीव सुन्दरम्। तथा मोहनमधुरिपो रूपं यत्र तत्तथा। अत्र ‘मुनियगणैर्लयमामनन्ति’ इति लयो नाम छन्दः। अत्र सर्वा अपि जातयो रासा भवन्तीति केचित्। यदाह— ‘सयलाउ जाईउ एत्थावसेण एत्थ वप्तन्ति। रासा बन्धो रसायणं विट्टगोठ्ठीसु’॥ ९॥ इदानीं राधा तदेव रहस्यं भङ्गयन्तरेणाह। रागो धन्यासिको यत्र तालो वर्णयतिः स्मृतः। चम्पूबन्धप्रयोगान्ते गमकानेकविस्तरः॥ तदन्ते स्युः स्वरास्तेनाः पाटाः शुचिरसाञ्चिताः। प्रबन्धोऽयं मुररिपोः पुरस्ताद्रत्नकण्ठिका’॥ इति मधुरिपुरत्नकण्ठिका नाम पञ्चमः प्रबन्धः भैरवरागेण गीयते—
________________________________________________________________
गुणलक्षणम्॥ ७॥ पुनः कीदृशम्। विशदेति। विशदस्य कदम्बस्य तले मूले मिलितं लग्नं, मत्संकेतीकृतकदम्बतले मदपेक्षयाग्रत एव गत्वा केचन न मां पश्यन्त्विति मत्प्रतारणाय वा निलीय स्थितं कृष्णं मे मनः स्मरतीत्यर्थः। पुनः कीदृशम्। कलिः प्रणयकलहस्तस्माद्यत्कलुषं चित्तकश्मलं ‘अहं संकेते समागता असौ नागतः प्रायशोऽन्यवल्लभासक्तो भविष्यत्यतःपरं यद्यायास्यति तदा मया न संभाषणीयः’ इत्येवंरूपम्। एकाकी कथं कथमत्र तिष्ठामीति च तद्वयं कदम्बमूलादुपेत्य चाटूक्तिभिः शमयन्तमित्यर्थः। यद्वा। कलेःकलियुगस्य यत्कलुषं पापं तद्भयं शमयन्तमित्यर्थः। पुनः कीदृशम्। किमप्यनिवर्चनीयमेव यथा स्यात्तथा उद्गच्छन्ननङ्गः कामो यत्र एतादृश्या दृशा दृष्ट्या मनसा च मामपि रमयन्तमित्यर्थः। मामपीत्यपिशब्देन सोत्कण्ठोत्क्त्याहमपि हरेः कस्यचिल्लोकोत्तरप्रणयपात्रमासं नत्वेतादृश्योऽन्या वध्व इति ध्वनितम्। ‘कलिः स्यात्कलहे शूले कलिरन्त्ययुगे युधि’ इति विश्वः। ‘कलुषं त्वाविलैनसोः’ इत्यपि॥ ८॥ श्रीजयदेवेति। श्रीजयदेवकवेरिदं भणितं पुण्यवतां कृष्णस्मरणानुकूलं दृष्टवतां हरिचरणस्मरणं प्रति संप्रति कलौ अनुरूपं योग्यम्। कीदृशम्। अतिसुन्दरं मोहनं गोपवधूमोहनकारि मधुरिपोः कृष्णस्य रूपं वृत्तम्। अनायासतो हरिस्मरणं भवतीति भावः॥ ९॥
**गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परीतोषं दोषं विमुञ्चति दूरतः। **
**युवतिषु वलत्तृष्णे13 कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम्॥ १॥ **
मालवगौडरागेण एकतालीतालेन च गीयते। प्र०॥ ६॥
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम्।
______________________________________________________________
गणयतीति। हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति। तर्हि वद किं करोमि। किंविशिष्टे। युवतिषु गोपीषु वलत्तृष्णे। वलन्ती संभजमाना तृष्णास्पृहा यस्य तस्मिन्। अपिच मां विना विहारिण्यपि क्रीडाशीलेऽपि। अत्र अपिशब्दः पुनर्योज्यते। किंविशिष्टं चेतः। वामं मयि विपरीतचरितम्। विपरीतत्वे हेतुमाह। यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति। कृतानप्यपराधांस्त्यक्त्वा। अपिच भ्रमादपि भ्रान्तिं प्राप्यापि कोपं नेहते न चेष्टते। पुनरसंतोषकाले परितोषं वहति। अपिच सन्तमपि दोषं दूरतो विमुञ्चति। नीरागजने सानुरागम्। अत एव वामम्। इयमुत्कण्ठिता नायिका। तल्लक्षणम्– ‘उद्दाममन्मथमहाज्वरवेपमानां रोमाञ्चकण्टकितमङ्गकमावहन्तीम्। संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः कवीन्द्रः’॥ ‘उत्का भवति सा यस्या वासकेनागतः प्रियः। तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा’॥ अत्र हरिणीवृत्तम्। यमकं शब्दालंकारः। संशयदीपकावर्थालंकारौ। क्रियौचित्यं च॥ १॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीत्वमारोप्य कृष्णेन सहानुसन्धानमभिलषन्ती आह। वर्णयतितालेन —निभृतेति। पूर्वं ध्रुव-
_______________________________________________________________
ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आह—गणयतीति। मे मनः कृष्णे पुनरपि काममभिलाषं करोति तत्किं करोमि। कीदृशे कृष्णे। युवतिषु बह्रीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे। अत एवं मां बिना विहारिणि वारंवारं विहरणशीले न तु विहरति। कीदृशं मनः। अत एव वामं प्रतिकूलम्। वामे हेत्वन्तरमाह—गणयतीति। तस्य गुणानां सौन्दर्यादीनां ग्रामं समूहं गणयति परिसंख्याति भ्रामं क्रोधं भ्रमादपि नेहते न वाञ्छति। दोषं वैरमधीरणादिकं दूरतो विमुञ्चति। तत्र हेतुमाह —वहतीति। परितोषं संतोषं वहति। अत्र विभावनाविशेषोक्ती अलंकारौ। निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनात्। अन्याङ्गनाशक्तिरूपहेतुवैराग्यहेतु- सत्त्वेऽपि वैराग्याकथनाच्च। तथा च काव्यप्रकाशे—‘क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना। विशेषोक्तिरखण्डेषु कारणेष्वफलावचः॥’ एषा च काव्यप्रकाशकृता व्याख्याता—हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना। मिलितेष्वपि ‘कारणेषु कार्यस्याकथनं विशेषोक्तिरिति। ‘ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके’ इति विश्वप्रकाशः। ‘भ्रामः क्रोधे रवौ दीप्तौ इति। ‘कामः स्मरेऽभिलाषे च’ इति च॥ १॥ अथोत्कण्ठिता राधा सखीं स्वमनोरथानाह—निभृतनिकुञ्जेति। गीतस्यास्य गौड -
चकितविलोकितसकलदिशा रतिरभसभरेण25 हसन्तम्।
सखि हे केशीमथनमुदारं रमय मया सह
मदनमनोरथभावितया सविकारम्॥ ध्रुवम्॥ २॥
______________________________________________________________
पदं व्याक्रियते॥ सखि हे इति। हे सखि, मया सह केशिमथनं कृष्णं रमय कामकेलीःकारय। किंभूतम्। उदारं महान्तम्। किंभूतया मया। सविकारं नानाविकारसहितम्। विकारः कामजो भावः कुचोदरादिप्रकटनं। तदुक्तं रसिकसर्वस्वे—‘नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां साकांक्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च। केशभ्रंशनसंयमौ च कमितुर्मित्रादिसंदर्शनं सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानु- रागेङ्गितम्॥’ इति। रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामकेलीच्छाभावितान्तःकरणया। अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाह। ‘मदनमनोरथानां भावो विद्यते यस्मिन् स भावी। तस्य भावो भाविता तथा। किमुक्तंभवति। यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः। एवं शृङ्गाररसः संपन्नो भवति। तथा चोक्तम्—‘चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः। संभोगो विप्रलम्भश्च स शृङ्गारो द्विधा मतः॥’ अथवा किंभूतं हरिम्। सविकारम् मानसभावसहितमिति कृष्णविशेषणम्। इतिध्रुवः। अथ पदानि। निभृतेति। तमेवोभयनिष्ठं भावं सूचयन्त्याह। किंभूतया मया। निभृतनिकुञ्जगृहं गतया विविक्तकुञ्जगेहं गतया। ‘वश्यः प्रणेयो निभृतविनीत प्रश्रिताः समाः’ इत्युक्तत्वात्तथाप्यवसरोचितं व्याख्यातव्यम्। एतेनाभिसारस्थानमुक्तम्। तदुक्तं भरते—‘विवाहे तीर्थयात्रादौ बन्धनोत्सवके तथा। नटनृत्ये तथा केलौ जागरोद्यानसंगतौ। असती-
_______________________________________________________________
मालवरागः एकताली तालश्च। गीतार्थस्तु—हे सखि, मया सह केशिमथनं कृष्णं रमय। कीदृश्या मया। मदनस्य यो मनोरथ इच्छा तद्युक्तो यो भावो रत्याख्यः स जातो यस्यास्तादृश्या। यद्वा। मदनमनोरथेन भावितया प्राप्तया। ननु को वेद मया प्रार्थने कृते कदाचिन्नायात इत्यत आह। उदारमौदार्यगुणसंयुक्तम्। तथा च त्वत्प्रार्थितमवश्यं स दास्यत्येवेति भावः। कीदृशं कृष्णम्। सविकारं विकारो मानसो भावस्तत्सहितम्। तदान्योन्यानुरागपूर्वकत्वेन शब्दवरं(?)पुष्ट्यर्थम्। अन्यथा रसाभावो भवतीति भावः। यद्वा सविकारमिति क्रियाविशेषणम्। विकारः स्तनप्रान्तादिप्रकटनं तत्सहितं यथा स्यादेवं मदनमनोरथभावितयेत्यर्थः। तदुक्तं रसिकसर्वस्वे—‘नाभीमूलकुचोदरप्रकटनं व्याजेन यद्योषितां साकाङ्क्षंमुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च। केशभ्रंशनसंयमौ च कमितुमिंत्रादिसंदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानुरागेङ्गितम्॥’ अत्र केशिमथनपदोपादानं सामर्थ्यख्यापनाय। तत्प्रयोजनं च निःशङ्ककेलिप्रतिपादने भवितेत्यत्र प्रथमव्याख्याने तारकादित्वादितच्। द्वितीये पक्षे ‘भावितं वासिते पक्षे’ इति विश्वः। पुनः कीदृश्या मया। निभृतमेकान्तं यन्निकुञ्जरूपं गृहं तं प्रति गतया। कीदृशं कृष्णम्। निशि रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम्। एवंभूतं मां राधा पश्यत्विति कुतोऽपि मत्प्रतारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः। पुनः कीदृश्या। चकितं यथा स्या-
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम्।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम्॥ सखि ०॥३॥
_____________________________________________________________
सङ्गमकुले रत्युत्पाताद्युपप्लवे। चौरिकयाभिसारः स्यात्स्वदारानिह रक्षयेत्॥ निशि रात्रौ। अपिच किंभूतम्। रहसि गुप्तस्थाने निलीय तिरोभूय वसन्तम्। अपिच किंभूतया। चकितेन विलोकिता सकला दिशो यया सा। कुत्र कृष्णो वसतीति गवेषितुमभिसरन्ती सख्यो मां माद्राक्षुरिति लज्जया त्रासोत्कम्पेनेति। अपि किंभूतं रत्युत्साहवशेन हसन्तम्॥२॥ अपिच॥ प्रथमेति। उपभुक्तचरेऽपि हरौ प्रथमसमागम इव लज्जितया तत्कालीनाश्चेष्टाः कुर्वन्त्या वा। बहुकालान्तरितमीलितेन प्रथमसमागमता। अपि किंभूतम्। पटुचाटुशतैरनुकूलम्। सान्त्वनक्षमप्रियवचनशतैरनुनयपरम्। एतदुक्तं भवति। ‘प्रथममिह हि देयं पूगपुष्पादिकं स्यान्मृदुमधुरवचोभिर्योजयेत्सन्निधाने। करतलमथ गात्रे भ्रामयन्शश्वदस्याश्छुरितमुदरपृष्ठे मन्दमाश्लिष्य दद्यात्॥’ प्रथमसमागमे कामिन्यो लज्जन्त्यो मानमावहन्ति। तथाच—‘श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चुम्बत्यस्मिन्वदनविकृतिः किं कृता किं न दृष्टः। नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा॥’ इति भरतः॥ अपि किंभूतया। अतएव मृदु मधुरं यथास्यात्तथा स्मितपूर्व भाषणं यस्याः सा तथा। अपि किंभूतम्। शिथिलीकृतजघनदुकूलं। श्लथीकृतं जघनस्थितं पट्टवस्त्रं वा। अन्तर्भावितणिजर्थत्वात् श्लथीकरणे सङ्गमस्य हेतुत्वम्। सङ्गमादेव श्लथमभवदिति। तदुक्तं भरते— ‘कान्ते तल्पमुपागते शिथिलिता नीवी स्वयं बन्धनात् वासो विश्लथमेखलागुणभृतं किञ्चिन्नितम्बस्थितम्। एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च कीदृशमिति खल्पापि मे न स्मृतिः॥’
______________________________________________________________
देवं विलोकिताः सकला दिशो यया तादृश्या। कुत्र कृष्णो निलीय तिष्ठतीति कृत्वाभिसरन्तीं मां मा कश्चन पश्यत्विति च शक्ङ्कितं पश्यत्येवेति च भावः। कीदृशं कृष्णम्। रतौ यो रभस उत्साहस्तद्युक्तों यो रसः शृङ्गाराख्यस्तेन हसन्तम्। क्रीडायां कालक्षेपासहिष्णुम्। तथात्मप्रकटनार्थंपुनः स्थितमपि मामियं न पश्यतीतिकृत्वा हसन्तमिति भावः। ‘निभृतं रह एकान्तम्’ इति धरणिः। ’ रभसो वेग उत्साहः’ इत्यमरः॥ २॥ पुनः कीदृश्या मया। प्रथमेति। प्रथमसमागमलज्जितया। एवमवधायाहमागता संप्रति कथमेतस्याग्रे प्रकटयाम्यात्मानमिति लज्जाकारणम्। कीदृशं कृष्णम्। पटुनायिकाप्रसादनदक्षं यच्चाटुशतं प्रियवचनशतं तेनानुकूलम्। पुनः कीदृश्या मया। मृदु कोमलं मधुरं माधुर्यगुणयुक्तं भाषितं यस्यास्तया। तदीयचाटूक्तिभिरपहृतलज्जया। किंचित्स्मितभाषितयेत्यर्थः। पुनः कीदृशं कृष्णम्। शिथिलीकृतं स्मितानुरागानुकूलां मां ज्ञात्वा श्लथीकृतं जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम्। अशेषनायकमणिश्रीकृष्णदर्शनेन दृढबन्धापि नीवी स्वयमेव स्खलिष्यति ततो मेखलालम्बितं जघनस्थितमेव वासस्तेनापहरणीयमिति जघनेत्युपात्तम्। तदुक्तं रतिरहस्ये–‘ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवद्धम्मिल्लः कुसुमाकुलो विगलति प्राप्नोति बन्धं पुनः। प्रच्छन्नौ व्रजतः स्तनौ प्रकृतिं श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गिते योषिताम्॥’ ‘चटु I
**किसलयशयननिवेशितया चिरमुरसि ममैव शयानम्।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम्॥ सखि ०॥४॥ **
**अलसनिमीलितलोचनया पुलकावलिललितकपोलम्।
श्रमजलसकलकलेवरया26 वरमदनमदादतिलोलम्॥ सखि०॥५॥ **
______________________________________________________________
॥ ३॥ अपिच। किसलयेति। किसलयरचिते शयने निवेशितया। ‘सङ्केततल्पेऽभिमुखोपविष्टां गाढं पतिः श्लिष्यति सापि कान्तम्। अन्योन्यगात्रे विशतीव रागात् द्वन्द्वं तदाकृष्टजलाभिधानम्’॥ अपिच ममैवोरसि चिरं शयानम्। एतच्चालिङ्गनभेदापेक्षयोक्तम्। तथाच कोकोक्तम्—‘असकृदतनुगाढाश्लेषलीलां वितन्वञ्जनितजघनबाहुव्यत्ययं स्पर्धते तम्। मिथुनमथ मिथोऽङ्गे लीयते निस्तरङ्गं निगदति तिलपूर्वंतण्डुलं तन्मुनीन्द्रः॥ अपिच। कृते परिरम्भणचुम्बने यया सा। एतदप्यालिङ्गनभेदापेक्षयोक्तम्॥ ‘जघनकलितकान्तश्रोणि रथ्योपरिष्टाद्व्रजति यदिह नारी स्रस्तकेशोत्तरीया। करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषणं तन्मुनीन्द्रः’॥ अपिच आश्लिष्य कृतमधरपानं येन। अत्रायं भावः। ‘अधरदशनजिव्हापानमालिङ्गय कुर्यान्नयनवदनपादैश्चेति जिह्वाप्रवारम्। ग्रहणमथ विदध्याद्वस्त्रकेशस्तनोरः कुचयुगभगदेशे मर्दनं चोरुयुग्मे॥ ४॥ अपिच। अलसेति। अलसे च ते निमीलिते च तादृशे लोचने यस्याः सा। एतेनालिङ्गककामविकारः सूचितः। तथाच नायिकालक्षणे – ‘यत्र मूर्धानमारभ्य पादपर्यन्ततः क्रियाः। अङ्गेन विहिता यस्यास्तदालिङ्गकमुच्यते॥ अपिच। पुलकावल्या रोमाञ्च-
______________________________________________________________
चाटु प्रिये वाक्ये’ इति कोशः। ’ जघनं कटेरधोभागे ’ इति हारावलिः॥ ३॥ पुनः कीदृश्या मया। किसलयशयनेति। किसलयशयने नवपल्लवशय्यायां निवेशितया। कीदृशं तम्। चिरं बहुकालं व्याप्य ममैवोरसि शयानं सुप्तम्। आलिङ्गनविशेषं क्षीरनीराख्यमुक्तम्। तल्लक्षणं च पञ्चसायके– ‘गात्रोपरिष्टादथतन्य (?) मध्ये संलीयते यन्मिथुनं शरीरम्। कामाभिमानाक्षतपूर्णचेष्टं तत्क्षीरनीराख्यमिदं प्रदिष्टम्॥ कीदृश्या मया। कृते परिरम्भणचुम्बने यया तादृश्या। एतच्च जघनोपश्लेषरूपालिङ्गनाभिप्रायेण। तदुक्तम्—‘जघनकलितकान्तश्रेणिरङ्गोपरिष्टाद्ग्रजति यदिह नारी स्रस्तकेशोत्तरीया। करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषमेनं मुनीन्द्रः॥ इति। चुम्बनमपि प्रकृते समौष्ठाख्यं बोध्यम्। तदुक्तं पञ्चसायके–‘ओष्ठेन कान्तस्य मुखौष्ठयुग्मं निपीड्य जिह्वाश्चिततालुभागम्। चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं समौष्ठं कविभिः पुराणैः॥ इति। कीदृशं कृष्णम्। परिरभ्यालिङ्गय कृतं मदीयाधरपानं येन तादृशम्। अनेन लालाटिकमुक्तम्। उक्तं च— ‘अन्योन्यसंसक्तमुखं कपोलं नेत्रं ललाटं हृदयं च बाहुम्। सानन्दभावं श्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति॥ इति। ‘पल्लवोऽस्त्री किसलयं’ इत्यमरः॥ ४ ॥ पुनः कीदृश्या। अलसेति। अलसे आलस्ययुक्तेऽतएव निमीलिते लोचने यया। अत्र निमीलितमित्युपादानादवधृष्टाख्यचुम्बनमुक्तम्। उक्तं च—‘हस्तेन नेत्रे च निमील्य भर्तुः संमीलिताक्षी वदने स्वजिह्वाम्। निक्षिप्य च क्रीडति यत्र
कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम्।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम्॥ सखि०॥६॥
________________________________________________________________
पङ्क्त्या सुन्दरकपोलम्। अनेन सात्विकविकाराविर्भावः सूचितः। यदुक्तं भरते—‘स्मरणे संगमे चैव प्रियस्यालोकने तथा। हेतुत्रयं समासाद्य सात्विकः संप्रवर्तते॥ स्वेदः कम्पोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रुप्रलयावित्यष्टौ सात्विका मताः॥ अपिच। श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः सा। श्रमजलसिक्तमिति वा पाठः। श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या इति वा। सकलशब्दः सम्पूर्णपर्यायो वा॥ अपिच। उत्तमकाममदादतिलोलम्। अतिसतृष्णम्॥ ५॥ अपिच। **कोकिलेति—**कोकिलकलरवयोः कूजितमिव कूजितं यस्याः। कलरवशब्दः पारावतपर्यायः। एतदपि सुरताधिकारायोक्तम्। तदुक्तं रसिकसर्वस्वे—‘दात्यूहलावकमयूरकपोतहंसपारावतादिरुतवद्ध्वनितं रतान्ते। तन्मिश्रनिश्वसितसीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ। अपिच जितो न्यक्कृतः कामशास्त्रविचारो येन। वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः। अपिच। श्लथकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा॥ अपिच नखैर्विलिखितोऽङ्कित निबिडःस्तनभारो येन। एतेन बाह्यरतमुक्तम्। तदुक्तं भरते —‘आश्लेषचु-
_______________________________________________________________
लोला ख्यातं रसज्ञैरवधृष्टसंज्ञम्॥’ इति। कीदृशम्। पुलकावल्या रोमाञ्चपङ्क्तया ललितौ मनोहरौ कपोलौ यस्य तम्। पुनः कीदृश्या मया। मदनचिन्तया जनितं जलं प्रस्वेदस्तेन सिक्तमार्द्रं कलेवरं यस्यास्तया। क्वचित् श्रमजलसक्तकलेवरयेति सुगमः पाठः। कीदृशं तम्। वर उत्कृष्टो यो मदो हर्षस्तेनातिशयेन लोलं चञ्चलम्। ‘काये च कलेवरम्’ इति विश्वः॥ ५॥ पुनः कीदृश्या मया। कोकिलेति। कोकिलस्य कलोऽव्यक्तो मधुरो यो रमः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया। अनेन कूजिताख्यं बाह्यरतमुक्तम्। तदुक्तं पञ्चसायके—‘पिकशिखिकलहंसप्रायपक्षिव्रजानां स्वरितमनुकरोतीत्यङ्गना मन्मथार्ता। मुखदशनपिबन्ती तत्कबीन्द्रा वदन्ति स्वनितमिति समा सा चित्रसं- भोगकाले॥’ इति। ननु वात्स्यायनादिशास्त्रेऽन्य एव क्रम उक्तः। तदुक्तम्—आश्लेषं प्रथमं कुर्याद्द्वितीयं चुम्बनं तथा। तृतीयं नखदानं च दंष्ट्राघातं चतुर्थकम्॥ पञ्चमं क्षेपणं प्रोक्तं षष्ठं प्रहरणं तथा। सप्तमं कण्ठशब्दश्च बन्धाख्यं चाष्टमं रतम्॥’ इति। तथा चात्र कण्ठशब्दस्य सप्तमरतस्याग्रे वक्ष्यमाणनखदानादिरतात्प्राक्करणे श्रीकृष्णस्य रसिकताभङ्गः स्यादित्यत आह—जितेति। जितोऽवज्ञातो मनसिजतन्त्रस्य कामशास्त्रस्य विचारो येन तम्। अयं भावः। चतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य स्वानुकूलोत्तमनायिकासंनिधौ रसमग्नतया क्रमस्मरणाभावान्न दोषः। तदुक्तम्—‘रतिचक्रप्रवृत्त्वस्य नैव शास्त्रं न च क्रमः’ इति। पुनः कीदृश्या। श्लथाः केशग्रहणपूर्वकचुम्बनादिदानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तला यस्यास्तया। नखेन लिखितःक्षतयुक्तः कृतो घनस्तनभारो येन तम्। अत्र लिखित पदोपादानात्पङ्कजपत्राख्यं नखदानमुक्तम्। तदप्युक्तं पञ्चसायके—‘अत्यूर्ध्वमेकं स्फुरितोर्ध्वरेषं प्राहुः क्षतं पङ्कजपत्रसंज्ञम्। दोर्मूलनाभिस्तनवक्षसंधावस्योपयोगं मनुते महेशः॥’ इति। ‘तन्त्रं प्रधानशा-
**चरणरणितमणिनूपुरया परिपूरितसुरतवितानम्।
मुखरविशृङ्गलमेखलया सकचग्रहचुम्बनदानम्॥ सखि०॥ ७॥ **
**रतिमुखसमयरसालसया दरमुकुलितनयनसरोजम्।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम्॥ सखि ०॥८॥ **
_______________________________________________________________
म्बननखक्षतताडनानि। संमर्दनं प्रसरणं खलु भिक्षितानि। जिह्वाप्रवेशरसनाग्रहणं तु नाभी क्षोभं रतं वदति बाह्यरतानि तज्ज्ञः॥ ६ ॥ अपिच। चरणेति। चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः। ग्राम्याख्यबन्धसूचनायोक्तमिदम्। तदुक्तं रसिकसर्वस्वे—‘उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम्। ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भवेतां किल नागराख्यम्॥ परिपूरितः संपूर्णतां नीतः सुरतवितानः सुखावसरो येन प्रस्तावो वा॥ अपिच। मुखरा वाचाला शृङ्खला काञ्ची यस्याः। अथ ‘मुखदविशृङ्खलमेखलया’ इति पाठः। अपिच। सकचग्रहं केशग्रहणेन सहितं चुम्बनदानं यस्य॥ ७ ॥ अपिच। रतिसुखेति। रतिसुखसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदैकाग्रीभावस्तेन अलसा मन्थरा। एतेन च्युतिसुखसान्निध्यं सूचितम्। उक्तंच रसिकसर्वस्वे—‘मुहुश्च स्वजनाश्लेषः सीत्कारो वीतलज्जता। अङ्गावधूननं नार्याश्च्युतिसान्निध्यसूचकम्’॥
______________________________________________________________
स्त्रयोः’ इति विश्वः। ‘चिकुरः कुन्तलो वालःकचः केशः शिरोरुहः’ इत्यमरः॥ ६ ॥ एतावत्पर्यन्तं चुम्बनालिङ्गनादिना सप्तविधं बाह्यरतमुक्तम्। संप्रति बन्धाख्यमष्टमरतमाह―चरणेति। चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया। एतच्च भ्रमरिकंनाम विपरीतरताभिप्रायेणोक्तम्। तदुक्तं रतिरहस्ये–‘चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका भ्रामरं नृजघने समुच्छ्रिते’ इति। कीदृशम्। परिपूरितं सुरतवितानं रतिविस्तारो तम्। अनेन नायककर्तृका बन्धाः कथिताः। भ्रामरकबन्धश्रान्तां विदित्वा किसलयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः। कीदृश्या। पूर्व मुखरा शब्दायमाना पश्चाद्विशृङ्खला त्रुटितगुणा मेखला काश्री यस्यास्तया। अनेन प्रेङ्खोल्लिखितनामकं विपरीतरतमुक्तम्। तदप्युक्तं पुरुषायितप्रकरणे—‘स्वजघनमेव दोलायमानं सर्वत्र भ्रामयेदिति प्रेङ्खोल्लिखितम्’ इति। तत्र सर्वत्र शब्दो मनोरमाकारेण व्याख्यातः मध्यात्पूर्वपश्चिमभागे दक्षिणोत्तरभागे चेति रहस्ये सर्वतः कटितटभ्रमो यदि प्रेङ्कपूर्वमिदमुक्तं मूलितमिति। अत्रापि सर्वशब्दार्थः स एव। कीदृशं तम्। सकचग्रहं केशग्रहणसहितं चुम्बनदानं यस्य तम्। केशग्रहणपूर्वकचुम्बनं विपरीतमेवोक्तम्। तदुक्तम्—‘शृङ्गारे चुम्बने कार्ये पुंसालिङ्गनपूर्वकम्। विपरीतरते नार्या सकचग्रहचुम्बनम्॥’ इति। ‘मेखला खड्गबन्धः स्यात्काश्रीशैलनितम्बयोः’ इति विश्वः॥ ७ ॥ पुनः कीदृश्या मया—रतिसुखेति। रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरां काष्ठां प्राप्तो यः संभोगशृङ्गाराख्यो रसस्तेनालसया मन्थरया। कीदृशं कृष्णम्। दर ईषन्मीलिते मुद्रिते नयनसरोजे नेत्रकमले यस्य तम्। एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता। तदुक्तं रतिरहस्ये—‘मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य लक्षणम्’ इति। पुनः कीदृश्या मया।
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम्।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम्॥ सखि०॥९॥
______________________________________________________________
अपिच। दरमुकुलिते ईषन्निमीलिते नयनसरोजे यस्य येन वा। एतच्च च्युतिका लसूचकम्। उक्तंच भरते —‘मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य सूचकम्। सर्वमेतत्परिज्ञाय साधयेच्च स्वयं ततः॥’ अपिच निःसहा असमर्था निपतिता शयन एव तनुलता यस्याः। एतेन विपरीतसुरतं सूचितम्। तदुक्तं कोकेन— ‘स्वेच्छया मिलितवल्लभेऽथवा योषिदाचरति पूरुषायितम्। आदितो घटितयन्त्रमेव वा तं निपात्य नरवद्विषेष्टते॥ चक्रवद्भ्रमति कुञ्चितत्रिका भ्रामयेच्च जघनेऽथ तद्गते। सर्वतः कटितटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमुन्नतम्॥’ एतेन च्युतिकालोत्तरावस्था सूचिता। तदुक्तं भरते—‘अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः। जाते च्युतिसुखे नार्या विरागेच्छा च गम्यते॥’ अपिच। मधुसूदनं मधुविनाशिनम्। उदितमनोजमभ्युदितकामम्॥८॥ अपिच। श्रीजयदेवेति। इदं गीतप्रतिपादितप्रमेय- कव्युत्तम्भितवक्तृत्वेनोत्कण्ठितगोपवधूकथितं राधाकथितं सुखं वितनोतु। अर्थात् गायतां शृण्वतां च। किंविशिष्टम्। श्रीजयदेवेन भणितम्। जयदेवभणितरूपमित्यर्थः। श्रीजयदेवेति सर्वत्र श्रियः पद्मावत्या आराधको जयदेवः श्रीजयदेव इति मध्यमपदलोपी समासः। पुनः किंभूतम्। अतिशयेन मधुरिपोर्निधुवनशीलं सुरतचरितं यत्र तत्तथेति। उत्कण्ठितेत्यादि। उत्कण्ठिता नायिका। विप्रलम्भः शृङ्गारः। अत्र -
_______________________________________________________________
निःसहासमर्था अत एव किसलयशयने निपतिता तनुलता यस्यास्तया। अनेन सुरतान्तसमय उक्तः। तदुक्तम्—‘अङ्गेस्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः। जाते च्युतिसुखे नार्या विरामेच्छा च जायते॥’ इति। नन्वभिसारे विघ्नबाहुल्यात्कथमेतावान्क्रियाकलापः संभविष्यतीत्यत आह—मधुसूदनमिति। मधुनामानं दैत्यं सूदितवान् यस्तस्याभिसारविघ्ननिवारणे कियान्परिश्रम इति भावः। कीदृशं मधुसूदनम्। उदितस्तत्कालत्रुटितः मुक्ताहारकाञ्चीगुणस्तस्य स्थानम्। पुनः सचन्दनं संजातपयोधरश्रोणीपरिसरस्य रशनादिना मल्लज्जितस्मितराधाया अङ्गविलोकनादिना पुनराविर्भूतो मनोजःकामो यस्य तम्। तदुक्तम् —‘अधस्तने च्युते प्रीतिरुपचारैरुपस्कृताः। सविश्रम्भकथायोगैस्ते रतिं नयते पराम्॥’ इति। अत्रोत्कण्ठिता नायिका। तदुक्तम्—‘नैवागतः समुचितेष्वपि वासरेषु प्राणेश्वरः स्वगुरुकार्यवशेन यस्याः। दुर्वारवृत्तविरहज्वरतापिताङ्गीमुत्कण्ठितां वदति तां भरतः कवीन्द्रः॥ इति॥ ८ ॥ श्रीजयदेवेति। इदं जयदेवकविना भणितं यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं सुखं तनोतु विस्तारयतु पठतां शृण्वतां च। कीदृशम्। मधुरिपोः श्रीकृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवंरूपम्।
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम्।
मामुद्वीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च॥ १०॥
______________________________________________________________
लयश्छन्दः॥ ९॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह—हस्तस्रस्तेति। हे सखि, बत इति खेदे। अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि च। किंविशिष्टं गोविन्दम्। व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुक्तम्। पुनः किंभूतम्। स्मितसुधामधुरमाननं यस्य तम्। पुनः किंभूतम्। मामुद्वीक्ष्य मां दृष्ट्वा हस्तात्स्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य। अत एव विलज्जितं विह्वलीभूतम्। पुनः किंभूतम्। अतिस्वेदेनार्द्रंगण्डस्थलं यस्य। गण्डस्थलमिति पाठे मामित्यस्य विशेषणम्। संजातसात्त्विकभावां मां दृष्ट्वासोऽपि संजातसात्त्विकभाव इति हस्तस्रस्तेति युक्तम्। पुनः किंभूतम्। अनृजुभ्रूवल्लिमद्बल्लवीवृन्दोत्सारिदृगन्तवीक्षितम्। कुटिलभ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षितं कटाक्षे क्षणं यस्य। अथवा अनृजुभ्रूवल्लिमद्बल्लवीवृन्देन उत्सारिणा दृगन्तेन वीक्षितम्। एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम्। अत्र शार्दूलविक्रीडितं छन्दः। तथा दीपकमलंकारः। विप्रलम्भशृङ्गारो रसः। अत्र गोविन्दस्य व्रजसुन्दरीपरिवृतत्वेऽपि यत आत्मौपाधिकदर्शनस्य लज्जिताहेतुत्वेन हर्षदर्शनकर्म अतोऽपादानमौचितीमावहति। पाञ्चाली रीतिः। लाटानुप्रासश्च। अन्यत्सर्वं समानम्। दक्षिणो नायकः॥ १०॥ इदानीं पुनरेव विप्रलम्भविभा-
_______________________________________________________________
‘आपोवनं निधुवनं सुरतेन समं त्रयम्’ इत्यमरः॥ ९॥ स्वमनोरथानाह—हस्तेति। हे सखि, अहं गोविन्दं कदा पश्यामि। कदाचिद्गोविन्ददर्शनं भविष्यतीत्याशङ्कायां काकुः। अत एव हृष्यामि। तद्दर्शनजन्य आनन्दो मम कदाचिद्भविष्यतीत्यप्राप्याशंसेव पश्यामि हृष्यामीति भविष्यत्सामीप्ये वर्तमानप्रयोगः। कीदृशम्। व्रजसुन्दरीगणवृतं गोपवधूकदम्बपरिवृतम्। ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षोभविष्यतीत्यत आह—मामिति। मामुद्वीक्ष्य दृष्ट्वा विलज्जितम्। पुनः कीदृशम्। अन्यवधूभिः परिवृतोऽहमनया दृष्ट इति हेतोर्विषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच्च सुधा तया मुग्धं मनोहरमाननं मुखं यस्य। पुनः कीदृशम्। अनृजु कुटिला भ्रूलता यासामेतादृश्यो या बल्लव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्तेनावलोकितं यस्य तम्। मय्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः। पुनः कीदृशम्। हस्तात्स्रस्तो विगलितो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडावेणुर्यस्य तम्। पुनः कीदृशम्। अतिशयेन स्वेदैरार्द्रं गण्डस्थलं यस्य तम्। सर्वत्र मामुद्वीक्ष्येत्यस्य संबन्धः॥ १०॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां हरिरित्याश्वासयन्तीं
दुरालोक27स्तोकस्तबकनवकाशो28कलतिका-
विकासः कासारोपवनपवनोऽपि व्यथयति।
**अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-
प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति॥ ११॥ **
_______________________________________________________________
वानाह—दुरालोक इति। हे सखि, दुरालोकस्तोकस्तबकनवकाशोकलतिकाविकासः मां व्यथयति। दुःखेनालोक्यते विरहिभिरिति दुरालोकः। दुरालोकस्तोकोऽल्पकः स्तबको गुच्छो यस्याः सा। अशोकलतिकायाः विकासः अशोकलतिकाविकासः। नव एव नवकः। प्रशंसायां कः। नवकश्चासावशोकलतिकाविकासश्च। दुरालोकस्तोकस्तबकश्चासौ नवकाशोकलतिकाविकासश्च सः। अपिच। अयं कासारोपवनपवनो व्यथयति। न केवलं सः।पवनोऽपीति। ‘कासारः सरसी सरः’। अथवा दुरालोक इत्यादिपवनविशेषणत्वे योजनीयम्। दुरालोकस्तोकस्तबका चासौ नवकाशोकलतिका चेति कर्मण्यण्। अथवा अशोकलतिकाया विकासो यस्मादिति। एतेन वायोत्रैविध्यमुक्तम्। अपि च न केवलं पवनः। अपितु चूतानां मुकुलप्रसूतिरपि न सुखयति। कीदृशी मुकुलप्रसूतिः। शिखरिणी साग्रा। पुनः कीदृशी। भ्राम्यद्भृङ्गीरणितरमणीया। भ्राम्यन्त्यः परितः स्फुरन्त्यो या भृङ्गयो भृङ्गाङ्गनास्तासां रणितेन शब्दितेन रमणीया॥ अत्र मधुलिङ्गनाग्रहणं पुरुषान्तराभिलाषनिवृत्त्या औचितीमावहति। अत्र शिखरिणी वृत्तम्। समुच्चयोऽलंकारः। लाटानुप्रासः शब्दालंकारश्च। क्रियौचित्यं च। विप्रलम्भः शृङ्गारो रसः। सर्वत्र स्थितिलया गीतिः।
_______________________________________________________________
दूतीमेव त्वरयितुमाह–दुरालोकेति। हे सखि, स्तोकोऽल्पः स्तबको गुच्छो यस्या एतादृशी या नविकातिनवाऽशोकलतिकानुकम्प्याशोकशाखा तस्या विकास उद्बोधो दुरालोको दुःखेनालोचयितुं शक्यः। नविकेत्यत्र ह्रस्वः। लतिकेत्यत्रानुकम्पायां कः। मद्धस्तपालिताऽतएवानुक- म्प्याऽशोकलतिका दुरालोकेति भावः। किमपरम्। कासारः सरस्तत्संबन्धि यदुपवनं तत्संबन्धी यः पवनो वायुः सोऽपि व्यथयति। दुःखं ददातीत्यर्थः। कासारपदेन वायोः शैत्यं कथितम्। उपवनसंबन्धित्वेन ससौगन्ध्यं मान्द्यत्वं च ध्वनितम्। यतो वनवृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति। यद्वा। स्तोकेत्यादि वायोरेव विशेषणम्। तदा स्तोकस्तबकनवकाशोकलतिकां विकासयतीत्येवंभूतः पवनो व्यथयतीत्यन्वयः। नन्वभिमुखमागच्छन्पवनश्चलनादिना निवार्यतामित्यत आह। दुरालोक इति। अतीन्द्रिय इत्यर्थः। तथाचाकस्मादेवासौ न दृश्यत इति भावः। अपिच इयं शिखरिणी गोवर्धनगिरौ वर्तमाना चूतानामाम्राणां मुकुलप्रसूतिरपि कुड्मलोद्गमोऽपि न सुखयति। विकासदशायां तु को वेद किं करिष्यतीति कविना ध्वनितम्।प्रसूतिः शिखरिणी। प्रशस्ताग्रभागवतीत्यर्थः। शिखरिणीत्यत्र प्रशंसायामिन्। यद्वा इयं शिखरिणी मल्लिका न सुखयतीत्यर्थः। कीदृशी। भ्राम्यन्तीनां भ्रमराङ्गनानां रणितिभिर्गुञ्जितै रमणीया। शिखरिणीनामकं छन्द इत्यपि ध्वनितम्। तल्लक्षणं तु वृत्तरत्नाकरे—
साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वहस्त29स्तनम्।
गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं30 चिन्तय-
न्नन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः॥ १२31॥
इति अक्लेशकेशवो नाम द्वितीयः सर्गः॥ २॥
_______________
_____________________________________________________________
मागधी रीतिः। गौडीया रीतिः॥ ११॥ इदानीं सर्गान्ते कविर्भक्तजनानाशास्ते—साकूतेति। केशवो हरिर्वो युष्माकं क्लेशं हरतु। किंलक्षणः। गमिताकाङ्क्षः गमिता नाशं नीता आकाङ्क्षाभिलाषो येन स तथा। अर्थात् गोपीषु। किं कुर्वन्। चिरं निभृतं यथा स्यात्तथा निरीक्ष्यान्तर्हृदये चिन्तयन्। किं निरीक्ष्येत्यपेक्षायामाह। साकूतस्मितं साभिप्रायमीषद्धसितम्। पुनः किम्। आकुलाकुलगलद्धम्मिल्लम्। आकुलाकुलं कामोद्रेकाद्रोमाञ्चोद्गमादिहेतुना गलद्धम्मिल्लं विगलत्केशबन्धम्। पुनः किम्। उल्लासितभ्रूवल्लीकमुत्क्षिप्तभ्रूवल्लीकम्। पुनः किम्। अलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम्। भुजायाः मूलं भुजामूलं भुजामूले ऊर्ध्वौयौ हस्तौ भुजामूलोर्ध्वहस्तौ। अलीकं दर्शितौ भुजमूलोर्ध्वहस्ताभ्यां स्तनौ यत्र कर्मणि तत्। कासामित्यपेक्षायामाह। गोपीनाम्। तच्चतुष्टयं हेतुगर्भवत्वेन विशिनष्टि। मुग्धमनोहरमिति। मुग्धानां मूर्खाणां मनो हरतीति न मत्सदृशस्येति गमिताकाङ्क्षत्वे हेतुः। तदेवाग्रतमे सर्गे प्रकटयिष्यति। ‘राधामाधाय हृदये तत्याज व्रजसुन्दरीः’ इत्यादिना। अत एव नवः सकलपुमपेक्षया चरितविशेषेण नवोऽन्यादृश इव। ‘सुभाषितेन गीतेन युवतीनां च लीलया। चेतो न भिद्यते यस्य स वै मुक्तोऽथ वा पशुः॥’ इति वचनात्। अथवा नूयते स्तूयत इति नवः। अथवा नवस्तरुणः। तरुणं दृष्ट्वा कामिनीनां कामचेष्टा जायत एव। अथवा तस्मिन्पक्षे गोपीनां निभृतं भावं निरीक्ष्येति व्याख्येयम्। तदा साकूतस्मितेत्यादि चतुर्णामपि पदानां भावविशेषणपक्षे निक्षेपः। मुग्धमनोहरमिति क्रियाविशेषणम्। अत्र विदग्धो नायकः। समुच्चयाशिषावलंकृती। शार्दूलविक्रीडितं वृत्तम्। परिकरोऽलंकारश्च। अत्र यत्सकलकामिनीकामपूरकस्य कामजनकस्य विलासवतीविलासादिभिरगृह्यस्य यन्नवत्वविशेषणेनान्यादृशत्वमुपपादितं तद्विचार्य-
_______________________________________________________________
‘स्तोकोऽल्पे चातके’ इति विश्वः। ‘स्याद्गुच्छकस्तु स्तबकः’ इत्यमरः। ‘लता ज्योतिष्मतीवृक्षशाखावल्लिप्रियङ्गुषु’ इति विश्वः। ’ कासारः सरसी सरः’ इत्यमरः। ‘स्त्रीरत्नेमल्लिकायां च प्रोक्ता शिखरिणी बुधैः’ इति विश्वः॥ ११॥
_____________________________________________________________________________
माणमौचित्यचारुतामाचरति। यदाहुः—‘विशेषणैः समुचितैर्विशेष्यार्थः प्रकाश्यते। गुणाधिकैर्गुणोदारः सुहृद्भिरिव सज्जनः॥’ इति॥ १२॥
‘शृङ्गारोत्तरसत्प्रमेयभणितावुद्गीतगोविन्दके
प्रत्यर्थिप्रभुगर्वपर्वतसुपर्वाधीशशोभाभृता।
श्रीषुम्माणनरेशवंशविशदक्ष्माभृद्वतंसायित-
श्रीमत्कुम्भधराधिपेन विवृतः सर्गे द्वितीयेऽन्वयः॥
तथाच सङ्गीतराजे—
‘गीतौ भैरवरागेण ताले वर्णयतौ यथा।
आभोगान्तस्थितैः पाटैः खरैः पद्याञ्चितस्ततः॥
अक्लेशकेशवादिश्च कुञ्जरस्तिलकाभिधः॥
इति अक्लेशकेशवकुञ्जरतिलकनामा षष्ठः प्रबन्धः॥ ६॥
इति श्रीराजाधिराजहम्मीरवीरवंशकरीरेण श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते
गीतगोविन्दविवरणे अक्लेशकेशवनामा द्वितीयः सर्गः॥ २॥
________________________________________________________________
काव्यं गीत्यनुसारि दुर्लभमथ स्फीतं प्रसादादिभि-
र्लक्ष्मीकान्तविलासवर्णनरसस्तत्रापि लोकोत्तरः।
सर्वxचैतदभूदरण्यरुदितं पद्मावतीवल्लभ-
स्यैतां चेद्रसमञ्जरीं न रचयेच्छ्रीशालिनाथप्रभुः॥
इति श्रीमहामहोपाध्याय श्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां
रसमञ्जर्याख्यायां द्वितीयः सर्गः॥ २॥
तृतीयः सर्गः॥ ३॥
मुग्धमधुसूदनः।
कंसारिरपि संसारवासनाबद्धशृङ्खलाम्।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः॥ १॥
इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणव्रणखिन्नमानसः।
कृतानुतापः स कलिङ्गनन्दिनीतटान्तकुञ्जे विषसाद32 माधवः॥२॥
________________________________________________________________
गेयानुगुणैरधिकैरधिगतं तनुते धातुं बुधसंमतम्।
नत्वा विधिमिह सुरवरनतं कुम्भनरेशोऽलंकृतियुतम्॥
इदानीं राधायाः कृष्णेऽनुरागं निरूप्य कृष्णस्यापि राधायामनुरागं दर्शयन्नाह गौडकृतिरागेण—कंसारीति। कंसारिरपि व्रजसुन्दरीस्तत्याज। न केवलं राधैव कृष्णसक्ता बभूव किंतु कृष्णोऽपि राधासक्तो बभूवेत्यपिशब्दार्थः। किं कृत्वा। राधां हृदये आधायारोप्य। किंभूतां राधाम्। संसारवासनाबन्धे शृङ्खलेव शृङ्खला। अत्र ‘तक्वजोर्ज’ इति पथ्या छन्दः॥ १॥ इदानीं कृष्णस्य विरहावस्थाचेष्टितमाह— इतस्तत इति। स माधवोऽनङ्गबाणव्रणखिन्नमानसः सन् विषसाद विषादं चकार। किं कृत्वा। कलिन्दनन्दिनीतटान्तकुञ्जे इतस्ततस्तां राधामनुसृत्यान्विष्य। किंविशिष्टः। कृतानुतापः पूर्वमेव मया कथं नानुनीतेति कृतपश्चात्तापः। अत्र कुञ्जेष्विति वक्तव्ये बहुष्वपि परिभ्रमन् तदार्तिवशादेकमेवाज्ञासीदित्येकवचनम्।
_________________________________________________________________
राधायाः कृष्णविषयिणीमुत्कठामुक्त्वा संप्रति कृष्णस्यापि तस्यामुत्कण्ठामाह—कंसारिरिति। कृष्णोऽपि व्रजसुन्दरीस्तापात्तत्याज। त्यागे हेतुगर्भविशेषणमाह—राधामिति। राधां हृदय आधायारोप्य। सुन्दरीपदेन बहुवचनेन सौन्दर्यवतीरपि तत्याजेति कथनेन कृष्णस्य राधायामनुरागातिशयो ध्वनितः। कीदृशी राधा। संसारविषयिणी वासना संस्कारस्तस्य बन्धनेन शृङ्खलामिव। अनेनाभिलाषाख्या प्रथमा व्यवस्था। एतल्लक्षणं च दशरूपके—‘अभिलाषः स्पृहा तत्र कामे सर्वाङ्गसुन्दरे। दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसम्॥’ इति। ’ शृङ्खला पुंस्करे वस्त्रबन्धेऽपि निगडेऽपि च’ इति विश्वः॥ १॥ इतस्तत इति। स माधवः कलिन्दनन्दिन्या यमुनायास्तटान्तकुञ्जेतीरप्रान्तलतापिहि- तोदरगृहे निषसाद न्यवसत्। अत्र माधवपदेन मा लक्ष्मीस्तस्या अपि धवः स्वामी यद्विरहव्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम्। किं कृत्य। इतस्ततस्तेषु स्थानेषु तां हृदयनिहितामनुसृत्यानुलक्ष्य। कीदृशः। अनङ्गस्य कामबाणस्य यद्व्रणं क्षतं तेन खिन्नं दुःखितं मानसं यस्य। पुनः कीदृशः। कृतानुतापः कृतः किमिति मया तस्या अद्यावधीरणं कृतमिति पश्चात्तापो येन सः। अनङ्गबाणेत्यत्रा नङ्गपदेनाङ्गरहितस्यातएवालक्षितगतागतस्य कामस्याशेषदुष्टदमनेनापि कृष्णेन निवारणं कर्तुं न शक्यमिति ध्वनितम्।
गुर्जरीरागयतितालाभ्यां गीयते॥ प्र० ७॥
मामियं चलिता विलोक्य हृतं वधूनिचयेन
सापराधतया मयापि न वारितातिभयेन।
हरिहरि हतादरतया गता सा कुपितेव॥ ध्रुवम्॥ ३॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण।
किं धनेन जनेन किं मम33 जीवितेन गृहेण॥ हरिहरि०॥ ४॥
________________________________________________________________
वंशस्थवृत्तम्॥ २॥ उक्तमर्थंगीतेन स्पष्टयति। तत्र पूर्वं ध्रुवपदम्। हरीति। हरिहरीति खेदे। सा राधा कुपितेव गता। कया हतादरतया। हतो विनाशित आदरो बहुमानस्तस्य भावस्तया। इति ध्रुवः॥ अथ पदानि। मामियमिति। मां वधूनिचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः। किंभूता। तादृशी मे मया चलितापि सापराधतया न वारिता न निषिद्धा। इह साकूतम्। तस्यागमने हेतुं जानन्नपि सापराधोऽस्मि। कथमेतस्या अग्रे मयातिभयेन वक्तुं पार्यत इति बुद्ध्या। अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम्। करणे तृतीया। अतिक्रान्तं भयमिति वधूनिचयविशेषणम्। अथवा मामेवं विलोक्य सा चलितापि मया न वारिता। हरिहरि गतेति विषादाभिनयेन योज्यम्॥ ३॥ किमिति। इदानीं मदपराधेन मन्निमित्तमेव सा विषादं भुङ्क्तइति आत्मसमत्वेन तामपि गणयन्नाह। सा किं करिष्यतीति। मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोक्त्या। तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्धोक्त्या। अहमुत्तरं दास्यामीत्याह। किंजनेनेति गोपीजनेन। किं धनेनेति। धनमप्यकिंचित्करं
_________________________________________________________________
अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता। तदुक्तं शृङ्गारतिलके—‘स्वयं संपद्यतः प्राप्य किं कुपात्रस्य सिद्धये। कथं भवेदसौ वश्य इति चिन्ता भवेद्यथा॥ इति॥ २ ॥ कृतानुतापमेव गीतेन कथयति—मामियमिति। गीतस्यास्य गुर्जरी रागः प्रतिमठतालः। गीतार्थस्तु—हरि हरि कष्टं। सा राधा हतादरतया कुपितेव गता। ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आह— मामियमिति। मां वधूनिचयेन गोपवधूसमूहेन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता। विलोक्येत्यव्यवहितपूर्वकाले क्त्वा। तेन गोपवधूवेष्टितं मां दृष्ट्वाव्यवहितकाल एव यतश्चलिता ततो ज्ञायते कुपितेवेति भावः। ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह—सापराधतयेति। मयातिभयेनातिशयितभीत्या सा न निवारिता। भयहेतुमाह—सापराधेति। अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तद्द्युक्ततया॥ ३ ॥ किं करिष्यतीति। सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति। विरहतापस्यात्यर्थे कमुपायं करिष्यतीत्यर्थः। अथ च किं वदिष्यति। किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्यतीत्यर्थः। यद्वा। काकुस्वरे किं वदिष्यति। मया सह कदाचिद्वार्तांकथयिष्यतीत्यर्थः।
चिन्तयामि तदाननं कुटिलभ्रुकोपभरेण।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण॥ हरिहरि० ॥५ ॥
तामहं हृदि संगतामनिशं भृशं रमयामि।
किं वनेऽनुसरामि तामिहकिं वृथा विलपामि॥हरिहरि०॥६॥
___________________________________________________________
कृत्वा जीवितं निन्दति। जीवितफलं किं। सुखमपि त्वदृते नान्यदिति वाक्यशेषः। किंविशिष्टा सा। विरहेण उपलक्षिता। अथवा मम विरहेणाक्रान्ता सा किं वदिष्यतीत्यादि। ममापि तां विना किं धनादिनेति योजनीयम्॥ ४॥ चिन्तयामीति। अहं तदाननं चिन्तयामि। किंभूतमाननम्। कोपभरेणार्थान्मयि कुटिलभ्रु। कुटिले कुश्चिते भ्रुवौ यत्र। किमिव शोणपद्ममिव उपरिभ्रमता भ्रमरेणाकुलम्। अत्र कोपारक्तमुखं पद्मेनोपमीयते। भ्रमरेण कुटिले कोपावेशपरिस्फुरमाणे भ्रुवाविति। अत्र वाक्यार्थोपमालंकारः। तथाच—‘तदाननमधीराक्षमाविद्धं शतदीधिति। भ्रमद्भृङ्गमिवालक्ष्य केसरं भ्राति, पङ्कजम्’ इति॥ ५॥ **तामहमिति।**अहं अनिशमनवरतं हृदि संगतां हृदये मिलितां तां भृशमत्यर्थं रमयामि। इत्युक्त्वा पुनः प्रबुद्ध्याह इष्टशून्यप्रदेशे वृथा किं विलपामि तां वनेऽनुस-
__________________________________________________________
तया विना मम धनेन किम्। न किंचित्प्रयोजनमित्यर्थः। ननु धनं विना परिजनसंग्रहः कथं स्यादित्यत आह।तया विना मम जनेनाश्रितेन परिजनेन किम्। न किमपि प्रयोजनम्। ननु परिजनं विना गोधनरक्षा कथं भविष्यतीत्यत आह। तया विना मम गोधनेन किम्। न किमपि प्रयोजनम्। ननु धनं बिना परिजनादृते च गृहरक्षापि न स्यादित्यत आह। तया विना मम गृहेणापि किम्। अपि तु प्रयोजनं नास्तीत्यर्थः। ननु गृहं विना सांसारिका भोगाः कथं सेत्स्यन्तीत्यत आह। तया विना मम सुखेनापि किम्। स्रक्चन्दनवनितादिजन्येनापि सुखेन किं प्रयोजनमित्यर्थः। इयं च स्मृत्याख्या तृतीयावस्था। तदुक्तं रसार्णवसुधाकरे—‘अर्थानामनुभूतानां देशकालानुवर्तिनाम् \। सातत्येन परामर्शो मानसः स्यादनुस्मृतिः॥ अत्रानुभावविश्वासाद्धीनं कृत्वा विहस्तता। राज्यासनादिविद्वेषश्चेत्याद्याः स्मरकल्पिताः॥ ’ इति॥ ४॥ चिन्तयामीति। अहं तदाननं चिन्तयामि स्मरामि। कीदृशम्। रोषभरेण कोपातिशयेन कुटिलभ्रुकुटिला वक्रा भ्रूर्यत्र तादृशम्। किमिव। उपरि भ्रमता भ्रमरेणाकुलं व्याप्तं शोणपद्ममिव। अत्र रोषारुणे मुखे शोणपद्मसादृश्यं बोध्यम्। वारंवारं वक्रीभवन्त्योर्भ्रूवोश्च भ्रमद्भ्रमरोपमा बोध्या। अनेन गुणकीर्तनाख्या चतुर्थावस्था। तदुक्तम् —‘अङ्गप्रत्यङ्गक्लीलाभिर्वाक्चेष्टाहसितेक्षणैः। न तस्य सदृशः कश्चिदित्यादि गुणकीर्तनम्॥’ इति। ’ शोणः कोकनदच्छविः’ इत्यमरः॥ ५॥ तामहमिति। तामनुसरामि तस्या अनुसरणं करोमि। इह वृथा किं विलपामि किमिति वृथा विलापं करोमि। हृदि संगत हृदये संनिहितामनिशं निरन्तरं भृशमतिशयेन तां रमयामि क्रीडयामि। यद्वा किंशब्दः प्रश्ने। अहं तां हृदि संगतामनिशं
तन्वि खिन्नमसूयया हृदयं तवाकलयामि।
तन्न वेद्मि कुतो गतासि नतेन तेऽनुनयामि॥ हरिहरि०॥७॥
**दृश्यसे पुरतो गतागतमेव मे विदधासि।
किं पुरेव ससंभ्रमं परिरम्भणं न ददासि॥ हरिहरि०॥ ८॥ **
क्षम्यतामपरं कदापि तवेदृशं न करोमि।
देहि सुन्दरि रमणं मम मन्मथेन दुनोमि॥ हरिहरि०॥ ९॥
____________________________________________________________________
रामि॥ ६॥ तन्वीति। हे तन्वि तव हृदयं असूयया खिन्नं खेदयुक्तं भविष्यतीत्याकलयामि। तत्तस्मादहं कुतो गतासीति न वेद्मि। अपितु असूयात एव गतासीति वेद्मि। अतो हेतोर्दर्शनाभावात्। ते तव संबन्धिना नतेन नमस्कारेणानुनयामि। अथवा तव हृदयं असूयया खिन्नम्। तेन कारणेन ते तव हृदयं नानुनयामि। ‘प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः’ इति न्यायापातादिति भावः। अथवा तत्कुतो न वेद्मि। अपि तु वेद्मि। अथवा त्वं गतासि जातासि। तव हृदयं नते नमस्कृतौ न अनुनयामि॥ ७॥ दृश्यस इति। हे तन्वि मे पुरतो गतागतमेव विदधासि यातायातमेव’ करोषीति दृश्यते। अपरं पुरेव ससंभ्रमं यथास्यात्तथा परिरम्भणं न ददासि। विरहिणो हि चित्तानुसंगात्सर्वतस्तामेव पश्यन्ति। तथाचोक्तम्—‘प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य। हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ‘॥ ८॥ क्षम्यतामिति। हे तन्वि भवतु यत्किंचिन्मया अपराद्धं क्षम्यतां तत्। ईदृशमपरमप्रियं तव कदापि न करिष्यामि। हे सुन्दरि, मम दर्शनं देहि। त्वद्विनाहं मन्मथेन
_______________________________________________________________
रमयामि किं वा वने तामनुसरामि। वृथा विलपामीत्यर्थः॥ ६ ॥ तन्वीति। हे तन्वि तव हृदयं असूयया मयि दोषाविष्कारेण खिन्नं खेदयुक्तमाकलयामि पश्यामि। इयं चोद्वेगावस्था। तदुक्तं शृङ्गारतिलके—‘यस्मिन्रम्यमरम्यं च स्यात्प्रकर्षाय किंचन। विद्वेषः प्राणितञ्चेति स उद्वेगः स्मृतो यथा॥’ इति। तन्न वेद्मीति। कुतो गतासि तदहं न वेद्मि। ते तव नतेन प्रणत्यानुनयामि त्वामित्यर्थः। क्वचित्तु नुतेनेति पाठस्तदा ते तव नुतेन स्तुत्यानुनयामि त्वामित्यर्थः। यद्वा। नु इति वितर्के। तेभिलनेव्ययम्(?)। तथा च यं मार्गं लक्षीकृत्य गतासि तं मार्ग लक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि। ते इति संबन्धमात्रविवक्षायां षष्ठी। अनेन विलापावस्था कथिता। तदुक्तं शृङ्गारतिलके—‘बम्भ्रमीति मनो यस्मिन्नत्यौत्सुक्यायितं ततः। वाचः प्रियाश्रया एव स प्रलापः स्मृतो यथा॥’ इति॥ ७॥ इदानीं भावनया प्रत्यक्षीकृतां प्राह—दृश्यस इति। हे सुन्दरि, पुरेव पूर्वमिव ससंभ्रमं सादरं परिरम्भणमालिङ्गनं किमिति न ददासि। पुरतोऽग्रे गतागतं यातायातं विदधासि॥ ८॥ क्षम्यतामिति। हे सुन्दरि, क्षम्यतां ममापराधं क्षमस्व।कदापि तवेदृशं विप्रियं न करिष्यामि। इयं चोन्मादावस्था। तदुक्तं रसार्णवसुधाकरे—
वर्णितं जयदेवकेन हरेरिदं प्रवणेन।
किन्दुबिल्व34समुद्रसंभवरोहिणीरमणेन॥ हरिहरि०॥ १०॥
हृदि बिसलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि॥ ११॥
______________________________________________________________
दुनोमि। इतस्ततस्तामित्यादौ धीरललितो नायकः। परस्परानुरागजनितो विप्रलम्भः शृङ्गारः॥ ९ ॥ वर्णितमिति। इदं पूर्वोक्तं जयदेवेन वर्णितम्। किंभूतेन। हरेः प्रवणेन हरिपरायणेन। पुनः किंभूतेन। ति(कि)न्दुबिल्वं तच्छासनं निवासो वा ग्रामः समुद्र एव तत्संभवरोहिणीरमणेनेव चन्द्रेणेव॥ १०॥ इदानीं स्मरशराहतिजर्जरचेता भ्रान्तः सन् काममपि भ्रान्तं विदन्नाह—हृदीति। हे अनङ्ग, हरभ्रान्त्या प्रियारहिते मयि न प्रहर प्रहारं मा कार्षीः। एभिश्चिह्नैर्हरोऽयमिति चेत्तदप्यन्यथयति। हृद्ययं भुजंगमनायको न। अपि तु बिसलताहारः। बिसलताहार इति रूपकालंकारः। शुभ्रत्वात् हृद्यवस्थानाच्च मृणाले वासुकिभ्रमः। अपिच। कण्ठे इयं कुवलयदलश्रेणी। न प्रसिद्धा गरलद्युतिः। इयमपि विरहातुरस्य मम गरलद्युतिरिव विद्यते। परं यद्भ्रान्त्या मयि प्रहरसि सा प्रसिद्धा ईश्वरसंबन्धिनी न। इदं मलयजरजोऽङ्गतापाच्छुक्लंचन्दनं विद्यते न भस्म। किमु इति वितर्के। सत्यम् क्रुधा कोपेन धावसि। लोकोक्तिः। हरिणीवृत्तम्। ‘प्रकृतं यन्निषिध्यान्यत्सा-
_________________________________________________________________
‘अतस्मिंस्तदिति भ्रान्तिरुन्मादादेव जायते’ इति। पुनः किंचित्संजातविवेकः कथयति। हे सुन्दरि, मम दर्शनं देहि। मन्मथेन कामेनाहं दुनोमि तप्तो भवामि॥ ९॥ वर्णितमिति। जयदेवकेन हरेश्चरितं वर्णितम्। कीदृशेन। प्रणतेन। अर्थाद्धरिमित्यर्थः। कीदृशेन। किन्दुबिल्वो जयदेवकुलवृत्तिग्रामः स एव महत्त्वात्समुद्र इव तत्र संभवो यस्य तादृशेन रोहिणीरमणेन पूर्णचन्द्रेण तस्योन्नतिर्यथा क्रियते तथा तत्कुलस्योन्नतिर्जयदेवेन कृतेति चन्द्रसादृश्यम्। ‘ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ’ इति हारावली॥ १०॥ इदानीं काम एव मे दुःखं प्रयच्छतीति तमेवोपालम्भनेनाह—**हृदीति।**हेऽनङ्ग कन्दर्प, मयि न प्रहर प्रहारं मा कुरु। किम्विति वितर्के। मयि हरभ्रान्त्या महादेवभ्रमात्कुधा क्रोधेन त्वं धावसि इति किमु तर्कयामि। यद्वा उ इति संबोधने। हेऽनङ्ग, हरभ्रान्त्या मयि किमिति धावसि। कीदृशे मयि। प्रियारहिते विरहिते। तथाच तद्विश्लेषादेवाहं संतप्तस्त्वं मृतकरूपस्य मम मारणं किमिति करोषीति भावः। यद्वाहरः सर्वदा प्रियायुक्तोऽहं त्वधुना प्रियाविरहित इति मयि हरभ्रमो न युक्त इति भावः। हरेण त्वच्छरीरं दग्धमतः कामस्य महद्वैरसूचनायानङ्गपदेन संबोधने भ्रमबीजं निरस्यति। अयं बिसलताहारो मृणाललताहार- स्तद्वद्विरद्दजन्यसंतापशान्त्यर्थे धृतः नतु भुजंगमनायकः
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रीडानिर्जितविश्व मूर्च्छितजनाघातेन किं पौरुषम्।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-
श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते॥ १२॥
_____________________________________________________
ध्यतेऽसावपह्नुतिः’ इत्यपह्नुतिरलंकारः। विप्रलम्भशृङ्गारो रसः॥ ११ इदानीं स्मरमुपालभते—पाणाविति। हे क्रीडानिर्जितविश्व काम। पाणौ अमुं चूतसायकं मा कुरु। चापमपि मारोपय मा सज्जं कुरु। यतः क्रीडयैव निर्जितविश्वस्य केयं सामग्री नाम। अथचेत्सामग्री तर्हि कस्योपरीत्याह। मूर्छितजनाघातेन किं पौरुषं कोऽयं पराक्रमः। अथवा कुत्सितं पौरुषं किंपौरुषम्। तर्हि किं क्रियतामित्याह। यदर्थं मां प्रहिणोषि तस्या एव मृगीदृशो मनोऽद्यापि मनागपि न संधुक्षते। अपि तु संधुक्षतां नाम। किंविशिष्टं मनः। प्रेङ्खत्कटाक्षानलज्वालाजर्जरितं। प्रेङ्खन्तो वल्गन्तो ये कटाक्षा अर्थात्सपत्नीनां त एव अनलोऽग्निस्तस्य ज्वालास्ताभिर्जर्जरितम्। अथवा हे मनसिज, तस्या एव मृगीदृशः प्रेङ्खत्कटाक्षानलज्वालाजर्जरितं मनः। अर्थान्ममेवाद्यापि न दीप्यते। अतो मृतमारणं कथं युक्तम्। शार्दूलविक्रीडितं छन्दः। आक्षे-
_____________________________________________________________
सर्पराजो वासुकिः। इयं कण्ठे कुवलयदलानां नीलोत्पलपत्राणां श्रेणिःपक्तिःशैत्याद्धृता न तु सा गरलद्युतिर्विषकान्तिः। इदं सर्वाङ्गे तापशान्त्यर्थंधृतं मलयजरजश्चन्दनधूलिर्न तु भस्म विभूतिः। अङ्गे लिप्तः प्रशिथिलचन्दनोऽपि विरहतापवशाद्धूलीभूत इति रजःपदेन सूचितम्। तथाच बिसलतायां शैत्यदीर्घत्वादिदर्शनाद्वा वासुकिभ्रमात्, नीलोत्पलदलपङ्क्तौ श्यामत्वादिदर्शनादुरगभ्रमात्, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव युक्तो नेति भावः। अयं च भ्रान्तिमानलंकारः सादृश्यात् ‘वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्’ इति तल्लक्षणम्। ‘वितर्के किं किमूत च’ इत्यमरः। ‘संबुद्धौ उपोक्तौ च’ इति विश्वः॥११॥ कुसुमायुधत्वेन प्रसिद्धो यः कामः स इमानेव चूतमञ्जरीरूपान्बाणान्धनुष्यारोप्यमां ताडयिष्यतीति शङ्कया पुनरपि दैन्यं करोति**—पाणाविति।** हे मनसिज मदन, अमुं पुरः स्थितं चूतसायकमाम्रपुष्परूपं बाणं पाणौ हस्ते मा कुरु। चापं धनुर्मा रोपय मौर्वीयुक्तं मा करु। यद्वा चूतसायकं हस्ते मा कुरु। हस्ते चेत्करोषि तदामुं सायकं चापे च मारोपय। मा संधेहीत्यर्थः। अत्र मनसिजपदेन मन्मनसा जातस्य ते मत्संतापकारित्वमनुचितमिति ध्वनितम्। हे क्रीडानिर्जितविश्व क्रीडया लीलया निर्जितं विश्वं जगद्येन तादृश, मूच्छितस्य मूर्च्छां प्राप्तस्य मादृशजनस्याघातेन प्रहारेण तव किं पौरुषम्। अपितु न किमपीत्यर्थः। यद्वाक्षेपे किंशब्दः। मूर्च्छितजनाघातेन तव किंपौरुषम्। कुत्सितं पौरुषमित्यर्थः। मूर्च्छितत्वे हेतुमाह—**तस्या एवेति।**तस्या एव मृगीदृशो हरिणीदृशः प्रेङ्क्षन्तः प्रसर्पन्तो ये कटाक्षास्त एवाशुगा बाणास्तेषां श्रेणिभिःपङ्क्तिभिर्जर्जरितं खण्डितं मनो मनागपि न संधुक्षते न स्वस्थं भवति। तथाच तत्कटाक्षरूपबाणैस्त्वयाहं मूर्च्छितः कृतः संप्रति मयि चूतमञ्जरीरूपसायकप्रहारं मा कुरु। मृतमारणं माचरेति भावः। येन लीलयैव विश्वमपि जितं तस्य ते मूर्च्छितजनेषु प्रहारोयशोहानिकर
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्जितजगन्ति किमर्पितानि॥ १३॥
________________________________________________________________
पोऽलंकारः। अत्र मनसिजशरा मनो विध्यन्ति इति कर्मत्वे विवक्षिते यत्कर्तृत्वमुपन्यस्तं तदौचित्यचमत्कारितामाविष्करोति। यथा ‘सान्वयं शोभते वाक्यमुचितैरेव कारकैः। कुलाभरणमैश्वर्यमौदार्यं चरितैरिव’ इति॥ १२ ॥ इदानीं राधायामेव स्मरशरावलित्वमारोपयन्नाह—भ्रूपल्लवमिति। स्मरेण तस्यां इति अस्त्राण्यर्पितानि। किंभूतानि। निर्जितजगन्ति। निर्जितानि जगन्ति यैस्तानि। किंभूतायां तस्याम्। अनङ्गजयजङ्गमदेवतायाम्। अनङ्गस्य जयाय जङ्गमदेवतेव तस्याम्। इतीति किम्। भ्रूपल्लवं धनुः। अपाङ्गतरङ्गितानि कटाक्षबाणाः। अपाङ्गतरङ्गितशब्देन कटाक्ष उच्यते। तथाचोक्तम्। ‘यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम्। तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते॥’ इति। श्रवणपालिर्गुण इति। अत्रास्त्रशब्देनास्त्रविद्यासाधनस्योपकरणान्युच्यन्ते। भ्रूपल्लवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती॥ यथा—‘मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी नवा। लीलानृत्यं करोतीति रम्यं रूपकरूपकम्॥’ अत्र क्वापि क्वाप्यलंकारद्वयत्रयसद्भावेऽपि संस्टष्टिसंकरनिरूपणं ग्रन्थविस्तरत्रस्तचि-
_____________________________________________________________
इति ध्वनितम्। ‘सायकः शरखङ्गयोः’ इति विश्वः। ‘अथास्त्रियाम्। धनुश्चापौ’ इत्यमरः। किंपौरुषमित्यत्र द्वितीयव्याख्यानपक्षे ‘किमः क्षेपे’ इत्यनेन निन्दायां समासः। ‘आशुगो मारुते बाणे’ इत्यमरः॥ १२॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य तत्र कोऽपराध इत्यत आह—भ्रूपल्लवमिति। किमित्याक्षेपे। तस्यां राधायां स्मरेण कामेनास्त्राण्यर्पितानीति तर्कयामि। नन्वस्त्राणि वीरेण हस्ते स्थापयितुमर्पितानि नत्वन्यत्रेत्यत आह। निर्जितानि जगन्ति यैस्तानि। तथाच तैरेवास्त्रैर्जगत्रयं जित्वा तत्र स्थापितानीति भावः। तर्ह्यन्यत्र किमिति न स्थापितानीत्यत आह—अनङ्गेति। अनङ्गस्य कामस्य जङ्गमदेवतायां गमनशीलदेवतायाम्। तथाच त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि। अतो जातप्रयोजनानि तत्रैव स्थापितानीति भावः। देवतया यदस्त्रं दीयते तत्केनापि प्रतिहन्तुं न शक्यत इत्यपि ध्वनितम्। कानि तान्यस्त्राणीत्यत आह—भ्रूपल्लवमिति। भ्रूपल्लवं तदेव धनुः, अपाङ्गतरङ्गितानि कटाक्षस्य गतागतानि बाणाः, श्रवणपालिःकर्णलताप्रान्त एव गुणो मौवीं, नीलस्निग्धत्वाद्भुवः पल्लवत्वेन निरूपणम्। वक्रत्वाच्च धनुस्त्वेन निरूपणम्। अपाङ्गस्यात्यन्तभेदकत्वाद्बाणत्वेन निरूपणम्। श्रवणपाल्याश्च दीर्घत्वान्मौर्वीत्वेन निरूपणम्। ‘अपाङ्गोऽप्यङ्गहीने स्वान्नेत्रान्ते नीलकेऽपि च’ इति विश्वः। ‘पालिःकर्णलताग्रे
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम्।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्
सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति॥ १४॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-
स्तद्वक्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा।
_______________________________________________________________
त्ततया न क्रियते। तद्गतिस्तु पूर्वपदे दर्शितप्रायेति॥ १३॥ इदानीं ध्यानमिलितां राधां संभावयन्नाह—भ्रूचाप इति। हे तन्वि भ्रूचापे निहित आरोपितः कटाक्ष एव विशिखो बाणो मर्मव्यथां निर्मातु। यतश्चापारोपितबाणस्य मर्मवेधो युक्त एव। अपि च। कबरीभारोऽपि मारोद्यमं मारायोद्यमं करोतु नाम। यतः श्यामात्मा कुटिलश्च। श्यामात्मनामन्तर्मलिनचित्तानां च मारणं स्वभाव एव। अपि च अयं रागवान्बिम्बाधरो मोहं तनुताम्। अस्याप्येवंविधस्य मोहविधाने औचिती। परंतु तव सद्वृत्तः स्तनमण्डलः स मम प्राणैः कथं क्रीडति। इयमस्यानौचिती। यतः सदाचारवतां परप्राणविशसनं न क्वापि दृष्टमिति भावः। अत्र विरोधालंकारः। शार्दूलविक्रीडितं छन्दः॥ १४ ॥ इदानीं वक्रोक्त्या स्वगतत्वेन विरहवामतां वदति—तानीति। हन्त इति खेदे। विषयासङ्गेऽपि मानसं चेत्तस्यां लग्नसमाधि तर्हि
_______________________________________________________________________
स्यात्सक्तावंसप्रभेदयोः’ इति विश्वः॥ १३॥ संप्रति राधाङ्गविलसितान्येव स्मरणरूपाणि मां पीडयन्तीति तस्या एवोपालम्भनं करोमीत्याशयेन काममुपेक्ष्य तां च स्थितामिव ज्ञात्वा राधां संबोध्याह—भ्रूचाप इति। भ्रूचापे भ्रूरूपे धनुषि निहितोऽर्पितो यः कटाक्षविशिखः कटाक्षबाणो मर्मव्यथां मर्मपीडां निर्मातु करोतु। धनुष्यारोपितस्य बाणस्य परमर्मपीडनमेव धर्म इति तदुचितमेव। अथ च तव कुहिलो वक्रः श्याम आत्मा स्वरूपं च यस्यैतादृशः कबरीभारोऽपि ग्रथितवेणीकेशसंचयोऽपि मारोद्यमं मारणायोद्योगं पराक्रमं करोतु। यद्वा मारस्य कामस्योद्यमं करोतु। योऽन्तर्मलिनः कुटिलश्च भवति सोऽन्यमारणाय यतत इत्यपि नानुचितम्। अथ च हे तन्वि, अयं बिम्बाधरो बिम्बफलतुल्योऽधरो मोहं मूर्च्छां तनुतां तनोतु। कीदृशः। रागवान्रक्तताविशिष्टः। इदमपि नानुचितम्। यतो यो रागवान्मात्सर्ययुक्तः स परमोहं करोत्येव। अयं तव सुवृत्तो वर्तुलः स्तनमण्डलःकुचविस्तारो मम प्राणैः कथं किमिति क्रीडति प्राणग्रहणरूपां क्रीडां किमिति करोति। सद्वृत्तस्य सच्चरितस्य परप्राणग्राहित्वमनुचितमिति भावः। विरोधनामायमलंकारः। सद्वृत्तत्वरूपगुणस्य परप्राणग्रहणक्रियया विरोधकथनात्। तदुक्तं काव्यप्रकाशे—‘बिरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः’ इति। ‘विशिखस्तोमरे शरे’ इति विश्वः। ’ श्यामो निन्दितकृष्णयोः’ इति धरणिः। ‘आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु’ इति विश्वः। ‘बिम्बं फले बिम्बिकायाः प्रतिबिम्बेऽर्कमण्डले’ इति च। ‘रागोऽनुरक्तमात्सयें’ इति च। ‘वृत्ते तु वर्तुलं वृत्तम्’ इति शाश्वतः। ‘कबरी केशवेश’ इत्यमरः। ‘मारो मृतौ विषेऽनङ्गे’ इति विश्वः॥ १४॥ ननु तस्यापि नाप-
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते॥ १५ ॥
तिर्यक्कण्ठ35विलोलमौलितरलोत्तंसस्य वंशोच्चर-
द्दीप्तिस्थान36कृतावधानललनालक्षैर्नसंलक्षिताः।
______________________________________________________
विरहव्याधिः कथं वर्धते। समाधौ व्याधेरनुद्भवात्। प्रियासङ्गेविरहानुपपत्तेश्च। इतीति किम्। तानि स्पर्शसुखानि सन्ति। अप्रत्यक्षायामपि तस्यां ध्यानवशादनुभूयमानानीव। एवं सर्वत्र। अपि च तरलाश्चञ्चलाः स्निग्धाः प्रेमार्द्रा दृशोर्विभ्रमा विलासास्त एव। वक्राम्बुजसौरभं तदेव। अपि च सुधास्यन्द्यमृतस्रावी गिरां वक्रिमा वैदग्ध्यविशेषः स एव। अपि च बिम्बाधरमाधुरी बिम्बाधरसौकुमार्यं तदेव। यत्पूर्वानुभूतं तदेवेति विषयलाभेऽपि विरहो वर्धत इति तस्य वामता। शार्दूलविक्रीडितं छन्दः। समुच्चयोऽलंकारः। रसादि प्रसिद्धम्॥ १५॥ इदानीं सर्गार्थसंवरणव्याजेनाशिषमाशास्ते—तिर्यक्कण्ठेति। मधुसूदनस्य कटाक्षोर्मयो वो युष्मभ्यं क्षेमं ददतु। ऊर्मयो वेगा लेखा वा। कटाक्षाणामूर्मयः कटाक्षोर्मयः।स’ऊर्मिः पीडालवोत्कण्ठाभङ्गिप्राकाश्यवीचिषु। वस्त्रसङ्कोचलेखायाम्’ इति। किंलक्षणाः। राधामुखेन्दौ प्रेम्णा कन्दलिता उपरागं गमिताः। ‘कन्दलं तु नवाङ्कुरे। कलध्वनावुपरागे च’ इति। किंविशिष्टे मुखेन्दौ। संमुग्धे मधुरे। सम्यक् मुग्धं संमुग्धं संमुग्धं च तन्मधुरं च तत्तस्मिन्। रम्ये नवप्रिये। ‘मुग्धं मूर्खे तथा रम्ये’ इति। ‘मधुरस्तु प्रिये स्वादौ’ इति। पुनः
_____________________________________________________________
राधो न वा स्मरस्य, किंतु तदङ्गस्पर्शादिविषयालाभाच्चालं त्वच्चेतस्त्वां दुःखाकरोतीति भावनया पुरःस्थितां मत्वाह—**तानीति।**स्पर्शसुखानि तदङ्गस्पर्शजन्यानि सुखािनि इदानीमनुभूयमानानि तान्येव पूर्वानुभूतान्येव। एतेन त्वगिन्द्रियविषयलाभः कथितः। दृशोर्नेत्रयोस्तरलाश्चञ्चलाः स्निग्धाः स्नेहगर्भा विभ्रमा विलासास्त एव। अनेन चक्षुर्विषयलाभ उक्तः। तस्या वक्त्राम्बुजसौरभं मुखपद्मसौरभं तदेव। अनेन घ्राणस्य विषयप्राप्तिरुक्ता। गिरां तद्वचसां सुधास्यन्दी सुधाममृतं स्यन्दते स्रवतीत्येवंशीलो वक्रिमा वक्रत्वमिदानीं श्रोत्रेण ग्राह्यमाणः स एव पूर्वानुभूत एव। अनेन श्रोत्रेन्द्रियविषयसान्निध्यमुक्तम्। बिम्बाधरमाधुरी तस्या बिम्बफलप्राययोरधरवोरोष्ठयोर्माधुरी मधुरताधुना मयास्वाद्यमानैव पूर्वानुभूतैव। अनेन रसनेन्द्रियस्य विषयलाभ उक्तः। इत्येवंप्रकारेण विषयासङ्गेऽपि स्वस्वविषयसंबन्धेऽपि मानसं यत्तस्यां राधायां लग्नसमाधि तदेकाग्रं यदि। हन्तेति खेदे। तदा विरहव्याधिः कथं वर्धते। अपिशब्दो विरोधाभासालंकारसूचनार्थः। बाह्येन्द्रियविषयासङ्गे समाधेरसंभवात्। बाह्येन्द्रियवृत्तिनिरोधे सति मनस एकाग्रताया एव समाधिशब्दार्थत्वात्। तथाच तत्तदिन्द्रियाणां स्वस्वाभिमतविषयालाभे एव विरहः संभवति। मम च तत्तदिन्द्रियाणां विषयविच्छेदस्याभावान्मनसस्तश्चिन्तनैकपरत्वात्तया सह विश्लेष एव नास्तीति कथं विरहजन्यव्याधिसंभव इति भावः। ‘गन्धरूपरसस्पर्शशब्दाश्च विषया अमी’ इत्यमरः॥ १५ ॥
**संमुग्धे मधुसूदनस्य मधुरेराधामुखेन्दौसुधा37-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः॥ १६॥ **
**इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः॥ ३॥ **
__________________________________________________________
किंभूते। सुधासारे सुधादीनां सारे। वा सुधायाः सारे। पुनः किंभूताः। वंशोच्चरद्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः। वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं तत्र कृतमवधानं याभिस्तास्तथा ताश्च ता ललनाश्च तासां लक्षाणि तैः। चतुर्ष्वपि स्वस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव। तत्र दत्तावधानत्वात् वल्गुस्वने प्रियकटाक्षादपि प्रियत्वादित्यर्थः। किंभूतस्य मधुसूदनस्य। तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य। तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः। विलोलश्चासौ मौलिश्च। विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा। तिर्यक्कण्ठश्चासौ विलोलमौलितरलोत्तंसश्च स तस्य। अत्र मौलिशब्दस्य शिरः किरीटयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे पर्यवसानम्। शीर्ष्णिअकम्पिते किरीटकम्पनं वैचित्र्यायेति। शार्दूलविक्रीडितं वृत्तम्। रूपकमलंकारः॥ १६॥
रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः।
आभोगान्ते तथा पाटस्वरैः पद्यगणाञ्चितः॥
शृङ्गाररससंपूर्णकृष्णकेलिविराजितः।
मुग्धमधुसूदनाख्यो हंसक्रीडननामतः॥
श्रीगोविन्दपदारविन्दमकरन्दास्वादचञ्चद्द्विरे-
फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना।
श्रीमत्कुम्भनृपेण क्लृप्तविवृतौ श्रीगीतगोविन्दके
सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः॥
इति मुग्धमधुसूदनहंसक्रीडननामा सप्तमः प्रबन्धः॥ ७॥
इति श्रीगुर्जरधरित्रीपरिवृढपराजयप्रसरत्प्रतापशोषिताशेषयवनपल्वलेन
राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्दविवरणे
मुग्धमधुसूदनो नाम तृतीयः सर्गः॥ ३॥
_______________________________________________________________
अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-
ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतर्कोक्तिषु।
मच्चेतो मुरवैरिसद्गुणसुधासिन्धाविहानुक्षणं
सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः॥ ३॥
चतुर्थः सर्गः ४
स्निग्धमधुसूदनः।
**यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम्।
माह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी॥ १॥ **
**कर्णाटरागैकतालीतालाभ्यां गीयते। प्र०॥ ८॥ **
**निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम्।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम्॥ **
माधव मनसिजविशिखभयादिव भावनया त्वयि लीना।
सा विरहे तव दीना॥ ध्रुवम्॥ २॥
_____________________________________________________________
मधुमथनं हृदि कृत्वा परं जयदेवीये मातौ वरं तनुते।
धातुं श्रुतिसुखकरं कुम्भो नृपशतवन्द्यश्चिरम्॥
इदानीं तयोः पृथक्कामावस्थां निरूप्य संयोजयितुमिच्छुर्दूतीयोगं निरूपयति—यमुनातीरवानीरेति। राधिकासखी माधवं प्राह। किंविशिष्टं माधवम्। प्रेमभरेण स्नेहोद्रेकेणोद्भ्रान्तमुद्विग्नचित्तम्। पुनः किंभूतम्। यमुनातीरस्थे वानीरनिकुञ्जे वेतसनिकुञ्जे मन्दं निरुत्साहं यथा स्यात्तथा आस्थितमासीनम्। अथवा अमन्दमिति वचनविशेषणम्। अतिशयव्याकुलां राधां दृष्ट्वा अमन्दं सवेगमाह। पथ्यावक्त्रंछन्दः। ‘युजोर्जेन स’ इति। पूर्वोक्तमेव स्पष्टयति। अत्र गीते विरहोत्कण्ठिता नायिका वर्णनीया ‘नायिका लक्षणैर्युक्ता गीतकाव्येषु दर्शिता। एकैव नायिका वापि हरमूर्तिरिवाष्टधा। वाससज्जा समुत्कण्ठा स्वाधीनभर्तृका तथा। कलहान्तरिता वापि विप्रलब्धाभिसारिका। खण्डिता प्रोषिता चैव नायिकाश्चाष्ट संमताः। तत्र समुत्कण्ठालक्षणं भरते—‘यस्याः समुचितेऽप्यह्निप्रवासी नैति वल्लभः। सा स्मरानलसंतप्ता विरहोत्कण्ठिता मता’॥ १॥ निन्दतीति। पूर्वंध्रुवपदं व्याक्रियते—सा विरहे इति। हे माधव, सा राधा भावनया त्वयि लीना त्वद्ध्यानेन त्वन्मयत्वं प्राप्ता इति बुद्ध्या त्वयि लीनेति। त्वामन्तरा स्थिता। उत्प्रेक्षते।
__________________________________________________________________
पूर्वसर्गे कृष्णस्य विरहावस्था वर्णिता। अत्र तु राधायास्तापमाह—यमुनेति। राधिकायाः सखी माधवं कृष्णं वक्ष्यमाणमुवाच। राधिकेत्यत्रानुकम्पायां कः। कीदृशं कृष्णम्। यमुनातीरवानीरनिकुञ्जे वेत्रलताच्छन्नप्रदेशे मन्दं स्वैरमास्थितमासीनम्। तत्र हेतुगर्भविशेषणमाह—प्रेमेति। प्रेमभरण राधिकाविषयस्नेहाधिक्येनोद्भ्रान्तमुद्विग्नम्। तथा च प्रेमभरेण ध्यानपरम्परया तांसाक्षात्कृत्य तदन्वेषणं विहाय लतागृहस्थितमिति भावः। ‘अथ वेतसे। रथाभ्रपुष्पविदुलवेत्रवानीरवञ्जुलाः’ इत्यमरः। ’ मन्दः खले मन्दगते मूर्खे स्वैरिणि रोगिणि’ इति विश्वः॥ १॥ निन्दतीति। गीतस्यास्य कानडरागः एकतालीतालश्च। गीतार्थस्तु—हे माधव, सा राधा तव विरहे त्वद्विश्लेषे चन्दनं
**अविरलनिपतितमदनशरादिव भवदवनाय विशालम्।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम्॥सा वि० ३ **
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम्।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम्॥सा वि०४
______________________________________________________________________
कामशरमीत्येव। यथा त्वामन्तरा स्थितायां ते कामशरास्त्वय्येव पतन्ति न तस्यामिति बुद्धयेति भावः। किंविशिष्टा सा। तव विरहे सति दीना दैन्यमाप्ता। इति ध्रुवः॥ अत्रोत्प्रेक्षालंकारः। किं किं करोति तत्कर्माह। चन्दनं निन्दति चन्दनस्य निन्दां करोति। स्मराह्लादकत्वाद्विपक्षपक्षमाश्रितमिवाभातीति। तत एव इन्दुकिरणमनु खेदं विन्दति लभते। कथम्। अधीरं यथा भवति तथा। अधीरमिति चन्दनविशेषणं वा। अधिकं ईरयति प्रेरयति कामशरानिति निन्दार्थः। अपि च। मलयानां व्यालनिवासानांसमीरं गरलमिव कलयति। केन हेतुना। व्यालनिलयमिलनेन व्यालनिलयानां ब्यालनिवासानां चन्दनानां मिलनेन सङ्गात्। अत्र रूपकोत्प्रेक्षाविरोधालंकाराः॥ २ ॥ ध्यानादेकतामापन्नत्वं प्रकटयति—अविरलेति। सा सजलनलिनीदलजालं स्वहृदयमर्मणि वर्म करोति। किंभूतं तत्। विशालम्। उत्प्रेक्षते। अविरलनिपतितमदनशराद्भवदवनायेव। अविरलं निपतितं निपातो येषां ते च ते मदनशराश्च। जातावेकवद्भावादेकवचनम्। त्वय्यासक्कतया त्वयि मृतेऽहमेव मृतेति हृदयमर्मत्वं त्वय्येवं विधाय भवदवनायेति युक्तम्। स्वहृदयमर्मणि भवदवनाय भवद्रक्षणाय सजलनलिनीदलजालं पिधानमिव करोति हृदयान्मा निरगादिति बुद्धयेति युक्तिलेशः। उत्प्रेक्षालंकारः॥३॥ कुसुमेति। सा कुसुमशयनीयं कुसुमशय्यां करोति। किंभूतं कुसुमशय-
__________________________________________________________
निन्दति। अथ च इन्दुकिरणमनुलक्षीकृत्याधीरमल्पं खेदं दुःखं विन्दति प्राप्नोति। मलयसमीरजं मलयपर्वतसंबन्धिनं वातं व्यालनिलयमिलनेन व्यालानां सर्पाणां निलयो निवासश्चन्दनवृक्षस्तस्य मिलनेन संसर्गेण गरलमिव विषमिव कलयति मन्यते। चन्दनवृक्षस्थितैः सर्पः पीतोद्गीर्णाः। एतेन मलयजवायवोऽत एव विषमयाः कथमन्यथा शरीरसंपर्कादेव मूर्च्छां मे जनयन्तीति मन्यत इति भावः। कुतस्तथा मन्यत इत्यतो हेतुगर्भविशेषणमाह—दीनेति। दीना दुःखिता। तथा च दुःखितस्य सुखहेतुरपि दुःखायैव भवतीति भावः। पुनः कीदृशी। भावनया ध्यानेन त्वयि लीना मग्ना। कस्मादिव। मनसिजस्य कामस्य ये विशिखा बाणास्तद्भयादिव। ‘व्यालो भुजङ्गमे प्रोक्तः श्वापदे दुष्टदन्तिनि’ इति विश्वः। ‘गरलं तु विषे माने गरले तृणपूरके’ इति च॥ २ ॥अविरलेति। सा स्वहृदयरूपमर्मस्थाने विशालं सजलनलिनीदलजालं जलसहितं कमलिनीपत्रसमूहं नर्म कवचं करोति। किमर्थमिव। अविरलं यथा स्यादेवं निपतितो यो मदनशरः कामबाणस्तस्माद्भवदवनाय भवतो रक्षणायैव। तस्या हृदये त्वं सर्वदा तिष्ठसि अतोऽविरतनिपतद्भिर्मदनशरैस्ते पीडा मा भूदिति पद्मिनीपत्रैस्ते सन्नाहमिव सा करोतीति भावः। केचित्तु—कीदृशं वर्म। अविरलनिपतितमदनशरादवनाय स्वरक्षणाय भवदिव संपद्यमानमिवेति व्याकुर्वन्ति। ‘अवनं रक्षणे प्रीतौ’ इति विश्वः॥ ३ ॥ कुसुमेति। सा कुसु-
वहति च चलित38विलोचनजलभरमाननकमलमुदारम्।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम्॥ सा वि० ५
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम्।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम्। सा वि० ६
_________________________________________________________
नीयम्। अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम्। किमिव। कुसुमविशिखशरतल्पं व्रतमिव। किमर्थम्। तव परिरम्भसुखाय। अन्योऽपि सुखैषी व्रतमाचरति दुर्लभभवदाश्लेषावाप्त्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः अत्रोत्प्रेक्षालंकारः॥ ४॥ वहतीति। सा आननकमलं वहति। किंभूतम्। चलित ‘विलोचनजलभरम्। चलितः संभक्तः विलोचनेन जलभरो यत्र। वा चलिते संभते विलोचने जलभरेण यत्र। अथवा चलितविलोचन एव जलभरो मेघो यत्रेति पाठः। किंविशिष्टं आननकमलम्। उदारं मनोहरम्। कमिव। विधुमिव। किंभूतं विधुम्। विकटा विकराल विधुतुददन्तास्तैर्दलनेन पीडनेन गलितामृतधारा यस्मिन्। अनेन भवद्विरहेणानवरतया रुदत्या मुखमिन्दुकान्तिं बिभर्तीत्याशयः। असितवर्णमभूदित्यर्थः। अत्रोपमालंकार॥ ५ ॥ अपि च। विलिखतीति। हे कृष्ण, सा मत्सखी रहसि एकान्ते कुरङ्गमदेन भवन्तं विलिखति। किंभूतं भवन्तम्। असमशरभूतं कुसुमशरतामापन्नम् त्वामेव दुर्लभत्वात् दाहकत्वेन कुसुमशरोऽयमिति बुद्धया। किं कृत्वा विलिखिति
______________________________________________________________
मशयनीयं पुष्पशय्यां करोति रचयति। कीदृशम्। अनल्पविलासकलायां बहुतरक्रीडाकलायां कमनीयं काङ्क्षणीयम्। दैवस्य गतिं ज्ञातुं शक्यते। को वेदाकस्मादेव भगवानागच्छतीत्याशयेन कुसुमशय्याख्यत्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः। किमिदं करोति। कुसुमविशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्याः तत्र तत्स्वरूपं व्रतमिव। तव परिरम्भसुखाय तवालिङ्गनजन्यसुखप्राप्तये करोति। ‘तल्पं च शयनीये स्यात्तुल्यवृन्दकलत्रयोः’ इति विश्वः। एतैस्त्रिभिः पदैरुद्वेगाख्या प्रपञ्चावस्था कथिता। तल्लक्षणं प्रागेवोक्तम्॥४॥ वहतीति। सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति धारयति। कीदृशम्। वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जलधरौ मेघौ यत्र तादृशम्। अत्र निरन्तराश्रुवर्षित्वेन नेत्रयोर्जलधरत्वेन निरूपणम्। कमिव विधुमिव। कीदृशं विधुम्। विकटाः कराला विशाला वा ये विधुन्तुदस्य राहोर्दन्तास्तैर्दलनं खण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम्। अत्र मुखस्य विधुना नेत्रजलस्य वामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या। ‘विकटः सुन्दरे प्रोक्तो विशालविकरालयोः’ इति विश्वः। ‘तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः’ इत्यमरः। इयं चोन्मादाख्या सप्तमावस्था। तदुक्तं शृङ्गारतिलके—‘श्वासः प्रणोदनोत्कम्पवसुधाश्लेषणैरपि। व्यापारो जायते यत्र स उन्मादः स्मृतो यथा॥’ इति॥ ५॥ किं च विलिखतीति। रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति। कीदृशम्। असमशरभूतं कामस्वरूपिणं तवकरे नवचूतं शरं निधाय तवाधः आसनस्थाने मकरं निधाय
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम्।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम्। सा वि०७
**प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम्।
त्वयि विमुखे मयि सपदि सुधानिधिरपितनुते तनुदाहम्। सा वि०८ **
_____________________________________________________
करेनवचूतशरं विधाय। अत्र चूतपुष्पधारणेन पूजोपयुक्ता। अनन्तरं प्रणामउचित एव। पीडाकरे कामे स्वरक्षार्थमर्चनप्रणामयोरपि युक्तत्वमेव। अयं च विरहिणीव्यापार उक्तः। तदुक्तं भरते—‘देवतापूजनं कुर्याद्दद्याद्बलिभुजे बलिम्।लिखेत्कान्तप्रतिकृतिं पाठयेच्छुकसारिकाः। गणयेच्चावधिदिनं गीतं गायेत्तदङ्कितम्। ‘एवंविधविनोदेन नयेत्कालं वियोगिनी’॥ च पुनः अधः वाहनदेशे मकरं विनिधाय। एवं साङ्गोपाङ्गकामरूपं भवन्तं विधाय मा दहेति प्रणमति। अत्र लिखित्वा प्रणमतीति वक्तव्ये विरहिणो हि कृत्याकृत्यज्ञा न भवन्तीति पौनःपुन्येन यत्र यत्र गच्छन्तीति द्योतनार्थम्। अत्रोपमालंकारः॥ ६॥ अपि च। ध्यानलयेनेति। हे कृष्ण, सा मत्सखी भवन्तं विलिखति। किंविशिष्टं भवन्तम्। अतीव दुरापं दूतीप्रेषणादिना दुरापं दुर्लभम्। किं कृत्वा विलिखति। ध्यानलयेन ध्यानैकाग्रतयापुरोऽग्रे परिकल्प्य। लिखित्वा च दृष्टो मयेति हसति। आश्लेषादिकं न करोतीति विषीदति। तन्न कुरुतां नाम। प्रेम्णा दृष्टिमपि न प्रयच्छतीति रोदिति। दृष्टायामपि नास्यसन्तोष इति चञ्चति स्थानात्स्थानान्तरं गच्छति। पुनरागत्य दृष्टश्चेत्सर्वमेव भवेिष्यतीत्याशयेन तापं मुञ्चति इति। अत्र दीपकमलंकारः॥ ७॥ प्रतिपदमिदेति। हे माधव, सा मत्सखी प्रतिपदं प्रतिचरणन्यासं प्रतिस्थानं वा इदमेव
_____________________________________________________________
धृत्वा प्रणमति। कुसुमशरो मकरवाहनस्त्वमेवासीत्यनेन चूतरूपपुष्पशरेण किमिति मां संतापयसीति प्रणम्य त्वां याचत इति भावः॥ ’ मृगनाभिर्मृगमदः कस्तूरीगन्धकेशरे ” इति हारावलिः॥ ६ ॥ध्यानेति। ध्यानं चिन्तनं तत्र यो लयस्तत्परत्वं तेनातीवातिशयेन दुरापं दुःखेन प्राप्यं भवन्तं पुरोऽग्रे परिकल्प्य सा राधा विलपति। शठ, इयत्कालं याभिः सह क्रीडां कृतवानसि तत्रैव गच्छेत्याद्युक्त्वा रोदिति। भाववशादा- गतोऽप्यतिनिर्भर्त्सनात्को वेद पुनर्यातीत्यनुरागप्रकटनाय हसति। पश्चात्पुरःस्थितोऽप्ययं मामालिङ्गनादिना न संभाषयतीति विषीदति विषादं प्राप्नोति। पुनः कथमयं वश्यः स्यादिति विचार्य रोदिति। यतो नायिकानां नायकस्य पुरतो रोदनं परमवशीकरणे जायत इति। तदुक्तम्–रुदितमुदितमात्रं योषितां विग्रहेषु’ इति। पश्चाद्रोदने तदौदासीन्यमालक्ष्य गच्छन्ती मामयमनुनेष्यतीत्यभिप्रायेण चञ्चति स्थानान्तरं गच्छति। पश्चाद्ध्यानेनैव तत्सङ्गपरिकल्पनया तापं मुञ्चति। किलकिञ्चिताख्यो वायं हावः। तदुक्तं रूपके— ‘क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम्’ इति। इयमप्युन्मादाख्यावस्था अलङ्कारश्चेह दीपकमिति। तदुक्तम्—‘सैव क्रियासु बह्वीषु कारकश्चेति दीपकम् इति। अस्यार्थः—बह्वीषु क्रियासु कारकस्य सद्वृत्तिरेव दीपकमिति॥ ७ ॥ प्रतिपदमिति। पदमितस्ततश्चलन्ती पदं पदं प्रतिपदं निगदति। हे माधव, तव चरणेऽहं पतिता
**श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम्।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ सा वि० ॥९॥ **
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि39 श्वसितेन दावदहनज्वालाकलापायते।
_______________________________________________________________
निगदति। अत्रापिरेवार्थे। इदमिति किम्। अहं तव चरणे निपतिता। सपदि मयि विषये त्वयि विमुखे सति सुधानिधिरपि सुधानिधानमपि तनुदाहं शरीरदाहं तनुते। वा सुधानिधिश्चन्द्रोऽप्यतनुदाहं स्मरतापं तनोति। अतनु यथा स्यादिति च। अत्रातिशयोक्तिरलंकारः ॥ ८ ॥ श्रीजयदेवेति। हे वैष्णवाः, इदं श्रीजयदेवभणितं यदि मनसाधिकं नटनीयमभिनेतव्यम्। नटशब्देनात्र नाट्यस्याभिनयप्राधान्यादभिनयो विवक्षितः। अथवा नटनीयमित्याखादनीयम्। रसनीयमिति यावत्। ‘नाट्यशब्दो रसे मुख्यः’ इति भारतीये। किंभूतमिदम्। सखीमधिकृत्य वर्तमानम्। तर्हि हरिविरहाकुलबल्लवयुवत्या राधायाः सख्या वचनं पठनीयम्। जयदेवभणितिष्विदमेव सारमित्यर्थः॥ ९ ॥ ‘प्रतिमण्ठनतालेन रागे देशाङ्कसंज्ञिते। पदात्तुर्याक्षरैर्युक्तो पदात्संगमतस्तथा॥ आकारोपचितालापगमकाकुलविग्रहः। आभोगान्तेनकैः पाटैः प्रचुरैरतिपेशलः॥ हरिवल्लभपूर्वोऽयमशोकपल्लवः स्मृतः ॥ इति हरिवल्लभअशोकपल्लवनामाष्टमः प्रबन्धः॥ ८ ॥ इदानीं किं बहुना।मत्सख्यास्त्वदृते त्वयि विपरीते सर्वमेव विपरीतमित्याह—आवास इति। हे माधव, हन्त इति खेदे। सा मत्सखी त्वद्विरहेण हरिणीरूपायते मृगीरूपमिवाचरति। स्वभावतो विरहेण पाण्डुवर्णंभवत्येव। तत्तथाविधं रूपमधिकृत्य हरिणीरूपेणोपमीयत इत्युक्ते कथमिति प्रश्ने हरिणीविशेषणेनाह। आवासो विपिनायते। हरिण्यः किल वने वसन्ति। तस्या मे सख्या आवासो विपिनायते।
______________________________________________________________
स्त्वयि विमुखे पराङ्मुखे सति सुधानिधिरमृतनिधिश्चन्द्रोऽपि तनुदाहं मच्छरीरसंतापं तनुते विस्तारयति। त्वं माया लक्ष्म्या धवः स्वामी। चन्द्रस्य समुद्रोत्पत्तित्वालक्ष्म्याः सहोदर इति। त्वयि निकटस्थिते सति सपत्न्या अपि मे किमपि न कर्तुं शक्नोति। त्वयि प्रतिकूले च सति स्वभगिनीसापत्न्यं मयि स्मरन्सुधानिधिरपि मे तनुदाहं तनुते इति माधवपदेन ध्वनितम्। सुधानिधेस्तापकारित्वं विरुद्धमिति विरुद्धनामायमलंकारः ॥ ८ ॥ श्रीजयदेवेति। जयदेवभणितं जयदेवकवित्वमतिशयितं यदि मनसा नटनीयं नर्तितव्यं तदा इदं हरिविरहेणाकुला व्याकुला या बल्लवयुवतिस्तया सखी दूतीत्वेन प्रेषिता तस्या वचनं पठनीयम्। इयं विरहोत्कण्ठिता नायिका। तल्लक्षणं तु प्रागेवोक्तम् ॥ ९ ॥ सा त्वां विना कुत्रापि न निर्वृतिं लभत इत्यत आह—आवास इति। तस्यास्त्वद्विरहेणावासो मन्दिरं विपिनायतेऽरण्यमिवाचरति। यदा त्वद्विश्लेषदुःखासहिष्णुतयाजीवितमपि त्यक्तुं प्रवृत्ता भवति तदा सखीभिर्निवार्यत इति। स्वच्छन्दव्यवहारप्रतिबन्धकतया जालवदाचरतीति भावः। अथ तापो विरहजनितस्तापो निःश्वसितेन निश्वासेन दावदहनज्वालाया दावाग्निशिखाया यः कलापः समूहः स इवाचरति। अपरोऽपि दावा-
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम्॥ १०॥
**देशाख्यरागैकतालीतालाभ्यां गीयते। प्र०॥ ९॥ **
**स्तनविनिहितमपि हारमुदारम्।
सा मनुते कृशतनुरिव भारम्।
राधिका तव विरहे केशव॥ ध्रुवम्॥ १॥ **
_____________________________________________________________
अत्रावासशब्देन निलय उच्यते। प्रियसखीनां माला श्रेणिः जालायते। इतस्ततो गमनाय तद्रोधकत्वात्। वा प्रियसखीदत्ता मालापि जालायते। हरिणीबन्धनार्थंजालं क्षिप्यते तद्वदाचरति। अपि च। तापोऽपि देहतापोऽपि श्वसितेन निःश्वसितेन दावाग्निज्वालावलीवाचरति। एवं तस्या हरिणीत्वं निरूप्य खेदमभिनयन्त्याह। हा इति कष्टे। सा मत्सखी कथं वर्तते। यतः कामोऽपि शार्दूलविक्रीडितं विरचयन् यमायते यम इवाचरति। शार्दूलः किल हरिणीं हन्तीत्युक्तिः अत्र च हरिणीवन्मत्सख्यास्त्वयि दृढानुरागोऽस्ति। निःस्नेहे स्नेहवत्तया पशुरूपत्वेन हरिणीरूपमौचितीमावहति। निःस्नेहेऽस्नेहवति सैवेत्यप्यवधारणार्थः। वृत्तमपि शार्दूलविक्रीडितम्। अत्र लुप्तोपमा। विरोधाभासश्चालंकारः॥ १०॥ इदानीं राधासखी स्वसखीविरहचेष्टितं देवे विनिवेदयति। पूर्वंध्रुवपदं व्याक्रियते। राधिका इति। हे केशव, राधिका तव विरहे वर्तते। अनुकम्प्या राधा राधिका। तस्या अनुकम्पां विधेहीत्यनुकम्पार्थेन द्योत्यते। इति ध्रुवः॥ विरहे वर्तमाना राधा किं (किं) करोतीत्यपेक्षायां पदानामारम्भः। स्तनविनिहितमिति। हे केशव, सा कृशतनुः स्तनविनिहितमप्युदारं मनोहरं हारं भारमिव मनुते। विरहाधिक्या-
_______________________________________________________________
ग्निर्वायुना प्रचण्डो भवतीति ध्वनिः। सापि हरिणीरूपायते हरिणीवदाचरति। हा कष्टम्। कथम्। कन्दर्पोऽपि कामोऽपि परानन्दजनकोऽपि त्वद्विरहे यमायते कृतान्त इवाचरति। किं कुर्वन्। शार्दूलस्य व्याघ्रस्य विक्रीडितं क्रीडां कुर्बन्। यथा हरिणी समन्ततः प्रदीप्तदावाग्निज्वालयोद्विग्ना व्याघ्रेण त्रसिता अग्रे व्याधजालं विततं पशन्ती दशदिशं चकितं विलोकमाना क्वापि न निर्वृतिं लभते तथेयमपि व्याघ्ररूपेण कामेन त्रासिता सखीष्वावासेषु क्वापि निर्वृतिं न लभते इति भावः। शार्दूलविक्रीडितं छन्द इत्यपि ध्वनितम्। अत्र प्रथमपादे उद्वेगाख्यावस्था कथिता। तल्लक्षणं प्राक्। रोषे चाष्टमी \। व्याध्यवस्था कथिता। तदुक्तम्—‘अभीष्टसंगमाभावाद्व्याधिः संतापलक्षणः। अत्र संतापनिःश्वासौ शीतवस्तुनिषेवणम्॥ नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च॥’ इति। “शार्दूलो राक्षसान्तरे। व्याघ्रे च पशुभेदे च’ इति विश्वः॥ १०॥ पुनरपि व्याधिरूपामष्टमीमवस्थां संप्राप्य तां च गीतेन कथयति—स्तनेति। गीतस्यास्य देशाख्यरागः। रूपकतालः। गीतार्थस्तु—हे केशव, तव विरहे सा राधिका अनुकम्प्या राधा स्तनविनिहितमपि स्तनयोरुपरि हठात्सखीजनैर्धृतमप्युदारमुत्कृष्टं हारमतिभारं मनुते।
सरसमसृणमपि मलयजपङ्कम्।
पश्यति विषमिव वपुषि सशङ्कम्। राधिका ०॥ २॥
**श्वसितपवनमनुपमपरिणाहम्।
मदनदहनमिव वहति सदाहम्। राधिका०॥ ३॥ **
**दिशि दिशि किरति सजलकणजालम्।
नयननलिनमिव विगलितनालम्। राधिका ०॥ ४॥ **
त्यजति न पाणितलेन कपोलम्।
बालशशिनमिव सायमलोलम्। राधिका०॥ ५॥
______________________________________________________________`
त्कृशतनोर्हारोऽपि भारोपमो भवति॥ १॥ अपि च। सरसेति। सा मत्सखी वपुषि वर्तमानं मलयजपङ्कं सशङ्कं यथा स्यात्तथा विषमिव पश्यति। किंविधम्। सरसमसृणमपि सरसं च तन्मसृणं च सरसमसृणं द्रवरूपात्स्निग्धकोमलमपि॥ २॥ अपि च। श्वसितेति। सा मत्सखी श्वसितपवनं मदनदहनमिव कामाग्निमिव वहति। किंभूतम्। सदाहं दाहसहितम्। विरहेणान्तस्तापो विद्यते तेन सहितम्। किंभूतम्। अनुपमपरिणाहम्। निःश्वासानामतिदीर्घत्वात्॥ ३॥ अपिच। दिशि दिशीति। सा राधा नयननलिनं दिशि दिशि किरति विक्षिपति। त्वद्दर्शनाकाङ्क्षयेति शेषः। सजलकणजालं जलकणसमूहेन सह वर्तमानम्। उत्प्रेक्षते। विगलितनालमिव विक्षिप्तं नयनं विनालेन नलिनेनोपमीयते। अथवात्र उच्छूनत्वात्कज्जलरहितत्वाद्दीनत्वाच्च विनालेन कमलेनोपमीयते॥ ४॥ त्यजतीति। सा राधा पाणितलेन कपोलं न त्यजति। चिन्तावशात्। किंभूतं कपोलम्। अलोलम्।क्व सायम्। सायं हि विशेष-
______________________________________________________________
तत्र हेतुगर्भं विशेषणमाह—कृशतनुरिति। कृशा तनुरङ्गं यस्याः सा॥ १॥ किंच।सरसेति। मलयजपङ्कं चन्दनपङ्कं वपुषि देहे सशङ्कं शङ्कासहितं यथा स्यादेवं विषमिव पश्यति। कीदृशम्। सरसमसृणमपि। आर्द्रचिक्कणमपीत्यर्थः। ‘पङ्कः कर्दमपापयोः " इति विश्वः। ‘मसृणः कर्कशे स्निग्धे’ इति मेदिनी॥ २॥ श्वसितेति। सा श्वसितपवनं श्वासवायुं वहति धारयति। कीदृशम्। अनुपमपरिणाहं परिणाहो दैर्घ्यं यस्य तादृशम्। कमिव। मदनदहनमिव कामाग्निमिव। कीदृशम्। सदाहं दाहसहितम्। ‘परिणाहो विशालता’ इत्यमरः। एषा चला व्याध्यवस्था कथिता। तल्लक्षणं तु प्रागेवोक्तम्॥ ३॥ दिशि दिशीति। सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति क्षिपति। कीदृशम्। विगलितनालं विगलितस्त्रुटितो नालो दण्डो यस्य। पुनः कीदृशम्। सजलकणजालं जलकणजालैरश्रुजलकणिकासमूहैः सहितम्। अत्रेवशब्दो वाक्यालंकारे। अत्र नेत्रस्य नलिनत्वेन निरूपणात्स्तिमितत्वं बोध्यम्। तेन जडता नवम्यवस्था ध्वनिता। तदुक्तं रसार्णवसुधाकरे— ‘यत्र ध्यायति निःशङ्कं जडता सा प्रकीर्तिता। अत्र स्पर्शानभिज्ञत्वे वैवर्ण्यंशिथिलाङ्गता। अक्रीडाङ्गंकृतिः स्तम्भनिःश्वासकृशतादयः॥’ इति॥ ४॥ त्यजतीति। सा सायं संध्यासमये पाणितलेन करतलेन कपोलं न त्यजति। कीदृशम्। अलोलमचञ्चलम्। अहस्तु यथा कथंचिन्नीतं रात्रिस्तु युगाय-
नयनविषयमपि किसलयतल्पम्।
गणयति विहितहुताशविकल्पम्। राधिका ०॥ ६॥
**हरिरिति हरिरिति जपति सकामम्।
विरहविहितमरणेव निकामम्। राधिका०॥ ७॥ **
श्रीजयदेवभणितमिति गीतम्।
सुखयतु केशवपदमुप नीतम्। राधिका०॥ ८॥
______________________________________________________________
विरहोद्रेको भवति। कमिव। बालशशिनमिव। अलोलमिति बालचन्द्रो हि सायं पाण्डुर्निःश्रीकश्च भवति। कपोलस्य हस्तेनाच्छादितत्वाद्बालशशिनोपमा॥ ५ ॥ अपि च। नयनेति। सा राधा किसलयतल्पं विहितहुताशविकल्पं कलयति। हुताशमेव जानाति। किंभूतं तल्पम्। नयनविषयमपि। अनुमितार्थे संसर्गे वा भ्रान्तिर्जायते। नयनविषयेऽपि भ्रमेर्निर्निमित्तत्वान्नयनयोस्त्वय्यारोपितत्वं द्योत्यते॥ ६ ॥ अपि च। हरिरितीति। सा मत्सखी निकाममतिशयेन सकामं साभिलाषं यथा स्यात्तथा हरिरिति जपति त्वन्नाम गृह्णन्त्यास्ते। किंभूता। विरह- विहितमरणेव विरहेण विहितं मरणं यस्याः सा। अर्थात्तवैव। अन्योऽपि विहितमरणो हरिरिति हरिरिति जपत्येव॥ ७॥ अपि च। श्रीजयदेवेति। श्रीजयदेवभणितं वर्णितं हरेः कृष्णस्य गीतं सुखयतु। भक्तानित्यध्याहारः। किंविशिष्टं गीतम्। केशवपदमुप नीतं प्रापितम्। इदं श्रीजयदेवभणितं हरिगीतं केशवपदं सुखयतु। केशवः पदं स्थानं यस्यासौ केशवपदः तं केशवपदं वैष्णवं सुखयतु। किंभूतं गीतम्। उपनीतमुप समीपं नीतं प्रापितमित्यर्थः। अत्र मात्राचतुष्पदी छन्दः।
________________________________________________________________
माना कथं नेतव्येति कपोलतले पाणिं कृत्वा सायं चिन्तयतीति भावः। कमिव। बालशशिनमिव द्वितीयाचन्द्रमिव मुखार्धस्य करतलच्छन्नत्वेनार्धदृश्यमानतया विरहपाण्डुतया मुखस्य द्वितीयाचन्द्रसाम्यम्। इयमपि जडतावस्था॥ ५ ॥नयनेति। किंच सा नयनविषयमपि चक्षुर्गोचरमपि किसलयतल्पं नवपल्लवशयनीयं विहितो हुताशनस्याग्नेर्विकल्पः संशयो यत्र तादृशं कलयति। अत्र किसलयेषु ताम्रत्वसंतापकत्वादिसमानधर्मदर्शनादग्नित्वसंशयः। इयं चोद्विग्नावस्था। तल्लक्षणं प्रागेवोक्तम्॥ ६ ॥ हरिरितीति। सा निकाममतिशयेन हरिरिति हरिरिति जपति। केव। विरहेण त्वद्विश्लेषेण विधातुमारब्धं मरणं यया सा। कथम्। सकामं साभिलाषं यथा स्यात् तथा। अभिलाषादिषु नवम्यवस्थास्वभीतास्वपि त्वदौदास्यमालक्ष्य मरणाख्यापि दशम्यवस्था।अवश्यं भवितव्यमिति निश्चित्य प्रपन्नानां क्लेशहरणाद्धरिरित्युच्यत इति को वेद प्रसन्नस्तस्मिन्नपि जन्मन्यागत्य मे क्लेशं हरिष्यति, मा आयातु तथापि ‘अन्ते मतिः सा गतिः’ इति जन्मान्तरेऽपि स एव वल्लभो भूयादिति साभिलाषं नामान्तरं विहाय हरिरित्येवं जपतीति भावः। विहितेत्यत्र ‘आदिकर्मणि क्तः कर्तरि च’ इति क्तः॥ ७ ॥ श्रीजयदेवेति। इत्यमुना प्रकारेण जयदेवेन भणितमुच्चारितं सुखयतु। अर्था-
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पतेताम्यति
ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि।
एतावत्यतनुज्वरे40 वरतनुर्जीवेन्न किं ते रसा -
त्स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः41 ॥ ९ ॥
_________________________________________________________
सर्वत्रोपमालंकारः॥ ८ ॥ इदानीं भक्त्याख्याभावितमरणशंसनमिषेण तन्मनः प्ररोचयति—सेति। हे स्वर्वैद्यप्रतिम अश्विनीकुमारसदृशरूप। एतावत्यतनुज्वरे एतावतीमवस्थां प्राप्तवत्यतनुज्वरे। पक्षे अतनुज्वरे महति ज्वरे सति यदि प्रसीदसि ततः सा वरतनुः तव रसात् शृङ्गारात्किं न जीवेत्। अपि तु जीवेदेव। अन्यथा चेन्न प्रसीदसि तदा अन्तक एवान्तकः मरणं नासि, मरणहेतुत्वात्त्वमेव मरणमिति। अथवा। हे स्वर्वैद्यप्रतिम अश्विनीकुमारतुल्य वैद्य, यदि प्रसीदसि ततस्ते रसात्पारदादिनिष्पन्नौषधात्सा वरतनुर्न जीवेत्। अपि तु जीवेदेव। अन्यथा अन्तको यमो नासि। अपि तु यम एव। वरतनुरिति हेतुगर्भं विशेषणम्। तेन सा तनुरूपेति कृत्वा अवश्यं जीवनीयेति तात्पर्यम्। सा राधा न केवलं बाह्यवृत्त्या त्वय्यनुरक्ता किंतु सात्विकभावेनापि त्वदायत्तजीवितेति दर्शयन्त्याह। तानेव सात्विकान्भावान्विवृणोति—सा रोमाञ्चतीति। ‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रुप्रलयावित्यष्टौ सात्विका मताः। सा राधा रोमाञ्चति। रोमाञ्चो विद्यते यस्य स रोमाञ्चित इत्यर्थः। तद्वदाचरति रोमाञ्चेति। अकारोऽत्र मत्वर्थीयः। रोमाञ्चतीत्यादिना रोमाञ्च उक्तः। सीत्करोतीति वैवर्ण्यम्। विलपत्युद्यातिभ्यामश्रु। उद्यातीति निः-
__________________________________________________________
च्छ्रोतॄन्गायकांश्च। कीदृशम्। केशवपदमुप नीतम् ॥ ८ ॥ सा रोमाञ्चतीति। सा राधा रोमाञ्चति रोमाञ्चानञ्चयति प्रफुल्लयति। उद्गमयतीत्यर्थः। यद्वा रोमाञ्चोऽस्या अस्तीत्यर्शआदित्वादच्प्रत्यये रोमाञ्चःसिद्धः स इवाचरति रोमाञ्चति। यद्वा रोमाञ्चपदं लक्षणया रोमाञ्चवतीपरम्। तथा च ओजसीवाचरतीत्यादिवद्रोमाञ्चवतीवाचरतीत्यर्थः। अनेनाभिलाषः कथितः। सीत्करोति सीत्कारं करोति। अनेन चिन्तास्मृती कथिते। अथ च विलपति स शूरः सुन्दरश्चेत्यादिनायकगुणान्विशेषेणालपति। अनेन गुणकीर्तनमुक्तम्। उत्कम्पते कथं विरहदुःखं सोढव्यमिति कम्पयुक्ता भवति। ताम्यति ग्लाना भवति। ध्यायति तव ध्यानं करोति। एतैर्विशेषणैरुद्वेगावस्था कथिता। उद्भ्रमतिक्रीडादिस्थलं निर्दिशती भ्रमति। अनेन प्रलापः कथितः। प्रमीलति ध्यानकल्पिततदालिङ्गनादिजन्यसुखभावेन चक्षुषी निमीलयति। अनेनोन्मादः कथितः। पतति कार्श्येन स्थातुमशक्यतया भूमौ पतति पश्चाद्भावनया त्वां दृष्ट्वा कथं कथमप्युद्याति त्वदभ्युद्गमनं करोति। अनेन व्याधिः कथितः। ततो मूर्च्छति मूर्च्छां प्राप्नोति। अनेन जडता कथिता। क्रियादीपकोऽयमलंकारः। तल्लक्षणमुक्तं प्राक्। ननु जडतापर्यन्तावस्था यदि जातैव तदा किमङ्गसङ्गेनेत्यत आह—एतादृशीति। हे स्वर्वैद्यावश्विनीकुमारौ तत्प्रतिम तत्सदृश। एतादृश्यतनुज्वरे त्वं यदि प्रसीदसि तदा सा वरतनुः कमनीयदेहा ते तव
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम्।
विमुक्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि १० ॥
____________________________________________________________
सरति। उत्कम्पत्युद्भ्रमतिभ्यां वेपथुः। ताम्यतिना स्वेदः। ध्यायतिपततिभ्यां स्तम्भः। पततीति वैपरीत्येन तपतिर्वैवर्ण्ये योजनीयः। प्रमीलतिना स्वरभङ्गः। मूर्च्छतिना प्रलयः। इत्येवमष्टौ सात्त्विकाः प्रदर्शिता भवन्ति। सन्मनस्तत्प्रभवाः सात्त्विकाः। इदमाकूतम्। त्वय्यारोपितमनस्का त्वया जीवनीयेति। अन्यथा आश्रितत्यागलक्षणं दूषणमपीति भावः ॥ शार्दूलविक्रीडितं वृत्तम्। अत्र दीपकमलंकारः। विप्रलम्भाख्यः शृङ्गारो रसः। अत्र पूर्वार्धेन स्थायिभावा उक्ताः। तदुक्तम्—‘रतिर्हासश्च शोकश्च क्रोधोत्साह भयं तथा। जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ इति। सात्त्विकाश्च पूर्वत एव उक्ताः ॥ अहमित्याद्यनुकूलो नायको दक्षिणो वा। उत्कण्ठिता नायिका। सखी दूतीत्वेन सहायिनी। तल्लक्षणम्–‘प्रवृत्तिकुशला धीरा गूढमन्त्रदृढप्रिया। स्वतन्त्रा विधवा दासी दुष्टा प्रव्रजिता सखी। मालाकारादिनारी च कार्या दूतीष्टसिद्धये ॥ ९ ॥ तदेव पूर्वसूचितदूषणमुद्भावयति—**स्मरेति।**हे उपेन्द्र, दैवतवैद्यहृद्य अश्विनीसुतसुन्दर ततोप्यधिकचिकित्सक, यदि त्वं पूर्वोक्तलक्षणां राधां नि- त्तबाधां निवृत्ता बाधा यस्यास्तां न कुरुषे तर्हि वज्रादपि दारुणोऽसि कठिनोऽसि। कठिनः खलु कथमपि न स्त्रिह्यतीति। किंविशिष्टां राधाम्। स्मरातुराम्। पुनः किंभूताम्। रोगिणां चिकित्सा भविष्यतीत्याशङ्कयाह—त्वदङ्गेति। त्वदङ्गसङ्ग एवामृतकल्पस्तन्मात्रसाध्याम्। अतोऽल्पप्रयासे बहुतरपुण्ये च प्रयोजने महान्तो नावसीदन्तीति। वृत्तम-
_______________________________________________________________
रसाच्छृङ्गाररसात्किं न जीवेत्। अपि तु जीवेदेव। अन्यथा त्वं चेन्न प्रसीदसि तदा तया हस्तकोऽपि त्यक्तप्राय इत्यर्थः। संप्रति मूच्छितायास्तस्या वक्तुमपारयन्त्या हस्तचेष्टयैव सखीषु व्यवहारो भवति सोऽपि तया त्यक्तव्य इत्यर्थः। अन्यत्रापि ज्वरे सति ज्वरी रोमाञ्चति शीतादिना रोमाञ्चानिवाचरति। वेदनया शीतक्लवात्सीत्कारं करोति। मोहाद्यत्किंचिद्वदति। उत्कम्पते कम्पयुक्तो भवति। ताम्यति विह्वलो भवति। उद्याति वायुवेगाद्धावति। मूर्च्छति मूर्च्छां प्राप्नोति। एतादृश्यतनुज्वरे महति सान्निपातिके ज्वरे कस्यचित्स्वर्वैद्यप्रतिमस्य प्रसादेन रसात्पारदादितो ज्वरी किं न जीवेत्। अपि तु जीवेदेव। ननु सान्निपातिकज्वरे सहसा रसदानं निषिद्धमित्यत आह—अन्यथेति। अन्यप्रकारेण संहितामार्गेण हस्तकोऽपि वैद्यानां हस्तप्रक्रियाविशेषो ‘हथवटी’ इति लोके प्रसिद्धस्त्यक्तः। संहिताप्रक्रिययोपचारे कृते विशेषप्राप्ते रसदानमुचितमिति भावः। क्वचित् ‘त्वत्तोऽन्यथा नान्तकः’ इति पाठः। तदान्यथा यदि न प्रसीदसि त्वत्तवापेक्षयान्तको न, अपि तु त्वमेवान्तक इत्यर्थः। रोमाञ्चति द्वितीयव्याख्याने क्विप्प्रत्यये तलोपेऽपि रूपं बोध्यम्। ‘रसो गन्धे रसः स्वादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे’ इति विश्वः ॥ ९ ॥स्मरातुरामिति। हे दैवतवैद्यहृद्य, देवतानां यौ वैद्यावश्विनीकुमारौ तद्वद्धृय मनोज्ञ, स्मरातुरां मदनरुग्णां त्वदङ्गसङ्ग एव यदमृतं तन्मात्रसाध्यां राधां विमुक्तबाधां त्यक्तपीडां न कुरुषे। अतो हेतोरुपेन्द्रवज्रादपि दारुणोऽसि कठिनोऽसि। यतो वज्रमिन्द्रेण क्षिप्तमङ्ग संबद्धं सद्व्यथयति, त्वं तु विश्लेषे सत्येव व्यथयसीति
कन्दर्पज्वरसंज्वरातुरतनो42राश्चर्यमस्याश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु संताम्यति।
किंतु43 क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ११
क्षणमपि विरहः पुरा न सेहे
नयननिमीलनखिन्नया यया ते।
________________________________________________________________
प्युपेन्द्रवज्रा॥ १० ॥ ईदृशीमवस्थां प्राप्तापि त्वत्सङ्गमाकाङ्क्षयैव प्राणितीत्याह—कन्दर्पेति। हे माधव, अस्याश्चेतश्चिरं चन्दनचन्द्रमः कमलिनीचिन्तासु यत्संताम्यति तदाश्चर्यम्। किंविशिष्टायाः। कन्दर्पज्वरसंज्वराकुलतनोर्मदनसंतापाकुलशरीरायाः। तापे सति शीतलवस्तुषु स्पृहा नास्तीत्याश्चर्यम्। किंतु आश्चर्यान्तरमपि। क्लान्तिवशेन क्षीणा। रहस्येकान्ते स्थिता त्वामेवैकं प्रियं शीतलतनुं कथमपि ध्यायन्ती क्षणं क्षणमात्रं प्राणिति जीवति। अत्र शीतलेषु द्वेषः। शीतलादपि जीवतीति विरोधालंकारः। अद्भुतश्च रसः। शार्दूलविक्रीडितं वृत्तम्॥ ११ ॥ इदानीं त्वदागमनहेतुं मनसि स्थिरीकृत्य प्राणितीत्याह—क्षणेति। हे माधव, यया राधया पुरा ते विरहः क्षणमपि न सेहे न सोढः। किंभूतया। नयननिमीलनखिन्नया नयननिमीलनेनापि खिन्ना सा तया। भवद्दर्शनान्तरे निमिषेऽपि या दुःखं प्राप्नोति। असौ सांप्रतं चिरविरहेऽपि रसालशाखां चूतशाखां विलोक्य, कथं श्वसिति प्राणिति तन्न जाने। किंविधां रसालशाखाम्। पुष्पिताग्रां पुष्पिताग्रभागाम्। अत्र पुष्पितया चूतशाखया वसन्तो लक्ष्यते। वसन्ते हि
_______________________________________________________________
वज्रापेक्षयापि दारुणत्वमिति भावः। उपेन्द्रवज्राछन्दः॥ १० ॥ ननु शीतोपचारैरेव तनुज्वरशान्तिर्भविष्यतीति किं शपत्यत आह—कंदर्पेति। अहो अस्याश्चेतश्चित्तं चन्दनचन्द्रमःकमलिनीचिन्तासु चन्दनचन्द्रपद्मिनीवार्तास्वपि सखीभिः क्रियमाणासु संताम्यति ग्लानिं प्राप्नोति। कीदृश्याः। कन्दर्पज्वरेण यः संज्वरः संतापस्तेनातुरतनो रुग्णदेहायाः। विरोधोऽयमलंकारः। तल्लक्षणमुक्तं प्राक्। नन्वेतादृशे संतापे कथं जीवतीत्यत आह—किंत्विति। हे इन, प्रभो त्वामेव प्रियं शीतलतनुं ध्यायन्ती सती क्षणं प्रतिजीवति। कीदृशी। क्षणं रहसि स्थिता। पुनः कीदृशी। उत्क्रान्तिवशा उत्क्रान्तेः प्राणोत्क्रमणस्य वशा आयत्ता। तत्र हेतुगर्भविशेषणमाह। क्षीणा कार्याद्दुर्बला। तथा शीतलं चाङ्गस्पर्शंध्यायन्ती संप्रति जीवतीति त्वया झटिति गन्तव्यं, पुनस्तस्या दर्शनमपि ते दुर्लभं भवतीति भावः ॥ ११ ॥ ननु इयन्तं कालं यथा जीवति तथाग्रेऽपि जीवतीत्यत आह—क्षणमिति। अनया राधया ते विरहः पुरा त्वत्सङ्गदशायां क्षणमपि न सेहे न सोढः। कीदृश्या। नयनयोर्निमीलनं निमेषस्तेन खिन्नया दुःखितया। किमिति धात्रा नयनयोनिमेषः सृष्टः। यतः क्षणोऽपि जगदीश्वरमुखारविन्ददर्शने प्रत्यूहो भवतीति खेदयुक्तयेति भावः। असौ राधा विरहेण कथं श्वसिति। जीवतीत्यर्थः। किं
**श्वसिति कथमसौ रसालशाखां
चिरविरहेण विलोक्य पुष्पिताग्राम्॥ १२॥ **
वृष्टिव्याकुलगोकुलावनरसादु44द्धृत्य गोवर्धनं
बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः।
दर्पेणैव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः॥ १३॥
**इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः॥ ४॥ **
__________________________________________________________________
विरहिणो न जीवन्तीत्यत्राकूतम्। सा कथं श्वसितीति चिरविरहेऽपि रसालशाखां विलोक्य। रसालो रससमूहो भवान्। तस्य शाखा अन्तिकं समीपं तां विलोक्य। किंविधां शाखाम्। पुष्पिताग्रां पुष्पितं संजातपुष्पमग्रमुत्तरकालो यस्याः सा ताम्। तवान्तिकं लप्स्य इत्यभिकाङ्क्षया श्वसिति। अथवा पुष्पिताग्रां चूतशाखां दृष्ट्वा श्वसितीति युक्तार्थः। एवंविधां चूतशाखां दृष्ट्वा स्मरशरजर्जरितशरीरः सोऽवश्यं मामेष्यतीति॥ वृत्तमपि पुष्पिताग्रा॥ १२॥ इदानीं मङ्गलान्तानि च शास्त्राणि प्रथन्त इति न्यायमाचरन्कविराशिषमाह—वृष्टीति। कंसद्विषः कृष्णस्य बाहुर्भवतां श्रोतॄणां श्रेयांसि तनोतु। किं कुर्वन्। उद्धृत्य गोवर्धनं गिरिं बिभ्रत्। कस्मात्। वृष्टिव्याकुलगोकुलावनरसात्। वृष्ट्या व्याकुलं यद्गोकुलं तस्य यदवनं पालनं तत्र रसो रागो वीर्यं वा तस्मात्। पुनः किंभूतो बाहुः। बल्लववल्लभाभिर्गोपाङ्गनाभिरधिकानन्दाच्चिरं चुम्बितः। पुनः किंभूतो बाहुः। तदर्पिताधरतटीसिन्दूरमुद्राङ्कितः। ताभिश्चुम्बनार्थमर्पिता या अधरतटी तस्याः सिन्दूरमुद्रयेव शोणितत्वेनाङ्कितः। उत्प्रेक्षते गोवर्धनोद्धरणलक्षणजातगर्वेणेव शोणितः। किंविधस्य कंसद्विषः। गोपतनोः गोपस्य तनुरिव तनुर्यस्य सः। गोपवेषस्येत्यर्थः। अत्राद्भुतो रसः। उत्प्रेक्षोपमे अलंकृती। शार्दूलविक्रीडितं वृत्तम्॥ १३॥ “ मालवश्रीः स्मृतो रागस्तालो निःसारुसंज्ञकः। वाग्गेयकारनामाङ्कपदतस्तेनसन्ततिः॥ ततः पाटाः पदानि स्युः पञ्चषाणि रसोऽत्र यः। शृङ्गारो वासुदेवस्य क्रीडनं रासकादिभिः॥ छन्दोऽपि रासको ज्ञेयं स्वेच्छया वा कृतं भवेत्। स्निग्धमधुसूदनोऽयं रासावलयनामकः। प्रबन्धः पृथिवीभर्त्रा प्रबद्धः प्रीतये हरेः॥ इति स्निग्धमधुसूदनरासावलयनामा नवमः प्रबन्धः।” इत्ययं नवमप्रबन्धस्य टीकांशो ज्ञेयः॥
एकस्तावदनूनधन्विविषयस्वीकारलक्ष्योऽपरः
स्फूर्जद्गुर्जरशूरनायकजयप्रोद्दामिताडम्बरः।
_______________________________________________________________
कृत्वा। पुष्पिताग्रां पुष्पितोऽग्रभागो यस्यास्तादृशीम्। रसालशाखां चूतशाखां विलोक्य दृष्ट्वा। श्वसितीत्यत्र ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति लट्। छन्दोऽपि चेदं पुष्पिताग्रानामकमिति ध्वनितम्। तल्लक्षणं वृत्तरत्नाकरे—‘अयुजि नयुगरेफतो यकारो
__________________________________________________________________________
हृष्यन्मालवमूलकोषणविधौ सर्गस्तृतीयः कृत-
स्तुर्यः कुम्भमहीभृताऽत्र विवृतौ श्रीगीतगोविन्दतः॥
इति श्रीगयाविमुक्तिस्थलकल्पितपितृकुलविमुक्तिदेन श्रीचित्रकूटाधिपतिना
विरचिते गीतगोविन्दविवरणे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः॥
_____________________________________________________________
युजि च नजौजरगाश्च पुष्पिताग्रा’ इति॥ १२॥ (‘वृष्टिव्याकुल’ इत्यादि लोकस्य टीका नोपलभ्यते मूलादर्शपुस्तके)॥ १३॥
क्व सर्वशास्त्रार्थविचारचातुरी क्व काव्यटीकाव्यसनैर्दिनव्ययः।
तथापि कृष्णस्मरणोत्सवो बलाद्विधातुमस्मान्व्यवसाययत्यदः॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां चतुर्थः सर्गः॥ ४॥
_________________
पञ्चमः सर्गः ५
साकाङ्क्षपुण्डरीकाक्षः।
अहमिह निवसामि याहि राधां
अनुनय मद्वचनेन चानयेथाः।
इति मधुरिपुणा सखी नियुक्ता।
स्वयमिदमेत्य पुनर्जगाद राधाम्॥१ ॥
देशीवराडीरागेण रूपकतालेन गीयते। प्र०॥१०॥
वहति मलयसमीरे मदनमुपनिधाय
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय॥ १ ॥
तव विरहे वनमाली सखि सीदति॥ ध्रुवम् ॥
——————————————————————————————————————
पुरीमिव पालयताखिलभुवं कुम्भनरेशो नत्वा शिवम्।
गायति धातु रसिकामृतं जयदेवोदितं मातौ वृत्तम्॥
इदानीं सखीनिवेदितो माधवस्दभिसुखीभूय तदाननाय सखीं प्रहितवान्॥ अहमिति। सेत्यध्याहार्यम्। या पूर्वं प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य वक्ष्यमाणं जगाद। किंभूता सखी। मधुरिपुणा इति नियुक्ता इत्यादिष्टा। इती-ति किम्। अहमिह यमुनाकुञ्जे निवसामि। यावदागमिष्यति तावत्प्रतीक्षां करिष्य इति त्वं याहि मद्वचनेन राधामनुनय। अनुनीय च आनयेथाः। पुष्पिताग्रावृत्तम्॥ १ ॥ तदेव वक्ष्यमाणमाह॥ अत्राभिसारिका नायिका वर्णनीया — ‘संस्कृता-त्प्राकृतमिष्टं ततोऽपभ्रंशभाषणम्। ततः प्रियतरा वेश्या सर्वतश्चाभिसारिका’ इति भरतः॥ तल्लक्षणं भरते–“ लज्जां हित्वा समाकृष्टा यौवनेन व्रजेत्तु या। अभिसारगतं कान्तं कीर्तिता साभिसारिका”॥ अत्र पूर्वं ध्रुवः। तव विरहे इति ध्रुवः। अथ पदानि। वहतीति। क्व सति। मदनमुपनिधाय मदनस्य स्पृहामुत्पाद्य मलयसमीरे वहति सति। पुनः क्व सति। विरहिहृदयदलनाय
———————————————————————————————————————————
** अहमिति**। मधुरिपुणेति एवंप्रकारणे नियुक्ता आज्ञप्ता सखी स्वयमेत्यागत्य राधां वक्ष्यमाणं जगादोवाच। इति किम्। त्वं राधां याहि मद्वचनेन तामनुनय। कृतापराधेन मया साक्षाद्वक्तुं शक्यतेऽतो माधवेनैवमेवमुक्तमित्युक्त्वा त्वमनुनयेति भावः। तां च मदन्तिकमानयेधा आनय। ननु कुत्र मयानेया इत्यत आह। अहमिह निवसामि इहैव कुञ्जेऽहं तां प्रतीक्ष्यमाणस्तिष्ठामीत्यर्थः॥१॥ यत्तत्सखी जगाद तदेव गीतेन कथयति वहतीति। गीतस्यास्य देशीवराडीरागो रूपकतालः। ताललक्षणमुक्तं प्राक्। गीतार्थस्तु— हे सखि, वनमाली कृष्णः सीदति। क्व सति। मलयसमीरे मलयसंबन्धिवाते वहति, कुसुमनिकरे पुष्यसमूहे विरहिणां हृदयदलनाय विदारणाय स्फुटति विकसति सति। किं कृत्वा। मदनं काममुपनिधाय समीपवर्तिनं कृत्वा। तथा च कुसुमनिकरैरेव
**दहति शिशिरमयूखे मरणमनुकरोति।
पतति मदनविशिखे विलपति विकलतरोऽति। तव वि० २॥
ध्वनति मधुपसमूहे श्रवणमपिदधाति।
मनसि कलितविरहे निशि निशि रुजमुपयाति। तव वि० ३॥
वसति विपिनविताने त्यजति ललितधाम।
लुठति धरणिशयने बहु विलपति तव नाम। तव वि०॥ ४॥
भणति कविजयदेवे विरहविलसितेन।
मनसि रभसविभवे हरिरुदयतु सुतेन। तव वि०॥ ५॥**
——————————————————————————————————————
कुसुमनिकरे स्फुटति सति विकसति सति॥ १॥ अपि च। दहतीति। शिशिरमयूखे हिमरश्मौ दहति सति मरणमनुकरोति मृतकल्पा भवति। तत एवं मदनविशिखे पतति सति विकलतरोऽतिशयेन विकलः सन्नतीव विलपति॥ २॥ अपि च। ध्वनतीति। मधुपसमूहे ध्वनति सति श्रवणमपिदधाति आच्छदयति। निशि निशि प्रतिरात्रौ मनसि कलितविरहे सति झटिति रुजं पीडामुपयाति प्राप्नोति॥३॥ अपि च। वसतीति। विपिनविताने वनविस्तारे चण्डविषकल्पे वने वसति संतिष्ठते। त्वद्विरहेण ललितं मनोहरमपि धाम त्यजति। पुनः किं करोति। धरणिशयने तव नाम कृत्वा परिदेवनं करोति॥ ४॥ अपि च भणतीति। कविजयदेवे भणति सति विरहविलसितेन वियोगविलासेन रभसविभव उत्साहसंपन्ने मनसि। अर्थात्तव सुकृतेन हरिरुदयं प्राप्नोतु
——————————————————————————————————————
बाणैस्तत्संनिहितेन कामेन विरहिणां हृदयं विदारणीयमिति भावः॥ १॥ किं च। दहतीति। शिशिरमयूखे हिमकिरणे दहति सति मरणं मरणावस्थामनुकरोति। मरणावस्थायां यादृशी मूर्च्छादिरूपा चेष्टा तां स्वीकरोति। अथ च मदनविशिखे कामबाणे पतति सति विकलतरोऽतिविव्हलतरो विलपत्यतिशयेन विलापं करोति॥ २॥ किं च। ध्वनतीति।मधुपसमूहे भ्रमरसमूहे ध्वनति गुञ्जति सति श्रवणं श्रोत्रं हस्ताभ्यामपिदधाति मुद्रयति। अथ च निशि निशि प्रतिरात्रौ चित्ते रुजं पीडामुपयाति प्राप्नोति। कीदृशे मनसि। कलित उद्भूतो विरहो यत्र तादृशे॥ ३॥ किं च। वसतीति। स विपिनविताने (वन) विस्तारे वसति तिष्ठति। ललितं मनोहरं धाम मन्दिरं त्यजति। “धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः’ इति विश्वः। किं च। स धरणीशयने भूशय्यायां लुठति। तव नाम, हे प्राणेश्वरि, हे प्रिये, दे राधे,” इत्येव बहु वारं वारं विलपति विशेषेण जल्पति।॥ ४॥ भणतीति। श्री जयदेवकवौ भणति कथयति ( सति ) यत्सुकृतं पुण्यं जातं तेन मनसि। अर्थाद्गायतां शृण्वतां च। हरिः कृष्ण उदयत्वाविर्भवतु। कीदृशे मनसि। रभसस्य कृष्णकीर्तनविषयोत्साहस्य विभवः प्राचुर्यं यत्र तादृशे हरिविरहविलसितेन विलासेनोपलक्षिते। वस्तुगत्या तस्य कालान्तर्यामिरूपतया तस्य॒ न केनापि सह विश्लेषः, अपि तु लीलया तस्य विरहविलासमात्रमिति भावः। विरहविलसितेनेत्यत्र
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय
स्तस्मिन्नेव निकुज्ञमन्मथमहातीर्थे पुनर्माधवः।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालाषमन्नावलीं45
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ २ ॥
———————————————————————————————————————————————
तव मनसि हरेरनुरागो वसतु॥ ५॥ अत्र वाक्यौचिती सङ्गीतराजे ‘निःसारुतालरचितो रागे केदारसंज्ञके। कविनामाङ्कितपदात्पाटैः स्वल्पतरैश्चितः॥ ततः पद्यं विलासे सोल्लासते जगतीपतेः। इत्थं हरिसमुदयाद्गरुडपदसंज्ञकः। प्रबन्धः पृथिवीभर्त्रा हरिभक्तेन वर्णितः॥’ इति हरिससुदयाद्गरुडपदनामा दशमः प्रबन्धः॥ १० ॥ इदानीं त्वय्येव माधवमनोऽस्तीति तां राधां प्रगुणीकरोति। पूर्वं यत्रेति। हे राधे माधवस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे भूयो बाहुल्येन पुनरपि त्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति। त्वत्कुचयोर्निर्भरं यः परिरम्भः स एवामृतमिव तत्तीर्थादमृतजलम्। जलं हि कुम्भेनैव ग्राह्यं भवतीत्युक्तिलेशः। किं कुर्वन्। अनिशमनवरतं त्वां ध्यायंस्तवैवालापमन्त्रालीं जपन्। एकान्तध्यानजपाभ्यां हि देवताग्रतो जाग्रतः पुरः स्फुरत्येव। तस्मिन्निति कस्मिन्। यत्र निकुञ्ज्मन्मथमहातीर्थे कामतीर्थे पूर्वं रतिपतेः कामस्य त्वयोपलक्षितास्त्वय्येव प्रसन्नाया लभ्याः सिद्धयः समं समकालमविलम्बेनैव प्राप्ताः रतिपतेरित्यत्र कामस्याभिलषितस्येति वक्तव्ये रतिग्रहणे तस्यामतिशयितप्रीत्युत्पादनार्थम्। अथवा रतिपतेः कामात्त्वया सहायभूतया समं सिद्धय आसादिताः। तदाप्तये पुनः सहायभूतं त्वामेव वाञ्छति। अथ च यत्र निकुञ्जादौ का
———————————————————————————————————————————————
“कर्तृकरणयोः" इति सूत्रेण तृतीया ॥५॥ १०॥ पुनः कृष्णस्य राधाविषयिणीमुत्कण्ठां श्लोकेनाह पूर्वमिति। हे सखि, माधवः कृष्णो भूयस्त्वदीयौ यौ कुम्भाविव कुचौ स्तनौ तयोर्निर्भरं गाढं यः परीरम्भ आलिङ्गनं तदेवामृतं मोक्षस्तं वाञ्छति। सान्द्रानन्दसन्दोहाविर्भावजनकत्वेन तत्कुचकुम्भपरिरम्भस्य मोक्षत्वेन निरूपणम्। वेदान्तिनां भाट्टानां च परमानन्दावप्तेरेव मोक्षत्वात्। किं कुर्वन्। तस्मिन्नेव निकुञ्जरूपे मन्मथस्य कामस्याधिष्ठानभूते महातीर्थेऽनिशं निरन्तरं त्वामेवेष्टदेवतां ध्यायन्। तवैवालापस्त एव मन्त्रास्तेषामेवावलीं पङ्किं जपन्। महातीर्थे हेतुगर्भं विशेषणमाह पूर्वमिति।पूर्वं पुरा यत्र त्वया स रतिपतेः कामस्य चुम्बनालिङ्गनादिरूपाः सिद्धय आसादिता माधवेन प्राप्ताः। तथा झटिति वाञ्छितफलप्रदत्वेन महातीर्थं तदपि बोध्यम्। अन्योऽपि साधको मोक्षममृतं वान्छन् यत्र सिद्धिं पूर्वं प्राप्नोति तत्रैव सिद्धनिकुञ्जादिमहातीर्थे कस्याश्चिद्देवताया मन्त्रावलीं जपति, तामेव देवतां ध्यायति। अत्रावलीपदोपादानान्मालामन्त्रत्वमस्य प्रतिपादितम्। तत्प्रयोजनं च सिद्धसुसिद्धत्वादिऋणधनादिशोधनमन्त्रेणैव फलसामर्थ्यं प्रतिपादितम्।तदुक्तं योगरत्नावल्याम्“स्वप्ने पदे स्त्रिया दत्ते (१) मालामन्त्रे तथैव च। वैदिकेषु च सर्वेषु सिद्धादीनेव शोधयेत् ॥’ इति। निकुञ्जादिमहातीर्थे मन्त्रादि
**गुर्जरीरागेण एकतालीतालेन गीयते। प्र० ११॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम्।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम्॥ १॥
धीरसमीरे यमुनातीरे वसति वने वनमाली।
गोपीपीनपयोधरमर्दनचश्चलकर46युगशाली॥ ध्रुवम्॥**
———————————————————————————————————————————————
मपूरकतीर्थे येन यस्मास्सिद्धिराप्ता स तमेव ध्यायञ्जजपन् निर्भरपरीरम्भामृतं मोक्षं वाञ्छतीत्युक्तिलेशः। शार्दूलविक्रीडितं वृत्तम्। अत्र काव्यलिङ्गमलङ्कारः॥ २॥ सांप्रतं तमभिमुखमभिसर्त्तुं राधां त्वरयति॥ तत्र पूर्वं ध्रुवपदं व्याक्रियते। धीरसमीर इति। इति पदार्थपाठः कुन्नचिदस्ति। गोपीपीनपयोधरमर्द्दनचपलेन करयुगलेनाढ्य इत्यर्थः। “आढ्यः शालिनि विख्यातः”। हे राधे यमुनातीरे वने यमुनातीरविषये वने। अथवा वेतसवने वनमाली श्रीकृष्णो वसति। किंभूते वने। धीरसमीरे मन्दवायुनि । एतेन वायोस्त्रैविध्यमुक्तम्। तस्याश्च स्थानेनोत्कण्ठा जनिता। इति ध्रुवः॥ रतिसुखेति। हे नितम्बिनी, तं वनमालिनमनुसर। गमनविलम्बनमभिसाराय कालातिक्रमं न कुरु। नितम्बिनी हि बृहन्नितम्बत्वाच्चलितुं न शक्नोतीति तां त्वरयति। किंभूतम्।अभिसारे सङ्केतस्थाने गतम्। किंभूतेऽभिसारे। रतिसुखसारे रतिसौख्यप्रधाने। किंभूतं तम्। मदनवत्कामवन्मनोहरवेशम्। पुनः किंभूतम्। हृदयेशं मनस ईशम्। तव मनस्तद-धीनमित्यर्थः। अथवा हृदये वर्तमानं तं वनमालिनमिति योज्यम्। किंभूतम् ।
———————————————————————————————————————————————
जपञ्झटिति फलसिद्धिर्भवतीति ध्वनितम्। तदुक्तं मञ्जूषायाम्। ‘गृहे गोष्ठवनारामनदीनगसुरालये। अनुग्रहाद्गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम्’ इति। “मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्’ इत्यमरः॥२॥ किञ्चित्प्रसादोन्मुखीं राधां वेगेन गमनाय त्वरयितुमाह-रतिसुखेति। गीतस्यास्य गुर्जरीरागः। एकताली तालः। गीतार्थस्तु- नितम्बिनि प्रशस्तनितम्बिनि, हृदयेश्वरं कृष्णमनुसर गच्छ। गमनविरम्बनं गमने कालक्षेपं मा कुरु। कीदृशं तम्। अभिसारेऽभि-सरणस्थाने गतं प्राप्तम्। कीद्दशेऽभिसारे। रतिसुखस्य सारमुत्कृष्टं फलं यत्र तादृशे। पुनः कीदृशम्। मदनस्य कामस्येव मनोहरश्चित्तहरणक्षमो वेशो यस्य तम्। ‘आकल्पवेशौ नेपथ्यं” इत्यमरः। “वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके’ इति विश्वः॥ १॥ अभिसारस्थलमेवाह। धीरसमीर इति। यमुनातीरे वने वनमाली वनमालाशाली कृष्णो वसति। कीदृशे वने। धीरो मन्दः समीरो वायुर्यत्र तादृशे। अत्र “धीर” इति पदेन वायोर्मन्दत्वं “यमुनातीर” इत्यनेन शैत्यं “वने” इत्यनेन सौगन्ध्यमुक्तम्। कीदृशो वनमाली। गोपीनां पीनपयोधरमर्दनेन चश्चच्चञ्चलं यत्करयुगं तेन शालते शोभत इति तथा। पाठान्तरे तु गोपीपीनपयोधरपरिसरस्य मांसलस्तनप्रान्तस्य मर्द्दनं यत्करयुगं हस्तयुगलं तेन शालितुं शोभितुं शीलं यस्य तादृशः। ‘समीर-मारुतमरुज्जगत्प्राणसमीरणाः? इत्यमरः। ‘धीरः पण्डितमन्दयोः’ इति धरणिः॥ इति ध्रुवः॥ यदि
**नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम्।
बहु मनुतेऽतनु ते47 तनुसङ्गतपवनचलितमपि रेणुम्। धीर०॥ २॥
पतति पतत्रे विचलति पत्रे48 शङ्कितिभवदुपयानम्।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम्। धीर०॥ ३॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम्।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम्। धीर० ४॥**
———————————————————————————————————————————————आयुरेवेदमितिवत्सुखहेतुत्वाच्छमेव॥ १॥ अपि तु। नामसमेतमिति। हे राधे, स हरिमृदुवेणुं कोमलवंशीं वादयते। मृद्विति क्रियाविशेषणं वा। कथम्। नामसमेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च। पुनस्ते तव तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते कथम्। अतनु अनल्पं यथा भवति तथा॥ २॥ अपि च। पततीति। हे राधे, हरिः शयनं रचयति। तव पन्थानं पश्यति। कथं यथा भवति सचकितनयनं यथा स्यात्तथा। किंभूतं पन्थानम्। शङ्कितभवदुपयानम्। शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत्। क्वसति। पतत्रे पक्षिपत्रे पतति सति। पुनः क्व सति। पत्रे वृक्षपत्रे विचरति सति॥ ३॥ अपि च। मुखरमिति। हे सखि राधे, कुञ्चं चल। अभिसाराजुरूपां सामग्रीं शिक्षयति।
———————————————————————————————————————————————
मद्वचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह—नामसमेतमिति। नामसमेतं यथा स्यात्त्वन्नामाक्षरसहितं यथा स्यादेवं मृदुवेणुं वादयते। हे राधे, प्राणेश्वरि, हे सुन्दरि, इत्येवं कृष्णेन वाद्यमानाद्वेणोः स्वर आविर्भवतीत्यर्थः। कीदृशं वेणुम्। कृतसंकेतं यदा यत्र मया वेणुर्वाद्यतां तदा तत्र त्वं राधां नयेत्यर्थः। यद्वा मया कृतो यः संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते। अहमेतस्मिन्निकुञ्जे तिष्ठामि, राधे त्वरितमेहीति कृष्णेन वाद्यमानो वेणुर्वदतीत्यर्थः। किं च। नन्विति संबोधने। ते तनुसंगतस्त्वदङ्गसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलीं बहु मनुतेऽधिकं यथा स्यादेवमाद्रियते। अयं रेणुर्धन्यो यस्तदङ्गसङ्गिना मरुता स्पृश्यते, अहमपि धन्यो यस्तेन रजसा स्पृश्ये, इत्येवं बहु मनुत इति भावः। “रेणुर्द्वयोः स्त्रियां धूलिः” इत्यमरः॥२॥ किं च। पततीति। स कृष्णः शायनं शय्यां रचयति। कथं यथा स्यादेवम्। पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं यत्र। एवं यथा स्यात् तथा। कीदृशे पतत्रे। विचलितं पत्रं यस्मात्तन्न क्वचिद्विचलति। पत्र इति पाठः सुगम एव। सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म पश्यति। पत्रे मर्मरचश्लभ्यामायाता मे प्राणेश्वरीति शङ्कया चकितं पन्थानं पश्यतीति भावः। “पतत्रं पक्षपक्षिणोः” इति धरणिः। तदुपयानमित्यत्र ‛सर्वनाम्नो वृत्तिमात्र‛ इति पुंवद्भावः॥ ३॥ गमनोत्कण्ठितां दृष्ट्वाह**मुखरमिति।**हेसखि, मञ्जीरं नूपुरं त्यज। कीदृशम्। केलौ सुलोलं चञ्चलमत एवाधीरममन्द यथा स्यादेवं मुखरं शब्दायमानम्।
उरसि मुरारेरुपहितहारे घन इव तरलबलाके।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके। धीर०॥ ५॥
———————————————————————————————————————————————
मञ्जीरं नूपुरं त्यज। किंभूतं मञ्जीरमधीरमज्ञम्। अत एव मुखरं वाचालमभिसारोचितं न जानाति। अथवा साध्वेतन्मञ्जीरस्य मुखरत्वं यतो निमित्तनैमित्तिकं, कुतो मञ्जीर ध्वनावित्यत उत्पत्तेः। पुनः किंभूतम्। केलौ क्रीडायां सुलोलमतिलोलम्। अत एव रिपुमिव। अपि च नीलनिचोलं नीलं रक्तकृष्णं वस्रं शीलय परिधेहि। किं भूतम्। कु़ञ्जे तिमिरपुञ्जेन सहितं। अथवा सतिमिरपुञ्जं यथा स्यात्तथा चल॥ ४॥ उरसीति। हे राधे, हे पीते, पीतवर्णे गौरि। त्वं मुरारेरुरसि सुकृतविपाके पुण्यपरिणामे राजसि राजयिष्यसि। वर्त्तमानसामीप्ये वर्तमानवत्। किंभूत उरसि। उपहित आरोपितो हारो यस्मिन्। का कस्मिन्निव। तरलबलाके घन इव मेघ इव चञ्चलपक्षिविशेषे। केव तडिदिव। कदा। रतिविपरीते पुरुषायितरतिसमये। उपहितहारमुरस्तरलबलाका घनेनोपमीयते। सा पीता तडिता। तस्याः पुरुषायिते चञ्चलत्वम्॥ ५॥
———————————————————————————————————————————————
कमिव शात्रुमिव। रिपुरप्यधीर उत्तरलो मुखरो वाचालः केलौ सुलोलश्च भवतीति मञ्जीरे तत्साम्यम्। हे सखि, सतिमिर-पुञ्जेनान्धकारसमूहेन सहितं कुञ्जं चल गच्छ। नीलनिचोलं प्रच्छदपटं शीलय परिधेहि। ‘मज्जीरो नूपुरोऽस्त्रियाम्’ इत्यमरः। “निचोलः प्रच्छदपटः’ इति यादवः॥ ४॥ राधाया अत्युत्कण्ठां जनयितुमाह—उरसीति। हे पीते, गौराङ्गि। पुनः कीदृशे। सुकृतविपाके सुकृतस्य पुण्यस्य विपाकः परिणामो यस्यास्तादृशी। पुनः कीदृशे। उपहितहारेऽर्पितो हारो यया तादृशे। रतिविपरीते रतौ सुरते विपरीते वैपरीत्ये पुंसीभवनाय त्वं मुरारेरुरसि हृदये राजति। अधुनैव राजयिष्यसि। राजसीत्यत्र भविष्यत्सामीप्ये वर्तमानः। यद्वा ‘सुकृतविपाके” “उपहितहारे" इति द्वयमप्युरसीत्यस्यैव विशेषणम्। तदा त्वत्सुकृतस्य विपाकस्वरूपे, उपहितः हारो यत्र तादृशे उरसीत्यर्थः। केव। तडिदिव विद्युदिव। उरसि कीदृशीव। तरलबलाके। तरलाश्चञ्चला बलाका बकपङ्क्तिर्यत्र तादृशे। घन इव मेघ इव। अत्र पीतविद्युतो राधाया उपमानान्मेघसजलत्वं विवक्षितम्। तदुक्तम् “पीता वर्षाय विज्ञेया” इति। अत्र कृष्णस्य हृदयश्यामत्वेन सजल-मेघसाम्यम्। राधायाश्चञ्चलहारस्य चञ्चलबलाकापङ्किसाम्यम्। राधायाश्च तदानीं तरलतया पीततया पीतविद्युत्साम्यम्। अत्र यद्यपि वलाकाया मेघस्याधः स्थितत्वाद्विद्युतश्चोपरि वर्तमानत्वाद्धारविशिष्टकृष्णोरस्थलसद्राधोपमानं च तरलबकपङ्क्तिविशिष्टमेघो-परिस्थितविद्युतो विरुद्धं, तथापि मेघोपरि वकपङ्क्तिर्यदि भवति तदुपरि च विद्युत्तदैतादृशं राधाया उपमानं भवतीत्यभूतोपमा बोध्या। तदुक्तं दण्डिना— सर्वपद्माप्रभासारः समात्दृत इव क्वचित्। तवाननं विभातीति तामभूतोपमां विदुः"॥ यद्वा तरलबलाके इत्यपि राधाया एव विशेषणम्। तथा च। हे तरलबलाके, हे चञ्चलकामुकीत्यर्थः। तस्मिन्कोटिकन्दर्पलावण्ये दृष्टे त्वमेन कामुकी सती पुरुषायितमाचरिष्यसीति भावः। ‘बलाका वकपङ्क्तौ स्याद्बलाका बिसकण्ठिका।
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम्।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम्49। धीर ०॥ ६॥
**हरिरभिमानी रजनिरिदानीमियमपि याति विरामम्।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम्। धीर ०॥ ७॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम्।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम्। धीर ०॥८॥**
———————————————————————————————————————————————
विगलितेति। हे राधे, किसलयशयने शय्यायां वर्त्तमाने पङ्कजनयने पुण्डरीकाक्षे जघनं घटय। किं भूतं जघनम्। विगलितवसनम्। स्वयमेव ततः परिहृतरसनं त्यक्तमेखलम्। अत एव वसनपिधानरहितम्। अत एव निधिना उपमीयते। कमिव निधिमिव। किं भूतं निधिं जघनं च। हर्षनिदानं हर्षस्यादिकारणम्॥६॥ हरिरभिमानीति। हे राधे सत्वररचनं यथा स्यात्तथा मम वचनं कुरु। सत्वररचनं शीघ्रप्रसाधनम्। किंभूतं वचनम्। मधुरिपुकामं कृष्णवाञ्छां पूरय। न पूर्यते चेत् किं स्यात्। हरिरभिमानी त्वत्तो लाघवं न सहते। पश्चात्त्वां त्यक्ष्यति। पश्चादपि करिष्यसि चेदिदानीमेव कुरु। अन्यथेदानीमियं रजनिरपि विरामं याति। अभिसारकालोऽपि यास्यति। वर्त्तमानसामीप्याद्वर्तमानवत्॥ ७॥ श्रीजयदेवेति। हे वैष्णवाः, हरिं नमत नमस्कुरुत। किं भूतं हरिम्। जयदेवेऽति सदयम्। किंभूते जयदेवे। परमरमणीयमिदं पूर्वोक्तं भणति। तत एव
———————————————————————————————————————————————
बलाका कामुकी प्रोक्ता बलाका रवको मतः”(?) इति शाश्वतः॥५॥ पुरुषायितसुखोत्कण्ठां कारयित्वा संप्रति नायककृतरतोत्कण्ठां जनयितुमाह–विगलितमिति। हे पङ्कजनयने पद्मनयने राधे, किसलयशयने नवपल्तवशय्यायां कृष्णेन रचितायां जघनं घटय आरोपय। कीदृशं जघनम्। विगलितं कोटिकन्दर्पलावण्यश्रीकृष्णदर्शनेन स्वयमेव स्खलितं वसनं यस्य तत्। अत एवापिधानमावरणं यत्र ईहितम्। पुनः कीदृशम्। परित्दृता दूरीकृता रसना क्षुद्रघण्टिका येन तादृशम्। पुनः कीदृशम्। हर्षस्यानन्दस्य निधानं गृहम्। कमिव। निधिमिव। “रसना काञ्चीजिव्हयोः" इति विश्वः॥ ६॥ हरिरिति। हरिः कृष्णोऽभिमानी मनस्वी। तथा चैतावता दैन्येनापि दुर्ग्रहमत्यजन्त्यां त्वयि को वेदौदास्यमेवाचरेदिति भावः। इयं रजनिरपि रात्रिरपीदानीं विराममसवानं याति। तथाच मम वचनं “चल सखि कुञ्जम्” इत्यादि मद्वाक्यं कुरु। कीदृशम्। सत्वरं त्वरया वेगेन सहितं गमनं रचयेति सत्वररचनम्। मधुरिपोः कृष्णस्य कामं वाञ्छां पूरय। नायिका चात्राभिसारिका। तल्लक्षणं च रसार्णवे-‛मदनानलसंतप्ता याभिसारयति प्रियम्। ज्योत्स्नीतमस्विनीयानयोग्याम्बरविभूषणा॥ स्वयं चाभिसरेद्या तु सा भवेदभिसारिका’। इति॥७॥ श्रीजयदेवेति। श्रीजयदेवे कवौ कृता हरेः सेवा येन तादृशे परमरमणीयं यथा स्यादेवं भणति सति। हे जनाः, हरिं कृष्णं नमत। कथं यथा स्यात्। प्रमुदितमानन्दयुक्तं हृदयं यस्य तादृशम्॥
विकिरति मुहुः श्वासानाशाः पुरो50 मुहुरीक्षते
प्रविशति मुहुः कुञ्जं गञ्जन्मुहुर्बहु ताम्यति।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते॥ ३॥
———————————————————————————————————————————————
प्रमुदितहृदयम्। पुनः किं भूते जयदेवे। कृतहरिसेवे। किं भूतं हरिम्। सुकृतमिव कमनीयं मनोहरम्॥ ८॥ इदानीं सत्वरागमनाय प्रोत्साहयति—विकिरतीति। हे कान्ते, तव प्रियो मदनकदनक्लान्तो वर्तते मदनेन क्लान्तिं प्राप्तो वर्तते तथाविधः सन्किं करोतीत्याह— त्वं नागतैवेति कृत्वा मुहुः श्वासान्विकिरति निःश्वासधारा मुञ्चति। नागतैवेति कृत्वाग्रे मुहुर्वारंवारमाशा ईक्षते विलोकयति। व्याकुलतया कस्या दिशः समेष्यतीति सर्वा एककालमिवावलोकयति। तत्राप्यदृष्ट्वा भ्रान्तः सन्कुञ्जं प्रविष्टा भविष्यतीति मुहुर्वारंवारं कुञ्जं प्रविशति। मुहुर्मुहुरिति कोऽर्थः। तत्राप्यदृष्ट्वा बहिर्निर्यातस्तत्रैव निन्हुत इव तिष्ठतीति मुहुर्मुहुः प्रविशतीति। मुहुर्मुहुर्वारंवारं ‛कुतो नागता, किं केनचिन्निवारिता, उत कतो भयाद्वा’ इत्यादि तस्या अनागमनहेतुं विमृश्य मुहुर्वारंवारं बहुबहुविधं (गुञ्जन्) अव्यक्तशब्दं (कुर्वन्) ताम्यति ग्लापयति। अथवा वृथेदं विमर्शनम्, आगमिष्यत्येवेति मुहुः शय्यां रचयति। तथाप्यदृष्ट्वा पर्याकुलं यथा सात्तथा ममानुरागादागमिष्यत्येवेति मुहुरीक्षते
———————————————————————————————————————————————
कीदृशं हरिम्। सदयं दयासहितम्। पुनः कीदृशम्। सुकृतेन पुण्येन कमनीयं वान्छनीयम्॥ ८॥ श्लोकेनापि नायकस्योत्कण्ठामाहविकिरतीति। हे कान्ते, तव प्रियो मदनकदनक्लान्तः। मदनः कामस्तज्जनितं कदनं दुःखं तेन क्लान्तो ग्लानो वर्तते। मुहुर्वारंवारं श्वासान्संतापनिःश्वासान्विकिरति क्षिपति। नासापुरो नासाग्रं मुहुर्वारं वारमीक्षते। ध्यानेनापि प्रियां पश्यामीति नासाग्रं वीक्ष्यमाणस्त्वां ध्यायतीति भावः। ध्यानसमये नासाग्रवीक्षणेन मनःसंयमो भवतीति नासापुर इत्युक्तम्। क्वचित् “श्वासानाशा" इति तालव्यशकारवान्पाठस्तदा श्वासान्विकिरति। अथ पुर आशाः पुरोभागस्था दिश अनेन वर्त्मनागमिष्यतीत्याशयेन दृष्ट्वा मुहुरीक्षत इत्यर्थः। मुहुर्वारंवारं कुञ्जं प्रविशति गुञ्जञ्शब्दं कुर्वन्कदाचिदनेन वर्त्मनागत्य निलीय तिष्ठतीत्याशयेन ध्याने त्वां दृष्ठा केलये वा कुञ्जं प्रविशतीत्यर्थः। मुहुर्वारंवारं बह्वधिकं यथा स्यादेवं ताम्यति ग्लानो भवति। ध्यानविच्छेदे त्वां तत्रापश्यंस्ताम्यतीति भावः॥ क्वचित् “कूजन्मुहुस्ताम्यति” इति पाठः। तदा कूजन्नार्तंनादं कुर्वंस्ताम्यतीत्यर्थः। मुहुर्वारंवारं शय्यां रचयति। एतावत्कालं गुरुजनभीत्या नायातातः परमायास्यतीति शय्यां रचयतीति भावः। मुहुर्वारंवारं परित आकुलं यथा स्यादेवमीक्षते। “नासा तु नासिकायां स्यात्” इति विश्वः। “आशास्तृष्णा दिशः प्रोक्ताः” इति च॥ ३॥ पुनरपि
त्वद्वाम्येन51 समं समग्रमधुना तिग्मांशशुरस्तंगतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम्।
कोकानां करुणस्वनेन52 सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः॥ ४॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
प्रोद्धोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः।
———————————————————————————————————————————————
इति कदनशब्दतात्पर्यम्। हरिणी छन्दः। दीपकालंकारः॥ ३॥ इदानीं साम्प्रतमेव गन्तुं साम्प्रतमिति हेतुमाह—त्वद्वाम्येनेति। हे मुग्धे, समग्रं यथा स्यात्तथाधुना त्वद्वाम्येन समं तव वक्रतया सहितं रविरस्तं गतः। (रविः) तवाभिमानश्चोभयमेवाभिसारविलम्बकर्तृ गतमित्यर्थः। च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां प्राप्तम्। तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव। अयं कालोऽभिसारत्वरायै। अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धिं प्राप्तः। अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणखनेन सदृशी दीर्घा जाता। सदृशीति विरहाधिक्यात्करुणनिवेदकखरत्वाच्च। तत्तस्मात्कारणाद्विलम्बनं विफलम-भिसरणक्षणातिपातो निरर्थकः। असावभिसारक्षणो रम्यो वर्तते। ईदृशी प्रियवादिनी प्रियसखी, सान्द्रान्धतमसं चानुकूलं, नीलनिचोलादि साधनं, प्रियतमस्त्वदेकतानः। एवं सति गमनविलम्बने ‘मुग्धे’ इति संबोधनमैचितीमावदति। सहोक्तिरलंकारः। शार्दूलविक्रीडितं वृत्तम्॥ ४॥ तत्रागतायास्ते बहुविधकामकौतुकं भविष्यतीति प्रलोभयति— आश्लेषादिति। इह तमसि वर्तमाने दम्पत्योर्व्रीडाविमिश्रः कः को रसो न इति न। अपि तु सर्व एव रसो भवतीति। व्रीडाविमिश्रत्वे
———————————————————————————————————————————————
त्वरयितुमाह—स्वद्वाष्पेति। हे मुग्धे, असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्यस्ततो बिलम्बनं विफलं निष्फलम्। रम्यहेतुमाह। त्वद्वाष्पेण त्वदीयनेत्रजलेन सह तिग्मांशुः सूर्यः समग्रं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः। त्वदीयबाष्पमप्वस्तं गते सूर्योऽप्यस्तं गत इत्यर्थः। क्वचित् ‘वाक्येन समम्’ इति पाठः। तदा त्वदीयवाक्येन त्वदीयवचनेन समं तिग्मांशुरस्तं गतः। मयि गमनाय त्वरयन्त्यामुत्तरमप्रयच्छन्त्यास्ते वाक्यं मुखान्नोपलभ्यत इत्यर्थः। तमस्ति-मिरं गोविन्दस्य मनोरथेन समं वान्छया सह सान्द्रतां निविडतां प्राप्तं गतम्। गोविन्दस्य मनोरथोऽन्धकारश्च निविडो जात इत्यर्थः। कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण ( ध्वनिना ) सदृशी दीर्घा विस्तीर्णा मदभ्यर्थना संपन्ना। यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं मदीया वागुक्तयोऽपि संप्रति तवाग्रे भवन्तीति भावः। अयं सहोक्तिनामालंकारः। तदुक्तं दण्डिना—“सहोक्तिः सहभावेन कथनं गुणकर्मणाम्” इति॥४॥ पुनरप्यन्धकारस्य नैविड्यकथनेनाभिसारक्षणस्यातिरम्यतामेवाह–आश्लेषादिति। इह तमसि दम्पत्योर्जा-
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-
र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः॥५
———————————————————————————————————————————————
हि सर्वमपि सर्वरसागमं भवतीति। किंभूतयोर्दम्पत्योः। अन्यार्थं गतयोः परस्त्रीपरपुरुषत्वेन प्राप्तयोः। पुनः किंभूतयोः। भ्रमान्मिलितयोः प्रतिकुञ्जमितस्तः परिभ्रमणान्मिलितयोः। सान्द्रे तमसि परस्परालापैरेव जानतोः। अथवालपैरित्यत्र सात्विकभावेन खरभङ्गादेवावगमात्। अथवान्यमर्थं प्रयोजनमुद्दिश्य गतयोः। परस्त्रीपरपुरुषौ हि व्याजान्तरेणैव मिलतः। अन्येषां भ्रान्तिमुत्पाद्य मिलितयोः। तमेव रसमाह-आश्लेषादनु भयस्थायिभावो भयानकः प्रादुर्भावमासादयति। चुम्बनादनु मा मेति क्षामाक्षरोल्लापिनीं कान्ताकामलंप्य(?) कृतं हठवृत्त्येति शोकमिवानुभवन्करुणाकलितान्तःकरणो भवति। तदनुभावे प्रोत्साहनार्थमुत्साहात्मा नखोल्लेखादनु वीरोऽवतरति। एवं साधने संमिलिते किमिदमपूर्वं सुखमन्वभवमिति भावान्तरं गमितयोर्विस्मयसहचरोऽद्भुत उद्भटतामाटीकते। एवं च कामोद्बोधे नानाविलासविलसितादनु हाससहावस्थानो हास्यः समुल्लसति। एवं कृतपरिकरसंकरः सकलरसचक्रवर्ती आनन्दमधुसन्दोहमधुरो रतिसहचरः श्रृङ्गाररसः समुन्मिषति। तद्यतिकरादनु प्रीतयोरुक्तरसः सर्वोऽपि व्रीडासंवलितः श्रृङ्गारत्वे समुन्मिषति। अत्राश्लेषानन्तरं चुम्बनं, ततो नखक्षतं, ततः कामविकाराः, ततो मैथुनं, ततः प्रीतिः, ततो रसभावनेति क्रमोऽपि कामशास्त्रकथितः। तदुक्तं भरते—आश्लेषचुम्बननखक्षतकामबोधशीघ्रत्वमैथुनमनन्तसुखप्रबोधम्। प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं रमन्ते’॥ शार्दूलविक्रीडितं छन्दः। दीपकमलंकारः समुच्चय भ्रान्तिमांश्च॥ ५ ॥
———————————————————————————————————————————————
यापत्योः को न व्रीडाविमिश्रो लज्जासमन्वितो रस आविर्भवतीत्यर्थः। कीदृशोर्दम्पत्योः अन्यार्थं गतयोरन्यां नायिकामन्यनायकं चोद्दिश्य गतयोः। पुनः कीदृशोः। आश्लेषादनु आलिङ्गनात्पश्चाच्चुम्बनं, तदनु यो नखोल्लेखः, तदनु यः संभ्रमः संभोगादरः कामोद्वेगः, तदनु यो रतारम्भः सुरतारम्भः, तदनु प्रीतयोर्लब्धानन्दयोः संभाषणैर्जानतोरन्यनायिका नामग्राहिपत्युरन्यनायकनामग्राहिपत्न्याश्चालपैः कथं पतिः कथमियं मे पत्नीति स्वरविशेषेण जानतोरित्यर्थः। रतान्ते परस्परं ज्ञातेऽपि तुल्यापराधात्परस्परदोषोद्भावनम्। किंतु। लज्जासहितः शृङ्गाररस एवाविर्भवतीत्यर्थः। अथ प्रथममाश्लेषस्ततश्चुम्बनं ततो नखक्षतं ततः कामोद्रेकस्ततः संभ्रमस्ततो रतान्तस्ततः प्रीतिस्ततो रसभावनमिति कामशास्त्र-सिद्धः क्रमोऽपि कथितः। तदुक्तं भरते— “आश्लेषचुम्बननखक्षतकामबोधः शीघ्रत्वमैथुनमनन्तसुखप्रबोधम्। प्रीति-स्ततोपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं रमन्ते ॥ इति। नन्वष्टधा सुरतरतमप्युक्तं कामशास्त्रे। तत्र च दन्तक्षतकूजितकेशग्रहणादिकमप्युक्तम्। तथा च कामशास्त्रोक्तक्रमरक्षा नेति न वाच्यम्। तस्य निःशङ्ककेलिक्रमाभिधायकत्वादिह तु परपुरुषं परनारीं चोद्दिश्य गतयोः शङ्काकुलचित्तत्वात्संक्षिप्तपूर्वोक्तक्रमेणैव सुरतारम्भ उचित इति भावः। तथाह रुद्रः—ईर्ष्याकुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु” इति। तस्मादेतादृशे गाढान्धकारे ते गमनविम्बनमनु-
सभयचकितं विन्यस्यन्तीं दृशं53 तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम्।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम्॥ ६॥
राधामुग्धमुखारविन्दमधुपस्रैलोक्यमौलिस्थली
नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
———————————————————————————————————————————————
इदानीं त्वत्प्राप्तिरेव श्रीकृष्णस्य सर्वस्वमिति दर्शयन्त्याह—सभयेति। हे सुमुखि, राधे, स सुभगः श्रीकृष्णस्त्वां पश्यञ्जानन्कृतार्थतामुपैतु कृतकृत्यो भवतु। अत्र दृशिर्ज्ञाने वर्तते। किंभूतां त्वाम्। तिमिरे तिमिरवति पथि मार्गे सभयचकितं स्याद्यथा दृशं विन्यस्यन्तीम्। सभयचकितमिति भयविस्मयस्थायिभावौ भयानकाद्भुतावुक्तौ भवतः। निबिडे हि तमसि भयं भवत्येव। तादृशि च भावितभयानके पथि संकेतस्थानं यामीति विस्मयः। एवं प्रियस्यापि प्रियतमेन समं समागमो भविष्यति न वेति शङ्कावकाशोऽपि। किंभूतां त्वाम्। प्रतितरु तरुं तरुं प्रति स्तननितम्बभारभरालसतया मुहुर्वारं वारं स्थित्वा कोऽपि मां मा द्राक्षीदिति मन्दं पदानि वितन्वतीम्। प्रतितरु अत्र वा स मे प्रियो भविष्यतीत्याशङ्कया मुहुः स्थित्वेति योजनीयम्। किंभूताम्। कथमपि केनचित्प्रकारेण पूर्वोक्तसखीवचननीलनिचोलादिसाधनसंपत्त्याभिमानपरित्यागेन मय्यनुकम्पया वा रहः प्राप्ताम्। पुनः किंभूतम्। अनङ्गतरङ्गिभिः कामकल्लोलकलैरङ्गैरुपलक्षिताम्। अत्र तमसो नैबिड्याद्दर्शनायोग्यत्वेऽङ्गस्पर्शनादेव ज्ञातेति कृत्वा दृशेर्ज्ञानार्थो व्याख्यात इत्याकूतम्। अत्र हरिणी वृत्तम्। अतिशयोक्तिरलंकारः॥ ६॥ इदानीं संभोगाख्यं श्रृङ्गारमवतारयंस्तदापतनिकाद्वारेण सर्गान्ताशिषमाह— राधामुग्धेति। देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु। किंभूतो देवकीनन्दनः। राधामुग्धसुखारविन्दमधुपः। मुखमरविन्दमिवेति मुखारविन्दं, मुग्धं च तत् सुखारविन्दं च मुग्धसुखारविन्दम्। राधाया मुग्धमुखारविन्दं च तस्मिन्मधुप इव मधुपः। अनेन भावी संभोगो द्योतितः। पुनः किंभूतो हरिः। त्रैलोक्यमौलिस्थलीनां.
———————————————————————————————————————————————
चितमिति भावः। ‘दम्पती जम्पती जायापती भार्यापती च तौ* इत्यमरः॥ ५॥ पुनरपि त्वरयितुं कृष्णोत्कण्ठामाह—सभयेति। हे सुमुखि, सुभगः शोभनः श्रीकृष्णास्त्वां पश्यन्कृतार्थतामुपैतु प्राप्नोतु। कीदृशम्। तिमिरेऽन्धकारे सति पथि वर्त्मनि तदा भयचकितं भयसहितं यथा स्यादेवं दृशं नेत्रं विन्यस्यन्तीमर्पयन्तीम्। पुनः कीदृशीं त्वाम्। प्रतितरु। तरुं तरुं प्रति मुहुः पुनः पुनः स्थित्वा मन्दं यथा स्यादेवं पदानि वितन्वतीम्। गाढान्धकारे तमालविटपेषु को वेदात्र कृष्णः स्थितो भविष्यतीत्याशयेन वायमेव कृष्ण इति भ्रमात्तदन्तिकमुपेत्य पश्चाद्विशेषदर्शने सति तत उत्थाय पुनरेग्रे तथेत्येवं प्रतितरु स्थित्वागच्छन्तीमिति भावः। पुनः कीदृशीम्। कथमपि शनैः शनैश्चरणाक्षेपादिना रह
स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः54
कंसध्वंसनधूमेकतुरवतु त्वां देवकीनन्दनः॥ ७॥
इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो
नाम पञ्चमः सर्गः॥ ५॥
———————————————————————————————————————————————
किरीटदेशादीनां नेपथ्योचितं भूषणोपचितं नीलरत्नमिव। पुनः किंभूतो देवकीनन्दनः। अवन्या भूमेर्भारायावतारो जन्म येषां शिशुपालदन्तवक्रादीनां तेषामन्तक इव। अन्तको यमसदृशोऽभूदित्यर्थः। पुनः किंभूतो देवकीनन्दनः। व्रजे सुन्दर्यः व्रजसुन्दर्यः। व्रजसुन्दरीणां जनस्तस्य मनस्तोषप्रदोषोदय इव। पुनः किंभूतो हरिः। कंसध्वंसनधूमकेतुः कंसस्य ध्वंसनं विनाशस्तत्र धूमकेतुरिव विनाशसूचकस्ताराविशेष इव। जातमात्र एव कंसविनाशं सूचितवानित्यर्थः। अत्र कंसध्वंसने गोपीनां परमेश्वरादन्यत्र गतिविनाशे धूमकेतुर्बृहद्भानुरिव प्रकाशकत्वात्। प्रकाशे हि स्वेच्छाविहारभङ्गो जायते। अथवा कसेः शातनार्थत्वाद्राधायाः कामेन यच्छातनम्। तत्र धूमकेतुरिव। स्वच्छन्दप्रदोषोदय इति यदा यदा प्रदोषोदयं वाञ्छति तदा तदा स एवेति। अथवा प्रगतो दोषोदयो यस्मात्तेन सह क्रीडन्तीनां दोष एव नास्तीति। अथ च राधामुग्धमुखारविन्दे मधुना माधुर्यं पातीति रक्षतीति। चिरं विप्रलम्भे हि प्रियदर्शनान्माधुर्यमुपद्यत एवेति पदानामौचिती। अत्र श्लेषलुप्तोपमापरिकरवर्णोपमालंकाराः॥ शार्दूलविक्रीडितं वृत्तम्। पाञ्चाली रीतिः। आरभटी वृत्तिः। गीत्यादिपूर्वोक्तमेव॥ ७॥
प्रत्याहवं पञ्चतयारिसैन्यं यो योजयत्याहवकुम्भकर्णः॥
स कुम्भकर्णो रसिकप्रियायाः समस्करोत्पञ्चतयात्र सर्गम्॥
इति श्री कुम्भकर्णेन विरचितायां गीतगोविन्दटीकायां
रसिकप्रियायां सर्गोऽगात्पञ्चमः॥
———————————————————————————————————————————————
एकान्तस्थलं प्राप्ताम्। पुनः कीदृशीम्। अनङ्गतरङ्गिभिरनङ्गस्य कामस्य यस्तरङ्गः पुनः पुनरुद्बोधस्तद्युक्तैरङ्गैरुपलक्षिताम्। अङ्गैरित्यत्र विशेषणे तृतीया॥६॥ (अत्र राधामुग्धेत्यादिश्लोकस्य टीका.नोपलब्धादर्शपुस्तके।)॥ ७॥
नो भूयाः (पाः) कति सन्ति तेषु विरला विद्वद्गुणग्राहिणः
तन्मध्येऽपि नवप्रबन्धगणनानिर्बन्धिनो दुर्लभाः।
द्वित्रास्तेष्वपि कैटभद्विट्…प्रेमानुबन्धाः क्षिता
वेतेषां धुर एक एव वहति श्रीशालिनाथः प्रभुः॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां पञ्चमः सर्गः॥ ५॥
षष्ठः सर्गः ६
धृष्टवैकुण्ठः।
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह॥ १॥
गोण्डकरी55रागेण रूपकतालेन गीयते। प्र०॥१२॥
पश्यति दिशि दिशि रहसि भवन्तम्।
तदधर56मधुरमधूनि पिबन्तम्॥
नाथ हरे सीदति राधा वासगृहे॥ धुवम्॥ २॥
———————————————————————————————————————————————
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति॥ अथ तामिति। अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास। किंभूते गोविन्दे। मनसिजमन्दे। किं कृत्वा। तां राधां गन्तुमशक्तां ज्ञात्वा। शरीरान्तर्वर्तिन्याः शक्तेर्दर्शनाविषयत्वेन दृष्ट्वेति। दृशिरत्र ज्ञानार्थः। किंभूताम्। तां चिरं गोविन्देऽनुरक्ताम्। अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम्। अत्रैव लतागृहे सङ्केतस्य कृतत्वात्। आर्याछन्दः॥ १॥ पूर्वं ध्रुवपदं व्याक्रियते। नाथहरे इति। हे नाथ आवासगृहे सङ्केतस्थाने राधा सीदति अवसादं प्राप्नोति॥ अथ पदानि॥ पश्यतीति। सा राधा रहसि रहो निमित्तान्तरनिमित्तं एकान्तनिमित्तं वा दिशि दिशि भवन्तं पश्यति। सर्वा दिशस्तस्यास्त्वन्मया एव जाता इयर्थः। तदद्वैतमभवदित्यर्थः। “सङ्गमविरहविवेके वरमिह विरहो न सङ्गमस्तस्याः। सङ्गे सापि तथैका त्रिभुवनमपि तन्मयं विरहे"॥ किं कुर्वन्तम्। तदधरमधुरमधूनि पिबन्तम्।
———————————————————————————————————————————————
अथेति। अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच। कीदृशे गोविन्दे। मनसिजेन कामेन मन्दे मन्दगतौ। किं कृत्वा। तां राधां लतागृहे क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः। पुनः कीदृशीम्। गन्तुमशक्तां कृष्णान्तिकं प्रयातुमसमर्थाम्। “मन्दः खले मन्दगते मूर्खे स्वैरेऽल्परोगिणोः” इति विश्वः। भाषया यदुवाच तद्गीतेन कथयति—पश्यतीति। गीतस्यास्य गुणकरीरागो रूपकतालः। गीतार्थस्तुहे नाथ, हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति। विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः। रहस्येकान्ते दिशि दिशि भवन्तं पश्यति। कीदृशं भवन्तम्। त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि तमास्वादयन्तम्। भावनायां स्वकीयाधरपानं कुर्वन्तं त्वामेव दिशि दिशि यतीति भावः। यद्वा त्वच्छब्दस्त्वन्यवाचकः तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या दायिकाया अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः। त्वच्छब्दस्तकारा
त्वदभिसरणरभसेन वलन्ती57।
पतति पदानि कियन्ति चलन्ती॥ नाथ हरे०॥२॥
विहितविशदविसकिसलयवलया।
जीवति परमिह तव रतिकलया॥ नाथ हरे०॥ ३॥
मुहुरवछोकितमण्डनलीला58।
मधुरिपुरहमिति भावनशीला॥ नाथ हरे०॥ ४॥
———————————————————————————————————————————————
तस्या राधाया एव अधरमधूनि पिबन्तम्। एवमवस्थमेवेत्यर्थः। तदधरसंसर्गान्मधुराणि मधूनि यान्यक्षराणि तानि श्रृण्वन्तम्। अत्यादरं श्रवणं पानमुच्यते। तस्यादरश्रवणेन तस्यालीकत्वं द्योत्यते। प्रतिवञ्चनाभावात्॥ १॥ त्वद्भिसरणेति। हे माधव, सा राधा त्वदभिसरणे रभसेन वलन्ती संभजमाना। अर्थादभिसारवेगम्। कियन्ति पदानि चलन्ती सती पतति। तस्मात्स्थानादधिकं गन्तुमशक्तेत्यर्थः॥ २॥ विहितेति। सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य उपायः। किं भूता सा। विहिता कृतपाण्डुरमृणालांकुरकटका॥ ३॥ मुहुरिति। सा महुर्वारं वारमवलोकिता मण्डनानां लीला विलासो यया सा। इमानि तानि मण्डनानि तत्सुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिदधाति। किंभूता सती। अहं मधुरिपुरिति भावनशीला ध्यानस्वभावा। एतेन स्त्रियोग्यानि मण्डनानि मुक्त्वा त्वद्विरहदुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव त्वद्रूपीभूय कालमतिवाहयतीदयर्थः। अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा। स्त्रीणां प्रियालोकफलो हि वेशः” इति त्वच्चेतोहराणि मण्डनानि आदधाना वर्त्तते॥ ४॥
———————————————————————————————————————————————
न्तोऽन्यपर्यायः सर्वनामगणे पठितः। तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे त्वच्छब्दोऽन्यवाची द्विः पठितः। स्वरभेद एक उदात्तोऽन्योऽनुदात्त इति काशिकाकारमतम्। ग्रन्थान्तरमते त्वेकोऽकारान्तोऽन्यस्तकारान्तो द्वावप्यनुदात्तौ’ इति। “भोगावासो वासगृहम्।” इति हारावली॥ १॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत आह— त्वदिति। तवाभिसारे यो रभस उत्साहस्तेन चलन्ती प्रसाधनादौ व्याप्रियमाणा कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पतति स्खलति। तथा च त्वद्विरहसंतप्ता त्वदन्तिकमागन्तुमसमर्था॥ २॥ नन्वेवं चेदशक्ता तर्हि कथं जीवतीत्यत आह— विहितेति। सा परं केवलं तव रतिकलया पूर्वानुभूतनवरतेराकलनेन जीवति। कीदृशी। विहिता विशदैर्निर्मलैर्विसैर्मृणालैः किसलयैर्नवपल्लवैश्च वलयाः कङ्कणानि यस्याः सा। ‘कलना कालयोः कला’ इति विश्वः। ‘वलयः कङ्कणे च’ इत्यपि॥३॥ पुनः कीदृशी। मुहुरिति। मुहुर्वारंवारमालोकित। वी मण्डनैर्मुकुटकुण्डलवनमालाभिर्लीला तवानुकृतिर्यया सा। पुनः कीदृशी। अहं मरिपुरिति भावनशीला चिन्तनपरा। रहसि तव वेशं विधायानुरागातिशयेनाहमे
त्वरितमुपैति न कथमभिसारम्।
हरिरिति वदति सखीमनुवारम्॥ नाथ हरे०॥ ५॥
क्लिष्यति चुम्बति जलधरकल्पम्।
हरिरुपगत इति तिमिरमनल्पम्॥ नाथ हरे०॥ ६॥
भवति विलम्बिनि विगलितलज्जा।
विलपति रोदिति वासकसज्जा॥ नाथ हरे०॥ ७॥
श्रीजयदेवकवेरिदमुदितम्।
रसिकजनं तनुतामतिमुदितम्॥ नाथ हरे०॥ ८॥
———————————————————————————————————————————
त्वरितेति। सा राधा अनुवारं वारं वारं सखीमिति वदति। इतीति किम्। हे सखि, हरिस्त्वरितं शीघ्रं अभिसारं सङ्केतस्थानं कथं नोपैति कथं न याति॥ ५॥ श्लिष्यतीति। हे हरे, सा हरिरुपगत इति कृत्वा स्निग्धनीलत्वसाम्यादनल्पं स्थूलं तिमिरमन्धकारं श्लिष्यति चुम्बति च। किंभूतं तिमिरम्। किंचिज्जलधरसदृशं॥ ६॥ भवतीति। हे हरे, सा वासकसज्जा नाम नायिका भवति। त्वयि विलम्बनकारिणि सति विलपति विलापान्करोति रोदिति अश्रूणि विमुञ्चति। दूतीमहरहः प्रेक्ष्य सज्जिते वासवेश्मनि। ‘यस्या न मिलति प्रेयान्सा हि वासकसज्जिका’ इति॥ ७॥ श्रीजयदेवेति। श्रीजयदेवकवेरिदमुदितं रसिकजनं अतिमुदितं हृष्टतरं तनुताम्। अथवा रसिकजनेन मुदितं हर्षं तनुताम्॥ ८॥ तथा च सङ्गीतराजे। ‘मालवीयः स्मृतो गौडो रागस्तालोऽदृतालकः। श्रृङ्गारो विप्रलम्भाख्यो रसो देवा
———————————————————————————————————————————
मधुरिपुरिति चिन्तयन्तीति भावः। लीला च हावविशेषस्तदाह वात्स्यायनः ‘प्रयोजनस्व चेष्टा या क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः’ इति(?)॥ ४॥ त्वरितमिति। हरिस्त्वरितमभिसारकुञ्जं कथं नोपैत्यागच्छतीति सखीमनुवारं सा वदति॥ ५॥ श्लिष्यतीति। सा हरिः कृष्ण उपगत आगत इति बुध्द्यानल्पमधिकं तिमिरमन्धकारं श्लिष्यत्यालिङ्गति चुम्बति। कीदृशं तिमिरम्। जलधरकल्पं श्याममेघसदृशम्। यदा यदोत्थाय तवान्तिकं चलति तदा तदा निकुञ्जद्वारि पुञ्जीभूतमन्धकारं दृष्ट्वा त्वद्भ्रमात्तस्यैव चुम्बनालिङ्गनादिकमाचरतीत्यागन्तुमेव न पारयतीति भावः। भ्रान्तिमानयमलंकारः। तल्लक्षणं प्रागेवोक्तम्॥ ६॥ भवतीति। पश्चाद्विशेषदर्शने सति, भवति त्वयि विलम्बिनि विलम्बं कुर्वति सति विगलितलज्जा सती सा वासके लीलाग्रहे कान्ताभिसरणाय सञ्जा संभृतसकललीलोपकरणा विलपति। हे निष्कृप, कथमेतावदौदास्यं मयि त्वया रचितमिति विलापं करोति। रोदिति रोदनं करोति। वासकसज्जालक्षणं तु रसार्णवसुधाकरे— ‘भरताद्यैरति देवस्रीणां(?) वासस्तु वासकः। स्ववासकवशात्कान्ते समेष्यति गृहं प्रति। सज्जीकरोति चात्मानं या सा वासकसज्जा’ इति। शृङ्गारतिलके ‘भवेद्वासकसज्जासौ सज्जिताङ्गरतालया’ इति॥ ७॥ श्रीजयदेवेति। श्रीजयदेवकवेरिदमुदितं कथितम्। रसिकजनं श्रृङ्गाररसास्वादपुरःसरभगवद्भक्तिरूपरसास्वादग्राहिणमति
**विपुलपुलकपालिः स्फीतसीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी॥ २॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति।**
———————————————————————————————————————————————
दिवर्णनम्। पदसंततितस्तेनाः पाटाः स्वरसमुश्चयः॥ ततः पद्यानि यत्र स्युर्लयमध्यममानतः। स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः॥” इति धन्यवैकुण्ठकुङ्कुमनामा द्वादशः प्रबन्धः। शठो नायकः गूढविप्रियकृच्छठः। चिन्तात्वरावती वासकसज्जा नायिका। तल्लक्षणं– ‘केलीगृहमथात्मानं मण्डयत्येष्यति प्रिये। सखी दूती समाप्तिं समगादिति’॥ (?)॥ १२ ॥ इदानीं तस्यास्तदेकपरत्वमाह। विपुलेति। हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशयितकामचिन्तां कृत्वा विधाय ध्यानलग्ना सती स्मरजलनिधिमग्ना श्रृङ्गारसागरे लीना। किंभूता सा। विपुला महती रोमाञ्चपङ्क्तिर्यस्याः सा। अपि किंभूता। स्फीतसीत्कारं प्रवृद्धसीत्कारं यथा स्यात्तथा। अन्तः अर्थात् विरहेणैव जनिताभ्यां जडिमकाकुभ्यां व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा॥ ‘ननमयययुतेयं मालिनी भोगिलोकैः”। इति मालिनी छन्दः। रसवदलंकारः॥ १ ॥ इदानीं सा राधा ध्यानादिना त्वया सह रममाणापि साक्षात्त्वामलभमाना न कथंचिन्निवृत्तिमेष्यतीत्याह
–अङ्गेष्विति।
———————————————————————————————————————————————
मुदितमतिशयेनानन्दितं तनुतां विस्तारयतु॥ ८ ॥ विपुलेति। ……..59 इत्यादि. कन्दर्पचिन्तां विधाय तथापि त्वं चेन्न मिलसि तदा तव ध्यानमेवाचरतीत्यर्थः। कीदृशी। विपुला प्रचुरा पुलकपालिः रोमाञ्चपङ्किर्यस्याः। ध्यानकल्पिततव करस्पर्शोद्भूतरोमाञ्चवतीत्यर्थः। किं कुर्वती। काकुव्याकुलं यथा स्यात्काका ध्वनिविकारविशेषेण व्याकुलं यथा स्यादेवं व्याहरन्ती। ध्यानेनैव तव करं नीवीबन्धनोन्मोचना-शक्तं परिकल्प्य कुट्टिमिताख्यहावमाश्रिता मुञ्च मामित्यादिनिषेधकं वाक्यं कथयन्तीति भावः। पुनः कथं यथा स्यात्। स्फीतः प्रवृद्धः सीत्कारो यत्र। एवं यथा स्यात्। ध्यानेनैव त्वद्दन्तनखक्षतादिकं परिकल्प्य सीत्कारं करोतीति भावः। पुनः कथं यथा स्यात्। अन्तश्चित्ते जनितो जडिमा जाड्यं यत्रैवं, यथा स्यात्। ध्यानकल्पितविलासबाह्यादिसमयस्तब्धाख्या (स्तम्भाख्यः) सात्विको भवति। अन्यस्यापि जलनिधिमग्नस्यान्तर्जाड्यशीतवशात्सीत्कारो व्याकुलं त्रुट्यद्वर्णं यथा स्यादेवं भवतीति ध्वनिः। इयं च जडताख्या पञ्चम्यवस्था। तल्लक्षणं चोक्तं प्राक्। कुट्टिमितलक्षणं रसार्णवसुधाकरे–“केशाधरादिग्रहणे मोदमानापि मानसे। दुःखितेव बहिः कुप्येद्यत्र कुट्टिमितं तु तत्’ इति। “स्तम्भश्चेष्टा प्रतिध्वनिः’ इति शृङ्गारदीपिका। “काकुः स्त्रियां विकारो यः शोकभीत्वादिभिर्ध्वनेः’ इत्यमरः॥ २ ॥ पुनः कृष्णं त्वरयितुमाह–अङ्गेष्विति। हे कृष्ण, त्वया विना
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतसुर्नैषा निशां नेष्यति॥ ३॥
किं विश्राम्यसि कृष्ण भोगिभवने भाण्डीरभूमीरुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम्।
———————————————————————————————————————————
हे माधव, एषा मत्सखी। एषेति एतत्पदप्रत्यक्षे व्यापाराद्बुद्धौ प्रत्यक्षीकृत्याह। एषा वरतनुरित्येवंक्रमेण आकल्पविकल्पतल्परचनासंकल्पलीलाशतव्यासक्तापि नेपथ्यवितर्ककिसलयशय्याविरचनत्वत्प्राप्त्युचितविलासशयनेष्वासक्तापि सती त्वया विना निशां न नेष्यति निशां नेतुं न शक्ता भविष्यतीति। इतीति किम्। तान्येव कानिचिदाह। अङ्गेषु अवयवेषु त्वच्चित्तापहारि आभरणं करोति। कथं बहुशः। बहुश इति अननुरूपपरित्यागेन त्वच्चित्तप्रीतिकरपरिग्रहो द्योत्यते। अपि च। पत्रे वृक्षपत्रे पतत्रिपक्षेऽपि वा। अपिशब्दात्तृणादिपरिस्पन्दो लभ्यते। तस्मिन्संचारिणि संचारणशीले त्वामेव प्राप्तं परिशङ्कते विचारयति। अत्र एवकारं विनापि ‘पार्थो धनुर्धरः” इतिवत्सर्वाणि वाक्यानि सावधारणान्येवेति कृत्वा एवकाराक्षेपः। अपि च अवश्यमागमिष्यतीति कृत्वा शय्यां वितनुते। ततस्त्वामपश्यन्ती चिरं त्वामेव ध्यायति। शय्यां विरचय्य तेन सह मयात्रैव मे कामकेलयः कर्त्तव्या इति चिरं ध्यायति। अन्योऽपि यःकश्चिन्मानसव्यथाभिभूतो रजन्यतिवाहनेऽसमर्थः स तदतिवाहनार्थं कार्यान्तरव्यासक्त्या चेतो रमयति। शार्दूलविक्रीडितं वृत्तं, समुच्चयोऽलंकारः॥२॥ इदानीमाशीर्व्याजेन सर्गान्तमाविष्करोति॥ किमिति। गोविन्दस्य गिरो जयन्ति सर्वोत्कर्षेण वर्त्तन्ते। भावगर्भतया वक्तुर्वैदग्ध्यख्यापनेन सर्वोत्कृष्टत्वम्। तत्त्वेन च नमस्कार्यत्वम्। किंभूता गिरो वाचः। सायमतिथिप्राशस्त्यगर्भाः। सायं
———————————————————————————————————————————
वरतनुः सुन्दरी रात्रिं न नेष्यति न प्रभातं प्रापयिष्यति। कीदृशीं। इत्यनेन प्रकारेणाकल्पोऽलंकारो विकल्पस्त्वदागमनशङ्का तल्पं शय्या तद्रचना संकल्पस्त्वदीयसंगादिध्यानमित्यादिलीलाशतव्यासङ्गेऽपि त्वत्सङ्गाभिलाषिण्यस्तस्या न कुत्रापि मनो रमत इति भावः। अलंकारादिव्यासङ्गमेवाह—अङ्गेष्विति। अङ्गेष्वाभरणं करोतीति भावः। अनेन। कल्प उक्तः। अथ च बहुशो वारंवारं पत्रेऽपि संचारिणि पक्ष्यादिचरणघातेन चलति सति त्वां प्राप्तमागतं परिशङ्कते। अनेन विकल्प उक्तः। अथ च शय्यां शयनीय वितनुते विस्तारयति। अनेन तल्परचनोक्ता। अथ च चिरं बहुकालं व्याप्य त्वां ध्यायति चिन्तयति। अनेन संकल्प उक्तः। तथा च तवागमनप्रत्याशया एतैर्व्यापारैः संप्रति कालं नयति। यदि च सर्वथा त्वया न गन्तव्यं तदा त्वत्सङ्गं प्रति निराशा सती रात्रिं नेतुं न शक्ष्यतीति भावः। अल्पताख्यश्च हावो वर्णितः। तदुक्तम्“अल्पता सा तु कथिता प्रियस्यागमने सति। दिदृक्षयोस्तद्वत्संभ्रममलंकृतिः(?) इति। ‘आकल्पवेषौ नेपथ्यम्” इत्यमरः। तर्को विकल्पः शङ्का च” इति च । “तल्पं च शयनीये स्यात्तल्पमट्टकलत्रयोः’ इति विश्वः। “संकल्पः कर्म मानसम्।’ इत्यमरः॥ २॥ (किंविश्राम्यसीत्यादिश्लोकस्य व्याख्यानं नोपभ्यतेऽस्यां टीकायाम् )॥ ४॥
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः॥४॥
इति श्रीगीतगीविन्दे वासकसज्जावर्णने धृष्टवैकुण्ठो
नाम षष्ठः सर्गः॥ ६ ॥
———————————————————————————————————————————————
कालेऽतिथयः सायमतिथयः। तेषां प्राशस्त्यं स्वागतादिसंभारेण प्रशंसा, तद्गर्भे यासां ताः। तथा किंविशिष्टस्य गोविन्दस्य। नन्दान्तिके नन्दसमीपे तत्तादृक्सङ्केतसूचनारूपमध्वगमुखान्निःसृतं राधाया वचनं गोपतः गोपायितुः। गां पालयतीति गोपः गोपायतेः पचाद्यच्। “आयादयः— ”इति तलोपे सार्वविभक्तिकस्तसि। तस्य गोपतः। अत्र पितुः सङ्केताशङ्कां मा प्रतीक्षीदिति गोपने तात्पर्यम्। अत्र तदपह्नवादपह्रुतिरलंकारः॥ प्रशंसाछद्मना व्याजोक्तिरपि। पितुः समीपे तादृग्वचो लज्जावहमिति तदपाकरणार्थं अप्रस्तुतप्रशंसापि। तदिति किम्। हे भ्रातः पथिक भाण्डीरभूमिरुहि इति वटवृक्षे किं विश्राम्यसि। अत्र विश्रामं मा कृथाः कुत इति हेतुगर्भं विशेषणमाह । किंविशिष्टे वृक्षे कृष्णभोगिभवने। कृष्णश्चासौ भोगी च कृष्णाभोगी तस्य भवनं तस्मिन् कृष्णसर्पावासे इत्यर्थः। अत्रि भ्रातृपदेन भ्रातृव्यत्वम्। तेन च मत्सङ्केतस्थानमेतदिति व्यज्यते। पक्षे कृष्णश्चासौ भोगी श्रृङ्गारी च तस्य निवासः। अत्रार्थद्वयाश्लेषिकृष्णशब्देन श्लेषोऽलंकारः। तर्हि किं कुर्वित्याशङ्याह। इतो वटात्सानन्दनन्दास्यदं न यासि अपि तु याहि इति लोडर्थलक्षणो लट्। सानन्दमृद्धिमत्तन्नन्दास्पदं चेति। अनेनात्र अन्यपरित्यागेन यत्प्रार्थ्यते तत्सुलभमिति। तर्हि दूरे भविष्यतीत्याशङ्क्याह। दृष्टिगोचरं आसन्नमेवं सानन्देति पथिकविशेषणं वा। सांप्रतमानन्देऽपि सर्पदंशादकुशलतामाप्स्यसीति। औचितीमाह। अत्र कृष्णवटाद्यैरालम्बनैर्विभावैस्तदपाकृतिनिषेधाभिव्यक्तो रतिस्थायी विप्रलम्भाख्यः श्रृङ्कारो रसः। आशीरुत्तरेऽलंकृती॥
निसर्गचित्रोज्ज्वलयुक्तिसर्गं व्याचष्ट षष्ठं रसिकप्रियायाः।
सर्गं नृपग्रामकिरीटरत्नं श्रीकुम्भकर्णस्तृणितस्मरोऽत्र॥
इति श्रीमहाराजाधिराजाभिनवभरतश्रीकुम्भकर्णविरचिते श्रीकुम्भस्वा
मिमन्दस्वादरे गीतगोविन्दविवरणे वासकसज्जावर्णने
धन्यवैकुण्ठो नाम षष्ठः सर्गः॥
———————————————————————————————————————————————
गुणेषु ये दोषदृशः परेषां ब्रूमः स्वदोषावरणाय किं तान्।
स्वतः पिधास्यन्ति ममात्र दोषान्सन्तस्ततस्तानपि किं ब्रवीमि॥
इति श्रीमहामहोपाध्यायश्रीशङ्करमिश्रविरचितायां शालिनाथकारितायां
गीतगोविन्दटीकायां षष्ठः सर्गः॥
सप्तमः सर्गः ७
नागरनारायणः।
अत्रान्तरे च कुलटाकुलवर्त्मघात60-
संजातपातक इव स्फुटलाञ्छनश्रीः।
वृन्दावनान्तरमदीपयदंशुजालै-
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः॥१
प्रसरति शशधराबिम्बे विहितविलम्बे च माधवे विधुरा।
विरचितविविधविलापं सा परितापं चकारोच्चैः॥ २॥
———————————————————————————————————————————————
नृपः कुम्भकर्णः श्रुतं वाचिधत्ते
मनोधीश्वरासेवने सन्निधत्ते।
हृदीशं परं वासुदेवं निधत्ते।
वरं गीतगोविन्द गानं विधत्ते॥
इदानीं मानिनीमानखण्डनाखण्डमण्डलं चन्द्रोदयं वर्णयन्नाह—अत्रान्तर इति। अत्रान्तरे एतस्मिन्नवसरे इन्दुर्वृन्दावनान्तरमंशुदीपैरदीपयत्प्रकाशितवान्। किंविशिष्टः। स्फुटलाञ्छनश्रीः स्फुटकलङ्कशोभः। उत्प्रेक्षते। कुलटाकुलवर्त्मघातसंजातपातक इव। अन्योऽपि यः कश्चन यस्य कस्यचन मार्गघातं करोति स कलङ्की भवत्येव। किंभूत इन्दुः। दिक्सुन्दरीवदनश्रीखण्डतिलक इव। वसन्ततिलका। अत्र रूपकोत्प्रेक्षे अलंकृती॥ १ ॥ इदानीं विप्रलब्धायास्तस्यां विधुरत्वं कथयति—प्रसरतीति। सा राधा उच्चैः परितापं चकार खेदं चकार। कथं यथा भवति। विरचितविविधालापं यथा स्यात्तथा। किंभूता सा। अतिशयविधुरा। क्व सति। शशधरबिम्बे प्रसरति सति। उद्गच्छति सति। माधवे च कृतविलम्बे सति। ‘प्रेक्ष्य दूतीं स्वयं दत्वा निकेतं नागतः प्रियः। यस्यास्तेन
———————————————————————————————————————————————
अत्रान्तर इति। अत्रान्तरेऽस्मिन्नवसरे। इन्दुश्चन्द्रोंऽशुजालैः किरणसमूहैर्वृन्दावनान्तरं वृन्दावनमध्यमदीपयत्प्रकाशितवान्। दिक्पूर्वां दिक्सैव सुन्दरी कामिनी तस्या वदनस्य मुखस्य चन्दनबिन्दुर्मण्डलाकारतिलकम्। अत्र पूर्णचन्द्रो वर्ण्यत्वेन बोध्यः। खण्डचन्द्रे चन्दनबिन्दुसादृश्याभावात्। पुनः कीदृशः। स्फुटीभूता प्रकटिता लाञ्छनकलङ्कस्य श्रीः शोभा यत्र तादृशः। कुलटाकुलस्य व्यभिचारिणीसमू-हस्य यो वर्त्मपातः संकेतगमनमार्गप्रतिरोधस्तेन संजातं पातकं यस्य सः। अपरस्यापि कृतपापस्य कलङ्कः स्फुटीभवतीति ध्वनिः॥ १ ॥ प्रसरतीति। शशधरबिम्बे चन्द्रबिम्बे प्रसरति सति। माधवे कृष्णे विहितविलम्बे कृतकालक्षेपे सति। विधुरा दुःखिता राधोच्चैः परितापं चकार। कथं यथा स्यात्। विरचितो विविधो नानाविधो विलापो यत्रैवं यथा स्यात्॥ पूर्वं तदा गमनशङ्काप्यासीत्। चन्द्र उदितेऽभिसारिणां कुत्र संचार इति तदागमनं प्रति
मालवरागयतितालाभ्यां गीयते। प्र०॥ १३॥
**कथितस61मयेऽपि हरिरहह न ययौ वनं
मम विफलमिदममलरूपमपि यौवनम्।
यामि हे कमिह शरणं सखीजनवचनवञ्चिता॥ ध्रुवम्॥ १॥
यदनुगमनाय निशि गहनमपि शीलितं
तेन मम हृदयमिदमसमशरकीलितम्॥ यामि हे०॥२॥**
———————————————————————————————————————————————
विना दुःस्था विप्रलब्धा तु सा मता’। आर्या॥२॥ पूर्वं ध्रुवः। यामीति— हे सखि, इह अस्मिन्नवसरे कं शरणं यामि। किंभूताहम्। सखीति। सख्य एव जन इतरजनवत्। तद्वचनेन त्वमत्र संकेतस्थाने तिष्ठ तमहमानयामि कुतश्चित्कार-णादत्रैव स्थितया विप्रलब्धा। इति ध्रुवः॥ अथ पदानि। कथितेति-आत्मगतं कथयति। मम इदं यौवनं विफलम्। किंभूतम्। अमलरूपमपि। अथवा यौवनं रूपं च द्वयमपि निष्फलम्। अत्रापिशब्दो भूषणकलादीनामनुक्तानां समुच्चयार्थः। अत्र कारणमाह–अहह इति कष्टे। हरिः कथितसमयेऽपि संकेति-तकालेऽपि वनं न ययौ न प्राप्तवान्। यतः ‘प्रियेषु सौभाग्यफला हि योषितः"॥ १॥ अपि च॥ यदिति। यद्यस्माद्धेतोर्निशि रात्रौ अनुग-मनाय। अर्थात् हरेरनुगमनाय गहनमपि। अपिशब्देन यत्कथमपि न क्रियते तदपि शीलितमनुभूतम्। तेन कारणेन मम इदं हृदयम-समशरकीलितं वर्तते। अथवा यदित्यव्ययं सर्वनामप्रतिरूपकं यस्येत्यर्थे। यस्यानुस्मरणाय एवं कृतं तेन हेतुना तमेव हेतुं कृत्वा मम हृदय-
———————————————————————————————————————————————
निराशयाधिकं विललापेति भावः॥ २॥ विविधविलापमेव गीतेन कथयति- कथितेति। गीतस्यास्य गौडमालवरागः प्रतिमठतालः। गीता-र्थस्तु इह बिपिने कं जनं यामि शरणम्। यद्वा कं जलमग्निं च यमं शरणं यामि। तेन विना जलप्रवेशमग्निप्रवेशं यमगृहं यामीत्यर्थः। कीदृशी। सखीजनानां वचनेन वञ्चिता प्रतारिता। मया हरिरानीयत एवेति सखीजनेन प्रतारितेत्यर्थः। सख्योऽप्येवं प्रतारिकास्तदा कोऽन्यो विश्वासपात्रं भवेदिति भावः। ‘को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च। पावके च मयूरे च मुखशीर्षंजलेषु कम्॥ इति विश्वः। “शरणं गृहरक्षित्रोः इत्यमरः। सखीवचनमेवाह–कथितेति। कथितसमयेऽपि सख्यग्रे स्वयमेव कथितो यः समयः कालोऽस्मिन्नवसरे मया सङ्केतस्थलमागन्तव्यमिति। यद्वा। सख्यग्रे मदग्रे यः समयः कथितस्तदपि वनं सङ्केतनिकुञ्जं न ययौ न गतवान्। इदमारूढमेव मे यौवनं तारुण्यममलरूपमपि निर्मलसौन्दर्यमपि विफलम्। पूर्वं तदागमनप्रत्याशया स्थितं संप्रत्यवधिलङ्घने निरवधि (१) दुःखोऽपि भोगोऽस-मर्थः। शरीरं लक्ष्याम्येव, मम यौवनं यास्यतीति भावः॥१॥ यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि शीलितं तेन कृष्णेन निमित्तभूतेन मम हृदयमसमशरेण कामशरेण कीलितं विद्धम्॥ २॥ मम मरणमेव
**मम मरणमेव वरमतिवितथकेतना।
किमिति, वि62षहामि विरहानलमचेतना॥ यामि हे०॥ ३॥
मामहह विधुरयति मधुरमधुयामिनी।
कापि हरिमनुभवति कृतसुकृतकामिनी॥ यामि हे०॥४॥**
———————————————————————————————————————————
मसमशरकीलितं वर्तते। अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं परामृश्यते। यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदयमसमशरपीडितं वर्तते। अत्र यच्छब्दस्याप्राधान्यात्समासेन निर्गुणत्वाच्च न प्रधानत्वेनान्वयः संभवी, विवक्षितार्थासमर्प्पकत्वात्॥ २॥ अपि च। ममेति— इहाचेतनाहं चैतन्यरहिता विव्हलत्वमाप्ता विरहानलं विषहामि। कथमिति विषहामीति। धात्वन्तरमप्यस्तीत्यवधार्यताम्। तदसद्भावे भ्रान्तिर्मास्तु। तत्सन्देहनिराकरणार्थं कामधेनावीक्ष्यताम्। अत्र विषह्य किं शाक्तावित्यस्य(?) दिवादित्वचुरादित्वभ्वादित्वपरस्मैपदिनो न सन्ति। किं विशिष्टा अहं। इतीव हेतोः वितथकेतना वितथं केतनमावासो यस्याः। प्रियशून्यत्वात्। अथवा वितथं निमन्त्रणं यस्याः सा। सखीमात्रवचनेन हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात्। अथवा वितथं केतनं देहो यस्याः प्रियाप्राप्तेः। एवं सति मम मरणमेव वरं न देहधारणम्॥ ३॥ अपि च। मामिहेति। मधुरमधुयामिनी कोमल सरसा वसन्तरात्रिर्मा विधुरं करोति॥ अपि च। कापि कृतसुकृतकामिनी कृपया हरिमनुभवति। एतावताऽहं मन्दभाग्या
———————————————————————————————————————————
वरमुत्कृष्टम्। तत्र हेतुमाह—इह वनेऽचेतना मूर्च्छा। यद्वा। अचेतना मूर्च्छया शानरहिता। यद्वा। अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी। विरहानलं विरहाग्निं किमिति विषहामि सहे। तथा च। इह मम दुःखस्य कोऽपि ज्ञातापि नेत्यरण्यरुदितं किमित्याचरामीति भावः। कीदृश्यहम्। अतिवितथकेतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्यास्तादृशी। यद्वा। अतिवितथं केतनं शरीरं यस्याः सा। तथा च। निरुपमसौन्दर्यालयमपीदं शरीरं तेन विना विफलमित्यर्थः। अतिवितथकेतनमिमं स्वपतिं विहायान्यपुरुषमभिस्तवंतीत्येवंरूपलान्छनं यस्यास्तादृशी। तस्मिन्मिलिते लक्षणमपीदं न मे दुःखाय स्यात्। संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः। केतनं लाञ्छने काये गृहे चोपनिमन्त्रणे।’ इति विश्वः। ‘षह मर्षणे’ इति चुराद्यन्तर्गणयुजादौ परस्मैपदी विकल्पेन णिजन्तः पठितः तस्य णिचोऽभावे विषहामीति प्रयोगः॥ ३॥ मामित्यादि। अहहेति खेदे। इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिर्मां विधुरयति विकलयति। कापि कृतं पुण्यं यया एतादृशी कामिनी हरिं कृष्णमनुभवति। केलिसमये पश्यति। “विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत् इति विश्वः। ‘मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे” इति धरणिः। “स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं
अहह कलयामि वलयादिमणिभूषणम्।
हरिविरहदहनवहनेन बहुदूषणम्॥ यामि हे०॥ ५
कुसुमसुकुमारतनुमतनुशरलीलया।
स्रगपि हृदि हन्ति मामतिविषमशीलया॥ यामि हे०॥६॥
अहमिह निवसामि न गणितवनवेतसा।
स्मरति मधुसूदनो मामपि न चेतसा॥ यामि हे०॥७॥
———————————————————————————————————————————————
यतस्तत्प्राप्त्यर्थं मया प्रयत्नः कृतः, अन्यया च हरिरतसुखमनुभूयते॥ ४॥ अपि च अहहेति। अहह इति खेदे। हरिविरहदहनवहनेन वलयादिकं मणिभूषणं बहुदूषणं कलयामि। यतः ‘स्त्रीणां प्रियालोकफलो हि वेषः" इति॥५॥ अपि च। कुसुमेति। हे कान्त, हृदिवर्तमाना स्रगपि मामतनुशरलीलया कामबाणस्वाभाव्येन हन्ति। मया पुष्पस्रगिति धार्यते तस्याश्च स्मरशरमयत्वात् हननस्वभावः। अत एवातिविषमशरलीलया। अति विषमीयते यस्मिन्नित्यतिविषमं तच्छीलं यस्याः सा तथा। अथवा मां हृदि मनसि हन्ति मनो विध्यतीत्यर्थः। अत एव विषमशीलया अन्यशरेभ्यो विषमखभावया। तथा च “अपूर्वेयं धनुर्विद्या मन्मथस्य महात्मनः। शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः’॥ किंभूतां कुसमादपि सुकुमारतनुं यो हि यस्माद्धीनबलः स तं सुखेन हन्ति॥ ६॥ अपि च। अहमिति। हे कान्त, अहमिह कुञ्जे नगणितवनवेतसा निवसामि न गणितानि वनानि वेतसाश्च यया सा। वनवेतसग्रहणमन्येषामपि वनस्थनिषमाणामुपलक्षणार्थम्। तेन दुर्ल्लङ्घ्यमप्युल्लङ्घ्य न चिन्ताहमागता परं मधुसूदनस्तु मां चेतसापि न स्मरति। अतीव युद्धाभिनिवेशः संभोगपराङ्युखो
———————————————————————————————————————————————
वृषः’ इत्यमरः॥ ४॥ अहहेति। अद्भुते। वलयादिमणिभूषणं कटकादिमणिखचितमलङ्कारं हरिविरहदहनवहनेन कृष्णविरहाग्निधारणेन बहुदूषणमनेकदोषं पश्यामि। स्रीणां प्रियाप्यामरणानि। तान्यप्यधुना भारभूतानीलद्भुतमिति भावः॥ ५॥ कुसुमेति। स्रगपि पुष्पमालापि। अतनुशरलीलया अतनुः कामस्तस्य ये शरास्तेषां लीलया मां हृदि हन्ति ताडयति। कामबाणा अपि पुष्पाण्येव। स्रगपि पुष्पमयीति तल्लीलया इन्तीति भावः। कीदृश्याऽतनुशरलीलया। अतिविषमशीलया अतिशयेन विषमं शीलं स्वभावो यस्यास्तादृश्या। अन्यबाणा हि क्षिप्ताः सन्तः क्षतमुत्पाद्य घ्नन्ति। कामबाणास्तु हृदि संगताः क्षतमकृत्वैवान्तरे च घ्नन्तीति विषमशीलतेति भावः। कीदृशीं माम्। कुसुमसुकुमारतनुं पष्पकोमलाङ्गीम्॥ ६॥ अहमिति। अहमिह निकुञ्जे वसामि। कीदृशी। न गणिता न संभाविता वनवेतसा विपिनस्य वेत्रलता यया सा। मधुसूदनः कृष्णो मां चेतसा न स्मरति। अपि चेतोमात्रसाध्यां स्वयं स्मरणमपि न करोति अन्यस्य का वार्तेति चेतसेत्यनेन ध्वनितम्। अन्यथा स्मरणस्य चेतोऽजन्यत्वेन चेतसेत्यस्य वैय्यर्थ्यापत्तेः। न गणितेत्यत्र नशब्देन निषेधवाचकेन समासः। न तु नञ्शब्देन। नञा सह समासेऽगणितेति स्यात्। यद्वा नञ् शिरश्चालने। तथा च गणिताः प्रतिलतं कृष्णमन्वेषयन्त्या परिसंख्याता वनवेतसा यया सा। यद्वा। अहमिह वने किं
हरिचरणशरणजयदेवकविभारती।
वसतु हृदि युवतिरिव कोमलकलावती॥ यामि हे०॥८॥
तत्किं कामपि कामिनीमभिसृतः किंवा कलाकेलिभि
र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भाम्यति।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सङ्केतीकृतमञ्जुवञ्जुललता कुञ्जेऽपि यन्नागतः॥ ३॥
———————————————————————————————————————————————
भवतीति व्यङ्ग्यम्। न गणितेत्यादौ निषेधार्थं नकारेण समासः। “अधुनीत खगः स नैकधा” इतिवत्। शेषविवक्षाभावान्मां स्मरतीत्यत्र न षष्ठी ॥७॥ अपि च हरिचिरणेति। हरिचरणौ शरणं गृहं यस्याः सा चासौ जयदेवकविभारती च। अथवा हरिचरणेति जयदेवविशेषणम्। तत्र शरणं रक्षितृ हृदि वसति। अर्थाद्भक्तानाम्। किंलक्षणा कोमल कलावती च। तथा च सङ्गीतराजे— ‘रागः स्यात्स्थानगौडाख्यस्तालो वर्णयती रसः। शृङ्गारो विप्रलम्भाख्यः प्रमदा मदनाकुला। पक्षनामावलेः पाटा गुम्फिता यत्र गीतके। स्निग्धमधुसूदनोऽयं रासावलयनामकः॥ प्रबन्धः पृथिवीभर्त्रा प्रबद्धः प्रीतये हरेः॥ इति स्निग्धमधुसूदनरासावलयनामा प्रबन्धस्रयोदशः॥ ८॥ राधा तदनागमने स्वगतान्हेतून्वितर्कयति—तत्किमिति। अथस्मात्कान्तः कामुकः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः मनोहरवेतसलतागृहेऽपि यन्नायासीत्तत्तस्मादहमिति वितर्कयामि। तमेव वितर्कमाहकामपीति। कांचित्कामिनीमभिसृतः किमन्यकामिन्यर्थं गतः। अथवा मामत्र संकेतस्थाने विहाय कथमन्यत्र विहरिष्यतीत्याशङ्कयाहकलाकेलिभिर्बन्धुभिर्बद्धः किम्। कलेति। विलासक्रीडापरैः। मामभ्युपगच्छन्नन्तरापि क्रीडावशो जातः। अथवा मां विहाय अन्यत्करोतीति विचारेणाप्यलम्। किंतु मामेवाभिसरन् मामलभमान इतस्ततः सान्द्रेऽन्धकारे वनसमीपे
———————————————————————————————————————————————
नातिवसामि। अपि तु निवसाम्येव। शेषं पूर्ववत्। विप्रलब्धा चेयं नायिका। तल्लक्षणम् “कृत्वा संकेतमप्राप्ते दयिते व्यथिता तु या। विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु विक्रिया। निर्वेदचिन्ताश्चेष्टासु मूर्च्छानिःश्वसितादयः” इति॥ ७॥ हरिचरणेति। हरेश्चरणौ शरणं यस्य तादृशो जयदेवकविस्तस्य भारती वाणी हृदि हृदये वसतु। अर्थात्कृष्णस्य भक्तानाम्। कीदृशी भारती। कोमलानिष्ठुरवर्णा कलावती विचित्रकलायुक्ता। केव। युवतिरिव। कीदृशी। कोमला मृद्वङ्गी। कलावती चतुः षष्टिकलाकुशला॥ ८॥ तत्किमिति। कान्तः कृष्णः संकेतीकृतो मञ्जुर्मनोहरो वञ्जुललताकुञ्जो वेत्रलतागृहं तत्रापि यत् यतो हेतोर्नागतस्तत्कामपि कामिनीं किमभिसृतः। अन्यस्याः कस्याश्चिदभिसारभूमिं प्राप्त इति किमु इत्यर्थः। यद्वा। बन्धुभिर्गोपभूमिं प्राप्तः कलाकेलिभिः कौतुककलाभिर्बद्धो नियन्त्रितः किमु। यद्वा। अन्धकारिणि घनतरतरुच्छायायां निबिडान्धकारे वनोपान्ते संकेतीकृतविपिनसमीपे संकेतस्थलमप्राप्य भ्राम्यति किमु परिभ्रमणं किं करोति। संशयान्तरमाह— क्लान्तमना इति। प्रकृतकिमुशब्दोऽत्रापि संबध्यते। तथा च। क्लान्तं मद्विश्लेषे दुःखेनोपतप्तं मनो यस्य। एवादृशः
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम्।
विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवदेतदाह॥ ४ ॥
वसन्तरागयतितालाभ्यां गीयते। प्र० १४
स्मरसमरोचितविरचितवेशा।
गलितकुसुमदरवि63लुलितकेशा॥ १ ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा॥ धुवम् ॥
———————————————————————————————————————————————
परिभ्राम्यति। अथवा तदपि न घटते। अथवा क्लान्तमनाः सन् पथि मार्गे प्रस्थातुमेवाक्षम इति सुस्थितम्। शार्दूलविक्रिडितं वृत्तम्। संशयोऽलङ्कारः॥३॥ अथ सखीविषादानुमितं कृष्णस्यान्यासक्तत्वं वितर्कयन्नाह—अथेति। इयं राधा अथानन्तरं कृष्णं विना आगतां सखीं वीक्ष्य दृष्ट्वा तत्प्रयक्षीकृतमिव यथा स्यात्तथा तद्वक्ष्यमाणमाह। किंभूतां सखीम्। विषादमूकामकृतकार्यत्वाद्विषण्णतया प्रतिवक्तुमक्षमाम्॥ किंभूता राधा जनार्दनं कयापि कान्तया रमितं विशङ्कमाना। सखीविषादान्यथानुपपत्त्याऽन्यासङ्गो व्यज्यते॥ उपेन्द्रवज्रा वृत्तम्॥ ४॥ इदमेव प्रथयति। तत्रपूर्वं ध्रुवपदम्॥ कापीति। सखि कापि युवति मधुरिपुणा सह विलसति। किंभूता। अधिकगुणः सौन्दर्यादयो यस्याः। अर्थान्मत्सकाशात्। मां विहाय यया रमत इति। मधुरिपुरित्यनेन तस्य माधुर्यानभिज्ञत्वं द्योत्यते। तेन अधिकगुणेत्यनेन मत्तो हीनेति व्यज्यते॥ अथ पदानि। स्मरेति। किंभूता कापि स्मरसमरोचितो विरचितो वेषः प्रसाधनं यया सा। स्मरसमरः कामकेलिः। अथवा स्मरोपलक्षितः समर इव समरः। अपि किंभूता। रतिविमर्दनेन विगलितपुष्पै
———————————————————————————————————————————————
प्रस्थातुमक्षमः। ततश्चलितुमेवासमर्थः इति किमु इत्यर्थः। उत्का चेयं नायिका— “उत्का भवति सा यस्याः संकेतं नागतः प्रियः। तस्यानागमने हेतुं चिन्तयत्याकुलं यथा ॥” इति ॥ ३॥ अथेति॥ अथानन्तरमियं राधा एतद्वक्ष्यमाणं दृष्टवदाह उक्तवती। यथा कस्य कियद्वृत्तान्तः केनचित्साक्षादृष्टः कथयति तद्वदित्यर्थः। किं कृत्वा। सखीं माधवमन्तरेण कृष्णं विनागतां वीक्ष्य दृष्ट्वा। अत एव विषादेन मूकां मौनाम्। कीदृशी। जनार्दनं कृष्णं कयाचिन्नायिकया रमितं शङ्कमाना तर्कयन्ती। जनार्दनमित्युचितपदोपपत्त्या ।……..। तथा च जनानामर्दनस्वभावो यस्तस्य मम तापजनकत्वमुचितमेवेति भावः॥ ४ ॥ तदेव गीतेन कथयति—स्मरेति। गीतस्यास्य वसन्तरागः। एकताली तालः। गीतार्थस्तु कापि युवतिर्मदुरिपुणा कृष्णेन विलसति रमते। अत एवाधिकगुणा अधिकः सैन्दर्यादिगुणो यस्याः सा। मत्संकेतागमनोत्सुकमपि कृष्णं गुणैरपत्दृत्य रमितवती। मत्तोऽप्यधिकगुणेति भावः। युवती विलसतीत्यनेन कामिकर्तृकविलासकथनाद्विपरीतरतमुक्तम्। कीदृशी। स्मरसमरः कामसंग्रामः। सुरतमिति यावत्। तत्रोचितो योग्यो विरचितः कृतो वेश आभरणं यया सा। पुनः कीदृशी। गलितः स्खलितः कुसुमभरो यस्यास्तादृशी। विलुलिताः कृष्णेन कचग्रहपूर्वकं चुम्बनादानेन स्रस्ताः केशा यस्याः सा। विपरीतरते च नायिकायाः केशग्रहणपूर्वकमेव
हरिपरिरम्भणवलित64विकारा।
कुचकलशोपरितरलितहारा॥ कापि०॥ २॥
विचलदलकललिताननचन्द्रा।
तदधरपानरभसकृततन्द्रा॥ कापि०॥ हे॥
चञ्चलकुण्डलदलितकपोला।
मुखरितरसनजघनगतिलोला॥ कापि०॥ ४॥
दयितविलोकितलज्जितहसिता।
बहुविधकूजितरतिरसरसिता॥ कापि०॥ ५॥
———————————————————————————————————————————————
रीषद्विलुलिताः केशा यस्याः सा। अनेनोक्तेनास्याः पुरुषायितत्वं व्यज्यते॥१॥ अपि च हरीति। पुनः किंभूता। हरिपरिरम्भणेन वलितः संभक्तौ विकारः कामोपलक्षितो मानसो भावो यस्याः। कुचकलशयोरुपरि तरलश्चञ्चलो हारो यस्याः। अत्रापि हारतरलत्वं पुरुषायितमभिव्यनक्ति॥ २॥ अपि च। विचलदिति। पुनः किंभूता । विचलदलकैर्ललितो मनोहरो मुखचन्द्रो यस्याः सा तथा। पुनः किंभूता तदधरपानरभसेन हर्षेण कृता तन्द्रा सुखजनितालीकनिद्रा यया॥३॥ अपि च। चञ्चलेति। किंभूता। चञ्चलकुण्डलाभ्यां ललितौ (दलितौ) कपोलौ यस्याः। पुनः किंभूता। मुखरितरसना या जघनगतिः जघनस्य गतागतं तया लोला॥ ४॥ अपि च। दयितेति। किंभूता। लज्जिता चासौ हसिता च लज्जितहसिता। दयितविलोकितेन लज्जितहसिता। अपि च किंभूता। बहुविधानि कूजितानि पारावतादीनामव्यक्तशब्दा
———————————————————————————————————————————————
चुम्बनं कार्य्यमित्युक्तं प्राक्। “अस्त्रियां समरानीकरणाः” इत्यमरः। ‘वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके।’ इति विश्वः॥ १॥ पुनः कीदृशी। हरीति। हरेः परिरम्भणेनालिङ्गनेन चलितो जातो विकारो रोमाश्चादिर्यस्याः सा। पुनः कीदृशी। कलशाविव कुचौ तत्र तरलितश्चञ्चलो हारो यस्याः सा॥२॥ पुनः कीदृशी। विचलदिति। विचलद्भिश्चञ्चलैरधिकैश्चूर्णकुन्तलैर्ललितो मनोहर आननचन्द्रो यस्याः सा। लालित्यं चालकानां कलङ्कसादृश्यान्मुखे चलत्कलङ्कवत्त्वं चन्द्रमसः प्रतीयते। पुनः कीदृशी। तस्य कृष्णस्याधरपानरभसः। तेन कृता चक्षुर्निमीलनेनाविष्कृततन्द्रा रतिसुखानुभवजनिता निद्रा यया सा॥३॥ पुनः कीदृशी। चञ्चलेति। चञ्चलाभ्यां कुण्डलाभ्यां दलितौ मृदितौ कपोलौ यस्याः सा। कुण्डलयोश्चाचल्यं पुरुषायितासकलनायिकातनुचाञ्चल्यं भवत्येव। पुनः कीदृशी। मुखरितेति॥ मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका यस्य। तादृशस्य जघनस्य गत्या गतेन लोला चञ्चला॥ ४॥ पुनः कीदृशी। दयितेति। दयितस्य कृष्णस्य विलोकितेन वीक्षणेन लज्जितहसिते लज्जाहास्ये यस्याः सा। यद्वा दयितविलोकिते च लज्जिता लज्जावती हास्ययुक्ता चेत्यर्थः। पुरुषायमाणायास्तस्याधःस्थितस्याङ्गनायमानस्य कृष्णस्य
विपुलपुलकपृथुवेपथुभङ्गा।
श्वसितनिमीलितविकसदनङ्गा॥ कापि०॥ ६॥
श्रमजलकणभरसुभगशरीरा।
परिपतितोरसि रतिरणधीरा॥ कापि०॥ ७॥
—————————————————————————————————————————
नुकरणानि यत्र तद्यथा स्यात्तथा रतिरसेन रतिरागेण रसिता शब्दिता। अथवा बहुविधं कूजितमव्यक्तः शब्दो यत्र तेन रतिरसेन शब्दिता॥ ५॥ अपि च। विपुलेति। विपुला बहवः पुलका रोमाञ्चा यत्र असौ विपुलपुलकः पृथू रोमाञ्चभङ्गस्तरङ्गो यस्या भङ्ग इव भङ्गः। श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवन्ननङ्गः एतल्लक्षणः कामो यस्याः॥ ६॥ अपि च। श्रमजलेति। किंभूता॥ स्वेदबिन्द्वङ्कितशरीरा। अपि च किंभूता। उरसि पतिता। अर्थाद्धरेः। रती रण इव
—————————————————————————————————————————
दर्शनेन लज्जा हास्यं च तस्या अभूदिति भावः। लञ्जितहसितेत्यत्र प्रथमव्याख्याने नपुंसके भावे क्तः। द्वितीयव्याख्याने लज्जाधातोर्हास्यवाचकस्य धातोश्चाकर्मकत्वाव् “गत्यर्थाकर्मक— ‘इत्यादिना क्तः। पुनः कीदृशी। बहुविधं पिकशिखिकलहंसादीनामिव नानाप्रकारं कूजितं शब्दितं यत्र। एतादृशो रतिरसः सुरतरसस्तेन रसिता हृष्टा। यद्वा। बहुविधं नानाप्रकारं पारावतादीनां यत्कूजितं तद्वद्रतिरसे रसितं शब्दितं यस्याः सा। “रसितं शब्दिते हृष्टे" इति कोशः॥ ५॥ पुनः कीदृशी। विपुलेति। विपुलाः प्रचुरा ये पुलका रोमाञ्चास्तेषां पृथुर्महान्यो वेपथुः कम्पस्तस्य भङ्गस्तरङ्गो यस्याः सा। रोमाञ्चकम्पयोरुत्तरोत्पत्त्या तरङ्गसाम्यम्। “भङ्गस्तरङ्गे रुद्भेदे भङ्गो जयविपर्यये।’ इति विश्वप्रकाशः। पुनः कीदृशी। श्वसितं सुरतायासजनितो निश्वासो निमीलितं परमानन्दावाप्तिजनितं नेत्रनिमीलनं ताभ्यां विकसन्प्रकटीभवन्ननङ्गः कामो यस्याः सा। श्वसितेत्यनेनानन्दावाप्तिसान्निध्यं कथितम्। तदुक्तं रतिरहस्ये—“मुहुः स्वजनाश्लेषः सीत्काराश्चितलज्जितम्। हुङ्करोच्छ्वसितं नार्य्या वीर्यसान्निध्यसूचकम्”॥ इति। निमीलितेत्यनेन च्युतिकालः कथितः। तदुक्तं तत्रैव— “मूर्च्छना मीलनं चाक्ष्णोश्चुतिकालस्य लक्षणम्।’ इति॥ ६॥ पुनः कीदृशी। श्रमजलेति। श्रमजलकणेन सुरतायासजनितप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं शरीरं यस्याः सा। त्रुटितहारेऽपि वक्षसि स्वेदबिन्दुर्मुक्ताहारशोभाजननात्सुभगशरीरेति भावः। पुनः कीदृशी। उरसि कृष्णस्योरसि परिपतिता। पुनः कीदृशी। रतिरणे सुरतसंग्रामे धीरा पण्डिता। अनेन सुरतान्तकार उक्तः। तदुक्तं रतिरहस्ये— “अङ्गे स्वेदः श्लथत्वं च केशवस्रादिसंसृतिः(?)। जाते च्युतिसुखे नार्य्या विरामेच्छा च जायते॥’ बन्धश्चायं हंसलीलकाख्यः। तदुक्तं रतिरहस्ये—‘नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि। कटिमान्दोलयेदाशु बन्धोऽयं
श्रीजवदेवमभितहारिरामितम्।
कलिकलुषं जनयतु परिशमितम्॥ कापि०॥ ८॥
विहरपाण्डुमुरारियुखाम्बुजद्युतिरयं तिरयन्नपि वेदनाम्।
विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम्॥५॥
———————————————————————————————————————————————
रतिरणः तत्र धीरा स्थिरा॥ ७॥ श्रीति। इदं श्रीजयदेवभणितं विपरीतरताभि(योग)क्रीडितं कलिकलुषं परिशमितं जनयत्विति शान्तिं नयतु॥ ८॥ तथाच सङ्गीतराजे “श्रीरागो यत्र रागः स्यात्तालस्तु द्रुतमण्ठकः। वर्णनं वासुदेवस्य रतिस्तह्यत्यये स्त्रियाः। पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च। प्रयोगश्च भवेद्यत्र स प्रबन्धवरः स्मृतः॥ हरिरमितचम्पकवर्णेभ्यः शेखराभिधः”॥ इति हरिरमितचम्पकशेखरनामा चतुर्द्दशः प्रबन्धः॥ इदानीं विरहातुरा राधा चन्द्रमुद्दिश्याह—विरहेति। अये कोमलामन्त्रणे। हे सखि, अयं विधुः हृदये अर्थात् मम अतिमदनव्यथां तनोति। किंभूतः। मनोभुवः मदनस्य सुहृन्मित्रम्। मुरारेर्विरहावस्थास्मरणेनाह। किंभूतः। विरहेण पाण्डुः यन्मुरारिमुखाम्बुजं तस्य द्युतिरिव द्युतिर्यस्य। अत एव वेदनां तिरयन्नपि आच्छादयन्नपि। एतदुक्तं भवति। पूर्वं मदीयविरहपाण्डुमुरारिमुखकान्तिमत्त्वेन मम वेदना नाशयन्नपि कामसुहृत्त्वेन वेदनां करोत्येव। तदप्राप्त्यपि यदपेक्षया तख स्थित्वाद्दुःखं नाभूत्सांप्रतमन्यासक्तं तं ज्ञात्वा मया स्थातुं न शक्यत॥
———————————————————————————————————————————————
हंसलीलकः” इति। “लवलेशककणाणवः’ इत्यमरः॥ ७॥ श्रीजयदेवेति। श्रीजयदेवेन भणितं यद्धरेः कृष्णस्य रतिरमितं क्रीडितं कलेः कलियुगस्य कलुषं पापमर्थाच्छ्रोतृृणां पाठकानां च परिशमितं जनयतु नष्टं करोतु॥ ८॥ संप्रति चन्द्रोऽप्ययमधिकतरं व्यथयतीत्याह—विरहेति। अये इति विषादे। अयं दृश्यमानश्चन्द्रो मम हृदये मदनव्यथां कामपीडां तावदधिकं यथा स्यादेवं तनोति विस्तारयति। कीदृशः। विरहेण मद्विश्लेषेण पाण्डु धूसरं यन्मुरारेः कृष्णस्य मुखाम्बुजमाननपद्मं तद्युतिर्यस्य सः। तथा च। तादृशकृष्णमुखाम्बुजचन्द्रदर्शने कृष्णस्य मुखाम्बुजस्य स्मरणादतिव्यथा जायते इति भावः। किं कुर्वन्। वेदनामपि तिरयंस्तिरोहितां कुर्वन्। तथा च। चन्द्रदर्शनेन तथा विवेकोन्मूलनं भवति कृष्णमुपायेन कृतापराधमपि तमेव मनः स्मरतीति भावः। व्यथाजनकत्वे हेतुमाह— मनोभुव इति। मनोभुवः कामस्य सुहृन्मित्रम्। तथा च निकटस्थितस्यापि कृष्णस्यानुसरणं मया न कृतमिति मदनाशालङ्घनात्कामो मे वैरी जातः। सख्युस्तस्य साहाय्यं चिकीर्षता चन्द्रेणापि व्यथा जन्यत इति भावः। चन्द्रस्य कृष्णमनोजन्यत्वेन कामस्य मनसिजत्वेनैव प्रसिद्धेः। सोदरत्वेन कामचन्द्रयोः सौहार्दत्वाच्च मनोभुवपदेन कामस्योपादानम्। तथा च श्रुतिः ‘चन्द्रमा मनसो जातश्चक्षोः सूर्योऽजायत’। इति। ‘वेदना ज्ञानदुःखयोः। भये क्रोधे विषादे च संभ्रमे स्मरणेऽपि च॥ इति विश्वः। ‘तिरोऽन्तर्द्धौ तिर्यगर्थे" इति च॥५॥
गुर्जरीरागैकतालीतालेन गीयते। प्र० १५
समुदितमदने रमणीवदने चुम्बनवरिताधरे।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे॥ १॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना॥ ध्रुवम्॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने॥ रमते०॥२॥
———————————————————————————————————————————————
इति भावः॥ द्रुतविलम्बितं वृत्तम्॥ १॥ इदानीं राधा विव्हलिते मनसि तत्स्वरूपमेव निरूपयति॥ अत्र पूर्वं ध्रुवपदम्॥ रमत इति। अधुना मुरारिर्यमुनापुलिनवने रमते। अत्र मुरारिपदं कामुकस्य कार्कश्ये रत्यभावं द्योतयति। किंभूतः। विजयी मां पराभूय जयवान्। इति ध्रुवः। अथ पद्यानि। तमेव रमणप्रकारमाह—समुदितेति। रमणीवदने मृगमदुतिलकं कस्तूरीतिलकं लिखति। रमतेऽस्यामिति रमणी। लिखिरत्र लेखनसामान्याद्विन्यासे वर्त्तते किंभूते वदने। अत एव सम्यगुदितः कामो यतः। पुनः किंभूते सतिलकं मुखमुद्वीक्ष्य दीप्तस्मरत्वात्सपुलकं यथा भवति तथा चुम्बनाद्वलितः संभक्तोऽधरो यत्र। कस्मिन्क इव। रजनीकरे मृग इव। पूर्णचन्द्रनिभे मुखे कस्तूरीतिलकेन राधानिःश्वासैककाश्मल्यं द्योत्यते। अत्र रजनीकरग्रहणेन तयोः क्षणरागित्वं द्योत्यते॥ १॥ अपि च। घनचयेति। स तस्या इति प्रकरणलभ्यौ। चिकुरे कुन्तले। जातावेकवचनम्। कुरबककुसुमं शोणसैरेयकपुष्पम्। शोणम्लानपुष्यं वा रचयति। किंभूते। रतिपतिः मृग इव तस्य कानने। किंभूते चिकुरे। घनचयरुचिरे मेघपटलमनोहरे। पुनः किंभूते। तरलिततरुणानने। तरलितानि तरुणानामाननानि येन। काननपक्षे तरलितानि तरुणानां कुब्जककुस
———————————————————————————————————————————————
पूर्वं गीतेन कस्याश्चिद्विपरीतरतमुक्तमधुना कस्याश्चित्स्वाधीनभर्तृकाया नायककर्तृकां क्रीडामाह—समुदतेति। गुर्जरीरागेऽस्यैकतालः। गीतार्थस्तु— विजयी जयशीलो मुरारिर्यमुनापुलिने वने यमुनायाः सैकते यद्वनं तत्र रमते क्रीडति। निःशङ्ककेलिप्रतिपादनाय विजयीत्युक्तम्। क्रीडामेवाह— समुदितेति । रमणीवदने कामिनीमुखे सपुलकं रोमाञ्चं यथा स्यादेवं मृगमदतिलकं कस्तूरीतिलकं लिखति। कीदृशे। चुम्बनाय वलितः संमुखीकृत्य संकोचितोऽधरो यत्र तादृशे। कुत्र कमिव। रजनीकरे चन्द्रे मृगमिव। कीदृशे चन्द्रे। समुदितः सम्यगुदितो मदनो यस्मात्तादृशे। पूर्णचन्द्रस्य कामोद्दीपकत्वादिति भावः। पुनः कीदृशे चन्द्रे। चुम्बनाय वलितः संमुखीकृतोऽधरो यस्मात्तादृशे। चन्द्रदर्शनाद्यूनोश्चुम्बनादौ प्रवृत्तिः। अत्र मुखस्याह्लादकारित्वादिना चन्द्रसाम्यं कस्तूरीतिलकस्य च मृगसाम्यं बोध्यम्॥ १॥ केल्यन्तरमाह—घनचयेति। चिकुरे तस्याः केशपाशे कुरबककुसुमं शोणाम्लानपुष्पं, अरुणझिण्टीपुष्पं वा रचयति। यथाविन्यासमर्पयतीत्यर्थः। कीदृशे चिकुरे। घनचयवन्मेघसमूहवद्रुचिरे मनोहरे। पुनः कीदृशे। रतिपतिः कामः स एव मृगस्तस्य कानने वने। पुनः कीदृशे। तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते।
मणिसरममलं तारकपटलं नखपदशशिभूषिते॥ रमते०॥ ३॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले॥ रमते०॥ ४॥
———————————————————————————————————————————————
मानां वा वातारिवृक्षाणामग्रभागा यस्मिन्। रमणीपक्षे कुलटानां सुखरूपम्। यथा मृगः कानने बली तथात्र कामः। अत्र मृगशब्देन तत्र रममाणस्य हरेःपरुषत्वं (पशुत्वं) व्यज्यते॥२॥ अपि च। घटयतीति। स तस्याः कुचयुगगगने कुचयुगं गगनमिव बृहत्त्वात्। अमलमणिहारं हीरकसरं हीरकहारं तारकपटलं तारकासमूहं घटयति योजयति। किंभूते। सुघने सुतरां घने पीने। गगनपक्षे शोभनघने। किंभूते स्तनयुगे। मृगमदरुचिरूषिते। कस्तूरीपरिष्वङ्गेन निवारितसुरतश्रमजले । गगनपक्षे मृगमदकान्तियुक्ते रूक्षे च भावेन। पुनः कथंभूते। नखपदं शशीव तेन भूषिते। पक्षे। नखपदमिव शशी तेन भूषिते। अत्र तस्मिन्नभिलाषशून्यत्वं गगनपदव्यङ्ग्यम्॥३॥ अपि च। जितेति। स कृष्णस्तस्या जितबिसशकले मृणालखण्डसदृशे भुजयुगले वर्त्तमाने। करतलनलिनीदले
———————————————————————————————————————————————
येन तादृशे। कीदृशं कुसुमम्। चपला इव रक्तविद्युदिव सुषमातिशयिता शोभा यस्य तादृशम्। यद्वा। चपलावत्सुषमं चारु। अत्र विरहतापशामकतयातिश्यामलतया चिकुराणां सजलमेघसाम्यम्। केशग्रथितकुरवककुसुमानां चान्तरान्तरा दृश्यमानतया विरहिणां संतापजनकतया रक्ततया लोहितविद्युत्साम्यम्। “चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः” इत्यमरः। ‘स्मृतः कुरबकः शोणाम्लानझिण्टीप्रभेदयोः” इति विश्वः। ‘कुसुमं पुष्पफलयोः" इत्यपि। “चपला कपिलाविद्युत्पुंश्चलीपिप्पलीषु च” इत्यपि। सुषमं चारुसमयोः सुषमा परमाद्यतौ” इति च॥ २॥ केल्यन्तरमाह—घटयतीति। कुचयुगं गगनमिव। बृहत्त्वात्। तत्रामलं निर्मलं मणिसरं मुक्ताहारं तदेव तारकसमूहं घटयति प्रापयति। कीदृशे कुचयुगगगने। सुष्ठु अतिशयेन धनो विस्तारो यत्र तादृशे। मृगमदस्य कस्तूर्या रुच्या दीप्या रूषिते व्याप्ते पुनः कीदृशे। नखक्पदं नखाङ्कस्तदेव शशी तेन भूषितेऽलङ्कृते। नखक्षतं चेदर्ध्देन्दुसाम्यं बोध्यम्। तदुक्तं पञ्चसायके“अर्द्धेन्दुसंकाशमिदं नखक्षतमर्द्धेन्दुसंज्ञं कथितं समासतः। कक्षानितम्बस्तनपार्श्वमध्ये दातव्यमेतत्करजं सदैव” इति । अत एवात्र शशिपदमप्यर्द्धचन्द्रपरं बोध्यम्। पूर्णचन्द्रस्य तत्साम्याभावात्। अत्र कुचयुगस्य विस्तीर्णत्वात्कस्तूरिकया श्यामत्वाङ्करूपचन्द्रवत्त्वाद्गगनत्वेन निरूपणम्। गगनस्यापि कविसंप्रदाये श्यामत्वेनैव प्रसिद्धेः अत एव सुधन इत्यादिभिस्त्रिभिर्विशेषणैर्गगनत्वनिरूपणौपमकविशेषणोपादानात्साङ्गमेतद्रूपकम्। ‘घनः सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे" इति विश्वः। गुण्ठितरूषिते इत्यमरः। एतद्व्याख्यानसमये क्षीरस्वामिनाप्युक्तम्— “रूषिते लौकिकव्यावृत्त्येर्थः। यत्रान्तार्गिरिरेणुरूषितः”॥ ‘नक्षत्रे चापि मध्ये च तारकं तारकापि च’ इति विश्वः॥ ३॥ किं च। जितविसेति। मृदुभुजयुगले तस्याः कोमले बाहुयुगे मरकतवलयमिन्द्रनीलमणिकङ्कणं तमेव मधुकरनिचयं भ्रमरसमूहं विकिरति अर्पयति। कीदृशे भुजयुगले। जितं निज
रतिगृहजघने विपुलापघने मनसिजकनकासने।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने॥ रमते०॥ ९॥
———————————————————————————————————————————————
कराब्जपत्रे। शोणे करतले नीलमरकतसंचयः सभ्रमरपद्मशोभामनुकरोति। तेन तयोः यावकमण्डनकमनीयतान्यायेन औपाधिकस्नेहो रसाभासत्वेन व्यञ्जितः। मरकतबलयं मधुकरनिचयमेव वितरति प्रयच्छति। किंभूते करतले। हिमशीतले। अत्र हि हिमशीतलशब्दस्तसिन्कामाभावं द्योतयति। तथा चाह— “अनुरागोऽनुरक्तायां रसावह इति स्थितिः। अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः॥ ४॥ अपि च। रतीति। स तस्या रतिगृहजघने मणिमयरसनं मेखलां विकिरति। रतिगृहं च तज्जघनं च। जघनस रतिगृहेति नाम्नि सत्येव रतिं गृह्णाति। रतेरावासप्रस्थापितत्वेन विशेषणपरता। किंभूते। विपुलापघने विपुलावयवे। पुनः किंभूते। मनसिजकनका
———————————————————————————————————————————————
मार्दवेन शैत्येन चाभिभूतं विसशकलं मृणालखण्डं येन तादृशे। पुनः कीदृशे। करतलमेव नलिनीदलं पद्मं यत्र तादृशे। यद्वा। करतलमेव नलिनीदलं पद्मिनीपत्रं यत्र तादृशे। पुनः कीदृशे। हिमवच्छीतले। अत्र यद्यपि करतलस्य पद्मिनीपत्रत्वरूपणं न विरुद्धमिति। अत्र द्वितीयव्याख्याने मरकतवलयस्य पद्मरूपणमाचक्षोपलभ्यमित्येकदेशविवर्तिरूपकम् । तदुक्तं काव्यप्रकाशोश्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्तितम्। अस्यार्थःकेचन पदार्थाः श्रौताः श्रुतिपण्डिताः (?) साक्षाच्छब्दाः पठिताः केचन आर्थास्तदन्यार्थानुपपत्तिगम्या यत्र रूपके तदेकदेशवर्तीति। “नलिनी पद्मिनी पद्मव्योमसिन्धुसरोवरे" इति विश्वः। “मरकतो नीलमणिः” इति॥४॥ किं च॥ रतिगृहेति। रतेः शृङ्गारस्य गृहे आश्रये मणिमयरसनं मुक्तामयीं मेखलां विकिरति क्षिपति। अत्र विकिरतीत्यनेन काञ्चीबन्धनसमये श्रोणीस्पर्शजनितसाध्वसवशात्कम्प्यमानकरा क्षिपति न तु बध्नातीति ध्वनितम्। कीदृशे। विपुलापघने विपुलो विस्तीर्णोऽपधनोऽवयवो यस्य तादृशे। अति मांसल इत्यर्थः। पुनः कीदृशे। मनसिजस्य कामस्य कनकनिर्मितसिंहासनः इव। विस्तीर्णत्वादतिगौरत्वाच्च जघनस्य कनकासनसाम्यम्। अत्र जघनस्य कनकासनत्वरूपणमनुपठ्यमानमनसिजस्य महाराजत्वमाजीवतीत्येकदेशविवर्तिइत्यादि रूपकमिति। कीदृशं मणिमयरसनम्। तोरणस्य मङ्गलस्य स्रजो हसनमुपहासो यस्मात्तादृशम्। अन्योऽपि यदि सिंहासन उपविशति तदा तत्र परिजनैर्वन्दनमालिका बध्यते। मनसिजसिंहासनीभूते तस्या जघने क्षुद्रमणिकारूपमाङ्गल्यस्रगयं बध्नातीति भावः। पुनः कीदृशे जघने। कृतं वासनं वस्त्रं समाहृत्यापि काञ्चीं बध्नाति। कृष्णेऽतिलञ्जया नायिकया कृतं शाटिकादिरूपं वस्रंत्यर्थः। यद्वा। कृतं वासनं श्रीकृष्णशीकरणाय धूपविशेषो यत्र तादृशे।अत एव तया वशीकृतः सन् मामवधूय तया सह रमत इति भावः। धूपविशेषश्च स्वदेहे नायकवशीकरणाय च नायिकया कर्तव्य इति कामशास्त्रे उक्तम्। तदुक्तं रतिरहस्ये— “वरयुवतीमलयोद्भवसूक्ष्मैलासर्जकृष्टसिद्धार्थैः। सर्वाङ्गीणो धूपः सर्वजनानां वशीकरणम्’॥ इति। यद्वा। कृता तत्कान्तिदर्शनात्कृष्णेन वासनाभोगेच्छा यत्र तादृशे। यद्वा। कृतवासनमर्थात्कामेन स्थानं यत्र तादृशे। यद्यपि मनसिजकनकासन इत्यनेनैव काम
चरणकिसलये कमलानिलये नखमणिगणपूजिते।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते॥ रमते०॥ ६॥
रमयति सुदृशं कामपि सुभृशं खलहलधरसोदरे।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे॥ रमते० ७
———————————————————————————————————————————————
सने कामस्य हेमपीठे। किंभूतं रसनम्। तोरणहसनम्। रतिगृहे तोरणसदृशमिति यावत्। किंभूते रतिगृहे। कृतवासने कृतं वानं गन्धादि यस्य। गृहं च अधिवायपरिकल्पितासनादि रमणीयं भवति। अत्र कनकशब्दः स्मरहरप्रियत्वेन कामस्योद्वेजको भवतीति ध्वन्यते॥ ५॥ अपि च। चरणेति। हरिस्तस्याश्चरणकिसलये यावकाभरणं पूरणं जनयति। किंभूते। हृदि योजिते योगं प्रापिते। अर्थात् श्रीकृष्णस्य हृदि। किंविशिष्टे चरणकिसलये। कमलानिलये लक्ष्मीनिवासस्थाने। पुनः किंभूते। नखा एव मणिगणाः आरक्तत्वात्। तैः पूजिते। किंभूतं यावकभरणम्। चरणस्य स्वभावलोहितत्वाद्बहिर्भूतमाच्छादकम्। किंभूते हृदि। कमलानिलये लक्ष्मीनिवासस्थाने। पुनः किंभूते। नखमणिगणपूजिते। तया दत्तनखत्वात्॥६॥ अपि च । रमयतीति। हे सखि, वद मौनं विसृज। विरसं यथा स्यात्तथा चिरमिह विटपोदरे निकुञ्जेऽफलप्राप्तिलक्षणरहितं चिरं किं अवसं किमुषितास्मि। क्व सति। खलहल
———————————————————————————————————————————————
स्थानं प्राप्तं तथापि नित्यं तत्सान्निध्यसूचनायैतदुक्तम्। “अङ्गं
प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्। इत्यमरः। ‘सिंहासनं तद्धैमम्’ इत्यपि। ‘रसनं स्वादने पाने। रसना काञ्जीजिव्हयो रसनं चापि’ इति विश्वः। “मङ्गल्यस्रक्तोरणो भवेद्वन्दनमालिका’ इति क्षीरस्वामिलिखितकोषः। ‘वसनं वसने चाथ स्थाने ज्ञाने धूपने’ इति विश्वः॥ ५॥ किं च। चरणकिसलये चरण एव किसलयमाताम्रत्वात्कोमलत्वाच्च। तत्र यावकभरणं जनयति। कीदृशे। कमलायाः श्रियो निलयो आश्रयः। कीटे। नखा एव मणिगणामणिसमूहास्तैः पूजितेऽलङ्कृते। कीदृशं यावकमरणम्। बहिर्भूतं दूरीभूतमपवरणं यस्य तादृशम्। स्पष्टमित्यर्थः। पुनः कीदृशे। हृदि हृदये योजिते। अनुरागातिशयात्प्रापितं स्वहृदये तच्चरणकिसलयं कृत्वा यावकं च रचयतीत्यर्थः। यद्वा। हृदि तस्यैव विशेषणम्। कीदृशे हृदि। कमलाया लक्ष्म्या निलये आश्रये। लक्ष्म्याः कृष्णवक्षस्येव सर्वदा स्थितिः। पुनः कीदृशे। नखा एव मणिगणास्तैर्भूषिते। लक्ष्म्या अपि गृहे तदीयचरणकिसलयं ददाति। तस्य सौभाग्यातिशयो ध्वनितः। अत्र चरणकिसलये नखमणिगण इत्यत्र रूप्यमानयोः किसलयत्वमणिगणत्वयोः परस्परमयोगादयुक्तं नामरूपकम्। तदुक्तं दण्डिना— इदं मन्दस्मितं ज्योत्स्ना स्निग्धनेत्रोत्पलं मुखम्। इति ज्योत्स्नोत्पलयोगादयुक्तं नाम रूपकम्’ इति। ‘कमलापीवरयोः’ इति विश्वः। “लक्षा रक्षा जतु क्लीबे यावकालक्तकामयः” इति विश्वः॥ ६॥ रमयतीति। एवं स्वमेव तत्तदाभरणं विधाय कामपि सुदृशं शोभने दृशौ नेत्रे यस्यास्ताम्। खलो दुर्जनो यो हलधरो बलभद्रस्तस्य सोदरो भ्राता कृष्णस्तत्सुभृशमतिशयेन रमयति। हे सखि, वद कथय इह विटपोदरे कुञ्जमध्ये विरसं रसशून्यं यथा स्यादेवमत एवाफलं यथा स्यादेवं चिरं बहुकालं व्याप्य
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके॥ रमते०॥८॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम्।
———————————————————————————————————————————————
धरसोदरे दुष्टे बलभद्रभ्रातरि कामपि आत्मसदृशं खलां सुदृशं लक्षणया विरूपनेत्रां रमयति सति। अत्र हलधरशब्दो मामनुकूलां’ विहायान्यासक्तोऽन्यां रममाणस्य तस्य पामरत्वं द्योतयति। ईदृशस्यास्य प्रतीक्षायां विदग्धया न स्थातव्यमिति भावः॥७॥ अपि च। इहेति। कविराजजयदेवके कलियुगेन रचितं दुरितं न वसतु न तिष्ठतु। किंभूते रसभणने रसोद्दीपके। कर्तरि ल्युः। पुनः किंभूते। कृतहरिगुणने कृतहरिकथाभ्यासे। पुनः किंभूते। मधुरिपुपदसेवके। अथ च इह रसभणने इति प्रबन्धविशेषणत्वेन योजनीयम्। इयमष्टपदी स्तुतिनिन्दापरत्वेन बोद्धव्या॥ तथाच सङ्गीतराजे “द्रुतमण्ठेन तालेन द्रुतेनैव लयने च। मह्लारे रसराजे स्यात्पदानां संततेः पुनः। स्वरग्रामस्तथा पाटास्तेना अपि यथाक्रमम्। हरिरसमन्मथाद्यस्तिलकः प्रबन्धराट्॥ इति हरिरसमन्मथतिकनामा पञ्चदशः प्रबन्धः॥ कृष्णानागमने हेतुं दूतीविषादोपनयपुरःसरं सोत्कण्ठा राधा प्रकटयति— नायात इति। हे सखि, राधे, स मया बहुप्रेयस्यापि आहूतः परं निर्दय इति नायातः। अथ राधाह— हे दूति, स यदि शठः धूर्तः तर्हि किं दूयसे त्वं मा विषादं कार्षीः। त्वं दूतीकर्मण्येव प्रभुः॥ दूत्याह—हे राधे, अहं अत एव दूये। स बहुवल्लभः सन् बव्ह्यो वल्लभाः प्रेयसो यस्य सः स्वच्छन्दं यथा स्यात्तथा रमते क्रीडति। पुना राधाह—तत्र ते किं दूषणं न हि त्वं।
———————————————————————————————————————————————
किं किमित्यवसंस्थितास्मीत्यर्थः। अत्र च हलधरसोदरत्वेन कृष्णस्योपादानम्। हलधरो ग्राम्यस्तत्सोदरोऽयमपि तथैव भविष्यतीति तस्य मां विहाय कयाचिद्गोपिकया सह केलिकरणमुचितमेवेति सूचनाय। “विटपः पल्लवे शृङ्गे विस्तारे स्तम्बशाखयोः इति। विश्वः। अवसमिति “वस निवासे” इत्यस्य धातोरुत्तमपुरुषैकवचनम्। लङ् । स्वाधीनभर्तृकेयं नायिका। तदुक्तं श्रृङ्गारतिलके—“यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति। विचित्रविभ्रमासक्ता स्वाधीननायिका यथा’ इति॥ ७॥ इहैतत्काव्यकर्तरि कविनृपजयदेवके कलियुगे चरितमाचरितं कृतं दुरितं न वसतु न तिष्ठतु। कीदृ शम्। रसस्य कृष्णविषय शृङ्गाररसस्य भणनं कथनं यस्य तादृशे। अत एव कृतं हरेर्गुणनं चिन्तनं येन तादृशे। अत्र हेतुमाह—मधुरिपोः कृष्णस्य पदसेवके॥ ८॥ पूर्वमन्यस्याः कस्याश्चित्कृष्णेन सह केलीमुत्प्रेक्ष्य सख्या अग्रे वर्णितवती । संप्रति दूतीं कृष्णेनोपभुक्तां शङ्कमाना वक्रोक्त्या दूतीं प्राह—नायात इति। हे सखि, दूति, दूत्यकर्मकुशले, स निर्दयो दयारहितोऽत एव शठः कृतगूढमदपराधो यदि नायातस्तदा किं दूयते किमिति दुःखिता भवसि। स तु शठो भवति। किं त धृष्टः स्वच्छन्दमेव रमतेऽतो किं दूयसे इत्याह—स्वच्छन्दमिति। स कृष्णो बहुवल्लभोऽनेकनायिकाप्रियोऽत एव स्वच्छन्दं निःशङ्कं रमते। यया कयाचिद्गोपिकया सह केलिं करोति। तत्रार्थे ते तव किं दूषणम्।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै
रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति॥ ६॥
———————————————————————————————————————————————
विपरीताचरणेति मदीयमेव दैवं बलवत्तरमित्याह— हे सखि, पश्य जानीहि। बहुतरं ज्ञास्यसि वा। इदं हृदयं चेतो यास्यति। किंभूतं चेतः। स्वयं स्फुटद्विदलत्। उत्प्रेक्षते। उत्कण्ठार्तिभरादिव प्रियमिलनेच्छापीडाभरादिव। अन्योऽपि अर्तिभरतापितो विदीर्यत एव। किंभूतं चेतः। आद्यप्रियसङ्गमाय दयितस्य गुणैः आकृष्यमाणं मया निरुध्यमानमपि नीयत एव। आद्यानि च तानि प्रियाणि च तेषां तैर्वा सङ्गमः। तस्यायः प्राप्तिः तस्मै तेन दयितः। तस्य वा। आद्यप्रियसङ्गमे निमित्ते अयेन शुभावहेन विधिना दयितस्य। अथवा आद्यप्रियसङ्गमायेति चतुर्थ्यन्तं भिन्नपदम्। एतदुक्तं भवति। हरिसंगमे पूर्वानुभूतस्मरणादिदं चेतो यास्यत्येव न ते दूषणं न मम। सोऽपि नोपालम्भमर्हति। विधेः पराङ्मुखत्वात्। अथवा एवंविधमिदं चेत एव यास्यति ज्ञास्यति इदमेव ज्ञाताखादनिवृत्तिमेष्यतीत्युपरम्यते। अथाद्यं पश्य। तद्गुणैराकृष्यमाणं सत् प्रियसङ्गमार्थं यास्यति॥ अत्र शार्दूलविक्रीडितं वृत्तम्। काव्यलिङ्गमलंकारः। उत्प्रेक्षोत्तरे च॥६॥ तानेव दयितस्य मुरतसौशील्यादिकान्गुणान
———————————————————————————————————————————————
अपि च। आश्चर्यरम्यस्य प्रियस्य कृष्णस्य संगमाय मिलनायेदं मम चेतोऽन्तःकरणं यास्यति। कीदृशम्। दयितस्य कृष्णस्य गुणैः सौन्दर्यादिभिराकृष्यमाणं बलात्कारेणानीयमानम्। अपरमपि गुणै रज्जुभिराकृष्यमाणमन्यत्र नीयत इति ध्वनितम्। कीदृशं चेतः। उत्कण्ठार्तिभिर्भरादिव स्फुटम्। उत्कण्ठा औत्सुक्यमार्तिः पीडा। तयोर्योऽतिशयस्तस्मादिव बहिर्भवत्। अपरमपि वस्त्वन्तरसंकुले स्थाने स्थितं वस्तु शङ्कया बहिर्भवतीति ध्वनितम्। तथा च। अतः परं विरहदुःखं सोढुमशक्ततया तद्गुणानेव स्मरन्त्या प्राणा ण्व त्याज्यास्ततोऽन्ते या मतिः सा गतिरिति स्वयमेव चेतस्तत्र यास्यतीति किमतः परं तवात्र गतागतायासेनेति भावः। अथ वक्तृविशेषाद्बोद्धव्यविशेषाच्छठादिपदाच्च ध्वनितोऽयमर्थः। हे दूति, यदि स नायातस्तदा त्वं किं दूयसे। तदनागमनं ममोत्तप्तये युज्यते न तव। त्वं तु तत्संगभोगेनैव कृतार्था जाता। सखीमपि सोत्कण्ठामाह। समीचीनं सख्यमाचरितमिति भावः। यदि च निर्दयकुचोपर्द्दनगाढालिङ्गनादिना त्वद्गात्रपीडने दयारहितस्तदापि त्वं किं दूयसे। नायकस्य तादृशं दयाराहित्यं नायिकया भाग्येन लभ्यत इति भावः। यदि च शठस्तदपि किं दूयसे। शठत्वेनैव मद्वचनं कृतवता त्वमुपभुक्तेति शठकृते भावः। यदि च बहुवल्लभः स्वच्छन्दं रमते स तदपि ते किं दूषणम्। किं च बह्वीषु वल्लभासु मध्ये संप्रति त्वमेका प्रिया जातेति भावः। पश्याद्येति। तथा च भवादृशीनामुपभोगमात्रमुद्देश्यमिति तस्य बहुवल्लभत्वेऽपि न क्षतिः। मम तु प्रथमानुरागसमयमारभ्य प्रियेणान्या मनस्यपि न कृता। ममापि स्वप्नेऽपि तवोन्यो नेच्छाविषयोऽभूदधुना तु विधिवशाद्वैपरीत्ये प्राणानेव त्यक्षयामीति भावः। अत्र प्रथमपदे शठो नायक उक्तः। स्वच्छन्दमित्यादिना च धृष्टः। तदुभयलक्षणं रसार्णवसुधाकरे ‘अनुकूलस्येकजातिः शठो गूढापराधकृत्। धृष्टो व्यक्तान्वयुव
देशवरा65डीरागेण रूपकतालेन गीयते॥ प्र० १६॥
अनिलतरलकुवलयनयनेन।
तपति न सा किसलयशयने न।
सखि या रमिता वनमालिना। ध्रुवम्॥ १॥
विकसितसरसिजललितमुखेन।
स्फुटति न सा मनसिजविशिखेन॥ सखि या०॥ २॥
———————————————————————————————————————————————
न्यनायिकागमत्वेन निन्दास्तुतिपरत्वेगाह—अनिलेति। तत्र पूर्वं ध्रुवपदं यथा। सखि येति। हे सखि, या गोपिका वनमालिना हरिणा रमिता। रमणमिता रमिता। अथवा रमः संजातो यस्या इति। वनमालिना सह क्रीडितेलर्थः। अथवोद्यानविद्यानविहारादिभिर्हरिणा वा रममाणा गोपिका हरिणैव तद्विशेषक्रीडने नियुक्ता। आत्मना सह क्रीडनार्थं प्रेरितेति यावत्। अथवा वनमालिना सह कामेन रन्तुं प्रेरिता तत्रैव साभिलाषा क्रीडापरा बभूवेत्यर्थः। निन्दापक्षे तु। वनमालिनेति मालायाः सद्भावात्तस्याः संभोगपराङ्मुखत्वं सूचितम्। वनलक्ष्म्यामलिनेवेतस्ततः पुष्परसाखादात्। इति ध्रुवः॥ अथ पदानि। अनिलेति। तत्र प्रतिपदमेकैकं विशेषणम्। तृतीयान्तं वनमालिनः प्रथमान्तं च या इति पदोपलक्षितायास्तस्याः। तत्रापि च ध्रुवपदाद्विशेषणानां वैपरीत्येन। पक्षे एतद्विपरीतोऽर्थः सूचितो भवति। किंभूतेन वनमालिना। अनिलेन तरले ये नीलोत्पले ते इव। नीले कमले इव नयने यस्य। सा गोपिका किसलयशयने न तपति नोपतप्ता भवति। पक्षे या किलान्यमनस्केन प्रियान्तरनिरीक्षणप्रतिहितचञ्चललोचनेनोपभुज्यते सा किसलयशयनेऽपि न तपतीति न। अपि तु तापं प्राप्नोत्येव॥ १॥ अपि च। विकसितेति। किंभूतेन हरिणा। स्फुटितारविन्दमिव मनोहराननेन सा गोपिका कामबाणेन विद्धा न
———————————————————————————————————————————————
तिभोगलक्ष्योऽपि निर्भयः’ इति॥६॥ संप्रति कृष्णेन रममाणायाः सौभाग्यसुखं तद्विरहिण्याश्च संतापमष्टपद्या कथयति—अनिलेति। गीतस्यास्य देशाख्यरागो रूपकतालः। गीतार्थस्तु हे सखि, या वनमालिना कृष्णेन रमिता क्रीडिता सा किसलयशयने पल्लवशय्यायां न तपति नोपतप्ता भवति। कृष्णाङ्गसङ्गे तत्सुखपदमेव भवतीति भावः। कीदृशेन वनमालिना। अनिलेन वायुना तरलेऽनिलवद्वा तरले चञ्चले कुवलये तद्वन्नयने यस्य तेन। नायिकासंनिधौ साध्वसवशाच्चञ्चलनेत्रेणेत्यर्थः। अथवा या रमितेत्यत्र आश्लेषः। तथा च या वनमालिनारमिता सा किसलयशयने न तपतीति न, अपि तु तपत्येव। नद्वयेन प्रकृतस्यैवार्थस्य प्राप्तेः। यद्वा। किसलयशयनेनेत्येवं तृतीयैव। नञ् शिरश्चालने। तथा चावमर्थः। या रमिता वनमालिना किसलयशयने न तपति। अपि तु तपत्येव चेति काका लभ्यते। ‘अनिलो वसुवातयोः’ इति विश्वः॥ १॥ अथ च। विकसितेति। या वनमालिना रमिता सा मनसिजविशिखेन कामबाणेन न स्फुटति न द्विधा भवति। कीदृशेन वनमालिना। विकसितं पुषितं यत्सरसिजं पद्मं
अमृतमधुरमृदुतरवचनेन।
ज्वलति न सा मलयपवनेन॥ सखि या०॥ ३॥
स्थलजलरुहरुचिकरचरणेन।
लुठति न सा हिमकरकिरणेन॥ सखि या०॥ ४॥
सजलजलदसमुदयरुचिरेण।
दलति न सा हृदि विरहेण॥ सखि या०॥ ५॥
कनकनिकषरुचिशुचिवसनेन।
श्वसिति न सा परिजनहसनेन॥ सखि या०॥ ६॥
—————————————————————————————————————————
भवति। पक्षे विलासकलाविमुखेन। केवलं प्रसारितमुखेन संभोगमाप्रोति। सा मदनबाणैर्मनसि न विध्यते। अपि तु विध्यत एव॥ २॥ अपि च। अमृतेति। किंभूतेन हरिणा। अमृतवन्मधुरतरं कोमलं वचनं यस्य तेन। सा मलयानिलेन न ज्वलति न दीप्यते। अतिप्रियवच-नस्य दाता न भावं द्योतयति। तेन ‘प्रियवाक् स्त्रीशीलः स्त्रीणां भवति वल्लभः’ इति वाल्लभ्यनिरासान्मनोऽनवस्थानान्मलयमारुतेन ज्वलत्येव॥ ३॥ अपि च। स्थलेति। किंभूतेन हरिणा। स्थलकमलकान्तिकरचरणेन सा गोपिका चन्द्रकिरणेन न लुठति न भूमौ परिव-र्तते। ततः पक्षे स्थलकमलग्रहणेन तदङ्गस्य तस्यापद्दायित्वमुक्तम्॥ ४॥ अपि च। सजलेति। किंभूतेन हरिणा। सजलजलदोदय-वद्दीप्तिमता। सा गोपिका हृदि दुःसहविरहभरेण न दीर्यते। पक्षे। अत्र सजलजलग्रहणेनैव विरहेण संयोगेऽपि प्रियविरहसाम्यमिति निन्दार्थः॥ ५॥ अपि च। कनकेति। किंभूतेन हरिणा। कनकनिकषश्यामरुचिश्चासौ शु-
—————————————————————————————————————————
तद्वल्ललितं मनोहरं मुखं यस्य तेन। मुखहास्यत्वेन विकसितपद्मसाम्यं बोध्यम्। अथ च। या विकसितेन सरसिजललितमुखेन वनमा-लिना रमिता सा मनसिजविशिखेन न स्फुटति। अपि तु स्फुटत्येवेति पूर्ववत्॥ २॥ अथ च। अमृतेति। वनमालिना रमिता सा मलयज-पवनेन मलयगिरिजातेन वातेन न ज्वलति न दीप्यते। कीदृशेन वनमालिना। अमृतादपि मधुरं मृदुतरमतिशयेन कोमलवचनं यस्य तेन। अमृतेत्याद्युचितविशेषणोपपत्त्या सामृतसेकेन ज्वलनाभावस्योचितत्वाद्। अथ चामृतमधुरमृदुतरवचनेन वनमालिना या रमिता सा मलयजपवनेन न ज्वलति। अपि तु ज्वलत्येवेति॥ ३॥ स्थकजलेति। कीदृशेन वनमालिना। स्थलोद्भवं जलरुहं कमलं तद्वद्रुचिर्ययोस्ता-दृशै करौ चरणौ यस्य तेन। अथ च या वनमालिना रमिता सा हिमकरकिरणेन न लुठति। अपि तु लठत्येव॥ ४॥ सजलेति। अथ च या वनमालिना रमिता सा विरहाधिक्येन त्दृदि त्दृदये न दलति न दीर्यते। पुनः कीदृशेन। सजलो जलसहितो यो जलदो मेघस्तत्समुदयवद्रु-चिरेण । अथ च या वनमालिना रमिता सा विरहभरेण त्दृदि न दलति। अपि तु दलत्येवेत्यर्थः॥ ५॥ कनकेति। या वनमालिना रमिता सा परिजनानां हसनेन इयती लज्जा रोदितीत्यादि परिजनहासेन। यद्वा परितः सर्वतो
**सकलभुवनजनवरतरुणेन।
वहति न सा रुजमतिकरुणेन॥ सखि या०॥ ७॥
श्रीजयदेवभणितवचनेन66।
प्रविशतु हरिरपि हृदयमनेन॥ सखि या०॥ ८॥**
———————————————————————————————————————————————
चिवसनश्च तेन। अथवा कनकस्य निकषः निकषोपलरेखा तत्कान्तिविमलवस्रेण सा गोपिका परिजनहसनेन न श्वसिति। निःश्वासवती न भवति। पक्षे या काषायवसनादिना संगता भवति सा परिजनैरुपहसिता दीर्घान्निःश्वासान्मुञ्चत्येव॥ ६॥ अपि च। सकलेति। किंभूतेन हरिणा। सकलभुवनजनश्रेष्ठतरुणेन सातीव निर्भररसेनापि रुजं पीडां न धारयति। या किल सकलेष्वपि भुवनेषु वरतरुणेनोपभुज्यते तस्यास्तु एकैकस्यापि वित्तेन शोको भवतीति निन्दा॥ ७॥ अपि च। श्रीजयदेवेति। अनेन श्रीजयदेवभणितं च तद्वचनं च तेन हेतुना हरिः श्रीकृष्णः हृदयं प्रविशतु। अर्थाद्राधायाः। अथवा अयं हरिः हृत्प्रविशतु। अपि शब्दात्तदारोपकरणवचनानि च॥ तथा च सङ्गीतराजे— “रागो वराटिका यत्र तालो वर्णयतिस्तथा। पदानि स्वेच्छयालापभूषितानि यथाद्युति॥ ततः खराश्च पाटाश्च ततः पद्यानि कानिचित्। इति नारायणपदान्मदनायासनामकः॥ प्रबन्धः क्षितिनाथेन लोकनाथस्य वर्णितः”॥ इति नारायणमदनायासनामा षोडशः प्रबन्धः॥ ८॥ चेतो यास्यतीति
———————————————————————————————————————————————
जनानां हास्येन न श्वसिति न संतापनिःश्वासं त्यजति। कीदृशेन वनमालिना। कनकनिकषः सुवर्णकषकपट्टिका तस्यैव रुचिर्दीप्तिर्यस्यैतादृशं शुच्यनुपहतं वस्त्रं यस्य तेन। अत्र कनकपदेनैव पीतत्वे प्राप्तेऽपि स्निग्धत्वप्राप्तये निकषपदोपादानम्। अथवा या वनमालिना रमिता सा परिजनहसनेन न श्वसिति। अपि तु श्वसित्येवेत्यर्थः। ‘निकषः कषपट्टिका’ इति हारावली।’ शुचिः शुद्धेऽनुपहते’ इति विश्वः॥ ६॥ सकलेति। या वनमालिना रमिता सातिकरुणेनातिरशयितकरुणारसेनोपलक्षिता सती रुजं तद्विश्लेषजन्यां व्याध्यवस्थां तद्वन्न वहति धारयति। कीदृशेन वनमालिना। सकलभुवने समस्तलोके ये जनास्तेभ्योऽपि वरतरुणेन श्रेष्ठतरुणेन। अथवा या वनमालिना रमिता सातिकरुणेनोपलक्षिता रुजं न वहति। अपि तु वहत्येवेत्यर्थः। अस्मिन्पक्षेऽतिकरुणेनेति कृष्णस्य विशेषणम्। तदतिक्रान्ता करुणा दया यस्य तादृशेन निर्दयेनेत्यर्थः। ‘करुणस्तु रसे वृक्षे कृपायां करुणा मता’ इति विश्वः॥ ७॥ श्रीजयदेवेति। अनेन जयदेवभणितमिलनेन श्रीजयदेवेन कविना भणितं वर्णितं यन्मिलनं कृष्णस्य कामिन्या सहेत्यर्थः। त्वां ते(?)हरिरपि कृष्णोऽपि तदयमर्थाद्नातृृणां श्रोतृृणां प्रविशतु। यद्वा श्रीजयदेवभणितस्य यन्मिलनं संबन्धोऽध्ययनगानरूपस्तेन हरिरपि हृदयं प्रविशत्वि
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि॥ ७॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते।
हृदयमदये तस्मिन्नेवं पुनर्वलते बला
त्कुवलयदृशां वामः कामो निकामनिरङ्कुशः॥ ८॥
———————————————————————————————————————————————
सखीं प्रोच्य अन्तरा पुनः सव्याजं कालविलम्बं कृत्वा पुनः स्मरशरासहा मलयानिलमुपालब्धुमाह—मनोभवेति। हे चन्दनानिल, जगदाल्हादक प्रसीद। विपरीतलक्षण क्षमां कुरु। कथं वैपरीत्यम्। यतः जगदाल्हादकस्वरूपप्रच्युत्या मम रिपोर्मनोभवस्य आनन्दमकरोत्। अतो मनोभवानन्दन प्रसीद क्षमां कुरु। दक्षिणोऽहमिति कृत्वा हिताहितलक्षणवक्रतानभिज्ञत्वान्नोपालभ्योऽहमिति वदसीति चेत्तर्हि जितम्। हे दक्षिण, क्षणं क्षणमात्रं वामतां मुञ्च। कृतजगत्प्राणस्य मे सर्वसाधारण्येन नेयं पद्धतिरिति चेत्। हे जगत्प्राण, अङ्गीकृतजगत्प्राण त्वं माधवं पुरोधाय अग्रे कृत्वा सांप्रतमेव मम प्राणहरो भविष्यति। तर्हि साधु चेष्टितम्। नाहमस्या मरणनिमित्तं किं तु माधव इतीदमेवावामताया विलसितमिति। अत्र वंशस्थं वृत्तम्। अतिशयोक्तिरलङ्कारः॥ ७॥ इदानीं खचित्तमेवोपालभते—रिपुरिवेति। हे सखि, यस्मिन्गते सति अन्यत्र स्थिते सति अथवाऽज्ञातस्वरूपे सति अयमनुकूलोऽपि सखीसंवासः रिपुरिव मनो दुनोति। अनु च । शीतो वायुः ज्वरन
———————————————————————————————————————————————
त्यर्थः॥ ८॥ संप्रत्यनिलमेव संतापदं मत्वोपालम्भते—मनोभवेति। हे चन्दनानिल, चन्दनसंबन्धिवायो, मे मम प्रसीद प्रसादं कुरु। हे दक्षिण, सर्वेषां विलासिनामनुकूलस्वभाव, वामतां प्रतिकूलतां मुश्च। अत्र चन्दनतरुसंगतस्य वामत्वं नोचितमिति चन्दनानिलदक्षिणपदाभ्यां ध्वनितम्। वामत्वेन हेतुगर्भविशेषणमाह— मनोभवेति। मनोभवं काममानन्दयतीति मनोभवानन्दनः। तथा च। मम वैरी कामस्तं यदानन्दयसि तदेव प्रतिकूलमाचरसीति भावः। यदि च वामतां न मुञ्चसि तदा माधवं कृष्णं जनं मम पुरोऽग्रे निधाय कृत्वा पश्चात्तद्दर्शनं कृत्वाथ प्राणहरः प्राणानां हर्त्ता भविष्यसि। यथा विरहिणीं मां व्यथयसि तथा मया विरहितं तमपि संतापय तेन मदन्तिकं स आयास्यतीति भावः। कीदृशः। जगत्प्राणहरणे वायोः सामर्थ्यं ध्वनितम्। यद्वा चन्दनानिल, क्षणं वामतां मुश्च, माधवं पुरो निधाय पश्चान्मम प्राणहरो भविष्यसीत्यन्वयः। शेषं पूर्ववत्। जगत्प्राण जगतां प्राणभूत। तु तेन कृष्णस्यानयनतत्प्राणानामसंध्ये(?) प्रति ये च ‘द्रविणे चाति सुन्दरे’ इति विश्वः। ‘दक्षिणः सरलावामपरच्छन्दानुवर्तिषु’ इति च॥७॥ अधुना ममैवापराधो नान्यस्येत्याह—रिपुरिवेति। यस्मिन्कृष्णे मनोगते चेतसि कृते सति सखीसंवासः सखीभिः सहावस्थानं रिपुरिव शत्रुरिव दुनोत्युपतापयति। सखीर्दृष्ट्वा तत्कृतालङ्काररचनापरिहासवासभवनपरिष्कारादिस्मरणेनाधिकतर उपतापो भवतीति भावः। अयं च हिमानिलो हिमगर्भोऽप्यतिशीतलो
बाधां विधेहि मलयानिल पञ्चबाण
प्राणान्गृहाण न गृहं पुनराश्रयिष्ये।
किं ते कृतान्तभगिनि क्षमया तरङ्गै
रङ्गानि सिञ्च मम शाम्यतु देहदाहः॥ ९॥
———————————————————————————————————————————————
इव मनो दुनोति॥ अपि च अमृतदीधितिर्हालाहलमिव मनो दुनोति। एवमप्यर्थे तस्मिन्नप्यदये हृदयं पुनर्बलाद्वलते तदभिमुखीभवति। किं तर्हि क्रियते स्त्रैणस्थितिरियं कुवलयदृशां निकामनिरङ्कुशः कामो वाम एव वर्त्तते। निकामनिरङ्कुश अतिशयोच्छृङ्खलः। अत्र हरिणी वृत्तम्। विरोधालङ्कारः॥ ८॥ इदानीं कामोपतप्ता मलयानिलादीनधिक्षिपति। बाधामिति। हे मलयानिल, बाधां विधेहि पीडायां किं प्रतीक्षसे। हे पञ्चबाण, प्राणान् गृहाण। पञ्चभिर्बाणैः पञ्चापि प्राणांस्त्वं गृहाण। भवत इदमेव प्रयोजनम्। यस्मात्स्मरोऽपि तप्तं जनमुपताप्य गृहाभिमुखीक्रियते एतदर्थमेव स्वभावपरित्यागेनाप्युपकृतिर्विधेया। परं तु अहं बाध्यमानापि गृहीतप्राणापि पुनर्गृहं नाश्रयिष्ये श्रीकृष्णमेव शरणं व्रजिष्यामीति तावुपालभ्य पुनरुदीर्णस्मराथ यमुनामाह— हे कृतान्तभगिनि, यमखसः, मलयानिलपञ्चबाणौ शैत्यसंभोगकारणमपि पीडयतः। नहि तर्हि त्वं यमस्य भगिनी ताभ्यां प्राणेषु गृहीतेषु धातुः किमुत्तरं दास्यसीति। तेन तव क्षमया क्षान्त्या किं, भ्रातुर्हितं समाचर मत्प्राणार्पणेन। नेत्याह। तरङ्गैरूर्मिभिर्मम गात्राणि सिञ्च। तेषु सिक्तेषु माधवप्राप्त्या देहदाहः शाम्यतु। तरङ्गसेकेनापि तदलाभे प्राणेषु गतेषु देहदाहः शान्तिमेष्यतीत्य
———————————————————————————————————————————————
वायुः शिखीवाग्निरिव दुनोति अयं सुधाररश्मिश्चन्द्रो विषमिव दुनोति। तस्मिन्नेव कृष्णेऽदये दयारहिते त्दृदयं पुनर्भूयोऽपि वलाद्धठाद्वलते निवार्यमाणमपि तत्रैव गच्छतीत्यर्थः। अतः कुवलयदृश्चां कमलनेत्राणां कामो निकाममत्यर्थं निरङ्कुशस्त्यक्तमर्यादोऽत एव मे प्रतिकूलः। अन्योन्यानुरागो हि कामो मनोहरो भवति। अत्र तु स मयि नीरागः केवलं ममैव चेतस्तत्र धावतीति वामता कामस्येति भावः। अत्र सखीनां संवासस्य रिपुवत्, हिमानिलस्य वन्हिवत्, सुधारश्मेर्विषवदपकारित्वं विरुद्धमिति विरुद्धालङ्कारः। “शिखिनौ वर्णिनौ’ इत्यमरः॥ ८॥ संप्रतिविरहदुःखमसहमाना मलयानिलादीन्प्रार्थयति—बाधामिति। हे मलयानिल मलयसंबन्धिवायो, बाधां पीडां विधेहि कुरु। अत्र मलयजचन्दनाश्रयत्वेन महाशयोऽतस्तदाश्रितस्य ते याचकप्रत्याख्यातं नोचितमिति सूचनाय मलयानिलपदोपादानम्। हे पञ्चबाण, मम प्राणान्गृहाण। पञ्चभिर्बाणैः पञ्चानामपि प्राणानां गृहणं कामस्योचितमिति सूचनाय पञ्चपदोपादानम्। ननु कृष्णेन चेदुपेक्षिता तदा गृहं किमिति न गच्छसीत्यत आह— न गृहमिति। गृहं पुनः भूयो नाश्रयिष्ये। तेन विना गृहमपि मे संतापजनकमेव भविष्यतीति भावः। हे कृतान्तभगिनि, ते क्षमया सहिष्णुतया किम्। किं प्रयोजनमित्यर्थः। तरङ्गैरूर्मिभिर्मेऽङ्गानि सिश्च प्लावय। देहदाहो विरहजन्यो देहदाहः शाम्यतु निवर्तताम्। कृतान्तो निर्दयस्तद्भगिन्यास्तेऽपि दया न युक्तेत्याख्यापनाय कृतान्तेत्युपा
प्रातर्नीलनिचोलमच्युतमुरः संवीतपीताम्बरं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ १०॥
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः॥ ७॥
———————————————————————————————————————————————
भिप्रायः। वसन्ततिलकावृत्तम्। अप्रस्तुतप्रशंसालङ्कारः॥ ९॥ इदानीं सर्गान्ते वैष्णवानाशास्ते—प्रातरिति। अयं नन्दात्मजः जगदानन्दायास्तु। किंभूतः स्मेरमुखः स्मेरं सहासं मुखं यस्य स तथा। किं कृत्वा। राधानने नयनयोरञ्चलं प्रान्तमाधाय आरोप्य। किंभूतमञ्चलम्। व्रीडाचञ्चलं लज्जया तरलम्। एतावता राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः। तदुक्तम्— ‘यद्गतागतविश्रान्ति वैचित्र्येण विवर्त्तनम्। तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते’॥ क्व सति। सखीमण्डले प्रातश्चकितं यथा स्यात्तथा स्वैरं स्वेच्छया हसति सति। किं कृत्वा। अच्युतं नील निचोलं नीलपरिच्छदं विलोक्य। च पुनः राधाया उरः संवीतपीतांशुकम्। एवं वस्रविनिमयः सखीनां हास्ये कारणम्। इह हास्यो रसः। शार्दूलविक्रीडितं वृत्तम्। स्वभावोक्तिरलंकारः॥ अत्र सर्गे शठो नायकः। अभिसारिका नायिका। तल्लक्षणं— ‘स्मरार्त्ताभिसरेत्कान्ते सारयेद्वाभिसारिका’॥ १०॥
श्रीएकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम्॥
श्रीकुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम्॥
इति ‘श्रीगयादिविमोक्षादिविश्वजनीनकर्मनिर्मलीकृतान्तःकरणराजाधिराजमहाराजश्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां सप्तमः सर्गः समाप्तिं समगादिति। निर्मलमतीनामभिमतपरिपूर्तिः स्तादिति शिवम्॥
———————————————————————————————————————————————
त्तम्। ‘भगिनी स्वसा’ इत्यमरः। कामबाणा अपि—“संमोहनः क्षोभणश्च दहनः शोषणस्तथा। उच्चाटनश्च कामस बाणाः पञ्च प्रकीर्तिताः’ इति॥ ५॥ (अत्र “सान्द्रेत्यादिः श्लोकटीका नोपलब्धादर्शपुस्तके)॥ १०॥
अन्तस्तमांसि हरती नितरामनल्प
स्नेहानुवर्तिरतिनर्म विभावयन्ती।
गूढान्पदार्थनिचयान्स्फुटतां नयन्ती
दीपप्रभेव रुचिरा रसमञ्जरीयम्॥ १॥
इति श्रीमहामहोपाध्यायश्रीशङ्करमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां सप्तमः सर्गः॥
अष्टमः सर्गः।
विलक्ष्यलक्ष्मीपतिः।
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते।
अनुनयवचनं वदन्तमग्रे प्ररणतमपि प्रियमाह साभ्यसूयम्॥ १ ॥
भैरवीरागयतितालाभ्यां गीयते। प्र० ॥ १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम्67।
वहति68 नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम्॥ १ ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादम्।
तामनुसर सरसीरुहलोचन या तव हरति विषादम्॥ ध्रुवम् ॥
———————————————————————————————————————————————
सदानन्दसन्दोहकन्दं मुकुन्दं नमस्कृत्य पद्माङ्गविद्युत्पयोदम्।
नृपः कुम्भकर्णो विधत्ते विचित्रं वरं गीतगोविन्दधातुं पवित्रम्॥ १ ॥
इदानीमेवं तत्परत्वेन विलपमानायास्तस्याः पुरत आर्त्ततप्राणपरित्राणकारणं जगत्कारणकारणमाविरभूत्। अतः कविराह—अथेति। मानिनीनां हि प्रियाग्रतो मानोऽतिमानमेति इति प्रसिद्धमाह। अथ माधवागमनानन्तरं प्रियं साभ्यसूयं सा राधा वक्ष्यमाणमाह। किंभूतं प्रियम्। अग्रे प्रणतमपि। अर्थाच्चरणयोः। पुनः किंभूतम्। अनुनयवचनं सामवाक्यं वदन्तम्। क्व प्रभाते। किंभूता सा।स्मरशरजर्जरितापि। किं कृत्वा। कथमपि महता कष्टेन यामिनीं विनीय। पुष्पिताग्रा वृत्तम्। खण्डिता नायिका। हरिहरीति धूर्तो नायकः। विप्रलम्भो रसः। जातिरलंकारः॥१॥ तामेव सपत्नीविषयेर्ष्यां प्रकटयति। तत्र पूर्वं सर्वपदानुस्यूतत्वाद्ध्रुवपदं व्याक्रियते॥ हरिहरीति। हरिहरीत्यव्ययानामनन्तार्थत्वात्खेदवाचकमव्ययम्। अथवा गानपूर्त्यै सतोभमात्रम्। खण्डिता राधा अग्रे प्रणतं प्रियं सेर्ष्यमाह— हे माधव, लक्ष्मीपते, याहि गच्छ। अन्यासक्तो हि कथमन्यां प्रतारयसीति माशब्दद्योत्यम्। अथवा स्वभावचञ्चला तस्याः पत्युश्चञ्चलत्वं युक्तमेव। तर्हि चञ्चलस्त्वं त्वदेकपरायणां मां कथं प्रतारयसीति याहि। एवमप्यधिक्षेपेऽसंतुष्टा पुनराह। हे
———————————————————————————————————————————————
अथेति॥ अथानन्तरं सा राधा प्रभाते प्रातः प्रियं कृष्णं साभ्यसूयमसूयासहितं यथा स्यादेवमाह उक्तवती। किं कृत्वा। यामिनीं रात्रीं कथमपि कष्टादपि विनीय नीत्वा। अत्र यामिनीपदेन प्रियविरहेऽतिदीर्घत्वं ध्वनितम्। उदरवती कन्येतिवत्। कीदृशी। स्मरशरजर्जरितापि कामबाणपीडितापि अन्यनायिकानखाङ्कदर्शनेन जनितमहादुःखा विस्मृतविरहदुःखा उवाचेत्यर्थः। कीदृशं प्रियम्। अनुनयाय स्वापराधजनितकोपशान्तये वचनं “यज्जातं तज्जातं भूयो नेदृशमाचरामि” इत्यादिविनयवाक्यं वदन्तं प्रणतमपि नम्रमपि। “रजनी यामिनी” इत्यमरः॥ १॥ तदेव गीतेन कथयति—रजनीति। गीतस्यास्य भैरवी रागो यतितालः। तालक्षणमुक्तं प्राक्। गीतार्थस्तु—हरिहरीति खेदे। हे
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम्।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम्॥ हरिहरि॥ २॥
———————————————————————————————————————————————
केशव याहि। स्वयोषिति रतत्वे किमुच्यते। प्रशस्ताः केशा यस्येति केशवपदव्युत्पत्तेः। त्वं केशसंस्कारवतीषु स्वैरिणीषु रत इति केशवशब्दव्यङ्ग्यम्। अतो हे केशव, बहुवल्लभ, त्वदेकपरायणोऽहमित्यादिकैतववादं छलवाक्यं मा वद। विषण्णे मयि किमकारणरोषणे रोष इत्याशङ्कसे चेत्। मैवम्। कुमुदलोचन, या तव विषादं हरति तामेव बहुप्रियामनुसर। अनुरूपस्यानुरूपायामनुरूपं सुरतमिति। कुमुदप्रहणेन सोमवंशोद्भूतत्वाद्रात्रौ जागरो दिवा शयो लक्ष्यते। इति ध्रुवः॥ अथ पदानि। रजनीति। हे कृष्ण, त्वं नयनमनुरागमिव वहसि। किं भूतमनुरागम्। स्फुटमतिबाहुल्येनान्तर्व्याप्य बहिर्निर्यातम्। पुनः किंभूतम्। उदितरसस्य श्रृङ्गारस्याभिनिवेश आग्रहो यत्र। अथानुरागविशेषणत्वेन उदितः स्वादस्याभिलाषस्याग्रहो यत्रेति। किंभूतं नयनम्। रजनिजनितो योऽसौ गुरुजागररागः तेन कषायितं लोहितीकृतम्। पुनः किंभूतम्। अलसः निवेशोऽवस्थानं यत्र। अत्र “वहति” इति पाठान्तरपक्षे तवेति पूर्वपक्षस्थानुषङ्गेन नयनं कर्तृ स्फुटमनुरागं वहतीति योज्यम्॥ १॥ अपि च। कज्जलेति। हे कष्ण, तव दशनवसनमधरस्तनोरनुरूपं तनोति। किंभूतम्। अरुणम्।
———————————————————————————————————————————————
माधव, हे केशव, याहि इतोिऽपसर। लक्ष्मीश्चञ्चलाऽतस्तेऽपि तादृशीष्वेवानुरागो युज्यते। स्थिरानुरागाणां मादृशां ते किं प्रयोजनमिति माधवपदेन ध्वनितम्। कैतववादं छलवाक्यं मा वद मा कथय। कैतवं तु च्छले धूर्ते इति विश्वः। ननु त्वदनुसरणायैवेतस्ततो भ्रमतो विलम्बो जात इत्यत आह— तामिति। हे सरसीरुहलोचन कमलनयन, तां नायिकामनुसरानुगच्छ या तव विषादं दुःखं हरति। अहं तु स्वयमेव संतपे। ते विषादं कथमपनेष्यामीति भावः। अत्र पद्मं प्रभते यथार्द्धमर्द्धमुकुलितं तद्वत्ते नयनं रात्रिजागरालस्यान्मुकुलीभवद्वलात्त्वया प्रसार्यमाणमित्युन्निद्रवशात्किंचित्प्रलपसीति सरसीरुहलोचनेत्यनेन ध्वनितम्। यद्वा सरसीरुहं यथा रात्रौ मुकुलितं तिष्ठति प्रभाते प्रसरति तथा त्वदीयनयनं रात्रौ मद्विषये निमीलितमासीदिदानीं त्वया प्रसारितमिति तेन पदेन ध्वनितम्। ननु मे त्वत्तोऽन्या प्रेयसी नेत्यत आह— हे कृष्ण, तव नेत्रं नयनं तदनुरागमिव वहति धारयति। कीदृशं नयनम्। रजनीजनितो रात्रिजातो गुरुर्यो महाज्जागरस्तज्जनितो यो रागो रक्तता तदेव ,रञ्जनद्रव्यं तेन कषायितमीषल्लोहितम्। तदेवालसनिमेषम्। अलसो मन्थरो निमेषः पक्ष्मविन्यासो यस्य तादृशम्। अत्र च राधाकेलिसाक्षिणा कृष्णेन यस्याः कस्याश्चिद्गोपिकायाः केलिव्यासङ्गेन वृथा जागरणं कारितः इति रागेन क्रोधेन कषायितस्य राधाया अग्रेऽन्यनायिकागुप्तरसाभिनिवेशत्वमुचितमेवेति ध्वनिः। “गुरुर्महति चान्यवत् इति विश्वः। “रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु। गान्धारादावन्यो रागः” इति विश्वः। कषायो रसभेदे स्यादङ्गरागे विलेपने। निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवत्, इति च। “निवेशः शिबिरोद्वाहे विन्यासेऽनुप्रकाशिते” इत्यपि। हरिहरीत्यव्ययम्॥ १॥ खेदेन त्वदन्वेषणार्थपर्यटनजनितरजनिजागरान्नेत्रयोर्लैहित्यमित्यलं दुःशङ्कयेत्यत आह— कज्जलेति। हे कृष्ण,
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम्।
मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम्॥हरिहरि॥ २॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम्।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम्॥ हरिहरि॥ ४॥
———————————————————————————————————————————————
स्वभावारुणमपि। पुनः किंभूतं दशनवसनम्। कज्जलेन मलिने ये विलोचने तयोश्चुम्बनेन विरचितो नीलिमा यत्र तत्। अत्र मलिनग्रहणं तन्नेत्रयोर्बहुपुरुषोपभोग्यत्वं व्यञ्जयति॥ २॥ तव वपू रतिजयलेखमनुहरतीव अनुकरोतीव। इदं वपुर्न मया सर्वं जितमिति कामिनः प्रति कामजायाप्रेष्यलेखोऽयम्। अनेन स्त्रीप्रेष्यत्वेन तस्याधमत्वं सूचितमिति व्यङ्ग्योऽर्थः। किंभूतं वपुः। स्मरसङ्गर इव सङ्गरे कामविलासे खरनखराणां क्षतरेखा यत्र। अत्रापि खरग्रहणं विलासभङ्गे हेतुः। तस्याः संबन्धिनं लेखमिति वपुर्नखक्षतानां लेखेनोपमेयगर्भविशेषणमाह। मरकतशकले कलितायाः कलधौतलिपेः संबन्धिनम्। अथवा लिपेरित्यत्र पञ्चमी। तत्रैवं लिपेरिवेति योजनीयम्। कलधौतलिपिमिवेति युक्तः पाठः॥ ३॥ अपि च। चरणेति। अत्र प्रतिविशेषं सूचयति। हे कृष्ण, तवेदं हृदयं बहिर्मदनद्रुमस्य मदनो द्रुम इव तस्य नवकिसलयपरिवारं नवपल्लवसमूहमिव दर्शयति। किंभूतं हृदयम्। उदारं महत्। पुनः किंभूतम्। चरणकमलादलक्तकसान्निध्यादुपभुक्तवनितापादपद्मतः गलतालरक्त
———————————————————————————————————————————————
अरुणमपि ते दशनवसनमधरस्तव तनोः शरीरस्यानुरूपं योग्यं रूपं कान्ति तनोति विस्तारयति। तनुरपि ते श्यामाधरोऽप्यधुना ते श्याम इति भावः। कीदृशम्। कज्जलेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीलिमा नीलपद्मपत्रं तादृशं तस्याश्चुम्बनसमये लग्नं तन्नेत्राञ्जनेन श्यामीभूतस्तदधर एव स्फुटत्वेन धूर्ततां प्रकटयतीति भावः। नेत्रयोरपि चुम्बनमुक्तं कामशास्त्रे—“गुह्ये नेत्रे ललाटे च चुम्बनं परिकीर्तितम्। इति। “ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’। इत्यमरः॥ २॥ वपुरिति। हे कृष्ण, स्मरस्य कामस्य संगरे संग्रामे खराणां तीक्ष्णानां नखराणां नखानां रेखा यत्रैतादृशम्। तव वपुर्मरकतशकले नीलमणिखण्डे कलिता निर्मिता या कलधौतलिपिः सुवर्ण इवाक्षरविन्यासस्तस्या इव रतिजयलेखं सुरतविजयप्रशस्तिं लेखनपत्रमनुहरति सदृशीकरोति। अत्र कृष्णवपुषो नीलत्वान्मरकतशकलसाम्यम्। सुवर्णस्य कविसंप्रदाये आरक्तत्वेनैव वर्णनीयत्वान्नखक्षतस्य सुवर्णलिपिसाम्यं बोध्यम्। “संगरोऽन्हि कृतौ युधि" इति विश्वः। “पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्। इत्यमरः। “गारुत्मतं मरकतं हिमगर्भहरिन्मणिः। इति च। “भित्तं शकलखण्डे वा पुंसि’ इति च। “कलधौतं रूप्यहेग्नोः कलधौतं कलध्वनौ।’ इति विश्वः। “वर्णदूतः स्वस्तिमुखो लेखो वाचिकहारकः।’ इति हारावली॥ ३॥ ननु मार्गं विस्मृत्य कण्टकादिक्षतवर्त्मनागच्छतो मे वपुषि कण्टकक्षतं दृश्यते न तु नखाङ्कमित्यत आह— चरणेति। इदमुदारं तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिसलयपरिवारं नूतनपल्लवसमूहं बहिर्दर्शयतीव। कीदृशं हृदयम्। चरणकमलादन्यकामिनीपदपद्माद्गलता
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम्।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम्॥ हरिहरि॥५॥
बहिरिव69 मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम्।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम्॥ हरिहरि॥ ६॥
———————————————————————————————————————————————
केन सिक्तम्। अत्र मदनद्रुमत्वारोपेण बहिर्ग्रहणेन च तस्याः साधारण्याननुरागौ सूचितौ। हस्तचरणाभ्यां रतविशेषो यथा— “यदि संहतमूर्ध्वगमूरुयुगं युवतेः परिरभ्य नरो रमते। तदभग्नमुरः स्फुटनं च भवेदुरसि प्रमदाचरणद्वयतः’॥४॥ अपि च। दशनपदमिति। हे कृष्ण, तव। एतदिति। अन्यरमण्युपभोगचिह्नितं मया सहाधुनापि प्रत्यक्षतो दृश्यमानेऽपि भेद एतामप्यवस्थां प्रापितया सहाभेदं कथं कथयति। कोऽसावभेद इत्याइ— दशनपदं दन्तक्षतं भवदधरगतं सत्, मम चेतसि खेदं जनयतीति। यस्य व्रणस्तस्य वेदनेति प्रसिद्धेऽन्यव्रणोऽन्यवेदनामादधातीति विरुद्धपरिहाराय भेदएव घटते। स च सुतरां विरुद्ध इति॥५॥ अपि च। बहिरिवेति। नूनं वितर्के। हे कृष्ण, अहमिति वितर्कयामि तव मनोऽपि मनसः स्वभावादौज्ज्वल्ये सत्यपि बहिरिव बहिर्गतकृष्णवर्ण इव मलिनतरं भविष्यति। अथ चैवं न तर्हि अनुगतमा
———————————————————————————————————————————————
स्रवतालक्तकेन सिक्तम्। अपरोऽपि वृक्षः सिक्तः समुल्लसन्पहवानुद्दर्शयतीति ध्वनिः। हृदि नायिकाचरणालक्तसंबन्धकथनेन क्रोधाख्यो बन्धः कथितः। तदुक्तं वात्स्यायने— ‘योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत्कुचौ। ययेष्टं ताडयेद्योनिं क्रोधबन्धः प्रकीर्तितः॥” इति। “परिवारः परिकरे समूहे वेष्टनेऽपि च’ इति विश्वप्रकाशः॥४॥ किं च। दशनेति। भवदधरगतं दशनपदं तवाधरस्थितं कस्याश्चिद्दन्तक्षतं मम चेतसि खेदं दुःखं जनयति। एतत्तव वपुरधुनापि मया सह कथमभेदं कथयति। अन्य शरीरक्षतस्यान्यत्र व्यथाजनकत्वासंभवाद्वपुषोऽभेदं ज्ञापपतीति भावः। अधुनात्यन्तहृदयभेदे वपुरभेदो नोचित इति काक्का व्यज्यते। प्रसिद्धभेदकारणानि षट्। भेदकारणस्य विभाव्यमानत्वाद्विभावनालङ्कारः। तदुक्तं दण्डिनाप्रसिद्धहेतुव्यावृत्त्या, यत्किंचित्कारणान्तरम्। यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना॥’ इति॥ ५॥ ननु तवोपायनार्थं कमलं त्रोटयति मयि पुष्पकोषादापतता भ्रमरेण ममाधरोष्ठो दष्टो न तु दशनक्षतमिदमित्यत आह—वपुरिति। हे कृष्ण। नूनं तर्के उत्प्रेक्षायाम्। तव मनोऽपि चित्तमपि वपुरिव शरीरमिव मलिनतरमतिशयेन मलिनं भविष्यति। यथा ते वपुः श्यामं तथा मनोऽपि भविष्यतीत्यर्थः। ननु मनोमालिन्यं त्वया कथं ज्ञातमित्यत आह—कथमिति। अथेति संप्रश्ने। त्वमेव पृच्छसे यदि तवान्तर्मलिनं न तदाऽसमशरदूनम्। असमशरो विषमशरः कामस्तज्जिनितेन ज्वरेण दूनं दुःखितमत एवानुगतं त्वामनुद्रुतं मादृशं जनं कथं वश्चयसे प्रतारयसि। तथा च शरणागतजनवञ्चनमन्तर्मालिन्यमन्तरेण न भवतीति भावः। तथा च व्याजेन दशनक्षतादिगोपनेऽपि नूनमितिपदप्रदानादुत्प्रेक्षा नामायमलंकारः। तदुक्तं दण्डिना— “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दै
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम्।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम्॥ हरिहरि॥ ७॥
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम्।
श्रृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम्॥ हरिहरि॥ ८॥
———————————————————————————————————————————————
श्रितं भवन्तमधिकृत्यासमशरदूनं मल्लक्षणं जनं कथं वञ्चयसे। तद्वञ्चनादेव चित्तमपि मलिनमनुमीयते। मलिना एवाश्रितवञ्चनां कुर्वन्तीति॥६॥ अपि च। भ्रमतीति। हे वधूवधे निर्दय, भवान्वनेषु अबलाकवलाय युवतिग्रसनाय भ्रमति। सर्वाणि वाक्यानि सावधारणान्येवेति। यथा पार्थो धनुर्धर इतिवत्। अत्र मद्वधे किं विचित्रम्। ममाबलाया वधः सुकर एव। पूतनिका अतियुद्धमदा कंसभगिन्येव तव बालचरित्रं प्रथयति। बालेन यदि तादृशी प्रबला कवलिता तर्ह्यस्या अबलायाः कवलने किमाश्चर्यम्। अन्न स्त्रीवधो निषिद्ध इति निन्दा। ‘अथ कथमपि’ इत्यादौ खण्डिता नायिका। तल्लक्षणम्— ज्ञातान्यासंगविकृतौ कान्ते कोपकषायिता। गत्वान्यन्नागते कान्ते भोगचिन्हैः कषायिता”॥ ७॥ अपि च। श्रीजयदेवेति। हे विबुधाः, श्रीजयदेवेन भणितमभिलषवञ्चितखण्डितयुवतिविलापं श्रृणुत। किंभूतम्। सुधामधुरम्। पुनः किंभूतम्। स्वर्गेऽपि दुरापम्। सप्तम्यर्थे तसिः॥ खण्डितालक्षणं यथा— ‘निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रताङ्गः। यस्याः कुतोऽपि पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः॥” तथा च संगीतराजे— “तालो वर्णयतिर्मेघरागो देवादिवर्णनम्। विप्रलम्भाख्यश्रृङ्गारो रसः करुणवेदनम्। कविनामाङ्कितपदप्रान्ते पाटखरावलिः। द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः पुरः। रत्नावलीप्रबन्धोऽयं निबद्धः कुम्भभूभुजा”॥ इति लक्ष्मीपतिरत्नावलीनामा सप्तदशः प्रबन्धः॥ पदरचना जयदेवोदिता कमलावल्लभगानोचिता कुम्भनृपेण परं
———————————————————————————————————————————————
रिव शब्दोऽपि तादृशः॥’ इति॥ ६॥ चित्तमालिन्यमेवाह। भ्रमतीति॥ भवान्वनेषु विपिनेष्वबलाकवलाय कामिनीग्रसनाय भ्रमति। अत्रार्थे किं चित्रम्। न किमपीत्यर्थः। तत्र हेतुमाह— प्रथयति ख्यापयति। त्वयापि बाल्ये येन स्तनदानप्रवृत्ता राक्षसीति हता तस्य संप्रति कोमलाङ्गीनां मादृशां मारणे किं वक्तव्यमिति भावः। खण्डिता नायिका। तदुक्तं भरते—“निद्राकषायकलुषीकृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः। यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः” इति॥ ७॥ श्रीजयदेवेति। हे विबुधाः पण्डिताः, इमं जयदेवेन कविना वर्णितं रतौ वञ्चितायाः प्रतारितायाः खण्डितायाः प्रातरागतान्यनाविकानखाङ्कचिन्हितप्रियाया विलापं परिदेवनं श्रृणुताकर्णयत। कीदृशम्। सुधातोऽपि मधुरम्। तत्र हेतुमाह— विबुधेति। विबुधालयतोऽपि देवालयेऽपि दुरापं दुष्प्रापमित्यर्थः। सुधा स्वर्गेऽपि सुलभा कृष्णकथामृतपानं तु तत्रापि दुर्लभमिति सुधापेक्षयाधिकमाधुर्यमिति भावः। “विबुधः पण्डिते देवे" इति विश्वः। सुरालयतोऽयमित्यत्र सप्तम्यर्थे तसिः।
तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योतिहृ70दयम्।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति॥ २॥
अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशन71
स्तस्भाकर्षणदृप्तिहर्षण72महामन्त्रः कुरङ्गीदृशाम्।
———————————————————————————————————————————————
योजिता धातुवरेण भणत रसरताः॥ ८॥ इदानीं खण्डितापि प्रौढत्वमालम्ब्य तमधिक्षिपति—तवेदमिति। हे कितव, त्वदालोकोऽद्य मम शोकादपि किमपि अधिकतरं लज्जां जनयति। त्वद्दर्शनेन शोकं पराकृत्य लज्जैवाधिकाभूत्। तत्र पूर्वं शोके कारणमाह— प्रख्यातस्य जगद्विदितस्य स्नेहातिशयभङ्गेन। अतो लज्जां प्रति हेतुगर्भं विशेषणमाह। किंभूताया मम। तवेदं हृदयं पश्यन्त्याः। किंभूतं हृदयम्। प्रियायाः यावककर्बुरितम्। अत एवारुणद्योति अरुणस्य द्योत इव द्योतो विद्यते यस्य तत्तथा। अरुणवत्सन्ध्यारागवद्द्योतनशीलं वा। उत्प्रेक्षते। बहिः प्रसरदनुरागमिव। बहिः प्रसरन्नलक्तकव्याजेन तदनुरागो यस्मिन्। बहुमानपुरःसरमुपभोगयोग्यस्य कौस्तुभस्य प्रेष्यापादाहतिर्लज्जाधिक्ये हेतुः। तव प्रेष्योपभोगे लज्जापि नासीति व्यङ्ग्यम्। अत्र शिखरिणीवृत्तम्॥ २॥ इदानीं सर्गान्ते मङ्गलाचरणाशिषमाह—अन्तर्मोहनेति। कंसारेः श्रीकृष्णस्य वंशीरवः पाविकाध्वनिः वो युष्माकं श्रेयांसि विपोलयतु विपुलीकरोतु। किंभूतो वंशीरवः। दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशो दृप्यद्भिर्दानवैर्दूयमाना ये दिविषदस्तेषां दुःखापदां भ्रंशहेतुत्वाद्भ्रंशः। पुनः किंभूतः। कुरङ्गीदृशामन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनहेशनस्तंम्भाकर्षणदृप्तिहर्षणमहामन्त्रः। अन्तर्मोहनेत्यादिदृप्तिपदान्तो द्वन्द्वः। तेषां संहर्षो योगः तत्र महामन्त्र इव। अन्तर्मोहनं मनोमोहनम्। अनेन मोहनं मौलिघूर्ण
———————————————————————————————————————————————
सार्वविभक्तिकस्तसिरिति नियमात्॥ ८॥ तवेदमिति। हे कितव धूर्त, त्वदालोकस्तव दर्शनम्। प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भङ्गेन नाशेन हेतुना शोकादिदुःखादपि किमप्यनिर्वचनीयं लज्जां जनयति। कीदृश्या मे। तवेदं प्रत्यक्षं त्दृदयं पश्यन्त्याः। कीदृशम्। प्रियापादालक्तकैः प्रियायाश्चरणसंबन्धियावकैर्व्याप्तम्। अत एवारुणच्छायमरुणच्छाया दीप्तिर्यस्य तादृशम्। किमिव। बहिः प्रसरदनुरागमिव हृदयं परिपूर्णाधिक्याद्बहिः निःसरत्। प्रेम्णैव या राधा पूर्वं सौभाग्यगर्वेण न कांचन गणयति स्म सा इदानीं समक्षमन्यनायिकाचरणालक्तकं हृदयं पश्यन्ती जीवत्येवेति विपक्षयुवतीपरिहासशङ्कया शोकादपि मेऽधिकलज्जा भवतीति भावः। “छाया स्यादातपाभावे
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्विपोलेयतु वः श्रेयांसि73 वंशीरवः॥ ३॥
इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्टमः सर्गः॥ ८॥
———————————————————————————————————————————————
नमिति वशीकारः। वशीकृता हि देवताः साधु साध्विति शिरोधूननेन प्रशंसन्ति। चलन्ति यानि मन्दारकुसुमानि तेषां भ्रंसनम्। एतावता मारणमुद्दिष्टम्। मारणे हि कुसुमस्रजां भ्रंशो जायते। स्तम्भाकर्षणं सिद्धम्। दृष्टिर्बाधा। उच्चाटनमिति यावत्। एतेषां योगः। एतावता वंशीरवस्य मृगीदृशां संबन्धि षट्कर्मसाधनमहामन्त्रत्वमुक्तम्। वंशं
श्रुत्वा मृगीदृशस्तां तामवस्थां प्राप्नुवन्तीत्यर्थः॥ ३॥
उद्यन्नष्टकुलाचलप्रतिनिधिः कीर्तिव्रजापूरिता-
ष्टाशोऽष्टदुह्रिणश्रुतिप्रतिहतिप्रक्रान्तभेरीरवः।
स्फूर्जच्छौर्यजिताष्टदिक्पतिरसौ श्रीकुम्भकर्णो व्यधा-
त्सर्गस्याष्टमितस्य चारुविवृतिं भक्तोऽष्टमूर्त्तेरिमाम्॥
इति श्रीरसिकप्रियानाम्नि श्रीगीतगोविन्दविवरणे म्लेञ्छवनीदावानलमहाराजश्रीकुम्भकर्णविरचितेऽष्टमः सर्गः॥
———————————————————————————————————————————————
प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापंक्तिषु स्मृता॥” इति विश्वप्रकाशः॥ २॥(अन्तर्मोहनेत्यादिश्लोकटीका नोप-लभ्यते आदर्शपुस्तके)॥ ३॥
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामष्टमः सर्गः॥
नवमः सर्गः।
मुग्धमुकुन्दः।
तामथ74 मन्मथखिन्नां रतिरसभिन्नां विषादसंपन्नाम्।
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहः सखी॥१॥
**गुर्जरी75रागयतितालाभ्यां गीयते। प्र०॥ ९८ **
हरिरभिसरति वहति मधुपवने
किमपरमधिकसुखं सखि भवने॥१॥
माधवे मा कुरु मानिनि मानमये॥ध्रुवम्॥
———————————————————————————————————————————————
इदानीं प्रणयकोपाद्धरिमधिक्षिप्य कलहान्तरितत्वेनोपतप्यमानां राधां सख्याह—तामथेति। अथ सखी तामुवाच। किंभूताम्। मन्मथखिन्नाम्। पुनः किंभूताम्। संभोगरागेण भावशबलताप्राप्ताम्। पुनः किंभूताम्। विषादसंपन्नाम्। पुनः किंभूताम्। अनुध्यातहरिचेष्टिताम्। पुनः किंभूताम्। कलहान्तरिताम्। तल्लक्षणं यथा— ‘प्राणेश्वरं प्रणयकोपविशेषभीतं या चाटुकारमवधीर्यविशेषवाग्भिः। संतप्यते मदनवह्निशिखासमूहैर्बाष्पाकुलेह कलहान्तरिता हि सा स्यात्’॥ इयं पथ्या आर्या। तामथेत्यादिषु अनुकूलो नायकः। प्रौढधीरा मानवती नायिका। सखी दूती च॥ १॥ तदेव वक्ष्यमाणमाह— हरिरभीति। तत्र पूर्वं ध्रुवः। माधव इति। अये राधे मानवति। अनुच समर्थनायिकानाथे। (?) इति ध्रुवः॥ अथ पदानि हरिरिति— हे सखि राधे, भवने गृहे। अपरमिति सावधिको निर्द्देशः। अतः
———————————————————————————————————————————————
पूर्वसर्गे खण्डिताया राधायाश्चरितमुक्तम्। संप्रति पश्चात्तापं तां सख्युवाचेत्याह। अथेति— अथ अनन्तरं कलहान्तरितां परुषवचनानन्तरं कृतपश्चात्तापां राधां रह एकान्ते सखी उवाच उक्तवती। कीदृशम्। मन्मथेन कामेन खिन्नां दुःखिताम्। अत एव रतिरसेन श्रृङ्गारसेन भिन्नां संगताम्। अत एव विषादसंपन्नामुद्वेगसहिताम्। अत एवानुचिन्तितं स्मृतं हरेश्चरितं पुरा रहोविलसितं यया ताम्। “भिन्नमन्यार्थवचने संगते दारिते स्फुटे।" इति विश्वः। कलहान्तरिता चेयम्। ‘प्राणेश्वरं प्रणयकोपभरेण भीतं या चाटुकारमवधीर्य विशेषवाग्भिः। संतप्यते मदनवन्हिशिखासहस्रैर्बाष्पाकुला च कलहान्तरिता हि सा स्यात्।’ इति॥ १॥ तदेव गीतेन कथयति— हरिरिति। गीतस्यास्य गुर्जरीरागो यतितालश्च। गीतार्थस्तु— अये इति संभ्रमे। हे मानिनि मानवति, माधवे लक्ष्मीपतौ मानं मा कुरु। लक्ष्मीपतिरपि त्वां प्रसादयत्यहो भाग्यमित्यवश्यं त्वया मानस्त्याज्य इति सूचनाय माधवपदोपादानम्। मृदुपवने वसन्तवायौ वहति सति हरिः कृष्णोऽभिसरति त्वदीयसंकेतभूमिमागच्छति। हे सखि, भुवने त्रैलोक्येऽपरं कृष्णाभि
तालफलादपि गुरुमतिसरसम्।
किं विफलीकुरुषे कुचकलशम्॥ माध०॥ २॥
कति न कथितमिदमनुपदमचिरम्।
मा परिहर हरिमतिशयरुचिरम्॥ माध०॥ ३॥
किमिति विषीदसि रोदिषि विकला।
विहसति युवतिसभा तव सकला॥ माध०॥४॥
सजलनलिनीदलशीतलशयने।
हरिमवलोकय सफलय नयने॥ माध०॥ ५॥
———————————————————————————————————————————————
परमधिकं किं सुखम्। न किंचिदित्यर्थः। अत इति किम्। यन्मधोर्वसन्तस्य पवने वहति वाति सति इरिरभिसरति खयमायाति॥१॥ अपि च। तालफलादिति। हे राधे. कुचकलशं किं विफलीकुरुषे। हरिकरतलस्पर्शविलासाभावाद्विफलमित्यर्थः। तालफलादपि गुरुं कठिनं महान्तं च। पुनः कीदृशम्। अतिशयेन सरसम्॥ २॥ अपि च। कति नेति। हे सखि, अतिशयरुचिरं हरिं मा परिहर इदं वचनमचिरं सांप्रतमनुपदं स्थाने कतिवारं न कथितम्॥ ३॥ अपि च। किमितीति। हे सखि, इति अमुना प्रकारेण विषादं कुरुषेऽतिविकला सती किमिति रोदिषि। सकला युवतिसभा तव इति चेष्टितं हसति॥ ४॥ अपि च। स
———————————————————————————————————————————————
सरणादन्यत्किं खखम्। अपि तु न किंचिदित्यर्थः। “मधु क्षीरे जले क्षौद्रे मद्ये पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे’॥ इति विश्वः॥ १॥ किं च। तालेति। कुचकलशं कलशतवत्पीनं मांसलं स्तनं किमिति विफलीकुरुषे। कृष्णकरस्पर्शादेव कुचकलशयोः साफल्यम्। तदभावे वैफल्यमिति भावः। तालफलपक्षेयापि गुरुं कठिनमतिसरसं च। रसः शृङ्गाराख्यस्तत्सहितम्। तालफलपक्षे रसो माधुर्यं तत्सहितम्। अतिमर्दनेन वै रसप्रदत्वं भवति। अपरः कलशोऽपि पूर्णः सन्गुरुर्भवति। रसो जलं तत्सहितश्च भवतीत्यपि ध्वनितम्॥ २॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह— कति नेति— इदमचिरं सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कथितं कियन्न कथितमपि तु बहु कथितम्। इदं किम्। हरिमतिशयरुचिरमतिश्येन मनोहरं मा परिहर उपेक्षस्व॥ ३॥ किमिति— त्वं किमिति किमर्थं विषीदसि विषण्णा भवसि। ननु नास्मि विषण्णेत्यत आह— रोदिषीति। विकला विव्हला सती रोदिषि रोदनं करोषि। अत एव सकला समस्ता युवतिसभा हसतीति भावः। यद्वा इयं मानापनोदाय प्रणतमपि प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपाटीं न जानासि। सकला चतुःषष्टिकलासहिता युवतिसभा हसतीति भावः॥ ४॥ तर्हि किमित्यत आह—सजलेति। हे सजलनलिनीदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां शीतलं शयनं शय्या यस्यास्तादृशे, त्वं पुरः स्थितं हरिं कृष्णमवलोकय पश्य। अत
जनयसि मनसि किमिति गुरुखेदम्।
श्रृणु मम वचनमनीहितभेदम्॥ माध०॥ ६॥
हरिरुपयातु वदतु बहु मधुरम्।
किमिति करोषि हृदयमतिविधुरम्॥ माध०॥ ७॥
श्रीजयेदवभणितमतिललितम्।
सुखयतु रसिकजनं हरिचरितम्॥ माध०॥ ८॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि युदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये।
———————————————————————————————————————————————
जलेति। अत एव नयने सफलस्य॥५॥ अपि च। जनयसीति। हे राधे, इत्येवं पूर्वोक्तप्रकारेण मनसि चित्ते महान्तं खेदं किं जनयसि। तर्हि किं किं विधेयमित्याशङ्क्याह— मम वचनं श्रृणु। किंभूतम्। अनीहितभेदम्। न ईहितश्चेष्टितो भेदः पार्थक्यं येन तत्तथा॥ ६॥ अपि च। हरिरुपयात्विति। हे राधे, हरिरुपयातु त्वत्समीपमायातु। बहुविस्तरं मधुरं चाटु वदतु। अनया रीत्या हृदयमतिविधुरं किं करोषि॥७॥ अपि च। श्रीजयदेवभणितेति। हरिचरितं रसिकजनं सुखयतु। किंभूतम्। श्रीजयदेवभणितम्। पुनः किंभूतम्। अतिललितम्। श्रुतिजातिग्रहलयसाम्यान्मनोहरम्॥ तथा च संगीतराजे— “नट्टरागस्तृतीयाख्यस्तालो मध्ये क्वचित् क्वचित्। पदानां शोभयालापगुम्फनां गानहेतुकाम्॥ अन्ते पाटाः खरास्तेनास्वदन्ते पद्यगुम्फनम्। पद्या मन्दमुकुन्दाद्यमकरन्दाभिधानवत्। प्रबन्धप्रीतये गीतः श्रीपतेः कुम्भभूभुजा॥’ इति श्रीअमन्दमुकुन्दो नामाष्टादशः प्रबन्धः॥ यदि कौतुकिनो गाने संगीते चातुरी यदि। रसिका कुम्भकर्णस्य श्रृण्वन्तु बुधसत्तमाः॥ ८॥ सखी तद्दुश्चेष्टितमनुवदन्ती तां राधां प्रति बोधयति—स्निगध इति। हे विपरी
———————————————————————————————————————————————
एव नयने नेत्रे सफलय कृतार्थय। यद्वा सजलेति सप्तमी। तथा च त्वया रचितं यत्सजलिनीकिनीदलशीतलशयनं तत्रोपविष्टं हरिमवलोकयेत्यर्थः। तथा च सत्कारपूर्वकं शयने उपवेश्य हरिं पश्येति भावः॥ ५॥ जनयसीति। तस्मान्मनसि चित्ते गुरुखेदं महद्दुःखं किमिति जनयसि। मम वचनं “माधवे मानं मा कुर" इति मम वाक्यं श्रृणु। कीदृशम्। अनीहितोऽनाकाङ्क्षितो युवयोर्भेद उपजाप एतादृशम्। तथा च मम वचनं युवयोः प्रीतिकारकं तदवश्यं त्वया श्रोतव्यमिति भावः। मया सह नाकाङ्क्षितं भेदं यथा स्यादेवं मम वचनं श्रृणु। इयं सखी मत्तोऽभिन्ना, मदनिष्टं न भवतीति बुद्ध्या मद्वचनं शृण्विति भावः॥ ६॥ हरिरिति। हरिः कृष्ण उपयातु त्वदन्तिकं गच्छतु। बहुमधुरमतिसरसं यथा स्यादेवं वदतु। हृदयं स्वकीयं हृदयमतिविधुरमतिदुःखितं किमितिकरोषि॥ ७॥ श्रीजयदेवेति। श्रीजयदेवेन भणितं वर्णितं ललितं मनोहरं हरिचरितं रसिकजनं कृष्णभक्तिरसास्वादगृहीतं श्रृङ्गारादिरसास्वादपरं जनं सुखयतु आनन्दयतु॥ ८॥ स्निग्ध इति। यद्यतो हेतोः स्निग्धे यस्मिन्प्रिये मधुरवचनैः स्नेहं
तालफलादपि गुरुमतिसरसम्।
किं विफलीकुरुषे कुचकलशम्॥ माध०॥ २॥
कति न कथितमिदमनुपदमचिरम्।
मा परिहर हरिमतिशयरुचिरम्॥ माध०॥ ३॥
किमिति विषीदसि रोदिषि विकला।
विहसति युवतिसभा तव सकला॥ माध०॥ ४॥
सजलनलिनीदलशीतलशयने।
हरिमवलोकय सफलय नयने॥ माध०॥ ५॥
—————————————————————————————————————————————————————————————————————
परमधिकं किं सुखम्। न किंचिदपीत्यर्थः। अत इति किम्। यन्मधोर्वसन्तस्य पवने वहति वाति सति हरिरभिसरति स्वयमायाति॥ १॥ अपि च। तालफलादिति। हे राधे. कुचकलशं किं विफलीकुरुषे। हरिकरतलस्पर्शविलासाभावाद्विफलमित्यर्थः। तालफलादपि गुरुं कठिनं महान्तं च। पुनः कीदृशम्। अतिशयेन सरसम्॥ २॥ अपि च। कति नेति। हे सखि, अतिशयरुचिरं हरिं मा परिहर इदं वचनमचिरं सांप्रतमनुपदं स्थाने कतिवारं न कथितम्॥ ३॥ अपि च। किमितीति। हे सखि, इति अमुना प्रकारेण विषादं कुरुषेऽतिविकला सती किमिति रोदिषि। सकला युवतिसभा तव इति चेष्टितं हसति॥ ४॥ अपि च। स
———————————————————————————————————————————————
सरणादन्यत्किं सुखम्। अपि तु न किंचिदित्यर्थः। ‘मधु क्षीरे जले क्षौद्रे मद्ये पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे’॥ इति विश्वः॥ १॥ किं च तालेति। कुचकलशं कलशवत्पीनं मांसलं स्तनं किमिति विफलीकुरुषे। कृष्णकरस्पर्शादेव कुचकलशयोः साफल्यम्। तदभावे वैफल्यमिति भावः। तालफलापेक्षयापि गुरुं कठिनिमतिसरसं च। रसः श्रृङ्गाराख्यस्तत्सहितम्। तालफलपक्षे रसो माधुर्यं तत्सहितम्।अतिमर्दनेन वै रसप्रदत्वं भवति। अपरः कलशोऽपि पूर्णः सन्गुरुर्भवति। रसो जलं तत्सहितश्च भवतीत्यपि ध्वनितम्॥ २॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह— कति नेति इदमचिरं सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कथितं कियन्न कथितमपि तु बहु कथितम्। इदं किम्। हरिमतिशयरुचिरमतिशयेन मनोहरं मा परिहर उपेक्षस्व॥ ३॥ किमिति—त्वं किमिति किमर्थं विषीदसि विषण्णा भवसि। ननु नास्मि विषण्णेत्यत आह— रोदिषीति। विकला विव्हला सती रोदिषि रोदनं करोषि। अत एव सकला समस्ता युवतिसभा हसतीति भावः। यद्वा इयं मानापनोदाय प्रणतमपि प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपाटीं न जानासि। सकला चतुःषष्टिकलासहिता युवतिसभा हसतीति भावः॥ ४॥ तर्हि किमित्यत आह— सजलेति। हे सजलनलिनीदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनीपत्राणि तेषां शीतलं शयनं शय्या यस्यास्तादृशे, त्वं पुरः स्थितं हरिं कृष्णमवलोकय पश्य। अत
जनयसि मनसि किमिति गुरुखेदम्।
शृणु मम वचनमनीहितभेदम्॥ माध०॥६॥
हरिरुपयातु वदतु बहु मधुरम्।
किमिति करोषि हृदयमतिविधुरम्॥ माध०॥७॥
**श्रीजयेदवभणितमतिललितम्।
सुखयतु रसिकजनं हरिचरितम्॥ माध०॥ ८॥ **
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि युदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये।
______________________________________________________________________________
जलेति। अत एव नयने सफलय॥ ५॥ अपि च। जनयसीति। हे राधे, इत्येवं पूर्वोक्तप्रकारेण मनसि चित्ते महान्तं खेदं किं जनयसि। तर्हि किं किं विधेयमित्याशङ्क्याह— मम वचनं शृणु। किंभूतम्। अनीहितभेदम्। न ईहितश्चेष्टितो भेदः पार्थक्यं येन तत्तथा॥६॥ अपि च। हरिरुपयात्विति। हे राधे, हरिरुपयातु त्वत्समीपमायातु। बहुविस्तरं मधुरं चाटु वदतु। अनया रीत्या हृदयमतिविधुरं किं करोषि॥७॥ अपि च। श्रीजयदेवभणितेति। हरिचरितं रसिकजनं सुखयतु। किंभूतम्। श्रीजयदेवभणितम्। पुनः किंभूतम्। अतिललितम्। श्रुतिजातिग्रहलयसाम्यान्मनोहरम्॥ तथा च संगीतराजे— ‘नट्टरागस्तृतीयाख्यस्तालो मध्ये क्वचित् क्वचित्। पदानां शोभयालापगुम्फनां गानहेतुकाम्॥ अन्ते पाटाः स्वरास्तेनास्तदन्ते पद्यगुम्फनम्। पद्या मन्दमुकुन्दाद्यमकरन्दाभिधानवत्। प्रबन्धप्रीतये गीतः श्रीपतेः कुम्भभूभुजा॥’ इति श्रीअमन्दमुकुन्दो नामाष्टादशः प्रबन्धः॥ यदि कौतुकिनो गाने संगीते चातुरी यदि। रसिका कुम्भकर्णस्य शृण्वन्तु बुधसत्तमाः॥८॥ सखी तद्दुश्चेष्टितमनुवदन्ती तां राधां प्रति बोधयति — स्निग्ध इति। हे विपरी-
______________________________________________________________________________
एवं नयने नेत्रे सफलय कृतार्थय। यद्वा सजलेति सप्तमी। तथा च त्वया रचितं यत्सजलनलिनीदलशीतलशयनं तत्रोपविष्टं हरिमवलोक-येत्यर्थः। तथा च सत्कारपूर्वकं शयने उपवेश्य हरिं पश्येति भावः॥५॥ जनयसीति। तस्मान्मनसि चित्ते गुरुखेदं महद्दुःखं किमिति जनयसि। मम वचनं ‘माधवे मानं मा कुरु’ इति मम वाक्यं शृणु। कीदृशम्। अनीहितोऽनाकाङ्क्षितो युवयोर्भेद उपजाप एतादृशम्। तथा च मम वचनं युवयोः प्रीतिकारकं तदवश्यं त्वया श्रोतव्यमिति भावः। मया सह नाकाङ्क्षितं भेदं यथा स्यादेवं मम वचनं शृणु। इयं सखी मत्तोऽभिन्ना, मदनिष्टं न भवतीति बुद्ध्या मद्वचनं शृण्वति भावः॥६॥ हरिरिति। हरिः कृष्ण उपयातु त्वदन्तिकं गच्छतु। बहुमधुरमति-सरसं यथा स्यादेवं वदतु। हृदयं स्वकीयं हृदयमतिविधुरमतिदुःखितं किंमितिकरोषि॥७॥ श्रीजयदेवेति। श्रीजयदेवेन भणितं वर्णितं ललितं मनोहरं हरिचरितं रसिकजनं कृष्णभक्तिरसास्वादगृहीतं शृङ्गारादिरसास्वादपरं जनं सुखयतु आनन्दयतु॥ ८॥ स्निग्ध इति। यद्यतो हेतोः स्निग्धे यस्मिन्प्रिये मधुरवचनैः स्नेहं
**तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं **
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः॥ २॥
सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्दिन्दिरम्।
**स्वच्छन्दं मकरन्दसुन्दरमिलन्मन्दाकिनीमेदुरं **
**श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे॥ ३॥ **
इति श्रीगीतगोविन्दे कलहान्तरितावर्णने मुग्धमुकुन्दो
नाम नवमः सर्गः॥ ९॥
___________________________________________________________________________________
तकारिणि विपरीतकृतप्रतिकरणशीले, यत्तव श्रीखण्डचर्चा चन्दनानुलेपो विषमिव भवति। यच्च शीतांशुश्चन्द्रः तपन इव भवति। यच्च हिमं नीहारो हुतवह इव भवति। यच्च क्रीडामुदः केलिप्रमोदास्तीव्रवेदना इव भवन्ति। एतद्युक्तम्।विपरीतं य आचरति तस्य सर्वं विपरीतमेव भवति। तदेव विपरीतमाचरणं दर्शयति।यत्तस्मिन्नपि तादृशप्रियकारिण्यपि हरौ स्निग्धे सस्नेहे रूक्षासि।सस्नेहे स्नेहराहित्यं वैपरीत्यम्। यच्च प्रणमति नतिशीले प्रिये स्तब्धासि।प्रणमत्यप्रवणत्वं वैपरीत्यम्।यच्च रागवति प्रद्वेषिण्यसि।अत्रापि तादृगेव वैपरी-त्यम्।यच्च संमुखे प्रिये वैमुख्यं यातासि।संमुखे विमुखभावो वैपरीत्यम्॥ अत्र शार्दूलविक्रीडितं वृत्तम्।विरोधालङ्कारः॥ २॥ इदानीं सर्गान्ते सर्वविघ्नोपशमनार्थं गोविन्दं प्रणमति—**सान्द्रेति।**श्रीगोविन्दपदारविन्दं वन्दामहे नमस्कुर्महे।किमर्थम्।अशुभस्कन्दाय अशुभनाशाय।किंविशिष्टम्। स्वच्छन्दं यथा स्यात्तथा मकरन्दसुन्दरा मकरन्दसदृशी गलन्ती या मन्दाकिनी गङ्गा तया सान्द्रं स्निग्धम्।अरविन्दे हि मकरन्दो भवति।तेन मन्दाकिनी उपमीयते इत्युपमालंकारः।पुनः किंभूतम्।सान्द्रानन्दा निबिडहर्षा ये पुरन्दरादिदि-विषदस्तेषां वृन्दैः मुकुटेन्द्रनीलमणिभिः संदर्शिता इन्दिन्दिरा मधुपा यत्र तत्तथा।अत्र चरणयोः कमलोपमा।मन्दाकिन्याः मकरन्दोपमा
______________________________________________________________________________
प्रकटयति सति परुषासि निष्ठुरभाषिष्यसि।यच्च प्रणमति तस्मिंस्तब्धासि।यच्च रागिण्यनुरागवति तस्मिंस्त्वं द्वेषस्थासि द्वेषमवलम्ब्य स्थितासि।यच्चोन्मुखे आलिङ्गनाय संमुखे तस्मिंस्त्वं विमुखतां यातासि परामुखतां गतासि।तद्धेतोर्हे विपरीतकारिणि, एतत्सर्वं विपरीतमेव।एतत्किम्।तव श्रीखण्डचर्चा चन्दनलेपो विषम्। यथा विषं भोक्तारं मूर्च्छयति तथा चन्दनलेपोऽन्येषां सुखदोऽपि त्वां मूर्च्छयतीति भावः।अथ च शीतांशुस्तपनः सूर्यः।अन्येषां शीतलस्वभावोऽपि चन्द्रस्त्वयि तापप्रदत्वात्तपन इति भावः।हिमं तुषारोऽपि हुतवहोऽग्निः।अथ च क्रीडामुदः सखीक्रीडाजन्या मुदः प्रमोदा या-
सुरवृन्दमौलीन्द्रनीलमणीनां भृङ्गोपमा। एवं चरणसरोजे मकरन्दजुषो नमत्सुरमौलिनीलमणिव्याजेन भृङ्गा इव किंविशिष्टैर्दिविषद्वृन्दैः। अमन्दादरात्प्रचुरादरवशतः। आनम्रैः साष्टाङ्गप्रणिपातप्रवणैः। शार्दूलम्॥३॥
एकं कृत्वा हृदीशं द्वितयमथ नये सारमासाद्य तिस्रः
सम्यग्योगं चतुर्णां निपुणतरधिया पञ्च जित्वा विदित्वा।
**षट्कं हित्वाथ सप्ताष्टकुलगिरिबलो गीतगोविन्दसर्गं
सूक्तया कृत्वा निसर्गोज्ज्वलमिव नवमं कुम्भकर्णो जयास्नात्(?)॥ **
इति श्रीकुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसिकप्रियायां कलहान्त-
रितावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः॥
______________________________________________________________________________________________________________
तना तीव्रवेदनाः। यस्तस्मिन्विपरीतमाचरति तस्य सर्वं विपरीतमेव भवतीति भावः। “परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि।’ इति विश्वः। ‘यातना तीव्रवेदना’ इत्यमरः॥२॥ (अत्र सान्द्रानन्दनेति श्लोकस्य टीका नोपलभ्यते आदर्शपुस्तके॥ ३॥)
वात्स्यायनादिमतसंमतमत्र किंचि -
द्योत्कोषजातमथ शब्दनयप्रमेयम्।
यच्चाप्यलङ्कृतिरहस्यमलेखि तत्त-
च्चाम्नाय मूलमिति सन्मतिभिर्विभाव्यम्॥
इति श्रीशंकरमिश्रविरचितायां गीतगोविन्दटीकायां रसमञ्जर्यां नवमःसर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1726303982Screenshot2024-09-02at16-37-17EditBookE-Bharatisampat.png"/>
दशमः सर्गः
**चतुरचतुर्भुजः। **
अत्रान्तरे मसृण76रोषवशामपार77-
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवाच॥ १॥
देशवराडीरागाष्टतालाभ्यां गीयते। प्र० १९॥
वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम्।
स्फुरदधरशीधवे तव वदनचन्द्रमा
रोचयतु78 लोचनचकोरम्॥ १॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानम्।
__________________________________________________________________________________
इदानीं सायंकृतसखीकृत्यां स्मरशरजर्जरितकोपां स्वयमनुनयति — अत्रान्तर इति। अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सव्रीडं यथा स्यात्तथा सुमुखीं राधामुपेत्य सानन्दगद्गदपदं सहर्षविकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच। पुनः कथं यथा स्यात्तथा। किंभूताम्। मसृणरोषवशां स्निग्धरोषरागाम्। कोमलसखीवचनैः किंचिन्नमितरोषाम्। पुनः किंभूताम्। अपार निःश्वासनिः सहमुखीं विरहसहनासमर्थाननाम्। वसन्ततिलका वृत्तम्॥१॥ तदेव वक्ष्यमाणमाह— वदसीति। तत्रानुरोधेन क्रमपरिपाटिं परित्यज्य पूर्वं ध्रुवपदं व्याक्रियते। प्रिये इति। हे प्रिये शोभनशीले मयि विषये यो मानः तं मुश्च परित्यज। किंभूतम्। अनिदानम्।
______________________________________________________________________________
** अन्नान्तर इति।** अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे रात्रिमुखे इति वक्ष्यमाणमुवाच। कीदृशीम्। अमसृणः कर्कशो यो रोषस्तस्मादसीमोऽधिको निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम्। पुनः कीदृशीम्। सव्रीडं सलजं यथा स्यादेवमीक्षितं सख्या वदनं यया ताम्। कथं यथा स्यात्। सानन्दगद्गदपदम् \। आनन्देन गद्गदपदं गलदक्षरवाक्सहितं यथा स्यात्\।\।१\।\।तदेव गीतेन कथयति—वदसीति। गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः। गीतार्थस्तु— हे प्रिये राधे, चारु मनोहरं शीलं यस्यास्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मुञ्च त्यज। सपदि त्वन्मानकाल एव मदनानलः कामाग्निर्मम मानसं दहति तापयति। अतो मुखकमलममलं तत्संबन्धि यन्मधु तत्पानं देहि। चारुशीलत्वमेवाह— वदसीति। त्वं यदि
**सपदि मदनानलो दहति मम मानसं **
**देहि मुखकमलमधुपानम्॥ ध्रुवम्॥ **
**सत्यमेवासि यदि सुदति मयि कोपिनी **
**देहि खरनखरशरघातम्। **
**घटय भुजबन्धनं जनय रदखण्डनं **
येन वा भवति सुखजातम्। प्रिये०॥ २॥
_______________________________________________________________________________________________
सपत्नीसंभोगलक्षणकारणरहितम्। सपदि साम्प्रतं भवतीति मानमपेक्ष्य मदनानलो मम मानसं दहति। तत्तापोपशान्त्यै मुखकमलमधु-पानं देहीति ध्रुवः। अथ पदानि। वदसीति। हे प्रिये, किंचिदपि प्रियाप्रियनिरपेक्षं स्वल्पमपि वदसि। तदा तव दन्तरुचिकौमुदी मम दरतिमिरं भयान्धकारं हरति। किंभूतं भयान्धकारम्। अतीव घोरम्। अतीव भयानकहेतुत्वाद्भयानकम्। अत्र मयि स्थायी भयमेवोद्रि-क्तः सन् भयानकतामेध्यतीति ‘विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः। आनीयमानस्थायित्वे स्थायीभावो रसः स्मृतः’ इति। स च शृङ्गारविरोधी त्वया परिहरणीय एव। तव वदनचन्द्रमा मम लोचनचकोरं स्फुरन्योऽधरे शीधुस्तस्मै रोचयतु साभिलाषं करोतु। अधरशीधुचन्द्रिकार्थं चन्द्रमसः सान्निध्यान्मन्नेत्रचकोरस्य स्पृहा जायते॥ १॥ अपि च। सत्यमिति। हे सुदति शोभनदन्ते, सत्यमेव यदि मयिकोपिन्यसि। तर्हि सापराधे मयि खरनखरशरघातं देहि। भुजाभ्यां बन्धनं घटय। रदैः खण्डनं जनय। अथवा किमुद्दिश्यते। येन वा अपराधयोग्येन दण्डेन तव सुखजातं भवति स एव विधीयताम्। प्रभूणां हि सापराधेषु भृत्येषु ताडन -
__________________________________________________________________________________________________________
किंचिदपि उदासीनवचनमपि वदसि तदा दन्तरुचिकौमुदी तव दन्तानां या रुचिः सैव कौमुदी चन्द्रज्योत्स्ना सातिघोरमतिभीमं दरति-मिरं दरः साध्वसं स एव तिमिरमन्धकारः। तद्धरति दूरीकरोति। अत्र साध्वसे सति पुरःस्थितमपि वस्तु न प्रकाशत इति साध्वसस्यान्ध-कारत्वेन निरूपणम्। दन्तरुचेश्व तन्नाशकत्वात्कौमुदीत्वेन निरूपणम्। अथ च स्फुरत्कोपवशात्किश्चिच्चलन्योऽधरः। तल्लक्षणं चोक्तम्। ‘चन्द्रिकायां कौमुदी’ इति विश्वः। ‘दरः साध्वसगर्तयोः’ इति च। ‘घोरं भीमे हरे घोरः’ इत्यपि। ‘शीधु निमशिमृते(?)’। शीधुशब्दः पुंस्यपि पुन्नपुंसकशेषेऽमरसिंहः— ‘कुष्टं मुण्डं शीधु वुस्तम्’ इति। अत्राधरशीधवे इत्यत्र तादर्थ्यविवक्षायां चतुर्थी। न तु लोचनचकोर-मित्यत्र ‘रुच्यर्थानां प्रीयमाणः’ इति चतुर्थी। कुतो नेति चेत्। अन्यकर्तृकोऽभिलाषो रुचिः। इह तु वदनचन्द्रमसोर्न प्रीतिजनकत्वं विवक्षितम्॥१॥सत्यमेवेति। हे सुदति शोभनदशने, त्वं सत्यमेव यथार्थमेव यदि कोपवत्यसि तदा खरास्तीक्ष्णा ये नखास्त एव बाणास्तैर्घातं प्रहारं देहि। तेनापि यदि न तुष्यसि तदा भुजाभ्यां बाहुभ्यां॑ बन्धनं घटय। तेनाप्यसंतोषे रदखण्डनं रदैर्दशनैः खण्डनमधरे क्षतं जनय। येन वा सुखजातं सुखसमूहो भवति तदेव कुरु। यथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुञ्चेति भावः। सुदति शोभना दन्ता अस्या इति वाक्ये दन्तस्येति दतादेशः। ‘जातं जात्योच्च-
**त्वमसि मम भूषणं त्वमसि मम जीवनं **
त्वमसि मम भवजलधिरत्नम्।
**भवतु भवतीह मयि सततमनुरोधिनी **
तत्र मम हृदयमतियत्नम्। प्रिये०॥ ३॥
**नीलनलिनाभमपि तन्वि तव लोचनं **
धारयति कोकनदरूपम्।
**कुसुमशरबाणभावेन यदि रञ्जयसि **
कृष्णमिदमेतदनुरूपम्॥ प्रिये०॥ ४॥
_______________________________________________________________________________________________________________
बन्धनखण्डनादयो दण्डाः समुचिताः। अत्रैतद्व्याजेन नखक्षतालिङ्गनचुम्बनादीन्प्रार्थयते॥ २॥ अपि च। त्वमसीति। तव अन्या एव सन्ति ता एव प्रार्थ्यतामित्याशङ्कयाह—मम त्वमेव भूषणमसि। त्वयालंकृतोऽहमन्यासु सौभाग्यवान्। अथ तिष्ठतु बाह्यभूषणम्। मम जीवनमपि त्वमेवासि। अथ जीवनमपि तिष्ठतु। जीवनेऽपि भवजलधौ रत्नं त्वमेव। भवजलधिग्रहणमन्यस्य परिग्रहस्य जडत्वद्योतनार्थम्। भवतीह विषये मयि सततमनुरोधिनी कृपापरा भवतु। तत्रैवार्थे मम हृदयमतीव यत्नपरं विद्यते॥३॥ अपि च। नीलेति। हे तन्वि नीलनलिनाभ-मपि कृष्णरूपमपि तव लोचनं कोकनदरूपं रक्तिमानं धारयति। अतो यदि कुसुमशरबाणचेष्टया कुसुमशरबाणाधीना भूत्वा यदि मामपि कृष्णं रञ्जयसि तदा इदं रञ्जनमेतल्लोचनरञ्जनाननुरूपं स्यात्। इदमाकूतम्। यथा मयि कोपेन त्वया कृष्णं लोचनं रक्तं कृतं तथा मयि प्रसादपरा भूत्वा कुसुमशरभावेन कामबाणानां कटाक्षादीनां चेष्टया मयि रक्तं कुरु। कोपं त्यक्त्वा प्रसादपरा भवेत्यर्थः।अथवा
__________________________________________________________________________________________________________
जन्मसु’ इति विश्वः॥ २॥ ननु या तव प्रिया तस्या मानं मोचय। मे मानत्यागे तव किं प्रयोजनमित्यत आह—त्वमसीति। त्वं मम जीवनमसि। त्वयि विषण्णायां मम विषादो भवति प्रसन्नायां प्रसाद इति त्वमेव जीवनमिति भावः। त्वं मम भूषणमलंकरणमसि। त्वां विनापि परमा कान्तिरिति त्वमेव मम लोकोत्तरं भूषणमिति भावः। भवजलधौ संसाररूपे रत्नाकरे त्वमेव मम रत्नमसि। यथा दरिद्रस्य रत्ने दृष्टे परमानन्दो भवत्येवं मम त्वय्यपि दृष्टायामिति भावः। भवत्विति। इह प्रणते मयि भवती सततं सदानुरोधिनी भवतु। तत्रार्थे मम हृदयं यत्नवत्॥३॥ नीलेति। हे तन्वि कृशाङ्गि, नीलनलिनस्य नीलोत्पलस्येवाभा दीप्तिर्यस्यैतादृशं तव लोचनं रोषारुणं यत्कोकनदरूपं रक्तोत्पलसौन्दर्य धारयति। यदि च कुसुमशरः कामस्तस्य बाणभावेन तद्बाणाभिप्रायेण वा इमं कृष्णं च रञ्जयसि रक्तं करोषि। एतस्य चक्षुषोऽनुरूपं सदृशम्। शरा हि सततं परशरीरभेदिनो रुधिराक्तत्वेनारक्ता भवन्तीति भावः। यद्वा कुसुमशरबाणभावेन कुसुमशरस्य बाणरूपो यो भावोऽभिप्रायस्तेन। यद्वा कुसुमशरबाणभावेन तद्बाणस्वरूपेण चक्षुषा भित्त्वा कृष्णं मां यदि रञ्जयसि। इदं रञ्जनमेतस्यास्तवैतस्य बाणस्य चानुरूपं स-
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम्।
**रसतु रसनापि तव घनजघनमण्डले **
**घोषयतु मन्मथनिदेशम्। प्रिये०॥ ५॥ **
स्थलकमलगञ्जनं मम हृदयरञ्जनं
**जनितरतिरङ्गपरभागम्। **
**भण मसृणवाणि करवाणि चरणद्वयं **
सरसल79सदलक्तकरागम्। प्रिये०॥ ६॥
_______________________________________________________________________________________________________________
सुमशरभावेन यदि नीलनलिनाभमपि लोचनं कोकनदरूपं धारयति तर्हि एतदिदं वानुरूपम्॥ ४॥ अपि च। स्फुरत्विति। हे तन्वि। तव कुचकुम्भयोरुपरि णिमञ्जरी मणिः मञ्जरींव स्फुरतु। स्फुरन्ती च किं करोत्वित्याह—तव दयदेशं रञ्जयतु। अपि च। रशनापि तव निबिडजघनमण्डले रसतु शब्दं करोतु। तथाविधा किं करोत्वित्याह—मन्मथनिदेशं सर्वा एव मानिन्यो मानं मुक्त्वा कामवशगा भवन्त्विति कामाज्ञां घोषयतु॥५॥ अपि च। स्थलकमलेति मसृणवाणि स्निग्धवाणि। भण आदिश। तव चरणद्वयं सरसलसदलक्त-करागं करणि। सरसः सस्नेहो लसन्योऽसावलक्तकस्तस्य रागो यत्र। अथ वा सह रसेन श्रृङ्गारेण वर्तत इति सरसः। स चासौ तथा शृङ्गारोत्पत्तिद्वारेण स्पृहाजनकश्चासौ
__________________________________________________________________________________________________________
शम्। श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनमनुरूपमेवेति। यश्च बाणेन ताड्यतेरुधिरादिना रक्तो भवत्येवेति भावः। कुसुमशर-बाणभावेनानेन नयनेन कृष्णं नन्दाजं मां रञ्जयसि प्रणयास्पदं करोषीति। इदमेतस्यास्तवानुरूपमेवेति प्रकृतार्थो भवेत्। कोकनदं रक्तकैरवे रक्तपङ्कजे ‘इति विश्वः॥४॥ स्फुरत्विति। मणिमञ्जरी मणिपरपरा कुचकुम्भयोः स्तनकलशयोरुपरि स्फुरतु चञ्चला भवतु। तव हृदयदेशं वक्षःप्रशं रञ्जयतु स्वरश्मिभिः शोभयतु। त्वन्नयननलिनं रक्तत्वं धत्ते त्वं च कृष्णं मां रञ्जसि। अतो मणिमञ्जरी अर्पिता वक्षो यदि रञ्जयति तदानुरूपं भवतीति भावः। अत्र लीरूपशुभकर्मारम्भे मञ्जरीयुक्तपूर्णकलशस्थापनमुचितमेवेति सूचनाय कुचयोः कल-त्वेन रूपणं मणिपरम्परायाश्च मञ्जरीत्वेन रूपणम्। तव घनजघनमण्डले मांसलजनभागे रशनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु। मन्मथनिदेशं कामाज्ञां विषयतु वारं वारं कथयतु। कामाज्ञया ‘भोः केलिं कुरुत’ इति कामाज्ञया सर्वे विलासिनो रमतामिति वा मन्मथनिदेशं घोषयत्विति भावः॥ ५॥ स्थलेति। हे सृणवाणि स्निग्धवचने, भण आज्ञां देहि। तव चरणद्वयं सरसगलदलक्तकरागं सरसःरान्द्रो लसन्नलक्तकरागो महारञ्जनरागो यस्य तादृशं करवाणि कुर्याम्। कीदृशम्। पलकमलगञ्जनं स्थलोत्पन्नं यत्कमलं स्वका-न्त्या तस्य तिरस्कारकम्। पुनः कीदृशम् ।
**स्मरगरलखण्डनं मम शिरसि मण्डनं **
**धेहि80 पदवल्लवमुदारम्। **
**ज्वलति मयि दारुणो मदनकदनारुणो81 **
हरतु तदुपाहितविकारम् \। प्रिये०॥ ७॥
_______________________________________________________________________________________________
लसत्कान्तिमांश्चेति ईदृशोऽलक्तकरागो यत्र। एतावता अलक्तकरञ्जनसमकालमे शृङ्गारोत्पत्तिर्भवत्येव यूनाम्। किंभूतं चरणद्वयम्। स्थलकमलगञ्जनं रागस्पर्धि। पुनः किंभूतम्। मम हृदयरञ्जनं मम चित्तानुकारि। पुनः किंभूतम्। जनित उत्पादितो रतिरङ्गस्य रमणप्रमोदस्य परभागो यत्र। कामोद्रेककारीत्यर्थः॥ ६॥ अपि च। स्मरेति। हे राधे, मम शिरसि उदा चरणलक्षणैर्महत्पदपल्लवं पदं पल्लव इव लौहित्यकौमल्यशैत्यादिना मण्डनमिव धेहि आरोपय। किंभूतं पदपल्लवम्। स्मरगरलखण्डनं कामविषतापशमनम्। मयि विषयं दारुणो मदनस्य यत्कदनं तदेवारुण इव सूर्य इव ज्वलति दीप्यते। स चरणपल्लवः मम शिरसि निहितः सन्। तेन मदन-कदनारुणजनिततापेन उपाहितविकार मारोपितविकृतिं संतापं हरतु। अत्रान्तरेत्यादौ प्रौढा मानवती नायिका। अनुकूलो नायकः
__________________________________________________________________________________________________________
मम हृदयानुरागजनकम्। तथा चेदं मम हृदयं रञ्जयति। ममाप्यलक्तकेनैतद्रञ्जनमुचितमेवेति भावः। अत एव जनितो रतिरङ्गे सुरतकौशले परभागः परस्परशोभा येन तादृशम्। मयालक्तकेन चेदं रज्यते। तदेतक्रौञ्चवधादौ मम हृदयलग्नं सत्परमशोभ दास्यतीति भावः। स्फुरतु मणिमञ्जरीत्यनेन भणनेन च विपरीतरतमत्राभिमतम् ‘परस्परं तु कान्तिः परभागः स कथ्यते’ इति धरणिः। ‘रङ्गः कौशलरागयोः’ इति च॥३॥ स्मरेति। हे प्रिये, उदारं सुन्दरं पदपल्लवं चरणकिसलयं मम शिरसि धेहि स्थापय। कीदृशम्। मण्डनं मम मस्तकस्यालंकरणम्। पुनः कीदृशम्। स्मरस्य यद्गरलं विषं तस्य खण्डनं नाशनम्। विरहिणां मूर्च्छादिप्रदानेन मलयानिले स्मरगरलत्व-रूपणात्स्मरस्य सर्पत्वमाक्षिप्यते। चरणपल्लवं विधेहीत्यनेन नायिकाया गारुडिकत्वं चेत्याक्षेपरूपकमिदम्। अपरमपि सर्पादिविषं गारुडिकचरणा घातेनाभिमन्त्रितपल्लवारोपणेन च शाम्यतीति ध्वनिः। किं च। मयि दारुणो दुःसहो मदनकदनारुणो मदनः कामस्त-ज्जनितं यत्कदनं तापः स एवारुणः सूर्वे ज्वलति। अतस्तेनोपाहितं जनितं विकारं श्रान्त्यादिरूपं हरतु दूरीकरोतु। अन्य सूर्यसंतापः शिरसि पल्लवादिस्थापनेन शाम्यतीति ध्वनिः। ‘अरुणोऽस्फुटरागस्यात्सूर्येसूर्यस्य सारथौ।’ इति विश्वः। ‘कदनं कलुषे तापे ’ इति च॥ ७॥इत्यनेन
इति चटुलचाटुपुटुचारु मुरवैरिणो
राधिकामधि वचनजातम्।
**जयति82 जयदेवकविभारतीभूषितं **
मामिनीजनजनितशातम्॥ प्रिये०॥ ८॥
**परिहर कृतातङ्के शङ्कां त्वया सततं घन- **
स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि।
_______________________________________________________________________________________________
॥७॥ अपि च। इतीति। इत्यमुना प्रकारेण चटुलचाटुपटुचारु मुरवैरिणो राधिकामधिकृत्य वचनजातम्। जयदेवकविभारतीभूषितम्। पुनः किंभूतम्। मानिनीजनजनितशातम्। मानिनीजनस्य जनितमुत्पादितं शातं सुखं येन॥ ललितापि यदि पदरचना न धातु योगादृते विभाति शुभा। इति कुम्भकर्णनृपतिर्गायति तां गीतगोविन्दे॥ तथा च सङ्गीतराजे— ‘तालो वर्णयती रागाः क्रमादष्टादश स्मृताः। मध्यमादिश्च ललितो वसन्तो गुर्जरी तथा॥ धनासी भैरवो गोण्डकृतिर्देशाङ्किकापि च। मालवश्रीश्च केदारमालबीयादिगौण्डकौ॥ स्थान-गौण्डश्च श्रीरागो मल्हारश्च वराटिका। मेघरागश्च भद्रवद्धोरणीनियता इमे॥ यावद्रागं पदानि स्युः प्रान्ते पाटखराणि तु। क्वचित्कचिद्गता-लापभूषितानि यथारुचिः॥ मिथः प्रियोक्तिसंभारविप्रलम्भरसानि च। यत्र स्यात्स प्रबन्धोऽयं रागराजिविराजितः॥’ इति चतुरचतुर्भुजराग-राजिचन्द्रोद्द्योतनामा एकोनविंशः प्रबन्धः॥ ८॥ इदानीमात्मानं गतदोषं ज्ञापयन्संभोगार्थं प्रोत्साहयन्नाह—परिहरेति। हे कृतातङ्के मयि कृतान्यवनितासंगशङ्के, शङ्कां त्यज। अथवा मयि कृतातङ्के त्वद्वियोगदर्शनसंजातसंतापे शङ्कां त्यज। त्वां मयि संजातमनोविकल्पां दृष्ट्वा मयि संतापो जायत
__________________________________________________________________________________________________________
प्रकारेण मुरवैरिणः कृष्णस्य राधिकामधि लक्षीकृत्य वचनजातं वाक्यसमूहो जयति सर्वोत्कर्षेण वर्तताम्। कीदृशम्। चटुलं मनोहरं चाटु प्रीतियुक्तं पटु चतुरं चारु सुकुमारम्। पुनः कीदृशम्। पद्मावती जयदेवपत्नी तस्या रमणो वल्लभो यो जयदेवः कविभारत्या भारती-संज्ञया कवित्ववृत्त्या भणितं वर्णितम्। जयदेवकवेर्भारत्या भणितमिति तु व्याख्यानं मन्दम्। तथा पौनरुक्त्यापत्तेः। जयदेवकविभणित-मित्यस्यैव सम्यक्त्वात्। पुनः कीदृशम्। अतिशातमतिशयितं सुखं यस्मात्तादृशम्। भारतीवृत्तिलक्षणं शृङ्गारतिलके—‘प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा। भारती सा भवेद्वृत्तिर्वीरहास्याद्भुताश्रया॥‘इति। रसार्णवसुधाकरेऽपि— ‘शृङ्गारादिषु सर्वेषु रसेष्वीष्टा हि भारती।’ इति। ‘चटुलः सुन्दरे चले’ इति धरणिः। ‘चटुचाटु प्रियं वाक्यम्’ इति हरिश्चन्द्रः। ‘पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्’ इति विश्वः। ‘शर्मशात-सुखानि च’ इत्यमरः॥ ८॥ परिहरेति। हे कृतातङ्के विहितसंतापे, अन्यनायिकासङ्गसंशयं परिहर त्यज। यतो मम स्वान्ते चित्तेऽभ्यन्तरे वितनोस्तनुशून्यात्कामादन्यो धन्यो जनो न विशति। कुतो न प्रवि-
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
प्रणयिनि83 परीरम्भारम्भे विधेहि विधेयताम्॥ २॥
मुग्धे विधेहि मयि निर्दयदन्तदंशं
दोर्वल्लिबन्धनिबिडस्तनपीडनानि।
चण्डि त्वमेव मुदमुद्वह84 पञ्चबाण-
चण्डाल85काण्डदलनादसवः प्रयन्ति86॥ ३॥
___________________________________________________________________________________________________________
इत्यर्थः। अत्र ममेति षष्ठ्यन्तमर्थवशात्सप्तम्या परिणम्यते। कथं शङ्का परिहरणीयेति वाक्यार्थद्वारेण हेतुमाह। सततग्रहणेन जीविता-वधि त्वदृतेऽन्या काचन मम हृदयमाश्रित्य न वर्तत इति बोधयति। हे प्रणयिनि, मम स्वान्ते घनस्तनजघनया त्वया सततमाक्रान्त अत एवान्यानवकाशवति वितनोरनङ्गादन्यो धन्यस्तादृशसौभाग्ययोग्यः कोऽप्यन्यः स्त्रीलक्षणो जनोऽन्तरं पश्चान्न विशति। साङ्गस्य प्रवेशा-भाव इति तां कृत्वा शङ्कां मा कृथा इत्यर्थः। शङ्कां मुक्त्वा किं कुर्वित्याह— परीरम्भारम्भ आलिङ्गनारम्भे विधेयतां दासतां विधेहि। अथवैवं योजना। प्रणयिनीति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते। त्वयि योगो न युक्तमिति। हे प्रणयिनि, मयि स्नेहपरे परीरम्भारम्भे विधेयतां किंकरतां विधेहि। त्वया तु मतोऽहमालिङ्गनार्थं प्रयतेय तथा कुरु। हरिणीवृत्तम्। अत्र काव्यलिङ्गमलंकारः। प्रणयिनीति पदौचित्यं वर्णानुप्रासश्च। प्रौढा नायिका। प्रगल्भो नायकः। विप्रलम्भे सङ्गसिद्धिः॥२॥ इदानीं सापराधित्वमभ्युपगम्याप्याह—मुग्धेति। हे मुग्धे आत्महितानभिज्ञे। अहमपराधीति चेत्तर्हि मय्यपराधयोग्यं दण्डं निर्दयदन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि विधेहि। अथवा कोपैकशरणेति चेत्तर्हि संबोधनमुखेनानुरूपं विशेषणमाह—हे चण्डि कोपने, पञ्चबाणश्चण्डालः तस्य काण्डैः शरैर्दलनान्ममासवः प्रयान्ति। किं पुनस्तस्य पौरुषेण त्वमेव मुदमुद्वह। मया जितोऽयमिति जयपटहं वादय। अथवा इत्यन्वयः। हे
______________________________________________________________________________________________________
शतीत्यत आह— परेति। परानवकाशिनि इतरावकाशशून्ये। तत्र हेतुमाह—त्वयेति। घने निबिडे स्तनजघने यस्यास्तादृश्या त्वया सतताक्रान्ते व्याप्ते। तथा च सदा त्वया पूरिते मदीये स्वान्ते ऽन्यस्य प्रवेष्टुमेवावकाशो नास्ति। अनङ्ग एव परान्प्रविशति। तस्याङ्गा-भावादित्यर्थः। तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां वचनग्राहितां विधेहि कुरु। परिरम्भमाचरेति मद्वचनं कुर्वित्यर्थः। ‘रुक्ताप-शङ्कास्वातङ्कः’ इत्यमरः॥२॥ मुग्धेत्यादि। मुग्धे सुन्दरि, निर्दयं दयारहितं दन्तदंशं दन्तक्षतम्। अथ च दोर्वल्लिबन्धं भुजलताबन्धं निबिडं गाढं स्तनाभ्यां पीडनं च विधेहि कुरु। ततो हे चण्डि कोपने, त्वमेव मुदमानन्दमञ्चय प्राप्नहि। मम पुनः पश्चबाणः कामः स एव निरपराधं मादृग्जनहिंसकत्वेन चाण्डालः। तस्य काण्डदलनान्नाराचप्रहरणादसवः प्राणाः प्रयान्तु निर्गच्छन्तु। चाण्डालप्रहरणेन मरणे न समीचीना गतिः। अतस्त्वया साक्षादेव
शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकालसर्प87ी।
तदुदितभयभञ्जनाय88 यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः॥ ४॥
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः।
____________________________________________________________________________________________
चण्डि त्वं मुदमुद्वह एव। नान्योऽवकाशः। चण्डित्वं त्यज। त्वया चण्डित्वे घ्रियमाणे पञ्चबाणचण्डालकाण्डदलनान्ममासवः प्रयान्ति॥ वसन्ततिलकावृत्तम्। रतिर्भावो व्यङ्ग्यः। तेन रसवदलंकारता। अनुकूलो नायकः। मुग्धा नायिका। प्रसादो गुणः। वैदर्भीरीतिः॥ ३॥ इदानीं वात्स्यायनन्यायमाश्रित्य क्रमेणानुकूलयति— शशिमुखीति। हे शशिमुखि तव भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पी विद्यते। युक्तोऽयमर्थः। शशिनो हिंसार्थश्रयणात्। या हिंस्रमुखी भवति तस्या मुखे भ्रूः कृष्णसर्पी भवत्येव। यूनां तरुणानां यतः सर्पादुदितभय-भञ्जनाय त्वदधरसीधुसुधैव त्वदधरसीधुः स एव सुधा। तव किलामृतबुद्ध्या तत्सन्निधौ कृष्णसर्प्या अवस्था न युज्यते। अथवा इति योजना। हे शशिमुखि, तव मुखे भ्रूस्तावत्सर्पीत्यनुमीयते। यतो यदुदितभयभञ्जनाय यूनां त्वधर एव सीधुः। पानसाधर्म्यात्। स एव सुधामधुरत्वाद्विषनाशनाय सिद्धमन्त्रः। अत्र सुधाया आस्वाद्यत्वेन ओषधित्वे वक्तव्ये यन्मन्त्रोपादानं तत्सर्वं युवसाधारण्येन शृङ्गारा-भासव्यावृत्त्यर्थम्। अतिसौन्दर्यात्। अन्येस्मरन्तु नाम उपभोगयोग्यत्वं हेरेरेवेति। पुष्पिताग्रा वृत्तम्। अत्र कल्पितोपमारूपकालंकारौ। तमेव क्रमशब्दार्थं विशिनष्टि आसर्गपरिसमाप्तेः॥ ४॥ व्यथयतीति। हे तन्वि कृशाङ्गि, तवैतदृथा मौनं मां व्यथयति। त्वया तनुत्वा-द्वक्तुमशक्यत्वेन मौनं न ध्रियते किंतु निरपराधे सापराधोऽयमिति वृथाशब्दद्योत्यम्। अत एव व्यथयति। हे तरुणि, मधुरालापैः पश्चमं पञ्चमस्वरं प्रपञ्चय विस्तारय। पञ्चमो -
______________________________________________________________________________________________________
यथोचितदण्डाचरणं विधेयमिति भावः। ‘चण्डी कात्यायनीदेव्यां हिंस्रकोपनयोषितोः’। इति विश्वः॥३॥ ननु कोपो मम नास्त्येवेत्यत आह—शशिमुखीत्यादि। हे शशिमुखि चन्द्रानने, तव भङ्गुरभ्रूः भाति। कीदृशी। युवजनानां तरुणजनानां मोहनाय करालो भीषणः कालसर्पः। भुजंगो दष्ट्वा मोहयति। इयं दृष्ट्वा मोहयतीत्येतस्याः करालत्वम्। अतस्तदुदितविषभञ्जनाय तत्सकाशादुदितमुद्गतं यद्विषं तस्य भञ्जनाय नाशाय यूनां तरुणजनानां त्वदधरसीधुसुधैव त्वदीयाधर एव सीधुर्मदिराविशेषः स एवामृतं तदेव सिद्धः साधितो मन्त्रः। अन्यो जपादिना विषं नाशयति। अयं त्वासादित एवेति एतस्यान्यमन्त्रापेक्षासिद्धत्वम्। तथा चायमपि तव भ्रूकालसर्पविषमूर्च्छित-स्तस्याप्यौषधत्वेन तवाधरः सुधायाः समान इति भावः। ‘करालो भीषणेऽन्यवत्’ इति विश्वः॥ ४॥ व्यथयतीत्यादि। हे तन्वि तव वृथा मौनमकारणवाग्बन्धनं मां व्यथयति पीडयति। किं च। हे तरुणि, मधुरालपितैस्तैः पञ्चमं स्वरविशेषं प्रपञ्चय विस्तारय। किंच। दृष्टिभि-रवलोकनैस्तापं संतापं विनोदय विशेषतोऽपसारय। हे सुमुखि,
सुमुखि विमुखीभावं तावद्विमुञ्च न वञ्चन
स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः॥ ५॥
बन्धुकद्युतिबान्धवो ऽयमधरः स्निग्धो मधूकच्छवि-
र्गण्डश्चण्डिचकास्ति नीलनलिनश्रीमोचनं लोचनम्।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया89 विजयते विश्वं स पुष्पायुधः॥ ६॥
___________________________________________________________________________________________
पादानेन वसन्तसमयसंजातरुचिरालापकोकिलजेतृत्वं सूचितम्। वसन्ते हि कामिन्यः स्वैरं प्रियमनुसरन्तीति व्यज्यते। तरुणि, मौनं वचनशक्तौ सत्यामवचनमर्थान्तरापाति तत्त्यजेति।अपि च दृष्टिभिरित्यत्र ‘दृशिर् प्रेक्षणे’ इत्यत्र प्रशब्दो दर्शनप्रकर्षं स्निग्धत्वादि वदति। तेन स्निग्धलोचनैस्तापं विनोदयेति विशिष्टोऽर्थो लभ्यते। हे सुमुखि, तावद्विमुखीभावं विमुञ्च। सुमुख्या विमुखीभावो न युक्तः। हे मुग्धे, अयमहमतिशयस्निग्धः स्नेहवान्प्रीतिमांश्च उपस्थित इति मां न वञ्च इति न अपि तु वञ्च जानीहि। अयमिति औदासीन्यव्यावृत्त्यर्थो निर्देशः। अत्र मुग्धात्वं न घटते। चातुर्यमुपेत्य मां त्वदेकतानं जानीहीत्यर्थः॥ अत्र हरिणीवृत्तम्। यथासंख्यमलंकारः। अनुकूलो नायकः। प्रसादो गुणः। कौशिकी वृत्तिः। वैदर्भी रीतिः। मागधी गीतिः॥ ५॥ बन्धूकेति। हे चण्डि इति सांप्रतं कोपहानावपि भूतपूर्वकोपाश्रयणेन संबुद्धिः। प्रिय इति वितर्के। अहमिति जाने। स पुष्पायुधस्त्वन्मुखसेवया विश्वं जयते। स इत्यनेन सबाणोऽपीश्वरदग्धः स्मर्यते। स तथाविधः सांप्रतं पुष्पैरपि आश्रयविशेषेण साधकैः सुरासुरैर्दुर्जयमपि विश्वं विजयते तानेव तन्मुखसेविपौष्पान्पञ्चबाणानुद्दिशति। हे चण्डि, अयं तवाधरो बन्धूकद्युतिबान्धवः बन्धुजीवकान्तिसदृशः। अनेन रक्ताकर्षणबाण उक्तः। अपि च तव गण्डः स्निग्धो मधूकच्छ-विश्चकास्ति। विरहिणीनां हि गण्डे पीतिमा भवति। अनेन पीतो वशीकारबाण उक्तो भवति। अपि च तव लोचनं नीलनलिनका -
______________________________________________________________________________________________________
विमुखीभावं त्यज मयि विमुखतां तावद्विमुञ्च। सुमुख्यास्ते वैमुख्यमनुचितमिति भावः। मानं मुञ्च त्यज। हे मुग्धे, अयं प्रियोऽनाकाङ्क्षित एवोपस्थित आगतः। कीदृशः। अतिशयस्निग्धोऽतिशयेन स्नेहवान्। तथा च स्वयमागतः प्रियः (इति) हेतुनोचित इति भावः॥५॥ संप्रति त्वयि मानवत्यां त्वन्मुखेनैव कामो मां पीडयति। अतस्त्वं प्रसीदेत्याशयेनाह— बन्धूकेत्यादि। अतिकोपने, अयं तवाधरो बन्धूकद्युति-बान्धवो बन्धूकस्य पुष्पविशेषस्य या द्युतिर्दीप्तिस्तस्या बान्धवः सुहृत्। अत्र तद्बान्धवरूपणेन बन्धूकद्युतिसमाधरनित्यद्युतिर्व्यज्यते। अयं स्निग्धो गण्डः कपोलो मधूकच्छविर्मधूकपुष्पस्येव च्छविः कान्तिर्यस्य। एतादृशश्चकास्ति शोभते। लोचनं नीलनलिनश्रीमोचनं स्वका-न्त्या नीलनलिनस्य नीलोत्पलस्य श्रियं कान्तिं मोचयति त्याजयति। हे कुन्दाभदन्ति, कुन्दपुष्प-
दृशौ तव मदालसे वदनमिन्दुसंदीपकं90
गतिर्जनमनोरमा विजितर91म्भमूरुद्वयम्।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-
वहो विबुधयौवतं वहसि तन्वि पृथ्वीगता॥ ७॥
____________________________________________________________________________________________
न्तिपराकरणशीलं चकास्ति। अनेन कृष्णवर्ण उन्मादनबाणोऽभाणि। अपि च। तवेयं नासा तिलप्रसूनपदवीमत्येति अतिक्रामति। अनेन द्रावण बाण उक्तः। अपि च। हे प्रिये कुन्दाभदन्ति कुन्दवदुब्वलदशने। अनेन शोषणबाण उक्तः। एवमेतैः पञ्चभिर्बाणैर्भवत्याः सेवको भूत्वा विश्वजेता भवतीति। शार्दूलं वृत्तम्। उपमाविशेषोऽलंकारः। अनुप्रासो वर्णालंकारः। असमस्तपदा वैदर्भी रीतिः। प्रसादो गुणः स्थितलयं गानम्। संभाविता गीतिः। कौशिकी वृत्तिः॥ ६॥ दृशाविति। अहो इति आश्चर्ये। त्वं पृथ्वीगतापि दिव्यस्त्रीसमूहं वहसि। क्व कामित्याह। तव दृशौ मदेनालसे वर्त्तेते। अनेन मदालसां वहसीत्युक्तम्। अपि च। तव वदनं चन्द्रवद्दीप्तिमद्वर्त्तते। अनेन इन्दुमती नाम्नी अप्सराः कथिता। अपि च। तव गतिर्जनमनांसि रमयतीति। अनेन मनोरमा काचन सुरस्त्री भणिता। अपि च तवोरुद्वयं विजितकदलीकाण्डं वर्त्तते। अनेन रम्भोक्ता। अपि च तव रतिः संभोगः कलावती हावभावकिलकिञ्चितमोट्टायितविव्वोकादिमती वर्त्तते। अनेन कलावती काचिद्देवनायिकोक्ता। अपि च तव भ्रुवौ रुचिरे चित्रे लेखे ययोस्ते तादृश्यौ। अनेन
____________________________________________________________________________________________________
स्येवाभा दीप्तिर्येषां ते दन्तास्तादृशि। तव नासा तिलप्रसूनपदवीं तिलपुष्पप्रसिद्धिमभ्येति प्राप्नोति। प्राय इति तर्कयामि। स प्रसिद्धः पुष्पायुधः पुष्पमेवायुधं शस्त्रं यस्य सः कामस्त्वन्मुखसेनया त्वन्मुखमेव सेना कटकं तेन विश्वं विजयते। कामः पञ्चभिः शरैर्विश्वं जयति। त्वन्मुखे बन्धूकमधूकनीलोत्पलतिलकुन्दपुष्पाणि पञ्च सन्तीति त्वम्मुखेनैष कामो विश्वं जयतीति भावः। ‘बन्धूकं बन्धुजीवे स्यात् ’ (इति मेदिनी।) ‘मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः’। इति हारावली॥ ६॥ दृशाविति। हे तन्वि त्वं प्रथ्वीगता पृथ्व्यां भुवि गता प्राप्ता सती विबुधयौवतं देवयुवतीसमूहमाश्चर्येण वहसि धारयसि। तदेवाह— दृशाविति। तव दृशौ नेत्रे मदालसे मदेन हर्षेणालसे मन्थरे। अथ च मदालसा स्वर्वेश्या। तथा च स्वर्गे एकैव मदालसा त्वं तु एकवह्ने मदालसे दधासीत्याश्चर्यमिति भावः। तव वदनमिन्दुमत्यास्पद-मिन्दुविषयिणी या मतिस्तस्यास्पदं विषय इत्यर्थः। तव मुखेऽयमिन्दुरिति मतिर्भवति। अमरलोकानामिन्दुमती काचन देवाङ्गना तस्या आश्रयः। तव गतिर्जनानां मनोरमा मनोहरिणी। अथ च मनोरमा नाम्नी या देवाङ्गना तदात्मिका। अथवा रमा लक्ष्मीस्तदात्मिकेत्यर्थः। तथा तवोरुद्वयमूरुयुग्मं विधुतरम्भं विधुते स्वशोभया तिरस्कृते रम्भे कदल्यौ येन तादृशम्। अथ च रम्भा स्वर्वेश्या स्वर्गे एकैव रम्भा त्वमूरुद्वयात्मकं रम्भाद्वयं दधासीति भावः। अथ च तव रतिः सुरतकेलिः कलावती कौशलशालिनी। अथ च तव रतिः कामपत्नी। अस्ति कलावती नाम्नी देवाङ्गना। ते भ्रुवौ
स92प्रीतिं तनुतां हरिः कुवलयापीडेन सार्द्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान्।
यत्र स्विद्यति मीलति क्षणमपि93 क्षिप्रं तदालोकन-
व्यामोहेन94 जितं जितं जितमभूत्कंसस्य कोलाहलः॥ ८॥
इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः॥१०॥
___________________________________________________________________________________________
रुचिरा चित्रलेखा च वर्णिता॥ ‘जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुः। ‘इति पृथ्वी छन्दः। कल्पितोपमालंकारः॥७॥ स प्रीतिमिति। स हरिर्जगतां प्रीतिं तनुतां हर्षे विस्तारयतु। कीदृशो हरिः। कुवलयापीडेन कंसदन्तिना सार्द्धं रणे संभेदवान्संगमवान्। किंविशिष्टेन कुवलयापीडेन। राधापीनपयोधरयोः स्मरणकरौ कुम्भौ यस्य तेन। क इत्यपेक्षायामाह— यत्र हराविति हेतोः राधापीनपयोधरस्मरणादेव सात्विकभावोद्रेकात्क्षणं स्विद्यति स्वेदयति। मीलतीति। चक्षुषि निमीलति सति कंसस्य तदालोकनात्तस्य तथाविधस्य दर्शनाद्यामोहेन भ्रान्त्या क्षिप्रं वेगेन जितं जितमिति कोलाहलो भवति स्म। भ्रान्तिमदाशिषावलंकारौ। शृङ्गारवीरयोः संकरश्च। शार्दूलविक्रीडितं वृत्तम्॥ ८॥
आनन्दकन्दलीकन्दं मुकुन्दं नन्दनन्दनम्।
प्रणम्य दशमं सर्गे व्याकरोत्कुम्भभूपतिः॥
इति श्रीचित्रकूटाधीश्वरराजाधिराजमहाराजश्रीकुम्भकर्णविरचितायां रसिकप्रियायां चतुरचतुर्भुजो नाम दशमः सर्गः॥
_____________________________________________________________________________________________________
रचितचित्रलेखे रचिता मयि कोपवशाच्चित्रा विचित्रा लेखा भ्रुकुटी याभ्यां तादृशे। तथा च स्वर्गे एकैव चित्रलेखा त्वद्भूभ्यां तु चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः। प्रेयो नामायमलङ्कारस्तदुक्तं दण्डिना— ‘प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्’ इति। पृथ्वीनामकं चेदं छन्दस्तल्लक्षणं वृत्तरत्नाकरे। ‘रम्भा कदल्यप्सरसोः’ इति विश्वः। युवतीनां समूहो यौवतम्। ‘भिक्षादिभ्योऽण्’। ‘गार्भिणं यौवतं गणे’ इत्यमरः॥ ७॥
(अत्र सप्रीतिमित्यादिश्लोकटीका नोपलभ्यते आदर्शपुस्तके॥ ८॥)
स्फुटीकृतरसोत्करां प्रथितशालिनाथोल्लस-
त्सुरद्रुमसमुद्भवां विबुधवर्गदत्तोत्सवाम्।
नृणां सरसमाधवोत्तमगुणैः प्रमोदप्रदां
लिहन्तु रसमञ्जरीं रसिकचञ्चरीका मुहुः॥ १॥
**इति श्रीमहामहोपाध्याय श्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां **
रसमञ्जरीसमाख्यायां दशमः सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1726319767Screenshot2024-09-02at16-37-17EditBookE-Bharatisampat.png"/>
एकादशः सर्गः।
सानन्ददामोदरः।
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेशे केशवे कुञ्जशय्याम्।
रतिरुचिरविभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद॥ १॥
वसन्तरागयतितालाभ्यां गीयते। प्र०॥ २०॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम्।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम्॥ १॥
मुग्धे मधुमथनमनुगतमनुसर राधिके॥ ध्रुवम्॥
____________________________________________________________________________________________________
इदानीं कृतानुनयां राधां कापि सखी हरिमभि गमनाय प्रोत्साहयति — सुचिरेति। कापि सखी राधां जगाद। क्व सति। प्रदोषे रजनी-मुखे स्फुरति सति। किंभूते प्रदोषे। दृष्टिं मुष्णातीति कर्मण्यण्। अभिसारिकाभिसरणावसान इत्यर्थः। किंभूतां राधाम्। निरवसादामङ्गी-कृतानुनयेन गतखेदाम्। पुनः किंभूताम्। रचितनीलनिचोलाद्यभिसरणयोग्यवेषाम्। क्व सति। कृतवेशे कृतनेपथ्ये वा कृतगेहे कृष्णे कुञ्जशय्यां गतवति सति। किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयित्वा। मालिनीवृत्तम्॥१॥ तदेव प्रोत्साहमनुवदति— विरचितेति। तत्र पूर्वं ध्रुवः। मुग्ध इति। हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके। बालत्वद्योतनाय कप्रत्ययः। अनुगतमनुकूलं मधुमथनमनुसर। मा विलम्बं विधेहीत्यर्थः। इति ध्रुवः। अथ पदानि। विरचितेति ध्रुवेणान्वयः। किंभूतं मधुमथनम्। संप्रति इदानीमेव मनोरमवञ्जलसीम्नि केलिशयनमनुप्राप्तम्। वञ्जुलादीनां विभावत्वेन परिणमनात्त-
_____________________________________________________________________________________________________________
** सुचिरेति**— कापि सखी राधां जगादोवाच। क्व सति। प्रदोषे स्फुरति सति। कीदृशे। दृग्विमोषे दृष्टौ विमुष्णाति, चोरयति विषय-ग्रहणासमर्थं करोतीति तादृशे। गाढान्धकारे इत्यर्थः। पुनः क्व सति। केशवे मृगाक्षीं हरिणनयनां राधां सुचिरं बहुकालं यथानुनयेन प्रीणयित्वा कुञ्जशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति। कीदृशे केशवे। कृतवेशे कृतालंकरणे। कीदृशीं राधाम्। रचिता रुचिरा मनोहरा भूषालंकृतिर्यया ताम्। पुनः कीदृशीम्। निरवसादां निर्गतोऽवसादः कृष्णागमनजन्यं दुःखं यस्यास्ताम्॥१॥ तदेव गीतेन कथयति— विरचितेति। गीतस्यास्य वसन्तरागो यतितालः। गीतार्थस्तु— हे मुग्धे राधे, मधुमथनं कृष्णमनुसर। कीदृशम्। अनुगतं त्वामनुसृतम्। अनुगतत्वमेवाह— विरचितेति। विरचिता विहिता चाटुवचनस्य रचना संदर्भो येन तादृशम्। पुनः कीदृशम्। तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम्।
घनजघनस्तनभारभरे दरमन्थरचरणविहारम्।
मुखरितमणिमञ्जीरमुपैहि विधेहि मरालनिकारम्95॥ मुग्धे ०२॥
शृणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावम्।
कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम्॥ मु०३॥
____________________________________________________________________________________________________
द्द्योतनार्थत्वान्निकुञ्जोपादानम्। पुनः किंभूतम्। विरचितचाटुवचनरचनम्। पुनः किंभूतम्। चरणे रचितप्रणिपातम्॥१॥ अपि च। घनेति। हे घनजघनस्तनभारभरे। जघने च स्तनौ च जघनस्तनम्। धनं च तज्जघनस्तनं च। तस्य देशे भरोऽतिशयो यस्यास्तस्याः संबुद्धिः। मुखरितमणिमञ्जीरं नूपरं यथा स्यात्तथा उपैहि आगच्छ। तेन चागमनेन मरलानां हंसानां निकारं जयं विधेहि। कथं यथा भवति तथा। दरमन्थरेति। ईषन्मन्थरचरणविन्यासं यथा स्यात्तथा॥२॥ अपि च। शृण्विति। हे मुग्धे, रमणीयतरं तरुणीजनमोहनं मधुपानां विरुतं शृणु। अपि च कामाज्ञास्तुतिपाठके पिकसमूहे भावममभिप्रायं भज। किमुक्तं भवति। मधुपशब्देन कृष्ण उपलक्ष्यते वर्णतः साम्येन त्वदोष्ठमधुपानेन च। अथ मधोर्दैत्यस्य पातनाच्छोषणान्मधुपः कृष्णः। तरुणीजनमोहनश्चासौ मधुपश्च तस्य भवत्सङ्गमे विशिष्टान्सीत्कृता-दिशब्दाञ्शृणु। अनु च त्वमपि तदा स्वात्मगतं रोषं त्यक्त्वा कोकिलस्वरा तमानन्दयेत्यर्थः। कुसुमशरासन-
______________________________________________________________________________________________________________
तर्हि संप्रति कुत्रास्तीत्यत आह— संप्रतीति। संप्रत्यधुना मञ्जुलो वेतसस्तस्य सीमनि पर्यन्ते यत्केलिशयनं क्रीडाशय्या तामनुलक्षीकृत्य यातं गतम्। त्वां तत्रस्थः प्रतीक्षत इत्यर्थः ॥१॥ तां प्रोत्साहयन्ती सखी प्राह। घनेति — हे राधे, उपैहि कृष्णमुपगच्छ। कथं यथा स्यात्। मुखरितः सशब्दः कृतो मणिमञ्जीरो मणिखचितो मञ्जीरो नूपुरो यत्र गमने। एवं यथा स्यात्। पुनः कथं यथा स्यात्। दरेण साध्वसेन मन्थरश्चरणविहारः पदविन्यासो यत्रैवं यथा स्यात्। तत्र हेत्वन्तरगर्भविशेषणमाह— घनेति। घनयोर्निबिडयोर्जघनस्तनयोर्भारस्य भरोऽतिशयो यस्यास्तादृशि। मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जीरादिशब्देन च निकारं तिरस्कारं विधेहि कुरु। संप्रति मरालेषु शब्दायमानेषु सत्सु मञ्जीरादिध्वनिरपि मरालशब्दत्वेनैव लोके ग्राह्य इति संप्रति योग्योऽभिसारक्षण इति ध्वनिः। अथ संप्रति हंसस्य शब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य इत्यपि ध्वनितम्। तदुक्तं वसन्त राजीये— ‘कृष्णासु सर्वास्वपि दर्शनेन हंसस्य शब्देन च सर्वसिद्धिः।’ इति। ‘मरालो राजहंसे स्यान्मरालो हंसमात्रके’। इति धरणिः। ‘निकारः स्यात्परिभवे धान्यस्योत्क्षेपणेऽपि च।’ इति विश्वः॥२॥ शृण्विति। तरुणीजनानां मोहजनकं मधुरिपोः कृष्णस्य रावं शब्दं शृणु। कीदृशम्। रमणीयतरमतिशयेन रमणीयम्। पिकनिकरे कोकिलसमूहे कुसुमशरासनवन्दिनि सति। कुसुमान्येव शरासनं धनुर्यस्य तादृशः कामस्तच्छासनस्य तदाज्ञाया बन्दिनि स्तावके सति। यद्वा कुसुमशरासनं वन्दितुं नमस्कर्तुं शीलमस्य तादृशे कामाज्ञाकारिणि
अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम्।
प्रेरणमिव करभोरु करोति गतिं प्रति मुञ्च विलम्बम्॥ मुग्धे०४॥
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम्।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम्॥ मुग्धे०५॥
____________________________________________________________________________________________________
शासनबन्दिनीति तेषां विभावत्वमुक्तम्॥३॥ अपि च। अनिलेति। हे करभोरु करभवदूरू यस्याः। ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः। ‘लतानिकुरम्बं लतासमूहः। अनिलतरलकिसलयनिकरेणैव करेण। गतिं प्रति प्रेरणमिव करोति। अतो विलम्बं मुञ्च। यत्र अचेत-ना अपि चेतनवत्प्रतिबोधयन्ति तत्रेष्टसिद्धिरवश्यं भाविनी। अत्र करसान्निध्याल्लताशब्देन सख्यः त्वां त्वरयन्तीति द्योत्यते॥४॥ अपि च। स्फुरितमिति। हे सखि, अमुं कुचकुम्भं पृच्छ। प्रियकरस्पर्शलालसकुचकुम्भचेष्टां ज्ञातुमिच्छां कुरु। भाविप्रियावेदकः कुचकलशोऽपि त्वां प्रेरयतीत्यर्थः। किंभूतं कुचकुम्भम्। स्फुरितम्। कुचस्फुरणं प्रियसंगममावेदयतीति सामुद्रिकज्ञाः। कस्मादिव। कामोर्मिवशादिव। किंभूतम्। सूचितः कथितो हरेः परिरम्भो येन। अपि किंभूतम्। मनोहरो हार एव विमलजलधारा यत्र। शकुनकलशोऽपि तरङ्गवशा-त्सूचितप्रियप्राप्तिर्भवति। विमलजलधारोऽपि। खण्डश्लेषालंकारः॥ ५॥
______________________________________________________________________________________________________________
सतीत्यर्थः। भावं कृष्णानुरागं भजाश्रय। अत्र पिकनिकरझंकारेण कृष्णमधुरालापस्य परैरलक्ष्यतया तदीयनिःशङ्कभाषितान्यपि त्वं तत्रागता सती श्रोष्यसीति ध्वनितम्। अथ च पिकस्य मधुरस्वरो यात्रायां शकुन इत्यपि ध्वनितम्। ‘बन्दिनः स्तुतिपाठकाः’ इत्यमरः॥३॥ अनिलेति। हे करभोरु, करभः कनिष्ठान्तो मणिबन्धपर्यन्तः करस्य बहिर्भागस्तद्वन्निम्नोन्नतौ ऊरू यस्यास्तादृशि। गतिं गमनं प्रति विलम्बं कालक्षयं मुञ्च। अनिलतरलकिसलयनिकरेण करेण। अनिलेन वायुना तरलश्चञ्चलो यः किसलयनिकरो नवपल्लवसमूहस्तत्स्व-रूपेण करेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति। किसलयकम्पच्छलेनासमञ्जसमसहमानो लतासमूहोऽपि त्वां प्रेरयतीति भावः। अथवाग्रे पल्लवितवृक्षादिदर्शनं यात्रायां फलसिद्धिसूचकम्। अतो गमनं प्रति विलम्बो न कार्य इति ध्वनितम्। तदुक्तं शकुन-शास्त्रे— ‘वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः। अनुकूलो वहन्वायुः प्रयाणे शुभसूचकः’ इति। ’ निकुरम्बं कदम्बम्।’ इत्यमरः। “मणिबन्धादाकनिष्ठं करस्य करभो बहिः’॥४॥ स्फुरितेति। अमुं कुचकुम्भं स्तनकलशं पृच्छ। सखी समीचीनं वा वदतीति प्रश्नं कुरु। कीदृशम्। स्फुरितं सकम्पम्। कस्मादिवानङ्गतरङ्गवशादिवानङ्गस्य कामस्य यस्तरङ्ग ऊर्मिस्तद्वशादिव। अत्रानङ्गेत्यनेन तस्या रसतरङ्गिणीत्वमाक्षिप्यते। अन्योऽपि कुम्भो नद्यास्तरङ्गैः प्रेर्यमाणः सकम्पो भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरङ्गिण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति भावः। इवशब्द उत्प्रेक्षाद्योतकः। पुनः कीदृशं कुचकुम्भम्। मनोहरो यो हारः स एव निर्मला जलधारा यत्र तादृशम्। अत्र स्तनोपरिस्थितस्य हारस्य जलधारात्वरूपणात्स्तनयोः पूर्णकलशत्वेन रूपणमाक्षिप्यते। पूर्णादेव कलशात्तरङ्गैरान्दो-
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम्।
चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम्॥ मुग्धे ०६
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम्।
चल वलयक्वणितैरवबोधय हरिमपि निगदितशीलम्96॥ मुग्धे ०७
____________________________________________________________________________________________________
अपि च। अधिगतमिति। हे चण्डि, सखीसकाशाल्लजारहितं यथा स्यात्तथा अभिसर। अर्थात्कृष्णवसतिम्। यतोऽखिलसखीभिरिद-मधिगतं ज्ञातम्। इदमिति किम्। तव वपुरतीव रतिरणाय विहितसामग्रीकं वर्त्तते इति सखीनामग्रे वपुषैव निवेदितम्। अतो लज्जां मा कुरु। किंभूतं वपुः। रसितो रशनावलिरेव डिण्डिमः पणववाद्यविशेषो येन। अपि च किंभूतम्। सरसं सरागम्। अत एव रणोद्यताया-श्चण्डीति विशेषणमुचितम्॥६॥ अपि च। स्मरशरेति। हे सखि, करेण सखीमवलम्ब्य सलीलं चल। अपिश्चार्थे। च पुनः। निगदितशीलं निगदितं तव प्रतीक्षया सुभटं व्याख्यातं शीलं यस्य। अथवा पूर्वपददोषत्वेन सखीभिर्ज्ञानपरं निगदितं च तच्छीलं च भवत्याश्चरित्रं तत्। हरिमपि बोधयेत्यपिशब्दार्थः। किंभूतेन स्मरशरसुभगनखेन स्मरशरवत्पुष्पवत्सुभगा नखा यस्य॥ ७॥ अपि च।
_____________________________________________________________________________________________________________
लने सति बहिर्जलधारानिःसरणसंभवात्। पुनः कीदृशम्। सूचितं हरेः कृष्णस्य परिरम्भमालिङ्गनं येन तम्। नारीणां स्तनकम्पः प्रियं सूचयतीति शाकुनिकाः। तदुक्तम्। ‘नित्यं नार्याः स्तने कम्पः प्रियसंगमसूचकः।’ इति। पूर्णकलशत्वेन स्तनरूपणमपि यात्रायां पूर्णकल-शदर्शनं प्रियसूचनाय॥ ५॥ ननु सखीजनेषु पश्यत्सु कथं मया गन्तव्यमित्यत आह— अधिगतमिति। इदं तव वपुः सखीभिरतिशयेन रतिप्रसङ्गाय सुरतप्रसङ्गाय सज्जं कृतालंकरणादिकृत्यविधानमधिगतं ज्ञातम्। तथा च सखीभिर्दिष्टमेवाधुना किं विलम्बेनेति भावः। यद्वा सखीभिरिदं तव वपुर्बहुधा रतिरणे शय्यामधिगतं ज्ञातम्। तथा च तासां का लज्जेति भावः। अतो हे चण्डि कोपने, रसितः शब्दायमानः कृतो रशनावलिः क्षुद्रघण्टिकावलिरेव डिण्डिमो वाद्यविशेषो यत्रैवं यथा स्यादेवमभिसर कृष्णसंकेतभूमिमुपैहि। अन्यत्रापि रणे डिण्डिमस्ताड्यत एवेति ध्वनिः। पुनः कथं यथा स्यात्सरसमलज्जम्। रसः शृङ्गाररसस्तत्सहितं लज्जारहितं च यथा स्यादेवम्॥६॥ स्मरेति। करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं चल गच्छ। कीदृशेन करेण। स्मरस्य कामस्य ये शरास्तद्वत्सुभगाः सुन्दरा नखा यस्मिंस्तादृशेन। अन्यस्मिन्नपि रणे शस्त्रास्त्राणि भवन्ति। रतिरणे तु त्वन्नखा एव स्मरस्य शस्त्राणीति भावः। अथ वलय-क्वणितैः कङ्कणशब्दैर्हरिमपि निजगतिशीलं स्वीयगमनस्वरूपमवबोधय ज्ञापय। अन्यत्र समीचीनो योधः प्रतिभटमवहितं कृत्वैव युध्यत
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम्97।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम्॥ मुग्धे० ८
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः
प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः।
___________________________________________________________________________________________________
श्रीजयदेवेति। इदं श्रीजयदेवभणितं हरावारोपितमनसामविराममविच्छेदं कण्ठतटीमधितिष्ठतु। अधरीकृतो हारो मुक्तादिप्रथितो येन। पक्षे ऽधरीकृतो हारः शुद्धं वचनं येन। पुनः किंभूतम्। उदासितवामम्। उदासिता वामा स्त्री येन। अथवा उदासितं हरिभक्तिप्रतीपं वचनं येन। वा उदासितं निराकृतमन्यदपि सुन्दरं येन इति। हारनारीसुन्दरादीनां परिहारेणेदमेवैकं कण्ठे धारणीयमित्यर्थः॥ तथा च सङ्गीतराजे— ‘आदितालः प्रथमतः प्रतिमण्ठस्ततः परं। चतुर्मात्राह्णमण्ठश्च तुर्यः स्यादड्डतालकः॥ तालो वर्णयतिः पश्चान्नवमात्रिक-मण्ठकः। निःसारुश्च तथा झम्पा द्रुतमण्ठश्च रूपकः। प्रतितालस्त्रिपुटक एकतालीतिसंज्ञया। त्रयोदशक्रमात्तालाः प्रतितालं पदानि च। यथा शोभालप्तियुञ्जि तावन्त्येव ततः परम्। काहली तुण्डकिन्यौ च भुक्ता च शृङ्गशङ्खकौ॥ पटहश्च हुडुक्कं च मुरजः करटापि च। रुण्डा च डमरूडक्का पाटा एतत्समुद्भवाः। निःसारौ पटहो ढक्का मर्दलस्त्रिवली तथा। करटेिति तथैतस्यां प्रधानाक्षरयोजना। एक-ताल्या ढक्कली च त्रिवली दुन्दुभिस्तथा। घटचतुर्वर्ण्या स्यादधिका पाटसन्ततिः। प्रतितालं प्रयोगोऽपि रागो नन्दो निगद्यते। शृङ्गारो विप्रलम्भाख्यो रस उत्तमनायकः। दूतीसंवादकथनं नायिकायामिहेष्यते। एतत्स्याल्लक्षणं यच्च तालराजिरसः स्मृतः। प्रबन्धः कुम्भभूपेन हरिप्रवणचेतसा॥’ इति श्रीहरितालराजिजलधरविलसितनामा विंशतितमः प्रबन्धः॥८॥ इदानीं तच्चेष्टाकथनव्याजेन गन्तुं व्याकुलयति— सा मामिति। हे सखि, प्रियः कृष्णो निकुञ्जे भवत्या अपेक्षयेत्येवं कुर्वन्नास्ते। किंभूते निकुञ्जे। स्थिरतमःपुञ्जे स्थिरान्धकारचये। इतीति किम्। सा प्रिया समागत्य मां द्रक्ष्यतीति चिन्ता -
______________________________________________________________________________________________________________
इति ध्वनितम्॥७॥ श्री जयदेवेति। इदं श्रीजयदेवेन भणितं हरिविनिहितमनसां हरौ विनिहितं तत्परं मनो येषां तादृशानाम-विराममनवरतं कण्ठतटीमधितिष्ठतु कण्ठदेशे वसत्वित्यर्थः। कीदृशम्। अधरीकृतः स्वगुणैर्हानिकृतो हारो येन तादृशम्। पुनः कीदृशम्। उदासिता स्वगुणैस्तिरस्कृता रामा येन तादृशम्। यद्यपि हारस्य रामाणां च कण्ठदेशस्थित्या शोभाप्रदत्वं संभवति, (तथापि) तयो रागिणामेव शोभाप्रदत्वं न मुमुक्षूणाम्। तत्रापि तारुण्य एव न तु सर्वदा। जयदेवभणितं तु कृष्णकथात्वेन सर्ववयःसु शोभाप्रदमिति हारापेक्षया नायिकयापेक्षया चेदमधिकमिति भावः। कण्ठतटीमित्यत्र ‘अधिशीङ्ख्थासां कर्म’ इत्यधिकरणे द्वितीया॥ ८॥ इदानीं हरेरुत्कण्ठाधिक्यमाह—सा मामिति। हे सखि, राधा आगत्य मां द्रक्ष्यति ईक्षिष्यते। दृष्ट्वापि मां स्मरकथां वक्ष्यति कथयिष्यति। स्मरकथामुक्त्वापि सा प्रत्यङ्गावयवं ममालिङ्गनैः प्रीतिं यास्यति।
स त्वां पश्यति वेपते98 पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः॥२॥
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं
मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम्।
धूर्तानामभिसारसंभ्रंमजुषां99 विष्वङ्निकुञ्जे सखि
ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति॥ ३॥
____________________________________________________________________________________________________
कुलो भवति दूरं च पश्यति। एतावता हि सात्विकभावौ स्तम्भवैवर्ण्य संजातौ भवत इति सूचितम्। चिन्तया स्तम्भं दूरदर्शनेन वैवर्ण्य-माप्नोति। दृष्ट्वा च स्मरकथां वक्ष्यतीति वेपते। पुलकयति च। एवं द्वावपरौ सात्विकौ वेपथू रोमाञ्चश्चेति। कथाः कृत्वा प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यतीत्यानन्दति आनन्दाश्रु मुञ्चति खिद्यति च। एवमश्रुस्वेदावुक्तौ। आलिङ्ग्य च नानारतोपचारै रंस्यते। चिन्तया आव्हानाश-क्तत्वे प्रत्युद्गच्छति। त्वदलाभे मूर्च्छति च। एवं स्वरभङ्गप्रलयौ दर्शितौ। एवं स कृष्णस्त्वदभिकाङ्क्षयाष्टावपि सात्विकान्भावाननुभव-न्नास्ते। प्रत्यङ्गालिङ्गनेन स्थितालिङ्गनं वृक्षादिरूढमुक्तं भवति। तल्लक्षणं यथा— ‘रमणचरणमेकेनाङ्घ्रिणाक्रम्य खिन्नं श्वसितमपरपादे-नाश्रयन्ती तदूरूम्। निजमथ भुजमेनं प्राश्चयन्ती तदंसं तरुमिव कमितारं चुम्बनार्थाधिरोढुम्॥ यदभिलषति नारी तच्च वृक्षाधिरूढम्॥’ शार्दूलवृत्तम्। दीपकमलंकारः॥ २॥ इदानीमभिसारिकासमयमाह — अक्ष्णोरिति। हे सखि, विष्वक् चतुर्दिक्षु नीलप्रच्छदपटसदृ-ग्ध्वान्तं सुदृशः प्रत्यङ्गमालिङ्गति। नीलप्रच्छदपटवदाच्छाद्य अदृश्यां करोतीत्यर्थः। किं कुर्वत्। धूर्त्तानां मायाविनामभिसारे संभ्रमं वेगं भजन्तीनामुत्कोचमिव। एतदेतत्कुर्वस्तदाह— अक्ष्णोरञ्जनं निक्षिपत्। अपि च कुचयोः कस्तूरिकापत्रावलीरचनाविशेषमिव निक्षिपत्। अत्र धूर्त्ताग्रहणेन निक्षेप औचि-
______________________________________________________________________________________________________________
प्रीतियुक्तापि मया सह रंस्यते केलिं करिष्यति (इति) चिन्ताकुलः सन्कृष्णः स्थिरतमःपुञ्जे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति ध्यान-दृष्ट्या किमियं परुषं वदिष्यति चेति भिया साध्वसेन वेपते कम्पते पुलकयति। अङ्गानीत्यर्थात्। ध्यानेनैव तवालिङ्गनं परिकल्प्य साध्वसेन रोमाञ्चयुक्तो भवतीति भावः। पश्चाद्ध्यानेनैव त्वत्सुरतकेलिं परिकल्प्यानन्दयुक्तो भवतीति। ततो ध्यानेनैव सुरतसुखं परिक-ल्प्य स्विद्यति प्रस्वेदयुक्तो भवति। पश्चात्केलिं कृत्वोत्थाय गन्तुं प्रवृत्तायां त्वयि प्रत्युद्गच्छति प्रत्युत्थानं करोति। पश्चाद्ध्यानविच्छेदे त्वामदृष्ट्वा मूर्च्छां प्राप्नोति॥२॥ नन्वलंकरणरचनां विधाय गन्तव्यमित्यत आह—अक्ष्णोरिति। अभिसारसाहसकृतामभिरूपं साहसं कुर्वन्तीत्यभिसारसाहसकृतस्तासामत एव धूर्तानां शठानां सुदृशां नायिकानां ध्वान्तं तमो निकुञ्जे विष्वक्सर्वतः। प्रत्यङ्गमङ्गमङ्गं प्रति आश्लिष्यति। तदेव विशेषणैराह— अक्ष्णोरिति। किं कुर्वत्तमः। अक्ष्णोर्नयनयोरञ्जनं कज्जलं निक्षिपदर्पयत्। कुचयोः स्तनयोः
काश्मीरगौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो रुचिमञ्जरीभिः।
एतत्तमालदलनीलतमं तमिस्रं
तत्प्रेमहेमनिकषोपलतां तनोति॥ ४॥
हारावलीतरलकाञ्चनकाञ्चिदाम-
केयूरकङ्कणमणिद्युतिदीपितस्य।
________________________________________________________________________________________________________________
त्यमावहति। यतो मायाविनो माययैव साध्याः। अत्र च क्रमेण तमसो वृद्धिर्ज्ञेया। पूर्वं प्रादुर्भावेऽक्ष्णोरञ्जनम्। किंचिद्वृद्धे कर्णाभरणा-च्छादनम्। तत एव प्रवृद्धे शिरोमुकुटवृत्ति। ईषदपरिसमाप्तेः कुचयोर्हारादिलोपः। क्रमेण प्रवृद्धं सत्सर्वशरीरं व्याप्य वर्त्तत इति क्रम-वृद्धिर्दर्शिता। अत्र धूर्त्तग्रहणेन ता अपश्यन्त्यो भक्तीं न कस्यचिदग्रे कथयिष्यन्तीति निःशङ्कं व्रज। शार्दूलविक्रीडितं वृत्तम्। यथासंख्यम-लंकारः॥३॥ इदानीं तमस्यपि तामेव प्रतीक्षत इत्याह — काश्मीरेति। हे सखि, एतत्तमिस्रं तस्य श्रीकृष्णस्य त्वयि यत्प्रेम तदेव हेम तन्निकषोपलतां तनोति। तमांस्यपि बह्नीनामभिसारिकाणां प्राप्त्यवसरेऽपि त्वय्येव तस्य प्रेमेति निकषोपलहेमपरीक्षाश्मसाम्यम्। किंभूतं तमिस्रम्। अभितो रुचिमञ्जरीभिः कुङ्कुमगौरवपुषां स्वैरिणीनामाबद्धा रेखा आभोगो विस्तारो येन। किंभूतं तमिस्रम्। तमालदलनील-तमम्। एतावता तमसोऽतीव प्रवृद्धावभिसरेति प्रेरणम्। वसन्ततिलका वृत्तम्। अत्रोपमालंकारः॥ ४॥ इदानीं भावान्तरेण तं पुष्णाति — हारावलीति। इयं दूती राधां प्रति वक्ष्यमाणमुवाच। किं कृत्वा। निकुञ्जनिल-
______________________________________________________________________________________________________________
कस्तूरिकापत्रकं मृगमदरचनां निक्षिपत्। कीदृशं ध्वान्तम्। नीलनिचोलचारु नीलनिचोलवत्कञ्चुकवच्चारु मनोहरम्। तथा च तवाभि-सारयोग्याभरणानि तम एवार्पयिष्यतीति किमलंकरणेन विलम्बेनेति भावः। अत्र स्त्रीणामलंकरणादिरचना नपुंसकादीनामेवेति नपुंसक-निर्देशेन ध्वनितम्।‘कालस्कन्धस्तमालः स्यात्तापिच्छः’ इत्यमरः। “स्याद्गुच्छः स्तबके त्वन्धे हारभेदकलापयोः’ इति विश्वः॥३॥ किं च संप्रति मणिसुवर्णाभरणं नोपादेयमित्यत आह— काश्मीरेति। काश्मीरवत्कुङ्कुमवद्गौरं वपुः शरीरं यासां तादृशामभिसारपराणां नायिकामभित उभयतो मणिमञ्जरीभिर्मणिपरंपराभिराबद्धा रेखा येन तादृशमेतत्तमालदलनीलतमं तमालदलवत्तमालपल्लववदति-शयेन नीलं तमिस्रमन्धकारं तत्प्रेमहेमनिकषोपलतां तनोति विस्तारयति। संकेतभूमिं व्रजन्तीनामभिसारिकाणां ताटङ्ककङ्कणमञ्जीरादि-खचितमणिदीप्तिभिरुभयपार्श्वे उद्द्योते सति रेखाकारतया लक्ष्यमाणातिगौरतराङ्गकान्तिरन्धकाररूपकषपट्टिकायां तत्प्रेमसुवर्णरेखेव भातीति भावः। अथ चैतादृश्यपि गाढान्धकारे कान्तारे सर्वं मुक्त्वैकान्ताभिसारप्रस्थानेन प्रेम्णः शुद्धिं परीक्ष्यत इति ध्वनिः। ‘पाषाण-प्रस्तरग्रावोपलाश्मानः शिला दृषत्’ इत्यमरः॥४॥ हारावलीति। अथानन्तरमियं दूती सखीं राधामिति वक्ष्यमाणमुवाच। कीदृशीं सखीम्।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीडावतीमथ सखी100मियमित्युवाच॥ ५॥
वराडीरागरूपक101तालाभ्यां गीयते। प्र० २१॥
मञ्जुतरकुञ्जतलकेलिसदने।
विलस रतिरभसहसितवदने॥ १॥
प्रविश राधे माधवसमीपमिह॥ ध्रुवम्॥
__________________________________________________________________________________________________
यस्य द्वारे हरिं निरीक्ष्य। किंभूतां राधाम्। व्रीडावतीम्। कामवतीनामपि युवतीनां प्रथमसंगमे लज्जा किमपि कामातिशयं विदधाति। किंभूतस्य निलयस्य। हारावल्यास्तरलो मध्यमणिः काञ्चनस्य मेखलादाम च मञ्जीरौ च कङ्कणे च तेषु मणयः तेषां द्युत्या दीपितस्य। वसन्ततिलकावृत्तम्। अतिशयोक्तिरलंकारः॥ ५॥ तदेव सखीवाक्यं विवृणोति—मञ्जुतरेति। अत्राष्टपद्यामुद्ग्राहापेक्षया ध्रुवस्य बाहु-ल्यम्। तत्रापि च प्रतिपदमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम्। तत्रापि राधाविशेषणानि सर्वाण्यनुभावत्वेन बोद्धव्या-नि। स्थानविशेषणानि च विभावत्वेनेति। प्रविशेत्यादि। हे राधे माधवसमीपं प्रविश। इह निकुञ्जे विलस गमनागमनादिचेष्टाः कुरु। किंभूते राधे। रतिरभसेन रतिहर्षेण हसितं वदनं यस्याः। एतावद्ध्रुवस्थानीयम्। तदनुस्यूतं त्वमेवपदमिहेत्यस्य विशेषणम्। किंभूते। मञ्जुतरं मनो-
____________________________________________________________________________________________________
निकुञ्जनिलयस्य निकुञ्ज एव निलयो निभृतगृहं तस्य द्वारे हरिं निरीक्ष्य दृष्ट्वा व्रीडावतीं लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि संप्रति कथं तत्समक्षं यामीति लज्जया युक्ताम्। कीदृशस्य निकुञ्जनिलयस्य। हारावल्यो हारपङ्क्तयस्तरलो हारमध्यगमणिः काश्चनकाञ्चिदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये मणयस्तेषां द्युत्या कान्त्या दीपितस्य प्रकाशि-तस्य। ‘तरलश्चञ्चले खिङ्गे हारमध्यमणावपि’। इति विश्वप्रकाशः॥५॥ तदेव गीतेनाह— मञ्जुतरेति। गीतस्यास्य वराडीरागो मठतालश्च। गीतार्थस्तु— हे राधे माधवसमीपं कृष्णान्तिकदेशं प्रविश। इह मञ्जुतरकुञ्जतलकेलिसदने मञ्जुतरं यत्कुञ्जतलं निकुञ्जाभ्यन्तरदेश-स्तदेव यत्केलिसदनं लीलागृहं तत्र विलस विलासं कुरु। कीदृशि। रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं वदनं मुखं यस्यास्ता-दृशि। प्रविश राधे माधवसमीपमिह विलसेत्युक्तम्। ध्रुवपदमनु वर्तमानत्वात्। यद्वा। इह माधवे विलस। कीदृशे माधवे। मञ्जुतरकुञ्ज-तलकेलिसदनं यस्य तादृशे। पुनः कीदृशे। रतिरभसेन हसितं वदनं यस्य तादृशे।
नवभवदशोक102दलशयनसारे।
विलस कुचकलशतरलहारे। प्रविश०॥ २॥
कुसुमचयरचितशुचिवासगेहे।
विलस कुसुमसुकुमारदेहे। प्रविश०॥ ३॥
मृदु103चलमलयपवनसुरभिशीते।
विलस104मदनशरनिकरभीते। प्रविश०॥ ४॥
__________________________________________________________________________________________________________
हरं यत्कुञ्जतलं कुञ्जस्याधरप्रदेशस्तदेव केलिसदनं यत्र॥ १॥ अपि च। नवभवेति। हे कुचकलशतरलहारे, कुचकलशे तरलश्चञ्चलो हारो यस्यास्तस्याः संबुद्धिः। इहेत्यस्य विशेषणम्। किंभूते। इह नवं भवद्यदशोकदलानां शयनं तेन सारमुत्कृष्टं तस्मिन्॥ २॥ अपि च। कुसुमेति। हे कुसुमसुकुमारदेहे, इह विलस। किंभूते इह। कुसुमानां चयस्तेन रुचिरं शुचि च वासार्थं गेहं यस्मिन्निकुञ्जतले। अत्र सर्वत्र एकैकं राधाविशेषणं, एकैकं निकुञ्जविशेषणम्॥ ३॥ अपि च। मृदुचलेति। हे राधे इह विलस। किंभूते राधे। मदनशरनिकराद्भीतिर्भयं यस्याः तस्याः संबुद्धिः। इह मृदु यथा स्यात्तथा चलो यो मलयपवनस्तेन सुरभि च त-__________________________________________________________________________________________________________
कीदृशे केलिसदने॥ १॥ नवेति। नवं नूतनमथ च लसच्छोभायमानं यदशोकदलमशोकपल्लवं यस्य तच्छयनं शय्या तदेव सारो महाधनं यत्र तादृशे। त्वं कीदृशी। कुचकलशयोः स्तनकलशयोस्तरलश्चञ्चलो हारो यस्यास्तादृशी। अपरस्मिन्नपि गृहे महाधनं तिष्ठतीति ध्वनि-तम्। यद्वा नवलसदित्यपि राधे इत्यस्यैव विशेषणम्। तदा नवलसदशोकदलशयनमेव सारो यस्यास्तादृशि। यद्वा इह माधवे विलस। कीदृशे माधवे। नवलसदशोकदलमेव सारो यस्य तादृशे॥२॥ कुसुमेति। हे राधे, इह कुसुमचयेन पुष्पसमूहेन रचितं विरचितं शुचि अनुपहतं नायिकान्तरेणानुपभुक्तं यद्वासगेहं लीलागृहं तत्र विलस। यद्वा कुसुमचयेन रचितमर्थात्कृष्णेन निर्मितं शुचि वासगृहं यस्यास्तादृशि इति राधे इत्यस्यैव विशेषणम्। पुनः कीदृशी त्वम्। कुसुमवत्सुकुमारः कोमलो देहो यस्यास्तादृशि। यद्वा इह माधवे विलस। कीदृशे माधवे। कुसुमचयेन रचितं शुचिवासगेहं येन तादृशे। कीदृशे माधवे। कुसुमवत्सुकुमारो देहो यस्य तादृशे। ‘शुचि अनुपहते’ इति विश्वप्रकाशः॥३॥ (मृदु) चलेति। हे राधे, माधवसमीपं चल व्रज। इह केलिसदने प्रविश विलस। कीदृशे केलिसदने। मलयपवनसुरभिशीते मलयसंबन्धी यः पवनस्तेन सुगन्धं शीतलं च तस्मिन्। यद्वा इह माधवे विलस। कीदृशे माधवे। मलयपवन-सुरभिशीते मलयसंबन्धी यः पवनो वायुस्तेन सुरभिशीतले वा। यद्वा चलेत्यपि पवनस्यैव विशेषणम्। तथा च चलश्चञ्चलो यो मलयपवनस्तेन सुरभिशीतले इत्यर्थः। चलेत्यनेन ईषच्चाञ्चल्यमुक्तम्। तेन मान्द्यमुक्तम्। त्वं कीदृशी। रतिवलितललितगीते, रतौ वलितं
विततबहुवल्लिनवपल्लवघने।
विलस चिरमलसपीनजघने। प्रविश०॥ ५॥
मधुमुदितमधुपकुलकलितरावे।
विलस कुसुम105शरसरसभावे। प्रविश०॥ ६॥
मधुरतरपिकनिकरनिनदमुखरे।
विलस दशनरुचिरुचिरशिखरे। प्रविश०॥ ७॥
______________________________________________________________________________________________________
च्छीतं च। मृदुपवनेन सुरभिशीतम्॥ ४॥ अपि च। मधुरतरेति। हे राधे इह विलस। किंभूते राधे। शुचीनि रुचिराणि दशनशिखराणि यस्यास्तस्याः संबुद्धिः। किंभूते इह। मधुरतरो यः पिकनिकरस्य निनदस्तेन मुखरे॥५॥ अपि च। विततेति। हे राधे, इह चिरं विलस। किंभूते राधे। अलसं पीनं जघनं यस्यास्तस्याः संबुद्धिः। किंभूते इह। विततानि बहूनि वल्लीनां नवपल्लवानि तैर्घने॥ ६॥ अपि च। मधुमुदितेति। हे राधे, इह विलस। किंभूते राधे। कुसुमशरे कामे रसो रागः साभिलाषो भावोऽभिप्रायो यस्यास्तस्याः संबुद्धिः। किंभूते इह। मधुना
_______________________________________________________________________________________________________________
ललितं मनोहरं गीतम्। लालित्यं हावविशेषः। यस्यास्तादृशि। यद्वा कृष्णे विलस। कीदृशे कृष्णे। रतिललितं मनोहरं वलितं संभक्तं गीतं यस्य तादृशे। क्वचित्सरसेति पाठः। ललितलक्षणं तु—‘नानाविधमनाहार्यं स्वभावेन मनोहरम्। शृङ्गारचेष्टितं स्त्रीणां ललितं संप्रचक्ष्यते॥ ४॥ विततेति। हे राधे, माधवसमीपं प्रविश। इह केलिसदने चिरं विलस च। कीदृशे केलिसदने। विततैर्विस्तीर्णैर्बहुभिर्वल्लीनां लतानां नवपल्लवैर्धने सान्द्रे। त्वं कीदृशि। अलसपीनजघने। अलसे मन्थरे पीने मांसले जघने यस्यास्तादृशि॥५॥ मधुमुदितेति। कीदृशे केलिसदने। मधुना पुष्परसेन मुदितान्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहास्तैः कलितो विहितो रावः शब्दो यत्र तादृशे। त्वं कीदृशि। मदनरसरभसभावे मदनस्य कामस्य यो रसः शृङ्गाराख्यस्तत्र यो रभस उत्साहस्तेनोपलक्षितो भावो यस्यास्तादृशि। यद्वा। इह माधवे विलस। कीदृशे माधवे। मदनरसेन यो रभसस्तेनोपलक्षितो भावो यस्य तादृशे इत्यर्थः। यद्यपि मधुपेनैव मधुपानकर्तृत्वं प्राप्तं तथापि तदानीं मधुपानप्राप्तये मधुमुदितेत्युपात्तम्॥६॥मधुरतरेति। कीदृशे केलिसदने। मधुरतरो यः पिकनिकराणां समूहानां निनदः शब्दस्तेन मुखरे वाचाले। यद्वा। एतदपि राधे इत्यस्यैव विशेषणम्। तदा मधुरतरपिकनिकराणामिव यो निनदः सुरते कण्ठकूजितं तेन मुखरमित्यर्थः। पुनः कीदृशि। दशनरुचिर्दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि। यद्वा। दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि। यद्वा इह माधवे विलस। कीदृशे माधवे। दशनरुचिरुचिरशिखरे। दशनरुचीत्यत्र द्वितीयव्याख्याने प्रसिद्धशिखरस्योपमेयतया विपर्यासोपमा बोध्या। तदुक्तं दण्डिना— ‘त्वदा-
विहितपद्मावतीसुखसमाजे।
कुरु मुरारे मङ्गलशतानि।
भणति जयदेवकविराजराजे। प्रविश०॥ ८॥
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंबाधबिम्बाधरम्।
अस्याङ्कं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-
क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः॥ ६॥
____________________________________________________________________________________________
मुदितं यन्मधुपकुलं तेन कलितो रावो गुञ्जरवो यत्र॥ ७॥ अपि च। विहितेति। इदानीमष्टपदीं परमेश्वरे समर्पयन्नाह— हे मुरारे, जयदेव-कविराजे मङ्गलशतानि कुरु। किंभूते। विहितं कृतं पद्मावत्या लक्ष्म्याः सुखं सुखरूपं समाजं स्थानं प्रासादो येन। तिन्दुबिल्वे जयदेव-कारितो महालक्ष्म्याः प्रासादोऽस्तीति प्रसिद्धिः। लक्ष्मीभक्त्या हरिस्तुष्यतीति॥८॥ इदानीं त्रपानिरसनायाह— **त्वामिति।**हे राधे, अयं श्रीकृष्णस्तव सुधासंबाधं सुधायाः संकटं बिम्बाधरं पातुमिच्छति। किंभूतोऽयम्। त्वामेवंविधां दुर्वहां चित्तेन वहन्नपि श्रान्तः श्रमं प्राप्त अत एव भृशं तापितः। यतः श्रान्तस्तप्तश्च भवति। स तदुपशान्त्यै सुधादिपानं कर्तुमिच्छति। तत्तस्मादस्य मुरारेरङ्गं क्षणमलंकुरु। कथं। मयास्य तादृशस्य महानुभावस्यैतत्कर्तुं युज्यत इति वदसि चेत्याशङ्क्याह— इह तावत्संभ्रम आदरः कुतः। किंभूते इह। भ्रूक्षेप एव यो लक्ष्मीलवस्तेन क्रीते। एतावता मूल्येन गृहीते
______________________________________________________________________________________________________
ननमिवोन्निद्रमरविन्दमभूदिति। सा प्रसिद्धविपर्यासाद्विपर्यासोपमेष्यते॥’ इति। ‘पक्वदाडिमबीजाभं माणिक्यं शिखरं विदुः।’ इति शाश्वतः ॥ ७॥ विहितेति। हे मुरारे, जयदेवकविराजराजे जयदेव एव कवीनां राजराजा सार्वभौमस्तत्र मङ्गलशतानि कल्याणशतानि कुरु। कीदृशे भणति तवगुणान्वदति। पुनः कीदृशे। विहितः पद्मावत्याः सुखसमाजः सुखसमूहो येन तादृशे। एतेन स्वस्त्रीतत्परत्वकथनेन परस्त्रीवैमुख्यं ध्वनितम्। ‘राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे।’ इति विश्वः॥८॥ कृष्णोत्कण्ठाधिक्यमाह— स्वामिति। अयं कृष्ण-स्त्वां चित्तेन मनसा वहन्नतिश्रान्तोऽतिशयेन श्रमयुक्तो जातः। कन्दर्पेण कामेन च भृशमतिशयेन तापितः संतापितः। अतिसूक्ष्मे चित्ते पीनस्तनजधनवत्याः स्तनधारणेन श्रमो युक्त एव। अन्योऽपि यो गुरुतरभारोद्वहनं करोति तस्याप्यतिश्रमो भवतीति भावः। अतस्तव सुधयामृतेन संबाधं संकटं बिम्बाधरं बिम्बफलमधरमोष्ठं पातुमिच्छति। तस्माद्धेतोस्तस्य कृष्णस्वाङ्कं क्रोडं क्षणं त्वमलंकुरु भूषय। अह-मपि स्फुटापराधा। अतस्तदङ्कारोहणे विभेमीत्यत आह— भ्रूक्षेपेति। इह कृष्णे कुतः कस्माद्धेतोः संभ्रमो भयम्। कीदृशे कृष्णे। सेवितं त्वदीयपदाम्भोजं त्वदीयचरणकमलं येन तादृशे। अत एव दासजनेऽपि। तत्र हेतुगर्भविशेषणमाह—भ्रूक्षेपेति। भ्रूक्षेपस्य भ्रुवा चालनस्य या लक्ष्मीः संपत्तस्या
सा ससाध्वससानन्दं गोविन्दे लोललोचना।
सिञ्जानमञ्जुमञ्जीरं प्रविवेशा106भिवेशनम्॥ ७॥
वराडीरागयतितालाभ्यां गीयते। प्र० २२॥ .
राधावदनविलोकनविकसितविविधविकारविभङ्गम्।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम्॥१॥
हरिमेकरसं चिरमभिलषितविलासम्।
सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासम्107॥ ध्रुवम्॥
_________________________________________________________________________________________________
आदरो न कर्तव्य इति। अत एव दास इव। उपसेवितं तव पदाम्भोजं येन तस्मिन्। शार्दूलविक्रीडितम्। रूपकोत्प्रेक्षेऽलंकृती॥६॥ इदानीं त्रपानाशकृदुचितं कर्माह—सेति। सा राधा अभिवेशनं रतायोपकल्पितकेलिगृहं प्रविवेश। कथं यथा स्यात्तथा। सिञ्जानौ सश-ब्दौ मञ्जुमञ्जीरौ यत्र तद्यथा स्यात्। किंभूता सा। ससाध्वसं च सानन्दं च ससाध्वससानन्दं यथा स्यात्तथा। गोविन्दे लोले सतृष्णे लोचने च यस्याः सा। साध्वसेन चले। आनन्देन साभिलाषे। अत्र ससाध्वसानन्दमिति एकेनैव सहशब्देन कृते प्रत्येकमुपादानं चलसतृष्णयोः पृथग्योगार्थम्। अनुष्टुप्पथ्यावृत्तम्॥ ७॥ आर्योक्तमेव (?) विवृणोति— राधावदनेति। तत्र पूर्वं ध्रुवपदम्। हरिमेकरसमिति। सा राधा हरिं वदति स्म। भोक्तृत्वेन हरिस्वरूपेण संवादं प्राप्नोति स्म। किंभूतं हरिम्। एकरसमेक एव राधाविषये रसो रागो यस्य। पुनः किंभूतम्। चिरमभिलषितो राधासंबन्धी विलासो येन। पुनः किंभूतम्। गुरुर्यो राधाया आगमननिमित्तो हर्षस्तस्य वशंवदं वशं वदनं यस्य।
__________________________________________________________________________________________________________
लवो लेशस्तेन क्रीते। ‘संकटं ना तु संबाधः’ इत्यमरः। ‘लवलेशकणाणवः’ इत्यमरः॥६॥ सा ससाध्वसेति। सा राधा निकेतनं लीलागृहं प्रविवेश प्रविष्टा। किं कुर्वती। मञ्जु मनोहरो यो मञ्जीरो नूपुरस्तं सिञ्जाना शब्दं कुर्वती। कथं यथा स्यात्। ससाध्वसं साध्वससहितं सानन्दमानन्दसहितं च यथा स्यादित्यर्थः। कीदृशी सा। गोविन्दे लोले चञ्चले लोचने यस्याः सा॥ १॥ राधेति। गीतस्यास्य वराडीरागो रूपकतालः। गीतार्थस्तु — सा राधा हरिं कृष्णं ददर्श दृष्टवती। कीदृशम्। एकरसं एको मुख्यः शृङ्गाराख्यो रसो यस्य तम्। यद्वा एकस्तुल्यो रसो यस्य तम्। राधाया यादृशः शृङ्गाररसः कृष्णस्यापि तादृश एवेति भावः। पुनः कीदृशम्। चिरं बहुकालं व्याप्याभिलषितो वाञ्छितो विलासः केलिर्येन तम्। पुनः कीदृशम्। गुरुर्महान्यो हर्ष आनन्दस्तस्य वशंवदमायत्तं वदनं यस्य तम्। पुनः कीदृशं हरिम्। अङ्गविकारम्। क्वचिदनङ्गविकास इति पाठः। तदानङ्गस्य कामस्य विकासः स्फुटता यत्र तम्। राधेति। पुनः कीदृशं हरिम्। राधाया वदनं मुखं तस्य विलोकनेन
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम्।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम्॥ हरि०॥२॥
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम्।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलम्॥हरि०॥३॥
__________________________________________________________________________________________
पुनः किंभूतम्। अनङ्गनिवासं कामाश्रयम्। इति ध्रुवः॥ अथ पदानि। किंभूतं हरिम्। राधावदनविलोकनेन विकसिता उल्लासिता विविधा विकाराणां सात्विकभावानां विभङ्गा यत्र। एतेन राधामुखदर्शनादक्रममेव स्तम्भादयः प्रादुर्भूता इत्यर्थः। कमिव। जलनिधिमिव। किंभूतं जलनिधिम्। विधुमण्डलदर्शनेन तरलिता ललिता मनोहरास्तरङ्गा यत्र। अत्र मण्डलग्रहणं समुद्रवृद्धिहेतुत्वं ज्ञापयति॥१॥ अपि च। हारमिति। किंभूतं हरिम्। उरसि हारं दधतम्। किंभूतं हारम्। अमलतरतां ऋच्छतीति अमलतरतारम्। अथवा अमलतराः निर्दोषा-स्तारा निर्मलमौक्तिकानि यत्र। किं कृत्वा विदूरं दीर्घं विलम्ब्य विलम्बं कृत्वा। कमिव। यमुनाजले पूरमिव। किंभूतं पूरं। स्फुटतरा ये फेनास्तेन मिश्रितम्। अनेन स्वेदाख्यसात्विकभावोत्पत्तिर्दर्शिता। अनु च हारदर्शनं च तस्य श्यामव्यूढोरसि गौरी त्वं स्फुरन्ती दीप्ति-मेष्यसीति प्रोत्साहनम्। पुरुषायितरतविशेषश्च। फेनकदम्बेन सुरतश्रमजनिता उदबिन्दवश्च दर्शिताः। यमुनाजलपूरोपमानेन समद्रुतिश्च॥२॥ अपि च। श्यामलेति। किंभूतं हरिम्। श्यामलं मृदुलं कलेवरमण्डलं यस्य। पुनः किंभूतम्। अधिगते गौरे दुकूले येन। किमिव। नीलनलिनमिव। पीतं यत्परागपटलं तस्य भरस्तेन
__________________________________________________________________________________________________________
वीक्षणेन विकसिताः प्रकटिता विविधा नानाविधा विकारा जृम्भणापाङ्गक्षेपणकरविमर्शादिरूपास्त एव विभङ्गा विशिष्टोर्मयो येन तम्। कमिव। जलनिधिमिव। कीदृशं जलनिधिम्। विधुमण्डलस्य चन्द्रमण्डलस्य दर्शनेन तरलिताश्चञ्चलीकृतास्तुङ्गा अत्युच्चास्तरङ्गा ऊर्मयो यस्य तादृशम्। अत्रागाधशृङ्गाररसाश्रयत्वेन कृष्णस्य जलनिधिसाम्यम्। राधामुखस्य चाल्हादकारित्वादिना चन्द्रसाम्यम्। जृम्भणादि-रूपाङ्गविकारस्योत्तरोत्पन्नतया तरङ्गस्य साम्यम्। ‘भङ्गस्तरङ्गे तु भेदे भङ्गो जयविपर्यये’। इति विश्वः॥१॥ विविधविकारानेवाह— हारमिति। कीदृशं कृष्णम्। विदूरमतिशयेन परिरभ्यालिङ्ग्य उरसि वक्षसि हारं दधतं बिभ्राणम्। कीदृशम्। अमलतरोऽतिशयेन विमलतरस्तारः शुद्धमौक्तिकं यत्र तादृशम्। कमिव स्फुटतरः प्रकटतरो यः फेनकदम्बः फेनसमूहस्तेन करम्बितं मिश्रितं यमुना-जलपूरमिव कालिन्दीप्रवाहमिव। अत्र कृष्णशरीरस्य श्यामस्निग्धतया यमुनाप्रवाहसाम्यम्। हारस्य चातिशुभ्रतया फेनसमूहसाम्यं बोध्यम्। अत्र हारालिङ्गनेन स्वाभिलाषप्रकटनान्मोहयिताख्यो भावो वर्णितः। तदुक्तं रसार्णवसुधाकरे— ‘स्वाभिलाषप्रकटनं मोहयिता-ख्यम्।’ इति। ‘मिश्रितं तु करम्बितम्” इति धरणिः। ‘तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके।’ इति विश्वः। ‘पूरो जलप्रवाहः स्यात्’ इति च॥२॥ पुनः कीदृशम्। श्यामलेति। श्यामलं नीलं मृदुलं कोमलं कलेवरमण्डलं यस्य तादृशम्। पुनः कीदृशम्। अधिगतमधिकं परिधेयत्वेन
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम्।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम्॥ हरि०॥४॥
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम्। स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम्॥ हरि०॥५॥
__________________________________________________________________________________________________
वलयितं मूलं यस्य। अनेन गौराङ्ग्यास्तव कृष्णेन लतावेष्टितालिङ्गनविशेषे काप्यभिख्या भविष्यतीति प्रोत्साहनम्। तल्लक्षणं यथा— ‘प्रियमनुकृतवल्लीविभ्रमा वेष्टयन्ती द्रुममिव सरलाङ्गी मन्दसीत्कारदीर्घम्। वदनमुदितखेलाक्रन्दमाचुम्बनार्थं नमयति विनताङ्गी यल्ल-तावेष्टितं तत्॥३॥ अपि च। तरलेति। किंभूतं हरिम्। तरलदृगश्चलवलनेन मनोहरं यद्वदनं तेन जनितो रतिरागो येन। अनेन कान्ता दृष्टि-रुक्ता। यथा— ‘आपिबन्तीव दृश्यं या सा विकाशातिनिर्मला। सभ्रूक्षेपकटाक्षा च कान्ता मन्मथवर्द्धनी। कमिव। तडागमिव। किंभूतं तडागम्। शरदि स्फुटे विकसिते कमलोदरे खेलितं खञ्जनयुगं यत्र। शरत्काले खञ्जनवर्णनमुचितमेव। पद्मेऽपि खञ्जनं मिलत्येव। तदु-क्तम्— ‘अब्जेषु गोषु गजवाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु’। अत्र कमलोदरग्रहणेन पद्मासनं नाम रतिविशेषः सूचितः। यथा— ‘जङ्घायुगलस्य विपर्ययतः पद्मासनमुक्तमिदं युवतेः॥४॥ अपि च। वदनेति। किंलक्षणं हरिम्। वदनकर्तृकपरिशीलनेन मिलितो यो मिहिरस्तेन समे ये कुण्डले ताभ्यां शोभत इति। अनेन शारीरकसूर्यसमाकर्षणसद्भावर
____________________________________________________________________________________________________
ज्ञातं गौरपीतं दुकूलं पट्टवस्त्रं येन तम्। किमिव। नीलनलिनमिव श्यामकमलमिव। कीदृशं नीलनलिनम्। पीतो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो भरोऽतिशयस्तेन वलितं वेष्टितं मूलं यस्य तादृशम्। अत्र कृष्णस्य स्निग्धश्यामतया नीलोत्पलसाम्यम्। पीतपट्टाम्ब-रस्य च मूललग्नपीतपरागसाम्यम्। ‘अथ कलेवरम्। गात्रं वपुः संहननम्’ इत्यमरः॥३॥ पुनः कीदृशम्। तरलेति। तरलो दृगञ्चलः कटा-क्षस्तस्य चलनेन मनोहरं सुन्दरं यद्वदनं तेन जनित उत्पादितो रतिरागो राधायाः सुरतेच्छा येन तादृशम्। कमिव। शरदि शरत्काले स्फुटकमलोदरे विकसितपद्मगर्भे खेलितं क्रीडितं खञ्जनयुगं खञ्जरीटयुगुलं यत्र तादृशं तडागमिव। अत्र कृष्णस्य राधादर्शनासंक्षुभि-तत्वेन शरत्कालीनतडागसाम्यम्। स्मेरमुखं मन्दहास्यं च विकसितकमलसाम्यम्। तारकाः श्यामिकोपेतत्वेन परितः शुभ्रत्वेनातिचश्चल-त्वेन तन्नेत्रयोः खञ्जनसाम्यम्। शरत्काले जलाशयस्य कमलगर्भे खेलत्खञ्जनो दृष्टः सन्द्रष्टुर्वाञ्छितं प्रयच्छति। एवं चलदपाङ्गवत्कृष्ण-दर्शनं राधाया वाञ्छितं केलिसुखं दास्यतीति शरत्कालीनकमलमध्यस्य खञ्जनोपमानेन ध्वनितम्। तदुक्तं वराहे— ‘हेमसमीपसिता-म्बरकमलोत्पलपूजितोपलब्धेषु। दधिपात्रधान्यकूटे दृष्टोऽभीष्टानि चेष्टते विहगः ‘इति। ‘खञ्जरीटस्तु खजनः इत्यमरः। ‘तडागस्तु जला-धारः’ इति विश्वः॥४॥ पुनः कीदृशम्। वदनेति—कृष्णवदनकमलस्य मुखपद्मस्य परिशीलनाय मिलितौ यो मिहिरौ सूर्यौ ताभ्यां समे ये कुण्डले ताभ्यां शोभा कान्तिर्यस्य तम्। अत्र कुण्डलयोर्ना- ,
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम्।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम्॥ हरि०॥६॥
विपुलपुलकभरदन्तुरितंरतिकेलिकलाभिरधीरम्। मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम्॥ हरि०॥७॥
________________________________________________________________________________________________
तान्तः सूचितः। तदेव चिह्नयति। स्मितकान्त्या रुचिरः समुज्ज्वलितो योऽधरपल्लवस्तेन कृतो रतेर्लोभः संभोगतृष्णा येन। रतान्ते किल ताम्बूलादिरागह्वासादिना अधर उज्ज्वलो भवतीति कृतरतिलोभमिति रतिविरतावपि पुना रताय सस्पृहत्वम्। एतदेव शृङ्गारसर्वस्वं यद्रतिविरतावपि न जुगुप्सेति॥५॥ अपि च। शशिकिरणेति। किंभूतं हरिम्। शशिकिरणैः कर्बुरितोदरजलधरवत्सुन्दराः सकुसुमाः केशा यस्य। पुनः किंभूतम्। तिमिरे ऽन्धकार उदितं यद्विधुमण्डलं तद्वन्निर्मलो यो मलयजतिलकस्तस्य निवेशो यत्र। आभ्यां विशेषणा-भ्यां शशिकिरिणमिलिताभ्रशोभया अनु च सतिमिरनवोदितचन्द्रशोभया च सुरतांशे स्रस्तधमिल्लत्वं स्वेदाम्बुपूरैः किञ्चिन्मृष्टविशेषकत्वं मम भविष्यतीति मानसः प्रोत्साहः सूचितः॥६॥ अपि च। विपुलेति। किंभूतं हरिम्। विपुलपुलकभरैर्दन्तुरितं रोमाञ्चितम्। अपि च उक्त-लक्षणाभी रतिकेलिकलाभिरुपलक्षितम्। अत एव तदर्थंमधीरम्। अपि च किंभूतम्। मणिगणकिरणसमूहसमुज्ज्वलानि यानि भूषणानि तेन वा समुज्ज्वलानि तैः सुभगं शरीरं यस्य। एतेन भविष्यत्सुरतान्ते भूषणपरिग्रहो द्योत्यते। ‘सुचिर’ इत्यादौ अभिसारिका प्रगल्भा नायि-का। ‘हारावली’ इत्यादि आसर्गान्तं मध्या नायिका॥ तलक्षणं— ‘तुल्यलज्जास्मरा मध्या मोहान्तसुरतक्षमा॥७॥
__________________________________________________________________________________________________________
नामणिखचितत्वेन सूर्योपमा बोध्या। अभूतोपमा चेयम्। ‘विकर्तनार्कमार्त्तण्डमिहिरारुणपूषणाः। इत्यमरः। पुनः कीदृशम्। स्मितस्य ईषद्धासस्य या रुचिः कान्तिस्तया रुचिरो मनोहरः समुल्लसितो राधाधरपानोत्कण्ठया ईषत्कम्पितो योऽधरपल्लवस्तेन कृतो राधारति-लोभः सुरतेच्छा येन तम्॥ ५॥ पुनः कीदृशम्। शशिकिरणेति। शशिकिरणैश्चन्द्रकिरणैश्छुरितं संबद्ध मुदरमभ्यन्तरं यस्य तादृशो यो जलधरो मेघस्तद्वत्सुन्दराः सुकुमाराः। कुसुमं पुष्पम्। तत्सहिताः केशा यस्य तम्। अत्र केशानां श्यामतया जलधरसाम्यम्। तत्र स्थित-कुसुमानां मेघान्तरितचन्द्रकिरणसाम्यं बोध्यम्। पुनः कीदृशम्। तिमिरेऽन्धकारे उदितं प्रकटीभूतं यच्चन्द्रबिम्बं तद्वनिर्मलस्य मलय-जतिलकस्य निवेशो विन्यासो यत्र तादृशम्। अत्र कृष्णस्य गाढान्धकारसाम्यं ललाटस्थमण्डलाकृतितिलकस्य पूर्णचन्द्रनिम्बस्थितिकाले तिमिरसाम्यस्यासंभवादभूतोपमा ज्ञेया॥६॥ पुनः कीदृशम्। विपुलेति। विपुलो यः पुलकभरो रोमाञ्चातिशयस्तेन दन्तुरितं व्याप्तम्। पुनः कीदृशम्। रतिकेलिकलाभिचुश्चुम्बनादिविशेषचातुरीभिरधीरं चञ्चलम्। पुनः कीदृशम्। मणिगणानां मणिसमूहानां किरणसमूहेन समुज्ज्वलानि यानि भूषणानि मुकुटाङ्गदमञ्जीरादीनि तैः सुभगं शरीरं यस्य तम्। ‘निम्नोन्नततया व्याप्तं दन्तुरं कथ्यते बुधैः।’ इति धर-णिः॥ ७॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम्।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम्॥ हरि०॥ ८॥
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-
प्रयासेनेवाक्ष्णोरमलतरतारं गमितयोः108।
इदानीं राधायाः प्रियतमसमायात109समये
पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः॥ ८॥
_______________________________________________________________________________________________
अपि च। श्रीजयदेवेति। हे जनाः सुचिरं हरिं हृदि विनिधाय प्रणमत। किंभूतं हरिम्। सुकृतोदये सारम्। पुनः किंभूतम्। श्रीजयदेव-भणितो यो विभवः सामर्थ्यं तेन द्विगुणीकृतां भूषणभां शोभां ऋच्छतीति। अथवा द्विगुणीकृतां भूषणभां रातीति। एतत्कृत्वा उक्तेष्टदो भवतीति। अथवा श्रीजयदेवभणितेन विभवन्विभुर्भवन्द्विगुणीकृतो भूषणानां भारः समूहो येन। जयदेवभणितं श्रुत्वा भूषणानामनाद-रोऽभूदित्यर्थः॥ क्रमेण नट्टकेदारश्रीरागस्थानगौडकाः। धोरणीमालवीयश्च वराटी मेघरागकः॥ मालवश्रीर्देवशाखो गौण्डकृच्चाथ भैरवी। धन्नासिका वसन्तश्च गुर्जरी च मह्लारकः॥ ललितः सप्तदशमो रागास्तावन्ति च क्रमात्। पदानि तेषु तालाः स्युरितस्तन्नाम कीर्त्यते॥ आद्यत्रिसप्तदशमद्वादशे द्रुतमण्ठकाः। द्वितीये नवमे चैकादशे चैव त्रयोदशे॥ पदे पञ्चदशे सप्तदशे रूपक ईरितः। चतुर्थे प्रति तालव्यां द्रुतालः पञ्चमे स्मृतः। त्रिपुटः षष्ठाष्टमयोः स्याद्रुतप्रतिमण्ठकः। चतुर्द्दशे षोडशे च भद्रः स्युः प्रतितालकम्। मध्यमादौ पुनर्मुक्तिः शृङ्गारः साभिलाषयोः। स्त्रीपुंसयोरुत्तमस्य नायकस्योपवर्णनम्। कौशिकीं रीतिमाश्रित्य पदानां स्वस्वनामता। छन्दः स्वेच्छाविरचितं रूपके यत्र दृश्यते। सरागश्रेणिनामायं प्रीतिकृत्कमलापतेः॥ इति सानन्दगोविन्दरागश्रेणिकुसुमाभरणनामा द्वाविंशतितमः प्रबन्धः॥८॥ इदानीं राधाया अपि सात्विकभावोत्पत्तिं दर्शयति—अतिक्रम्येति। इदानीं राधाया अक्ष्णोर्हर्षाश्रुनिकरः पपात क्व। प्रियतमसमायात-समये प्रियतमस्य समायातं समागमस्तस्य समये काले। क इव। अपाङ्गंनेत्रप्रान्तमतिक्रम्य श्रवणपथपर्यन्तगमनप्रयासेनेव। स्वेदाम्बुपूर इव। किंभूतयोर्नेत्रयोः प्रियदर्शनाकाङ्क्षया अतिशयेन चञ्चलत्वं प्रापितयोः
_______________________________________________________________________________________________________
श्रीजयदेवेति। हे जनाः, हरिं प्रणमत। किं कृत्वा। सुचिरं बहुकालं व्याप्य हृदि चित्ते विनिधाय। कीदृशम्। सुकृतोदयस्य पुण्योदयस्य सारं सारभूतम्। यद्वा सुकृतोदय एव सारो धनं यस्मात्तम्। पुनः कीदृशम्। श्रीजयदेवस्य भणितविभवे वाग्विभवे द्विगुणीकृतभूषण-भारोऽलंकारसमूहो येन तम्। जयदेवसरस्वती स्वयमेवोत्प्रेक्षालङ्कारवती। भगवद्गुणैस्तु वर्णनीयैः सुतरामलंकृतेति भावः॥ ८॥ (अत्र ‘अतिक्रम्य’
**भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित110-
स्मितं याते गेहाद्बहिरवहितालीपरिजने।
प्रियास्यं पश्यन्त्याः स्मरपर111वशाकृतसुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः॥ ९॥ **
सानन्दं नन्दसूनुर्दिशतु मितिपरं संमदं मन्दमन्दं
राधामाधाय बाव्होर्विवरमनु दृढं पीडयन्मीतियोगात्।
तुङ्गौ तस्या उरोजावतनु वरतनो112र्निर्गतौ मा स्म भूतां
पृष्ठ निर्भिद्य तस्माद्वहिरिति वलितग्रीवमालोकयन्वः॥ १०॥
_________________________________________________________________________________________________
अत्र सात्विकभावान्तरित उपमालंकारः। शिखरिणी वृत्तम्॥ ८॥ इदानीं मीलितायां तस्यां सखीकृत्यमाह— भजन्त्या इति। मृगदृशो राधाया लज्जापि अतिदूरं व्यगमत्। किंभूता लज्जा। लज्जासहिता। किंभूतायाः। प्रियास्यं पश्यन्त्याः। किंभूतं प्रियास्यम्। स्मरपरवशं यदाकूतमभिप्रायस्तेन सुभगं सुन्दरम्। पुनः किंभूतायाः। तल्पान्तं तल्पसमीपं व्रजन्त्या आश्रयन्त्याः। क्व सति। अवहितालीपरिजनेऽव-हितः सावधानो यः सखीलक्षणः परिजनस्तस्मिन्गेहान्निकुञ्जद्वहिर्याते सति। कथं यथा स्यात्तथा। कृता या कपटकण्डूतिस्तया पिहित-माच्छादितं स्मितं यथा स्यात्तथा। शिखरिणीवृत्तम्। अव्यङ्गयो भावो रसवदलंकारता॥ ९॥ सानन्दमिति। नन्दसूनुः श्रीगोपालो वो युष्म-भ्यममितपरममेयं संमदं दिशतु। कथं यथा स्यात्। सानन्दं यथा स्यात्तथा। किं कुर्वन्। बाव्होर्विवरमंनु राधां मन्दं मन्दमाधाय। मन्दं मन्दमिति मैनां करस्पर्शोऽपि व्याकुलीकुर्यादिति तस्याः शिरीषपुष्पाधिकसौकुमार्य व्यज्यते। प्रीतियोगाद्दृढं पीडयन्नालिङ्गयन्। दृढं पीडयन्नित्यत्रानुरागातिशयो व्यज्यते। तेन च तद्गतं विषयत्वं व्यज्यते। पुनः किं कुर्वन्। इति वलितग्रीवं यथा स्यात्तथा आलोकयन्। इतीति किम्। तस्या वरतनोरतनु शीघ्रं यथा स्यात्तथा तुङ्गौ उरोजौ पृष्ठं निर्भिद्य तस्माद्बहिर्निर्गतौ मा स्म भूताम्। अनेनोरोजयोः काठिन्यं तीक्ष्णत्वं च व्यङ्ग्यम्। अथवा वरतनोरिति एकपदत्वेन अतनोः कामस्य वरा उत्कृष्टा तनुरिति वेति। अनयैव कामो विश्वजयाय मूर्त्तिमानित्यर्थः। अत्राद्भुतो रसः। राधामाधायेत्यादिशृङ्गारः। न चानयोरन्योन्यविरोधः। अन्यपर
____________________________________________________________________________________________________________
इत्यादि श्लोकटीकटीका नोपलब्धादर्शपुस्तके॥८॥) भजन्त्या इति। तस्मिन्काले तल्पान्तं शय्यैकदेशं भजन्त्या आश्रयन्त्या मृगदृशो हरिणनयनाया राधाया लज्जापि सलजेव सव्रीडेव भूत्वा दूरमतिशयेन व्यगमद्विगता। क्क सति। अवहिताली परिजने अवहितः कृताव-धानो य आलीपरिजनः सखीपरिजनस्तस्मिन्। कृतकपटकण्डूति यथा स्यात्तथा। कृता कपटेन व्याजेन कण्डूतिः कर्णादिकण्डूयनं यत्र। एवं यथा
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः॥ ११॥
_________________________________________________________________________________________________
त्वात्। अद्भुतो वाच्योऽप्यङ्गम्। यदाह – ‘विवक्षितरसे लब्धप्रतिष्ठे तु विधायिनाम्। वाच्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला॥’ इति। विशेषतस्तु प्रस्तुतपरिपोषकार्यसौ प्रकृतिरमणीयायां तस्यामधिकतरं सौकुमार्यमाविष्करोतीत्युपरम्यते। अलंकारसर्वस्वमतातिशयो-क्तिरलंकारः संमददाने सानन्दमौचितीमावहति पुरुषः प्रमदायुक्तः। शृङ्गारः (रसः)। वैदर्भी रीतिः। प्रसादो गुणः॥ १०॥ जयश्रीति। मुरजितो भुजदण्डो जयति। मुरं दैत्यविशेषं जितवान्मुरजित्। तस्य मुरजितः कृष्णस्य दण्डाकारो बाहुः सर्वोत्कर्षेण वर्तत इत्यर्थः। सर्वोत्कृष्टत्वेन जगद्वन्द्यत्वमभिव्यञ्जितम्। कीदृशो भुजदण्डः। प्रकीर्णासृग्बिन्दुः विस्तीर्णा असृजो रुधिरस्य बिन्दवो यत्र स तथा। अत्र हेतुमाह— कीदृशस्य मुरजितः। भुजापीडेति। भुजापीडस्य भुजदण्डस्य क्रीडया विलासेन हतो व्यापादितः कुवलयापीडाख्यः करी गजो येन स तस्य तथेति। यद्वा भुजापीडक्रीडया हतश्चासौ कुवलयापीडनामा करी च तस्येति कर्मधारयः। संबन्धे षष्ठी। तत्संबन्धिप्र-कीर्णरुधिरस्य बिन्दवो यस्मिन्मुजदण्डे स तथेति। क्रीडाशब्देनानायासो व्यज्यते। ‘रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्। इत्यमरः। भुजहतहस्तिरुधिरबिन्दुभुजसंबन्ध उत्प्रेक्षाबीजमित्युत्प्रेक्षते। कीदृश इव भुजदण्डः। द्विपरणमुदा द्वाभ्यां नासामुखाभ्यां पिबतीति द्विपो हस्ती कुवलयापीडः। तत्सङ्गरसंमदेन स्वयमात्मना सिन्दूरेण मुद्रित इवाङ्कित इव। कुवलयापीडकरिसङ्ग्रामे साधुरयं मे बाहुरिति हर्षवशाच्छ्रीणेन(?) सिन्दूराङ्कितो बाहुरिति भावः। रणमुदेति हेत्वर्थे तृतीया। मुद्रित इति तारकादित्वादितच्। पुनरुत्प्रेक्षते। कीदृश इव भुजदण्डः। जयश्रीविन्यस्तैर्मन्दारकुसुमैर्महित इव। जयलक्ष्म्या प्रक्षिप्तमन्दारकुसुमैः पूजित इव। जयसंपदि विन्यस्तैरर्थाद्देवैरिति वा। समरजयिन उपरि पुष्पवृष्टिरुचिता। यद्वा जयश्रिया लक्ष्म्या क्षिप्तैर्मन्दारकुसुमैर्महित उत्सवं प्रापितः। पतिजये सति पत्नी उत्सवं करोती-त्युचितम्। कुसुमरक्तिमार्पकं मन्दारपदमौचितीमावहति। मह पूजायामित्यस्य त्कप्रत्यये महित इति रूपम्। महं प्रापित इत्यर्थे तारका-दित्वादितच्प्रत्यय इति वा। शिखरिणी छन्दः। तल्लक्षणं सङ्गीतराजे— ‘गुहास्यैर्विश्रान्ता यमनसभलागः शिखरिणी।’ उत्प्रेक्षालंकारः। तल्लक्षणं काव्यप्रकाशे— ‘संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्’। इति। अनुप्रासः शब्दालंकारः। तल्लक्षणम्— ‘वर्णसाम्यमनुप्रासः '
__________________________________________________________________________________________________________
स्यात्तथा बहिर्याते सति कुञ्जद्बहिर्गते सति। पुनः कथं यथा स्यात्। विहितस्मितं विहितेषद्धासं यथा स्यात्। कीदृश्यास्तस्याः। प्रियास्यं कृष्णास्यं मुखं पश्यन्त्याः। कीदृशं मुखम्।स्मरसरसं स्मरेण कामेन सरसं शृङ्गाररससहितम्। पुनः कीदृशम्। आकूत-
**सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलापुषो **
**राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले। **
**रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापय- **
न्ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम्॥ १२॥
इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नाम एकादशः सर्गः॥ ११॥
_____________________________________________________________________________________________________________
इति। पाञ्चाली रीतिः। आरभट्टी वृत्तिः। वीरो रसः॥११॥ सौन्दर्येति। मुकुन्दो मुदं देयात्। अर्थाद्भक्तेभ्यः। मोचयति क्लेशात्प्राणिन इति मुकुन्दः। किं कुर्वन्। ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन्। कस्मात्। राधाया हृदि पल्वले। पल्वल इव पल्वले रम्यो-रोजसरोजखेलनरसित्वात्। रम्यौ मनोहरौ उरोजावेव सरोजे तत्र खेलनं तत्र रसित्वमेकाग्रभावः। तस्मात्। पल्वले किल सरोजसंभवः। तत्र हंसेनैव भाव्यमिति रूपकमलंकारः। किंबिशिष्टे हृदि। मनसिजः कामस्तस्य क्रीडार्थमद्वितीयरङ्गभूमौ। किंविशिष्टाया राधायाः। निघीयत इति सौन्दर्यस्याद्वितीयो निधिः सौन्दर्यैकनिधिः। पुनः किंभूतायाः। अनङ्गस्य ललना रतिः। तस्या लावण्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः। शार्दूलविक्रीडितं छन्दः। प्रतिपदं रूपकमलंकारः। तल्लक्षणम्— ‘किंचित्साधर्म्यसंपत्तेस्तुल्यावयवलक्षणम्। स्वैर्विकल्पैर्विरचितं रूपं रूपकमिष्यते॥ इति। आशीश्चालंकारोऽपि॥ १२॥
माद्यद्दुर्द्दन्तिदन्तावलबलदलनोद्दण्डदोर्दण्डपिण्डो-
द्दामस्थे मानधामाभिनवनवभवन्भ्राजमानोरुकीर्त्तिः।
व्याचष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्गमेकादशं तं
पृथ्वीनाथः प्रथिम्ना जितपृथुमहिमा कुम्भकर्णो महेन्द्रः॥
इति श्रीयवनीपद्मिनीभानोः श्रीमहामहेन्द्रश्रीकुम्भकर्णस्य कृतौ रसिकप्रियायां सानन्ददामोदरो नामैकादशः सर्गः॥
_______________________________________________________________________________________________________________________
सुभगम्। आकूतेन तन्मनाख्येन सुभगं मनोहरम्॥९॥ (अत्र ‘सानन्दमिति, ‘जयश्रीति, ‘‘सौन्दर्येति, ’ श्लोकत्रयस्य टीकानोपलब्धादर्शपु-स्तके॥१०॥११॥१२॥)
**तर्कान्दोलनकर्कशापि सुमतिर्या हावभावान्विता
शृङ्गारादिरसोन्नयादिकुशला सा शंकरे केवला।
किं शम्भोरपरत्र विश्वविजयो दृप्तस्मरद्वेषता
देहाधींकृतकामिनीप्रणयिता च कापि देशान्तरे॥ **
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां शालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः॥
<MISSING_FIG href="../books_images/U-IMG-1726473614Screenshot2024-09-02at16-37-17EditBookE-Bharatisampat.png"/>
द्वादशः सर्गः।
**सुप्रीतपीताम्बरः। **
**गतवति सखीवृंन्देऽमन्दत्रपाभरनिर्भर-
स्मरपरवशाकूतस्फीतस्मितस्नपिताधराम्। **
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-
**प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम्॥ १॥ **
**विभासरागैकतालाभ्यां गीयते। प्र०॥ २३॥ **
किसलयशयनतले कुरु कामिनि चरणन113लिनविनिवेशम्।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम्॥ १॥
क्षणमधुना नारायणमनुगतमनुसर114 मां राधिके॥ ध्रुवम्॥
_____________________________________________________________________________________________________________
मनसि शिवमजेयं चिन्तयित्वाप्रमेयं
नृपतिमुकुटरत्नं कुम्भकर्णाभिधेयम्।
वितनुत इह सम्यग्देशमार्गानुमेयं
श्रुतिपुटपरिपेयं गीतगोविन्दगेयम्॥
इदानीं चिरकालकाङ्क्षितराधादर्शनोल्लासिमानसो हरिस्तामाह— गतवतीति। हरिः प्रियां राधामुवाच। किंभूतां प्रियाम्। मुहुर्वारंवारं नवपल्लवानां प्रसवोऽथवा नवपल्लवाश्च प्रसवाः कुसुमानि च तेषां शयनम्। तस्मिन्दत्तदृष्टिम्। किं कृत्वा। सरसं सरागं मनो यस्या एवं-भूतां दृष्ट्वा। पुनः किंभूताम्। अमन्दो यस्त्रपाभरस्तेन निर्भरो यः स्मरः तत्परवशं यदाकूतमाशयस्तदनुविद्धं यस्मिन्(?)। तेन स्नपितोऽध-रो यस्याः सा। क्व सति। सखीसमूहे गतवति सति। स्मरवशेति वक्तव्ये परग्रहणमतिशयेन तदधीनत्वद्योतनाय। हरिणीवृत्तम्। अस्मि-न्सर्गे स्वाधीनभर्तृका नायिका वर्णनीया। तल्लक्षणम्— ‘यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति। विचित्रविभ्रमासक्ता सा स्यात्स्वाधीन-भर्तृका’॥१॥ तदेव वक्ष्यमाणमाह— किसलयेति। तत्र पूर्वं ध्रुवः— क्षणमिति। हे
_____________________________________________________________________________________________________________
गतवतीति। हरिः प्रियां राधामुवाच। क्व सति। सखीवृन्दे सखीसमूहे गतवति सति। कीदृशीम्। अमन्दत्रपाभरनिर्भरस्मरपरवशाकूत-स्फीतस्मितस्नपिताधराम्। अमन्दः क्रूरोऽथ त्रपाभरेण लज्जासमूहेन निर्भरोऽतिशयो यः स्मरः कामस्तस्परवशस्तदायत्तो य आकू-तोऽभिप्रायस्तेन स्फीतं प्रवृद्धं यत्स्मितं तेन स्नपितौ व्याप्तौ अधरौ यस्यास्ताम्। पुनः कीदृशीम्। सरसमनसं रसोऽनुरागस्तत्सहितं मनो यस्यास्ताम्। किं कृत्वा। नवपल्लवप्रसवशयने नवकिसलयपुष्पमये शयने शयनीये निक्षिप्ताक्षीं। निहितनयनां विलोक्य दृष्ट्वा। अत्र शय्याविलोकनेन संभोगेच्छा ध्वन्यते॥१॥ किसलयेति। गीतस्यास्य विभासराग आदितालः। गीतार्थस्तु। हे राधे, क्षणमधुनानुगतं
करकमलेन करोमि चरणमहमागमितासि विदूरम्।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम्॥ क्षण०॥२॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम्।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम्॥ क्षण०॥३॥
________________________________________________________________________________________________
राधिके, अधुना मामनुसर। किंभूतं माम्। क्षणमनुगतं त्वद्दर्शनोत्सवं प्राप्तम्। अथवा मामनुसर। किंभूतं माम्। क्षणमधुना त्वत्संभोगो-त्सवमदेनानुगतं व्याप्तम्। अत्र केचन क्षणमधुना नारायणमनुगतमनुसरेति पठन्ति। तत्र मामिति प्रकरणागतमनूद्य नारायणविशेषण-त्वेनोपादेयम्। नारासु अप्सु अयनं यस्य इति कामतापोपशान्त्यै शीतलं मामनुसर। मया सह जलक्रीडां कुर्विति वाक्यार्थः। इति ध्रुवः॥ अथ पदानि। किसलयेत्यादि। हे कामिनि कामाभिकाङ्क्षिणि। किसलयशयनतले चरणनलिननिवेशं कुरु विन्यासं कुरु। किसलयानि हि नलिनविशेषान्न म्लानिभाञ्जि भवन्तीत्यत्रावयोरनुरूपं रतं भविष्यतीति व्यज्यते। किसलयानि हि पदपल्लवस्पद्धींनीत्युक्तिलेशेन विवृ-णोति। इदं किसलयशयनं तव पदपल्लववैरिपराभवमनुभवतु। पदपल्लवावेव वैरिणौ ताभ्यां सकाशात्पराभवम्। अथवा इदं किसलय-शयनं तव पदपल्लववैरिस्पर्द्धाकृत्। अतः पराभवमनुभवतु। किंभूतं शयनम्। सुवेशं सुनेपथ्यम्। अत्र तल्पे पदपल्लवन्यासेन करणवि-शेषः सूचितः॥१॥ अपि च।करकमलेनेति। हे राधे, विदूरं बहुतरं पन्थानमागमितासि। अतः करकमलेन चरणमहं पूजां करोमि। शय-नोपरि मां क्षणं नूपुरमिव उपकुरु। यथा नूपुरमुपकरोषि धारयसि तथा मामप्युपकुरु ममाप्युपकारं कुरु। चरणधारणद्वारेण चारमनु-लक्ष्य शूरं यथा तव चरणं गच्छति तथैव विक्रान्तिं करोति। मामपि अनुसरणे शूरं त्वदनुसरणमेव पराक्रमो यस्य। अथवा शयनोपरि वर्त्तमाना त्वं मामुपकुर्विति योजनीयम्॥ २॥ अपि च। वदनेति। हे राधे, अनुकूलं रतिजनकं वचनं रचय
__________________________________________________________________________________________________________
नारायणमनुसर। हे कामिनि, किसलयशयनतले चरणकमलविनिवेशं पादपद्मार्पणं कुरु। इदं सुबेशमपि सम्यक्पत्ररचनादिना सुष्ठु अलंकृतमपि किसलयशयनं पराभवमनुभवतु। तव पदपल्लव एव यो वैरी शत्रुस्तस्मात्पराभवं पराजयमनुभवतु। यद्वा। इदं किसलय-शयनं पराभवमनुभवतु। कीदृशम्। तव पदपल्लववैरि। विरोधीत्यर्थः॥१॥ करकमलेनेति। अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाहयितुमर्थात्। यद्वा तव चरणमहमित्येकपदम्। तथा च करकमलेन तव चरणयोर्महं पूजां संवाहनादिरूपां करोमि। कथ-मित्याह— त्वं विदूरमतिदूरमागमिता आनीतासि। अर्थान्मया। तथा च दूरागमनजन्यं ते श्रममपनयामीति भावः। शयनोपरि शय्याया उपरि नूपुरमुपकुरु। नूपुरस्य परिधानेन महार्थतापादनमेवोपकारः। कीदृशं नूपुरम्। अनुगतिशूरम्। अनुगतौ तवानुसरणे शूरम्। अप-रोऽपि योऽनुगतिशूरो भवति स उपक्रियत इत्युचितमेवेति भावः। कमिव। मामिव। यथा तवानुसरणशूरं मामालिङ्गनादिनोपकरोषि तथा नूपुरमप्युपकुर्वित्यर्थः॥ २॥ वदनेति — हे प्रिये, अनुकूलमुचितं
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम्।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम्॥क्षण०॥४॥
अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम्।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम्॥ क्षण ०॥५॥
________________________________________________________________________________________________
किमिव। वदनसुधानिधिरिव तस्माद्गलितममृतमिव। तव विरहेण तापिताहं कथं वदिष्यामीत्याशङ्क्याह— तत्र परस्परमुपमानोपमेय-भावः। दुकूलमिव विरहमपनयामि विरहमिव दुकूलमपनयामि। किंभूतमुभयम्। उरसि वर्त्तमानम्। पुनः किंभूतमुभयम्। पयोधररोध-कम्। विरहे हि पयोधरौ न वर्द्धेते। दुकूलमपि पयोधरावावृत्य तिष्ठति। अथवा पयोधरो मेघ एव रोधको यस्य विरहस्येति। मेघालोके प्रियः समेत्य विरहं रुणद्धीत्युक्तिलेशः॥ ३॥ अपि च। प्रियेति। हे राधे, मदुरसि कुचकलशं विनिवेशय। अत एव मनसिजतापं शोषय। कलशे संनिहिते तापो यात्येव। किंभूतं कुचकलशम्। पुलकितं रोमाञ्चितम्। पुनः किंभूतम्। अतीव दुःखेनावाप्यते त्वदनुग्रहं विना। पुनः किंभूतम्। प्रियपरिरम्भणाय रभसेन औत्सुक्येन वलितं संभक्तमिव॥४॥ अपि च। अधरेति। हे भामिनि प्रिये, चरणपरिचरण-परेऽपि कोपं मुञ्च।मानापनोदाय संबोध्यते। हे कोपने, अधरसुधारसमुपनय अर्पय। अधरवक्रसंयोगं कुरुष्वेत्यर्थः। मां दासं त्वदधरा-मृतपिपासुतया मृतमिव जीवयेत्यर्थः। अमृतपानं हि मृतं जीवयति। दासो हि अनुपेक्षणीयो भवति। किंभूतं माम्। त्वयि विनिहितमनसं आरोपितमानसम्। अत एव विरहानलेन दग्धं वपुर्यस्य।
__________________________________________________________________________________________________________
वचनं रचय। कीदृशम्। वदनमेव सुधानिधिश्चन्द्रस्तस्माद्गलितं च्युतम्। अतस्त्वत्प्रणयवाक्यम्। अथ चाप्युरसि हृदये दुकूलं पट्टवस्त्रमप-नयामि। कीदृशम्। पयोधरयो रोधकं तिरोधायकम्। कमिव। विरहमिव। यथा मद्विरहो मयापनीतस्तक्ष्य दुकूलमफ्नयामीत्यर्थः। विरह-पक्षे पयोधररोधकं स्तनाश्लेषप्रतिरोधकम्॥३॥ प्रिवेति। हे राधे, मदुरसि कुचकलशं विनिवेशय अर्पय। कीदृशम्। अतिदुरवापमति-दुर्लभम्। पुनः कीदृशम्। पुलकितं रोमाञ्चितम्। अत्र हेतुमुत्प्रेक्षयति— प्रियपरिरम्भणरभसवलितमिव प्रियस्य परिरम्भणे आलिङ्गने यो रभस उत्साहस्तेन वलितमिव युक्तमिव। अपरोऽपि यो हर्षयुक्तो भवति तस्य रोमाञ्चो भवत्येवेति ध्वनितम्। तेनालिङ्गनेन मनसिजतापं कामजन्यं संतापं शोषय नाशय॥४॥ अधरेति। हे भामिनि, अधरसुधाधरमधर संबन्ध्यमृतरसमुपनय वितर। दासं मादृशमनुगतं जीवय। कीदृशं मृतमिव। अन्योऽपि मृतोऽमृतपानेन जीवतीति ध्वनिः। सृतत्वे हेतुमाह—त्वयीति। त्वयि विनिहितमनसं त्वय्यर्पितचि-त्तम्। पुनः कीदृशम्। विरहानलेन त्वद्विरहरूपेणाग्निना दग्धं वपुर्यस्य तम्। अत एवाविलासं विलासरहितम्। अन्योऽपि यो मृतो भवति स निश्चेष्टो दग्धदेहश्च भवतीति ध्वनिः॥
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम्।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम्॥क्षण०॥६॥
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम्।
लज्जितमिव115 नयनं तव विरमति सृजसि वृथा रतिखेदम्॥ क्षण ०७॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम्।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम्॥क्षण०॥८॥
________________________________________________________________________________________________
अत एव च न विद्यन्ते विलासा यस्य॥ ५॥ अपि च। शशिमुखीति। हे शशिमुखि, मणिरशनागुणं मुखरय वाचालं कुरु। किंभूतं मणि-रशनागुणम्। अनुगुणकण्ठनिनादम्। अनुगुणोऽनुरूपः। अर्थादेव त्वदीयकण्ठस्य निनादो यस्य। अत एव मम श्रुतियुगले चिरात्त्वद-सङ्गमावर्त्तमानमवसादं खेदं शमय। किंभूते श्रुतियुगले । तव विरहे पिकरुतेन विकलीकृते। विरहिणो हि पिकरुतं दुःश्रवं भवतीति॥६॥ अपि च। मामिति। हे राधे, इदं तव नयनमधुना अवलोकितुम्। अर्थान्मां लज्जितमिव विरमति। किंभूतं नयनम्। मामभिलक्ष्य विफल-म्। विफलरुषा निरर्थकरोषेण विकलीकृतम्। अविकलं विकलं कृतमिति विकलीकृतम्। अत एव वृथा रतिखेदं सृजसि। अथवा विसृ-जेति पाठान्तरम्। तत्र वृथा निरर्थकम्। विसृज मुञ्च॥७॥ श्रीजयदेवेति। इदमनुपमो निगदितो मधुरिपोर्मोदो यत्र येन वा। तद्रसिक-जनेषु मनोरमो यो रतिरसो रतिरागस्तस्य भावस्तत्ता स्थैर्ये तस्य विनोदं कौतुकं जनयतु। किंभूतमिदम्। श्रीजयदेवभणितम्॥ पदानां दशकं यत्र ताले वर्णयतौ भवेत्। ध्रुवः प्रतिपदं गेयः कविनामाङ्कितात्पदात्। गीत्वालापान्यथाशब्दं प्रतिताले ततः परम्। पाटास्तेनाः स्वराश्चैव शृङ्गारो रस उत्तमः॥ देवशाखाभिधो रागः प्रबन्धे संप्रदृश्यते। श्रीविद्याधरलीलाख्यः श्रीपतिप्रीति-
__________________________________________________________________________________________________________
॥५॥ शशिमुखीति— हे शशिमुखि चन्द्रवदने, मणिरशनागुणं मणियुक्तकाञ्चीदाम मुखरय सशब्दं कुरु। अनेन हंसलीलाख्यं विप-रीतरतं भजस्वेति ध्वनितम्। तल्लक्षणं चोक्तं प्राक्। कीदृशं रशनागुणम्। अनुगुणं कण्ठनिनादः कण्ठशब्दो यस्य तादृशम्। रशनागु-णानुकारिकण्ठशब्दं च कुर्वित्यर्थः। अनेन शब्देन मम श्रुतियुगले श्रोत्रयुग्मे चिरादवसादं चिरकालीनमुपतापं शमय नाशय। कीदृशे पिकरुतेन कोकिलशब्देन विकले दुःखिते॥६॥ मामिति। हे राधे, मामवलोकितुं तव नयनं मीलति मुद्रां प्राप्नोति। किमिव। लज्जित-मिव। मां कीदृशम्। अतिविफलरुषा अतिनिष्फलेन रोषेण विफलीकृतं विफलतां नीतम्। अधुनेदानीं नयनमीलने विरम विरक्ता भव। निष्फलरोषादित्यर्थात्॥७॥ श्रीजयदेवेति। इदं श्रीजयदेवभणितं जयदेवेन कथितं रसिकजनेषु मनोरमरतिरसभावविनोदं रतिः भोगः रसः शृङ्गाररसो भावाः संचारिसात्विकादयस्तेषां मनोरमं विनोदं कौतुकं जनयतु। कीदृशं भणितम्।
प्रत्यूहः पुलकाङ्कुरेण निबिडा श्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः116।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू-
दुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः॥२॥
दोर्भ्यो संयमितः पयोधरभरेणापीडितः पाणिजै-
राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः।
________________________________________________________________________________________________
कारकः॥ इति मधुरिपुमोदविद्याधरलीला नाम त्रयोविंशः प्रबन्धः॥ ८॥ इदानीं सुरतारम्भं विवर्णयिषुराह - प्रत्यूह इति। तयो राधामाध-वयोः स चिरं काङ्क्षितः सुरतारम्भ उद्भूतः प्रवृद्धः सन् प्रियंभावुको बभूव। स कः। यस्मिन्सुरतारम्भे निबिडाश्लेषे दृढतरालिङ्गने पुल-काङ्कुरेण रोमाञ्चमात्रेणापि प्रत्यूहोऽभूत्। अङ्कुरग्रहणं तन्मात्रमपि आलिङ्गनान्तरायज्ञापनार्थम्। आश्लेषारम्भोऽपि सात्विको रोमा-ञ्चऽभूदिति युज्यते। अपि च। यस्मिन्क्रीडाकृतविलोकितेऽपि निमिषेण प्रत्यूहोऽभूत्। विलोकितं निमेषितमात्रस्याप्यसहमभूत्। अनु च। अङ्गादङ्गान्तरसौन्दर्यदिदृक्षालोलं नेत्रं नैकत्राप्यवयवे धृतिं बधानेति व्यज्यते। अधरसुधापाने कामकथाक्रीडनमन्तरायो जातः। अधर-पाने प्रियालापो न सोढः। अतिशयेनाधरं पातुमिच्छो रतिप्रियालापः कोऽपि तस्मादप्यधिकरुचिर इति व्यज्यते। अपि च कामकलासु युद्ध इव युद्धे करणात्करणान्तरारम्भे आनन्दाधिगमेनापि अन्तरायो यथा कामजननाकाङ्क्षापि शिथिला भवेदिति वाच्यार्थः। कामोत्पत्तौ संजायमानायामत्यमनस्कत्वाय तत्प्रतिबन्धककारणान्तरमारब्धमिति व्यङ्गयोऽर्थः। अत एव प्रवृद्धत्वमुचितम्। शार्दूलविक्रीडितं वृत्तम्। यथासंख्यमलंकारः। संभोगाख्यः शृङ्गारो रसः॥ जयमङ्गलतालेन ‘पद्यं शृङ्गारनिर्भरम्। गीताः पाटाः स्वरास्तेना उच्यन्ते यत्र रूपके॥ देवशाखाभिधे रागे सुरतारम्भनामतः। चन्द्रहासप्रबन्धोऽयं प्रबन्धः प्रीतिकृद्धरेः॥ इति सुरतारम्भचन्द्रहासनामा चतुर्विंशः प्रबन्धः॥ २॥ तदेव विवृणोति—दोर्भ्यामिति। यद्यस्मात्कारणादेतावत्यपि व्यतिकरे कान्तः कृष्णः कामपि वाचामगोचरे वर्त्तमानां तृप्तिमाप
__________________________________________________________________________________________________________
अनुपदं निगदितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशम्॥ ८॥ प्रत्यूह इति। तयो राधामाधवयोः स लोकोत्तरो ललितारम्भो ललितो मनोहर आरम्भो यस्यैतादृशः शृङ्गारक्रीडाविशेष उद्भूत उद्भटः प्रियंभावुको बभूव प्रियो बभूव। स क इत्यत आह— प्रत्यूह इत्यादि। यस्मिल्ँललितारम्भे निविडाश्लेषे कर्तव्ये पुलकाङ्कुरेण रोमाञ्चोद्रमेन प्रत्यूहो विघ्नोऽभूत्। अथच क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्वकमभिप्रायपूर्वकं विलोकितं तत्र निमेषेण नेत्रस्पन्दनेन प्रत्यूहोऽभूत्। अथ च अधरसुधापानेऽधरामृतपाने कर्तव्ये कथान-र्मभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत्। अथ च मन्मथयुद्धे सुरते आनन्दाधिगमेन आनन्दप्राप्त्या प्रत्यूहोऽभूत्॥२॥ दोर्भ्यांमिति—दोर्भ्यां बाहुभ्यामर्थाद्राधया संयमितो बद्धः। अथ च तयैव पयोधरभरेण पीडितः। अथ च
हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः॥ ३॥
वामाङ्के117 रतिकेलिसंकुलरणारम्भे तया साहस-
प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्संभ्रमात्।
________________________________________________________________________________________________
तत्तस्मादहो कामस्य वामा लोकपथातीता गतिश्चेष्टितम्। अत्र कमितुमिष्ट इति कान्तशब्द औचितीमावहति। यतो दुःखिवद्भवने प्रीतिमा-पेति। किंभूतः कान्तः। दोर्भ्यां संयमितो बन्धनं प्रापितः। अनु च पयोधरभरेणापीडितः। आसामस्त्येन पीडामापितः। अनु च पाणिजैर्न-स्वैराविद्धः। अनु च दशनैश्च क्षतमधरपुटं यस्य। तथा श्रोणीतटेनाहतस्ताडितः। अपि च कचे हस्तेन संगृहीत्वानमितः। अपि च अधर-मधुस्यन्देनाधरमधुपानेन निमित्तेन संमोहनं प्रापितः। अहो इत्याश्चर्ये। कामस्य वामा गतिः। वामत्वं रसान्तराविर्भावात्। वीररसमाश्रित्य कृतापराधः स क्रमेण संयमनापीडनावेधक्षताहत्यवनमनसंमोहनानि प्रापितः कामपि तृप्तिमाप। अपि तु स्थिरोत्साहः सन् कामयुद्धान्न विररामेति न कामपीत्यर्थः। अतो वामा गतिः। अत्र विरोधः। यस्तु कमितुमिष्टः तस्मिन्कथं संयमनादयो योज्यन्ते। संयमनादिभिश्च शृङ्गा-रानुभावेषु आलिङ्गनादिषु द्योतितेषु कामपि निरतिशयां प्रीतिमापेति विरोधपरिहारः। अथवा कामस्य वामा इति रामैव गतिः रामानिष्ठैव गतिः। यदेवं व्यतिकरेऽप्युद्रिको भवति। शार्दूलविक्रीडितम्। अत्र वाक्यार्थस्य प्राधान्याद्रसस्य च संकीर्णत्वेनाङ्गत्त्वाद्रसवदलंकारता॥ विजयानन्दतालेन गौडीरागे विरच्यते। पद्यं पाटाः स्वरास्तेना लीला नायकसंभवाः॥ शृङ्गारकैशिकीरीतिः कामतृप्तिपुरःसरः। कामिनी-हासनामायं प्रबन्धः परिकीर्तितः॥ इति कामतृप्तिकामिनीहासनामा पश्चविंशतितमः प्रबन्धः॥ ३॥ तदुक्तं तदेव वीरसंवलितं शृङ्गारं विवृ-ण्वन्नाह— **वामाङ्क इति।**अयं श्लोकः पूर्व वाक्यशेषत्वेन योजनीयः। तदेत्यन्वयः। रतिकेलिसंकुलरणारम्भे वामाङ्के वर्त्तमानया राधया संभ्रमात्स्मरसमराभिनिवेशात्संयमनादिभ्य उपरि कान्तजयाय यत्किंचित्समरसंपल्लम्पटभटयोग्यसाहसप्रायं बालाजनायोग्यं प्रारम्भि येन जघनस्थली निष्पन्दा इति चलितुमशक्तिः। अपि च दोर्वलिः शिथिलिता इति प्रहा-
__________________________________________________________________________________________________________
तया पाणिजैर्नस्वैराविद्धस्ताडितः। अथ च तया दशनैः क्षताधरपुटः क्षतो दष्टोऽधरपुटो यस्य तादृशः कृतः। अथ च तया श्रोणितटेन नित-म्बेनाहत आस्फालितः। अथ च तया हस्तेनानमितः कचे केशे धृत्वेत्यर्थात्। ततोऽधरमधुस्यन्दनेन संमोहितः। एवंविशिष्टोऽपि कान्तः कामप्यनिर्वचनीयां तृप्तिमाप प्राप। तदहो इत्याश्चर्ये कामस्य वामा विरुद्धा गतिः। यस्य बन्धनादि क्रियते स प्रीतिं न प्राप्नोति। अयं तु तादृशोऽपि प्रीतिमाप। कामस्य विरुद्धैव रीतिरिति भावः॥३॥ माराङ्क इत्यादि। माराङ्के मारस्य चिन्हे। युद्धपक्षे मारस्याङ्के चिन्हे रति-केलिसंकुलरणारम्भे रतिकेलिभिश्चुम्बनालिङ्गननानाबन्धादिरूपाभिः संकुले व्याप्ते रणारम्भे कामयुद्धारम्भे तया राधया साह-
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति॥४॥
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्घौतो118ऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-
रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम्119॥ ५॥
________________________________________________________________________________________________
राक्षमता। अपि च वक्ष उत्कम्पितं हृदि कम्पो जातः। अपि च। अक्षि मीलितं दर्शनेऽशक्तं जातम्। अत्रार्थे वृद्धसंमतिमाह— स्त्रीणा-मबलानां पौरुषरसो वीररसः कुतः सिध्यति। अपि तु न कुतोऽपि। केलौ वामाङ्के ललनाया दक्षिणाङ्गस्थपुंसः भानुनाडीसंबन्धात्सुर-तान्तकारी कामोद्भवो भवतीति वात्स्यायनमतवेदिनां मतम्। तस्मिंश्च ललनानामेवं चेष्टाः प्रसिद्धाः। अथवा रतारम्भादुपरि इति योजना। इदमेव वाक्यं निरपेक्षं व्याख्येयम्। अत्र दोष्णोर्वल्लित्वेन विशेषणं शैथिल्येन औचितीमावहति। अत्र ‘विशेषोक्तिरखण्डेषु कारणेषु फलावचः। ‘इति विशेषोक्तिरलंकारः। संभोगाख्यः शृङ्गारों रसः। कुतः सिध्यतीत्यनेन समरसकरणं व्यज्यते। गीत्यादि प्रसिद्धम्॥ जयश्रीसंज्ञतालेन पद्यं पाटाः स्वरास्तथा। स्तेनाश्च यत्र बध्यन्ते संभोगे रस उत्तमे। रागे कर्प्पटबङ्गाले स पौरुषरसात्परः। प्रेम्णा विला-सनामायं प्रबन्धो माधव प्रियः॥ इति पौरुषरसप्रेमविलासनामा षड्विंशः प्रबन्धः॥४॥ इदानीं संभोगसंतुष्ट्योत्सर्गसमाप्तेः संभोगान्ते लीलामाह— तस्या इति। एभिः पश्चभिः कामशरैः पत्युः श्रीकृष्णस्य मनः कीलितम्। तदेतदद्भुतमाश्चर्यकारि अभूत्। किंभूतैः काम-शरैः। इत्यनेन प्रकारेण प्रातर्दृशोर्निमित्तैः खातैः। बाणास्तु
__________________________________________________________________________________________________________
सप्रायं साहसबहुलं कान्तजयाय तदुपरि तस्य कान्तस्योपरि किंचिल्लोकोत्तरं प्रारम्भि पुरुषायितमारब्धम्। यत्संभ्रमात्संवेगात्तस्या राधि-काया जघनस्थली निष्पन्दा निश्चला जाता। दोर्वल्लिर्बाहुलता शिथिलिता शिथिलीभूता। वक्षो हृदयमुत्कम्पितम्। अक्षि मुद्रितम्। ततः स्त्रीणां पौरुषरसः पराक्रमाभिलाषः कथं सिध्यति। अपि तु न सिध्यत्वेवेत्यर्थः। ‘मासे मृतौ विषेऽनङ्गे’ इति विश्वः। ‘समौ संवेगसंभ्रमौ’ इत्यमरः॥४॥ तस्या इति। एतैः कामशरैः पत्युर्दृशोर्लोचनयोः प्रातर्निखातैर्मनः कीलितं विद्धम्। इत्यद्भुतमाश्चर्यम्। अन्यत्र निखातैर्बाणै-रन्यत्कीलितमित्याश्चर्यमित्यर्थः। कैः। कामशरैः। तस्या राधायाः पाटलेन श्वेतरक्तेन पाणिजेन नखेनाङ्कितमुरः। निद्राकषाये निद्रया
व्याकोशः120 केशपाशस्तरलितमलकैः स्वेदमोक्षौ121 कपोलौ
क्लिष्टाबिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः।
काञ्ची कान्तिर्हताशा स्तनजघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्ती122 सत्रपा सा तदपि विलुलिता मुग्धकान्ति123र्धिनोति॥६॥
______________________________________________________________________________________________________
दृशोर्लग्नामास्तैर्विद्धं मन इत्येतदद्भुतम्। कोऽर्थः। प्रातः प्रियायामेतानि दृष्ट्वा पुनर्नव इव कामः संजात इत्यर्थः। तान्येव च कामबाण-पञ्चकव्याजेन वस्तून्यपदिशति। तस्मा राधाया उरो हृदयं पाटला ये पाणिजास्तैरङ्कितं दृष्ट्वा। अनेन पाटलापुष्पं स्मरबाण उक्तः। अपि च निद्रया कषाये कलुषिते दृशौ दृष्ट्वा। अनेन कमलाख्यः पुष्पबाणोऽभाणि। अपि च निर्धौतोऽधरशोणिमा। तं दृष्ट्वा। अनेन बन्धुजीव-पुष्पं स्मरशरोऽगादि। अपि च विलुलितस्रस्तस्रजो मूर्द्धजाः। तानपि दृष्ट्वा। स्रस्ता स्रग्येभ्यस्ते तथा। विलुलिताश्च ते स्त्रस्तस्त्रजश्च। अनेन मालतीदाम मीनकेतनेषुरुद्दिष्टः। अपि च दरश्लयाञ्चलमीषच्छ्लथप्रान्तं काञ्चिदाम मेखलादाम दृष्ट्वा। अनेन सुवर्णजात्यादिपीतकुसुमैः कुसुमास्त्रशरो वर्णितः। एतानि दृष्ट्वा पुनः स्मरपरवशो जात इत्यर्थः। शार्दूलविक्रीडितं वृत्तम्। अत्रापि वाक्यस्यान्यपरत्वाद्रसवद-लंकारता। रसश्चाद्भुतोपबृंहितः शृङ्गार एव॥ यतितालेन तालेन पद्यं पाटखरास्तथा। तेनास्तदन्त आलापः शृङ्गारः प्रेमनिर्भरः। रागो मरुकृतिर्यत्र स प्रबन्धो निगद्यते। कामाद्भुताभिनवता मृगाङ्कलेखाभिधानतः(?)॥ इति कामाद्भुताभिनवमृगाङ्कलेखाभिधः सप्तविंशः प्रबन्धः॥५॥ व्याकोश इति। सा मुग्धकान्तिर्यत एव विलुलिता रतिपरिमर्दिता तथापि कृष्णे धिनोति प्रीणयति। किं कुर्वती। सत्रपा सती सद्यस्तत्कालं स्तनजघनपदं पाणिना आच्छाद्य पश्यन्ती। कथं विलुलितेत्याह–केशपाशः कबरी व्याकोशः शिथिलो जातः। अपि च। अलकैश्चूर्णकुन्तलैस्तरलितमितस्ततो गतम्। कपोलौ स्वेदमोक्षौ जातौ। अनु च बिम्बाधरकान्तिः क्लिष्टा जाता। अनु च हारयष्टिः कुचकलशरुचा हारिता कुतोऽपि नाशिता। अनेन कश्चुकाभावाद्धारयष्टिः शरीरशोभयैव निगीर्णा। अपि च काञ्चि कान्तिर्हृताशा जाता। इयमपि वस्त्राभावात्तद्देशशोभयैव लुप्ता। निरलंकरणापि सर्वातिशायिन्या शरीरशोभयैव पत्युर्मनो
________________________________________________________________________________________________________________
कषाये ते दृशौ लोचने वा। निर्धौताधरशोणिमा निर्धौतश्चुम्बनादिना क्षालितो योऽधरस्य शोणिमा लौहित्यम्। मूर्द्धजाः केशाश्च कीदृशाः। विलुलितस्रजो विलुलिताः केशग्रहणपूर्वकचुम्बनादिदानेन म्लानाः। अत एव स्रस्ताः शिथिलाः स्रजः पुष्पमाला येषु तादृशाः। काञ्चीदाम च मेखलासूत्रं च दरश्लथाश्वलं दरमीषच्छ्लथं शिथिकमञ्चलं वस्त्रप्रान्तं च॥ ५॥ (अत्र ’ व्याकोश’ इत्यादि तथा ’ ईषन्मीलित’ इत्यादि श्लोक-
ईषन्मीलितदृष्टि मुग्धविलस124त्सीत्कारधारावशा-
दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम्।
शान्तस्तब्ध125पयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो
हर्षोत्कर्षविमुक्तिनिःसहतनोर्धन्यो धयत्याननम्॥ ७॥
अ126थसहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी।
राधा जगाद सादरमिदमानन्देन गोविन्दम्॥ ८॥
_____________________________________________________________________________________
हारिण्यभूदित्यर्थः। स्रग्धरावृत्तम्। ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्॥ ६॥ इदानीमन्यापदेशेनात्मानं धन्यमिति ध्वनयति— ईषन्मीलितेति। हर्षोत्कर्षविमुक्तनिःसहतनोः हर्षोत्कर्षेण नानारतजनितानन्दातिशयेन विमुक्ताश्लेषत्वेन निर्व्यापारा निःसहा च कामावेशवशादन्यव्यापारासहा तनुर्यस्याः। एतावता सुरतमनु श्रान्ततनोर्मृगलोचनाया धन्य एव मुखं धयति पिबति नाकृत-पुण्यकर्मा। कथं यथा स्यात्। भृशपरिष्वङ्गाद्दृढालिङ्गनाच्छान्तस्तब्धपयोधरं शान्तौ विपुलकौ स्तब्धौ कठिनौ किंचिदानतौ पयोधरौ यस्मिन्कर्मणि तद्यथा स्यात्। एतावता सुरतान्ते नितान्तं कान्तं तन्मुखं दृष्ट्वा पुनरालिङ्ग्याधरपाने स्पृहाभवदित्यर्थः। किंभूतमाननम्। ईषन्मीलितदृष्टि किंचिन्मुकुलिते दृष्टी यत्र। किंभूतमाननम्। मुग्धं मनोहरं यथा स्यात्तथा विलसन्त्यो याः सीत्कृतानां धाराः श्रेणयस्त-द्वशादव्यक्ता आकुलाश्च सुरतक्रीडायां या काकवो ध्वनिविकारास्तासु विकसन्तो ये दन्तांशवस्तैर्धौतोऽधरो यत्र तत्तथा। कस्माद्दृढा-लिङ्गनवशात्। एतेन वृक्षाधिरूढकमित्यालिङ्गनमुक्तम्। तल्लक्षणम्– ‘चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती च तत्पृष्टासक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रवृत्तान्तःश्वसितसीत्कृतकूजिता चुम्बनार्थमधिरोढुमिच्छेदिति वृक्षाधिरूढम्’। तच्च घटितमिति चुम्बनविशेषः। ईषत्प्रगृह्य निमीलितनयनावच्छादयन्तीति घट्टितं नाम’। एतच्च तदालिङ्गनतोषेण आत्मनि धन्यत्वमारोप्य स्वात्मगतार्थचिन्तनपरं पद्यम्। शार्दूलविक्रीडितं वृत्तम्। जातिरलंकारः। पाञ्चाली रीतिः। मागधी गीतिः। भारती वृत्तिः। स्थितलयं गान-म्॥७॥ अथानन्तरं तयोः परस्परानन्दसंदोहरूपसुरतावसाने राधा गोविन्दमानन्दयतीत्युत्तरकृत्यानि प्रति प्रोत्साहयन्ती जगाद—अथ सहसेति। अथ राधा आनन्देन उपलक्षितं गोविन्दमिदं वक्ष्यमाणं सादरं जगाद। किंभूतं गोविन्दम्। सहसा वेगेन
_______________________________________________________________________________________________________________
द्वयस्य टीका नोपलब्धादर्शपुस्तके॥६॥७॥ अथेति। अथानन्तरं राधा कान्तं कृष्णं मण्डनवाञ्छया निजगाद। कीदृशं कान्तम्। रतिश्रा-न्तमपि रतिखिन्नचित्तमपि।
रामकरीरागयतितालाभ्यां गीयते॥ प्र० २४॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे॥ १॥
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने॥ ध्रुवम् ॥
अलिकुलगञ्जनमञ्जनकं127 रतिनायकसायकमोचने
त्वदधरचुम्बनलम्बितकज्जल उज्ज्वलय128 प्रिय लोचने। निज०॥
______________________________________________________________________________________________________
सुप्रीतम्। प्रीतिपरे हि नाथे विज्ञप्तिः सिद्धिमेतीति नीतिविदः। अथ सह हासेन वर्त्तत इति राधाविशेषणमानन्देनेति वचने हेतुः। किंलक्षणा राधा। संभोगावसाने नितान्तमतिशयेन खेदं प्राप्तमङ्गं यस्याः सा तथा। इयं पथ्या आर्या छन्दः॥८॥ अत्रान्वयसौकर्यार्थं पूर्वं ध्रुवपदं व्याक्रियते॥ निजगादेति। सा राधा वक्ष्यमाणं प्रोवाच। क्व सति यदुनन्दने क्रीडां कुर्वति सति। किंभूते। हृदयानन्दकारिणि। इति ध्रुवः॥ अथ पदानि। कुरु यद्विति। हे यदुनन्दन, अत्र स्तनकलशे चन्दनवच्छीतलतरेण करेण कस्तूरिकया पत्रावल्यादि रचय। किंभूते कुचकलशे। कामस्य जगज्जयार्थमङ्गलकलशसदृशे। मङ्गलार्थकलशो हि पयः पूर्णो भवति सुनीलाम्रपल्लवैरुपचितश्च। एवमत्र पयोधरस्यौचिती। अनेन मयूरपदकं नाम नखरक्षतं व्यज्यते। यथा चाह वात्स्यायनः— ‘नान्यत्पटुतरं किंचिद्रागस्यास्ति विवर्द्धनम्। नखदन्तसमुत्थानां कर्मणां गतयो यथा’॥ इति॥१॥ अपि च। अलिकुलेति। हे प्रिय, लोचने पुनर्नूतनकज्जललेखां कुरु। किंभूतमञ्ज-नकम्। भ्रमरसमूहस्य तिरस्कारकम्। किंभूते लोचने। कामबाणानां मोचन इति कटाक्षविक्षेपैरुपलक्षिते। पुनः किंभूते। त्वदधरचुम्बनेन लम्बितं प्रसृतं कज्जलं यत्र। अनेन रागसंधुक्षणार्थं नयनयोश्चुम्बनमुक्तम्॥ २॥
________________________________________________________________________________________________________________
कीदृशी राधा निर्गता बाधा पीडा यस्याः सा। पुनः कीदृशी। स्वाधीनभर्तृका। तल्लक्षणं शृङ्गारतिलके—‘यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति। विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा॥’ इति॥ ८॥ तदेव गीतेन कथयति। कुर्वित्यादि— गीतस्यास्य रामकरीरागो यति-तालः। गीतार्थस्तु— सा राधा यदुनन्दने निजगाद उक्तवती। कीदृशे यदुनन्दने। क्रीडति। पुनः कीदृशे। हृदयानन्दजनके। किं निजगा-देत्याह—कुर्विति। हे यदुनन्दन कृष्ण, अत्र मृष्टाङ्गरागे मम पयोधरे स्तने करेण मृगमदपत्रकं कस्तूरिकावलिं कुरु। कीदृशेन करेण। चन्दनशिशिरतरेण चन्दनादपि शीतलेन। कीदृशे पयोधरे। मनोभवस्य कामस्य यो मङ्गलकलशो माङ्गल्याय स्थापितः पूर्णकुम्भस्तस्य सहोदरे सदृशे॥ १॥ अलिकुलेति। हे प्रिय, लोचने नेत्रे त्वदधराभ्यां यच्चुम्बनं तेन लम्बितं गलितं यत्कज्जलं तदुज्ज्वलय पुनर्दीपय। नयनयोः कज्जलं पुनर्मसेत्यर्थः। कीदृशे लोचने। रतिनायकस्य कामस्य सायकान्बाणान्कटाक्षरूपान्मुञ्चतीति रतिनायकसायकमोचनं तस्मिन्। कीदृशं कज्जलम्। अलिकुलस्य भ्रमरसमूहस्य यद्गञ्जनं
नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले।
मनसिजपाशबिलासधरे शुभवेश निवेशय कुण्डले। निज०॥३॥
भ्रमरचयं रच्चयन्तमुपरि रुचिरं सुचिरं मम संमुखे।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे। निज०॥४॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे। निज० ॥५॥
__________________________________________________________________________________________
अपि च। नयनेति। शुभो वेशो नेपथ्यविशेषो यस्येति हे शुभवेश, श्रुतिमण्डले कुण्डले निवेशय। किंभूते श्रुतिमण्डले। नयनयोस्तरङ्गा निरीक्षणविशेषा वृद्ध्युपचयास्त एव कुरङ्गविलासास्तेषां निरासं करोतीति। पुनः किंभूते। मनसिजस्य युवमनोबन्धनार्थं पाशशोभाभृति। अनेन नेत्रयोः श्रुतिगामिता उक्ता॥ ३॥ अपि च। भ्रमरचयमिति। हे यदुनन्दनेत्यनुषञ्जनीयम्। मम मुखेऽलकं परिकर्मय अलकानां प्रसाधनं कुरु। किंविशिष्टे मुखे। जितकमले पद्मसदृशे। पुनः किंभूते। विमले। पुनः किंभूते। प्रसादवति। किंभूतमलकम्। नर्मपरिहास-वचनजनकम्। अलकभ्रमरपङ्क्या मुखं पद्ममित्युत्प्रेक्षितम्। इति उत्प्रेक्षालंकारः॥ ४॥ अपि च। मृगमदेति। हे कमलवदन, मम अलिकरजनीकरे ललाटचन्द्रमसि ललितं मनोहरं तिलकं कुरु। किंभूतं तिलकम्। कस्तूरिकारसेन संभक्तम्। किंभूतम्। विहिता आरो-पिता कलङ्कस्य कला येन। एतेन
____________________________________________________________________________________________________
तिरस्कारस्तस्य जनकम्। ‘उज्ज्वलो दीप्तिशृङ्गारविशदेषु विकाशिनि।’ इति विश्वः॥ २॥ नयनकुरङ्गेति। हे शुभवेश॥ शुभः शोभनो वैशोऽलंकरणं यस्य तादृश। मम श्रुतिमण्डले कर्णप्रदेशे कुण्डले विनिवेशय अर्पय। कीदृशे श्रुतिमण्डले। नयने एव यौ कुरङ्गौ मृगौ। अतिवेगवत्त्वात्। तयोस्तरङ्गस्य यो विकासः प्रसरणं तस्य निरासकरे निरासकारिणि नयनयोर्दैर्घ्यवियोगकारिणि। अन्यथा कियद्दूरं तयोर्वृद्धिः स्यादित्यर्थः। पुनः कीदृशे श्रुतिमण्डले। मनसिजस्य कामस्य यः पाशोऽस्त्रविशेषस्तस्य विलासधरे तल्लीलाभृति ॥३॥ भ्रमर-चयमिति। मम संमुखे मुखे रुचिरं मनोहरमलकं चूर्णकुन्तलं परिकर्मय भूषय। कीदृशमलकम्। नर्मजनकम्। कीदृशे मुखे। विमले निर्मले। पुनः कीदृशे। जितकमले जितं तिरस्कृतं निजशोभया कमलं येन तादृशे। कीदृशमलकम्। सुचिरं चिरादुपरि मुखस्योपरि भ्रमरचयं भ्रमरसमूहं रचयन्तम्। स्वकान्त्या भ्रमरभ्रमं जनयन्तमित्यर्थः॥ ४॥ मृगमदेति। हे कमलनयन पद्ममुख, अलिकरजनीकरे अलिकं ललाटमेव रजनीकरश्चन्द्रस्तस्मिन्। तिलकं कुरु। कीदृशं तिलकम्। मृगमदरसवलितं मृगमदरसेन कस्तूरीरसेन वलितं निर्मित-म्। पुनः कीदृशं तिलकम्। विहितकलङ्ककलम्। विहिता कलङ्कस्य लान्छनस्य कला शोभा येन तादृशम्। अत्र कमलाननेति विशेषणेन आननरूपकमलविरोधिन्यलिकरूपरजनीकरे मृगमदतिलकच्छलेन कलङ्कदानमुचितमेवेति ध्वनितम्। कीदृशे अलिके। विश्रमितश्रम-शीकरे विश्रमितो विश्रामं प्रापितो यः श्रमस्तज्जनितः शीकरोऽम्बुकणो यत्र तादृशेऽलिके। अत्र विश्रमितेत्यनेन
मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे। निज़० ६॥
सरसघने जघने मम शम्बरदारणवारणकन्दरे।
मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे। निज०७॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने।
हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने॥ निज०॥८॥
__________________________________________________________________________________________
अलिकमष्टमीचन्द्रेणोपमीयते, कस्तूरीविशेषकं कलङ्केनेत्युपमालंकारः। किंभूते मुखे। विश्रमिताः शान्तिमिताः श्रमजलकणा यत्र। एतेन पुनरुद्दीपनविभावाः सूचिता भवन्तीति॥ ५॥ अपि च। मम रुचिर इति। हे मानद मानिनीमानखण्डन, अथ च हे पूजाप्रद, मम चिकुरे कुसुमानि कुरु। किंभूते चिकुरे। रुचिरे रुचिप्रदे। पुनः किंभूते। मनिसजः कामस्तस्य ध्वजः। तत्र चामरवच्चामरस्तस्मिन्। पुनः किंभूते। संभोगेन लुलिते विसंकुले। पुनः किंभूते। मनोहरे। पुनः किंभूते। शिखण्डिनो मयूरस्य शिखण्डकं बर्हसारः। तस्य डामरे भयदे। जेतरीत्यर्थः। रासकच्छन्दः॥६॥ अपि च। सरसघन इति। हे शुभाशय शोभनहृदय। अथ शुभ आ सामस्त्येन शयः करोयस्य। मणि-रशनादीनां करसाध्यत्वादयमर्थो युक्तः। मम जघने श्रोण्यां मणिमया रसना च वसनानि च आभरणानि च वासय निवेशय। किंविशिष्टे जघने। सरसं च तद्धनं च। स्निग्धसान्द्रे। पुनः किंविशिष्टे। शम्बरदारणः कामः स वारण इव तस्य निवासार्थकन्दर इव कन्दरे। पुनः कीदृशे। सुन्दरे मनोहरे। गजगतीत्यादि अनुकूलो नायकः। प्रगल्भा नायिका। संभोगः शृङ्गारः॥७॥ अपि च। श्रीजयदेवेति। हे यदुन-न्दन। मण्डन इति। मण्डननिमित्तं हृदयं सदयं कुरु। दयापरो भूत्वा मण्डनानि विधेहीत्यर्थः। किंलक्षणे मण्डने। रुचिरे जयदेवपत्नी-सकाशादु-
___________________________________________________________________________________________________
व्यजनवातादिभिस्तनुभूतानां प्रस्वेदबिन्दूनामतिशयिततया हिमकणत्वमाक्षिप्यते। तेन चालिकस्य चन्द्रत्वरूपणं साङ्गं निर्वहतीति ध्वनि-तम्। ‘ललाटमलिकं गोधिः ’ इत्यमरः॥५॥ ममेति। हे मानद, मादृशप्रपन्ननायिकाभिमानप्रद। मम रुचिरे मनोहरे चिकुरे केशे कुसुमा-नि कुरु रचय। कीदृशे चिकुरे। ललिते मनोहरे मनसिजस्य कामस्य ध्वजचामरे पताकाचिह्नभूते चामरे। पुनः कीदृशे। रतिगलिते रतौ सुरतसमये गलिते मुक्तबन्धने। पुनः कीदृशे। शिखण्डिनां मयूराणां शिखण्डस्य पिच्छस्येव डामरे तादृशे॥ ६॥ सरसेति। हे शुभाशय शोभनहृदय। मम सुन्दरे जघने मणिमयीया रसना क्षुद्रघण्टिका वसनं वस्त्रमाभरणान्यलंकरणानि च वासय परिधेहि। कीदृशे जघने। सरसघने सरसे शृङ्गाररससहिते घने निबिडे। पुनः कीदृशे शम्बरं शम्बरनामानं दैत्यं दारयतीति शम्बरदारणः कामः। स एव बारणो हस्ती। महाबलत्वात्। तस्य कन्दरे। अपरोऽपि हस्ती पर्वतकन्दरायां तिष्ठतीति भावः। ‘कुञ्जरो वारणः करी ‘इत्यमरः। ‘दरी तु कन्दरो वा स्त्री’ इति च। वासयेति च ‘वस आच्छादने’ ण्यन्तः॥७॥ श्रीजयदेवेति। हे देव कृष्ण, जय सर्वोत्कर्षेण वर्तस्व। अथ जयदेवस्य
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-
र्घटय जघने काञ्चींमुग्धस्रजा129 कबरीभरम्।
कलय वलयश्रेणीं पाणौ पदे म130णिनूपुरा131-
विति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत्132॥ ९॥
______________________________________________________________________________________________
त्कर्षप्रदे। पुनः किंलक्षणे। श्रीजयदेववचसि विषयभूते। अथवा चशब्दमध्याहृत्य मण्डने जयदेववचसि च हृदयं सदयं कुर्विति व्याख्ये-यम्। अन्यानि पदानि उभयविशेषणत्वेन योजनीयानि। किंलक्षणे वचसि। सहृदयालंकरणे। जयदेववचसि किंविशिष्टे। उस…तस्मिन्। हरिचरणस्मरणमेवामृतं तत्र कृतो यः कलुषज्वरः रोषरूपसंतापः स एव संज्वरः। तस्य खण्डने। हरिचरणस्मरणामृतेन पापखण्डने वचसीत्यर्थः। अथवा हरिचरणस्मरणामृतेन कृतं पापस्य खण्डनं येन वचसा तस्मिंस्तादृशे॥८॥ इदानीमष्टपद्युक्तमेव श्लोकेनावतार-यति— रचयेति। पीताम्बरः श्रीकृष्ण इति राधया निगदितः प्रीतः सन्यथा निगदितं तथा सर्वमकरोत्। अपिशब्दसमुच्चयितं यद्यत्तदभीष्टं तत्तदकरोदित्यपिशब्दार्थः। इतीति किम्। हे यदुनन्दनेत्यनुषङ्गः। कुचयोः पत्रं पत्रवल्ली रचय। अनु च। कपोलयोर्मकरिकादि चित्रं रचय। जघने श्रोण्यां मेखलामारोपय। अनु च। मुग्धस्रजा मनोहरमालया कबरीभरं कलय बन्धय। अनु च। वलयश्रेणीं पाणौ कलय। अनु च। पदे मणिमयनूपुरौ कलय। अत्र यथासंख्यमलंकारः। हरिणीवृत्तम्। प्रगल्भा नायिका। तल्लक्षणम्—’ लब्ध्वा पतिं प्रगल्भा स्यात्समस्तरतकोविदा। आक्रान्तनायका बाढं विराजद्विभ्रमा यथा॥ ‘स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरयुगे हारं पुनर्योजय। इत्युक्त्वा सुरतावसानसुखिता संपूर्णचन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम्॥’ दक्षिणो नायकः। ‘यो
________________________________________________________________________________________________________
कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु। कीदृशे। मण्डने जयदेवस्यालंकारजनके। पुनः कीदृशे। हरिचरणस्मर-णमेव यदमृतं तेन निर्मितं कलिकलुषज्वरस्य कलियुगसंचितपापरूपज्वरस्य खण्डनं नाशनं येन तादृशे॥ ८॥ रच्चयेति। हे कृष्ण, कुचयोः पत्रं मकरिकापत्रं रचय। कपोलयोश्चित्रं चित्रकाख्यं विशेषं कुरु। अथ जघने काचीं त्रुटितां क्षुद्रघण्टिकां घटय अर्पय। कबरीभरे चिकुरसमूहे स्रजं माल्यमचय प्रापय। वलयश्रेणीं कङ्कणपङ्किं पाणौ हस्ते कलय अर्पय। पदे चरणे नूपुरौ मञ्जीरौ कुरु। इत्यनेन प्रकारेण राधया निगदित उक्तः सन्पीताम्बरः कृष्णोऽपि
यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं
यच्छृङ्गारविवेकतत्वरचना133काव्येषु लीलायितम्।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः॥ १०॥
श्रीभोजदेवप्रभवस्य रामादेवी134सुतश्रीजयदेवकस्य।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु॥ ११॥
____________________________________________________________________________________________________________________
गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति। न मुञ्चत्यन्यरक्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा’॥ ९॥ इदानींविद्वत्प्रार्थनाव्याजेन आत्मप्रशंसां तनुते— यगान्धर्वेति। हे सुधियः, जयदेवपण्डितकवेस्तत्सर्वं गीतगोविन्दतः। अत्र तसिल् सार्वविभक्तिकत्वात्सप्तम्यर्थे उपपत्तिः। गीत-गोविन्दे परिशोधयन्तु शुद्धं कुर्वन्तु। अथ गीतगोविन्दादेव शुद्धं जानन्तु। अत्र ‘यद्यपि सङ्घ्यावान्पण्डितः कविः’ इति एकार्थपर्यवसा-यित्वं तथापि ‘विकर्तनस्तमसाम्’ इत्यादिवत्पण्डितेष्वपि कविः क्रान्तदर्शीति विशेषणपरं बोद्धव्यम्। तदिति किम्। यद्गान्धर्वकलासु कौशलम्। गान्धर्वो मार्गदेशीवत्। तस्य कला भङ्गविन्यास्रवैचक्षण्यादिकाः। तत्र कौशलम्। तत्र गान्धर्वस्य स्वपदात्मकत्वेन मार्गक-त्वात्। अत्र संभवित्वेऽपि केवलदेश्यां गन्धर्वशब्दवृत्तिरुपचारवृत्या बोद्धव्येति सुस्थितम्। अनु च यच्च वैष्णवमनुध्यानम्। अनु च चिन्त-नम्। अनु च यच्च शृङ्गारस्य विवेकः संभोगविप्रलम्भत्वेन पृथग्भावस्तस्य तत्त्वं सम्यक्त्वेन निरूपणम्। तस्य रचनाविशेषवन्ति यानि काव्यानि तेषु यल्लीलायितं विलसितमिति यावत्। एतावता माने, विष्णुभक्तौ शृङ्गाररसनिरूपणे च यदेतस्य काव्यकौशलं तत्सानन्दाः सुधियोऽस्मादेव प्रबन्धात्परिशोधयन्तु। किंभूतस्य कवेः। कृष्णे एकतान एकाग्रचित्त आत्मा स्वरूपं यस्य। तथाविधस्येत्यर्थः। शार्दूल-विक्रीडितं वृत्तम्। वैदर्भी रीतिः। आरभटी वृत्तिः॥ १०॥ (अत्र ‘श्रीभोजदेवेति’ श्लोकस्य टीका नोपलब्धा टीकादर्शपुस्तके
______________________________________________________________________________________________________________
तथैवाकरोत्। यथा यथा राधोक्तवती तथैवाकरोदित्यर्थः॥९॥ यद्गान्धर्वेति। हे सुधियः पण्डिताः सन्तो जयदेवकवेः श्रीगीतगोविन्दत-स्तत्सर्वं परिशोधयन्तु जानन्तु। तत्किमित्याह — यद्गान्धर्वकलासु कौशलं नैपुण्यम्। अथ च वैष्णवं विष्णुसंबन्धि यदनुध्यानमनुक्षण-चिन्तनम्। यच्च शृङ्गारविवेकतत्त्वं शृङ्गारस्य शृङ्गाररसस्य यो विवेकः संयोगविप्रलम्भादिरूपेण यद्विवेचनं तस्य भावं यथार्थज्ञानम्। यदपि च काव्येषु कविकर्मसु कवित्वनिर्माणरूपेषु लीलायितम्। तत्सर्वमित्यर्थः। कीदृशस्य जयदेवकवेः। कृष्णैकतानास्मनः कृष्णैक-तानस्तत्पर आत्मा मनो यस्य तादृशस्य। ’ एकतानोऽनन्यवृत्तिः॥१०॥ अधुना पितृमातृनाम निबध्नन्प्रार्थयते सज्जनानिति स्वगुणान्प्रका-शयितुम् — श्रीभोजदेवेत्यादि॥ ११॥
साध्वी माध्वीक चिन्ता न भवति135 भवतः शर्करे कर्कशासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते।
माकन्द क्रन्द कान्ताधर धर136न तुलां गच्छ यच्छन्ति भावं
यावच्छृङ्गारसारं137 शुभमिव जयदेवस्य वैदग्ध्यवाचः138॥१२
_____________________________________________________________________________________
॥ ११॥) इदानीं कविरात्मनः प्रबन्धस्य माधुर्यादिगुणवत्त्वं ख्यापयति साध्वीति। जयदेवस्य वैदग्ध्यवाचः शुभमिव शुभवत्। यावत्सारं यावत्सारस्य संभवः इति यावत्सारम्। यत्र कुत्रापि सारं विद्यते तत्र शृङ्गाररसस्य सारं तत्त्वं ज्ञातुमिच्छन्ति। यथा यत्र कुत्रचिच्छुभं मङ्गलं विद्यते तत्र जगन्मङ्गलं चरितानुवर्णनाद्यथा गन्तुमिच्छन्ति तथाह। तर्हि हे माध्वीक, तवेयं चिन्ता साध्वी न भवति। एतत्सदृशं भवामीति चिन्ता न कार्या। कथम्। त्वयि तथा साराभावात्। तदा भवतु इति पाठान्तरम्। अथ भवतीति पाठपक्षे—हे शर्करे, भवती कर्कशासीति योज्यम्। तद्गवेषणं योग्ये(?) त्वयि सारं नास्त्येव। हे द्राक्षे, त्वं मा भैः। त्वां के द्रक्ष्यन्ति। न केऽपीत्यर्थः। हे अमृत, त्वया नाम्नाऽनेन गर्वो न धार्यः। तदपेक्षया त्वं मृतमसि। हे क्षीररस, रसमहमिति त्वं मा गर्वीः। तव रसो नीरमेव। नितरामीर्यते प्रेर्यत इति नीरम्। हे माकन्द, पक्कसरसफल, त्वं क्रन्द वैकल्यं प्राप्नुहीति किम्। विकलस्य चिन्तामपि ते न करिष्यन्ति। हे कान्ताधर, त्वं ताभिस्तुलां न धर। अहं त्वत्तुल्यो भवामीति मा संप्रतिपद्येथाः। अथ हे कान्ताधर, वैकल्यं न गच्छेत्यर्थः। यतो जयदेवस्य वैदग्ध्यवाचो यावत्सारं यावद्भिः सारैः सह तुलां गन्तुमिच्छन्ति। तर्हि यावत्ता न तुलयन्ति तावद्भवद्भिरेवमुक्तप्रकारेण स्थातव्यम्। किंभूता वाचः। शुभं मङ्गलं शृङ्गारसारमिव। अत्र ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते’ इति न्यायमाश्रित्य प्रबन्धान्ते शुभशब्दोपादानम्। अत्र तिरस्कृतो— पमालंकारः। स्रग्धरा वृत्तम्। आरभटी वृत्तिः। वैदर्भी रीतिः। गुणकीर्तनं नाम नाट्यालंकारः। तल्लक्षणं सङ्गीतराजे— ‘बहूनां गुणिनां यत्र नामार्थजनितैर्गुणैः। एकोऽपदि-
________________________________________________________________________________________________________________
एतत्काव्यविवेचनप्रणयिनां यत्संशयोन्मूलना-
त्पुण्यं यच्च हरिस्मृतौ प्रतिपदव्याख्यासु मे संचितम्।
तेन प्रीतमनास्तनोतु सततं श्रेयो मम श्रीपतिः
शश्वन्मङ्गलमातनोत्वपि सतां संलापतां शृण्वताम्॥
इति श्रीमहामहोपाध्यायदिनेश्वरमिश्रात्मजश्रीमहामहोपाध्यायशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां द्वादशः सर्गः समाप्तिं पफाण॥
<MISSING_FIG href="../books_images/U-IMG-1726501715Screenshot2024-09-02at16-37-17EditBookE-Bharatisampat.png"/>
इत्थं139 केलिततीर्विहृत्य यमुनाकूले समं राधया
तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति।
तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयो-
र्व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदां संपदम्॥१३॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः॥
समाप्तं चेदं काव्यम्॥
______________________________________________________________________________________________________
श्यते तत्तु कीर्तितं गुणकीर्तनम्॥ १२॥ इत्थमिति। पुरुषोत्तमस्य हस्तयोर्व्यापाराः स्फीतां मुर्दा संपदं ददतु। किंविशिष्टयोर्हस्तयोः। तत्र वेण्यामाल्हादो विधत्ते ययोस्ते आह्लादिनी। कुचावेव प्रयागफले वटफले। आह्लादिनी च ते कुचप्रयागफले च आह्लादिकुचप्रयागफले। तयोर्लिप्सां वाञ्छां बिभ्रत इति लिप्साभृतौ। तयोर्लिप्सा भृतोः। किं कृत्वा। इत्थं पूर्वोक्तप्रकारेण स्वाधीनभर्तृकया राधया सह यमुनाकूले क्रीडापरंपरा विहृत्येति स्वेच्छया विधानपराम्। क्व सति। तद्रोमावलिमौक्तिकावलियुगे। तस्या रोमावलिमौक्तिकानामावलिर्हारः। तयो-र्युग्मे। वेण्या इति गङ्गायमुनयोः सङ्गमस्य भ्रमं विलासं बिभ्रति सति। रोमावलिर्यमुनयोपमीयते कृष्णत्वात्। मौक्तिकावलिश्चोज्ज्वलत्वा-द्गङ्गयोपमीयते। तत्संगमे प्रयागो भवत्येव। कुचौ तत्फलाभ्यामुपमीयेते। कुचप्राप्तेः प्रयागफलप्राप्तिरिति रूपकमलंकारः॥ शार्दूलवि-क्रीडितं वृत्तम्। स्वाधीनभर्तृका नायिका। तल्लक्षणम्—‘यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुश्चति। विचित्रविभ्रमासका सा स्वाभीनपति-र्यथा॥ लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं तिलकमलिके कुर्वन्गण्डादुदयस्यति कुन्तलान्॥ इति चटुशतैर्वारंवारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पार्श्वं विमुश्चति वल्लभः॥’ पाञ्चाली रीतिः। भारती वृत्तिः। पाश्चाली गीतिः। ‘आदितालस्तथा पञ्च हरवकसमु-द्भवाः। प्रतिमण्ठश्चतुर्मात्रो मण्ठश्चैवाड्डतालकः॥ तालो वर्णयतिश्चैव जयमङ्गलसंज्ञितः। विजयानन्दनामा च जयश्रीसंज्ञकः परः॥ प्रतितालं पदानि स्युः पाटास्तदुभयं तथा। मध्ये मध्ये यथाशोभालप्तियुक्तिर्विशेषवत्। विशेषतो वर्णयतौ यदा श्रीसंज्ञिकोऽपि च॥ तेनकाः स्युः पदस्थाने प्रतितालेन वेश्यते। मुक्तिपादाक्षरैर्युक्तैरालापेन पुरस्कृतैः॥ पदान्येव षोडश वै ताला एकोनविंशतिः। गोंडः स्याद्देशतालादि-रागः सर्वपदाश्रयः॥ धीरोदात्तगुणैर्युक्तो वर्ण्य उत्तमनायकः। छन्दः स्यात्स्वेच्छया बद्धं समानादिगुणा दृशः॥ इति श्रीसुप्रीतपीताम्बर-तालश्रेणिनामा अष्टाविंशः प्रबन्धः॥
यस्य द्वादशराजकं वितनुते सेवां स्थितं किङ्करं
यस्मिन्द्वादशभानुभानुनिकरो भात्येककालोद्गतः।
यश्च द्वादशभाः प्रभुः प्रकृतिवद्व्याप्यैव लोकं स्थितः
सोऽयं द्वादशसर्गगं विवरणं श्रीकुम्भकर्णो व्यधात्॥
पदवाक्यप्रमाणाख्यत्रिसरित्सङ्गमश्रिया।
कुम्भकर्णगिरां यागो न स्यादिष्टार्थदः कथम्॥
स्वभावगम्भीरतया निसर्गदुर्बोधभावा जयदेववाचः।
व्याकर्त्तुमिष्टे यदि ता नरेशः श्रीकुम्भकर्णो न परः कदाचित्॥
श्रीगीतगोविन्दविचारसूक्तिसुरापगासंभवतोऽनुमेयम्।
श्रीकुम्भकर्णेऽखिलराजिभूभृद्राजत्वभार्या अविचार्यमस्ति॥
रे मूढाः किमुपास्यते गुणिगणप्राविण्यपाटच्चरं
भूभृद्वृन्दमनेककाकुरचनाचातुर्यचाटूक्तिभिः।
श्रीकुम्भः सकलाभिलाषफलदश्चेत्सेवितुं प्राप्यते
सौरभ्यं यदि मौक्तिके किमपरं श्लाघ्यं भवेद्भूतले॥
सुवर्णमुक्ताफलनिर्मितेयं सत्सूक्तिमाला सुमनः प्रयुक्ता।
श्रीकुम्भभूमीपतिनोपयुक्ता श्रीवासुदेवार्पणमस्तु साक्षात्॥
नाभूवन्कति नाम केऽपि सुधियस्तत्तद्गुरूपासना-
भ्यासासादिततत्स्वतोषजननप्रोल्लासिवाग्विभ्रमाः।
स्वच्छन्दप्रसरद्वचःसुरसरित्कल्लोललोलोक्तिभिः
स्वाधीनीकृतसर्वतःसहृदयः श्रीकुम्भ एव प्रभुः॥
इति श्रीसरस्वतीरससमद्भूतकैरवोद्याननायकेनाभिनवभरताचार्येण मालवाम्भोधिनाथमहीधरेण यवनवरतिमिरकुल-सङ्कुलसरङ्गपुरजलधिजलैकचुलुकेन मुनिवरेण प्राणुदक्प्रतीचीदिक्तयाधिपराजगजहठादानदर्शितानन्यसाधारणपौ-रुषेण मेदपाठसमुद्रसम्भवरोहिणीरमणेन रायगुरुचापगुरुसेलगुरुरामां च परमगुरुवङ्गालगारायां(?) चामुहवनेत्यादि-बिरुदराजिविराजमानेन अरिराजमत्तमातङ्गपञ्चाननेन सङ्गीतमीमांसामांसलमतिना प्रत्यर्थिपृथ्वीपतितिमिरततिनिराक-रणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादानगुरुणा बलोद्धतराजकदम्बकदम्बोत्पाटदक्षिणेन बलहीनराजकस्था-पनाचार्येण भूमण्डलाखण्डलेन चित्रकूटविभ्रवा(?) अध्युष्टनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्ग-स्थापनचतुराननेन याचककल्पनाकलाद्रुमेण वसुंधरोद्धरणादिवराहेण भवानीपतिप्रसादपरिप्राप्तहृष्टशारीरशालिना ऋणत्रय्यपाकरणकारणसकलतीर्थाधिदैवतगयागतयवननिगडनिर्वासनेन त्रिजगतीतापत्रयोन्मूलनमूलहेतुना महेन्द्रमु-खाभिनेयगताभिनयप्रपञ्चरचनाकरतलकलितामन्त्यकफलवदविकलपथीकृतविश्ववास्तुवस्तुना वसुमतीमण्डलमध्यव-र्तिचापोपकारतोडरमल्लेन नादेनेव मूर्तिमता सूर्यत्रितयवेदितराजचक्रचूडामणिना महाराज्ञीहृदयसौभाग्यदेवीहृदय-नन्दनेन महाराजरणश्रीमोकयोर्विदटीलेन्द्रतनुजन्मना महाराज्ञीश्रीअपूर्वदेवीहृदयाधिनाथेन महाराजाधिराजमहराज श्रीकुम्भकर्णमहामहेन्द्रेण विरचितायां रसिकप्रियानाम्न्यां श्रीगीतगोविन्दटीकायां द्वादशः सर्गः समाप्तः॥
गङ्गास्तवप्रबन्धः।
मधुमथनमूर्तिवरं इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे।
हरिचरणनखभिदुरजगदण्डनिर्गता ब्रह्मजलपात्रकृतसङ्गे॥ १॥
नमो देवि गङ्गेनमो देवि गङ्गे हर निखिलमघमलकनन्दे॥ ध्रुवम्॥
त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारे।
कनकगिरिलङ्घिते सकलमुनिवन्दिते हरमुकुटसितकुसुममाले। न०
सगरमुतसङ्गमे लसदमरसुन्दरीदूतिके दुष्कृतिदुरापे।
निरयगतिबाधके निर्वाणसाधके भक्तजनहृतसंतापे॥ नमो० ३॥
______________________________________________________________________________________________________________
** मधुमथनेति।** हे देवि, हे गङ्गे, तुभ्यं नमः। आदरे द्विरुक्तिः। हे अलकनन्दे, त्वं निखिलं समग्रमघं पातकं हर नाशय। मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां वरा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि। सुष्ठु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धौ। हे ब्रह्मजलपात्रकृतसङ्गे त्वं हरिचरणनखैर्भिदुरं भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि॥१॥ त्वमसीति। हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते। कनकगिरिर्मेरुर्लङ्घित उल्लङ्घितो यया। तस्याः संबुद्धौ हे कनकगिरिलङ्घिते। हे सकलैः समस्तैर्मुनिभिर्वन्दिते। हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते। त्वं जनानां विश्वेषां पाविनी पवित्रकर्त्री असि। पुनः कीदृशि। चत्वारश्च ते उदधयश्च तान्प्रतिगच्छति सा चतुरुदधिगामिनी असि॥२॥ सगरेति। हे सगरसुतसङ्गमे। सगरसुतानां सङ्गमो यस्यास्तस्याः संबुद्धौ। सङ्गमेन पावनकर्त्रीत्यर्थः। हे लसन्त्यः शोभमाना या अमरसुन्दर्य्यो देवाङ्गनास्तासां दूतिके प्रापिके। हे दुष्कृति-भिर्दुष्कर्मकारिभिर्दुःखेनाप्तुमशक्ये। हे निरयगतिबाधके नरकगतिनिवारके। हे निर्वाणसाधके मोक्षप्रदे। हे भक्तजनहृतसंतापे, भक्त-जनानां हृतः संतापो यया तस्याः संबुद्धिः॥३॥
________________________________________________________________________________________________________________________
१ यद्यप्यस्य प्रबन्धस्य ‘भणन्तमिह सादरं धीरजयदेवकविमुत्तारयसि’ इत्याथन्तिमपदार्थेन गीतगोविन्दकर्तृजयदेकविप्रणीतत्वमापतितं-स्तर्क्यते, तथापि गीतगोविन्दस्थाखिलप्रबन्धसाधरिणानां पदलालित्य-रचनाचातुरी-कल्पनाचमत्कार-वर्णनानैपुण्यादीनां निरुक्तजयदेव-कृतित्वानुमापकानामत्र लेशतोऽप्यनधिगमान्नायं प्रबन्धो गीतगोविन्दकाव्यकर्तुः श्रीजयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम्। अतोऽस्य प्रबन्धस्य प्रणेता निरुक्तजयदेवाद्भिन्नो धीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः।
अस्य च प्रबन्धस्य हस्तलिखितं द्वित्रपत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्वरैः श्रीयुतैः’ ‘बी. ए. ’ इत्युपपदधारिभिः ‘तनसुखराम मनसुखराम त्रिपाठी’ इत्येतैरस्मन्निकटे प्रेषितम्। तदनुरोधेनैव सोऽयं क्वाप्यमुद्रितचरः प्रबन्धः रसिकजनप्रीत्यै मुद्रयित्वा प्राकाश्यं नीत इत्यकं विस्तरेण॥
तीर्थवरकारिणी पूर्वजोद्धारिणी हिमशैलपाषाणभेदे।
नागरं प्लावयसि पूरयसि सागरं संगता विन्ध्यगिरिपादे॥ नमो ०४
शुभसलिलनिर्धौतपुलिनवति कुर्वतस्तव नामनिर्मलालापम्।
वन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् न०
इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे।
पीयसे गीयसे स्तूयसे जह्नुमुनिकन्यके संसारसारे॥ न ०॥६
गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये।
परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये न.
इति रामलक्ष्मणकौशिकानुज्ञयासुरसरित्कृतनमस्कारम्।
भणन्तमिह सादरं धीरजयदेवकविमुत्तास्यसि भवजलधिपारम् न.
इति गङ्गास्तवप्रबन्धः समाप्तः।
_____________________________________________________________________________________________________________________________
तीर्थवरेति। हे हिमशैलस्य हिमाचलस्य पाषाणानां भेदो भेदनं यस्यास्तस्याः संबुद्धौ। त्वं तीर्थवरस्य श्रेष्ठतीर्थस्य कारिणी असि। पुनः कीदृशी। पूर्वजानामुद्धारिण्यसि। हे गङ्गे, त्वं नगराणां समुदायो विद्यते यत्र तन्नागरं भूमण्डलं प्लावयसि पूर्णं करोषि। पुनः कीदृशी। सागरं समुद्रं पूरयसि। पुनः कीदृशी। विन्ध्यगिरिपादे विन्ध्याचलमूले सङ्गता मिलितासि॥४॥ शुभेति। हे शुभसलिलेन पवित्रोदकेन निर्धौतं क्षालितं यत्पुलिनं तटं तदस्ति यस्यास्तस्याः संबुद्धौ। त्वं मम पापं हरसि नाशयसि। कथंभूतस्य मम। तव नाम्नो यो निर्मलालापः पवित्रालापस्तं कुर्वतः। कथंभूता त्वम्। वन्दिता नमस्कृता। वीक्षिता दृष्टा। चिन्तिता स्मृता। अवगाहिता प्रविष्टा। मज्जिता स्नाता सती एभिः प्रकारैः पापं हरसि॥५॥ इहेति। हे उदारे वदान्ये। हे संसारसारे। संसारे सारभूता त्वमसीत्यर्थः। हे जह्नुमुनिकन्यके हे जाह्नवि, त्वमिह संसारे। अथवा ब्रह्माण्डे निखिलमुनिगणैः समग्रमुनिसमूहैः पीयसे। इह निखिलदेवगणैः समग्रदेवसमूहैः गीयसे। इह निखिल-वेदैः समस्तवेदैः स्तूयसे॥६॥ गण्डूषमिति। हे करनिकरगम्भीरतोये। कराणां लहरीणां निकरः समूहस्तेन गम्भीरमक्षोभ्यं तोयं यस्या-स्तस्याः संबुद्धौ। हे सुरसदनसाधनोपाये। सुराणां देवानां सदनं स्थानं तस्य साधनं प्राप्तिस्तस्योपायभूते। हे तटिनि तटवति हे गङ्गे। त्वं परलोकबन्धुः परलोके बन्धुरूपासि। पुनः कथंभूतासि। सुन्दराणां देवानां सिन्धुर्नद्यसि। अतस्तव गण्डूषमाचमनं मे मम अघशतं पातकशतमधिजयतु नाशयतु। इहास्मिल्ँलोके॥७॥ इति रामेति। रामलक्ष्मणकौशिकानुज्ञया। कौशिको विश्वामित्रः। रामलक्ष्मणकौशि-कानामनुज्ञया आज्ञया। सुरसरितो गङ्गायाः कृतो नमस्कारो यस्यां क्रियायां यथा भवति तथा। सादरमादरपूर्वकं यथा भवति तथा। इति पूर्वोक्तप्रकारेण। इहास्मिल्ँलोके भणन्तं कथयन्तं धीरजयदेवकविं भवजलधिपारं भवरूपो यो जलधिः समुद्रस्तस्य पारमन्तमुत्तारयसि प्रापयसीत्यर्थः॥८॥ इति श्रीजयदेवकृतगङ्गास्तवप्रबन्धटी का समाप्ता॥
]
-
“गीतगोविन्दस्थे ’ श्रीभोजदेव ’ इत्यादिपद्ये ( पृ० १७१ ↩︎
-
“गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस्य’ जयति ‘पद्मावतीरमणजयदेव’ इत्यादि पाठान्तरदर्शनात् ( पृ० १३३ ↩︎
-
“गीतगोविन्दस्थे ‘ वाचः पल्लवयत्युमापतिधरः ’ इत्यादिपद्ये ( पृ० ९ ↩︎
-
“गीतगोविन्दस्थसप्तमप्रबन्धस्यान्तिमपदे ( पृ० ५८ ↩︎
-
“अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर-मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेतदध्यायत्रयम् ।” ↩︎
-
“काव्यामालायां प्रकाशितस्य आर्यासप्तशतीग्रन्थस्य प्रथमपृष्ठस्थटिप्पण्यां द्रष्टव्यम् ।” ↩︎
-
“प्रसन्नराघवनाटकप्रस्तावनायां’ विलासो यद्वाचां ’ इत्यादि तथा ’ लक्ष्मणस्येव ’ इत्यादि श्लोकद्वयं द्रष्टव्यम् । ( निर्णयसागरमुद्रितपुस्तकस्य पृ० ५ ↩︎
-
“शृङ्गारमाधवीयचम्प्वादौ मङ्गलाचरणश्लोके द्रष्टव्यम् । इयं चम्पूः नाद्यापि क्वापि मुद्रयित्वा प्रकाशिता । अस्या हस्तलिखितमपूर्णं पुस्तकमेकं मया दृष्टमासीत् ।” ↩︎
-
“१. काव्यप्रकाशे ४ उल्लासे.” ↩︎
-
“१ नैषधे.” ↩︎
-
“‘धृतरघुपतिरूप’ इति पाठः।” ↩︎
-
“‘भवननिधान’ इति पाठः ।” ↩︎
-
“‘पाटलिपटल’ इति पाठः ।” ↩︎
-
“‘अवलोकिततरुण’ इति पाठः।” ↩︎
-
" ‘केतकि’ इति पाठः।” ↩︎
-
" ‘विगलित’ इति पाठः।” ↩︎
-
“‘कलकलैः’ इति पाठः।” ↩︎
-
“‘चारु चुचुम्ब’ इति पाठः।” ↩︎
-
" ‘देवकवेरिदमद्भुत’ इति पाठः।” ↩︎
-
“‘अद्र्युत्सङ्ग’ ‘अद्योत्सङ्ग’ इति वा पाठः” ↩︎
-
" ‘मौलिमुकुलानि ’ इति पाठः।” ↩︎
-
“इदं पद्यं रसमञ्जरीव्याख्याकृता न टीकितं वा तट्टीका लेखकादिप्रमादाद्भग्ना वेति नावगम्यते।” ↩︎
-
“‘मणिमयभू.’ इति पाठः।” ↩︎
-
“‘रभसरसेन’ इति पाठः।” ↩︎
-
“‘सिक्तकलेवरया’ इति पाठः।” ↩︎
-
" ‘दुरालोकः स्तोकस्तबकनविका -’ इति पाठः।” ↩︎
-
“‘रणितिरमणीया’ इति पाठः।” ↩︎
-
“‘मूलार्धदृष्ट’ इति पाठः।” ↩︎
-
" ’ दयिताकाङ्क्षः’ इति पाठः।" ↩︎
-
" अस्य पद्यस्यव्याख्या रसमञ्जरीटीकापुस्तके गलितास्ति।" ↩︎
-
“‘निषसाद’ इति पाठः।” ↩︎
-
" ‘मम किं गृहेण सुखेन’ इति पाठः।" ↩︎
-
" ‘तिन्दुबिल्व’ ‘केन्दुबिल्व’ इति पाठौ।" ↩︎
-
“अस्य लोकस्य व्याख्यानं रसमञ्जर्याख्यटीकादर्शपुस्तके नोपलभ्यते।” ↩︎
-
“द्गीतस्थान’ इति पाठः।” ↩︎
-
“‘मृदुस्यन्दं’ इति पाठः।” ↩︎
-
" ‘बलितविलोचनजलधरम्’ इति पाठः।" ↩︎
-
“‘तापो निःश्वसितेन’ इति पाठः। " ↩︎
-
" ‘एतादृश्यतनु’ इति पाठः।” ↩︎
-
“‘थास्यन्तकः’ इति पाठान्तरम्।” ↩︎
-
“’ ज्वराकुलतनोः’ इति पाठः।” ↩︎
-
“‘किंतूत्क्रान्तिवशेन’ इति पाठः।” ↩︎
-
“‘वनवशात्’ इति पाठः।” ↩︎
-
“#नाममन्त्रावलीम्” ↩︎
-
धरपरिसरमर्दनकर%20“मर्दनचश्चत्कर “#धरपरिसरमर्दनकर “मर्दनचश्चत्कर” ↩︎
-
“# मनुते ननु ते " ↩︎
-
“#पतत्रिणि विचलितपत्रे” ↩︎
-
“निदानम्” ↩︎
-
“नासापुरो " ↩︎
-
“‘त्वद्वाष्पेन’ ‘त्वद्वाक्येन’” ↩︎
-
" स्वरेण " ↩︎
-
“दृशौ” ↩︎
-
“तोषप्रदोषश्चिरम्” ↩︎
-
“गुणकरी” ↩︎
-
" त्वदधर” ↩︎
-
“चलन्ती” ↩︎
-
“मण्डललीला " ↩︎
-
“अत्र टीकांशस्त्रुटित इव भत्यादर्शपुस्तके।” ↩︎
-
“वर्त्मपात” ↩︎
-
“ललित स०” ↩︎
-
" किमिह वि०” ↩︎
-
“कुसुमभरवि०” ↩︎
-
“णचलित०” ↩︎
-
““देशाङ्करा०’ देशाख्यरा०” ↩︎
-
“भणितमिलनेन” ↩︎
-
" निमेषम् " ↩︎
-
“वहसि” ↩︎
-
“वपुरिव” ↩︎
-
“रुणच्छायहृ” ↩︎
-
“वलन्मन्दारविस्रंसन” ↩︎
-
“स्तब्धाकर्षणदृष्टिहर्षण” ↩︎
-
“रिपोर्व्यपोहयतु वोऽश्रेयांसि” ↩︎
-
“अथ तां” ↩︎
-
“रामकरी” ↩︎
-
“‘अत्रान्तरेऽमसृण’ इति पाठः।” ↩︎
-
“वशादसीम’ इति ‘बशामसीम’ इति च पाठः।” ↩︎
-
“‘रोचयति’ इति पाठः।” ↩︎
-
“’ सरसगलदल’ इति पाठः।” ↩︎
-
" देहि’ इति पाठः।” ↩︎
-
“’ कदनानलो ’ इति पाठः।” ↩︎
-
“जयति पद्मावतीरमणजयदेवकविभारती भणितमतिशातम्॥ ’ इति पाठः।” ↩︎
-
“स्तनभरपरी’ इति पाठः।” ↩︎
-
“’ मुदमय पश्च’ इति पाठः।” ↩︎
-
“‘चाण्डाल’ इति पाठः।” ↩︎
-
“’ प्रयान्तु’ इति पाठः।” ↩︎
-
“’ कालसर्पः’ इति पाठः।” ↩︎
-
“विषभञ्जनाय ’ इति पाठः।” ↩︎
-
“सेनया’ इति पाठः।” ↩︎
-
“मिन्दुमत्यास्पदं ’ इति पाठः।” ↩︎
-
“’ विधुतरम्भम् ’ इति पाठः।” ↩︎
-
“प्रीतिं वस्तनुताम् ’ इति पाठः।” ↩︎
-
“क्षणमथ क्षिप्ते द्विपे तत्क्षणात् ’ इति पाठः।” ↩︎
-
“कंसस्यालमभूजितं जितमिति व्यामोहकोलाहलः’ इति पाठः।” ↩︎
-
“’ विकारम् ’ इति पाठः” ↩︎
-
“’ निजगतिशीलम् ’ इति पाठः।” ↩︎
-
“‘सितरामम्’ इति पाठः।” ↩︎
-
“‘कम्पते’ इति पाठः।” ↩︎
-
" ‘सारसाहसकृतां ’ ‘सारसत्वरहृदां’ इति च पाठी।" ↩︎
-
“‘सखी निजगाद राधाम्’ इति पाठः” ↩︎
- ↩︎
-
“‘नवलसदशोक’ इति पाठः।” ↩︎
-
" ‘मृदु’ इति पदं रसमञ्जरीटीकाकृदादृते मूले न दृश्यते।" ↩︎
-
“‘रतिवलितललितगीते’ इति पाठः।” ↩︎
-
“‘विलस मदनरसरभसभावे’ इति पाठः।” ↩︎
-
“‘प्रविवेश निकेतनम् ‘इति पाठः।” ↩︎
-
“‘मङ्गविकारम्’ ‘मनङ्गविकासम्’ इति पाठौ।” ↩︎
-
“‘पतितयोः’ इति पाठः।” ↩︎
-
“‘समालोकसमये’ इति पाठः। " ↩︎
-
“विहित’ इति पाठः।” ↩︎
-
“स्मरसरसमाकूत’ इति पाठः।” ↩︎
-
“’ तनुचलतनोः’ इति पाठः।” ↩︎
-
“’ चरणकमल’ इति पाठः।” ↩︎
-
“’ सर भो राधिके ’ इति पाठः।” ↩︎
-
“‘मीलितलजितमिव नयनं तव विरम विसृज रतिखेदम् ’ इति पाठः।” ↩︎
-
“’ कथाकेलिभिः’ इति पाठः।” ↩︎
-
“’ माराङ्के’ इति पाठः।” ↩︎
-
“‘निर्धूतोऽघर” ↩︎
-
“अस्याग्रे कचिदादर्शपुस्तकेंषु निम्नलिखितः श्लोकः समुपलभ्यते- ’ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः। इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य नामावल राधायाः स्तनकोरकोपरिचलन्नेत्रो हरिः पातु वः॥” ↩︎
-
“’ व्यालोलः’ इति पाठः।” ↩︎
-
“‘स्वेदलोलो’ इति पाठः।” ↩︎
-
“पश्यन्ती चात्मरूपं तदपि ’ इति पाठः।” ↩︎
-
“‘विलुलितस्रग्धरेयं धिनोति’ इति पाठः।” ↩︎
-
“‘मुग्धहसितं सीत्कार’ इति पाठः।” ↩︎
-
“‘श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गाव’ इति पाठः।” ↩︎
-
“शंकरमिश्रकृतरसिकमञ्जरीटीकायामस्या आर्यायाः स्थाने निम्नलिखितः लोको वर्तते- ‘अथ निर्गतबाधा सा राधा स्वाधीनभर्तृका। निजगाद रतिश्रान्तं कान्तं मण्डनवाञ्छया।’” ↩︎
-
“‘गञ्जनसंजनकं’ इति पाठः।” ↩︎
-
“’ कज्जलमुखवलय’ इति पाठः।” ↩︎
-
“काशीमश्च स्रजा ’ इति पाठः।” ↩︎
- ↩︎
-
" पदे कुरु नूपुरा-’ इति पाठः।” ↩︎
-
“अस्याग्रे क्वचित्पुस्तके निम्नलिखितः श्लोकः समुपलभ्यते—— ‘पर्यङ्कीकृतनागनायकफणा श्रेणीमणीनां गणे सङ्क्रान्तप्रतिबिम्बसंवलनया विभ्रद्विभुप्रक्रियाम्। पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः कायन्यूहमिवाचरन्नुपचितौ भूतो हरिः पातु वः॥” ↩︎
-
“तत्त्वमपि यत्काव्येषु’ इति पाठः।” ↩︎
-
“राधादेवी’ इति पाठः। " ↩︎
-
“’ न भवतु भवती शर्करे’ इति पाठः।” ↩︎
-
“‘कान्ताधर धरणितलं गच्छ’ इति पाठः।” ↩︎
-
“‘सारस्वतमिह जय’ इति पाठः।” ↩︎
-
“‘देवस्य विष्वग्वचांसि’ इति पाठः।” ↩︎
-
“अयं श्लोकः प्रक्षिप्त इति भाति। आदर्शपुस्तकान्तरेष्वदर्शनात्।” ↩︎