रुक्मिणीपाणिग्रहणम्-काव्यम्‌

[[रुक्मिणीपाणिग्रहणम्-काव्यम्‌ Source: EB]]

[

श्रीगोविन्दान्तर्वाणिविरचितं

**रुक्मिणीपाणिग्रहणं काव्यम्‌। **

**प्रथमः सर्गः। **

वन्दे प्रियानन्तमहं तमोहं सुभद्रगोत्रं सशिवं गणेशम्‌॥

श्रीशं गिरीशं रविमीशतल्पं गौरांशुकं साधुसमाधिपं च 1

वन्देति। अहं गणेशं वन्दे। कीदृशं। प्रिया अनन्ता दूर्वा यस्य तोकिंचा तमः शोकं हन्तीति तम्‌। तमो ध्वान्ते गुणो शोके क्लीबं वा ना विधुन्तुदे इति मेदिनी। अत्र शब्दानां प्रमाणं प्रायोमरमेदिनीहैमकोशभ्यो ज्ञेयम्। क्वचित्क्वचिल्लिख्यते। सुष्ठु भद्रं कल्याणं येन तत्‌ गोत्रं नाम यस्य तम्‌। सशिवम्‌। शिवाभ्यां उमाशङ्कराभ्यां सह वर्तमानम्‌। गौरं शुभ्रं अंशुकं वस्त्रं यस्य तम्‌। शुक्लाम्बरधरं देवमित्युक्तेः। साधूनां समः सकलः। आधिर्मनस्तापस्तं पिबति नाशयति तम्॥ 1॥ अथ श्रीशं श्रीकृष्णम्‌। साधु शोभनं यथा स्यात्तथा वन्दे। प्रिया अनन्ता भूमिर्यस्य तम्‌। प्रियशेषं वा। तमः राहुं हतवन्तं। सुभद्रा अतश्रेष्ठा गोत्रा गोसमूहो यस्यागोत्रा भूगव्ययोर्गात्रः शैले गोत्रं कुलाख्ययोरिति मेदिनी। शिवेन मोक्षेण सहितम्‌। नित्यमुक्तमिति यावत्‌। शिवं तोये सुखे क्षेमे ना शम्भौ वेदमोक्षयोरिति। गौरांशुकं पीताम्बरम्‌। समेषां सर्वेषां अधिपं पालकं च॥ 2॥ अथ गिरीशं वन्दे। कीदृशं गिरिशं प्रियोनन्तो विष्णुर्यस्य तम्‌। तमोहमज्ञाननाशकम्‌। यद्वाऽहन्तमोहमित्येकं पदं। न हन्तमोहौ विषादकश्मले यत्र तम्‌। हन्त हर्षे विषादे चेति मेदिनी। शोभनो भद्रः नन्दिनामकवृषभः। गोत्रः कैलासाख्यः पर्वतश्च यस्य तम्‌। भद्रः शिवे खञ्जरीटे हस्तिजात्यन्तरे वृषे। त्रिषु श्रेष्ठे च साधौ चेति मेदिनी। शिवया पार्वत्या सहितम्‌। गौरांशुः चन्द्रः के मस्तके यस्य तम्‌। कं शिरोम्बुनोरित्यमरः। साधु सुन्दरश्चासौ समाधिश्चित्तैकाग्रता तं पाति तं च॥ 3॥ अथ रविं वन्दे। कीदृशं रविं प्रियानन्तमहम्‌। प्रियः सकलानामभीष्टः स चासावनन्तो निरवधिः महः प्रकाशो यस्य तं। महाशब्दः। अदन्तोपि। मह उत्सवतेजसोरिति हान्तेपि मेदिनी। विदग्धमुखमण्डनेपि। कामुकाः स्युः कया नीचाः सर्वः कस्मिन्प्रमोदते इति पद्यस्य दास्या महे इत्युत्तरसत्वाच्च। तमः अन्धकारं हन्ति तम्‌। शोभनाः भद्राः साधवः यस्मिंस्तद्गोत्रं कुलं यस्य तम्‌। रविवंशे पुण्यश्लोकभूपोत्पत्तेः। शिवैः वेदैः सहितम्‌। सैषा त्रय्येव विद्या तपतीति श्रुतेः। त्रयीमयाय त्रिगुणात्मधारिणे इति। ऋग्यजुःसामभिः साकं सदा चरति भारकर इति चोक्तेश्च। गारौ अरुणाः अंशवः किरणा यस्य तम्‌। यद्वा गौरे चन्द्रे अंशवः यस्मात्तम्‌। गौरः श्वेतेरुणे पीते विशुद्धे च द्रमस्यपीति हैमः। मायाः लक्ष्म्याः अधिपः

विष्णुस्तेन सहितं च। योसावादित्ये पुरुषः सोसावहमिति श्रुतेः। ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण इत्युक्तेश्च। यद्वा समानां मा लक्ष्मीस्तया सहितानां कमलानां अधिपं प्रफुल्लकमित्यर्थः। अंशुमाल्यब्जिनीपतिरिति कोशात्‌॥ 4॥ अथ ईशरय तल्पं जायां भवानीं वन्दे। तल्पं शयाट्टदारेष्वित्यमरः। कीदृशं अप्रिया अनन्ता दूर्वा यस्य तत्‌। दूर्वार्कभृङ्गं जगदम्बिकायां वर्ज्यं शिवे केतकशङ्खवारीत्युक्तेः। तमः देवादीनां शोकं दैत्यवधेन हन्ति तत्‌। सुभद्रा कल्याणवती गोत्रा क्षोणी येन तत्‌। सशिवं शम्भुयुतम्‌। गौरांशुकं पीतवस्त्रं साधुः समाधिः भक्तविषयोङ्गीकारो येषां ते च ते पञ्च तान्वन्दे तेषां निर्देशः गणेशमित्यादि॥ 1॥

एवमेकेनोपजातिवृत्तेन गणपत्यादिवन्दनरूपं मङ्गलं ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं विधाय गीतित्रयेणाशीर्वादादिरूपं मङ्गलमाचरति।

श्रीमान्दत्तश्चार्कः समकोकपतत्कुलाय लोकस्य॥

योरातिमदं स्वापं हरति स चोच्चैर्ददातु वस्त्विष्टम्‌॥ 2॥

श्रीमानिति। सः श्रीमान्‌ दत्तः च परं अर्कः वः युष्मभ्यं। इष्टं ददातु। यद्वा व इष्टं वस्तु आत्माख्यं ददातु। व इतिशेषः। सः कः यः दत्तः। अरातीनां कामक्रोधादिरिपूणां मदं हरति च स्वापमज्ञानमर्थाद्भक्तानां हरति। कीदृशः अकान्येव पतन्तः पक्षिणः। तेषां कुलायः नीडरूपः। सर्वदुःखस्थानमित्यर्थः। स चासौ लोकः जनस्तस्य अकं। अकं तु पापदुःखयोरिति मेदिनी। कुलायो नीडमास्त्रियामित्यमरः। समं सम्पूर्ण कं सुखं यस्मात्सः। अर्कपक्षे। यः अर्कः स मे सकलाः कोकपतन्तः। कोकश्चक्रश्चक्रवाकइत्यमरः। तेषां कुलाय वंशाय उच्चैर्महान्तं मदमानन्दं राति ददाति। मदो रंतसि कस्तूर्यां गर्वे हर्षेभदानयोरिति मेदिनी। च लोकस्य स्वापं निद्रां हरति॥ 2॥

वाणीं नमामि देवीं जनयित्रीं पार्वतीं च मृडयन्तीम्‌॥

गांगेयाम्बासुगुणां धीरां हंसप्रियां प्रवीणां च॥ 3॥

वाणीमिति। कीदृशीं वाणीं गां पृथिवीं मृडयन्तीं सुखयन्तीं। गेयां वर्णनीयां। ववयोरैक्याद्वासोः विष्णोरिव गुणाः भक्तवात्सल्यादयो यस्यास्तां। वासुर्नरायणपुनर्वसुविश्वरूपा इति त्रिकाण्डशेषः। धियं बुद्धिं राति ददाति ताम्‌। हंसः चक्राङ्गः प्रियः यस्यास्ताम्‌। वा प्रियस्येति सूत्रात्प्रियशब्दस्य उत्तस्रनिपातः। प्रकृष्टा वीणा यस्यास्तां च। अथ कीदृशीं पार्वतीनाम्नीं जननीम्‌। जनान्‌ मृडयन्तीम्‌। गाङ्गेयः भीष्मः अम्बा भवानी च तयोरिव गुणा विष्णुभक्तिपातिव्रत्यादयो यस्यास्ताम्‌। धीरां विदुषीम्‌। हंसः विष्णुः साधुर्वा प्रियो यस्यास्ताम्‌। प्रवीणां निपुणां च॥ 3॥

सिद्य्धै लक्ष्मणतातं श्रीशिवगणनाथयोस्तुलां दधतम्‌॥

उदितश्रीरामगुणं वरवर्णं नौमि सद्वृषं भवदम्‌॥ 4॥

सिद्ध्यैइति। सिद्धिमाप्तुं सिध्यै तुलां सादृश्यं। कीदृशं लक्ष्मणसंज्ञकतातं। उत्कर्षेण इतौ प्राप्तौ श्रीर्बुद्धिः रामः शुभ्रश्चासौ गुणः सत्त्वगुणश्च येन तं। वरवर्णं ब्राह्मणं। उत्तमयशसं च। वर्णो द्विजादि शुक्लादि यशोगुणकथासु च। स्तुतौ ना नस्त्रियां भेदरूपाक्षरविलेपने इति मेदिनी। सन्‌ फलाभिसन्धिरहितः। वृषः पुण्यं यस्य सत्सु विद्वत्सु वृषं श्रेष्ठं वा भवदं जन्मदं च। कीदृशं श्रीशिवं उदिताः उक्ताः श्रीरामस्य गुणा येनावरः वर्णः स्तुतिर्यस्य शिवस्तुतेर्मोक्षदत्वादुत्तमत्वम्‌। सत्सु साधुषु वृषं श्रेष्ठं भवं संसारं द्यति खण्डयति तं च। कीदृशं गणनाथं। उत्कर्षेण इता श्रीः शोभा रामाः सुन्दराश्च ते गुणा शौर्यादयश्च येन। वर उत्तमः वर्णः। रूपं यशो वा यस्य। सन्प्रशस्तः वृष उन्दुरुर्यस्य। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः इत्यमरः। भवं कल्याणं ददाति तं च॥ 4॥

यो भवरुग्दोषज्ञः सद्रामाद्याश्रितश्च देवश्रीः॥

कृष्णति संविदुदारः स्वगुरुं नारायणं तमहमीडे॥ 5॥

यइति। तं नारायणं स्वस्य गुरुं विद्याप्रदं ईडे स्तौमि। तं कं यः कृष्णति श्रीकृण्ण इवाचरति। कीदृशः यः अभवे मोक्षे। भवे शम्भौ वा रुगिच्छा यस्य। रुक्‌ स्त्री शोभात्विडिच्छासु इति मेदिनी। दोषज्ञः विद्वान्‌ सद्भिः रामाद्यैः जायापुत्रादिभिराश्रितः देवः रजिव श्रीर्यस्य श्रीः सम्पत्तिः शोभा वा। संविदा बुद्ध्या। उदार

महान्‌। उदारो दातृगहतोरित्यमरः। कीदृशः कृष्णः। भवः संसार एव रुक्‌ रोगः तस्याः दोषज्ञः वैद्यः। निवर्तक इत्यर्थः। दोषज्ञौ वैद्यविद्वांसावत्यमरे क्षेपकः। सन्तः साधव एव राः वित्तं यस्य स सद्राः। मा लक्ष्मीरादिर्येषु तैराश्रितः। देवः सुरे घने राज्ञि देवमाख्यातमिन्द्रिये। इति मेदिनी। संविदः ज्ञानस्य उदारः दाता च॥ 5॥

श्रीरुक्मिणीपरिणयाख्यमिदं करोमि

काव्यं गुणोनमपि सत्प्रमदास्पदं हि॥

श्रीकृष्णवर्णभवनं गतमण्डनापि

स्त्री प्रस्थितस्य शुभदा वरकुङ्कुमाढ्या॥ 6॥

श्रीरितिवार्णो यशः तस्य भवनं गृहां सतां विदुषां प्रमदस्यानन्दस्याऽऽस्पदं पदम्‌। हि हेतोः। अबद्धोक्तरबद्धापि सुबद्धान्योक्तितः शुभा। सनायास्तु वरं सूत्रं रण्डामण्डनखण्डनमिति श्रीमद्भागवताभिप्रायानुसारिपद्यात्‌। अबद्धा विष्णुबद्धा। अकारो वासुदेवे स्यादित्येकाक्षरः। इनेन भर्त्रा सहितायाः सेनायाः॥ 6॥

हंसस्तोम्यथ चन्द्रवृन्दरुचरं सन्मङ्गलौघास्पद-

मुच्चैः कोटिबुधैर्युतं च बहुलैर्जीवैः कवीनां शतैः॥

भूयोमन्दगणं तमोन्तरहितं केतुव्रजालंकृतं

शश्वत्तारचयप्रभं पुरमभून्नाकाधिकं कुण्डिनम्‌॥ 7॥

हंसेति। कुण्डिनं नाम नगरं नाकाधिकमासीत्‌। आकाशे त्रिदिवे नाक इत्यमरः। कथंभूतं पुरं हंसानां सूर्याणां स्तेमः समूहोस्तयस्मिन्‌। अत इनिठनावितीनिः। नाके तु एकं एव सूर्यः एवमग्रेप्याधिक्यं ज्ञेयं। नाके एक एव मङ्गलः सोप्यसन्‌ पापग्रहत्वात्‌ परं तु सतां मङ्गलानामोघस्य स्थानम्‌। चकारात्‌। जीवैः बृहस्पतिभिः कवीनां शुक्राणां शतैश्च युतं। भूयांसः बहवः मन्दानां गणा यत्र। तमोभिः राहुभिः अन्तरहितं तारशून्यं तत्रत्यराहूणामन्तो नासीदित्यर्थः। शश्वन्निरन्तरम्‌। ताराणां नक्षत्रप्रभा। पुरे सदैवेति विशेषः। इति श्लेषपक्षे। वस्तुतः। हंसाः साधवः। चन्द्रः स्वर्णम्‌। स्वर्णपि भूरिचन्द्रो द्वावित्यमरः। मङ्गलानि विवाहयज्ञादीनि शुभकार्याणि। उच्चैः श्रेष्टैः कोटिबुधैः असंख्यपण्डितैः। यद्वोच्चैरित्यव्ययम्‌। उच्चैः महती कोटिः उत्कर्षो व्याकरणादिकोटिर्वा येषां तैर्बुधैः युतं। कोटिः स्त्रीधनुषोग्रेस्रौ संख्याभेदप्रकर्षयोरीति मेदिनी। जीवैः प्राणिभिः वृत्तभिर्वा। जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृहस्पताविति मेदिनी। कवीनां काव्यकराणां भूयांसां अमन्दानां पटूनां गणाः यत्र। मूढाल्पाऽपटुनिर्भाग्या मन्दाः स्युरित्यमरः। तमः अन्तश्च ताभ्यां रहितम्‌। वा तमसः अज्ञानादन्तरं बाह्यं च तत्‌ हितं च। अज्ञानशून्यमत एव सर्वेषां हितमिति भावः। ताराः मौक्तिकानि। तारो वानरभिन्मुक्ताविशुद्ध्योः शुद्धमौक्तिके। ना नक्षत्रेक्षिमध्ये च न नारूप्ये नपुंसकमिति मेदिनी। केतवः ध्वजाः॥7॥

प्रत्यालयं यत्र विदद्युते श्रीर्यास्मिन्ननन्ताः पुरुषोत्तमाश्च॥

तथा द्विजेन्द्रा बहुलाश्च रेजुः स्वभूपुरादप्यधिकं तदाभात्‌ 8

प्रत्यालयमिति। यत्र कुप्डिनपुरे प्रत्यालयं प्रतिगृहं श्रीः पझा। विदि द्यूते रराज। च यस्मिन्‌ बहूला बहवः अनन्ता शेषाः। पुरुषोत्तमाः विप्णवः द्विजेन्द्रा गरुडाश्च रेजुः। तत्‌ आभात्‌। आ सर्वतः भा कान्तिर्यस्य तस्मात्‌। स्वभुवः विष्णोः पुरः पुराद्वैकुण्ठात्‌ अपि अधिकं आभात्‌ शुशुभे। आभादिति पदावृक्ति वस्तुतः। श्रीः सम्पतिः। अनन्ता असंख्याः द्विजेन्द्राः विप्राः। बहुलाः गावः। गार्हपत्याग्नयो वा। बहुलाः कृतिका गावो बहुलोग्नौ शितौ त्रिषु इत्यमरः॥ 8॥

यत्र प्रवालवदथोष्ठयुगं बभासे

ऽहोकर्णवत्करयुगं वरबालहस्तः॥

मूर्धालिकं सुषमनाभिविशेषकान्तं

दन्तावली च पृथुपादवती नराणाम्‌॥ 9॥

यत्रेति। यत्र पुरे नराणां मनुष्याणां प्रवालवत्‌ प्रकृष्टाः बालाः केशाः सन्त्यत्राओष्टद्वयं बभासे शुशुभे च

कर्णवत्कर्णाः सन्त्यत्र। तद्धस्तद्वयं बभासे एवमग्रेपि। वरः श्रेष्ठः बालः कोमलः हस्तः। यत्र स मूर्धा। च अलिकं ललाटम्‌। सुषमः सुन्दरः। नाभिः। तस्य विशेष उत्तमत्वं तेन कान्तं चारु च। पृथुपा दवती विपुलाङ्घ्रमती। इत्याश्चर्यम्‌। वस्तुतः। प्रवालवत्‌ विद्रुम इव। कर्णवत्‌ सूर्यपुत्र इवोदारं। वरः बालहस्तः केशसमूहः यत्र। चिकुरः कुन्तलो वाल इति। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे इति अमरः। नाभेः कस्तूर्याः विशेषकेण तिलकेन। अन्तं मनोहरम्‌। अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः। रम्ये मध्येपीति हैमः। पादाः किरणाः। पादा रशम्यङ्घ्रितुर्याशा इत्यमरः। तत्रत्यलोकाः। रूपौदार्यसंपत्यादिमन्त इत्यर्थः॥ 9॥

तस्मिन्राजा भीष्मनामा कतेजा

वातप्राणो विष्णुवज्जिष्णुबाहुः॥

संधाराभृत्कुन्तलो ब्रह्मसंवि-

द्वामात्मासीद्देवपो धर्महृच्च॥10॥

हरिदृग्विरोचनमुखो गोमौ-

लिर्विधुमनाः क्षमाचरणः॥

नाभिं बिभ्रदनन्तं वहन्नदी-

नोदरः श्रवःकाष्ठाम्‌॥ 11॥

तस्मिन्निति। इदं युग्मं। तस्मिन्पुरे भीप्मनामा राजा। विष्णुना तुल्य आसीदित्यन्वयः। कीदृशः। कः सूर्य इव तेजो यस्य सः। वात इव प्राणः शक्तिर्यस्य। जिष्णू जित्वरौ बाहू यस्य। सम्यग्‌ धाराभृत्‌ खङ्गो यस्य। कुन्तहस्तश्च कुन्तल इति नानार्थमञ्जरी। स्वङ्गकुन्तावुपलक्षणं सर्वशस्त्राणां। अनेन शस्त्रप्रावीण्यं द्योतितं। ब्रह्मणि वेदे संवत्‌ ज्ञानं यस्य। वामः सुन्दरः आत्मा देहः स्वभावो वा यस्य। देवान् राज्ञ पातीति। अधर्मं हरतीति॥10॥

हरीति। हरिं पश्यति जानातीतिविरोचनश्चन्द्र इव मुखं यस्या। चन्द्राग्न्यर्का विरोचना इत्यमरः। गोर्मह्याः मौलिः मुकुट इव। मौलिः किरीटे धम्मिल्ले चुचाकङ्केलिमूर्धसु इति मेदिनी। पृथिव्यां मुख्य इत्यर्थः। विधुर्विष्णुर्मनसि यस्य। अनेन महाभागवतत्वं सिद्धम्‌। विसृजति हृदयं न यस्य साक्षाद्धरिरिति श्रीभागवतोक्तेः। क्षमं युक्तं आचरणं यस्य। क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु इत्यमरः। अनन्तम्‌ निरवधिं। नार्भि क्षत्रियं बिभ्रत्‌। क्षत्रियेपि च नाभिर्नेत्यमरः। अदीनः श्रीमान्‌। अदरः निर्भयः। श्रवसः यशसः काष्ठामुत्कर्षं वहंश्च। विष्णुस्तु। कं उदकं तेजः रेतः तस्य। शुक्रं तेजो रेतसी चेत्यमरः। वातः प्राणाः असवः यस्य। जिष्णुरिन्द्रः बाहुर्यस्य। सन्‌ सत्यः। धाराभृतः मेघाः कुन्तला यस्य। ब्रह्मा चतुराननः संविद्बुद्धिर्यस्य। वामः शंभुरात्माहङ्कारो यस्य। वामं धने पुंसि हरे कामदेवे पयोधरे। वल्गुप्रतीपसव्येषु त्रिष्विति मेदिनी। देवानि इन्द्रियाणि पातीति। धर्मः हृत्‌ हृदयं यस्य। हरिः सूर्यः दृक्‌ नेत्रं यस्य। विरोचनोग्निर्मुखं यस्य। गौः स्वर्गः मौलिः मस्तकं यस्य। विधुश्चन्द्रः मनः यस्य। क्षमा भूः चरणौ यस्य। अनन्तं आकाशं नार्भि बिभ्रत्‌। तथा। काष्टां दिशं श्रवः श्रोत्रं वहन्‌। नदीनामिनः पतिः समुद्रः उदरं यस्य स च। अत्र प्रमाणम्‌। भागवते। नाभिर्नभोग्निर्मुखमम्बु रेतो द्यौः शीर्,माशा श्रुतिरङ्घ्रिरुर्वी॥ चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रौ जठरं भुजेन्द्रः1 रोमाणि यस्यौषधयोम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः॥ प्रजापतिर्हृदयं यस्य धर्मः स वै भावन्पुरुषो लोककल्प इति 2 11

गाङ्गेयं कलयन्नघागदलने सन्तोषदाने व्रते

तुल्यं वारिधरं च जीवनकृते धैर्ये च विश्राणने॥

स ब्रह्मात्मभुवं सुधर्मकथने रूपे महत्त्वादिषु

क्षोणीन्द्रावलिमौलिसेवितपदो राजा ररलाजानिशम्‌ 12

गङ्गेयमिति। स राजा। अनिशं सततं रराज। किं कुर्वन्‌। अघस्य दुःखस्य अगानां पर्वतानां दलने विदारणे। गां वज्रम्‌। तुल्यं कलयन्‌। गौः स्वर्गे कुलिशे रश्मौ वृषे ना इति मेदिनी। सन्तोषदाने गेयं गानं। तुल्यं कलयन्‌। व्रते नियमे। गाङ्गेयं भीष्मं तुल्यं कलयन्‌। एवमग्रेपि प्रतिपदमुपमात्रयं ज्ञेयम्। धरं पर्वतम्‌।

विश्राणने दाने। ब्रह्म वेदम्‌। ब्रह्म तत्त्वं तपो वेदे इति मेदिनी। आत्मभुवं मदनम्‌। ब्रह्मणः आत्मभुवं पुत्रं नारदम्‌। स्वायम्भुवमनुं वा॥ 12॥

तस्मिन्‌ शासति भूमिं कुरुसेनैवाभवत्कृपाहीना॥

सदरं रथाङ्गमेव च सत्याभावो वृषाकपावेव॥ 13॥

तस्मिन्निति। वस्तुतः कृपेण गौतमपुत्रेणाअहीना युक्ता। सदरं दरेण भयेन सहितं। वस्तुतः। सन्ति शस्तानि अराणि यस्य। सत्यस्य। अभावः। हरे विष्णौ वा। हरविष्णु वृषाकपी इत्यमरः वस्तुतः सती पार्वती तस्याः भावः भक्तिः। शम्भावेव। यद्वा। सत्यायाः। सत्यभामायाः भावः प्रेम श्रीकृष्ण एव। अत्राग्रिमगीतित्रये चालङ्कार आर्थी परिसंख्या॥ 13॥

किंच सदम्भा नीराशयसंहतिरेव विष्णुरेव गदी॥

भूरेवानीतिरभूज्जनमुखनलिनालिरेव विकचासीत्‌॥ 14॥

किचेति। नीराशयानां जलायानां संहतिरेवा सदम्भा कपटयुक्तासीत्‌। एतेन तद्राज्ये दम्भाभावः सिद्ध एवमन्यत्रापि तात्पर्यांगदी रोगी। अनीतिः नीतिरहिता। विकचा केशरहिता। विधवेति यावत्‌। वस्तुतः क्रमात्‌। सत्प्रशस्तमम्भ उदकं यस्यां सा सदम्भा। गदाभृत्‌। न ईतयः यत्र साऽनीतिः। अतिवृष्टिरनावृष्टिश्शलभा मूषिकादयः। स्वचक्रं परचक्रं च पडेता ईतयो मता इति। विकचा प्रफुल्ला॥14॥

उडुपतिरेव कलङ्की शेषादय एव वै भुजङ्गाश्च॥

वरमेव पिशुनमम्भोधरगणएवाम्बुधेऋणग्राही॥ 15॥

उडुपतिरिति। कलङ्कोङ्केपवादे च। भुजङ्गोहौ च खिङ्गे चेति मेदिनी। पिशुनं कुङ्कुमेपि च। कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। इति मेदिनी। वस्तुतस्तु पिशुनं कुंङ्कुमं वरमुत्तममेवासीत्‌। ऋणं जलम्‌॥ 15॥

गरुडो हि दस्युरासीन्मेरोरेवाऽविभूषणत्वं च॥

मुरगुरुरेवेरापः पङ्कविधायी कुलाल एवास॥ 16॥

गरुडेति। हि शब्दोवधारणे। हि हेताववधारणे इत्यमरः। दस्युश्चोरः। अविभूषणत्वं। भूषाराहित्यम्‌। सुरगुरुः। गीष्पतिर्ब्रह्मा वा। इरां मदिरां पिबतीति। पङ्कविधायी पापकारी। वस्तूतः अहीनां दस्युः शत्रुः। दस्युश्चौरे रिपौ पुंसीति मेदिनी। अवीनां पर्वतानां भूषणं तस्य भावः तं। अवयः शैलमेषार्का इत्यमरः। इरां वाचं पातीति। इरा भूवाक्‌सुराप्सुस्यादित्यमरः। पङ्कं कर्दमं विधत्ते एतच्छीलः॥ 16॥

आकर्ण्यास्य स्थूललक्ष्यत्वमन्न-

त्यागं नूनं रन्तिदेवो वितेने॥

कर्णश्चक्रे स्वाङ्गरक्षां बलिस्तु

क्षोणीं दध्रे तां पुनर्ना मुमोच॥ 17॥

आकर्ण्येति। स्थूललक्ष्यत्वं दातृतां। स्वाङ्गस्य निजदेहस्य रक्षां भस्म वस्तुतः। अन्नस्य त्यागं दानं। अयाचितव्रती रन्तिदेवः। अष्टचत्वारिंशद्दिनानि। सकूटुम्ब उपोषित आसीत्‌। ततः प्राप्तमन्नं भोक्तुं प्रवृत्तोप्यन्नार्थिविप्रेभ्यः सर्वान्नं ददाविति कथा पुराणे। स्वस्य अङ्गानां देशानां रक्षाम्‌। बलिः करः। भूमौ प्रत्यब्दं कर आसीदित्यर्थः॥ 17॥

वरीयोगुणाखण्डराशिप्रपूर्णा

तदीया द्वितीयाऽजयत्सा धरायाम्‌॥

श्रिताजा वृषाभा धृतद्वन्द्वचित्ता

नदीनाथकन्यातुलाभूर्धनुर्भूः॥ 18॥

कर्कोल्लसत्स्वच्छतनुः सदालि-

संगान्विता सिंहकटी घटस्तनी॥

देवी सती शुद्धमतिः पतीष्टा

या मीननेत्रा मकराग्र्यकुण्डला॥ 19॥

वरीय इति। अतिशयेन वराः वरीयांसः गुणाः यस्याः सा। अखण्डैः समग्रैः राशिभिः प्रपूर्णा प्रपूरिता। नदीना श्रीमती। नदीनेति न शब्देन सुप्सुपेति समासः। सा। तदीया। तस्य भीष्मस्येयं द्वितीया जाया। अजवत्सर्वोत्कर्षेण वर्तते स्म। सा कायाश्रितः अजः मेषराशिर्ययाधृतं द्वन्द्वं मिथुनं येन तच्चित्तं यस्याः सा। कन्यातुलयोः भूः स्थानम्‌। अली वृश्चिकस्तस्य सङ्गेन अन्विता युक्ता। वस्तुतः। वरीयो गुणानां। अखण्डैः नाशरहितैः। राशिभिः संहतिभिः पूर्णा। कीद्दृशी श्रितौ अजौ विष्णुशिवौ यया। वृषेण पुण्येन आभातीति। अधृतानि द्वन्द्वानि सुखदुःखादीनि येन तच्चित्तं यस्याः। कर्कः दर्पण इव उल्लसन्ती स्वच्छा तनुर्यस्याः। कर्कः कर्कटके वह्रौ श्वेताश्वे दर्पणे घटे इति मेदिनी। नदीनाथस्य समुद्रस्य कन्यायाः लक्ष्म्याः तुला सादृश्यं तस्याः भूः। सतामाल्याः पंक्त्याः सङ्गेनान्विता। देवी कृताभिषेकायामित्यमरः। सती पतिव्रता। शुद्धमतिः तन्नाम्नि च। पत्युरिष्टा प्रिया च॥ 18॥ 19॥

लावण्यमाकर्ण्यं वरेण्यमस्या

रम्भा स्वगात्रं तु तदूनरूपम्‌॥

मत्वात्मनामैव विलोमवर्णं

खगेन संस्था किलाप॥ 20॥

लावण्येतिराम्भा स्वर्वेश्याविशेषः। अस्याः शुद्धमतेः। वरेण्यं उत्तमं लाक्ण्यं श्रुत्वा। ततः शुद्धमतेः रूपादूनं रूपं यत्र तत्‌ खस्य गात्रं देहम्‌। विलोमवर्णं विपरीताक्षरम्‌। आत्मनः खस्य नामैव मत्वा भारमेव मत्वेत्यर्थः खगेन बाणेन संस्थां। मरणं आप किलेत्युत्प्रेक्षायाम्‌। वस्तुतः। खगेन देवेन सह संस्थां स्थितिम्‌। सा रम्भा। खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे इति मेदिनी॥ 20॥

औदार्यं विपुलं निरीक्ष्य सुद्दश्चास्या द्रुतं दुद्रुवुः

स्वर्गं सर्वसुरद्रुमाश्च सुरभिर्व्रीडाभराद्दुस्तरात्‌॥

पातालं य बलिर्धनञ्जयमहाहेत्यावलौ कोपभा-

क्कर्णस्त्वास निजं वपुर्जलधरो धत्ते च नैल्यं ध्रुवम्‌ 21

औदार्यमिति। कोपं भजतीति कोपभाक्कर्णः। धनंजयस्याग्ने महाहेतीनां पृथुज्वालानां आवलौ पङ्क्तौ निजं वपुः आस चिक्षेपा असुरणे। वस्तुतः। अं यज्ञरूपं विष्णुं पान्ति ते अपाः विप्राः आन्‌ भजति सोपभाक्‌। धनंजयस्य अर्जुनस्य महत्या हेत्या शस्त्रेण तीव्रबाणेनेत्यर्थः। बलस्य शक्तेः। ओकः सदनं शरीरं तत्याज। ध्रुवमुत्प्रेक्षायाम्‌।

मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः॥

उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दैश्च तादृशैः॥ 1॥

इति काव्यादर्शोक्तेः॥ 21॥

नामापि नैब कुलटाखलयोर्नय त्या

जिह्वापथं वनितयाथ तया च भूरि॥

कान्तामणी चिकुरहस्तंगताकृताहो

प्रीत्यैव साधुतिलकः पिशुनात्मकश्च॥ 22॥

नामोति। अहो इत्याश्चर्ये। कान्तामणी। वधूरत्नम्‌। चिकुरः कामुकस्तस्य हस्तगता। अकृत चक्रे। च। साधुषु तिलकः श्रेष्ठः। पिशुनात्मकः। दुष्टस्वभावो कृतः वस्तुतः। भूरि बहुला। कान्ता मनोरमा। मणी रत्नं चिकुराणां केशानां हस्तः समूहः तं गता। अकृत। उत्तमरत्नानि वेण्यां गुम्फितानीत्यर्थः। साधुः सुन्दरश्चासौ तिलकः पुण्ड्रकश्च पिशुनात्मकः कुङ्कुममयः॥ 22॥

सुदर्शनाजिह्यगचन्द्रहास-

शङ्खाजवज्रादिवभूषिता या॥

पझालया गौरमुखी गवीश-

शरीरजा हैमवतीव नित्यम्‌॥ 23॥

जेजीयते त्रिलोक्यामथ मधुपरसेविनी च रक्ताङ्घ्रिः॥

कृष्णभुजासंश्लिष्टा रक्तद्विजका वृषाकपेः प्रेष्ठा॥ 24॥

सा शम्बरं जनेभ्यो दातुं चात्मप्रियप्रियं कर्तुम्‌॥

अस्माद्भूभृत आविर्भूता गङ्गेव रुक्मिणीनाम्ना॥ 25॥

सुदर्शनमिति। या। पझालया लक्ष्मीः हैमवती। पार्वतीव। त्रिलोक्यां नित्यं जेजीयते। अतिशयेन जयति। साऽस्माद्भीप्मनाम्नः भूभृतः भूपात्‌। भूभृतः पर्वताद्गङ्गेव। आविर्भूता प्रकटीबभूव। इति त्रयाणामन्वयः। किं कर्तुं। जनेभ्यः। बवयोरैक्याद्वरं उत्तमं शं सुखं दातुं। एवमग्रेपि क्वचित्क्वचिद्बवयारैक्यं ज्ञेयम्‌। च। आत्मनः प्रियस्य श्रीकृष्णस्य प्रियमभीष्टं कर्तुम्‌। गङ्गापक्षे शम्बरं जलम्‌। आत्मा स्वमेव प्रिया येषां तेषामभीष्टं च। कीदृशी पझा शोभनं दर्शन यस्याः सा। यद्दर्शनेन जनाः श्रीमन्तो भवन्तीत्यर्थः। पुनः कीदृशी। अजिह्मगचन्द्रहासशंखाब्जवज्रादिविभूषिता। अजिह्मान्‌ जिह्मान्यान्‌। अनलसान्‌ सरलस्वभावान्‌ गच्छतीति अजिह्मगा। अन्येभ्योपि दृश्यत इति डः। जह्मस्तु कुटिलेलसे इतियमरः। चन्द्र इव हासो यस्याः सा। अजिह्मगा चासौ चन्द्रहासा च। शंखः करभूषा। अब्जं कमलम्‌। वज्रं हीरकं च। वज्रोस्त्री हीरके पवावित्यमरः। आदिना मुक्तादेर्ग्रहः। एतैर्विभूषिता। सा चासौ सा च। गौरश्चन्द्र इव मुखं यस्याः। गवां जलानामीशस्य समुद्रस्य शरीरजा। कन्या। मधुपरसेविनी। विष्णुं सेवमाना। रक्ताङ्घ्रिः। आरक्तपादा। श्रीकृष्णभूजाभिः संश्लिष्टा। आलिङ्गिता। द्विजाः विप्रक्षत्रविशः मुख्या येषां ते। द्विजकाः। स एषां ग्रामणीरिति कः। रक्ता अनुरक्ता द्विजाद्या यत्र। अथ कीदृशी हैमवती सुदर्शनशस्त्रादिभिर्विभूषिता। अजिह्मगः बाणः। चन्द्रहासोऽसिः। आदनाऽनुक्तगदादेर्ग्रहः। अक्षमाला च कमलं बाणोसिः कुलिशं गदा। चक्रं त्रिशूलं परशुः शंखो घण्टा च पाशक इत्याद्युक्तेः। गौरं शुभ्रं मुखं यस्याः। श्वेतानना नीलभुजेत्युक्तेः। गोः स्वर्गस्य ईशाः देवाः। तेषां शरीरेभ्यो जता। सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभेत्युक्तेः। मधु मद्यं रलयोरैक्यात्पलं मांसं च सेवितुं शीलं यस्याः सा। कृष्णाभिः भुजाभिः संयुक्ता। रक्ता द्विजका दन्ता यस्याः। द्विजा एव द्विजकाः। रक्ता दन्ता भविष्यन्ति इत्युक्तेः॥ 23॥ 24॥ 25॥

प्रवरा च तुङ्गभद्रा फल्गुर्वदने सरस्वती यस्याः॥

मौलौ च कृष्णवेणी वपुषो मध्ये ककुझती रम्या॥ 26॥

पुष्करदृग्भोगवती समुद्रपाणिः स्वयं नृपस्यास्य॥

भूरितृषोऽपापकुले सावातरदिति मुदम्बुराशिरभूत्‌ 27

प्रवरामिति। इदं युग्मम्‌। यस्याः रुक्मिण्याः वदने। प्रवरादिनदीचतुष्कमस्तीतिशेषः। मौलौ मस्तके कृष्णवेणी। कृणाख्यनदी। ककुद्मती नदीविशेषः। स्वय भोगवती नागानां नदी। पुष्करं तीर्थं दृग्यस्याः सा। भूरि बह्वी तृट्‌ तृषा यस्य तस्य अस्य भीष्मनाम्नः नृपस्य। अपापकुले। अपगताः आपः यस्मात्तदपापम्‌। ऋक्पूरब्धूः पथामानक्षे इत्यप्पत्ययः। अपापं च तत्कुलं गृहं च तत्र। कुलं जनपदे गोत्रे सजातीयगणेपि च। भवने च तनाविति मेदिनी। शेषं स्पष्टं। वस्तुतः। सरस्वती वाणी। कीदृशी। प्रकर्षेण वरा श्रेष्ठा। प्रकृतिप्रत्ययविचारवतीत्यर्थः। तुङ्गं उच्चं भद्रं कल्याणं यतः सा। अफल्गुः। असारान्या। कोटिः श्रोणिः ककुझतीत्यर्थः। पुष्करं कमलमिव दृशौ नेत्रे यस्याः। भोगः सुखं तद्वती। मुद्राभिरंगुलीयकैः सहितौ पाणी यस्याः सा। भूरौ श्रीकृष्णे तृट्‌ इच्छा यस्य तस्य। श्रीकृष्णेच्छोः। भूरिर्ना वासुदेवे च हरे च परमोष्ठिनीति मेदिनी। अपापकुले पुण्यवंशे॥ 26॥ 27॥

तस्याश्च पूर्णक्षणदेशरूप-

रूपश्रिपोभूत्कमला त्वमध्या॥

वदन्ति तत्साम्यमुमापि गन्तुं

वाच्छन्त्यनाद्यैव भवत्विति ज्ञाः॥ 28॥

तस्याइति। कमला। लक्ष्मीः। तस्या रुक्मिण्याः। पूर्णः। क्षणदाया रात्र्या ईशः चन्द्रः। रूपं आकारः

यस्याः रूपश्रियः सौन्दर्यसम्पत्याः। अमध्या तु। न मध्यः मवर्णः यस्याः सैव। तु शब्दोवधारणे। कलैव। षोडशांश एवाभूदित्यर्थः॥ च। उमापि तत्साम्यं गन्तुं वाञ्छन्ती। अनाद्यैव। आद्यवर्णरहिता। मैव भवतु इति ज्ञाः बुधा वदन्ति॥ तस्या रूपसंपत्तेः लक्ष्मीरूपं कलामात्रमिति प्रथमार्धतात्पर्यम्‌॥ तद्रूपसादृश्यवाञ्छामपि कर्तुमनर्हा उमेति उत्तरार्धतात्पर्यम्‌॥ अथ च। अमध्या। अवलग्नरहिता। कमला। पूर्णस्य क्षणस्य उत्सवस्य देशः सथानं तद्रूपायाः रूपश्रियः साम्यं वाञ्छन्ती अभूत्‌। पूर्णः समग्रः क्षणः। यतः तस्याः। देशरूपायाः समञ्जसायाः रूपश्रियः साम्यमिति वा। च। उमापि तत्‌ सपत्वं वाञ्छन्ती भवतु। कीदृशी। अनाद्या। न आद्या यतः सैवेत्यर्थान्तरमपि॥ 28॥

तस्या वीक्ष्याम्बुजाक्ष्या निजवपुरधिकं वक्रचन्द्रं च चन्द्रो

दग्ध्वा न्यूनत्वबीजं निडजमलमखिलस्तत्तुलामाप्तुकामः॥

चिक्षेपाङ्गं तमोघ्ने मुहुरपि तदपि प्राप नास्योपमानं काचः

स्वच्छोपि किं श्रीहरिगलगमणेः साम्यगामी मणिः स्यात्‌ 22

तस्यावीक्ष्येति। निजवपुषः स्वदेहादधिकं। अखिलः पूर्णः चन्द्र तमोघ्ने अग्नौ। तमोध्नः सूर्यवह्नीन्दुगुरुशङ्करविष्णुषु। इति मेदिनी। काचस्यायं काचः। वस्तुतः। तमोघ्ने शङ्करे तन्मस्तके इत्यर्थः। अमुहुः सकृत्‌। चन्द्रः स्वर्णे सुधांशौ चेति॥ 29॥

तस्याश्च भावि प्रियदन्तखण्डन-

त्रासादिवात्यन्तकृशो रदच्छदः॥

रेजे सदा साधुतमोपि भास्वतो

बिम्बस्य तेजोपि वहन्नहो भृशम्‌॥ 30॥

तस्याश्चेतिरिदच्छदः ओष्ठः। जात्यैकवचनम्‌। अहो इत्याश्चर्ये। असाधु। तमः ध्वान्तमपि च। भास्वतः भानोः। बिम्बस्य मण्डलस्य तेजः दीप्तिमपि वहन्‌। भृशं रेजे॥ वस्तुतः अतिशयेन साधुः सुन्दरः साधुतमः॥ भास्वतः कान्तिमतः। बिम्बस्य बिम्बिकाफलस्य। तेजः कातिम्‌॥ 30॥

तस्या मुखारविन्दं किल गन्धवहामिषेण गन्धफलीम्‌॥

बभ्रे भृङ्गकुलस्य स्वस्मिन्सम्पातसाध्वसं हर्तुम्‌॥ 31॥

गन्धफलीं चम्पककलिकाम्‌। भृङ्गो भ्रमरखिङ्गयोरिति मेदिनी। सम्पातात्साध्वसं भयम्‌॥ 31॥

प्रापस्तया वनितया विजितेन कट्या

कण्ठीरवेण सरुषेण च दृष्टमात्रः॥

तद्धेमभूधरपयोधरबन्धुकुम्भौ

मौलौ सदा दधदिभोथ विदार्यतेऽरम्‌॥ 32॥

प्रायइतिरुषया कोपेन सहितस्तेन सरुषेण। रुट्‌शब्दस्य। आपञ्चैव हलन्तानां यथा वाचा निशा दिशेति भागुरिमतादाबन्तता॥ कण्ठीरवेण सिंहेन। इभः हस्ती। अरं शीघ्रं विदार्यते॥ कीदृशेन कण्ठीरवेण। तया वनितया रुक्मिण्या कर्त्र्या। कट्य करणेन। विशेषेण जितेन॥ कीदृशः इभः। तस्या रुक्मिण्या हेमभूधरः सुवर्णपर्वत इव पयोधरौ स्तनौ तयोः बन्धू सदृशावित्यर्थः। कुम्भौ प्रति मौलौ मस्तके सर्वदा दधत्‌। प्राय उत्प्रेक्षायाम्‌॥ 32॥

वाक्‌ सूनृतासीत्सरसा स्वराभा

सनागलोका मधुरा सुधाधिका॥

तस्या विधेयाः सकला हि लोका

मनोज्ञकण्ठ्या अभवन्निरन्तरम्‌॥ 33॥

वागिति। तस्याः रुक्मिण्याः। वाक्‌। सूनृता। सत्यप्रिया। रसैः शृङ्गारादिभिः रसया पृथिव्या च सहिता। स्वरैः गान्धारादिभिः। स्वः स्वर्गेणं च आभातीति। सना नित्यं। सुदाधिका मधुरा। अतएव। अगा न गच्छन्तीत्यगाः लोका यया। या शृण्वन्तः सन्तः तिष्टन्तीत्यर्थः। सनागलोका। पातालसहिता च आसीत्‌। हि

अतः हतोः। सकलाः लोकाः मनोज्ञकण्ठ्याः सुन्दरध्वनेः॥ कण्ठो गले संनिधाने ध्वनौ मदनपादपे इतिमेदिनी। तस्याः विधेयाः वचने स्थिताः अभवन्‌॥ 33॥

जातु सदोधिष्ठास्नुं सुतया साकं नृपं तमाशीर्भिः॥

अभिनन्द्य कीर्तिनामा गृहागतोऽवर्णयद्द्विजः कृष्णम्‌ 34

जातु कदाचित्‌। सदः सभां। सुतया रुक्मिण्या पुत्र्या 34

यस्य त्वनन्तागुणपत्रिचक्रिणो

धाता नियन्ता च सखा नरस्य यः॥

यो वै सुवर्णाद्रिशरासनस्तमो-

नुच्चक्र आसीन्निगमान्समुद्धरन्‌॥ 35॥

शुचि यजमानविरोचनभूकमलानन्तराजमरुदात्मा॥

अग्रं नागं दमयन्नवतु स कृष्णः शिवश्च राजंस्त्वाम्‌॥ 36॥

यस्येति युग्मं। आदावाशीर्भिरभिनन्दनमाह पञ्चभिः। हे राजन्‌ सः कृष्णः। च परम्‌। शिवः। त्वां अवतु रक्षतु। सः कः यः। पुरा मत्स्यावतारे। निगमान्‌ वेदान्‌ सम्यगुद्धरन्नासीत्‌। यस्य च। गुणाः। भक्तवात्सल्यादयः। पत्री पक्षी गरुडः। चक्री सर्पः शेषः अनन्ताः नाशरहिताः सन्ति। यश्च धाता भर्ता। यश्च नरस्य अर्जुनस्य सखा। नियन्ता सारथिश्च। यश्च सुवर्णाद्रिशरासनः। शोभनः वर्णः यशः यस्य। अद्रौ सूर्ये। शरे उदके च। आसना स्थितिर्यस्य। स चासौ स च। अद्रयो द्रुमशैलार्का इति। स्यादास्या त्वासना स्थितिरिति च। अमरः। शरस्तु तेजने बाणे दध्याग्ने ना शरं जले इति मेदिनी। तमोनुत्सूर्य इव चक्रं सुदर्शनं यस्य स च। कल्पान्ततिग्मकरकल्पमिति चम्पूक्तेः। शुचयः पवित्राश्च ते यजमानाश्टच विरोचनभूः बलिश्च। कमला लक्ष्मीश्च। अनन्तः शेषश्च। राजा शक्रश्च। मरुतो देवाश्च। तत्रात्मा चित्तं यस्य। राजा प्रभौ नृपेशक्ते चन्द्रे क्षत्रिययक्षयोरिति। च। उग्रं क्रूरं नागं कालियं सर्पं दमयन्‌॥ अथ शिवपक्षे। समुत्‌ हरन्निति पदे। यः निगमान्‌ पुराणि हरन्नाशयन्‌ सन्‌। निगमो वणिजे पुर्यां कटे देवे वणिक्‌ पथे इति विश्वः। सुवर्णाद्रिः मेरुः। शरासनं चापं यस्य। तमोनुदौ चन्द्रार्कौ चक्रे रथाङ्गे यस्य स चासौत्‌। च। अनन्ताः शेषविप्णुभूमयः। सरूपाणामेकशेष एकविभक्तौ इत्येकशेषः। क्रमाद्यस्य। गुणपत्रिचक्रिणः मौर्वीबाणरथा आसन्‌। च धाता। ब्रह्मा यस्य नियन्ता सारथिरासीत्‌। रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति इत्याद्युक्तेः॥ कीदृशः। नरस्य विप्णोः सखा। समुत्सानन्दश्च। च। परं। शुचिरग्निश्च। यजमानश्च वरोचनोर्कश्च भूर्भूमिश्च कमलं जलं च अनन्तमाकाशं च राजा चन्द्रश्च मरुद्वातश्चैतेष्ट आत्मनः मूर्तयो यस्य॥ अवनिश्च तथा वायुर्यजमानजलाग्नयः। सूर्यश्चन्द्रो नभश्चैता अष्टौ शङ्करमूर्तयः। इत्युक्तेः। उग्रं नागं गजासुरं दमयंश्च 35॥ 36॥

आर्यादृतोऽमरहितो द्विजराजयुक्तो

भूत्याश्रितोङ्ग हरिकुञ्जरभूषितोव्यात्‌॥

गोपालकः प्रियविनायक ईश्वरो वा

दामोदरोनवरतं स्वसमं भवन्तम्‌॥ 37॥

आर्यादृतेति। अङ्ग हे राजन्‌। कीदृश ईश्वरः। आर्यायां पार्वत्यामादृतः सादरः। आदृतौ सादरार्चितावित्यमरः। अमराणां हितः। द्विजराजेण चन्द्रेण युक्तो। भूत्या अमिमाद्यैश्वर्येण। भस्मना च आश्रितः। हरिषु सर्पेषु कुञ्चरैः श्रेष्ठैः भूषितः। गोः दिश. पालकः। प्रियः विनायकः गणेशः यस्य। स च॥ दामोदरस्तु आर्यैः साधुभिः। आदृतः पूजितः। द्विजराजैः नारदादिभिः युक्तः। भूत्या लक्ष्म्याश्रितः। हरिकुञ्जरेण वानरश्रेष्ठेन हनूमता सुग्रीवादिभिर्वा भूषितः शुकाहिकपिभेकेषु हरिर्नेत्यमरः। गवां इन्द्रियाणां पालकः। प्रियः विनायकः मरुडो यस्य। राजा तु। आर्येषु सादरः। अमेन रोगेण रहितः। आमोरुक्तद्भिदोः पुंसीति मेदिनी। अम आमः प्रकीर्तित इति द्विरूपः। अमलानामपापानां हित इति वा । द्विजराजैः विप्रश्रेष्ठैः युक्तः। भूत्या संपदाश्रितः। हरिभिरश्वैः कुञ्जरैश्च भूषितः। गोः भूमेः पालकः। प्रियः वनायकः गुरुर्यस्य। विनायकस्तु हेर बे विघ्ने तार्क्ष्ये

जिने गुराविति मेदिनी॥ 37॥

राजन्यहीनं कृपणाधिकोरि-

मीसारभुग्घूकसमः प्रभो ते॥

रसाच्युतो दुःखयुतो दवार्तो

वर्णं विनाद्यं तु भवानपि स्यात्‌॥ 38॥

राजन्येत। हे प्रभो ते तव अरिः। राजन्येषु क्षत्रियेषु हीनः। तदादिः स्यात्‌। मासारं भकग्तमण्ड भुनक्तीति। मासारा चामनिः स्रावा इत्यमरः। पेज इति प्रसिद्धं। रसायाः भूमेः च्युतः। दवेन वनाग्निना आर्तः पीडितः। भवानपि प्रथममक्षरं विना तादृशः स्यात्‌॥ स यथा। जन्येन अपवादेन हीनः। पणैः धनैरधिकः। सारग्राही। कसमः। विरिञ्चतुल्यः। साच्युतः। विष्णुयुतः। खेन सुखेन युतः। वार्तः निरामयः॥ 38॥

भव प्रभो विश्वगुणः सुपण्ड-

स्त्वं कुञ्जराढ्यो भुवनाधिभूश्च॥

संसारशून्यः खलु बन्धनान्यः

शत्रुर्भवत्वप्रथमाक्षरस्ते॥ 39॥

भवेतिविश्वे सर्वे गुणाः क्षमादयो यत्र। शोभना पण्डा बुद्धिर्यस्य। भुवनस्य अधिभूर्नायकः। संसारशून्यः। जन्ममरणरहितः। शत्रुस्तु। श्वगुणः शुन इव गुणा यस्य। पण्डः क्लीबः जरया संपन्नः। वनाधिभूः। वनस्य प्रवासस्य। आधीनां मनः पीडानां च भूः स्थानम्‌। वनं प्रस्रवणे नीरे प्रवासालयकानने इति हैमः। सारशून्यः। बलहीनः। सारो बले मज्जनि च स्थिरांशे इति मेदिनी॥ 39॥

अथ सच्चकोरचन्द्रो दुष्टतमोर्कश्च कुङ्कुमं मह्याः॥

यदुकुलमयूरमेघः प्रादुर्भूतोङ्ग साम्प्रतं श्रीशः॥ 40॥

सत्कर्णकर्णपूरं श्रुतिगीतं जितसुधं च तस्य यशः॥

श्रुत्वा मनागपि नरो हृन्मलमखिलंधुनोत्यतः शृणु भोः 41

अथेति॥ 40॥ सत्कर्णेति॥ 41॥

जुष्टः कष्टहरो निजेष्टवृतये वैरोचनेः सूनुना

लङ्केशादिमधुव्रतैर्बहुमतैः पीताङ्घ्रिपझद्रवः॥

सूत्रामात्मजभावितापचितिकः श्रीमन्महेशोपमो

भूमिं भूषयति प्रभुः स सकलां सत्पझशंखादिभृत्‌ 42

जुष्ट इति। विरोचनस्य रवेरपत्यं कर्णस्तस्य। अतइञ्‌। इतिञ्‌ सुनुनाऽनुजेन युधिष्टिरेण। सूनुः पुत्रेनुजेर्के ना इति मेदिनी। कर्णानुजो युधिष्ठिर इति त्रिकाण्डशेषः। जुष्टः सेवितः। केशादिमधुव्रतैः। कः ब्रह्मा। ईशः शंभुः। केशो वरुणो वा तदादय एव मधुव्रताः भ्रमरास्तैरलं पर्याप्तं पीतः अङ्घ्रिपझस्य द्रवः रसः यस्य सः। सूत्राम्णः शक्रस्य आत्मजेन वालिना। भाविता। प्राप्ताऽपचितिर्मरणं यस्मात्सः। क्षयार्चयोरपचितिरित्यमरः। शिवपक्षे वैरोचनेः बलेः सूनुना॥ पुत्रेण बाणासुरेण। लङ्केशः रावणः सुत्रामात्मजादर्जुनात्‌ भाविताऽपचितिः पूजा येन। लब्धं प्राप्तं विन्नं भावितमित्यमरः। पझशंखादिनामसर्पान्‌ भूषात्वेन बिभर्तीति॥ 42॥

मदनो रूपे वज्रः कलुषागे पावकोघतृण्यायाम्‌॥

रामः कीर्तौ जीवो वचने भीष्मो व्रते हरिर्जयति॥ 43॥

मदनेति॥ 43॥

तद्विग्रहे तु दृष्टे भीरूणामपि नृणां भवेत्प्रमदः॥

द्वन्द्वेतरदपि सन्मन उच्चैः कुरुते रतिं च तत्कीर्तौ 44

तद्विग्रहेति। तस्य श्रीहरेः विग्रहे युद्धे दृष्टे सति भीरूणां भयशालीनामपि नृणां प्रमद आनन्दो भवति। इति। विरोधः। परिहारस्तु। विग्रहे देहे। विग्रहः कायविस्तरि विभागे समरेस्त्रियामिति मेदिनी। भीरूणां

योषितां नृणां पुरुषाणामपि अथ द्वन्द्वान्मिथुनादितरन्नपुंसकमपि। स्त्रीपुंसौ मिथुनं द्वन्द्वमित्यमरः। रतिं सुरतं परिहारे तु द्वन्द्वानि सुखदुःखादीनि। रतिं प्रीतिम्‌॥ 44॥

कृष्णोपि गौरवर्णो देवप्रभुरपि सदा बलप्रेमा॥

विधुरपि कमलामोदद ईश्वरदयितोपि सन्द्विषन्नुग्रम्‌ 45

कृष्णेतिबलः दैत्यभेदः उग्रं शम्भुम्‌। परिहारे। गौरः शुभ्रः वर्णः यशः यस्य। बलः। बलभद्रः। विधुः विष्णुः कमला लक्ष्मीः। उग्रं क्रूरम्‌॥ 45॥

जिष्णुप्रियोपि जिष्णोः संमदहर्ता सघोरवृष्ट्या च॥

गोसमवनेच्छुरपि गोवर्धनमुत्पाट्य गोक्षयं कृतवान्‌ 46

जिष्णुरिति। जिष्णुरर्जुनः। संमद आनन्दः। गवां क्षयं नाशं। परिहारे जिष्णोरिन्द्रस्य। संमदस्य अतिगर्वस्य हर्ता। गवाम्‌। क्षयम्‌ आलयम्‌॥ 46॥

रविणा समः प्रतापस्तस्यैवं ये वदन्ति ते मन्दाः॥

रेफमुखेन प्रमुखः कथमिव तुल्यो भवेत्त्वमेव वद॥ 47॥

रविणोतिरेफेषु कुत्सितेषु मुखेन भुख्येन। प्रमुखः श्रेष्ठः। यद्वा कुत्सिततुप्डेन प्रकृष्टतुण्ड इति विरोधः। परिहारोरवर्णारम्भेण। प्रवर्णारम्भः। मुखं निःसरणे वक्रे प्रारम्भोपाययोरपीति मेदिनी॥ 47॥

अविना विनाशितोपि प्रागिव वृत्रोखिलः पुनर्भवति॥

तस्य प्रतापनिहतो भवति न वृत्रः कदापि कुत्रापि॥ 48॥

अविनेतिअविना रविणा। वृत्रः। शत्रुः। अन्धकारंश्च। वृत्रो रिपौ घने ध्वान्ते शैलभेदे च दानवे इतिमेदिनी॥ 48॥

तस्याननाम्बुजनने प्रचुरैर्नकारै-

र्युक्तेपि नास्ति च कदापि नकार एवम्‌॥

मिथ्या गदन्ति कृतनोपि यतः समग्राः

प्रायो जनास्तु महतां स्थगयन्ति दोषम्‌॥ 49॥

तस्येति। स्थगयन्ति आच्छादयन्ति॥ 49॥

चित्रं तस्य मुखेन्दुं दृष्ट्वा विकसन्ति नेत्रकमलानि॥

किं चातकोपि करुणालोकः प्रेतानजीवयल्लोकान्‌॥ 50॥

चित्रमिति। अन्तकः मारकाः। परिहारः अन्ते कः ककारो यस्य मनोहरोपि॥ 50॥

प्रवयोरदवसनोपि प्रवालरदनच्छदः स देवेशः॥

सेव्यः सकलैर्गोपीलोकैः पीताधरोपि राग्योष्ठः॥ 51॥

प्रवय इति प्रवयो वृद्धं रदवसनं ओष्ठो यस्य सोपि। प्रकर्षेण बालः शिशुः रदनच्छद ओष्ठो यस्य सः। रागी रक्तः ओष्ठो यस्य सः। कीदृशः देवेशः। सकलैः तरुणै। कलं शुक्रे इति मेदिनी। गोपीजनैः सेव्यः। परिहारस्तु ! प्रकृष्टानि वयस्तारुण्यं रदाः वसनानि च यस्य। प्रवालः विद्रुम इव रदनच्छदः यस्य सः। सकलैः सर्वैः सेव्यः। च गोपीजनैः पीतः प्राशितः ओष्ठः यस्य सः। रागी ताम्बूलादरागवान्‌ चुम्बनकामुको वा ओष्ठो यस्य स। रागी रक्ते च कामुके इति मेदिनी॥ 51॥

कुवलावलीं स कण्ठे करशाखासूर्मिकावलीं विदधे।

तेनान्यथा विधातुं स समर्थ इति स्फुटं जनैर्ज्ञातम्‌॥ 52॥

कुवलेति। कण्ठे मदनद्रुमे। कुवलानां बदराणां आवलिं पङ्क्तिं। कुवलं चोत्पले मुक्ताफले च बदरीफले इतिमेदिनीकरशाखासु अंगुलीषु ऊर्मिकाणां तरङ्गगाणां आवली इति विरोधः। परिहारः गले कमलमालां मुक्ताहारं च। अङ्गु0 ऊर्मिकाणां अंगुलीयकानां पङ्क्तिं। ऊर्मिका चांगुलीये स्याद्वस्त्रभङ्गतरङ्गयोः। इतिमेदिनी॥ 52॥

तस्य वक्षो विशालं च ज्ञात्वा तत्र स्थिता नृप॥

शतपत्रालयोदारा यता कामं प्रियालये॥ 53॥

वीनां पक्षिणां शाला गृहं। विशालं। विभाषासेनासुराच्छायाशालानिशानामिति वा क्लीबत्वं। तत्र। शतपत्रपक्षिणां आलयः पङ्क्तयः। कामं यथेप्सितं स्थिताः। शतपत्रः शिखण्डिनि। दार्वाघाटे सारसे च कमले तु नपुंसकमिति मेदिनी। किंवत्‌। यथा। दाराः। पत्नी। प्रियस्यालये तिष्ठति तद्वत्‌। अथ च। विशालं पृथुलं प्रियश्चासावालयस्तरिमन्नभीष्ठगृहरूपे तत्र वक्षसि। उदारा। महती। शतपत्रालया। लक्ष्मीः। यथाकामं स्थिता। अत्र वर्ण्यावर्ण्यश्लेषः॥ 53॥

कौस्तुभमणिश्च वत्से दुहितुर्भाविप्रियस्य कालिन्द्याः॥

पङ्कजमालां फुल्लीकर्तुं सततं स्थितोर्क इव भाति॥ 54॥

नमः पङ्कज मालिने इति कुन्तीस्तुतौ॥ 54॥

तस्य प्रतापपूष्णा कुमुदौत्फुल्यं कृतं कराब्जेन॥

गोपीकुचचक्रकुलेऽकार्यामोदश्च चित्रमेतदपि॥ 55॥

करः हस्तु एवाब्जश्चन्द्स्तेन। गोपीनां कुचा एव चक्राः। चक्रवाकास्तेषां कुले। आमोद आनन्दः। अकारि। कृतः॥ परिहारः कोः भूमेः मुदः। आनन्दस्य प्रफुल्लत्वं। कर एव अब्जं कमलं तेन ॥55॥

त्रातुं सुमनस उर्व्यामवतीर्णोपि प्रभुः स रासेऽद्दो॥

च्छित्त्वा मञ्जु सुमनसः क्षिपति स्रक्‌सुरतरङ्गिणीवेण्यां 56

सुमनाः पुष्पमालत्योः स्त्रियां नाधीरदेवयोरिति मेदिनी। रासे क्रीडाविशेषे। अहो इति विस्मये। सुराणां तरङ्गिणी नदी तस्या वेण्यां प्रवाहे। परिहारः। सुरते रङ्गवती नारी तस्याः प्रवेण्याम्‌॥ 56॥

ह्रदिनीभवं इतिबहुलं पझं न क्वापि पझजा ह्रदिनी॥

चित्रं तस्य पदाम्बुजभूता वृन्दारकापगा महती॥ 57॥

पझानां नदीजत्वे प्रमाणं। स्वर्गापगाहेममृणालिनीनां माला मृणालाग्रजभुजो भजाम इति नैषधादौ ज्ञेयम्‌॥ 57॥

यं वर्णयन्ति श्रुतयोपि नित्यं

दृशोपि गायन्ति यशो यदीयम्‌॥

शृण्वन्ति हार्देन च तद्रसज्ञा

अप्यस्य चित्रा प्रभुता लुलोके॥ 58॥

श्रुतयः कर्णाः वेदैश्च। दृशः। नेत्राणि। ज्ञातारश्च। रसज्ञाः। जिव्हाः। रसविदश्च॥ 58॥

जगत्सु तं विनास्ति कः सुरो वरो गुणादिभिः॥

यदीयभक्तिभिर्नृणां मनः प्रसदिति द्रुतम्‌॥ 59॥

भक्तिभिः। नवविधाभिः॥ 59॥

सर्वज्ञोपि महेश्वररतु सततं कात्यायनीं वाञ्छति

धत्ते शीर्ष्णि सुरापगां प्रियतया चास्ते सदोषाकरः॥

चक्रे ब्रह्मवधं भुजङ्गपतिरोचिष्णुर्ह्यनेकाम्बको

भूतेशः पशुपालको निगमहा भीष्माऽविचारी ध्रुवम्‌ 60

कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा॥ इत्यमरः। सुरापं मद्यपं गच्छति ताम्‌। दोषाणामाकरेण समूहेन सहितः आकरो निकरे रत्नस्थाने श्रेष्टेपीति मेदिनी। ब्रह्मणः विप्रस्य वधम्‌। भुजङ्गानां खिङ्गानां पतिषु रोचिष्णुः विभ्राट्‌। अनेकेम्बकाः पितरो यस्य। अम्बकं नयने क्लीबं ना पितरीति हला युधः। निगमान्वेदान्‌ हन्तीति। वस्तुतः। सुराणामापगां नदीं गङ्गाम्‌। दोषाकरेण निशाकरेण सहितः। ब्रह्मणः विरिञ्चस्य वधम्‌। मस्तकच्छेदमिति यावत्‌। भूतस्य सत्यस्य ईशः। पालकः। तिर्यग्जाजातौ पशुः प्रोक्तः सर्वप्राणिनि पुंस्ययम्‌। इति रामाश्रम्याम्। निगमान्पुराणि हन्तीति। अवौ पर्वते चारः गतिर स्त्यस्य। हे भीप्म॥61॥

इन्द्रोपि चाधिभू राजन्‌ स देवानां प्रियोत्तमः॥

भातङ्गपालो गोत्रध्रुक्‌ पाकहन्ताऽमृताशनः॥ 62॥

आधीनां व्यसनानां भूः स्थानम्‌। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधय इत्यमरः। देवानां प्रियेषु मूर्खेषु उत्तमः। अतिमूर्खः इत्यर्थः। देवानां प्रिय इति च मूर्खे इत्यलुक्‌। मातङ्गान्‌ चण्डालान्पालयति। गोत्राय कुलाय द्रुह्यतीति। पाकानां शिशूनां हन्ता। मृतं याचितमश्नातीति। द्वे याचितायाचितयोर्यथासंख्यं मृतामृते। इत्यमरः। वस्तुवस्तु। देवानां अधिभूः। पतिः। प्रिया उत्तमाः साधवः यस्य सः। मातङ्गं ऐरावतं गजं पालयति। गोत्रेभ्यः पर्वतेभ्यः द्रुह्यतीति। पाकाख्य दैत्यस्य हन्ता। अमृताशनः॥ 62॥

आदित्यः खलु काव्यशत्रुरखिलां सन्तापयत्येव गां

पादैरन्धकुलं निहन्ति नितरां खेटेषु मुख्यो भ्रमी॥

विप्रेशं वितनोति निष्प्रभमथो साधून्‌ द्विजान्कर्मणि

स्वीये योजयति ध्रुवं कुवलयं म्लानीकरोत्येव च॥ 63

काव्यशत्रुः मूर्खः। खेटेषु अधमेषु॥ कुवलयं भूमण्डलं वस्तुतः। काव्यस्य शुक्रस्य शत्रुः. कवेः शशिरवी शत्रू इति चिन्तामणिः। गां भूमिम्‌। पादैः किरणैः अन्धस्य तमसः कुलं समूहम्‌। खेटेषु ग्रहे,ु मुख्यः। भ्रमः भ्रमणमस्त्यस्य। विप्रेशं चन्द्रम्‌। स्वीये कर्मणि स्नानसंध्यादौ॥ 63॥

चन्द्रः सुतं द्वेष्टि कविं च कृष्ण-

मुग्रावतंसो जडऋक्षपालः॥

कलङ्कपात्रं वृषलाधिभूव-

द्भुंक्तेय्रजन्मेडपि मेषमुख्यान्‌ ॥ 64॥

उग्रेषु अवतंस इव मुख्य इत्यर्थः। अत्यन्तक्रूरः। ऋक्षान्‌ भल्लूकान्पालयतीति। वृषलानां अधिभुवा नायकेन तुल्यं अग्रजन्मनां विप्राणां ईट्‌ स्वाभी सन्‌ अपि। मेषः मुख्यः येषु कुक्कुटादिषु तान्‌ भक्षयति॥ वस्तुतः। सुतं सौम्यम्‌। कविं। शुक्रम्‌। कृष्णं शनैश्चरमेषां शत्रुत्वमिन्दौ मार्तण्डादौ उक्तम्‌। उग्रस्य शम्भोरवतंसः शेखरः। जडः शीतलः। ऋक्षपालः नक्षंत्रशः। कलङ्कोकेपवादे चेति मेदिनी। वृषलाधिभूः। बुधस्तद्वत्‌। विप्राधीशौ भार्गवेज्यौ कुजार्कौ राजन्यानामोषधीशो विशां च। शूद्राणां ज्ञश्चान्त्यजानां शनिः स्यादिति चिन्तामणौ। बुधवल्मेषादिराशीत्भुङ्क्ते न तु राहुवद्विलोमतयेत्यर्थः 64

सङ्कर्षणो द्विजिह्वप्रमुखश्चोरः सरोगदेहश्च॥

गोत्राधर सदाहङ्करणं श्रयते भुजङ्गराजो वै॥ 65॥

सङ्कर्षणः शेषः। द्विजिह्वेषु सूचकेषु प्रमुखः। गोत्रे कुले अधरः। नीचः दाहेन सहितं करणं कृतिम्‌। परान्प्रति तापप्रदं करणं करोतीत्यर्थः। भुजङ्गानां खिङ्गानां राजा च। वस्तुतः। द्विजिह्वानि प्रकृष्टानि मुखानि यस्य सः। उरसा सरतीत्युरःसरः। अगः पर्वत इव। अं विष्णुं शय्यात्वेन गच्छतीति वा देहो यस्य सः। गोत्रायाः भूमेः धरः धारकः। सदा अहङ्करणमहङ्कारं श्रयतेऽधितिष्ठति च। मनोबुद्ध्यहङ्कारतित्तान्यधिष्ठातारः। अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवा इति श्रीभागवतादौ॥ 65॥

वायुर्वहति च गन्धं शैलूषादेः करोति सङ्गं च॥

भजते पद्मिन्याद्याः पुष्पवतीर्मुनिमुखान्प्रपीडयति 66

गन्धम्‌। गर्वम्‌। मन्धो गन्धक आमोदे लेशे सम्बधगर्वयोरिति विश्वः। शैलूषादेः नटादीनां। आद्यशब्देन चित्रिणीशंखिनीहस्तिनीनां ग्रहः। वस्तुतः। गन्धं आमोदम्‌। शैलुषादेः बिल्वादीनां। पद्मिनी पद्मसंघाते स्त्रीविशेषसरोम्बुजे इति मेदिनी। मुनिमुखानगस्त्यशिग्रुद्रुमादीन्‌। एते शीघ्रभङ्गा अतः प्रपीडयतीत्युक्तम्‌॥66॥

अग्निः सदा गा अवति प्रजानां

सत्राशनेऽयं प्रियतां दधाति॥

महच्च भूतं परतापदं च

प्रियैडकं प्राहुरथैनमार्याः॥ 67॥

गाः। पशून्‌। सत्रान्नभोजने। भूतं पिशाचम्‌। वस्तुतः। गाः वाणीः प्रजानां बहुत्वाद्वाण्या बहुत्वम्‌। सत्राशने यज्ञभोजने। परेषां श्रेष्ठानां तापं द्यति खप्डयति तं च। प्रिय एडको मेषो यस्य तम्‌॥ 67॥

समवर्ती चाविभवो हि दक्षिणाशां बिभर्ति भूमिपते॥

किन्नरपश्चोग्रसखः श्रीदो रक्षां करोति वित्तादेः॥ 68॥

समवर्ती धर्मराजः। अविभवः निर्धनः। हि अतो हेतोः। वस्तुतः। अवेः रवेः भवः जन्म यस्य सः। दक्षिणामाशां दिशं पुष्णाति॥ श्रीदः कुबेरः। किन्नरान्कुत्सितमानवान्याति॥ उग्राणां सखा च। रक्षां भस्म धनादिकं नाशयतीत्यर्थः. वस्तुतः उग्रस्य शम्भोः सखा। रक्षां रक्षणम्‌॥ 68॥

सिन्धुः प्रसन्नाप उदारभङ्गः

कीलालपो गोपयति प्लवादीन्‌॥

वैकुठपूज्यो न मुखोस्ति दीनो-

नुष्णोस्नमाली तनयोप्यमुष्य॥ 69॥

सिन्धुः समुद्रः कीदृशः प्रसन्नां मद्यं पिबतीति। गन्धोत्तमा प्रसन्नेरा इत्यमरः। उदारो महान्‌ भङ्गो यस्य। भङ्गो जयविपर्यये। भेदरोगतरङ्गोप्वेति मेदिनीं। कीलालं रक्तं पिबतीति। प्लवादीन्‌ चाण्डालाद्यान्‌ गोपयति। कुण्ठानां मूर्खाणां मध्ये पूज्यः। नः नकारः। नास्तीति शब्द मुखे यस्य। दीनः दरिद्रः। च। अस्य तनयश्चन्द्रः। अनुष्णः अलसः। अस्राणामश्रूणां मालाः संत्यस्य रोदनशील इत्यर्थः। वस्तुतः प्रसन्ना अच्छा आपः यत्र। ऋक्‌पूरब्धूः पथामानक्षे इत्यप्प्रत्ययः। प्लवादिकान्मण्डूकादीन्‌॥ वैकुण्ठस्य विष्णोः पूज्यः श्वशुरः। नकारः मुखमारम्भः यस्य स दीनः। नदीन इति सिद्धे। नदीनामिनः स्वामी। अनुष्णानां शीतलानां। उस्राणां किरणामां मालाः सन्त्यस्य। शोणितेम्भसि कीलालमित्यमरः 69

शिवाधीनः सदा जीवो जीवाधीनाश्च निर्जराः॥

कृष्णस्य शिवरूपस्य साम्यभाजः कथं सुराः॥ 70॥

शिवः परमात्मा। जीवः जीवात्मा बृहस्पतिश्च॥ 70॥

सुरगुरुकवी तु विप्राधीशौ भूत्वापि कर्कर्मानभुजौ॥

भवतो लोके विफलां प्रकटयतस्तावदुच्चतां स्वस्य॥ 71॥

कविः शुक्रः विफलामसत्यामित्यर्थः। तावत्साकल्येन।

स्वस्यात्मन उच्चतां श्रेष्टत्वम्‌। वस्तुतः। बृहस्पतिः यावत्कर्कराशिभुग्भवति। शुक्रः यावन्मीनराशिभुग्भवति। तावत्कालम्‌। यावत्तावच्च साकल्येवधौ मानेवधारणे॥ इत्यमरः। कीदृशीमुच्चताम्‌। विशिष्टं फलं यतः। उत्तमफलदामित्यर्थः॥ अजवृषभमृगाङ्गनाकुलीरझषवणिजोथ दिवाकरादि तुङ्गा इति ज्योतिषे॥ 71॥

पराशराद्याः कुसुमेषुनिघ्ना

दुर्वासआद्याः प्रचुरक्रुधः स्युः॥

श्रीनारदाद्याः कलिजीविनश्चा-

हो कश्यपे सिध्यति मद्यपत्वम्‌॥ 72॥

कुसुमेषोः मदनस्य निघ्नाः अधीनाः। कलहेन जीवन्ति तच्छीलाः। कश्यं मद्यं पिबतीति। मदिरा कश्यमद्ये चेत्यमरः॥ 72॥

श्रीमाधवं सुकमलप्रतिमं सुसेव्यं

तृष्णाहरं सुकमलं विमलं वदन्ति॥

पूर्णप्रवेकगुणपूर्णमशेषजाड्यं

प्राज्ञाहरन्तमनवद्यवराशिवच्च॥ 73॥

प्राज्ञाः। कृष्णम्‌। सुकमलं शोभनं जलम्‌॥ प्रतिमा उपमा यस्य तं वदन्ति। कीदृशं कृष्णम्‌। सुसेव्यम्‌। तृष्णायाः आशायाः हरम्‌। शोभना कमला लक्ष्मीः यस्य तं। विमलं। उपाधिमलशून्यं पापं हरं वा। सुजलंतु।

सुष्टु सेव्यं नलदं यत्र। अभयं नलदं सेव्यमित्यमरः। सुष्टु कं सुखं यस्मात्तत्सुकम्‌। अलं पर्याप्तम्‌। शोभनानि कमलानि यत्रेति वा विमलं स्वच्छं च। किंच। वराशिवद्वदन्ति। वराशिः स्थूलशाटकइत्यमरः। कीदृश पूर्णैः सकलैः प्रवेकैः श्रेष्ठैः गुणैः दयालुताद्यैः पूर्णं पूरितम्‌। अशेषं जाड्यं अज्ञत्वं हरन्तं नाशयन्तम्‌। अनवद्यराशिं तु। पूर्णैः प्रवेकैः. गुणैः तन्तुभिः पूर्णम्‌। अशेषं सकलं च तज्जाड्यं शीतं च हरन्तम्‌॥ 73॥

कृष्णं सुवर्णगात्रं रजतश्रवसं वरिष्ठतेजस्कम्‌॥

रङ्गपदं नागशयं बहुलोहधियं सुरीतिदृशमेवम्‌॥ 74॥

धातुमयं तं ब्रुवतेऽपरसत्त्वमयन्तमप्यधातुमयम्‌॥

सर्वेति दूरदर्शिन एतत्तेषां खलूचितं राजन्‌॥ 75॥

सुवर्णमेव गात्रं देहः यस्य। एवमग्रे। श्रवसी कर्णौ। वरिष्ठं ताम्रम्‌। रङ्गं त्रपु। नागं सीसकम्‌। रीतिः पित्तलम्‌। एवं। धातुमयमपि। अपरे अदूरे सत्वं सत्ताम्‌। अयन्तं गच्छन्तम्‌। समीपविद्यमानमपीत्यर्थः। तं कृष्णम्‌। अधातुमयमेव ब्रुवते। दूरस्थं पश्यद्भिः। समीपस्थं। न दृश्यते। अतस्तेषां विपरीतं भाषणं युक्तमिति भावः। वस्तुतः। शोभनः वर्णः रूपं यस्य तद्गात्रं यस्य तम्‌। रजतं शुभ्रं श्रवः यशः यस्य। रजतं हेम्नि रूप्येसिते त्रिषु इति अमरः। वरिष्टमतिश्रेष्टं तेजः बलं कान्तिर्वा यस्य। रंगस्य पदं स्थानम्‌। नागः शेषः शयः शय्या यस्य। शयः शय्याहिपाणिधिरिति मेदिनी। बहुलाः। ऊहाः तर्काः यस्याः सा धीर्यस्य। सुष्टु रीतिं पश्यति तम्‌। एवमपि देहिवत्प्रतीयमानमपि तं कृष्णम्‌। परं केवलं सत्त्वं सत्त्वगुणस्तन्मयं शुद्धसत्त्वमयमूर्ति प्राहुरित्यर्थः। परः श्रेष्ठारदूरान्योत्तरे क्लींबं तु केवले इति मेदिनी। कीदृशः कृष्णम्‌। धातुं शब्दादिभूतगुणानन्तम्‌। जानन्तम्‌॥ श्लेष्मादिरसरक्तादिमहाभूतानि तद्रुणाः। इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातव इत्यमरः। अधातुमयम्‌। अभौतिकं च॥ दूरदर्शिनः। विद्वांसः। इति युग्मम्‌॥ 74॥ 75॥

तद्रुणवर्णन इच्छन्‌ सत्क्षमतां तामनाप्य सहस्रमुखः॥

प्रापान्यां सत्क्षमतां सततं धृत्वा क्षमामनन्तोपि ॥ 76॥

सहस्रमुखः। अनन्तः शेषोपि। तस्य श्रीकृष्णस्य गुणानां वर्णने सत्क्षमतां। सती चासौ क्षमता सामर्थ्यं च। तामिच्छन्‌॥ सती विद्यमाना क्षमा भूः यत्र सः। सत्क्षमस्तस्य भावस्तां सत्क्षमताम्‌॥ 76॥

नाकिद्विजानां च सतां सुखाकरा

यस्यावतारास्तमशेषकारणम्‌॥

मुक्तिप्रदं साधुमनःस्थित सदा

भक्तप्रियं मोक्षकृतेऽवितप्रज॥ 77॥

नाकिनां देवानां विप्राणां च। साधूनां च सुखस्य आकराः खनयः। अविताः रक्षिताः प्रजा येन तत्सम्बुद्धिः हे अवितप्रज। अत्र पादाद्यन्ताक्षरैः नारायणं मुदा भजेति ज्ञेयम्‌ 77

एवं निशम्य हरिगुमकोटिं भैष्म्यास्तु केशपाशस्था॥

सत्यपि कृष्णवररुचिः स्वान्ते जज्ञे नृपेण सा ज्ञाता 78

हरेः गुणानां कोटिं अगणीयत्वम्‌। उत्कर्षं वा॥ विशम्य श्रत्वा। स्थितवत्याः रुक्मिण्याः केशपाशस्था सती अपि। केशानां पाशः समूहस्तत्र तिष्टतीति॥ कृष्णा नीला। वरा उत्तमा च रुचिः कान्तिः। कृष्णस्य हरेः वरः वरणं तस्य रुचिः। इच्छा च। स्वन्ते मनसि। जज्ञे जाता॥ 78॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 79॥

कारुण्यं मुख्यं येषु आर्यस्य गुणेषु तेषां अम्बुनिध्योः समुद्रयोः। यशसः पात्रम्‌। अतः कृकमीति सत्वम्‌॥ 79॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणिविरचिते प्रथमः सर्गः॥1॥


.

***द्वितीयः सर्गः। ***

**विचारचञ्चुः क्षितिपोथ पत्न्याः **

सशुद्धमत्या अनुमोदनेन॥

कृष्ण द्वितीयाश्रमिणं विधातुं

स्वधन्यया कन्यकया तयैच्छत्‌॥ 1॥

विचारेण वित्तः ख्यातः विचारचञ्चुः। तेन वित्तश्चञ्चुपचणपौ इति चञ्चुप्‌॥ 1॥

यास्यन्सर्वजनेषु गर्ह्यतमतां रुक्म्याह्वयस्तत्सुत-

स्तौ वृद्धौ पितरौ निषिध्य निजया चैद्याय राज्ञे धिय॥

दित्सन्तां बत पद्मिनीं स्वरसनां निन्ये हरेर्निन्दनै-

र्मालन्यं च गिरीश्वरी त्वमलतां तैरव वाक्यैः स्तवैः 2॥

यास्यन्निति वृद्धौ ज्ञातारौ। यथा राज्ञे चन्द्राय। पद्मिनीं कमलिनीम्। दातुमिच्छा। अयोग्या। तथा चैद्याय रुक्मिणीदानेच्छा इत्यर्थः। वाक्यैः। ये स्तवाः। तैः॥ 2॥

तस्मै सुतां दिश नगाधिभुवे यथाजो

गां यः करालकपटीविटपाधरश्च॥

सन्मेहते पिशुनराज उदासचोरो

यस्यान्तरप्यसितता सत आत्मनोङ्ग॥ 3॥

तस्मै इति। मा। ईहते। इति च्छेदः। अङ्ग हे पितः। आत्मनः स्वस्य सुतां पुत्रीम्‌। तस्मै। मा। दिश। देहि। क इव। यथा। आजः। अजस्य ब्रह्मणोयम्‌ पुत्रः वसिष्ठः। गाधिभूवे विश्वामित्राय। गां। कामधेनु न ददौ। तथा। कदाचिद्वने वसिष्ठेन ससैन्यस्य गाधिजस्य राज्ञ आतिथ्यमत्युत्तमं कृतं तद्दृष्ट्वा कामधेनोरिदं सुवर्णपात्रमिष्टान्नादि लब्धमिति ज्ञात्वा। सः तां ययाचे। तेनादत्तां तां प्रसह्य नयन्तं गाधिपुत्रं धेनोर्जाताः वीराः पराभूवन्निति कथा भारते। तस्मै कस्मै। यः करालकपटी। उच्चकपटवान्‌॥ करालो दन्तुरे तुङ्गे भीषणे त्रिष्विति मेदिनी। विटान्पाति स चासौ अधरः हीनश्च। अधरोन्तर्धिहीनोष्ठे इति हैमः। यः सत्‌ सत्यम्‌। न ईहते। न वाञ्छति। पिशुनानां सूचकानां राजा। असतः। दुष्टस्य। यस्य अन्तरपि असितता। कालिमास्तिं। स्तुतिपक्षे। प्रशस्ताः कराः। अलकाः केशाः। पटाः वस्त्राणि च सन्त्यस्याप्राशस्त्ये इनिः॥ विटपः। पल्लव इवाधरावोष्ठौ यस्य। च परम्‌। यः अपिशुनानां अखलानां साधूनां राजा। राज्ञः सनकादीन्‌। ईहते। इच्छति। यस्य। सत्प्रशस्तमुरः वक्षः। कर्म। मा। लक्ष्मीः। उदार उत्कर्षेण आर प्राप। यस्य च आत्मनः देहस्य। अन्तः सतः विद्यमानस्यापि असितता अबद्धत्वम्‌। न तु जीववद्बध्यतेत्यर्थः। बद्धार्जुनौ सितावित्यमरः॥ तस्मै श्रीकृष्णाय सुतां देहि। क इव यथा अजः विरिञ्चः। गां। भूमिम्‌। न। गानां सर्पाणामधिभुवे शेषाय ददौ तथा। एतदपि भारतेनगः सूर्ये गिरौ सर्पे इति मेदिनी। यद्वा वृक्षपतये चन्द्राय गां किरणम्‌। अजः। रविरिव॥ 3॥

हरते हिरण्यकशिपुप्रमुखाश्च परः सहस्रपरदारान्‌॥

भजते प्रभवे हरये तनयां भो मधुपराय नो देहि॥ 4॥

हरतेति। उक्त चोरत्वादेर्विवरणम्‌। कशिपवः। वस्त्राणि कंसरजकाद्बलात्कारेण सुवर्णमयादिवस्त्राणि हृतानीति श्रीभागवते। परः शताद्यास्ते येषां परा संख्या शतादिकात्। इत्यमरः। परेषामन्येषां दारान्‌। जायाः। अप्रभवे। न प्रभुर्नाथः यस्य तस्मै अनेनाप्यनर्हत्वं। कुलं च शीलं च वपुर्वयश्च विद्यां च वित्तं च सनाथनां च॥ एतान्‌ गुणान्सप्त परिक्ष्य देया कन्येत्युक्तेः। मधुनि मद्ये। पराय सक्ताय। भोः पितः। स्तुतिपक्षे॥ परान्‌ श्रेष्ठान्दारान्‌। दूरानात्मोत्तमाः पराः। इत्यमरः। नः अस्माकं जीवानां प्रभवे॥ 4॥

अद्धा द्वितातत्वममुष्य दृष्टं

च पूतनानार्यहि तत्वमग्र्यैः॥

गोपालको गोपसखश्च नायं

योग्यो वरीतुं नरदेवकन्याम्‌॥ 5॥

द्वितातत्वम्‌। द्विजनकता। च। परं। पृतनाख्यनार्या अहितत्वं शत्रुत्वं। अग्र्यैः मुख्यैः। स्तुतिपक्षे। अमुष्य अस्य तत्त्वं स्वरूपं। अद्विता। द्वयोः शिवजीवयोः भावः द्विता। न द्विता। किंतु एकत्वमेव। च। पूताः पवित्राः। नानाऽनेके आर्याः साधवस्तेषां हितता। अनेकसाधूनामयं हित इत्यर्थः। गाः। इन्द्रयाणि पालयतीति। गोपानां वाग्नेत्रादीन्द्रयपालकदेवानां अग्निसूर्यादीनां सखा च प्रेरक इत्यर्थः। ना पुमान्‌॥ 5॥

सिंहासनं चामरमातपत्रं राज्याधिकारश्च न यस्य पुसः॥

प्रभूतदोषं तमजं विहाय देया स्वसा नो नृप चेदिपाय॥ 6॥

सिंहेतिअजं बस्तं बस्ततुल्यमत्तमिति यावत्‌। स्तुतिपक्षे। नयस्यनीतेः पुंसः. नयेन वर्तमानस्य पुंस इत्यर्थः। लोकेपि रीत्या वर्तमानं प्रति ‘चालीचा मनुष्य’ इति वदन्ति। तद्वदत्रापि षष्ठी। सिंहासनादिकमस्ति। च अस्माद्धेतोः। च पादपूर्णे हेताविर्ति त्रिकाण्डशेषः॥ यद्वा यस्य सिंहासनादिकमस्त्येव तमजं विष्णुं हित्वा। नः अस्माकं स्वसा। चेदिपाय शिशुपालाय न देयेति। कीदृशं अजं। प्रभूताः दोषः भुजाः यस्य तं अत्रार्थातरमपि। प्रगताः भूतानां प्राणिनां दोषा यस्मात्तं। प्र प्रकर्षे गताद्यर्थे इति मेदिनी। कीदृशं अजं। अमरमातपत्रं। अरश्चासौ मायाः लक्ष्म्याः आतपत्रं छत्रं च। एवमर्थान्तराणि प्रायः सर्वत्र सन्ति। तानि बुधैरुन्नेयानि विस्तरभयान्नलिखितानि॥ 6॥

पण्डाधिकश्च दरधृक्‌ च मातुलारीरतोनियन्तृत्वे॥

धत्तेति कलं कमलं सगदोपं रुक्मिणी न योग्यास्य 7

पण्डेति पिण्डात्क्लीबादधिकः । दरधृक् भयधर्ता । मातुलस्य कंसस्यारिः हन्ता । मातुलारी रत इत्यृरोरीतिलोपः। दूलोप इति दीर्घः। नियन्तृत्वे सारथ्ये रतः। नियन्ता प्राजिता यन्ते त्यमरः। अतिशयेन कलङ्कं मलं पापं च धत्ते समाहारेणैकवचनं सगदो रोगयुतः। गदेन भ्रत्रा सहितो वागदोप्येवमित्यर्थः। स्तुतिपक्षे। पण्डयाधियाऽधिकः। दरधृक्‌ शंखधरः। अतुलं आरिचक्रं यस्य सोतुलारी। नियन्तृत्वेरतः। जीवनियामक इत्यर्थः। अतिकलं अत्यन्तप्रभं कमलं धत्ते। गदया युक्तश्च अतः। हे इन प्रभो। अस्य विष्णोः स्वरूपस्य अस्य श्रीकृष्णस्यैव। चोवधारणे। अत्रास्येतिपदावृत्तिः। रुक्मिणीनाम्नी मा लक्ष्मीर्योग्या। नान्यस्येत्यर्थः॥ 7॥

यस्यास्ति मित्रं नरकास्थिभृत्सदा

क्रीडत्पिशाचैश्च तथाग्रजो हली॥

सत्सेवकानित्यमदाः स मे स्वसुः

स्यात्किं करग्राहपरो वरो नरः॥ 8॥

यस्येति। नराणां कानि मस्तकानि तेषामम्थीनि बिभर्तिति। सः। अवरः। नीचः। नरः। मे। ममस्तसुः। करग्राहपरः स्या त्किं। अपि तु नैव। स्तुतिपक्षे। नित्यः अखण्डः मदः आनन्दः। येषान्ते। सः नरः। विष्णुः। नरोजे मनुजेर्जुने इति मेदिनी। मम स्वसुः वरः पतिः स्यादिति प्रार्थनायां लिङ् कीदृशः नरः किङ्कराणां सेवकानां ग्राहः स्वीकार एव परः मुख्यः यस्य सः॥ 8॥

मम मा जायेति वदन्यस्तस्मै दिशासि तत्तु न स्थाने॥

तात सुतां कान्तेच्छुः शिशुपालस्तं विधेहि पूणार्शम्‌॥ 9॥

मम। जाया। मा। मास्म मालं च वारणे इत्यमरः। इति वदन्‌। यः। तस्मै सुतां। दिशसि ददासि। तत्तु स्थाने। यक्तं न। युक्ते द्वे साम्प्रतं स्थाने इत्यमरः। स्तुतिपक्षे। मालक्ष्मीः। नः। अस्माकं स्थाने तु युक्तमेव न स्थाने इत्यत्र शर्परे खरिवेतिपाक्षिकः विसर्गलोपः। तु स्याद्भेदेवधारणे इत्यमरः। कंस्य सुखस्यान्तः। नाशः तदिच्छुः॥ 9॥

व्रतं यदीयं परपीडनं यो धत्ते च सद्वेषमतो न तेभ्ब॥

कन्यां स कृष्णोर्हति यद्वदेव पद्माकरः श्रीविधुपादसेवां 10

व्रतमितिहे अम्ब। ते तव कन्यां। सः कृष्णः। नैवार्हति। यद्वदेव। पद्मानामाकरः समूहः। श्रीविधोः

चन्द्रस्य पादानां किरणांनां सेवां नार्हति तथा॥ स्तुतिपक्षे। हे नते। नम्रेम्ब। परेषां रिपूणां पीडा। सन्‌ प्रशस्तः वेषस्तं दधाति। स एवार्हति। यथा। पद्मायाः लक्ष्म्याः करः हस्तः। श्रीविष्णोः चरणसेवां। विधुर्विष्णौ चन्द्रमसीत्यमरः॥ 10॥

इत्युक्त्वा स गुडागमं गमयितुं स्वाद्वीं स्वयं निश्चयं

कुर्वन्‌ सन्भगिनी हृदावपनमुद्दुग्धे परं सैन्धवम्‌॥

अस्राब्धेः सह कृत्वरीमजनयत्सद्यो महाखिन्नत्तां

तस्यां शुद्धमतौ च भीष्मनृपतौ तस्यावयस्याततौ 11

अथ सीहुण्डो वज्रद्रुः स्नुक्‌ स्नुहीगुडा इत्यमरः। अगमं वृक्षं। स्वाद्वीं द्राक्षां। कीदृशं निश्चयम्‌। भगिन्याः रुक्मिण्याः हृत्‌। हृदयमेव। आवपनं पात्रम्‌। त त्रया मुद्‌ आनन्दः सैव दुग्धं तस्मिन्‌ सैन्धवम्‌ लवणरूपं। अस्राणामश्रूणामब्धेः। तस्यां रुक्मिण्यां। शुद्धमतौ रुक्मिणीमातरि। वयस्यानां सखीनां ततौ पङ्क्तौ च॥ 11॥

सा सन्तापवती सखीं समवदत्कृत्त्याग्रजस्य प्रिये

वातः शस्त्रति शीतमन्दसुरभिश्चन्द्रोपि पूर्णोर्कति॥

भूषा भारति चारुसद्मवनति स्वन्नं च मे क्ष्वेडति

जीवोऽमित्रति वीतिहोत्रति तनूरागोद्य सुभ्रूरिति॥ 12॥

भूषेति। कृतिः। करणं तया। कृत्या भारति भार इवाचरति। वनति वनमिवाचरति। जीवितं अमित्रति शत्रुरिवाचरति। तनूरागोङ्गरागः वीतिहोत्रति अग्निरिवाचरति॥ 12॥

तच्चित्तज्ञसखी जगाद नृपजे स्निग्धे शुचं मा कुरु

सौभाग्येन युतां सुकर्मसहतां वज्रादिभिर्भूषिताम्‌॥

देवश्रेष्ठधृतिं च शोभनमतिं साध्यंप्रियां त्वां, सति

शुक्लश्रीतनुमेव मुञ्चत कथं योगः शुभब्रह्मजः॥ 13॥

तच्चित्तेति। अत्रालङ्कारपक्षे सौभाग्यसुकर्मवज्रधृत्यादयो विष्कंभादिष्वन्यतमाः योगाः ज्ञेयाः। देवेषु। इन्द्रियेषु श्रेष्ठं मनस्तत्र धृतियोगो यस्यास्तां॥ शुक्लः योगः श्रीयुक्तनुर्यस्यास्तां। शुक्लयोगस्य पूर्वत्र शुभेन। उत्तरत्र ब्रह्मयोगेन योगः सोपरिहार्य इत्यर्थः। सिद्धिः साध्यः। शुभः शुक्लो ब्रह्मेति क्रमपाठः। वस्तुतः। वज्रः हीरकरत्नं। आदिना मुक्तादग्रेर्हः। देवश्रेष्ठः विष्णुरिव धृतिर्धैर्यं यस्यतां। साध्यं प्रियं इष्टं यस्यास्तां। शुक्ला शुद्धसत्वमयी चासौ श्रियः लक्ष्याः तनुः मूर्तिश्च तां त्वां सतीति सम्बुद्धिः। शुभं कल्याणकारि च तद्बह्मश्री कृष्णाख्यं च तस्माज्जातो योगः सङ्गति. ॥ 13॥

तत आप्तं भूदेवं सुदेवमाहूय सा ब्रवीदेवम्‌॥

ईशः शङ्कर एव त्वं तुशमात्मा हि शं द्विजेश कुरु 14

ततइतिआप्तप्रत्ययितौ समावित्यमरः। सुदेवाख्यं भूदेवं विप्रं। ईशः शम्भुः शं कल्याणरूपः करः हस्त एव यस्य। त्वं तु शं कल्याणरूपः आत्मा देहः यस्य अतस्त्वं शम्भोरपि क्षेमकर इत्त्यर्थः। षस्तुतः। त्वमेव। ईशः समर्थः। शङ्करः क्षेमकरः। शमः शान्तिरात्मनि मनसि यस्य सः॥ 14॥

वैकल्पिकः सुदेवः स वासुदेवो भवांस्तु नित्योतः॥

अधिकोस्ति वासुदेवाद्भक्ताया मे करोतु कार्यं हि॥ 15॥

विकल्पिकेति। वा। विकल्पेन सुदेव इति श्लेषः। वस्तुतः। वा। असुभिरिन्द्रियैर्दीव्यतीति सुषुप्तौ तदसत्वात्‌॥ भावंस्तु नित्यः। अतः कारणात्‌ हि हेतोः॥ 15॥

विप्रवरते क्वापि न नयनानयने मधुद्विषो भवतः॥

इतिगत्वा विप्रवर त्वमरं पाणिग्रहार्थमानय तम्‌॥ 16॥

विषु पक्षिषु प्रवरः श्रेष्ठः गरुडस्तं। हे विप्रवर ब्राह्मणश्रेष्ठ च। त्वं। अरंशीघ्रम्॥ 16॥

ब्राह्मण दयालवोपि स्यात्सिध्यै तद्दयालवो मयि ते॥

आलोकाः संत्विति तं सम्प्रार्थ्या प्रेषय द्द्विजं सुभ्रूः॥ 17॥

ब्राह्मणेति। ब्राह्मण दयायाः लवः। लेशोपि। ईषदपि दयेत्यर्थः। दयालवः कारुणिकाः। आलोकाः अवलोकनानि। कृपा दृष्टय इत्यर्थः॥ 17॥

विप्रो व्रजन्पदव्या भैष्मीकार्यस्य शीघ्रसंसिध्या॥

श्लोकाप्त्यै नानार्थैः श्लोकैस्तुष्टाव माधवेशानौ। 18॥

पदव्या। मार्गेण। श्लोकस्य यशसः आप्त्यै प्राप्तये। नानानेकोभयार्थयोरित्यमरः॥ 18॥

स्मराम्यथो मारमणं द्विजेन्द्र

भृतं च भोगीशशयं जिताजम्‌॥

शिवस्य दातारमनङ्गदस्युं

कृशानुनेत्रं शितिवर्णगात्रम्‌॥ 19॥

स्मरामीति। कीदृशं मारमणं विष्णुं। द्विजानां पक्षिणामिन्द्रं गरुडं बिभर्ति तं। भोगीशे नागराजे शेते तं। जिता अजा माया येन तं। शिवस्य मुक्तेः दातारं । शिवो मोक्षे महादेव इति मेदिनी। अनङ्गस्य मनसः। दस्तुं

चोरं। मनोहारिणमित्यर्थः। कृशानुरग्निरिव तेजस्विनेत्रं रथः वस्त्रं वा यस्य। नेत्रं वस्त्रे रथे चाक्ष्णि इति मेदिनी। शितिवर्णं नीलवर्णं गात्रं यस्य। शिती धवलमेचकावित्यमरः। अथ। उमारमणम्‌ स्मरामि। कीदृशं द्विजेन्द्रभृतं चन्द्रधरं। भोगीशः वासुकिः शये हस्ते कटकत्वेन यस्य तं। जितः अजः ब्रह्मा येन तम। शिवस्य कल्याणस्य दातारं। अनङ्गस्य दस्तुं शत्र्रुं। अनंगो मदने नंगमाकाशमनसोरपि। इति मेदिनी॥ 19॥

वृषाकपिं स्तौमि वृषाधिपालं

वृषाग्र्ययानप्रियमात्तभूतिम्‌॥

वृषागसा जातरुषं हरन्तं

जलं धरं चारुधरं तमुच्चैः॥ 20॥

वृषेति। हरविष्णू वृषाकपी इत्यमरः। कीदृशं विष्णुं। वृषं धर्मं आधिक्येन पालयति तं। वृषाग्त्र्यः वृषभश्रेष्ठः नंदी यानं यस्य स शम्भुः प्रियः यस्य तं। आत्ता स्वीकृता भूतिः लक्ष्मीर्येन तं। वृषा वासवस्तस्याऽऽगसा। व्रजभयङ्करवृष्टिकरणरूपापराधेन। जाता रुट्‌ कोपः यस्य तं। तथा। धरं। गोवर्धनं। चारु यथास्यात्तथा। धरन्तं। तेन। उच्चैः। महत्‌। प्रलय वृष्टितुल्यमित्यर्थः। जलं। हरन्तं। निवारयंतं। कीदृशं हरं। वृषं नन्दिनं अधिपालयति। वृषाधिपेन अल्यते वा अलभूलणे घञ्‌। वृषेषु उंदुरुषु श्रेष्ठः यानं यस्य स गणेशः प्रियः यस्य तं। आत्ता भूतिर्भस्म येन तं। वृषागसा शक्रापराधेन जातरुषं। जलंधरं दैत्यम्‌। हरंतं नाशयन्तं। चारुः धरः कैलासपर्वतः यस्य तं च। शिवं द्रष्टुं गत इंद्रः। भीमरूपं तमज्ञात्वा शिवः क्वास्तीति तमेव मूहुः पप्रच्छ। तेनोत्तरे उदत्ते क्रुद्धस्तं वज्रेण हतवान्ततोतिक्रुद्धः शिवः शक्रं हंतुमुद्युक्तः। गुरुस्तुत्या प्रसन्नं सन्‌ कोपाग्निं गंगासिंधुसंगमे चिक्षेप स जलंधरोभूत्तं शिवो जघानेति कथा पाद्मे कार्तिकमाहात्म्ये॥ 20॥

यशोदयेनोदधिमन्थने निजे

भियः समस्तस्य च कालकूटतः॥

क्षयाद्विदाम्नार्यनुतोप्यरेफको

ऽविताऽमृतादेः पृथुकोपले सितः॥ 21॥

समुत्करोति स्म गतोर्जुनेन

द्वन्द्वं स दामोदर एव योतम्‌॥

आविर्भवन्नाकिवरौ रसं गां

हृद्यं दिशन्प्रेषयति स्म सन्तम्‌॥ 22॥

यशोदयेति। यशोदया। इनः। अभि। यः। समः तस्य इतिच्छेदः। शेपः सुगमः। आर्यैः नारदादिभिः। नुतः स्तुतोपि। अनिंद्यं। आत्मानुभवजन्यमितयावत्‌। कं सुखं यस्मात्सोपि। कालश्च कूटं माया च ताभ्यामिति कालकूटतः मायानिश्चलयन्त्रेषु कैतवानृतराशिषु कुटमस्त्रियामित्यमरः। अविता राक्षतापि समः पूर्णोपि

मालक्ष्मीस्तया सहितोपीति वा। य इनः। प्रभुः। यशोदया नंदपत्न्या। निजे स्वयं क्रियमाणे इत्यर्थः। दधिमन्थने। तस्य दघ्नः। अमृतात्‌। घृतादादिः। आद्यं नवनीतं तस्य च क्षयान्नाशाद्धेतोः। पृथुकानां चिपिटानां उपले। पाषाणे उलूखले इत्यर्थः। अभि। न भीः भीतिर्यस्मिन्कर्मणि यथास्तात्तथा। निदाम्ना। विशिष्टेन सन्दानेन सन्धितैः। बहुदामभिरित्यर्थः। सितः। बद्वः। अनेन भक्तवश्यता द्योतिता॥ च परं। दाम्ना सहितमुदरं यस्य स एव। अन्तं मध्यम्‌। अर्थादर्जुनयोः गतः। सन्‌ अर्जुनेषु वृक्षविशेषेषु इनौ प्रभू तयोर्द्वन्द्वं द्वयं। विशालार्जुनावित्यर्थः। समुत्करोतिस्म उत्पाटितवान्‌। तत आविर्भवन्तौ। नाकिषु देवेषु वरौ। कुबेरपुत्रौ। गां स्वर्गं। प्रेषयतिस्म किं कुर्वन्‌। सन्तं स्वनिष्ठं हृद्यं हृत्प्रियम्‌। वाणी गुणानुकथने श्रवणौ कथायामित्याद्यं। ताभ्यामेव याचितं रसं प्रमाणं दिक्षन्‌। सञ्जातो मयि भावो वामीप्सित इति श्रीभागवतोक्तेः॥ इति युग्मं॥ शिवपक्षे यशोदये। ना उदधिमन्थने। पृथुकः। अपरे। सितः। इतिच्छेदः। शेषः सुलभः॥ य इति उत्तरस्यानुषङ्गः. ना। उदधिमन्थने। समुद्रमन्थनकाले। कालकूटविषात्‌। यः क्षयः प्रलयः। तस्मात्‌। अभृतादेः। देवादिकस्य। अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते॥ अयाचिते च मोक्षे च ना धन्वन्तरि देवयोरिति मेदिनी। समस्तस्य। या भीः। ततोवितासन्‌। निजे। स्वे। यशोदये। प्रति। रलयो रैक्यादपरे। न परे श्रेष्ठे याभ्यां ते। अतिश्रेष्ठे। करोतिस्म। च। अन्तम्‌। समीपं गतः सन्‌ अर्जुनेन। पार्थेन सह। द्वन्द्वं युद्धं समुत्सानन्दः। करोति। करिष्यति॥ वर्तमानसामीप्ये वर्तमानवद्वा। स्म। पादपूरणे। ततः। आविर्भवन्‌। नाकिषुवरस्य। शक्रस्य औरसम्‌। स्वजातं। पुत्रं। तं। अर्जुनं। हृद्यं प्रियम्‌। गां बाणं। पाशुपतास्त्रमितियावत्‌ दिशन्सन्‌ प्रेषयिष्यति। कीदृशः। अरेफकः खर्णरहितः। विदाम्नार्यनुतः। विदाम्नायनुत इति सिद्धम्‌। विद्भिः। विद्वद्भिः। आम्नायैश्च नुतः। पृथु। महत्कम्‌। सुखं यस्मात्‌। पृथु। कं। गाङ्गं जलं यत्रेति वा। सितः शुभ्रः। सताम्‌ आमोदमानन्दं राति ददाति। च॥ 21॥ 22॥

यो वानरश्रेष्ठकुलेऽवतारं चक्रें

ऽजसाऽशोकवनस्य भङ्गम्‌॥

रामद्विजेन्द्रादिमदान्तमाजौ

कर्ताऽऽश्रवं चार्जुनकेतनस्य॥ 23॥

योइति। वा समुच्चये। नरश्रेष्ठस्य। वसुदेवस्य कुले गृहे। चक्रे चकार। च। शोकानां वनस्य। समूहस्य। भङ्गं नाशं। चक्रे। रामः। पर्शुरामाख्यः द्विजेन्द्र आदिर्येषान्तेषां मदस्य, गर्वस्य अन्तं नाशं। रामावतारे चक्रे। च। आजौ युद्धे विषये। आर्जुनस्य पार्थकृतस्य केतनस्याऽऽमन्त्रणस्य। केतनं कृत्यें केतावृपनिमन्त्रणे इत्यमरः। आश्रवं अङ्गीकारं। कर्ता करिष्यति। इदं सुदेवस्तुतेः। भावि। अतः। लुट्‌। शिवपक्षे। रावणस्य। अशोकवनस्य भङ्गं चक्रे। रामः हलधरः। द्विजेन्द्र गरुडः। आदिना यदवस्तेषां मदस्यान्तं कर्ता करिष्यति अर्जुनकेतनस्य पार्थरथध्वजस्य। आश्रवं स्वीकारं च कर्ता। तीर्थान्यटता हनूमता कस्येयं पुरीति द्वारकां पृष्ठैः जनैः रामस्येत्युक्ते। अरे त्वं। मन्नाथनाम त्यजेति। निदेशेन। जेतुं प्राप्तेषु यदुगरुडरामेषु पराभूतेषु श्रीकृष्णेन श्रीरामरूपं प्रदर्श्य। सः सन्तेषितः इति कथा पुराणे॥ 23॥

कूटादिकान्नाशयतावरागौ-

र्येनात्तवर्चाः क्रियते स्म सद्यः॥

गोपालकप्रार्थनया तदीयं

दुःखं निहन्तुं गिलतश्च शुक्रः॥ 24॥

कूटेति। कूटः कंसमल्लभेदः। तदादन्नाशयता। येन श्रीकृष्णेन। गौः। भूमिः। आत्तवर्चाः। गृहीततेजाः। वरा। श्रेष्ठा च। कृता। शुक्रोग्निः। कालियमर्दनान्ते। रात्रौ। यमुनातीरे सुप्तान्‌ जनान्दहन्नग्निः श्रीकृष्णेन भक्षित इति कथा। दशमस्कन्धे। शिवपक्षे। कूटमनृतं तदादीन्नाशयता येन शिवेन। वरा गौः धेनुः। कामधेनुरिति यावत्‌। आत्तवर्चाः स्वीकृतपुरीषा। चक्रे। तेजः पुरीषयोर्वर्च इत्यमरः। गोः स्वर्गस्य पालका देवाः। तेषां। प्रार्थनया। शुक्रः। भार्गवः। गिलितः॥ 24॥

नेता मृतं कंसमपूज्य भाव-

मिज्यापरत्वं खलु धर्मराजम्‌॥

निन्येपि नाकादिभृदन्धकादी-

न्योघादिकं गोः सुखदश्च नाशम्‌॥ 25॥

नेतेति। मृतं। कंसं। अपूज्यभावं। न पूज्यः। श्वशुरः। यस्य तस्य भावं। अश्वशूरतां। यः। श्रीकृष्णः नेता। नेष्यति। मारितकंसस्य श्वशुरं जरासन्धं मारयिष्यतीत्यर्थः। धर्मराजं। युधिष्ठिरं। इज्यायां यज्ञे परस्तस्य भावं। नेष्यति च। इज्यां दानेऽध्वरेर्चायां सङ्गमे स्त्रीगुरौ त्रिषु इति मेदिनी। नाकादिभृत्‌। स्वर्गक्षितिपोष्टा। अन्धकादीन्‌ यदून्‌ नाशं नेता अघादिकं अघबकादिराक्षसान्‌ क्षयं निन्ये। निनाय। गोः धेनुमात्रस्य सुखदः॥ शिवपक्षे। यः। नेता। प्रभुः। अधिभूर्नायको नेतेत्यमरः॥ धर्माणां राजानं रक्षकं। ऋतं सत्यवादिनं च। अं। विष्णुं। समेषु सर्वेषु। पूज्यभावमर्च्यतां निन्ये। च। कं ब्रह्माणं। इज्यायाः पूजनात्‌ परत्वं। दूरत्वं। अपूज्यतामित्यर्थः। निन्ये। च। पिनाकपर्शुप्रमुखशस्त्रभृत्‌। अन्धकादीन्दैत्यान्नाशं निन्ये। तेन। गोः स्वश्रेष्ठत्वे विवदन्तौ विष्णुब्रह्माणौ प्रथमं मल्लङ्गान्तदर्शी श्रेष्ठ इति विश्वेश्वरोक्त्या। अध ऊर्ध्वं गत्वाऽऽगतौ। तदा तव लिङ्गान्तो नास्तीति विष्णुना ऋतमेवोक्तं। ब्रह्मणा तु स्वश्रैष्ठ्यसंपादनेच्छुनान्तो दृष्ट इत्यनृतमेवोक्तम्‌। साक्षिणौ कामधेनुकेतकावपि तादृशमेवावदतां। त्रयोपि शिवेन शप्ता इति कथा सनत्कुमारसंहितायां कार्तिकमाहात्म्ये। युद्धे हतान्दैत्यान्सञ्जीवयन्तं। देवप्रार्थनया शिवोऽभयदिति कथा पुराणान्तरे॥ 25॥

जटारिभृद्यो यमजातहार्दो

दाता नरायोच्चमदात्स्वसारम्‌॥

कुर्वन्त इच्छां हि भजन्त आस्ते

ये पार्थकामा न भवन्ति वामम्‌॥ 26॥

जटारीति। यः श्रीकृष्णः। जटाख्यदैत्यस्य। अरिं भीमसेनं बिभर्ति। च। यमाज्जाते धर्मराजे हार्दं प्रेम यस्य सः। अथ च यमयोः नकुलसहदेवयोः। जातं व्यक्तं हार्दं यस्य स च। नरायार्जुनाय स्वसारं। सुभद्रां भगिनीं। दाता। दास्यत॥ च। उच्चमदादतिगर्वाद्धेतोः कुरूणां दुर्योधनादीनामन्ते इच्छां भजन्नास्ते। हि अतो हेतोः। ये। पार्थानां कामाः। रिपुनाशादयस्ते वामं प्रतीपं यथा तथा। न भवन्ति। किं तु यथार्थमेव भविष्यन्ति॥ शिवपक्षे॥ यः। वामः। जटाः लग्नकचान्‌। अरिं चक्रं च बिभर्ति। यमे। अहिंसाब्रह्मचर्यादौ जातप्रेमा। दाता। वदान्यश्च। नराय विष्णवे। नरोजे मनुजेर्जुने इति मेदिनी उच्चं। उत्कृष्टं स्वं निजं च तत्सारं चक्रं च। अदाद्ददौ। हि। अतः। हेतोः। इच्छां कुर्वन्तः सकामाः। ये जनाः। वामं हरं भजन्ते। तेऽपार्थकामाः निष्फलमनोरथाः। नैव भवन्ति। आः। स्मरणे॥ आः स्मरणेपाकरणे कोपसन्तापयोरपीति अथ च। इच्छां न कुर्वन्तः निष्कामाः सन्तः। ये। भजन्ते। ते। आः। विष्णुतुल्याः भवन्तीति। सप्तपदावृत्याऽर्थान्तरम्‌॥ 26॥

श्रीरामरूपाहितमानसः कं

सं नाशयन्तद्धवभङ्गकृच्च॥

सुसत्त्वधामा प्रियतां वहन्यो

विनायकेऽभूत्तमजं भजेहम्‌॥ 27॥

यः श्रीकृष्णः। कंसम्‌। नाशयन्‌। तस्य कंसस्य। हवः धनुर्यागः। यद्वा निःसारयत दुर्वृत्तौ वसुदेवसुतौ पुरात्‌। इत्याद्या आज्ञा। तस्य। भङ्गकृत्‌। अभूत्‌। अवीनां पर्वतानां नायके गोवर्धने। प्रियतां। प्रेम। वहन्‌ चाभूत्तमजं श्रीकृष्णं। भजे। सेवे॥ कीदृशम्‌। यः। श्रियः रामे सुन्दरे रूपे आहितं। स्थापितं मानसं येन। च। सुसत्त्वम्‌। शुद्धसत्वगुणः धाम देहो यस्य। यद्वा। सुसत्त्वं शोभनप्राणी साधुः धाम गृहं यस्य। शिवपक्षे॥ यः। कं दक्षं। को ब्रह्मणि समीरात्मयमदक्षेषु इति मेदिनी। संनाशयन्‌। यस्य दक्षस्य हवस्य। यज्ञस्य भङ्गकारश्चाभूत्‌। हव आज्ञाध्वराह्वाने इति मेदिनी। तमजं शम्भुं भजे। कीदृशं यः। श्रीरामचन्द्रस्य रूपे आकारे। आहितमानसः। शोभने। सत्त्वधामनी। चित्तप्रभावौ यस्य। धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोरिति विश्वः॥ विनायके विघ्ने। अप्रियताम्‌। नैष्टुर्यं वहन्‌। यद्वा प्रियतां विना। आयके लाभं। सुखं

च वहन्‌। भोगादावनासक्त इत्यर्थः॥ 27॥

उरुं कुवलयापीडनागं संस्थानमुन्मदम्‌॥

नयन्तं सहसा दीनं स्वाहितात्मसुभीतिदम्‌॥ 28॥

उरुमितिकीदृशं। अजं कृष्णं। सहसा दीनं। सादिनां। गजारोहाणां इनेन स्वामिना अम्बष्ठनाम्ना सहितं। उन्मदं मत्तं। कुवलयापडिसंज्ञकं नागं कंसगजं प्रति। संस्थानं मरणं नयन्तम्‌। कीदृशं नागं। स्वस्य अहीतानामात्मसु मनःसु भीतिदम्‌॥ अथ कीदृशं। शिवम्‌। कुवलयस्य भूमण्डलस्य। आपीडाः शेखराः। भुवि मुख्या इत्यर्थः। तेषु नागं श्रेष्ठम्‌। पुनः कीदृशं। दीनं प्रति। उन्मदं। उत्कृष्टः मद आनन्दः यत्र तत्संस्थानं। सम्यक्‌ पदं। कैलासाद्यं। सहसा। सामर्थ्येन। नयन्तं प्रापयन्तं। पुनः कीदृशम्‌। स्वस्मिन्नात्मनि आहित आत्मा मनः यैः तेषां। भीतिं संसारभयं द्यति खण्डयति तम्‌॥ 28॥

विप्रः क्षिप्रः स्तुवन्नेवं द्वारकां त्वष्टृकारकाम्‌॥

गतस्ततः समर्यादं समर्यादं प्रभोरपि॥ 29॥

त्वष्टा देवशिल्पी कारकः कर्ता यस्यास्तां। मर्यादया सहितं यथास्यात्तथा॥ समर्यादं समीपम्‌॥ 29॥

कन्यापि धन्या नृपतेर्भृशं वरैः

श्रीविष्णुशम्भुस्तवगाङ्गशम्बरैः॥

वाणी मुखं स्वं विमलीचकारे सं-

पातुं नु गोवन्दयशःसुधारसम्‌॥ 30॥

नृपतेः भीष्मस्य। कन्या। रुक्मिण्यपि। वरैः श्रेष्ठैः। श्रीविष्णुशिवयोः स्तवा एव गाङ्गानि शम्बराणि जलानि तैः। दाण्येव। मुखं। सम्यक्‌ पातुं। लोकेपि रसादिपानं मुखं प्रक्षाल्यैव कुर्वन्ति॥ 30॥

यः सहसा चार्वक्षीभूतां

तां स्वात्मसम्भवां देवीं॥

कामयितारं साध्वीं हन्ता

मलिनीं च धर्ममुखकान्ताम्‌॥ 31॥

गाङ्गेयवर्णां प्रसभेन भोक्तुं-

मृगात्मनान्बन्धसुतं गतं कम्‌॥

तं पूतनामाशु जघान देवो-

भीमेन बाणेन च साधुना यः॥ 32॥

इदं युग्मम्‌।

यः देवः। श्रीकृष्णः। पूतनां। आशु। जघान। च परं। तं अन्धसुतं दुर्योधनं। कं जलेगतं लीनमित्यर्थः। कर्मिति मान्तमव्ययम्‌। वाणेन वाण्यां स्थितेन। अत्र शैषिकोण्‌। मृगात्मना। मृगे दुर्योधनान्वेषणे आत्मा यत्नो यस्य तेन। मार्गणं मृगणा मृग इत्यमरः॥ सता भीमसेनेन करणेन अरं हम्ता। मारयिष्यति॥ तं कम्‌। यः। अचार्वक्षी। अचारवः अशोभनाः अक्षाः संत्यस्य। कपटपाशवानित्यर्थः। च परं। भूतान्ताम्‌। भूते। सत्ये अन्तो निश्चयो यस्यास्तां। शोभनौ। आत्मा बुद्धिः। संभवः जन्म च यस्याः। आत्मा यत्नो धृतिर्बुद्धिरित्यमरः। देवीं। कृताभिषेकां। मलिनीं पुष्पवतीं। गाङ्गेयं। स्वर्णमिव वर्णः कान्तिर्यस्याः तां च। धर्ममुखानां युधिष्ठिरादीनां कान्तां द्रौपदीं। प्रसभेन बलात्कारेण भोक्तुम्‌। कामयिता कामयिष्यते॥ शिवपक्षे। साधुः शोभनः। नाय नीतिर्यस्य। पूतं पवित्रं नाम। यस्य। च यः। तं प्रसिद्धम्‌। अन्धानां रागिणां। सुतं। पार्थिवं। अन्धादपि को विशिष्यते रागीत्युक्तेः अन्धशब्देन रागी ज्ञेयः। कं ब्रह्माणाम्‌। हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोरिति मेदिनी भीमेन भयानकेन। बाणेन शरेण। जघान। कीदृशं कम्‌। स्वस्य आत्मसम्भवां। तनुजां अमलिनीं। निष्पापां। धर्ममुखैः। आ चारन्यायादिभिः कान्तां। शोभनां। गेयः वर्णनीयः वर्णः यशः रूपं वा यस्यास्तां। गां सरस्वतीं। सहसा। भोक्तुं कामयितारं। कम्रं। अनु अनन्तरं। चार्वक्षीभूतां मृगीभूत तां गां। मृगात्मना हरिणदेहेन। प्रसन्नेन भोक्तुं गतम्‌। एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचन इति त्रिकाण्डशेषः।

॥31॥32॥

जगत्सुतत्वं व्रजता वनौकसा-

मलंकृतं येन कुलं भवेन्‌ यम्‌॥

सदा भजन्नन्दनमञ्जना मुदा

नमाम तं रामरतं सतां मतम्‌॥ 33॥

जगतां सुतत्वं पार्थिवत्वं रक्षकत्वमिति यावत्‌। पार्थिवे तनये सुत इत्यमरः। व्रजता। येन कृष्णेन। वनौकसां काननाश्रयाणां। नन्दादिगोपानामित्यर्थः। कुलं। भवेन संप्राप्त्या। अलंकृतं। भवः क्षेमेशसंसासत्तासंप्राप्तिजन्मसु इतिमेदिनी। यद्वा वनं जलमेवौको गृहं येषां तेषां । मीनानां। कूर्माणाञ्च कुलं। भवेन। जन्मना इति जनाः। नन्दनं। हर्षुकं। यं। अभजन्। अत्र परस्मैपदसाधुत्वाय क्लेशो न कार्यः। ततान सोपानपरंपरामिवेत्यादौ कालिदासादिभिः तन्मर्यादाया अनादरात्‌ क्वचित्क्वचित्‌। मयापि नादृता। तं। रामे बले रतं। अं विष्णुं। नमाम। सख्यभिप्रायेण बहुवचनं। शिवपक्षे जगतः वायोः। सुतत्वं पुत्रतां। जगत्स्याद्विष्टेपे क्लीबं वायौ ना जङ्गमे त्रिषु इति मेदिनी। जगत्सु भूवनेषु। तत्त्वं ब्रह्म। जानतेति वा गत्यर्थधातूनां ज्ञानार्थत्वात्‌। येन। भवेन शिवेन। वनौकसां वानराणां। अञ्जना वानरीभेदः। नन्दनं। पुत्रम्‌॥ 33॥

येन कुमार्या भर्त्रा मर्त्यक्षेमं चिकीर्षुणा सहसा॥

चक्रे करिष्यते नो विध्वंसोन्तश्च नारकः कामम्‌॥ 33॥

सत्या हृद्यं चाद्धा दाने नागाधिपस्य दिव्यस्य॥

जेत्रापि च जिष्णुं प्रति स एव सर्वेश्वरो ममापीशः 34

येन भर्त्रा। पोषकेण। सहसा। अनोविध्वंसः। शकटनाशः। चक्रे। कृतः। च। अमर्त्यांनां। देवानां। क्षेमं। चिकीर्षुणा। च कुमार्या। कुमारीः इच्छन्निति क्यजन्तात्क्विपतेन कुमार्या टाप्रत्यये संयोगपूर्वस्येति यण्‌। नरकासुररुद्धकन्यानां वरुणेच्छुनेत्यर्थः। नरकस्यायं नारकः। अन्तः नाशः। करिष्यते॥ अपिच। जिष्णुं शक्रंप्रति। जेत्रा येन। कामं यथेप्सितं। सत्यायाः सत्यभामायाः। हृद्यं। दिवि भवस्य। अगाधिपस्य। वृक्षराजस्य पारिजातस्य। अद्धा। साक्षाद्दानेन। करिष्यते। सः कृष्ण एव। ईशः स्वामी॥ शिवपक्षे॥ मर्त्यानां। मरणशीलानां। क्षेमं। कर्तुमिच्छुना। येन। ईशेन। असहसा। विचारेण। नरकस्य दुर्गतेरयं अन्तः चक्रे। अध्यात्मादि निरूपणेन अधोगतिनिवारणं कृतमित्यर्थः॥ अपि च॥ जिष्णुं जेतारं कामं मदनं प्रति जेत्रापि अगाधिपस्य हिमालयस्य सत्याः पतिव्रतायाः कुमार्याः हृद्यं आदानेन स्वीकारेण कृतम्‌। सः विध्वंसः विगतनाशः। ईशः शम्भुरेव। मम कामं मनोरथं नो करिष्यते। अपि तु करिष्यत एव। अत्र काममित्यस्यावृत्तिः। इति युग्मम्‌॥ 33॥ 34॥

सरुगग्नयेऽनिलसुतात्मनार्पिता येन जिष्णुना भविता

काञ्चनमयवासयुता लङ्कासुरपस्य चाटवी कान्ता॥ 35

सुरान्पाति तस्य इन्द्रस्य। अटवी। खाण्डवाख्यवनम्‌। येन श्रीकृष्णेन। जिष्णुना अर्जुनेन सरुगग्नये। सरोगवह्नयेर्पिता दत्ता। भविता भविष्यति। श्रीकृष्णोर्जुनहस्तेन खाण्डनं वनं दाहयिष्यतीत्यर्थः। कीदृशी। अटवी काञ्चनैः चम्पकादिभिः। मयस्य मयासुरस्य वासेन च युता। काञ्चनः काञ्चनारेस्याच्चम्पके नागकेसरे इति मेदिनी॥ अलङ्का। अलं पर्याप्तं कं उदकं यस्यां। कान्ता रम्या च। कीदृशेन। जिष्णुना। अनिलसुतः मारुतिरिव आत्मा धृतिर्यत्नश्च यस्य तेन। शम्भुपक्षे। अनिलसुतात्मना हनुमद्रूपेण जिष्णुना जेत्रा। येन शम्भुना आसुरान्‌ राक्षसान्‌। क्रव्यादोस्रप आसुरः इत्यमरः। पाति तस्य रावणस्य लङ्कापुरी। अग्रये अर्पिता। दग्धेत्यर्थः। कीदृशी लङ्का। सरुक्‌ रुचा कान्त्या सहता। अभविता भवः कल्याणं अस्त्यस्य भवी तस्य भावः न भविता यत्र विनाशकालः प्राप्त इत्यर्थः। काञ्चनमयैः सौवर्णैः। मयङ्वैतयोर्भाषायामभक्ष्याछादनयोरिति मयट्‌। वासैः गृहैः युता। अटवीभिः वनैः उपवनैरिति यावत्‌। कान्ता रम्या॥ 35॥

स्फारात्युन्नतकुञ्जराशनगृहा न्यग्रोधभूमावहा

प्रांशूदम्बरशालिनी सुफलिनी काकोलनी भल्लिनी॥

ताम्बूली कदली गुवाकपटली जम्भावली लाङ्गली

रम्या राभवति शिवादिवसती युक्ताम्रधात्रीमती॥ 36॥

कीदृशी। अटवी। स्फाराः बहुलाः अतिशयेन उन्नताः उच्चाः कुञ्जराशनाः पिप्पलाः तेषां गृहा। गृहाः पुंसि च भूम्न्येव इत्यमरः। न्यग्रोधानां वटानां भूमानं बाहुल्यं आवहतीति॥ प्रांशवः उच्चाः उदुम्बराख्याः शाला वृक्षाः सन्त्यत्र। सुतरां फलिनः फलवन्तः द्रुमाः यत्र। काकोलाः द्रोणकाकाः सन्त्यत्र भल्लिनी भल्लूकवती। भल्लो भल्लूकबाणयोरिति हैमः। ताम्बूलीप्रमुखै रम्या च। ताम्बूलवल्ली ताम्बूल्ली नागवल्य इति। घोण्टा तु पूगः क्रमुको गुवाकः खपुर इति। जम्भजम्बीरजम्भला इति। नारिकेलस्तु लाङ्गली इति च अमरः। लाङ्गली स्त्री डीषन्तः। इन्नन्तः पुंसीत्येके। रामाः मृगविशेषाः सन्त्यत्र। शिवा फेरुः शमी वा। आदिर्येषां तेषां वसत्या वासेन युक्ता। आम्राश्च धात्र्य आमलक्यश्च सन्त्यत्र सा च। अथ कीदृशी लङ्का। स्फाराणि अत्युन्नतानि च कुञ्जराणां गजानां अशनानां भोजनानां च गृहाणि यत्र अन्यञ्चः अनीचाः। देवादयः। न्यङ् निम्ने नचिकार्श्ययोः इति हैमः। तेषां रोधस्य भूमानमावहतीति यत्र बाहुल्येन देवादयः रुद्धा इत्यर्थः। प्रकृष्टा अंशवः किरणाः येषां तैः उदुम्बरैः रत्नादिदेहलीभिः शालते एवं शीला। शोभनानि फलानि चर्माणि सन्त्यत्र। काकोलिनी कुलालवती। काकोलो द्रोणकाके स्याद्विषभेदकुलालयोरीति मेदिनी। भल्लाः शस्त्रविशेषाः सन्त्यस्यां। ताम्बूल्यादीनां रम्याः आरामाः सन्त्यत्र। शिवः शम्भुरादिः येषां तेषां वसतीभिर्मन्दिरैर्युनक्तीति। ताम्रस्य धात्री यद्वा ताम्रा कुंङ्कुमेन रुधिरेण वा रक्ता धात्रीः भूरस्त्यस्यां सा च॥ 36॥

पृथुसाला दृढरक्षा भूरिभुजंगा द्विजातिसंघाता॥

सुमनः सुषेणयुक्ता प्राज्यारिष्टोरुगोपुरा यस्याम्‌॥ 37॥

शैलूपवनान्यासन्‌ स्यन्दननिचयावधूनिकायाश्च॥

राक्षस्यो लघुशालाः सधनुर्बाणाः पलाशसंदोहाः 38

पुनः कीदृशी अटवी। पृथवः महान्तः साला यत्र। सालः सर्जतरौ वृक्षमात्रप्राकारयोरपीति मेदिनी। दृढा रक्षा रक्षणं यस्या। भूरयः भुजङ्गाः यत्र। आ सर्वतः द्विजातीनां पक्षिणां संघाताः। समूहा यत्र। द्विजातिर्विप्राण्डजयोरित मेदिनी। सुमनोभिः मालर्ताभिः सुषेणैः करमर्दैश्च युक्ता प्राज्याः बहवः अरिष्टा यत्र। अरिष्टः फेनिले निम्बे इति मेदिनी। उरूणि महान्ति गोपुराणि प्लवा यत्र। प्लवं गोपुरगोनर्दमित्यमरः। यस्यामित्यस्योत्तरपद्येन्वयः। यस्यामटव्यां स्यन्दना नां तिवस इति प्रसिद्धानां निचया आसन्‌। तिनिशे स्यन्दनोनेमिरित्यमरः। शैलूषाणां बिल्वानां वनानि चासन्‌। वधूनां स्पृक्कानां निकायाः समूहाश्चासन्‌। स्पृक्का देवी लता लघुः समुद्रान्ता वधूरित्यमरः। पिण्डकइत्यर्थः। निकायौ संघाग्लियावति त्रिकाण्डशेषः। साक्षस्यश्चासन्‌। अथ राक्षसी चण्डाधनहरेत्यमरः॥ अलघवः महत्यः शालाः शाखा येषां शाखाशालेत्यमरः॥ धनुर्भिः। प्रियालैः ‘चार’ इतिप्रसिद्धं॥ बाणाभिः ‘का?Rलीकोराटीति’ प्रसिद्धं सहिताः॥ धनुः प्रियाले नानस्त्री राशिभेदे शरासने इतिमेदिनी। नीली झिण्टी द्वयोर्बाणा इत्यमरः। पलाशानां सन्दोहाः संघाश्चासन्‌॥ अथ कीदृशी लङ्का॥ पृथवः सालाः प्राकारा यत्र। दृढानि निष्टुराणि रक्षांसि यत्र सादृढरक्षाः॥ कठोरं निष्ठुरं दृढमित्यमरः। भूरयः भुजङ्गाः शिङ्गाः यत्र। आ सर्वतः द्विजातीनां विप्राणां सम्यग्घातः मारणं यत्र। एभिस्त्रिभिर्विशेषणैः दाहकारणं द्योतितम्‌। सुष्ठु मनो यस्य तेन सुषेणनामकवैद्येन युक्ता॥ अनेन सर्वाया अदाहे कारणं प्रकटितं॥ एवं विशेषणानां साभिप्रायत्वं बुद्ध्या ज्ञेयं विस्तरभयान्न प्रकाश्यते। पुनःकीदृशी लङ्का। प्राज्यानि आरेष्टानि सूतिकागृहाणि यत्र उरुगोपुरा महापुरद्वारा। यस्यां लङ्कायां। शैलूषाणां नटानां वनानि गृहाण्यासन्‌। वनं नपुंसके नीरे प्रवासालयकानने इति मेदिनी। स्यन्दनानां रथानां निचयाश्चासन्‌। वधूनां स्त्रीणां निक्राया निलयाश्चासन्‌। रक्षसां इमाः राक्षस्यः। तस्येदमित्यण्‌। अघुशालाः महामन्दिराणि। लघवः मनोज्ञाः शाला वा। घनुर्बाणसहिताः। पलाशानां क्रव्यादानां संघाश्चासन्‌॥ 37॥ 38॥

तिलकप्रियङ्गुयवफलजलदारुकदम्बपाटलादीनाम्‌॥

तूलहरेण्वादीनां सुमधुरसानांतथालयो नाना॥ 39॥

तथा तिलकादीनां। नाना अनेकाः आलयः पङ्क्तयः आसन्‌। तत्र तिलकाः ‘तिलवा’ इतिप्रसिद्धं।

तिलकः क्षुरकः श्रीमानित्यमरः प्रियंगवः ‘वाघाटीति’ प्रसिद्धं। यवफलाः वेणवः। शतपर्वा यवफलो वेणुरित्यमरः। जलं ‘वा?Rला’ इतिप्रसिद्धं। दारूणि देवदारूणि। कदम्बाः हलिप्रियाः। पाठालिः पाटलामोघेत्यमरः। तूलानि। ‘पारोसापिंप?Rल’?Rतिप्रसिद्धं। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च। तूलं चेत्यमरः। हरेणू रेणुका कौन्तीत्यमरः। सुष्टु मधुरसा द्राक्षाश्च। लङ्कापक्षे। तथा। तिलकादीनां तूलादीनां चालयः। गृहं नानानेकआसीत्‌। तत्र तिला एव तिलकाः। प्रियंगवः रा?Rले इतिप्रसिद्धं। यवाः। सातु इति प्रसिद्धं। फलानि नारिकेलादीनि। जलं तोयम्‌। दारूणि काष्टानि। कदम्बाः सर्षपाः। कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमानिति मेदिनी। पाटलाः व्रीहयः। आदिशब्दस्य प्रत्येकं सम्बन्धः। तेन सुषवीश्यामाकगोधूमादेर्ग्रहः। सुमधु उत्तमं मद्यं। क्षौद्रं वा। रसाः गुडतैलादयश्च॥ 39॥

अथ बर्हिषांशुकानां वसुककुमारीप्लवादिपुरवारा॥

पृथुलार्जुनराट्‌शालाः क्रूराः पुरुषा मृगास्तथा क्षीबाः 40

किंच बर्हिषां दर्भाणां। शुकानां शिरीषाणां चालय आसन्निति पूर्वस्यानुषङ्गः। बर्हिर्नाकुशशुष्मणोरिति। शुकं ग्रन्थिशिरीषयोरिति च त्रिकाण्डशेषः। अथ च। वसुकादयश्चासन्‌। तत्र वसुकाः अर्कद्रुमाः। ‘कुमार्यः काटेसेवतीति’ प्रसिद्धं। सहा कुमारी तरणिरित्यमरः। प्लवाद्याः प्लक्षादयः। प्लवः प्लक्षे प्लृतौ कपाविति मेदिनी। वाराः कुब्जवृक्षाः। कुब्जवृक्षे व्रजे वार इति त्रिकाण्डशेषः। पृथुलास्ते अर्जुनराट्‌शालास्तालवृक्षाश्च। यवसं तृणमर्जुनम्‌ इति तृणराजाव्हयस्ताल इति च अमरः। क्रूराः। भयंकराः। पुरुषा उण्डलीतिप्रसिद्धं। पुंनागे पुरुषस्तुङ्ग इत्यमरः। तथा। मृगाः अक्षीबाः ‘सेबगा’ इतिप्रसिद्धं। लङ्कापक्षे। वसूनि रत्नानि घनानि च। कोग्निः। कुमार्यः कन्याः। प्लवादयश्चाण्डालाद्याः। चण्डालप्लवमातङ्गा इत्यमरः। तेषां पुराणि गृहाणि तेषां वाराः संघा आसन्‌। पृथुला अर्जुनाः शुभ्राः। राज्ञां नृपाणां शाला गृहाणि चासन्‌। तथा क्रूराः निर्दयाः क्षीबाः मत्ताः पुरुषाः मृगाः हस्तिनश्चासन्‌। मृग पशौ कुरंगे च करिनक्षत्रभेदयोरिति मेदिनी। बर्हिषा। अंशुकानां च पदे उत्तरपद्ये नेये॥ 40॥

सकुटुंबतक्षकादेर्गन्धर्ववृषादिकस्य वासश्च॥

दीप्तामेनां दृष्ट्वा क्रुद्धो राजा स निर्जितः सद्यः॥ 41॥

किंच यस्यामटव्यां सकुटुम्बस्य तक्षकसर्पादेः। पूर्वं भुजंग्रहणेपि विशिष्टत्वात्तक्षकादेः पुनर्ग्रहणं। गंघर्वाः मृगभेदः। वृषा अटरूषाश्चआदयः यत्र तस्य वासश्चासीत्‌। एनां मटवीं दीप्तां दृष्ट्वा। राजा शक्रः क्रूद्ध आसीत्सः सद्यः तत्क्षणे निर्जितः। अथ लङ्कापक्षे। सकुटुम्बस्य तक्षकादेः वर्घकिलोहकारप्रभृतेः। तक्षको नागवर्घक्योरित्यमरः। गन्धर्ववृषादिकस्य। अश्ववृषभमहिषादिनां। वासः गोष्ठं। जात्यैकवचनं। निर्जितः रावणः। अशुकानां मारुतिपुच्छे वेष्टितानां बर्हिषाग्निना दीप्तामेनां दृष्ट्वा। च पुनः क्रुद्ध आस। अतीव चुकोपेत्यर्थः। इति सप्तानां कुलकम्‌॥ 41॥

येनात्मनोन्तं गमितो वृकोदरः संदर्शयित्वा लघुरूपमीश्वरः॥

सोपि प्रमोदं प्रचुरं भजेद्द्रुतं सुग्रीवमुख्यप्रियतापदं च तम्‌ 42

येन श्रीकृष्णेन। अदरः निर्भयः। वृकः वृकासुरः। अन्तं नाशं गमितः। किं कृत्वा आत्मनः स्वस्य। लघु मनोज्ञमगुरु च रूपं दर्शयित्वा। किंच सः वृकाद्भीत ईश्वरः शिवोपि प्रचुरं प्रमोदं द्रुतं गमितः। तं भजे सेवे। कीदृशं तं सुग्रीवमुख्या अश्वाः वानरा वा प्रिया यस्य तापं द्यति खण्डयति तं च तं च। शिवात्प्राप्तवरः वृकासुरः मस्तके हस्तं निधाय तं जिघांसुः। बटुरूपिणा विष्णुना वञ्चयित्वा हत इति दशमस्थाष्टाशीतितमाध्याये॥ शंभुपक्षे। येन हनुमदात्पना। ईश्वरः समर्थोपि वृकोदरः। भीमसेनः। आत्मनः पुच्छोच्चालनरूपयत्नस्य। अन्तं समाप्तिं गमितः। आत्मा यत्नो धृतिर्बुद्धिरित्यमरः। अथ चाऽलघुमहद्रूपं प्रदर्श्य। बहुमानन्दं गमितः। तं भजे। कीदृशं तं सुग्रीवादीनां कपीनां प्रियतायाः प्रेम्णः पदं स्थानम्‌॥ 42॥

उत्पादितं येन तु भूतजातं देवेन मास्ते च वशे यदीये॥

सदाधिहान्यै विदधाति योगं यस्तस्यसेवेङ्घ्रियुगं सदेति 43

उत्पादितमिति यिन श्रीकृष्णेन भूतानामाकाशादीनां जन्तूनां च जातं उत्पादितम्‌। च। यदीये वशे मा

लक्ष्मीरास्ते च सतामाधेः मनःपीडायाः हान्यै योगमुपायं विदधाति करोतिशिवपक्षे। येन। भूतानां पिशाचानां जातं वृन्दं उत्पादितम्। अलं प्रजाभिः सृष्टाभिरीदृशीभिरित्यादेः श्रीभागवतोक्तेः। देवानामिन्द्रियाणामिनं प्रभुं। मनः। च आधिहान्यै। योगं समार्धि सदा। विशेषेण दधाति॥ 43॥

प्राज्यं प्रमोदं कमलेश्वरोपि प्राप द्रुतं वाडवदर्शनेन॥

प्राज्ञा महान्तोन्यकृतं स्मरंन्ति प्रायः खलूच्चैरपि नापकारम्‌ 44

प्राज्यमिति। कमलानां जलानामीश्वरोपि समुद्रोपि। वाडवस्य वडवानलस्य दर्शनेन। वस्तुतः कमलेश्वरः लक्ष्मीपतिः। वाडवस्य विप्रस्य। उच्चैर्महान्तमपि। हे प्राज्ञाः॥ 44॥

प्रेष्ठाम्भोजदृशां जनाः खलु वयस्थानां भवन्ति प्रिया

गाढं यद्गरुडासनोतिनलिनस्वेनाननेनानिशम्‌॥

धिक्कुर्वन्सुतरां समग्रमपि भूदेवाधिपं रौक्मिणं

त्वेतं भूमिसुराधिपं प्रियतया संमानयामास वै॥ 45॥

प्रेष्टेति। प्रेष्ठाश्च ता अम्भोजदृशः वध्वश्च तत्सम्बधिजनाः। वयस्थानां तरुणानाम पक्षिगामिनां च गाढमत्यन्तं प्रियाः। नलिनमतिक्रान्तं च तत्स्वं च तेन। भूदेवाधिपं चन्द्रम्‌। विप्रश्रेष्ठं च॥ 45॥

सानन्दमुत्थाय स चक्रि अप्यरं

गत्वाग्रतो विप्रवरं सुनिर्भरम्‌॥

प्रेम्णालिलिङ्गाथ गृहीतविष्टरं

नत्वा च संपूज्य जगाद सुन्दरम्‌॥ 46॥

सानन्देति। चक्री सर्पोपि। विषु प्रवरं गरुडं। वस्तुतः। चक्री श्रीकृष्णः। विप्रेषु वरं श्रेष्ठं। चक्रिअपीत्यत्र। इकोसवर्णे शाकल्यस्य हस्वश्चेति प्रकृतिभावः। ह्रस्वत्वं च॥ 46॥

दर्भैर्विना सिध्यति न द्विजानां

सत्कर्म भद्रं तद्दते तु न स्यात्‌॥

विदर्भदेशे भवतां निवासः

पृच्छाम्यतो वोस्ति शुभं न वेति॥ 47॥

दर्भैरिति। तत्‌। सत्कर्म। ऋते विना। भद्रं कल्याणम्‌॥ 47॥

अन्वर्थनामा भवतां नृपः किं

भीष्मे महीशे क्व सुखं प्रजानाम्‌॥

विप्रेषु भूपेषु वधूषु नूनं

शुचित्व मेवाति सुखस्य हेतुः॥ 48॥

अन्वर्थेति। भवतां राजा। भयङ्करोस्ति किं इति प्रथमपादार्थः। मर्हाशे भूपे भीष्मे भयङ्करे सति। शूचिः क्षेमंकरो राजा शुचिर्नारी पतिव्रता। शुचि भूमिगतं तोयं सन्तोषी ब्राह्मणः शुचिः। इत्युक्तेः। विप्रवृपस्त्रीणां सन्तोषः क्षेमं करत्वं पातिव्रत्यं च शुचित्वानि। अतः भवान्सन्तोषी। भीष्मः शङ्करोस्ति किमित्यर्थः॥ 48॥

स ब्राह्मणो धर्मरतो यदृच्छा-

लाभेन तुष्टः सुतरां दयालुः॥

यश्चाशिलेथो खलु सुप्रजा यो

राजन्वती येन मही स राजा॥ 49॥

सेति। यः धर्मरतादिः स ब्राह्मण इत्यन्वयः। यः सुप्रजाः। नित्यमसिच्‌ प्रजामेधयोरिति प्राजया असिच्‌। सुराज्ञि देशे राजन्वानित्यमरः॥ 49॥

सन्ध्यादिकगुणसहितं वरशमवन्तं सुमन्त्रिणं धीरम्‌॥

देवं चावनिदेवं कुलदेवं भोः सुदेव मन्येहम्‌॥ 50॥

सन्ध्येति। भोः सुदेव। देवं राजानम्‌। अवनिदेवं विप्रं च। कुलदेवं मन्ये। कीदृशं देवं।

सन्धिप्रभृतिगुणयुक्तम्‌। संधिर्ना विग्रहो यानमासनं द्वै धमाश्रयः षङ्गुणा इत्यमरः। वरमुत्तमं शं कल्याणं यता स्यात्त्थावन्तं रक्षन्तं। शोभना मन्त्रिणोऽमात्या यस्य तं। धीरं धैर्यवन्तं च । कीदृशं विप्रं। संध्याहोमादिकर्मभिः दयाक्षमादिगुणैश्च युक्तम्‌। वरः शमः अस्त्यस्य तम्‌। सुमन्त्राः सन्त्यस्य तं। धीरं विद्वांसं च ॥ 50॥

शिवं भवद्दर्शनवारिदेन

भो ऐधतास्माकमिदं न चित्रम्‌॥

चित्रं तु भूः पादरजोभिरेषा

सद्योतिवेलं विमलीकृतार्य॥ 51॥

शिवमिति। शिवं जलं कल्याणं च अतिवेलमत्यन्तं भो आर्य साधो॥ 51॥

सज्जन भवादृशानामागमनं दुर्लभं कुटुम्बिगृहे॥

अत्राद्य यन्निमित्तंत्वमागतस्तत्तु जातमिति विद्धि॥ 52॥

सज्जनेति॥ 52॥

ससुवर्णालङ्कारां सरसामामोददायिनीं सुगुणाम्‌॥

तरुणीमिव हरिवाणीं श्रुत्वा विप्रो बभाण कल्याणीम्‌ 53

सुवर्णोति। कीदृशीं वाणीं। शोभनैः वर्णैः अलङ्कारैश्च सहितां। रसैः शृङ्गारादिभिः सहिताम्‌। शोभनाः गुणाः श्लेषप्रसादादयः यस्याः। तरुणीं तु। सस्वर्णमूषां सुष्ठु वर्णेन रूपेण भूषाभिश्च युतां वा॥ 53॥

देवाशुभपिधानाय धराग्रे तूदिते त्वयि॥

साधुमित्रे कथं भद्र प्रकाश्यं न भवेत्प्रभो॥ 54॥

देवेतिहे देब। अशुभस्य पिधानाय नाशाय धरायाः भूमेरग्रे उपरि। साधूनां मित्रे हितकरे त्वयि। उदिते उत्पन्ने सति कथं भद्रस्य शुभस्य प्राकाश्यं प्राकट्यं न भवेत्‌ अपि तु भवेदेव। अथ चाशु शीघ्रं। भानां नक्षत्राणां पिधानायाच्छादनाय धरस्याद्रेः अग्रे शिखरे। मित्रेऽर्के साधु यथा तथोदिते सति। भद्रमुत्तमं प्राकाश्यं प्रकाशः कथं न भवेदिति॥ 54॥

दुष्टः स्यात्खलु रासभास्थित इना वीरालिपूर्णालयो

दृष्ट्या बन्धनवान्प्ररहारगणवान्गोकर्णतुल्यात्मकः॥

रामान्यो मरणोन्मुखः कपटवान्कन्दर्पशून्यस्तवा-

ऽलक्ष्मीयुङ्‌ निरयी च किन्नरवरः सन्त्वाद्यवर्णादृते 55

हे इन प्रभो तवादृष्ट्या। क्रूरदृष्ट्या। अदृष्टिः स्यादसौम्येक्ष्णीत्यमरः। दृष्ट्यभावेन वा। दृष्टः वक्ष्यमाणगुणः स्यात्‌। स यथा। रासभमास्थितः। च अवीराणां निष्पतिसुतान आल्या पङ्क्त्या पूर्ण आलयो यस्य। गोकर्णेन सर्पेण तुल्यः आत्मा स्वभावः यस्य सः। रामान्यः रमणीरहितः। किन्नरेषु कुत्सितनरेषु वरः। सन्‌ साधुस्तु तव दृष्ट्या कृपालोकनेन आद्यवर्णात्‌ ऋते। उक्तगुणः स्यात्‌। स यथा। सभायां स्थितः। वीसणां पतिपुत्रवतीनां शूराणां चालिभिः पूर्मगृहः। घनवान्‌। हारवृन्दवात्‌। कर्मतुल्यः उदारः आत्मा यस्य। मान्यः। रणोन्मुखः। पटवान्प्रशस्तवस्त्रः दर्पेण शून्यः। लक्ष्मीयुक्तः। रयीवेगवान्‌। नरवरः नृपश्च॥ 55॥

भीष्मस्तु राजा भवतः कृपादृक्‌-

पात्रं ह्यतिश्रेष्ठगुणोस्ति धत्ते॥

अन्वर्थतां भीष्मपदस्य राज-

पदस्य दुष्टे सकले च लोको॥ 56॥

मोव्मेति। भीष्मो राजा तु भवतः कृपादृष्टेः पात्रमस्ति। हि अतो हेतोरतिश्रेष्ठाः गुणाः शौर्याद्गयो यस्य सोस्ति दुष्टे भीष्म इति पदस्यान्वर्थतां भयङ्करत्वम्‌। सकले लोके राजपदस्यान्वर्थतां रञ्जकतां धत्ते। रञ्जयतीति राजा॥ 56॥

स च पार्थिवो दिगीश्वररूपो जिष्णुः शुविश्च दण्डधरः॥

सत्कर्बुरो रसेशः स्पर्शी श्रीवोस्ति शङ्करो भगवन्‌॥ 57॥

सेति। च। दिगीशरूपत्वं समर्थयति। जिष्णुः शक्रः। शुचिरग्निः। दण्डधरः यमः। सन्प्रशस्तश्चासौ कर्बुरः राक्षसः। रसस्य जलस्य ईशः वरुणः। स्पर्शी वातः। वस्तुतः। जिष्णुप्रभृतिशब्दैः क्रमात्‌। जेता। पवित्रः। दण्डकर्ता। सत्कर्तुरं सुवर्णं यस्य सः। रसायाः भूमेः ईशः पतिः। दाता। स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि इतिमेदिनी। त्रियं बुद्धिं ददाति। क्षेमंकरश्च॥ 57

तत्तनया सद्विनया सनया मुनयोपि यां प्रशंसन्ति॥

सा रुक्मिणी मुकुन्द त्वत्तुल्या सद्गुणैर्हि ते योग्या॥58॥

मत्स्याक्षी कूर्मलसत्पदकमला कोलमौक्तिकावलिधृक॥

नरसिंहमध्यमास्ते वामनचूचुकवती च रामाङ्गी॥ 59॥

रधुवरतमालपत्रा कृष्णशिरोजा हि बुद्धनिजकार्या॥

सा कल्किचेतनेड्या दधतीवाङ्गेवतारदशकं ते॥ 60॥

इदं युग्मं। हे मुकुन्देति पूर्वस्यानुषङ्गः। सा रूक्मिणी। ते तवावताराणां दशकमङ्गे देहे दधतीवास्ते। कीदृशी सा। मत्स्यः मत्स्यावतारोक्षिणी नेत्रे यस्याः सा। एवं सर्वत्र। कोलः वराहः। रामः पर्शुरामः। चेताना बुद्धिः। इड्या स्तुत्या। वस्तुतः। मत्स्य इवाक्षिणी यस्याः सा। कोलानां वदरीफलानामिव मौक्तिकानामावलिं पङ्क्तिं धरतीति। यद्वा वराहोत्थमुक्तालिभृत्‌। जीमूतकरिमत्स्याहिवंशशंखवराहजाः। शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनय इत्युक्तेः। हे नरसिंह इव मध्यममवलग्नं यस्याः सा। वामने सर्वे चूचुके कुचा ग्रेस्तास्याः। रामाणि चारूणि अङ्गान्यवयवाः यस्याः। रलयोरैक्यल्लिधु। मनोज्ञं वरस्य कुङ्कुमस्य तमालपत्रं तिलकं यस्याः। कृष्णाः शिरोजाः केशा यस्याः। बुद्धं ज्ञातं। बुद्धः विद्वानिव वा। निजं स्वं कार्य यस्या अकल्किभिः पुण्यवद्भिः चेतनैः प्राणिभिः इड्यां। स्तोतव्या च। कल्कोस्त्री शमलैनसोरित्यमरः॥ 59॥ 60॥

पूर्णंकलानिधिमुख्यास्तस्याश्चेतो यदूत्तमोत्तंस॥

तव पदपद्मद्वन्द्वे सततं भृङ्गायते च हंसगतेः॥ 61॥

वेधाश्च कृत्तिवासाः सान्तौ व्यासादयः प्रसिद्धान्ताः स्युः॥

इन्द्रसुखाश्चादन्ता इति सा ववे सदन्तकमनंतं त्वाम्‌॥ 62॥

वेधाः। ब्रह्मा। कृत्तिवासाः शिवः। सान्तौ नाशसहितौ। सकारान्तौ च। प्रसिद्धोन्तः येषां ते। प्रकृष्टः सिद्धान्तो येषांते च। अदन्ता दन्तरहिता वृद्धाः इत्यर्थः। अकारान्ताश्च इति हेतोः। सदन्तकं दन्तयुक्तं तरुणमित्यर्थः। असतामन्तकं च। इदमार्यागीतिवृत्तम्‌॥ 62॥

तुभ्यं पितरावपि तां ददतुर्दुर्मेधसा तु तद्भात्रा॥

दुग्धे लवणं क्षिपता तत्कामः खण्डितोऽशिवेनापि॥ 63॥

तेषां रुक्मिण्यास्तत्पित्रोश्च कामः मदनोभिलाषश्च। अशिवेन शङ्करभिन्नेन। कल्याणहीनेन च॥63॥

आत्मघोषाय मुक्तालिमिव तां दामघोषये॥

दित्सता रुक्मिणा तेन नीतोद्वेगं च सा वधूः॥ 64॥

आत्मघोषाय काकाय। दामघोषये दमघोषपुत्राय शिशुपालाय। उद्वेगं खेदम्‌॥ 64॥

त्वत्प्राप्तिकामा निजकार्यदक्षा

विलिख्य पत्रं वरसप्तपद्यम्‌॥

सम्प्रार्थ्य मां प्रेषयति स्म साहं

त्वगां सपत्रश्चरणान्तिकं ते॥ 65॥

सा। अहं। तु। आगामिति छेदः॥ 65॥

इत्युक्त्वा ब्राह्मणः पत्रं तस्मै कुङ्कुममण्डितम्‌॥

ददौ स तत्समादाय चुचुम्ब प्रेमतः प्रभुः॥ 66॥

कृष्णवर्णे हरौ रक्तास्मीति ज्ञापयितुं किल॥

कृष्णानि वर्णान्यक्षराणि यत्र तत्र पत्रे॥ 66॥ 67॥

बुद्ध्वा तदभिप्रायं सद्यो दित्सन्यदूत्तमोभीष्टम्‌॥

तं द्विजमिदं बभाषे तत्प्राप्त्यै यत्यते मया प्राज्ञ 68

गोत्रक्षेत्रवयोघनादिरहितं सुभ्रूर्वरीतुं न सा

मां ब्रह्म स्पृहयिष्यतीत्यहमधां गोत्रं तु गोवर्धनम्‌॥

क्षेत्रं द्वारवतीं वयश्च गरुडं धर्माश्रयः सद्धनो

विद्यावान्नृवरः सुशीलभृदभूवं तद्द्विवाहाशया॥ 69॥

गोत्रं कुलम्‌। क्षेत्रं शरीरम्‌ कुलं शीलं वपुर्विद्यां वयो वित्तं सनाथतां। गुणान्परीक्ष्यैतानेव देया कन्या मनीषिभिः। इत्युक्तेः। आदिना शीलादेग्नहः। वयः पक्षिणि बाल्यादौ यौवने इति मेदिनी। सत्प्रशस्तं धनं यस्य साधुरेव धनं यस्य स च। नृवरः षुरुषोत्तमः। अनेन ब्रह्मशब्देन प्राप्तं क्लीबत्वमुदस्तम्‌। सुशीलभृत्‌। उत्तमशीलघारी। सुशीलान्बिभार्ति पुष्णाति। तया सह विवाहस्याशया॥ 68॥ 69॥

इत्युक्त्वा द्वारकारामसेनासिन्धुनभःसमम्‌॥

रथं शैव्येन सुग्रीवमेघपुष्पबलाहकैः॥ 70॥

राजमानं रुचस्थानं दिव्यमारुह्य माधवः॥

निर्जगाम सुधां तूर्णमानेतुं खगराडिव॥ 71॥

शैब्याया इनः श्रीकृष्णस्तेन राजमाना द्वारका। सुग्रीवकपिना। रामचन्द्रसेना। मेघपुष्पैः जलैः समुद्रः। बलाहकैः मेधैः। नभाः वर्षाऋतुः। रथस्तु शैब्यप्रभृतिभिः कृष्णस्य हयैः राजमानस्तम्‌। रुचः कान्तेः। खगराट्‌ गरुडः॥ 70॥ 71॥

हंसोयंमुद्वाहकृते किलात्म

बन्धुः प्रयात्येक इतोस्य साह्यम्‌॥

कर्तव्यमेवेति विचार्य हंसैः

प्रापेन्तिकं तत्र विनिर्गते द्राक्‌॥ 72॥

हसः। विष्णुः। चक्राङ्गपक्षी च। उद्वाहकृते। विवाहं कतु। कृते इत्यव्ययम्‌। आत्मनः स्वस्य बन्धुः। आत्मा चासौ बन्धुश्च। तत्र तस्मिन्‌ श्रीकृष्णे विनिर्गते सति॥ 72॥

त्रैलोक्यनेत्राप्यमुनास्मदीय-

पिच्छावतंसो विधृतः स्वमौलौ॥

इतीव हार्देन तदिष्टसिद्य्धै

शिखावला दृष्टिसृतिं तदापुः॥ 73॥

त्रैलोक्यस्य नेत्रा प्रभुणापि। अमुना श्रीकृष्णेन। शिखावलाः मयूराः। हार्देन प्रेम्णा। दृष्टेः सृतिं मार्गं प्राप्तुः॥ 73॥

मत्कुम्भद्वितयेन भीष्मतनुजावक्षोजसाम्यं कृतं

कर्ता तत्करपीडनं प्रभुरयं ज्ञात्वास्य मन्तुं रतौ॥

चैनद्दण्डयितेत्यनेकपपतर्मत्वा चिकीर्षन्निव

स्नेहं तस्य पुरैव चारुशकुनत्वेनापतत्संमुखम्‌॥ 74॥

तस्या भीष्मतनुजायाः करपीडनं पाणिग्रहं कर्ता करिप्यति। इदं लुटः रूपं। अस्य कुम्भद्वयस्य मन्तुमपराधम्‌। रतौ सुरतसमये। ज्ञात्वा। एनत्कुम्भद्वितयं। अत्रान्वादेशत्वादेनत्‌। दण्डयिष्यति। इति हेतोः। अनेकपानां गजानां पतिः। पुरैव विवाहात्पुर्वमेव। तस्य श्रीकृष्णस्य स्नेहं चिकीर्षन्निवा॥ 74॥

शोभास्मन्नयनस्य भीष्मतनयानेत्रेण सर्वा हृता

सा भार्या भवतो भविष्यति ततो नस्तां प्रभो दापय॥

इत्थं प्रार्थयितुं जगत्परिवृढं नूनं चिराय क्षणं

पश्यन्तो हरिणाः पुराद्वहिरिते तस्मिन्नरं संगताः॥ 75

तां शोभाम्‌। प्रभुः परिवृढोधिप इत्यर्थः। इते गते सति। अरं शीघ्रं। कीदृशाः हरिणाः। चिराय। चिरकालम्‌। क्षणमवसरं पश्यन्तः। क्षणः पर्वण्युत्सवेवसरे मानेप्यनेहस इति मेदिनी॥ 75॥

यद्वाजिराजा वयमेव तार्क्ष्यो

ऽस्मद्वाजिराजत्वहरोभवत्तम्‌॥

गत्या हि जेष्याम इतीव बुद्ध्या

रथ्या हरिं कुण्डिनमाशु निन्युः॥ 76॥

वाजिनोश्वेषु पक्षिण इत्यर्थः। वाजिराजा इत्यत्र राजाहः सखिभ्यष्टजिति टच्‌। रथस्य वोढारोश्वाः रथ्याः॥ 76॥

भैष्मीं वरीतुमनुजो गत एक एव

श्रुत्वैवमार सबलः स बलः सुतूर्णम्‌॥

साह्याय येन तु खलप्रबलप्रलम्ब-

वध्वाः किलालिकगकुङ्कुममाशु मृष्टम्‌॥ 77॥

सबलः ससैन्यः सः बलः। रामः। आर जगाम। ललाटमलिकं गोधिरित्यर्थः॥ 77॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीरुक्मिणीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 78॥

इति श्रीरुक्मिंणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणि विरचिते द्वितीयः सर्गः॥ 2॥


.

***तृतीयः सर्गः। ***

कृष्णागमस्याथ विलम्बतोभू-

द्रुक्मिण्यपीयं बहुलोहधात्री॥

ततश्च तापावपनं वितापी

कर्तुं सखीनामपि यत्न एनाम्‌॥ 1॥

रुक्मं हेम। तद्वती रुक्मिणी नाम्नी च। बहोः लोहस्य धात्री। बहुलानामूहानां तर्काणां धात्री च। तापानाम्। आवपनं पात्रम्‌॥ 1॥

तस्याः कण्ठे पद्ममाला बबन्धु-

श्चाङ्गे लिम्पन्ति स्म ता गन्धसारम्‌॥

निन्युर्ज्योत्स्नाशालिनीं तां स्थलातां

शीतो मन्दो यत्र वातोतिगन्धः॥ 2॥

सा ता बभाषे शतपत्रमाला

भद्रश्रियो लेपनमेतदद्धा॥

प्राणापहारि व्यथयत्यलं हि

कथं भवत्योप्यहितीभवन्ति॥ 3॥

सा रुक्मिणी। ताः सखीः। अद्धा साक्षात्‌ शतानामनेकेषां पत्राणां बाणानां माला पङ्क्तिः। पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणोरिति विश्वः। भद्रायाः श्रेष्ठायास्तीक्ष्णायाः इत्यर्थः। श्रियः विषस्य। वस्तुतः। कमलमोला। भद्रश्रियः चन्दनस्य॥ 3॥

तपनाद्धि लब्धकिरणो नितापदो ब्रह्मपुत्रजो दहति॥

वाडवराडिदमुचितं विषममकाय आयमिन्दुर्माम्‌॥ 4॥

ब्रह्मपुत्राद्विषभेदाज्जातः। जातः। वाडवन आनलेन राजतीति। वस्तुतः। ब्रह्यणः पुत्रादत्रेः जातः।

वाडवानां विप्राणां राट्‌। नितरां तापं द्यति खण्डयति विषमयकायः। अम्मयशरीरः॥ 4॥

मलये पूदाकुसंगी पृषत्कनिवहं वहन्नयं मन्दः॥

नैकपरागःस्थानं करोति करणं मरुद्धि नाम समम्‌॥ 5॥

पृदाकवः सर्पाः। पृषत्काः बाणाः। नैकेषां परः शत्रुः पीडक इत्यर्थः। स चासावागसः स्थानं च। आगः पापा पराधयोरिति मेदिनी। हि अतः। हेतोः। म्रियते अनेनेति मरुत्‌॥ वस्तुतः। पृषतं विन्दुरूपं कनिवहं जलौधं वहन्‌। परागाः पुष्परेणवः। कस्तूरीकायामामोदः कर्पूरे मुखवासनः॥ बकुले स्यात्परिमलश्चम्पके सुरभिस्तथेतिशब्दार्णवः॥ 5॥

कार्तान्तिकं पृच्छत भूरि भूरि दत्त्वा कदा याति मुकुन्द एतत्‌॥

कल्पायते मे क्षणदाक्षणोपि तमन्तरा हि क्षणदो न चान्यः 6

भूरिं सुवर्णं। तमन्तरा। मुकन्दं विना। क्षणद उत्सवदा ता। तमन्तरेति देहलीदीपन्यायेनोभयान्वयि॥6॥

वीणां निधाय निकटे मम गायताल्य-

स्तेनैव तत्र भवतां नचपल्लवानाम्‌॥

स्पृष्टिर्हरेज्ज्वरमिति प्रियया निशम्या-

रब्धे च तत्र पुनरेतदुवाच सा ताम्‌॥ 7॥

हे आल्यः सख्यः। तेनैव गीतेनैव॥ तत्र वीणायां तत्र गीते॥ 7॥

अलमलमधुनाऽऽले गीतभङ्ग्या हि गाना-

दुदयति जलदो मेत्यन्तदुःखप्रदायी॥

अपि च मुरभिदो भोस्तेन जायेत नूनं

मम परिणयहेतोरामनस्यान्तरायः॥ 8॥

भो आले सखि॥ 8॥

निखिलानामपि जगतां स्तनयित्नुर्जीवनं दिशन्मम तु॥

जीवनमिच्छति हर्तुं मयापराद्धं किमस्य कालस्य॥ 9॥

कालस्य यमरूपस्य नीलस्य च॥ 9॥

इति तापमनुभवन्ती सहसा सा पद्मिनी हिजेन्द्रं तम्‌॥

दृष्ट्वा सद्यो जज्ञोधिमुखं फुल्लाद्भुतं किमतः॥ 10॥

तस्याकारेणैव स्वकार्यसिद्धिं तु तर्कयित्वा तं पाठे निवेश्य भक्त्या स च तां पूजितवतीं बभाष इदम्‌॥10॥

जहार योन्त्यस्य भरं भयङ्करं

चतुर्थमुर्वीधरभृन्न्यवारयत्‌॥

पपौ तृतीयं तरसा द्वितीय

वत्स आययौ चादिमगादिपालकः॥ 11॥

भगवतो या त्रिगुणात्मिका मायास्ति तत आकाशः सम्भूत आकाशाद्वायुः वायोरग्निरग्नेरापः। अद्भ्यः पृथ्वीति भूतानामुत्पत्तिक्रमस्तत्त्वबोधे उक्तः। तेनान्त्यस्य भूमेः भयङ्करं भारं। सर्वीधरभृत्‌ गोवर्धनधरः सन्‌। भयङ्करं चतुर्थ शक्रकारितातिवृष्टिभवं जलं निवारयामास। च भयङ्करं तृतीयं भूतमग्निं पपौ च। द्वितीयवत्‌। वायुरिव तरसा वेगेन। सः श्रीकृष्णः आययौ। कीदृशः आदिमे आकाशे गच्छन्ति ते आदिमगा देवा आदयः येषां गोविप्रादीनां तत्पालकः तटस्थामाजानन्त्वित एव मुक्तिः॥ 11॥

श्रीकण्ठ आत्मा च हिरण्यगर्भो

यस्यात्मजो भोगिपतिश्च मञ्चः॥

रत्नाकरो वेश्म वधूश्च लक्ष्मी

र्हे सुव्रते ते सुतरां स वश्यः॥ 12॥

कण्ठो गले सन्निधाने इति मेदिनी। भोगो वित्ते फणे सुखे श्रीकण्ठादिपदैः लक्ष्मीवत्त्वं द्योतितम्‌॥ 12॥

कर्णे सुधां किरन्तीं वीणाक्वाणे घृणां वितन्वन्तीम्‌॥

आकर्ण्येमां वाणीं प्रल्हन्ना तमवदत्सती सैवम्‌॥ 13॥

प्रल्हन्ना हृष्टा॥ 13॥

उक्तिर्यस्य सुवर्णवत्यथ यशः श्वेतोरुमूर्तिः सभः

मुक्तालिश्च करे क्षमा हृदि पृथुर्वासोतिसाध्वन्तिके॥

गन्धर्वाभ्यधिकः स्वरः सुरभिधीः पुन्नागनाथश्च यः

सद्रत्नं च किमस्ति देयमिति ते तस्मै नमो स्त्विष्टद 14

विप्रप्रत्युपकारार्थं सुवर्णादिदानानुपयोगं द्योतयति। स्वर्णं देयं चेदुक्तिः काञ्चनवती। रौष्यं देयं चेद्यशः। श्वेतेन रौप्येण उरु महत्‌। एव मग्रे। सभा गृहम्‌। अन्तिके अति अत्यन्तम्‌। साधु सुन्दरं च वासः वस्त्रम्‌॥ गन्धर्वा अश्वाः। पुमांसः। नागा हस्तिनश्च तेषां नाथः। वस्तुतः। उक्तिः शोभनाक्षरवती। यशः श्वेतं शूभ्रं च तदुरु च। मूर्तिस्तनुः। सभा कान्तियुता। मुक्तानां साधूनां आलिः पङ्क्तिः करे स्वाधीनेत्यर्थः। पृथर्महती क्षमा क्षान्तिः। आतिसाधूनां प्रकृष्टसतां समीपे वासः वसतिः। सुरभिः मनोज्ञा धीः यस्य। सत्सु रत्नं च॥14॥

निर्मूल्य चोद्वेगगुडा तरुं मे

चित्तालवाले सहसा विरूढम्‌॥

आरोपितः सन्मदकल्पवृक्षो

येन द्विजेन्द्रेण नमोस्तु तस्मै॥ 16॥

गुडा स्नुही। सेहुण्ड इति प्रसिद्धः। चित्तमेवालवालम्। आवापस्तत्र॥ 16॥

भीष्मेण जिष्णुंनागः सीमान्ते स्वपचितिं तु शिशुपालः॥

निन्ये निजजामातुर्माभूच्छ्रम इति कृतं नु हरिकार्यम्‌ 17

भीष्मेण तु। तु भेदे। जिष्णुषु जित्वरेषु नागः श्रेष्ठः। स्वपतिं शोभनपूजां क्षयार्चयोरपचिती इत्यमरः। श्लेषपक्षे तु जिष्णुना जेत्रा भीष्मेण। आगसामपराधानां सीमान्ते मर्यादन्ते असूनां प्राणानामपचितिं नाशं। शतापराधानन्तरं शिशुपालं हनिष्यामीति श्रीकृष्णप्रतिज्ञा भारते॥ 17॥

भीष्मः स्वकन्याकरपीडनोत्सवं

द्रष्टुं बलो माधव आगताविति॥

ज्ञात्वा मुदानर्च समेत्य स—–

तेनैव नूनं हरिपूज्यतामगात्‌॥19॥

आनर्च अपूजयत्॥ हरिणा कृष्णेन शक्रेण वा पूज्यः। अर्च्यस्तस्य भावं। हरेः श्वशुरत्वं च। पूज्यः श्वशुरवन्द्ययोः इति मेदिनी। भगवत्पूजा उत्तमफलदेत्यर्थः॥ 19॥

शौरे रूपं वीक्ष्य तत्रत्य लोको-

भाणीदेतद्वासवोहं यदि स्याम्‌॥

न स्याच्चान्तोस्यावतारस्य कल्पं

द्रक्ष्यामीदं तर्हि जायेत तृप्तिः॥ 20॥

वासवः सहस्राक्षः। कल्पं ब्रह्मदिवसपर्यन्तं। कालध्वनोरत्यन्तसंयोगे इति द्वितीया। इदं रूपं द्रक्ष्यामि चेत्‌। अत्र संभावनालङ्कारः॥ 20॥

गौर्या योग्यः शम्भुर्लक्ष्म्या विष्णुर्धवो विधूरात्र्याः॥

सावित्र्याश्च विधाता रुक्मिण्याः श्रीहरस्तथानान्यः 21

एषा श्रीररुणाधराब्जनयना स्यान्मङ्गलोक्तिः सदा

सौम्यांगी गुरुचेतना सितरदा मन्दप्रयाणा तथा॥

चन्द्रद्विङ्विकचानना ग्रहवतीत्यस्या अनन्ते स्थिति-

र्युक्तातो जनकेन दातुमुचिता पीताम्बरायैव भोः॥22॥

अत्र श्लेषपक्षे अरुणादिशब्दैः सूर्याद्या नव ज्ञेयाः। अब्जश्चन्द्रः सितः शुक्रः। चन्द्रद्विड्‌ राहुर्विकचः केतुः। विकचः क्षपणे केतौ नाऽकेशे स्फुटितेन्यवदति मेदिनी। अनन्ते आकाशे॥ आपीता। गौरवर्णेत्यर्थः। अम्बराय आकाशायैव। वस्तुतः। आरक्तोष्टादिमती। अग्रहः अस्य श्रीकृष्णस्य ग्रहः स्वीकारस्तद्वती। अकारो वासुदेवे स्यादित्येकाक्षरः। च। एषा। श्रीः लक्ष्मीरेवइति हेतोः अस्या अनन्ते कृष्णे स्थितिः बासः युक्ता। पीताम्बराय श्रीकृष्णायैव॥ 21॥ 22॥

नार्यः प्रोचुश्चार्या भीष्मो राजा गुणज्ञ उष्णोपि॥

सुतबुद्य्ध स जडः सन्‌ क्षैरेयीं रासभाय राति बत 23

क्षैरेयीम्‌ पाय्सम्‌॥ 23॥

राजायसशृङ्खलया पुत्रमपात्रप्रियं स्वमूत्रसमम्‌॥

रुक्मिणमन्वर्थत्वं नीत्वा हरये सुतां न किं दत्ते॥ 24॥

आयसी लोहमयी शृखला। तया रुक्मं लोहमस्त्यस्मिंस्तं। रुक्मं लोहसुवर्णयोरिति त्रिकाण्डशेषः। अन्वर्थतां नीत्वा बद्ध्वेत्यर्थः॥ 24॥

अन्याः प्राहुर्धन्या भर्ता श्रीकृष्ण एव रुक्मिण्याः॥

स्याच्छिशुपालस्तु पराभूतेरेव ससखः शृणुत किंवा 25

हे धन्याः। ससखः मित्रसहितः शिशुपालस्तु पराभूतेः पराभवस्यैव भर्ता धर्ता स्यात्‌॥ 25॥

भास्वानुदेष्यति यदैव दिशि प्रतीच्यां

ग्लौस्तापयिष्यति महीं स्वकरैरमायाम्‌॥

वन्ध्यासुतश्च स्वसुमावलिधृग्यदा स्या-

द्भर्ता भवेत्स शिशुपालनृपस्तदास्याः॥ 26॥

ग्लौश्चन्द्रः। स्वकरैः निजकिरणैः। अमायाममावास्यायां। खसुमानामाकाशपुष्पाणामावलिधृक्‌ पङ्क्तिधरः॥ 26॥

एकोनत्रिंशत्तमभेष्टमवारे च षोडशेयि तिथौ॥

द्वादशकरणेऽष्टाविंशतितमयोगे भवेत्स उद्वाहः॥ 27॥

सः रुक्मिणीशिशुपालयोः। अयीति सम्बोधने। यथा एकोनत्रिंशत्तमनक्षत्रादीनामभावस्तथा तद्विवाहस्येति भावः॥ 27॥

इतराः प्रोचुरनितरा भवतीनां पततु शर्करा तुण्डे॥

कृत्स्नैरस्मत्पुण्यैर्गृह्णात्वयमेव रुक्मिणीपाणिम्‌॥ 28॥

हे अनितराः श्रेष्ठाः इतरस्त्वन्यनीचयोरित्यमरः। तुण्डे मुखे। अयं श्रीकृष्ण एव॥ 28॥

सुरभेर्भर्ता योग्यो बालेयो मर्कटो यथा लक्ष्म्याः॥

स्वर्णद्या रथ्यावारोघो भैष्म्यास्तथैव शिशुपालः॥ 29॥

सुरभेः कामधेनोः बालेयो गर्दभः। स्वर्णद्याः मन्दाकिन्याः

रथ्यायाः प्रतोल्याः वारां जलानां ओघः प्रवाहः॥ 29॥

भीष्मस्य कृतिमुद्वीक्ष्यानन्दथुः किमु जायते॥

अतस्तदन्तस्तस्यैव लपनोपरि भोः प्रियाः॥ 31॥

लपनं मुखम्‌॥ 31॥

स्त्रीणामिति गदन्तीनामानन्दं जनयन्दृशाम्‌॥

पूर्मध्येन सरामोगाद्वासार्थं सोम्बिकालयम्‌॥ 32॥

पष्ठीयमादिगजकान्तिरथद्वितीय-

यानाङ्गनावरगुणा शिवयोस्तृतीयम्‌॥

संचिन्तयन्त्यविरतं भजतेतिमात्रं

तुर्यान्त्यवत्प्रियतया खलु साधुवारम्‌॥ 33॥

लक्ष्म्या व्रजन्ती किल सप्तमीं च

दुष्टेष्टमन्ती निशिलेपि नित्यम्‌॥

भ्रुवा जयन्ती नवमं स्वरूप-

श्रिया हसन्ती दशमाङ्करामाम्‌॥ 34॥

एकादशस्तन्यसुनाथ युक्त्या-

यत्नेन देया लघुपञ्चमाय॥

न बालपालाय नृपस्य कण्ठे

मुक्तावली भाति वनौकसो न॥ 35॥

अथ शुद्धमतिः श्रीकृष्णाच कन्यां दातुं रुक्मिनीत्या पतिं प्रति अत्फुटार्थं कथयति। भोः असुनाथ प्राणपते। इयं षष्ठी कन्या। अत्रादिद्वितीयादिशब्दैः मेषवृषादयो ज्ञेयाः पञ्चमाय हरये। यद्वा लघुषु मनोज्ञेषु पञ्चमाय सिंहाय श्रेष्ठाय। अर्थात्‌ श्रीकृष्णाय। तं विनातिरम्यस्याभावात्‌। लघु राघ्रिं देयां। बालान्‌ शिशून्‌ पालयति तस्मै शिशुपालाय न देयेति त्रयाणामन्वयः। अत्र बालपालायेति उक्तिरप्रकटत्वार्थम्‌। वनौकसः वानरस्य। कीदृशी पष्ठी। आदिगजकान्तिः। आदिना मेषेण गच्छतीत्यादिगोग्निस्ततो जातं सुवर्णं तद्वत्कान्तिर्यस्याः। द्वितीयः वृपभः यानं यस्य तस्य शम्भोरङ्गना जाया गौरी ततोपि वराः उत्तमाः गुणाः यस्याः सा। शिवयोः पार्वतीशङ्करयोः। तृतीयं मिथुनं। सञ्चिन्तयन्ती। यथा तुर्यः चतुर्थः कर्कः। अन्त्यः द्वादशः मीनः। साध्वी चासौ वारुदकं तां। प्रियतया प्रेम्णा भजते। तथा। साधूनां वारं समूहं भजते। आपः स्त्री भूम्नि वार्वारि इत्यमरः॥ 33॥

च लक्ष्म्याः। सप्तमीं तुलां व्रजन्ती गच्छन्ती। अष्टमन्ती अष्टमः वृश्चिक इवाचरन्ती। नवमं धनुः। स्वं च तद्रूपं सौन्दर्यं च तस्य श्रिया संपत्या दशमांकस्य मकराङ्कस्य रामां रतिं। इः कन्तुर्मकराङ्कः संकल्पभवोङ्गजश्च रूपास्त्र इतित्रिकाण्डशेषः॥ 34॥

एकादशः कुम्भ इव स्तनौ यस्याः सा॥ 35॥

यः पूर्वानुजगो द्वितीयकुलपः कुर्वन्तृतीयं सतां

तुर्यात्मापि च पञ्चमस्य सुतदः षष्ठं गुण रोचयन्‌॥

यद्वासेन न सप्तमोस्तिं धरणौ यो भो द्विषन्नष्टमं

गोषाणां नवमो जगत्स्वनवमो देया न तस्मै सहा 36॥

तस्मै। सहा कुमारी कन्येति यावत्‌ न देयेति काक्वा। देयैव। अदेयेति च्छेदो वा। सहा कुमारी तरणिरित्यमरः। तस्मै कस्मै। यः। अत्र पूर्वादिशब्दैः सूर्याद्या ग्राह्याः। तैः लक्षितलक्षणा कार्या। पूर्वोरुणः तस्यानुजो गरुडस्तेन गच्छति॥ अरुणो त्र्यक्तरागेर्के संध्यारागेर्कसारथौ इतिमेदिनी। द्वितीयद्विजराजश्चन्द्रस्तेन विप्रोत्तमो लक्ष्यस्तत्कुलं पातीति। एवमग्रे। तृतीयं मङ्गलं कल्याणमिति यावत्‌। तुर्यः सौम्यः सुन्दरः आत्मा कायो यस्य। पञ्चमस्य गुरोः सान्दीपनेराचार्यस्य मृतं पुत्रमानीय ददावित्यर्थः। षष्टं काव्यं यत्र काव्ये श्रीकृष्णगुणास्तदेव शोभते इत्यर्थः। भुवि यस्य वासेन सप्तमः मन्दः निर्भाग्यः नास्ति। अष्टमं तमः अज्ञानं। द्विषन्‌ मेषाणां वृष्णीनां यादवानां। वृष्णिर्ना यादवे मेषे इति मेदिनी। नवमः केतुः ध्वज इव मुख्यः। जगत्सु अनवमः श्रेष्ठश्च॥ 36॥

इत्थं सहधर्मिण्या भाषणमाकर्ण्य सद्गुणाग्रण्यः॥

कार्यस्वरूपविदुरश्च तया स्मारितनिजान्वयाचारः 37

राजा वरवर्णिन्या स्वाक्तां वरवर्णिनीभिरात्मसुताम्‌॥

कुलदेवीं द्रष्टुं प्राक्‌ परिणयतो प्रेषयत्ससोदर्याम्‌॥ 38॥

सहधर्मिणी भार्या। तस्याः। ज्ञातातुविदुरो बिन्दुरित्यमरः तया पत्न्या। अन्वयः कुलं। कीदृश्याः सहघर्मिण्याः सद्गुणासु अग्रगण्याः मुख्यायाः॥ 37॥

वरवर्णिन्या हरिद्रया। वरवर्णिनीभिरुत्तमवधूभिः। ससोदर्यां सहजयुतां॥ इति युग्मम्‌॥ 38॥

चक्रिभीतेर्जडो रुक्मी तद्रक्षार्थमसद्वृषान्‌॥

जरासन्धादिकान्योधान्योजयामास सायुधान्‌ 39

चक्री सर्पः। श्रीकृष्णश्च। तद्राक्षार्थं रुक्मिणीरक्षणाय। असतश्च ते वृषा मूषिकाश्च तान्‌। न सद्यथा स्याक्तथेति वा। असत्सु वृषान्‌ श्रेष्ठांश्च॥ 39॥

वङ्रा यादवसंहतीः किमुत ता जेतुं सहानन्तरै-

र्वङ्गाद्यांस्तृणताधरैरगमयत्सोद्धा जडो वञ्चकान्‌॥

शाल्वादीन्बलभद्रचक्रमपि चातोहो कलिङ्गादिभिः

को वा केसरिणं जिगीषुरघृणं स प्रेरयेद्वारणम्‌॥ 40॥

सः रुक्मी। याः। किमुतात्यन्तम्‌। बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे इत्यमरः॥ वङ्राः महत्यः। ताः दवानां वनाग्नीनां संहतीः समूहान्‌। जेतुं नाशयितुं। वङ्गं त्रपु आद्यं यत्र तान्‌। अनन्तरैः। न अन्तरं मध्यं। ता वर्णरूपं यत्र तैः तृणाताधरैः तृणधंरैरित्यर्थः। तृणानां धरैः पर्वतैः सह। अगमयत्प्रेषयामास। अपि च। बलाः बलिनः भद्राः करिणस्तेषां चक्रं व्रजं। कलिङ्गं’कलङ्गहे’ इति प्रसिद्धं फलं आदिर्येषु वालुकवृन्ताकादिषु तैः। मूढ एव। अघृणं निर्दयं। वस्तुतः। तताः विस्तृताः। वङ्राः महतीः यादवानां संहतीः जेतुं वङ्गदेशराजादीन्‌। वञ्चकान्‌ खलान्‌ शाल्वप्रमुखांश्च। तृणतायाः धनुषः धरैः सह अगमयत्‌। कीदृशीः यादवसंहतीः बलभद्रस्य रामस्य चक्रं सेनारूपाः। अजडः किमु अपितु जड एव॥ 40॥

गाङ्गेपबद्धं कौरव्यसैन्यव्यूहसमं ततः॥

तत्प्रमाणोत्तमस्तम्भं महाकुलकुलोपमम्‌॥ 41॥

मुक्तावलिप्रभं श्रीमत्तरुणीकुचसन्निभम्‌॥

वितानराजद्राजन्वद्देशदेश्यं शिवागृहम्‌॥ 42॥

प्रपयोधरमण्डलगं कामननायकवयस्थशयतुल्यम्‌॥

सुपदार्थं सत्काव्यप्रतिमं सा नववधूः शनैराट॥ 43॥

ततः। सा। रुक्मिणीनाम्नी नववधूः। तत्प्रसिद्धं शिवागृहमम्बिकालयं। शनैः मन्दम्‌। आट जगामेतित्रयाणामन्वयः। अटपटगतौ। कीदृशं शिवागृहम्‌। कौरव्याणां दुर्योघनादीनां सैन्ये व्यूहः बलविन्यासस्तेन समं तुल्यं। गाङ्गेयेन सुवर्णेन बद्धं। व्यूहः गाङ्गेयेन भीष्मेण बद्धः॥ महाकुलानां साधुनां कुलमुपमा यस्य तत्‌। प्रकर्षेणातिशयेन मणीनां इमे माणा उत्तमाः स्तम्भा यत्र महाकुलकुलं। प्रमाणं सत्यवादि च तत्‌। उद्गततमस्तम्भं च तमः अज्ञानं पापं वा स्तम्भः जडीभावः॥ श्रीमतः तरुण्यास्तनतुल्यं। मुक्तानां सतां मौक्तिकानां चावल्या पंक्त्या प्रकृष्टभम्‌। कुचौ तु हारप्रभौ। ईषदूनः राजन्वद्देशः राजन्वद्देशदेश्यं। सुराज्ञिदेशे राजन्वानित्यमरः। वितानेन उल्लोचेन राजच्छोभमानम्‌। सुदेशः यज्ञेन राजति। वितानं यज्ञ उल्लोच इत्यमरः। कामनानां कम्राणां नायकश्चासौ वयस्थस्तरुणश्च तस्य शयेन हस्तेन तुल्यं॥ प्रक्रर्षेण पयोघराणां मेघानां मण्डलं गच्छति तत्‌। कामुकहस्तस्तु प्रकृष्टस्तनमण्डलगः। स्त्रीस्तनाब्दौ पयोधरावित्यमरः किंच। सतः विदुषः काव्यं प्रतिमा प्रतिमानं यस्य तत्‌। शोभनाः पदार्था वस्तूनि यत्र। सत्काव्यं तु सुष्टु पदानि सुप्तिडंतानि अर्थाश्च यत्र तच्च॥ 41॥ 42॥ 43॥

गोधिरिव खञ्चनाक्ष्या दीव्यद्वरचित्रकं च तद्गुरुभिः॥

कचपक्षवत्सुधूपितमधरसमानं प्रवालकान्तिपदम्‌॥ 44॥

तत्‌ शिवागृहं। खञ्जनाक्ष्याः खञ्जरीटनयनायाः सुन्दर्याः गोधिर्ललाटमिव। दीव्यन्ति शोभमानानि वराणि चित्राण्यालेख्यानि यत्र गोधिस्तु दीव्यत्‌ वरस्य कुंकुमस्य चित्रकं तिलकः यत्र किंच। कचपक्षवत्केशकलापइवागरुभिः सुधूपितं। किंच। अधराभ्यां समानं। प्रवालैः विद्रुमैः कान्तिस्तस्याः पदं स्थानं।

अधरौ तु प्रवालमिद कान्तेः पदस्‌॥ 44॥

प्रांशु मनोरमलाङ्गलिनृत्यद्वाराङ्गनं सुचतुरं च॥

शतभूममैन्द्रनीलैष्टकचितसोपाननैकमालाकम्‌॥ 45॥

किञ्च। पांशुः उच्चो मनोरमाणां लाङ्गलिनां नृत्यन्‌ विचलन्‌ वारः समूहः यत्र तदङ्गनं यस्य। नारिकेलस्तु लाङ्गली इत्यमरः। यद्वा। प्रांशु मनोरमः लाङ्गली हलधरः यत्र नृत्यन्त्यः वाराङ्गना यत्र तच्च। किंच। शोभनाः चत्वारः वर्णा यत्र। अचतुरवचव्रुरसुचतुरेत्यजन्तत्वं निपातनात्साधु। सुष्ठुतरां चतुरा दक्षा यत्रेति वा। स्वत्यतीव च निर्भरइत्यमरः। शतमनेका भूमयः यत्र। संख्यापूर्वाया भूमेरजन्तत्वं भाष्यकारेष्ट्या। इन्द्रनीलानां इमा ऐन्द्रनील्यः ताश्च ता इष्टकाश्च ताभिश्चितानां सोपानानां नैका अनेका मालाः परंपरा यत्र। इष्टकचितेत्यत्र। इष्टकेषीकामालानां चिततूलभारिष्वितिप्हस्वः॥ 45॥

दध्यौ च प्रशिवां शिवां सहशिवां स्वान्तेन हीनाप्यसौ

दत्वा सत्कुसुमाञ्जलिं च वरपीठादीनपापापिकैः॥

?B चक्रे चार्वाभिषेचनं सुवसने तस्या अचैलाप्यदा-

त्संभूषा अधनापि गन्धरहिताप्युत्तुङ्गगाधं तथा॥ 46॥

संपीतामनिशाप्यदृष्टपिशुनाप्यत्युत्तमं कुङ्कुमं

प्राज्यं पुष्पमंपुष्पवत्यपि तथैवानात्तपत्रापि च॥

मालूरादिदलान्यथार्चितवती तां धूपदीपालिभि-

र्नैवेद्यादिभिरुत्तरैरपि ततो भक्त्या वितेने नुतिम्‌॥ 47॥

असौ रुक्मिणी। स्वान्तेन मनसा हीनापि। प्रकृष्टं शिवं कल्याणं यतस्तां सहशिवां शम्भुयुतां। शिवामम्बिकां। दध्यौ ध्यातवती। परिहारे स्वस्य धनस्य अन्तेन रहिता। अपारवित्तेत्यर्थः। आवाहनार्थं उत्तमपुष्पाञ्जलिं दत्त्वा वरं पीठमासनं। आदिना पाद्यार्ध्याचमनादि दत्वा। अपगता आपः य स्याः सा। पिकैः जलैः। परिहारे पुण्यवती॥ अचैला वस्त्ररहितापि परिहारेउत्तमा। चैलं वस्त्रेधमे त्रिषु इत्यमरः। धनं यस्याः। परिहारे अः श्रीकृष्ण एव धनं यस्यः। गन्धेकस्तूर्यादिना रहितापि। परिहारे गन्धन गर्वेण। न निशा। हरिद्रा। यत्र सापि। संपीतां। सम्यग्धरिद्रां। अदाद्ददौ। परिहारे। अनिशा। नित्या। निशा व्यापारराहित्ये वसानेपीति रामाश्रम्यां। अदृष्टं पिशुनं कुंकुमं यया। परिहारे अदृष्टा पिशुनाः खला यया। न आत्तानि गृहीतामि पत्राणि पर्णानि यया। परिहारे पत्रं वाहनं मालूरः बिल्वः। उत्तरैः उत्तमैः॥ इति युग्मम्॥ 46॥ 47॥

पाण्डिम्नाखिलभुवनं व्याप्तं यस्याः पुनाति या जगतीः॥

भागीरथीव सुमहाभङ्गा सा जयति तेम्बिके कीर्तिः॥ 48॥

यस्याः। कीर्तेः। पाण्डिम्ना शुभ्रत्वेन। अखिलं भुवनं। सर्वाणि जगन्ति। सुष्टु मह उत्सवो यया। यया कृत्वा जनानामुत्सवो भवतीत्यर्थः। अभङ्गा नाशरहिता च। भागीरथीपक्षे। भुवनं जलं। सुमहान्तः अतिविशालाः भङ्गास्तरङ्गाः यस्याः॥ 48॥

तावकनीलभुजेभ्यो राकामृतकरमरीचिवन्मातः॥

विशदाभवत्समाख्या तत्र प्राज्ञा भवन्त्यहो रक्ताः॥ 49॥

श्वेतानना नीलभुजेति सप्तशत्याम्‌। विशदा शुक्ला। समाख्या कीर्तिः। अभवत्‌॥ 49॥

हंत्री महिषादीनां शमनी त्रैलोक्यदुःखजालस्य॥

भवतीव देवि भवती भवति त्रिदशादषूपकर्त्रीच॥ 50॥

अत्रानन्वयालङ्कारः॥ 50॥

कारुण्यमिव बलं ते बलमिव कारुण्यमम्ब जगतां भोः॥

नित्यमनन्तासुरसुखवर्धनकृदलं सदासतां भयदम्‌॥ 51॥

अनन्ता पृथिवी। सुराः देवाश्च। अनन्तासुरा भूदेवाश्च तेषां सुखस्य वर्धनं वृद्धिं करोतीति। सतां साधूनां भयं द्यति खण्डयति तच्च। बलं तु। अनन्ताः निरवधयः। असुराः दैत्यास्तेषां सुखस्य वर्धनं च्छेदनं

करोति। असतां दुष्टानां भयदायि च॥ 51॥

कुर्वंस्तव वक्रतुंलां पर्वणि चन्द्रोतिकान्तितां धते॥

हे कालि चन्दयत्यपि लोकाननिशाचरान्समाननिशम्‌ 52

पर्वण्युत्सवे पूर्णिमायां च। अनिशाचरान्‌ राक्षसभिन्नान्‌॥ चोरभिन्नान्‌ च समान्सकलान्‌॥ लोकेपि। विवाहाद्युत्सवे अधना अपि ऋणादिना। शिबिकारोहणादिना श्रीमतः सादृश्यं कुर्वन्ति। अत्र प्रतीपालङ्कारः॥52॥

अकलङ्कः शरदिन्दुर्नलिनं तपनानपेक्षि साम्फुल्यम्‌॥

ईश्वरी तव प्रसन्नं वदनं न स्यात्कथं न हर्षाय॥ 53॥

तपनं सूर्यं नापेक्षते तच्छीलं साम्फुल्यं संफुलत्वं यस्य॥

कृष्णस्य तेजसोभून्नीलस्तव दोर्गणो न चित्रमिदम्‌॥

हे गौरि नीललोहिततेजस आननमभूत्सितं चित्रम्‌॥ 54॥

यदभूच्छांभव तेजस्तेनाजायत तन्मुखमित्यादि सप्तशत्वाम्‌॥ 54॥

विक्रमसूरे तावक उदिते देवारयस्तमांसि स्युः॥

जगतां भयं च कुमुंदं चेतश्चक्रः सुखं च नालीकम्‌ 55

चक्रः चक्रवाकः। नालीकं सूर्यविकासि जलजम्‌॥ 55॥

कात्यायनिसमदृष्टिस्त्वंत्तः समाहवेऽपचितिम्‌॥

वृन्दारकाः समग्रा उग्रा दितिनन्दनाश्च गच्छन्ति॥ 56॥

समः सकलश्चासावाहवः यज्ञस्तत्राऽपचितिं पूजां गच्छन्ति प्राप्नुवन्ति। दितिनन्दनाः दैत्याः। सम्यगाहवः युद्धं तत्रापचितिं क्षयं। आहवो यागयुद्धयोरिति मेदिनी॥ 56॥

चतुरास्यो विधुतनयो विष्णुरनीतिः शिवोगतनयेशः॥

लेखा अन्यायरता भो दुर्गेसि त्वमेव न गतनया॥ 57॥

चतुरास्यइति। चतुरास्यश्चतुर्मुखः। विधुतः त्यक्तः नयः नीतिर्येन। त्यक्तं हीनं विधुतं इत्यर्थः। विधोः विष्णोस्तनयश्च। अनीति। नीतिरहितः। न ईतिर्गमनं यस्य स च। तन्नैजतीतिश्रुतेः। गतः नयो येभ्यस्तेषामीशः। अगतनयानां प्रभुश्च॥ लेखाः देवाः। अः विष्णुरिव न्यायरताश्च॥ हे। दुर्गे त्वमेव गतनया नासि। नगस्य तनया च॥ 57॥

प्रियमधुरपि त्वमार्ये।़भवो निदानं मधोर्विनाशस्य॥

चित्रं समाधिपालाप्यात्मभुवोऽभूः समाधिहन्त्री च॥ 58॥

प्रियमिति। प्रियं मधु मद्यं यस्याः। मधोर्दैत्यस्य नाशस्य आदिकारणं। अभवः. समाधिनामानं वैश्यं पालयति स्म। आत्मभुवो ब्रह्मणः समः सकल आधिः मनः पीडा तस्य हन्त्री अभूः॥ 58॥

सुमनो हितं तु कर्तुं प्रादुर्भूत्वा हिमालये शैले॥

सुमनोहितं समरतं भवती नाशितवती कथं देवि॥ 59॥

सुमनेइति। सुमनसां देवानां सतां च हितम्‌। सुमनसां अहितं शत्रुं दैत्यम्‌॥ 59॥

श्रीभर्ता शुभरहितो विधिरभवोस्ति चं भवो विभद्रोम्ब॥

ऋभवोऽखिला विभविकाः क्षेमं कुरु सर्वमङ्गला त्वमतः 60

श्रीरिति। हे अम्ब। शुभेन रहितः। विधिः ब्रह्म न भवः कल्याणं यत्र। भवः शम्भुः। विगतं भद्रं कल्याणं यस्मात्‌। ऋभवः देवाः। विगतं भविकं कुशलं येभ्यस्ते वस्तुतः क्रमात्‌। आशुभरेणातिशयेन हितं यस्मात्सः। आद्विष्णोः भवः जन्म यस्य। विशिष्टः भद्रः वृषः यस्य विभवोस्ति येषां। विभवो धननिवृत्योरिति मेदिनी। अत इनिठनाविति ठन्‌ 60

कर्णस्याविभवस्योदारत्वं यद्वदन्ति तन्मिथ्या॥

श्रीवामदेवपत्न्याः सत्या तूदारता तवैवोमे॥ 61॥

कर्णेति। हे उमे अधिभवस्य निर्धनस्य। श्रीः सम्पत्तिः शोभा व्रा। वांमं घनं ताभ्यां दीव्यति तस्य पत्न्याः। वस्तुतः। अवेः सूर्याद्भवो जन्म यस्य तस्य। श्रीवामदेवस्य श्रीशम्भाः पत्न्याः। उः शिवस्तस्य दारता पत्नौत्वं च॥ 61॥

वदान्यतां तेम्ब विलोक्य विप्रैः

सवस्थितोदारबलिर्निरस्तः॥

अद्यापि तद्रीतिवशेन लोके

ग्रहाध्वरादौ स निरस्यते वै॥ 62॥

वदान्येति हे अम्ब। ते तव वदान्यतामौदार्यं। सवे यज्ञे। स्थित उदारः बलिः वैरोचनिः॥ सः बलिः॥62॥

शक्रो वैकुण्ठोर्को मन्दपिता चन्द्रमा अनुष्णश्च॥

वरुणो जडराजस्त्वं दक्षसुतार्ये कुरुष्व मे कार्यम्‌॥ 63॥

शक्रेति। हे आर्ये गिरिजे। वै पादपूरणे। कुण्ठा मन्दक्रियासु य इत्यमरः। मन्दस्य पितातिमन्द इत्यर्थः। लोकेतिमूर्खप्रति मूर्खपितेति वदन्ति। अनुष्णोलसः। दक्षाणां कुशलानां सुता स्वामिनीं। वस्तुतः। विकुण्ठाया अपत्यं। वैकुण्ठः कृष्णशक्रयोरिति मेदिनी। मन्दस्य शनेस्तातः। डलयोः रैक्याज्जलानां राजा। दंक्षस्य प्रजापतेः पुत्री च॥ 63॥

नाभिजनागानननगरिपुनक्षत्रेश्वरान्नकारमुखान्‌॥

हित्वा नन्यूनग्लौवदनां भवतीं शिवे प्रियं याचे॥ 64॥

नाभिजेति। नाभिजः ब्रह्मा। नागाननः गजवदनः। नगरिपुः शक्रः। नक्षत्रेश्वरश्चन्द्रः तान्‌। नकारः मुखे नामारम्भे च येषां तान्‌। निःसरणे वक्रे प्रारम्भोपाययोरपि इति मेदिनी। तेन नकारेण न्यूनं ग्लौश्चंद्रइव मुखंयस्याः। नन्यूनः पूर्णः ग्लौरिव वदनं यस्यास्तां च नन्यून इति न शब्देन सुप्सुपेति समासः॥ 64॥

लोकेशो विपुलर्णजातनिलयो विष्णुर्बहूद्धारको

गङ्गाया हरमस्तके पृथुतरश्चर्णस्य भारः सदा॥

देवेन्द्रोपि किलाधिभूऋणभृतां लोके त्वमेवाम्बिके

ऽपर्णा चासि महेश्वरीति भवतीं नाथामि वित्तं वरम्‌॥ 65॥

लोकेशेति। लोकेशो ब्रह्मा। विपुलस्य महतः ऋणानां जातस्य वृन्दस्य निलयः गृहं। बहुः उद्धारः ऋणं यस्य। अपगतं ऋणं यस्याः सा। वरं उत्तमं वितं धनं नाथामि याचे॥ वस्तुतः विपुलं ऋणजातं जलजं निलयो यस्य। ऋणशब्दो जलवाची कौमुद्यां हैमे च। बहूनामुद्धारकः। ऋणभृतां जलघराणां वित्तं विचारितं। वरं पतिम्‌॥ 65॥

शब्दो गुणो यस्य बभूव यस्यतो

यस्तस्य मित्रं शमयन्ति याश्व तम्‌॥

तत्रास्ति या तां तु धरन्ति ये सदा

तत्स्वामिपुत्र्या असकृन्नमोस्त मे॥ 66॥

शब्दइति। यस्याकाशस्य गुणःशब्दोस्ति तत आकाशात्‌ यः वायुः बभूव। तस्य वायोः मित्रं सखा योग्निरस्ति तमग्निं या आपः शमयन्ति तत्राप्सु या भूरस्ति तां भूमिं ये पर्वताः धरन्ति। तेषां रवामिनः हिमालयस्य पुत्र्यै वार्वत्यै मम नमोस्तु। अत्रैकावल्यलङ्कारः॥ 66॥

नुत्यानया प्रसन्ना भूत्वामुष्यै स्वकण्ठगतमालाम्‌॥

सार्या ददावथैषा प्रमदपयोधौ ममज्जार्या॥ 67॥

नुत्येति। साऽऽर्याम्बिका। एषा रुक्मिणी। आर्या साध्वी॥ अत्रार्यावृत्तसूचकेनार्याशब्दविन्यासेन मुद्रालङ्कारः 67

वीराभ्योथ ददे तदा क्षणदया युक्तं च गोकुङ्कुमं

सा सद्वस्त्रविभूषणं द्विसुमनस्तोमाग्रियं निर्भरम्‌॥

लेभे तद्बहुधा सदा तदखिलं चैतद्गुणं माधवं

पात्रे दत्तमुपैत्यनन्तफलतां सुक्षेत्र उप्तं यथा॥ 68॥

वीराम्यति। सा रुक्मिणी। वीराभ्यः पतिपुत्रवतीभ्यः वधूभ्यः। पतिपुत्रवती वीरेति रामाश्रम्याम्‌। क्षणदया हरिद्रया युक्तं। गावः कुङ्कुमं चैतेषां समाहारम्‌॥ सन्ति श्रेष्ठानि वस्त्राणि विभूषणानि र्चेतेषां समाहारं। द्वौ सुमनस्तोमौ गोधूमपुष्पसमूहावग्रियौ मुख्यौ यत्र तन्दुलादौ फलादौ च तत्‌॥ निर्भरमिति सर्वत्र। तत्ततः तत्‌ कुङ्कुमादि। बहुधा सर्वदा च लेभे। एतद्गुणं माधवं च लेभे। कीदृशं माधवम्‌। क्षणेनोत्सवेन दयया च युक्तं। गोः भूमेः कुङ्कुममिव शोभादायकं। सन्ति वस्त्रभूषणानि यस्य तं। द्वयोः सुमनस्तोमयोः। देवविद्वद्वृन्दयोः अग्रियं श्रेष्ठं। निर्भरं नितिशयं च। अत्र विकस्वरालङ्कारः 68

अधरप्रबालयोगोमाभूदात्मन इतीव सा रामा॥

मौनं मुमोच नूनं वीणासौभाग्यमाददानोक्त्या॥ 69॥

अधरेति। अधरस्य नीचस्य प्रकर्षेण बालस्य मूर्खस्य च योगः सङ्गतिः। सा रुक्मिणी। सरा श्रेष्ठा मा लक्ष्मीश्च वस्तुतः। अधरावोष्ठावेव प्रवालौ विद्रमौ तयोर्योगः॥ 69॥

प्रणम्य ताः साऽऽह च हे पतिव्रताः

समा इमा यूयमुमासमा मताः॥

द्विजेन्द्रकान्ताः शिवदास्यरुग्युताः

सुगोत्रजाताः स्थ मयि प्रसूरताः॥ 70॥

प्रणम्येति। आह जगाद। समाः सकलाः। द्विजेन्द्राणां विप्रोत्तमानां कान्ताः जायाः शिवदं सुखदं आस्यं गुखं यासां यन्मुखदर्शनेनान्दो भवतीत्यर्थः। ताश्चताः रुचा कान्त्या युताश्च। सुगोत्रे उत्तमकुले जाताः च। प्रकर्षेण सूरताः कृपालवः स्थ भवथ। उमा तु। द्विजेन्द्रेण चन्द्रेण कान्ता रम्या। द्विजेन्द्रयोः सुरथसमाधिक्षत्रविसोः कान्ताभीष्टदा वा। शिवस्य दास्यं तस्य रुग्वाञ्छा तया युक्ता। सुगोत्रादुत्तमपर्वताज्जा ता च॥ 70॥

वाण्या सूनृतयानया मधुरया क्षौमाम्बराद्यंहति

प्रष्ठैः सत्करणैश्च तद्विरचितैः सर्वाः पुरध्य्रस्तु ताः॥

अह्नायारुरुहुः सुसंमदगिरेरग्रं प्रगुप्तस्फुटी-

भूतप्रेष्ठहरीक्षणेन हि यथा गोसंख्यरामा व्रजे॥ 71॥

वाण्येति। क्षैमाम्बरादीनां दुकूलभूषादीना। अंहतिः दानं प्रेष्ठं पुरःसरं येषु तैः। तया रुक्मिण्या विरचितैः। अह्नाय शीघ्नं। आदौ प्रगुप्तः पश्चात्‌ स्फुटीभूतः। स्फूटं प्रव्यक्तमुल्बणमित्यमरः। स चासौ प्रेष्ठो हरिस्तस्येक्षणेन दर्शनेन हि अवधारणे। गोसंख्यानां गोपानां रामाः रमण्याः॥ 71॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

इर्योर्यशस्पात्रमकारि काव्यम्‌॥ 72॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणि विरचिते तृतीयः सर्गः॥ 3॥


.

चतुर्थः सर्गः

अथ ता नार्योन्योन्यं तद्गुणरूपाणि वर्णयामासुः॥

शुद्धमतेर्जातेयं ददाति सौख्यं विरक्तिरिव नृभ्यः॥ 1॥

अथेति। इयं रुक्मिणी। शुद्धमतेः भीष्मपत्न्याः सकाशात्‌। विरक्तिः वैराग्यमपि रागादिरहितबुद्धेः भवति॥1॥

स्वर्गङ्गामितकीर्तिरर्कतनयोदारा प्रसारा सर-

स्वत्याच प्रवरा समुद्रसुकरा वेण्या विराजच्छिराः॥

कृष्णान्तःकरणा सुशोणचरणाऽसौ पुष्कराग्य्रेक्षणा

चक्रे तीर्थमयी कुलं स्वममलं भोस्तुङ्गभद्रास्पदम्‌॥ 2॥

स्वर्गमिति। स्वर्गङ्गैव अमिता कीर्तिर्यस्याः सा। किंचार्कतनया यमुना तयोदारा महती। च। सरस्वत्याश्यनद्या प्रकृष्टः सारः बलं यस्याः। सरस्वत्येव बलमित्यर्थः। प्रवरा नदी। समुद्रश्च सुहस्तौ यस्याः। वेण्यया नद्या विराजत्‌ शिरो यस्याः। कृष्णानद्येवान्तःकरणं यस्याः। शोभनौ शोण नद एव चरणौ यस्याः। पुष्करतीर्थमेव अग्य्रे उत्तमे ईक्षणे नेत्रे यस्याः। तुङ्गभद्रानद्या आस्पदं च। असौ इयं। अदः परस्मिन्नत्र स्यादिति मेदिनी। इति श्लेषपक्षः। वस्तुतः। स्वर्गं नाकं गां भूमिं चेता गता कीर्तिर्यस्याः सा। अर्कतनयः कर्णइव वदान्या। सरस्वत्या वाण्या प्रसारातिश्रेष्टा। प्रकृष्टं वरं कुंङ्कुमं यस्याः। प्रकृष्टः भावी वरः पतिर्यस्या इति वा। मुद्राभिरङ्गुलीयकैः सहितौ शोभनकरौ यस्याः। वेणी प्रवेणी तया शोभमानं शिरो यस्याः। श्रीकृष्णचित्ता। सुशोणावतिरक्तौ पादौ यस्याः। पुष्करात्कमलादगन्ये नेत्रे यस्याः। तुङ्गस्य भद्रस्य क्षेमस्य स्थानं च॥ 1॥

काञ्ची कट्यां कान्तिस्तन्वां मणिकर्णिका श्रुतौ यस्याः॥

वदनेपि चन्द्रभागा सेयं जगतोपि सौति पावित्र्यम्‌॥ 3॥

काञ्चीति। काञ्ची कान्तिश्च पुण्यपुर्यौ। मणिकर्णिका काशीस्थं महातीर्थं। श्रुतौ कर्णे। चन्द्रभागा महानदीभेदः। सौति प्रसूते। करोतीत्यर्थः। वस्तुतः काञ्ची कटिभूषा। मणिकर्णिकारत्नमयकर्णभूषा। चन्द्र इव भा शोभा। अगा स्थिरा॥3॥

श्रुत्वास्या औदार्यं कर्णौ नैति च कदापि दृष्टिपथम्‌॥

वृन्दारकर्माणरनिशं कुरुते मन्दाक्षतश्च खलु चिन्ताम्‌॥4॥

चिन्तामणिरिति तेन प्रथितो लोकत्रयेति हे सत्यः॥

सुरतरवः पञ्चत्वं याता नासामितः सुरभिगन्धः॥ 5॥

इदं युग्मम्‌।

श्रुत्वेति। हे सत्यः हे सुचरित्राः। अस्या रुक्मिण्याः। उदारत्वं श्रुत्वा। कर्णः रविपुत्रः मन्दाक्षतः। लज्जायाः हेतोः दृष्टिपथं लोचनमार्गं नैति नागच्छति। वृन्दारकमणिः देवमणिः। मन्दाक्षत इति सर्वत्र॥ तेन प्रकारणेन। प्रथितः ख्यातः। सुराणां तरवः वृक्षाः पञ्चत्वं मरणं याताः गताः। अमितः परिमितः। सुरभेः कामधेनोः गन्ध गर्वः। न आस। ननाशेत्यर्थः। वस्तुतः। कर्णः श्रोत्रम्‌। अमन्दः महान्‌ चासावक्षतश्च देवमणिः चिन्तां कुरुते। चिन्तितं ददातीत्यर्थः। पञ्चत्वं पञ्चसंख्याकत्वं। यद्वा। सुरतस्य रवः पंचत्वं विस्तारं याता। गन्तेति लुटो रूपं। सुरभिर्मनोज्ञश्चासौ गन्ध आमोदश्च। नासां नासिकाम्‌ इतः प्राप्तः॥ 5॥

शंखः कण्ठेन जितश्चारु धृतो मन्दरांग ओष्ठाभ्याम्‌॥

वाण्योद्धृता रसा वैकस्कमलाभ्यां हिरण्यकशिपोस्तु॥6॥

तनुसंस्थितिश्च चक्रे बलिं बबन्ध तिधात्मनि च तुन्दम्‌॥

भूभृन्मदः कुचाभ्यां क्षयितः कर्दुरजयो रुचाऽकारि॥7॥

निर्वर्तितः क्षमाभरहारो मनसा रतिश्च धर्मादौ॥

रूपेण पतंगनिभाः शिशुपालाश्च मोहिताः पिशुनाः॥8॥

बुद्ध्या हताश्च भूपा जाल्मा अस्याः किलारवन्दाक्ष्याः॥

हरिसाम्यलिप्सयाङ्गै कृतमयि कृत्यं दशावताराणाम्‌॥9॥

इदं चतुर्णां कालापकम्‌। अयि सम्बोधने। अस्या रुक्मिण्या अङ्गै कर्तृंभिः हरिसाम्यस्य लिप्सया लब्धुमिच्छया दशावताराणां कृत्यं कृतं। किलेत्युत्प्रेक्षायां। शंखः शंखासुरः। मन्दराख्यः अगः पर्वतः। रसा भूमिः। तनोः शरीरस्य संस्थितिः नाशः। च। तुन्दं जठरं। बलिं वैरोचनिं आत्मनि देहे। भूभृतां राज्ञां मदः। उन्मदत्वं। कर्बुराणां रक्षसां जयः जयनं। रुचा कान्त्याऽकारि कृतः। क्षमायाः भूमेः। भरः भारः तस्य हारः

हरणं निर्वर्तितः कृतः। च धर्मादौ युधिष्ठिरादिषु रतिः प्रीतिः निर्वर्तिता। इति कार्यद्वयं कृष्णावतारस्य। परेषामेकमेकं। जाल्माः निहीनाः। वस्तुतः अमन्दोनल्पः रागः रक्तिमा। रसाः शृङ्गारादयः। उत्कर्षेण धृताः। हिरण्यकशिपोः सौवर्णवस्त्रस्य। कशिपुर्भक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसीत्यमरः। तनौ सम्यक्‌ स्थितिः। वलिं उदरावयवम्‌। भूभृतां पर्वतानां मदः गर्वः। कर्बुरस्य सुवर्णस्य जयः। क्षमायाः क्षान्ते भरोतिशयः तस्य हारः मुक्तावलिरिव सदा धारणम्‌। धर्मादौ पुण्यादौ। हताः। मनोहताः। मनो हतः प्रतिहतः प्रतिबद्धो हतश्च स इत्यमरः। श्रीकृष्णानयनेन रुक्मिशिशुपालादीनां मनोभङ्गः इत्यर्थः॥ 6॥ 7॥ 8॥ 9॥

अस्यालपनतुलाप्त्यौ पूर्णतमोनुद्बभूव किल दान्तः॥

अद्यापि नाप स तु तामिष्टे सिद्धे कुतो हि दान्तत्वम्‌ 10

अस्येति। लपनस्य मुखस्य तुलाप्त्यै सादृश्यमाप्तुं तमोनुत्‌ चन्द्रः। चन्द्रागन्यर्कास्तमोनुद इत्यमरः। दान्तः तपः क्लेशसहः। दकारान्तश्च॥ तां तुलाम्‌॥10॥

मात्रालंकृतमस्याः सच्छ्रोत्राधिष्ठितं सुनेत्राढ्यम्‌॥

वरवक्राश्रितमङ्गं यदुभूपतिसभमिवोरुभं भाति॥ 11॥

मात्रेति। मात्रया कर्णभूषया। मात्रा कर्णविभूषायां वित्ते माने परिच्छदे इति मेदिनी। जनन्या वालंकृतं। सती शस्ते श्रोत्रे ताभ्यामधिष्ठितम्‌। सुनेत्राभ्यामाढ्यं सम्पन्नं। वरेण वक्रेणाश्रितं। ऊरुभ्यां भाति तच्चांगं गात्रं। यदुभूपतिसभन्तु। माता प्रमाता। तेनालंकृतं। अत्र मात्रेत्यादीनि तृतीयान्तानि भिन्नानि पदानि। उत्तमाः श्रोता वक्ता नेता च तैर्युक्तं। उर्वी महती भा कान्तिर्यस्य तत्‌। यदुभूपतिसभमिति सभा राजामनुष्यपूर्वेति क्लीबत्वम्‌॥11॥

नासास्याः कनककलिः काञ्चनकुम्मौ कुचौ यशश्चन्द्रः॥

अस्ति सुवर्णं करणं सख्योन्वर्थं हि रुक्मिणीनाम॥ 12॥

नासेति। चन्द्रः स्वर्णं। करणं शरीरं। वस्तुतः। हे सख्यः। कनकस्य चाम्पेयस्य कलिरिव। सुवर्णं शोभनरूपं। यद्वा करणं कृतिः सुवर्ममिवोत्तमम्‌॥ 12॥

इयमपैरा सावित्री त्वपङ्कजातोद्भवक्षेत्रम्‌॥

चाकाण्डजननवासा श्रीरविरूपाक्षसंश्रया गौरी 13

इत्यमिति। पङ्कानां पापानां जातस्य जातेः वृन्दस्य वोद्भवस्तस्य क्षेत्रं केदारं। न। सावित्री तु तथा। वस्तुतः। कमलोद्भवस्य पत्नी। न च। परं। इयं। श्रीः। कीदृशी काण्डे धमे जनने कुले वासो यस्याः सा। न। श्रीस्तु तथा। वस्तुतः। जलजन्मनिवासा न च। इयं गौरी। परन्तु। विरुद्धरूपाणि अक्षाणि इन्द्रियाणि संश्रयते न। गौरी तु तथा। वस्तुतः। शङ्कराश्रया न॥ 13॥

साक्षाद्दमयन्तीयं पुण्यश्लोको नलो यया व्रियते॥

साध्वी तथानसूयात्रिलोकमनसे महामुदं राति॥ 14॥

साक्षादिति। इयं साक्षादृमयन्ती। रलयोरैक्यान्नरः श्रीकृष्णः। अनसूयापक्षे। अत्रिजनस्य अत्रेः लोकानां भ्रात्रादीनां वा मनसे॥ 14॥

विकचीकृतकुमुदालिस्तारावलिभिर्विराजमानायाः॥

विधुरस्याः क्षणदाया इव खलु भर्ता भविष्यति क्षिप्रम्‌ 15

विकचीति। ताराणां मुक्तानमावलिभिः हारैः विराजमानांयाः अस्याः रुक्मिण्याः विकचीकृता प्रफुल्लीकृता। कोः भमेः मुदामानन्दानां आलिः परंपरा येन सः। विधुः श्रीकृष्णः। क्षणदायाः निशायाः विधुश्चन्द्र इव॥ कीदृशश्चन्द्रः विकचीकृता फुल्लीकृता। कुमुदानां पङ्क्तिर्येन सः॥ 15॥

सैकद्विजोनेकपराजवक्त्रः श्रीमान्प्रियानन्त उदारभावः॥

प्रद्युम्ननामा बहुदानंशाली हेरम्बतुल्यो भविता च पुत्रः 16

चकारादस्याः। हेरम्बतुल्यः पुत्रः भविष्यति। कीदृशः एकै मुख्यैः द्विजैः विप्रक्षत्रविङ्भिः सहितः। अनेकान्पाति स चासौ राजवक्रः राजा चन्द्रः। प्रियोनन्तः श्रीकृष्णः यस्य सः। उदारः सरलः बहुप्रदो वा भावः

स्वभावः यस्य। हेरम्बस्त्वेकेन द्विजेन दन्तेन सहितः। अनेकपानां गजानां राजेव मुखं यस्य। उः शम्भु। तस्य दाराः जाया तेभ्यः भावः जन्म यस्य। बहुभिः दानैः मदैः शालते तच्छीलश्च 16

तर्तोनन्तप्रीतीः कमलभवदृष्टीः शिवकृती-

लसौ भक्त्या वृद्धश्रवउरुरुचश्चन्द्रवदनाः॥

शुचिप्रज्ञा विज्ञा अरुणरदवस्त्राः फणिपति-

प्रवेणीस्ता रत्नाकरधरतनूश्चानमदिति॥ 17॥

ततः। वर्णनानन्तरं। असौ रुक्मिणी। ताः विप्रजायाः इति हेतोरनमत्प्रणमति रम। नमनहेतुं देवभयाङ्गत्वं दर्शयति। तत्रानन्तः विष्णुः। कमलभवः ब्रह्मा। शुचिरग्निः प्रज्ञा बुद्धिः यासां। अरुणः रविः। फणिपतिः शेषः। रत्नाकराः धराः हिमागाद्याश्च तनवः यासां इति। वस्तुतः। अनन्ता प्रीतिरानन्दः याभ्यः। ताः। कमलभवं जलजमिव नेत्रं यासां। शिवा कल्याणकारिणी कृतिः करणं यासां। वृद्धं प्रौढं श्रवः यशो यासां ताश्च ता उरुकान्तयश्च ताः। शुचिः शुद्धा प्रज्ञा यासां अरुणे आरक्ते रदवस्त्रे ओष्ठौ यासां रत्नानामाकरस्य वृन्दस्य धराः धात्र्यः तनवः यासां च॥ 17॥

ताभिरहीनवधूभिः स्वाशिष उर्व्यः प्रयोजितास्तस्याम्‌॥

समजनि तेनारिधरेशानान्निधनं बताञ्जसाथालम्‌॥ 18॥

अथ नमस्कारानन्तरं। अहीनानां सर्पस्वामिनां वधूभिः। महाभुजङ्गीभिः। उर्व्यः महत्यः स्वाशिषो निजदंष्ट्राः प्रयोजितास्तेनाशीर्योजनेन बतेत्याश्चर्ये अरिधरेशाः शत्रुभूपास्तेषां निधनं नाशः। अञ्जसा शीघ्रं समजनि जातं। इति श्लेषोत्रासङ्गत्यलङ्कारः। वस्तुतः। न हीना गर्ह्याः श्रेष्ठास्ताभिः। सुष्टु आशिषो हिताशंसाः। अरिणश्चक्रस्य धरश्चासावीशानः प्रभुः श्रीकृष्णस्तस्मान्निधनं कुलं अलं जातं। आशीर्भिः कृष्णप्राप्तिः सन्ततिश्च जातेति भावः॥ 18॥

मायात्यागमृते कृष्णप्राप्तिनैव हि जायते॥

अथोमाया गृहान्ननं निर्गता सा वघुर्द्रुतम्‌॥ 19॥

ऋते विना। अतो हेतोः। मायागृहादुमाया गुहाच्च॥19॥

नारायणविवाहाय साक्षान्नारायणी ननु॥

प्रासादान्निर्जगामेति रुक्मिणी सा व्यदृश्यत॥20॥

नारायणेति॥ 20॥

तस्यास्तन्व्या अलिके तिलकं पश्यद्भिरालुलोके वै॥

लोकैः स्नाभिजातः कृष्णः सुमनोहरस्तथा भास्वान्‌॥ 21 ॥

अलिके भाले। नाभिजातेन ब्रह्मणा सहितः। कृष्णः विष्णुः। सुमनोभिः देवैः सहितः हरः शम्भुः। मध्यमपदलोपी समासः। भास्वान्‌ रविश्च आलुलोके दृष्टः। वस्तुतः। नाभे कस्तूर्याः जातः। कृष्णोऽसितः। सुमनोहरोतिरम्यः। भास्वान्कान्तिमान्‌ सः तिलकः। अत्र विशेषालङ्कारः। किञ्चदारम्भतोशक्यवस्त्वन्तरकृतिश्च स इत्युक्तलक्षणः॥ 21॥

चापभ्रुवं वज्ररदां घनालकां

सचन्द्रहासां शतपत्रलोचनाम्‌॥

अस्त्र्योघमुख्यामवलोक्य चाथ तां

भटा अभूवन्‌ गलितायुधा हि ते॥ 22॥

घना मुद्गरा एवालकाः केशा यस्यास्तां। चन्द्रहासेन खङ्गेन साहितां। शतानि अनेकानि पत्राणि बाणा एवलोचने यस्याः। पत्रं पक्षिणि बाणेचिति मेदिनी। अस्त्रिणां शस्त्रभृतामोधेषु वृन्देषु मुखयां॥ वस्तुतः। वज्रा हीराका इव रदा दन्ताः यस्याः। घना इव निबिडा वा केशा यस्याः। चन्द्र इव शुभ्रेण हासेन युतां। शतपत्रं कमलमिव नेत्रे यस्याः। अस्य श्रीकृष्णस्य स्त्रीणामोघे मुख्यामवलोक्य च दृष्ट्वैव॥ 22॥

वाञ्छन्ति चेमे मम मातरं सती-

मित्येव किं पञ्चशरेण सक्रुधा॥

विद्धाः कलंबैरविलम्बितं निजै-

र्योधा मुमूर्च्छुः सकलास्तदैव ते॥ 23॥

सक्रुधा क्रोधयुक्तेन। कलम्बैः बाणैः॥ 23॥

यस्याः कुचौ पृथुलपुष्कलकोशयुग्मं

भूषाकुलं कनकजं विषजातमास्यम्‌॥

गन्धोत्तमा तनुरथो विजयाकृतिः सा

पीता दृशापि सुतरां किमु मोहयेन्न॥ 24॥

कोशः जातीफलं। कनकजं धत्तूरजं। गन्धोत्तमा मदिरा। विषाणां ‘बचानागे’त्यादिप्रसिद्धानां जातं वृन्दं। विजया भृङ्गी। आकृतिराकारः दृशा ज्ञात्रापि॥ वस्तुतः। रलयोरैक्यात्पुष्करस्यपद्मस्यकोशौकुङ्मलाविव। विषाज्जलाज्जातङ्कमलं। गन्धेनामोदेनोत्तमा। कृतिः करणं। विशिष्टः जयं उत्कर्षः यस्याः। दृशा पीता सादरं दृष्टासती॥ 24॥

हरिप्रिया सा ललना हरिश्रवा

हरीन्द्रमध्या हरिवेण्यलंकृता॥

हरीन्द्रनासेति च वीरकुञ्जरां-

स्तान्दृष्टमात्राधिधरं न्यपातयत्‌॥ 25॥

अत्र श्लेषपक्षे सर्वत्र हरिः सिंहः कुञ्जरान्‌ गजान्‌। श्रवः श्रोत्रं। वस्तुतः। क्रमेण हरिश्ब्दैः कृष्णः चन्द्रः

सिंहः सर्पः शुकश्च ज्ञेयाः। श्रवः यशः। वीरेषु कुञ्जरान्‌ श्रेष्ठान्‌। धरायां भूमावित्यधिधरम्‌॥ 25॥

वैरस्य पातादनु कृष्णदर्शनं

तस्या अथो चक्रिनरेन्द्रजातयोः॥

योगान्मिथो मुद्विधुना च पद्मिनी

सोरीकृतासीदिति विस्मयत्रयम्‌॥ 26॥

विरसस्य विगतरागस्य भावः वैरस्यं। वैराग्यं गुणे रागे द्रवे रस इत्यमरः। तस्य पातान्नाशात्कृष्णदर्शनमित्येकः॥ अथो चक्रिणः सर्पस्य नरेन्द्राणां व्यालग्राहिणां जातस्य गणस्य योगात्सङ्गान्मिथः परस्परं मुदानन्दः आसीदिति द्वितीयः। विधुना चन्द्रेण सार्काविकाशित्वेन प्रसिद्धा पद्मिनी ऊरीकृता विस्तृता। फुल्लीकृतेत्यर्थः। इति तृतीयः। वस्तुतः वीराणां समूहस्तस्य वैरस्येति षष्ठ्यन्तं। पतनादनु पश्चात्‌। चक्री श्रीकृष्णः नरेन्द्रजाता नृपजा रुक्मिणी तयोः विधुना कृष्णेन। पद्मिनी वधूत्तमा ऊरीकृताङ्गीकृता॥ 26॥

उच्चालयित्वा स्वरथोपरिष्टा-

न्निवेशितायाः क्षितिभृत्सुतायाः॥

नित्यं सुरक्तोप्यधरप्रवालो

गुणेन कृष्णेन बभूव पीतः॥ 27॥

परिहारे। अगुणेन निर्गुणेन। गुणानां रूपशौर्यादीनामिनः प्रभुः स चासौ कृष्णस्तेनेति वा पीतः प्राशितः॥27॥

पाण्योः पद्मं च शंखं वहति शुभगुणे खर्ततां नीलकान्तिं

धाम्न्यास्ये कुन्ददन्तान्‌ श्रवसि मकरवत्कुण्डले यो महांतम्‌॥

पद्मं नाभौ मुकुन्दः स्वयमभवदथो कच्छपो मन्थनेब्धेः

सोयं कृष्णो वृतोतो निधिनवकमपि प्राप्तमद्धा तयैव॥ 28॥

सर्वतां खर्वनिधित्वं। नीलनिधिरूपां कान्तिं। धाम्नि देहे। आस्ये मुखे कुन्दनिधिरूपान्दंतान्‌। श्रवसि

कर्णे मकरनिधिमती कुण्डले। कहान्तं पद्मनिर्धि। च वहति। स्वयं मुकुन्दनिघिः। अब्धेः मन्थने कच्छपनिधिरभूत्‌॥ महापद्मश्च पद्मश्च शंखो मकरकच्छपौ॥ मुकुन्दकुन्दनीलाश्च खर्वश्च निधियो न वेति। वस्तुतः शुभगुणेषु अखर्वतां। महत्वम्‌॥ महान्तं पद्मं। इत्यत्र वा पुंसि पद्मं नलिनमित्यमरात्पुंस्त्वं॥ शेषं स्पष्टम्‌॥ 28॥

ब्रह्माण्‍डागणनीयकोटिभिरहो मध्येपिचण्डं सुखं

यस्योषे वरधाम धाम च हरेस्तद्धाम लाभात्पुरा॥

तस्थौ यत्र तु तत्र भीष्मनृपतेः पुत्र्याः प्रशस्ते हृदि

स्वीयानन्ददकृष्णलाभजनुषो नैव प्रमोदा ममुः॥ 29॥

ब्रह्माण्डानामगणनीयाः गणयितुमशक्याः कोटयस्ताभिः। यस्य धाम्नः। पिचण्डस्योदरस्य मध्ये इति मध्येपिचण्डमित्यव्ययीभावः। सुरवमसङ्कोचेन ऊषे वासः कृतः। तत्तादृशे हरेः धाम वपुः। हरेः लाभात्पूर्वं। यत्र हृदि तस्थौ। कीदृशं धाम। वरस्य धाम्नः प्रभावस्य तेजसश्च धाम गृहं। धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोरिति विश्वः॥ 29॥

विद्युन्माला त्वेकीभूता लोके निन्द्यं चापल्यं तत्‌॥

स्तैः पृष्टा जगदुः स्म यूयमवितुं प्राप्ताः परान्पृच्छथ॥

नो नेत्राण्यथवा दिवा समुचिता कृष्णद्विषामन्धता

निन्ये सा हरिणैव जम्बुकचयान्नूनं स्वकीयो बलिः 31

स्मेत्याश्चर्ये॥ कृष्णस्य काकस्य द्विषामुलूकानां॥ श्रीकृष्णरिपूणां च। हरिणा श्रीकृष्णेनैव सिंहेन च। जम्बुकः फेरवे नीचे इति मेदिनी॥ 31॥

जलभृन्नीलश्चपलाचैलो व्यालान्तकध्वजः श्रीलः॥

वनमाली यदुपालः खलु खलकालोऽहरन्नृपतिबालां 32

चपलाचैलः विद्युद्वसनः। खलानां कालोन्तकः॥ 32॥

श्रुत्वेत्थं क्षितिभृद्वृषाः प्रकृपिताः कृष्णादहो चक्रिणो

हार्या सा रमणीत्युरूद्यमकृतः शस्त्रास्त्रणो दुद्रुवुः॥

शौरे दस्युप तिष्ठ तिष्ट पटसि क्वाद्धा मुषित्वा वधुं

चेत्ते जीवितुकामता नृपसुतां मुञ्चैवमाहुस्तदा॥33॥

क्षिति भृत्सु भूपेषु वृषाः श्रेष्ठाः। क्षिर्ति क्षयं बिभ्रति धारयन्ति ते आसन्ननाशा इत्यर्थः। ते च ते वृषा उन्दुरवश्च। चक्रिणः सुदर्शनभृतः श्रीकृष्णात्‌। कृष्णात्‌ कालात्‌। चक्रिणः सर्पाश्च। सा रुक्मिणी नाम्नी रमणी। सारा श्रेष्टा चासौ मणी च। हे दस्युप चोरपते। वस्तुतः हे अदस्युप। पटसि गच्छसि। अटपटगतौ। अद्धा साक्षात्‌। वस्तुतः अमुषित्वा॥ 33॥

विमतप्रामविहारी पृथुपत्री भूरिशृङ्गधारी च॥

गिरिरिव हंरेरनीको रिपुसेनोपरि पपात स क्षिप्रम्‌ 34

विमतानां द्विषां प्राणान्विशेषेण हर्तुं शीलं यस्य। पृथुपत्री महाबाणः भूरिणा श्रीकृष्णेन शृङ्गं प्राधान्यं धर्तुं शीलं यस्य। भूरिर्ना वासुदेवे चेति मेदिनी। शृङ्गं प्राधान्यसान्वोश्चेत्यमरः। सः प्रसिद्धः। अनीकोस्त्री रणे सैन्ये इति मदिनी। गिरिस्तु। वीनां पक्षिणां मतः सम्मतः। प्राणस्य वायोः विहारः सञ्चारोस्त्यस्मिन्‌। स चासौ स च। प्राणो हृन्मारुते बोले काव्यजीवे।निले बले इति मेदिनी। पृथवः पत्रिणः वृक्षा यत्र बहुशिखरधारी च॥34॥

भूदारसिंहरामा हरिणाग्र्याः कृष्णसारनाममुखाः॥

खरशल्यभल्लखङ्गै रुरुशरभावञ्चकायुताश्चक्रैः॥35॥

विश्वाभया अशोका भ्रमरहिता मौलिभिस्तथाजगरैः॥

भद्रश्रियमारुढाः पुरुषा भान्ति स्म यत्र कुण्डलिनः॥36॥

युग्ममिदम्‌॥ यत्रानीके पुरुषा भान्ति स्म। कीदृशाः विश्वस्मिन्‌ सर्वत्र अमयाः। निःशोकाः। भ्रमेम रहिताः मौलिभिः किरीटैः तथा। जगरैः कवचैः। भद्रामुत्तमां श्रियं शोभामारूढाः कुण्डलवन्तः। कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते इति हैमः॥ भूः दाराः जाया येषां तेषु मूपेषु सिंहाः श्रेष्ठाः। तद्वद्रामाः सुन्दराः। हरिणा श्रीकृष्णेन। अग्र्याः यद्वा हरिणेति जात्यैकवचनं। उपलक्षणं च। हरिमिरश्वैः मुख्याः उत्तमवाहना इत्यर्थः। कृष्ण इति सारं श्रेष्ठं नाम मुखे येषां। अनेनावश्यं जयो द्योतितः। खरैस्तीक्ष्णैः शल्यादिशस्त्रैः युताः। उर्वी शराणां भा कान्तिर्येषां। ते च तेऽवञ्चकाश्च। चक्रशस्त्रैः युक्ताश्च। गिरिपक्षे। विश्वाः इतिविषाश्च अभया हरीतक्यश्च। भ्रमराणां हिता अशोकवृक्षाः। मौलिभिः कङ्केलिद्रुमैः यताः भान्ति। मौलिः किरीटे धम्मिल्ले चूडाकङ्केलिमूर्धसु इतिमेदिनी। तथाऽजगरैः सर्पैः युताः पुरुषाः पुनागवृक्षा भान्ति। च भद्रश्रियमारूढाः। भद्रश्रीश्चन्दनोस्त्रियामित्यमरः। कुण्डलिनः सर्पा भान्ति च। भूदाराः वराहाः सिंहाः रामा मृगभेदा। अत्र सिंहरामयोर्द्वन्द्वं कृत्वा पुनर्भूदारशब्देन द्वन्द्वः कार्यः। हरिणेष्वग्र्याः। कृष्णसारमृगः मुखं प्रमुखः येषु ते खरादिभिर्युताः भान्ति। खरा गर्दभाः। शल्याः ‘साया?Rलेति’?R प्रसिद्धाः। भल्लाः ‘?Rअस्वलेति’?R भाषायां खङ्गः ‘?Rगेण्डा’?R इतिभाषायां। रुरवः शरभाश्च मृगभेदाः। चक्रवाकैः। चक्राद्यैर्युतत्वं वृक्षाणां। स्म पादपूरणे॥ 35॥ 36॥

गोभृद्भिस्तरसाहितैश्च विधुतैः काण्डैरहार्यं बलं

स्वच्छन्नं सुदती निरीक्ष्य सभया पश्यत्प्रियास्यं ततः॥

मा भैस्ते यदवः सपत्नरमणीवेणीदिवाकीर्तयः

संप्रत्येव सुलोचने खलु भविष्यन्तीति वक्ति स्म सः 37

शोभनाः दन्ताः यस्याः सा सुदती रुक्मिणी गोः बाणान्बिभ्रति तैः। अहितैस्तरसा बलेन विधुतैः त्यक्तैः काण्डैः वाणैः छन्नमाच्छादितं। अहार्यं हर्तुमयोग्यं बलं सैन्यं। दृष्ट्वा यथा आ सर्वतः हितैः। गोभृद्भिः जलधरैः। तरसा वेगेन त्यक्तैः काण्डैः जलैः छन्नं। अहार्यं पर्वतं तथा। प्रियस्य हरेः मुखम्‌। ततो दर्शनानन्तरं। क्षुरिमुण्डिदिवाकीर्तिनापितान्तावसायिनः॥ 37॥

तावद्रामगद्राद्यैरुत्तस्थे यदुवरैः किलोदारैः॥

दातुं क्षयाननेकान्प्रत्यर्थिभ्यो गृहेच्छु मित्रेभ्यः॥ 38॥

उदारैः महाद्भिः। गृहेच्छु दारेच्छु शिशुपालाख्यं मित्रं येषां तेभ्यो प्रत्यर्यिभ्यः शत्रुभ्यः। क्षयान्नाशान्‌। क्षयस्यानेकत्वं गजाश्ववीरादिनाशैः। अथ चोदारैः दातृभि। सदनेच्छवश्च ते मित्राः रवितुल्याश्च तेभ्यः। अर्थिभ्यः याचकेभ्यः। क्षयानालयान्प्रत। दातुं उत्तस्थे। निलयापचयौ क्षयावित्यमरः। चतुष्पादं गृहं कन्यां दासीं च्छत्रं रथं तरुं॥ तिष्ठन्नेतान्द्विजो दद्याद्भूम्यादीनुपविश्य च इति स्मृतेः॥ 38॥

मुसली रिपुसेना नीवाराणां कण्डनं नु मुसलेन॥

व्यतनोत्सदोकसि श्रीरुक्मिण्याः स्थापनाय चर्वर्थं 39

रिपुसेना एव नीवारास्तृणधान्यानि तेषां सत्प्रशस्तमोको मन्दिरं तत्र सतामोकसि आश्रये श्रीकृष्णे च। ओकः सद्माश्रयश्चौका इत्यमरः। देवतास्थापनाय नीवारचरुर्मयूखे उक्तः। नु उत्प्रेक्षायाम्‌॥ 39॥

भोजा वामार्थिभ्यो मित्रेभ्यो धनमर्दुर्नियुतमेतत्‌॥

स्थानेद्भुतं तु चक्रुर्हरिमण्डलभेदिनो द्विषन्नागान्‌॥40॥

भोजाः दातारः भोजशब्दः दातृवाची शतश्लोक्यां। वामं धनमर्थयन्ते तच्छीलास्तेभ्यः सखिभ्यः नियुतं लक्षं धनं ददुः एतद्युक्तं। युक्ते द्वे सांप्रतं स्थाने इत्यमरः। वामं धने पुंसि हरे इत्यादि मेदिनी। अद्भुतमाश्चर्यं तु द्विषतः नागान्‌ गजान्‌ हरिमण्डलभेदिनः सिंहसमूहभिदः चक्रुः। वस्तुतः। भोजाः यदुभेदाः। वामार्थिभ्यः रुक्मिणीच्छुभ्यः। वामा स्त्री। निवर्णेन युतं धनं निघनम्मरणं द्विषत्सु नागान्‌ गजान्‌ श्रेष्टान्‌। हरेः रवेः मण्डलं भिदन्त्येवं शीलान्‌॥ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ॥ परिव्राड्योगयुक्तश्चरणे चाभिमुखो हत इति स्मृतेः॥ 40॥

यदुमुक्तैरतनुशरैः स्वीकृतसुरते महारथव्राते॥

चित्रं गलितं वीर्यं भिन्नानां मागधादिवीराणाम्‌॥ 41॥

अतनोरनङ्गस्य शरैः भिन्नानामन्येषाम्‌। वस्तुतो तनुशरैरनल्पबाणैः। स्वीकृतदेवत्वे। वीर्यं बलं। भिन्नानां दारितानाम्‌॥ 41॥

बाढं गदोतिव्यथयन्जरासुत-

मन्वर्थतामाचरति स्म संगरे॥

अक्रूर आद्यं च निजाभिधाक्षरं

तत्र त्यजन्नेव बभूव वैरिणाम्‌॥ 42॥

गदः श्रीकृष्णभ्राता रोगश्च। जरासुतं जरासन्धम्‌। वाढमत्यन्तम्‌॥ 42॥

शौरेर्भविष्यन्ति परः शतानि पत्नी शतानि प्रसवेषु तेषां॥

अस्योपयोगोस्ति महानितीव प्राणौघमारं यदवो हरन्वै 43

परः शताद्यास्ते येषां। परा संख्या शतादिकात्‌ इत्यमरः। एकषष्ट्यधिकशतसंख्याकानीत्यर्थः। बोलगन्धरसप्राणा इत्यमरः। अरीणामयमारस्तम्‌॥ 43॥

अहो मुक्ता दशार्हाद्यैर्महाजिह्मगसंहतिः॥

चकार परवाजीन्द्रखण्डनं तिलशो ध्रुवम्‌॥ 44॥

मधुभोजदशार्हार्हकुकुरान्धकवृष्णय इति यदुभेदाः॥ दशार्हेषु आद्या मुख्यास्तैः। महतां जिह्मगानां सर्पाणां संहतिः। परेषां द्विषतां वाजीन्द्राणां गरुडानां। वाजिनोश्वेषु पक्षिण इत्यमरः। वस्तुतः। अजिह्मगानां बाणानां समूहः परेषां शत्रूणां वाजीन्द्रा अश्वश्रेष्ठास्तेषां खण्डनम्‌॥ 44॥

वर्षायिता सा पृतनाद्वयी तता

गजाभ्रमाला शरवृष्टिराजिता॥

कीलालपूरामिषकर्दमान्विता

चलत्कृपणालिशतप्हदाता॥ 45॥

श्वेडागर्जितमहती करिमौक्तिककरकसङ्घपातवती॥

छादितविरोचनाद्या रोपाब्दैः प्रमददा हि शत्रूणाम्‌॥46॥

तता विस्तृता। पृतनयोः सेनयोः द्वयी। वर्षाः प्रावृडिवाचरिता। कीदृशी गजा एव अभ्राणि मेघास्तेषां मालाः पङ्‌क्तयः ताभिः शराणां बाणानां जलानां च वृष्टिभिश्च राजिता। कीलालानां च पूरेम। आमिषाणि मांसान्येव कर्दमास्तैश्चान्विता च लन्ति कृपाणानां खङ्गनामालयः पङ्क्तय एव शतप्हदाः तडिंतस्तासां शतानि यत्र। क्ष्वेडाः सिंहनादा एव गर्जितानि तैर्महती। करिणां मौक्तिकानि शिरसः कण्ठमालातश्च च्युतानि तान्येव करका मेघोपलास्तेषां संघस्य पातः पतनमस्त्यस्यां॥ द्वयोर्मेघोपले नस्त्री करकश्च कमण्डलाविति मेदिनी। रोपा बाणाएवाब्दा मेघास्तैश्छादिता विरोचनाद्या यया विरोचनौ चन्द्रार्कौ। आद्यपदेन शक्रधनुः। वर्षापक्षे नक्षत्राणि च। रिपूणां। प्रमददां प्रकर्षेण मदं गर्वं द्यतिं खण्डयति अहिशत्रूणां मयूराणां प्रमदमानन्दं ददति। नवाम्बुमत्ता शिखिनो नदन्ति मेघागमे इति घटखर्परकाव्ये॥ अहिद्विड्‌ गरुडे शक्रे मयूरे नकुलेपि च इतिमेदिनी। इति युग्मम्‌॥ 45॥ 46॥

वृष्णिप्रवीरविधुता पृथुकाशुगाली

सद्यश्चखाद पृथुचक्रिचयाननेकान्‌॥

किंचान्धकाः प्रबलखङ्गिशतानि शल्याः

स्यादेवमेव गतिरीशपराङ्मुखानाम्‌॥ 47॥

पृथुकाः शिशवोल्पा इत्यर्थः। ते च ते आशुगा वातास्तेषामाली पङ्क्तिः। चक्रिणः सर्पाः। अन्धकाः नेत्रहीनाः। शल्याः श्वाविदः। खङ्गिनः गण्डकमृगाः। अथ वस्तुतः। अपृथुका महती आशुगानां बाणानामाली। चक्रिणां रथानां च यान्‌ व्रजान्‌ अन्धकानां यदुभेदानामिमे आन्धकाः शल्याः शङ्कुशस्त्राणि प्रकृष्टबलानां खङ्गिनामसिमतां शतानि॥ 47॥

तद्वद्यदुमल्लानां भल्लानां कुलमभक्षयत्क्षिप्रम्‌॥

लक्षाश्च विपक्षाणां हरिकुञ्जरकुञ्जरादीनाम्‌॥ 48॥

यदुषु मल्लानां बलीयसां भल्ला ऋक्षास्तेषां कुलं कर्तृ। हरयः सिंहाः कुञ्जरा गजाश्च तेषु कुञ्जराः श्रेष्ठास्तदादीनां लक्षाः। लक्षा नपुंसि संख्यायाभिति मेदिनी। वस्तुतः। हरयोश्वाः। भल्लाः शस्त्रविशेषाः॥48॥

श्रीदामोदरकिंकरैः सुकुकुरैः सम्प्रेरितः सङ्गरे

क्षुद्रो मार्गणसञ्चयः खलु ददे स्वन्तं नितान्तं स्वकम्‌॥

शम्प्रत्यार्थे कुलाय दुष्टधिषणां सङ्गात्सतां मानुषः

सद्योपोह्य दधाति साधुगुणतामित्थं वचोभृदृतम्‌॥ 49॥

क्षुद्रः कृपणः॥ मार्गणानां याचकानां सञ्चयः समूहः। शम्प्रति कल्याणार्थं शं कल्याणे सुखेपिचेति मेदिनी। स्वकं निजं। नितान्तमतिशयितं। स्वं धनं। ददे। तत्‌ तस्मात्‌ कारणात्‌। तन्नितान्तमित्यत्र व्यञ्जनतकारस्य परसवर्णो नकारः। वस्तुतः। सन्‌ शस्तः तीक्ष्ण इत्यर्थः। अक्षुद्रः। अनल्पः। क्षुद्रः स्याद धमक्रूरकृपणाल्पेषु वाच्यवदिति मेदिनी। सुकुकुरै शोभनैः यदुभेदैः शं सुखं यथास्यातथा। प्रेरितः मुक्तः। मार्गणानां बाणानां संचयः। अस्वन्तं असूनां प्राणानामन्तं नाशं प्रति कीदृशं सुतरां अतिशयितं अकं दुःखं यत्र। स्वत्यतीव च निर्भर इत्यमरः॥ अत्र अस्वन्तं नितात’मित्यत्र अनुस्वारस्य परसवर्णो नकारः॥49॥

योधेभाद्यगतो दुरन्तसरितो रक्तार्णसो जज्ञिरे

वाहग्राहयुताश्च रत्नसिकताः प्रेतद्विपद्वीपिताः॥

सोल्लोला वरचर्मकूर्मपटला बालावलीशैवला

भल्लव्यालकुला वराङ्गकमला हस्तांघ्रिमीनाकुलाः॥ 50॥

योधा इभाश्चादयः येषु त एवागाः पर्वतास्तेभ्यः। दुरन्ताः असंख्याः सरितः नद्यः। जाताः कीदृश्यः। रक्तमेव अर्णः जलं यत्र॥ वाहा अश्वा एव ग्राहास्तैर्युक्ताः। प्रेतद्विपैः मृतगजैः। द्वीपिताः सञ्जातद्वीपाः। उल्लोलैः महातरङ्गै सहिताः। वराणि चर्माणि फलकान्येव कूर्माणां पटलानि समूहा यत्र। बालानां केशानां पङ्क्तय एव शैवाला यत्र। भल्ला एव सपकुलानि यत्रं वराङ्गाणि मस्तकानि पद्मानि यत्र ताश्च॥ 50॥

गोवीथ्या चार्हाद्या अभिघातिव्याघ्रसंचयानाजौ॥

धीरा अमारयन्नरमघटितघटनाक्षमा हि हरिदासाः 51

अर्हाः यदुभेदाः। गवां धेनुनां वीथ्या पंक्त्या। अभिघातिनः शार्दूलगणानमारयन्‌। अरं शीघ्रं॥ हे धीराः। हि अतः कारणात्‌। वस्तुतः। गवां बाणानां वीथ्या। अभिघातिषु रिपुषु व्याघ्राः श्रेष्ठास्तेषां गणान्‌। समेक्ष्मांशे रणेप्याजिरित्यमरः। क्षमाः शक्ताः॥ 51॥

समपद्मिन्यूनैवाहितवाहिन्यथ शिलीमुखैः सृष्टैः॥

अपि मधुपरैः कृतान्त श्रीशस्प रुषाश्रितादपि हि भवति 52

सृष्टैः बहुभिः शिलीमुखैः भ्रमरैः। मधुनि पुष्परसे परैः सक्तैरपि। आ सर्वतः। हिता वाहिनी नदी। समाभिः सकला भिः पद्मिनीभिः। ऊनैव कृता। हि श्रीशस्य कोपेन। आश्रितादपि। अन्तः नाशो भवति। वस्तुतः मधुषु यदुविशेषेषु परैः श्रेष्ठैः। कर्तृभिः। सृष्टैः मुक्तैः। शिलीमुखैः बाणैः। अहिता नां रिपूणां वाहिनी सेना। सेना नदी च वाहिन्याविति त्रिकाण्डशेषः। समैः पद्मिभिः गजैः न्यूना रिक्तैव कृता॥ 52॥

भटव्याघ्रैर्घोरं प्रतिभयगजं भूरिहरिकं

सनानाभूदारं प्रचुरशिखिभिर्दारुणतरम्‌॥

युतं हेतिव्रातैर्निरवधि विराजत्पत्ररथकं

ददाह द्राग्दुर्हृद्बलवनमुरुर्यादवदवः॥ 53॥

उरुर्महान्‌ यादवा एव वनाग्निः। दुर्हृदां रिपूणां बलं सैन्यमेव वनं ददाह। कीदृशं सैन्यं। प्रतिभयाः भयङ्कराः गजा यत्र। भूरयः बहवो हरयोश्वा यत्र। नानानेकैः भूदारैः जरासन्धादिभूपैः सहितं। प्रचुरैर्बहुलैः शिखिभिः बाणैः घोरतरं। हेतीनां शस्त्राणां व्रातैः वृन्दैर्युक्तं। निरवधि अनन्तं विराजन्तः पत्राणि शिबिकादीनि वाहनानि रथाश्च यत्र च रथानां वाहनत्वेपि विशिष्टत्वात्प्टथग्ग्रहण। विवाहे सर्वमाङ्गल्ये इत्यादिषु

विवाहग्रहणवत्‌। एवं शरग्रहणमपि। वनपक्षे हरयः सिंहाः। भूदाराः वराहाः शिखिभिः वृक्षैः। शिखी वन्हो वलीवर्दे शरे केतुग्रहे द्रुमे इति मेदिनी। हेतीनां सूर्यातपानां व्रातैः। रवेरर्चिश्च शस्त्रं च वन्हिज्वाला च हेतय इत्यमरः। अनेन ग्रैष्मकालिकमिति सिद्धं। विराजन्तः पत्ररथाः पक्षिणः यत्र च॥ 53

ते दस्यवो विद्रविणं विधातुं

भृशं यतन्तोपि हरेरनीकम्‌॥

शेकुर्न किंत्वात्मन एव पादौ

वितेनिरे विद्रविणौ दरेण॥ 54॥

दस्यवश्चोराः शत्रवश्च। विगतं द्रविणं धनं बलं च यस्मात्‌॥ द्रविणं काञ्चने धने॥ पराक्रमे बले पिस्यादिति हैमः। विद्रवः पलायनं अस्त्यस्मिन्‌ विद्रवी तं च। विद्रावो विद्रवो द्रव इत्यमरः। अत इति ठनावितीनिः। अनीकोस्त्री रणे सैन्ये इति मेदिनी। दरेण भयेन॥ 54॥

अश्रीकतां नेतुमथाच्युतं तं

वाञ्छन्त आपुः स्वयमेव ते ताम्‌॥

योनिष्टमिच्छत्यपरः परस्य

तदेव चाप्नोति स एव नान्यः॥ 55॥

न श्रीः रुक्मिणी यत्र तस्य भावं। ते शत्रवः। तामश्रीकतां शोभाहीनत्वं। अपरः नीचः परस्यान्यस्य। च हे तौ। च पादपूरणे हेतावितित्रिकाण्डशेषः॥ 55॥

प्रतीपरामं रणहीनताग

मस्रार्द्रगात्रं प्रमदोनभेवम्‌॥

दृष्ट्वा स्वतुल्यं पथि चैद्यमित्रं

स मागधों बोधयति स्म सूक्त्या॥56॥

चैद्यमित्रम्‌ शिशुपालाख्यं सुदृदं। कीदृशं। प्रतीपाऽननुकूला राया रुक्मिणी रमंणी यत्र तं। रणेन शब्देन हीनता मूनत्वं गच्छति तं। मुखात्‌ शब्दो न निर्गच्छतीत्यर्थः। अस्रैरश्रुभिरार्द्रं क्लिन्नं गात्रं यस्य। प्रमदेनानन्देन प्रमदया वध्वा वा उनं। च मागधः। जरासन्धस्तु प्रतिकूलः रामः बलभद्रः यस्य सः रणे युद्धे गर्ह्यतां पराभवमितियावत्‌ गच्छतिस्म। हीनं गर्ह्योनयोस्त्रिषु इति मेदिनी। अस्रै रक्तैरार्द्रगात्रः। अस्रं तु शोणितेश्रुणीति हैमः। प्रकृष्टः मदः शौर्यादेः तेनोनश्च 56

अजमगमनन्तमेकं ब्रह्म सदेवं जगच्वसद्धि सखे॥

ज्ञात्वेति शुचं त्यज भोः सर्पभ्रान्त्यपगमे कुतो भीस्यात्‌ 57

भोः सखे। ब्रह्म। अजं न जायते। न गच्छतीत्यगम्‌॥ न अन्तः कालतः देशतश्च परिच्छेदो यस्य तदनन्तं। एकमद्वितीयं सत्‌ सत्यं चास्ति। जगत्तु एवमसद्धि तुच्छमेव भवति हिपदमेवार्थे। तद्यथा। न जः जकारः यत्र तदजं। अगं। न गकारः यत्र। अनन्तं। न। अन्तः। चरमः। व्यञ्जनतकारः यत्र। तच्च। अतोऽसदेव॥ 57॥

दुःखमयमेव विषयं सुखरूपं मन्यते जडो विद्वान्‌॥

अयमेव वेत्ति च ततो मृतिरेव भवेदतस्त्यजेदेव॥ 58॥

न। यः। यकारः यत्र। तं विषयं। विषं। मृतिः मरणं संसारः॥ च॥ 58॥

माया तदुत्था विषयाश्च मिथ्या

तज्जं सुखं तद्वदतो न काम्यम्‌॥

आत्मैव सत्यः परमप्रमोद-

रूपः स एव स्पृहणीय आर्यैः॥ 59॥

सत्या पशूनां च यथा मरीचिका

स्वप्नः शयालोरमृषा यथा तथा॥

अज्ञानिनां भाति भवो हि कोविदो

मोहं तथा शोकभयादिकं त्यजेत्‌॥ 60॥

यद्यदि सदिदं मनुषे तदपि सुखादेः क्व चास्ति नित्यत्वम्‌॥

तल्लाभालाभादौ हर्षं खेदं विहाय तिष्ठ सुखम्‌॥ 61॥

साधोः सङ्गः शाश्वतामोदबीजं

कार्योतोल्पं लक्षणन्तस्य वच्मि॥

साधुस्तुल्यः कण्टकैर्यस्तुदन्स्या-

द्योवालिम्पन्‌ चन्दनैस्तस्य तस्य॥ 62॥

सञ्चारोपि च यत्र भूतवरयोर्नो कामकोपह्वयो-

र्यः क्लीबः परसुन्दरीषु नियतं योन्धोन्यवित्तेनिशम्‌॥

यश्च स्वं प्रतिनिन्दति प्रतिदिनं तस्यापि यो निन्दने

मूकोज्ञैरुदतो नराकृतिधरः साक्षात्स नारायणः॥63॥

सम्पत्यां न दधाति दभ्रमपि यो दर्पं महत्यामपि

दारिद्य्रातिशयेपि खिद्यति तथा यो नो मनागप्यथो॥

यो निर्वैरमनाः पृथावपि परोत्कर्षे च तुल्यस्तुति-

निन्दः सर्वजनप्रियोवनिपते साक्षात्स नारायणः 64॥

यः परदुःखासहनः केषांचिदपीश चाकृतद्रोहः॥

क्षमयाढ्यः सत्यबलो रहितोऽसूयादिभिर्गुणैरसतां 65

सुखदुःखयोः समः सर्वेषामुपकारको यथाशक्ति॥

कामैरक्षुभितात्मा संयतबाह्येन्द्रियोऽकठिनचित्तः॥66॥

ससदाचारस्प्त्वपरग्रह इह दृष्टक्रियाशून्यः॥

लध्वाहारो नियतान्तःकरणः सुस्थिरो निजे धर्मे॥67॥

विष्ण्वेकसंश्रयो वै सुमननशीलश्च सावधानश्च॥

अविकारश्च विपत्तावप्यकृपण उर्मयो जिता येन॥68॥

क्षुत्तृट्‌शुग्मोहजरामृतिरितिषट्‌सोथ न स्वमानेच्छुः॥

परमानदोन्यबोधनदंक्षश्चावञ्चको हि कृपयैव॥69॥

नित्यं प्रवर्तमानो न दृष्टलोभेन चोत्तमज्ञानी॥

तस्य सतः कुरु सङ्गं वाष्टाविंशाति गुणानिमान्भज भोः 70

इति षण्णां कुलकम्‌।

उत्यादिप्रोढवचोनिपुणिम्ना स स्वयं जरासन्धः॥

शिशुपालशोकसिन्धोर्घटजन्माभूत्ततोगमन्सर्वे॥71॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 72॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणि विरचिते चतुर्थः सर्गः॥ 4॥


.

***पञ्चमः सर्गः। ***

जित्वा श्रीपतिमानयामि भगिनीं नन्वत्र जातेनृते

भ्रष्टः सङ्गरतः स्वकं हि नगरं नूनं भजिष्यामि नो॥

सन्धामित्थमथो विधाय जडधीनागो गरुत्मत्पतिं

जेतुं रुक्म्यभिधो जगाम सहितः स्वाक्षौहिणीसेनया 1॥

अथो राजगमनानन्तरं। सङ्गरः प्रतिज्ञा युद्धं वा तस्मा त्‌। जडधीषु मूढभुद्धिषु नागः श्रेष्ठः। जडधीश्चासौ नागः सर्पश्च। गरुत्मतः पतिं श्रीकृष्णं गरुडं च पक्षितार्क्ष्यौ गरुत्मन्तावित्यमरः। अर्थान्तरं च तत्र। न गरमिति च्छेदः। श्रीपतिं न जित्वा वर्ते इति शेषः। च भगिनीं नो आनयामि। अत्रानृते जाते सति। स्वकं सुतरां अकं यतस्तद्गरं भजिष्यामीति वाग्देव्युक्तिः॥ 1॥

रे चन्द्रवंशजातं दारुकसूतं च सार्जुनस्नेहम्‌॥

त्वाम्प्रति रक्षां कर्तुं केशव वैश्वानरोहमायातः॥ 2॥

रे केशव त्वाम्प्रति तव रक्षां भस्म। कीदृशं त्वां। चन्द्रस्य कर्पूरस्य वंशानां वेणूनां च जातं वृन्दरूपं। दारुकैः काष्ठैः सुष्टु ऊतं स्यूतं। अर्जुनैः तृणैः स्नेहेन तैलादिना च सहितं च। वस्तुतः। वै निश्चयेन अहं अनरः मनुष्यो न। किंतु श्वा’। शुनक एव चन्द्रवंशजत्वादिमन्तं। त्वां प्रति तवत्यर्थः। रक्षां रक्षणं कर्तुम्‌॥2॥

शौरे शीघ्रं हरामि प्रधनशिरसि ते मूढ कृत्स्नं यशोद्य

कृत्वैव त्वा व्रजामि प्रियमृतमदनं स्वः स्थितः स्यां खगानाम्‌॥

पूर्वं क्षोण्या अवृष्णिप्रमुखकुलमहो मण्डलं स्यान्मयैव

कृष्णः प्रत्याह हित्वा प्रजड पठ पुनः पञ्चमं वर्णमेतत्‌॥ 3॥

खगानां गृहादीनां प्रियं च तन्मृतं प्रेतं च तद्रूपमदनं भक्षणं। स्वस्थितः। स्वस्थः। पञ्चमवर्णे त्यक्ते सति। रामि ददामि। हे अमूढ। ऋतः दीप्तः मदनः यत्र तं त्वां। जामेः स्वसुः प्रियं पतिं कृत्वा। स्वः स्वर्गे खगानां देवानां मध्ये स्थितः स्यां। क्षोण्याः मण्डलं। वृष्णिप्रमुखानां कुले न महः तेजः यस्य तत्‌। मया लक्ष्म्या

च पूर्णं च स्यात्‌॥ 3॥

प्रादुष्कृतानुत्तमतोस्मि संक्र-

न्दनाधिकः केशवतुल्यतेजाः॥

उदारवित्तोहममन्दबुद्धिः

सङ्ग्रामसिंहः कविगीतकीर्तिः॥4॥

नदीनशीलो जडशेखरो गो-

पालेस्तथा यादवसंक्षयार्हः॥

विवर्णवणं प्रथमं विनैव

त्वदुक्तमेतत्सकलं ध्रुवं सत्‌॥ 5॥

प्रादुष्कृता प्रकटीकृता अनुत्तमता श्रष्टत्वं येन। श्रीकृष्णस्याविष्णुत्वमत्या केशवतुल्येत्युक्तिः उदार इति वित्तः खातः। नदीनः समुद्र इव शीलं यस्य। गोपालेः भूपपङ्क्तेः। हे विवर्णनीचेति श्रीकृष्णोक्तिः। दारैः वित्तः। स्त्रीविख्यातोधमाधम इत्युक्तेरतिनीचता। विगीतः ख्यातगर्हणइत्यमरः। खरी गर्दभी दवसंक्षयार्हः वननिवासयोग्यः॥4॥5॥

त्वं सकलस्तेनवरो भुजगराजस्तवास्पदं विजने॥

गोपाल पूतनास्त्रीहन्ता पिशुनव्रजस्य सन्नेता॥6॥

हे गोपाल। त्वं सकलेषु स्तेनेषु चोरेषु वरः। भुजगानां खिङ्गानां राजा। पिशुनानां सूचकानां व्रजस्य संनेता नायकश्च। पूतनानामकस्त्रीहन्ता चेतिनिन्दा। स्तुतिस्तु हे विजने विगता जनिर्जन्म यस्मात्तत्सम्बुद्धिः। गोपाल इन्द्रियपालक। त्वं सकलः कलाभिः सहितः। भुजगराजस्तवस्य शेषकर्तृकस्तुतेरास्पदं स्थानं। पूतना। पविक्षपुरुषः॥ तेन कारणेन वरः। श्रेष्ठः। अस्त्री धनुर्धरः। पिशुनानां खलानां व्रजस्य हन्ता सन्नेता। सतां स्वामी च। यद्वा। हेपूत। त्वं ना। पुरुषः। स्त्री प्रकृतिः। हन्ता कालः। सत्‌ जगच्च। तेन त्वमेव सकलः सर्वः। न पिशुना यत्र तस्य व्रजस्य गोष्ठस्य नेता च॥ 6॥

त्वं रामो द्विजराट्‌ च शन्तनुसुतोहं त्वं च पण्डाधिकः

शूरोहं समहादरस्त्वमभयाश्लिष्टोस्मि मेग्रे मृधे॥

तन्न स्थातुमपि क्षमोसि ह ततः कामं स्वसुर्नो जहि

जीवाशा यदि तेत्र कालयवनाच्चाधीतमावर्तय॥7॥

हे गोपालेति पूर्वस्यानुषङ्गः। त्वं रामः पर्शुधरः द्विजराट्‌ च विप्रस्य युद्धभीरुता प्रसिद्धा। अहं शन्तनुसुतः भीष्मः। भीष्मेण पर्शुरामो जित इति भारते। चे क्लीबाधिकस्त्वं। अहं शूरः। च। त्वं महादरेण सहितः। दरः। भयं। अहं भययुक्तो न। तत्ततः मृधे युद्धे मे ममाग्रे पुरः। स्थातुमपि क्षमः शक्तः नासि। ततो हेतोः। नः स्वसर्भगन्याः कामं आशां जहि त्यज। ते तव जीवस्य जीवितस्याशास्ति चेत्कालयवनात्‌ अधीतमत्रावसरे आवर्तय। आवृत्तिं कुरु। पलायस्वेत्यर्थः॥ स्तुतौ। हे अज। जन्मरहित। हंस विष्णो। अग्रे पूर्वं। द्विजराङ्विप्रराजः रामः। क्षात्रियान्तकस्त्वमेव चोवधारणे। ततः द्विजानां क्षत्रियाणां राट्‌ रामः। रावणाद्यन्तकस्त्वमेव। अत्राधुना। द्विजेषु नन्दादिवैश्येषु यदुषुच राजति सः। रामः प्रलम्बघ्नः च। रामः रमाया अयं प्रियः नीलो वा कृष्मस्त्वमेवासि। कीदृशः। शं कल्याणरूपः। शमिति मान्तमव्ययं। पण्डया बुद्व्याधिक। शूरः। स्वसुश्च। शोभना असवः प्राणा इन्द्रियाणि वा येन स परमात्मा। अहं तु तनुः कृशश्चासौ सुतः पार्थिवश्च। तनुः काये त्वचि स्त्री स्यात्र्रिष्वल्पे विरले कृशे इति मेदिनी। अभा कान्त्यभावस्तयाऽऽश्लिष्टः युक्तश्च। किंच मे जीविताशास्ति हि। अतः कालः मृत्युरेव यवनस्तस्मान्महादरः उरुभयं भवति तत्तस्मात्त तवाग्रे युद्धेस्थातुमपि क्षमः शक्तः नास्मि। अतः। नःअस्माकं अधीतं आधिक्येन इतं प्राप्तं। कामं तृष्णां। आवर्तय

निवर्तयः॥7॥

ममोज्झ सारङ्गदृशं स्वसारं

चेदस्ति सारः कुरु सम्प्रसारम्‌॥

मदप्रसारं तव तेजसारं

हरेनसारं च विधाय सारम्‌॥ 8॥

हे गोपाल। सारङ्गदृशं हरिणाक्षीं मम स्वसारं भगिनीमुज्झ मुञ्च। अथवा सारः बलमस्ति चेत्सम्प्रसारं युद्धं कुरु। अहं तु तत्र तव मदस्य प्रसारं विस्तारं तेजसा सह अरं शीघ्रं हरे हरामि। किं कृत्वा। तव। सारं चक्रं। अनसारं न असारं फल्गु यस्मात्तदपि फल्गु विधाय कृत्वा। सत्योर्थस्तु। हे इन प्रभो। सारः बलमस्ति चेदिति असन्देहे सन्देह वचनं। सारं श्रेष्ठं सारं चक्रं मुञ्च। च युद्धं कृत्वा मम मदप्रसारं तेजसा। अरं हर नाशय च। मम स्वसारं तव सारङ्गदृशं पत्नीं कुरु॥ 8॥

यद्बाल्यतो विरतमाचरितं सुसाधो

स्तेयव्रतं नयवता भवताद्य तस्य॥

मत्सोदरीहरणरूपमकारि नूनं

सूद्यापनं सपदि पूर्णफलं ददानम्‌॥ 9॥

बाल्यतः बालत्वमारभ्य। हे सुसाधो नयवतेति वक्रोक्तिः। हे असाधो अन्यायवतेति फलितोर्थः॥ सद्यः सर्वफलदमुत्तमोद्यापनं कृतमित्यस्य तात्पर्यं सर्वचौर्यफलं शिक्षां करोमीति। वस्तुतः अस्तेयव्रतं। तत्फलं रुक्मिणीलाभः॥9॥

इत्याद्यवाच्यं कटु तस्य र्वाक्य-

माकर्ण्यचाद्यः पुरुषोऽब्रवीत्तम्‌॥

त्वं श्वा नरो नेति च गर्ह्य सत्यं

तद्वीक्ष्य मां बुक्कसि जेतृसिंहम्‌॥10॥

अवाच्यं वक्तुमयोग्यं। हे गर्ह्य॥10॥

कुपूय मध्येकधरोसि शूरः

खादस्यतो वर्णमलं भृशं च॥

रामाजनस्यासि निजस्य भीष्म-

श्चोरोस्मि तेऽसुद्रविणं हरामि॥ 11॥

हे कुपूथ कुत्सित। त्वं। मध्ये कधरः शूरोसि। शू, र, इति वर्णयोर्मध्येककारभृत्‌। शूकरइत्यर्थः। शूकरः शूकरः किटावितिद्विरूपः। कुपूयानां मध्ये अकस्य पापस्य धरः पर्वतः। च अवर्णः निन्दैव मलं पुरीषम्‌। ते तव। सुष्ठु द्रविणं वित्तं बलं चासवः प्राणा एव द्रव्यम्‌॥11॥

त्यक्त्वा ततो भैष्मसुतं च कार्मुकं

जग्मुः स्वगाः श्रीमदशोककेशवम्‌॥

सर्वे हि वाञ्छन्त्यधिकं परन्तु त-

ल्लाभोध्रुवं दैघवशैन जायते॥12॥

ततः श्रीकृष्णभाषणानन्तरम्‌। खगाः पक्षिणो बाणाश्च। भीष्मसुतस्य रुक्मिण इदम्‌। कार्मुकं वेणुं चापं च॥ कार्मुकं धनुषि स्यान्ना वेणौ कर्मक्षमेन्यवदिति मेदिनी। तिलकाशोकपुन्नागद्रुमम्‌। श्रीमदशोककृष्णं च। श्रीमान्मनोज्ञे तिलकद्रुमे च धनवत्यपि इति हैमः। केशवोजे च पुन्नागे इति मेदिनी। एककण्टकिद्रूमादकण्टकद्रुमत्रयस्याधिक्यं स्पष्टम्‌। दैवाधीनतया लाभो भवतीत्युक्त्या कृष्णप्राप्तेः प्रागेव तद्बाणेर्नेशुरित्यर्थः॥12॥

धन्वस्कन्नाः शौरेः सुपत्रिणोङ्गेषु रुक्मिणो विविशुः॥

सत्पक्षा हि लभन्ते भ्रष्टेपि पदे पदान्तरं सुखदम्‌॥ 13॥

धन्वनः। यरुदेशाच्चापाच्च। धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेपि चेति मेदिनी। स्कन्नाः च्युताः। सुपत्रिणः। शोभनाः पक्षिणः बाणाश्च। पत्रिणौ शरपक्षिणावित्यमरः। रुक्मिणः अङ्गेषु देशेषु प्रतीकेषु च सत्पक्षाः साधुसहायाः प्रशस्तगरुतश्च। पक्षः सहायेपीत्यमरः॥ 13॥

एतेऽर्ववरा अपि मे साम्यं मूढा अभिख्यया दधते॥

रोषादितीव सहरिर्विशिखैर्विव्याध रुक्मिणो रथ्यान्‌ 14

अर्ववराः गर्ह्यश्रेष्ठा अश्वोत्तमाश्च। अभिख्या नामशोभयोरित्यमरः। हरिरश्वे च कृष्णे च॥ विशिखैः बाणैः। रथ्याः रथस्य वोढारोश्वाः॥14॥

अनेकचापं विविधायुधं विभु-

र्गृहीतमात्रं दितवान्ततो रिपुः॥

रथादवप्लुत्य सुमण्डलाग्रभृ

द्धरिं जिघांसुः शुनको यथाऽपतत्‌॥ 15॥

विविधः स्याद्बहुविध इत्यमरः। दितवान्‌ खण्डितवान्‌। मण्डलाग्रं खङ्गं बिभर्तिति हरिं श्रीकृष्णं सिंहं च। शूनकः श्वा॥15॥

तमापतन्तं परिगृह्य कैश्ये

जिघांसयाऽयं क्ष्णुतमाददेऽसिम्‌॥

तद्वीक्ष्य भीरुः सदया भिया

सा वातेन रम्भेव भृशं चकम्पे॥ 16॥

अयं श्रीकृष्णः। कैश्ये केशसमूहे। जिघांसया हन्तुमिच्छया। क्ष्णुतं तीक्ष्णीकृतं असिं खङ्गम्‌॥16॥ अलीकवासोत्र सदास्त्यतोस्य

शुद्धिर्विधेयेति विचिन्त्य किं सा॥

स्वसोदरत्राणमिषेण गङ्गा-

योनौ प्रियाङ्कौ निदधे च मौलिम्‌॥17॥

अलीकस्यानृतस्य वासः। अलीकं त्वनृते त्वनृते भाले इति हैमः। विधेया कार्या प्रियस्य हरेः अङ्घौ पादे मौलिं मस्तकम्‌॥ 17॥

कुलीनदुःखावनिभृद्धनाघनो

जनार्दनोथाजनि सस्मिताननः॥

निवर्तयन्तस्य निषूदनान्मनो

विकर्तनोस्याश्च मनोम्बुजन्मनः॥ 18॥

अथ रुक्मिणीप्रणामानन्तरम्‌। कुलीनानां साधुनां दुःखान्येवावनिभृतः पर्वतास्तेषां घनाघनः। स्मितेन सहितमाननं यस्य। अजनि जातः। च तस्य रुक्मिणोनिषूदनाद्वधान्मनः निवर्तयन्सन्‌। अस्या रुक्मिण्याः बुद्धिसन्निधानादस्या इति निर्देशः। मन एवाम्बुजन्म कमलं तस्य विकर्तनोऽर्कोजनि॥18॥

सुगुणैः प्राग्रैः स्पर्शो वमते तं प्रति कदापि नो कार्यः॥

इति किं विचार्य भगवांस्तमसाधुकृतं बबन्ध चैलेन॥19॥

शोभनाः गुणा येषां तैः। प्राग्रैः प्रकर्षेणाग्रैः श्रेष्ठैः। अथ च प्रकृष्टे अग्रे येषां तैः। सुगुणैः प्रशस्तरज्जुभिः। चैलं वस्त्रेऽधमे त्रिषु इत्यमरः। अवमम्‌ अधममम्‌॥19॥

रुक्मी ददर्श पक्षं तदा पतत्रं च मित्रमादित्यम्‌॥

धनुषं नवमं राशिं बाणं बलिजं रथं च वा नीरम्‌ 20

चक्रं च चक्रवाकं विजयं पार्थं बलं प्रलम्बघ्नम्‌॥

जीवनमथ पानीयं लोके कीर्ति निषद्वरं नूनम्‌॥21॥

तदा बन्धनकाले। पक्षं सहायं। पतत्रं गरुतं। सहायो नासीदित्यर्थः। एवं सर्वत्र। स्यन्दने वेतसे रथ इति। चक्रं सैन्यं। बलं शक्तिम्‌। निषद्वरं कर्दमम्‌॥20॥21॥

तैनैव खङ्गेन स पञ्चपट्टा-

न्विधाय तं शीर्ष्णि हनुस्थरोम्णाम्‌॥

च श्मश्रुणोर्धं खलु खण्डयित्वा

व्यरूपयच्चेदमुवाच कृष्णः॥22॥

तनैवेति सुगमम्‌॥22॥

पण्डाधिकः श्याल उतात्मनायं

शूरोस्ति संख्ये जयमावहद्धि॥

आर्तिक्यमेनं दयितेग्रजं स्वं

प्रति द्रुतं त्वं कुरु बन्धुकृत्यम्‌॥23॥

पण्डाधिकस्य पत्नी भ्रातापि उताप्यर्थे। उताप्यर्थविकल्पयोरित्यमरः। आत्मना स्वयं। अयं रुक्मी। संख्ये युद्धे। हि हेतोः। हे दयिते प्रिये। एनं स्वं निजमग्रजं प्रति। बन्धुकृत्यमार्तिक्यं कुरु॥23॥

भाविनि विवाहहोमे लाजावापाय चेत्तु नागच्छेत्‌॥

श्यालस्तदा विगुणताऽभविष्यदिति किं मुमोच तन्नैषः 24

भाविनीति स्पष्टम्‌॥24॥

रुक्मिणमुदीक्ष्यबद्धं विमुच्य सङ्कर्षणोऽवदत्सूनुम्‌॥

सूनुमिव राजकान्तिप्रभवं चक्रप्रियं प्रतापाढ्यम्‌॥25॥

सुनुः पुत्रेऽनुर्जर्के ना इति मेदिनी॥ राज्ञां युधिष्ठिरादीनां कान्तेरिच्छायाः प्रकर्षेण भवः संप्राप्तिर्यस्मात्तं। सूर्यपक्षे। राज्ञश्चन्द्रस्य कान्तेस्तेजसः प्रभवं जन्महेतुम्‌। चक्रस्य चक्रवाकस्य प्रियं। प्रकृष्टतापेन संपन्नं च॥25॥

बन्धोर्बन्धमुपैति नाखिलगुरो बन्धुस्तदर्होपि भोः

किं वाच्यं समबन्धमोचनकृतस्त्वत्तो जगद्बन्धुतः॥

एवं सत्यपि किं प्रियाग्रज उरो बद्धोथ देहात्मधी-

रेवार्थ प्रमदाकृतेपकुरुतेन्यान्नो विवेकी बुधः॥26॥

हे उरो महन्‌। समस्य सर्वस्य बन्धमोक्षं करोति ततः॥26॥

अनयाधरालये त्व-

त्प्रियया गुप्ताद्य बन्धुजीवाभा॥

भवता साद्य निरस्ता

प्रियतास्थास्यति च वामनेन कथम्‌॥27॥

हे आद्य। अधरालये तलगृहे। अधस्तादपि चाधरइत्यमरः। अधरावोष्ठावेवालयस्तत्र च॥ बन्धोः जीवस्य प्राणिनः आभा तेजः बन्धूकपुष्पमिव कान्तिश्च। अद्यात्राह्नि। सा बन्धुजीवाभा। अनेन प्रियामनोरथविरुद्धवर्तनेन। वां युवयोः दम्पत्योः प्रियता प्रेम। अत्र ष्ठी गुप्ता॥ 26॥

भैष्मीं प्राह ततो न भो विदुषि नो दोषं प्रयच्छाग्रज-

वैरूप्यात्सुखदुःखयोस्तनुभृतां कर्मैव हेतुर्यतः॥

एवं प्राग्जनकालये निगदतं श्रीयाज्ञवल्क्यादिना

न ज्ञात्वाऽज्ञ इदं च मित्रमहितं तत्कारणे मन्यते॥28॥

भोः विदुषि। हे ज्ञात्रि। नोस्मभ्यं। आदिनाऽऽर्तभागः। अज्ञः मूर्खः। सुखस्य कारणं मित्रं। दुःखस्य हेतुं द्विषन्तं। मन्यते॥ 28॥

पातकनाशं दण्डं मन्यन्ते भोः सुधीर भद्रं ये॥

वपुरन्तरगतखरतरगरहरममृतं त्यजन्ति ते लब्धम्‌ 29

भोः सुधीः हे सुबुद्धे रुक्मिणि। दण्डेन पापनाशो भवति अतः कल्याणरूपं दण्डं ये अभद्रं अनिष्टं मन्यन्ते तेतिमूढा इति वक्तव्ये देहमध्यप्राप्ततीव्रतरविषनाशकममृतं त्यजन्तीत्युक्त्याऽप्रस्तुतप्रशंसेयं। कृष्णकृतं भ्रातुर्वैरूप्यमनिष्टं मा मंस्था इति भावः॥ 29॥

भूयः सोनुजमब्रवीन्मधुरिपो त्वत्पादपङ्केरुहे

यच्चित्तं भ्रमरायतेनवरतं तेषां न रागो नृणाम्‌॥

न द्वेषो न सुखं न दुःखमपि नाऽमित्रो न मित्रादयः

का वार्ता तव माधवेति सति किं चक्रे त्वयेयं कृतिः 30

त्वं त्वात्मा ज्ञानघनः सत्यः सन्ततसुखोऽपरिच्छिन्नः॥

असि वस्तुदेशकालैस्त्वयि कृष्णातः समञ्जसं नैतत्‌॥ 31॥

तां प्रोवाच पुना रसाधिपसुते स्वप्ने तु राज्यं वरं

भुञ्जानो भजते न जाग्रति शुचं राज्यच्युतोस्मीत्यहम्‌॥

तत्सन्नेति विनिश्चयात्खलु तथा देहार्थबन्ध्वादिकं

मिथ्यैवेति विमृश्य सोदरकृते दुःखं हृदिस्थं जहि॥ 32॥

इत्यादिश्रुतिसम्मतवाक्यै रामेण बोधिता सद्यः॥

त्युक्त्वा सा सर्वाधिं प्रमदा प्रमदार्णवे निमग्नासीत्‌ 33॥

सा प्रमदा रुक्मिणी। प्रमदार्णवे आनन्दसमुद्रे॥33॥

तान्येव शृण्वत्यपि रुक्मिणी स्फुटं

जातान्यनुत्तानघटेम्बुवृष्टयः॥

घूको न चेत्पश्यति तर्हि मास्वतो

दोषस्तु को नाशयतस्तमोखिलम्‌॥ 34॥

प्राप्तावरवर्णत्वः सन्धायाः सोऽत्यजन्निजं निगमम्‌॥

नगरं नवीनमङ्गीकृतवान्कृष्णद्विडत्र किमयुक्तम्‌॥35॥

प्राप्ते अवरवर्णत्वे वैरूप्यं निन्द्यत्वं च येन। संधायाः प्रतिज्ञायाः हेतोः निजं। स्वं निगमं नगरं। तत्याज। अथ च प्राप्तशूद्रत्वः। शूद्राश्चाऽवरवर्णाश्चेत्यमरः। सन्धायाः शूद्रैर्वेदोनाध्येतव्य इति मर्यादातः। सन्धा प्रतिज्ञा

मर्यादेत्यमरः। निजं नित्यं निगमं वेदं। किञ्च रलयोरैक्यान्नगान्सर्पान्लाति तं वी नां पक्षिणामिनं पतिं गरुडमङ्गीचक्रे न॥ 35॥

देवस्तुतोथ बलदेवयुतोर्चितक्ष्मा-

देवो नृदेवसुतया सह वासुदेवः॥

गच्छन्सृतावृपवनं स्ववनं वनाग्र्यं

कान्तां नितान्तदयितां समदर्शयंस्ताम्‌॥ 36॥

उर्चिताः क्ष्मादेवा विप्रा येन। नृदेवस्य भीष्मनृपतेः पुत्र्या समम्‌। सृतौ मार्गे। सुष्ठु अवनं रक्षणं यस्य। वनेन जलेन श्रेष्ठमुपवनमारामं। सग्यग्दर्शयामास॥36॥

पश्येदं चपलाभं तरुणीरत्नातिपिकरवं स्वनिभम्‌॥

सत्कार्णिकाब्जवक्त्रं शुकपनसालंकृतं सघनकेशम्‌॥ 37॥

हेतरुणरित्न युवतिश्रिष्ठे इदं उपवनं स्वतुल्यं पश्य कीदृशं इदं। अतिशयेन कोकिलानां शब्दा यत्र। च चपलाभिराभाति तत्‌। मागधी चपला कणेत्यमरः। सती प्रशस्ता कर्णिका बीजकोशी येषां तानि अब्जवक्राणि पद्मादीनि यत्र। वक्रशब्देन कुमुदादेर्ग्रहः। च शुकेः शिरीषै पनसैश्चालंकृतं। घनैः सान्द्रै केशैः प्हीबेरै- सहितं। तरुणीरत्नं तु पिकरवानतिक्रान्तं पिकादपि मधुरवागित्यर्थः॥ शुकपः कीरश्रेष्ठस्तस्येव नासा नासिकया भूषितं च। पद्दन्न इति नासिकायाः नसादेशः॥ च घना मेघा इव केशास्तैर्युक्तं। सती उत्तमा कर्णिका कर्णभूषा यस्य। सन्तौ कर्णौस्तो यस्य। अत इन ठनाविति ठन्निति वा। अब्जश्चन्द्रइव वक्त्रं यस्य चपला। तडिदिवाभाति तच्च॥37॥

अपि ते धम्मिल्लसमं काञ्चनसुमनःप्रभूषितं सुवटम्‌॥

अतिकुण्डलिमण्डलकं पुरुमधुतृणशूल्यमालबारिवरम्‌ 38॥

अपि च। ते तव धम्मिल्लेन तुल्यं ! धम्मिल्लः संयताः कचा इत्यमरः। ‘बुचडा’ इति प्रसिद्धं। कीदृशं। काञ्चनैः चम्पकैः सुमनोभिः जातिभिश्च भूषितं। सुष्ठु वटा यत्र। अतिशयेन कुण्डलिनां मयूराणां मण्डलानि वृन्दानि यत्र। पुरवः मधवः मधुद्रुमा यत्र। मधुपुष्परसे क्षौद्रे मद्ये ना तु मधुद्रमे इतिमेदिनी॥ तृणशूल्यानां मल्लिकानां मालायाः पङ्क्तेः भारोस्त्यत्र। अत्र मालाशब्दस्य इष्टकेषीकामालानां चिततूलभारिष्विति ह्रस्वः। वरं श्रेष्ठं च। धम्मिल्लस्तु। सौवर्णपुष्पैः भूपितः। शाभनः वटः बन्धनगुणः यस्य। शल्बं वराटकस्त्री तु रज्जुस्त्रिषु वटी गुण इत्यमरः। कुण्डलिनः सर्पस्य मण्डलकं कुण्डलनामतिक्रान्तः। कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते इति हैमः. बहुमकरन्दानां मल्लिकामालानां भारी। वरश्च 38

उत्तमसीमं तालं मौक्तिकजालास्पदं वराङ्गनिभम्‌॥

अलिकसमं लघुतिलकं भ्रूयुगतुल्यं धनुर्जयं बिभ्रत्‌ 39

किंच। वराङ्गनिभं मस्तकतुल्यं। कीदृशं उत्तमा सीमा यस्य तलैः तालद्रुमै राजते तत्तालम्‌। तलश्चपेटे तालद्राविति मेदिनी। मौक्तिकानामिव जालानां नूतनकलिकानामास्पदं च। वराङ्गं तु। उत्तमेन सीमन्तेन केशवेशेनाल्यते। अल्‌भूषणे घञ्‌। मौक्तिकानां जालस्य स्थानं। च किंचालिकेन ललाटेन तुल्यं। लघवः मनोहराः तिलकवृक्षा यत्र। भालं तु चारु चित्रकम्‌। किंच भ्रूयुगतुल्यं। धनुषः प्रियालद्रुमाः। जयाः श्रीपर्णद्रुमाश्चैतेषां समाहारं दधत्‌। भ्रूयुगम्‌। चापस्य जयनं बिभ्रत्‌॥39॥

लोचनसदृक्‌श्रवोन्तं गतमतिसारङ्गमुत्कटाक्षाढ्यम्‌॥

घ्राणसमं गन्धफलीसुषमं कुवलालिमण्डितं नित्यम्‌॥ 40॥

किंच। लोचनसदृक्‌ नेत्रतुल्यं। अन्तं मनोहरं श्रवः यशः प्रतिगतं प्राप्तं। उत्कृष्टत्वेन कीर्तिमदित्यर्थः। अन्तः प्रान्तेन्तिके नाशे स्वरूपेतिमनोहरे इति विश्वः॥ अतिशयिताः सारङ्गाश्चातका यत्र। उत्कटैरक्षैः बिभीतकैः सपन्नं च। नेत्रे तु श्रवसोः कर्णयोरन्तं समीपं गते। सारङगं हरिणमतिक्रान्ते। उत्कृष्टकटाक्षैराढ्ये च। किंच घ्राणनिभं। नासिकातुल्यं कीदृशं गन्धेन पुष्पादेरामोदेन फलीभिश्च रम्य। प्रियङ्गुः फलिनी फलीत्यमरः। कुवलानां बदरीफलानामाल्या पङ्क्त्या मण्डितं। घ्राणं तु गन्धफल्या चम्पककलिकया सुषमं

तुल्यं। सुषमं सुंन्दरे समे इति हैमः। कुवलानां मुक्तानां पङ्क्त्या मप्डितं। घ्राणं तु गन्धफल्या चम्पककलिकया सुषमं तुल्यं। सुषमं सुंन्दरे समे इति हैमः। कुवलानां मुक्तानां पङ्क्त्या मण्डितं च 40

विद्रुमरुचिमद्रदनच्छदवद्रदवच्च कुन्दशोभालम्‌॥

उन्मदमीनादिवनं गण्डसमं तालपत्रजच्छायम्‌॥41॥

किञ्च। रदनच्छदवदोष्ठतुल्यं। विशिष्टैः द्रुमैः अश्वत्थाम्रादभिः रुचिः कान्तिः सास्त्यत्र। ओष्ठौ प्रवालवत्कान्तिमन्तौ किञ्च रदवत्‌ दन्ततुल्यं कुन्दैः शोभालं। शोभायाः सिध्मादिभ्यश्चेति मत्वर्थे लच्‌। दन्ताः कुन्दकुड्यला इव शोभालाः। किंच। गण्डसमं कीदृशं उत्कटमदा मीनादयः यत्र तद्वन जलं यस्मिन्‌। तलं व्याप्नोतीति ताली शैषिकोण्‌। पत्रजाताछाया यत्र तच्च। गल्लौ तु उन्मदेनोत्कृष्टकस्तूर्या लिखितानां मीनादीनां वनं गृहं। मदोरेतसिकरतूर्यामित्यादि मेदिनी। तालपत्रात्ताटङ्काज्जाता छाया कान्तिर्यत्र तच्च॥41॥

भाषणमिव भूरिरसं सुप्रचुरार्थोद्भवं जगत्प्रेयः॥

गमनसमं पुष्करिणीपरमच्छिद्रं गुणौघतुल्यं च॥42॥

किंच। भूरयः बहुलाः रसाः पाठास्तुलस्यश्च यत्र। सुप्रचुरार्थैः अतिबहुलैः वित्तैरुद्भवो जन्म यस्य। भाषणं तु। भूरयः शृङ्गारादयः रसा यत्र। शोभनाः प्रचुराश्चार्था यत्र उत्कृष्टः भवः कल्याणं येन तच्च तच्च। किंच। गमनेन समं कीदृशं पुष्करिणीभिः वापीभिः परमुत्तमं। गमनं तु पुष्करिण्याः करिण्याः परं जेतृ। पुष्करी करटी त्रिकाण्डशेषः किंच। अच्छिद्रं न्यूनत्वदोषरहितं। गुणौघोपि निर्दोषः॥ 42॥

स्तनसाधारणमभिनवपत्रावलिशोभि चातिमालूरम्‌॥

वरकरजैरङ्कितमतिकर्कशमावहदथातिमुक्तालीः॥43॥

किंच। स्तनतुल्यं। नूतनपर्णपङ्क्तिशोभि। अत्यन्ताः मालूरा बिल्वा यत्र वरैः करजैः करञ्जवृक्षैः अङ्कितं भूषितं चानिशयिताः कर्कशा इक्षवः यत्र। कर्कशः परुषे क्रूरे काम्पिल्ये निर्दये दृढे। इक्षावित्यादिविश्वः। अतिमुक्तानामालीः पङ्क्तीरावहत्‌। अतिप्तुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लतेत्यमरः। स्तनौ तु नवपत्रलेखाभिः शोभिनौ। मालूरं बिल्वफलमतिक्रान्तौ। वरैः करजैः नखैरङ्कितौ चिह्नितौ। अवश्यंभावित्वाद्भूतनिर्देशः। अतिशयेन कर्कशौ कठिनौ अतिशयिताः मुक्तालीः हारान्धारयन्तौ च॥43॥

देवच्छन्दं च तथा गोस्तन्यग्रं दधच्च गुच्छौघम्‌॥

साघु प्रसवपदं सद्बलिपदमुदरोपमं सरोमालि॥44॥

तता देवस्य। उग्रसेनस्य भूपस्य च्छन्दमधीनं। गोस्तनीभिः द्राक्षाभिरग्रमधिकं गुच्छौघं दधच्च। स्तनौ तु तथा देवच्छन्दसंज्ञकं हारं आवहन्तौ। हारो मुक्तावली देवच्छन्दोसौ शतयष्टिका॥ हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः इत्यमरः। गोस्तनोस्त्यनयोः। अग्रौ श्रेष्ठौ च। गुच्छानां द्वार्त्रिशद्यष्टिकहाराणां वृन्दं दधतौ च। किंच। उदरोपमं। साधुनां सुन्दराणां प्रसवानां फलपुष्पाणां पदं स्थानं। सत्‌ प्रशस्तं बलिभिः पदं त्राणं यस्य। पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः सरसां तडागानां मालाः पङ्क्तयः सन्त्यत्र

व्नीह्यादिभ्यश्चेतीनिः। उदरं तु साधुप्रसवानां पदं। प्रसवः फलपुष्पयोरपत्ये गर्भमोचने इति मेदिनी। सतीनां वलीनां पदम्‌। रोम्णामाल्या पङ्क्त्या सहितं च॥44॥

कटसङ्काशं जितहरिनन्दनमयि ते नितम्बवद्विपुलम्‌॥

सक्थिसदृक्ष रभ्भास्तम्भाधिकमञ्जुलं मुदुलतरम्‌॥45॥

किंच। कटसंकाशं कटितुल्यं। निभसंकाशनीकाशप्रतिकाशोपमादय इत्यमरः। जितं हरेरिन्द्रस्य नन्दनवनं येन। कटस्तु जितसिंहपुत्रः। किंच सक्थिसदृक्षमूरुतुल्यं। रम्भास्तम्भैरधिकमञ्जुलम्‌। अतिसुन्दरं। मृदुलं रलयोरैक्यात्तलं यस्य च। सक्थिनी तु कदलीस्तम्भादति सुन्दरे। अतिमृदुले च॥45॥

हंसकविराजमानं पदकोकनदोपमं सठालक्तम्‌॥

नखरव्रजनीकाशं परपीवरतारवाररुग्धृगिति॥46॥

किंच। पदे एव कोकनदे रक्तोत्पले उपमा यस्य तत्‌। हंसाः कवयः जलपक्षिणः मयूरा वा तै राजमानं।

सदाऽलक्तः लाक्षा यत्र। पदे तु हंसकैः पादकटकैः विराजमाने। किंच नखवृन्दतुल्यं। पराण्युत्तमानि पीवरानि स्थूलानि च रलयोरैक्याल्लतानामालवालानि तैः रुग्धृग्‌ कान्तिधारि। नखव्रजस्तु। परः अमूल्यः। पीवराणां। पीनपीन्वी तु स्थूलपीवरे इत्यमरः। ताराणां शुद्धमौक्तिकानां वारो वृन्दं तत्कान्तिधारीति 46

नानाविप्रमुखालयं पृथुकराजावासगङ्गाधरा-

द्यागारं भुजगारिपत्रवसतिप्राग्र्यं सुरार्च्यं ततः॥

किंचार्यानवरार्ध्यसद्मगणराट्‌ श्रीमत्सभाभास्वरं

कैलासोपममात्मनः पुरमगाद्वध्वासहायं विभुः॥47॥

तत उपवनदर्शनानन्तरं। अयं विभुः श्रीकृष्णः। वध्वा सह तत्‌ कैलासोपममात्मनः पुरमगात्‌। गतः। कीदृशं पुरं। नानानेके विप्रादीनामालया यत्र। प्टथु महत्‌ कं सुखं येषु तानि राज्ञामावासाः गङ्गाधराद्यानां शिवादीनां मन्दिराणि च यत्र। भुजगारिः गरुढः पत्रं वाहनं यस्य तस्य श्रीहरेर्वसत्यावेश्मना प्राग्र्यमुत्तमं। आर्याणामुद्धवादिसाधूनां। अनवरार्ध्याणि सत्तमानि सद्मानि तेषां गणेन राजते तत्‌। श्रीमतीभिः मनोज्ञाभिः स भाभिः भास्वरं च। कैलासस्तु। नाना विषु पक्षिषु प्रमुखास्तेषामालयः गृहं तथा। पृथुकस्य शिशोश्चन्द्रस्यावासः वासस्थानं शम्भुस्तस्याद्यागारं मुख्यगृहं। भुजगारिपत्रस्यशिखिवाहनस्य वासेन श्रेष्टः। आर्यायाः पार्वत्याः अनवरार्ध्यसद्म। च। गणराजः गणपतेः श्रीमत्या सभया मन्दिरेण भास्वरश्च। सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपीति मेदिनी॥ 47॥

ब्रह्मण्यैश्च विशारदैः सुसरलैः शक्राधिकैः शोभितं

श्रीमद्भिः शिवयादवैर्दधिफलैर्गाङ्गेयशृङ्गैश्च तत्‌॥

यज्ञाङ्गैरुचिरंहलप्रियचयेर्नागै रथैर्वाजिभि-

र्नैकैर्विरतरैर्यतं च गणिकाव्रातैश्च रम्भाजयैः॥48॥

कीदृशं पुरं। शिवैः कल्याणयुतैः यादवैः शोभितं। कीदृशैः ब्रह्मणि विप्रे साधवस्तैः। विशारदैः सुप्रगल्भैः। अत्यन्तसरलैः। इन्द्राधिकलक्ष्मीवद्भिः। च। पुनः कीदृशं पुरं। दघ्ना नारिकेलादिफलैश्च। गाङ्गेयं सुवर्णं शृङ्गं प्रधानं येषु रजतादिषु तैः। यज्ञैः तदङ्गैश्च सहितम्‌। हलनः रामस्य मित्रगणैः। नैकैरनेकैः गजादिभिः। रम्भां स्वर्वेश्यां जयन्ति तैः वेश्यावृन्दैश्च युतं च॥ कैलासं तु। ब्रह्मण्यैः तूदद्रुमैः। विशिष्टैः शारदैः सप्तपर्णैः शोभनैः सरलैः पीतद्रुभिः। शकेभ्यः कुटजेभ्यः संख्ययाधिकैः श्रीमद्भिस्तिलकद्रुमैः। शिवयामलक्या शम्या वा जात्यैकवचनं। दवैः वनैः दधिफलैः कपित्थैः। सुवर्णशिखररैपि शोभितं यज्ञाङ्गैरुदुम्बरैः हलिप्रियाणां कदम्बानां चयैः गणैः। नागैः गजैः फणिभिर्वा रथैः वेतसैः। वाजिभिः पक्षिभिः। वीरतरैः ‘वा?Rला’ इतिप्रसिद्धं सुगणिकानां शोभनयूथिकानां वृन्दैः रम्भाभिः कदलीभिः जयैः श्रीपर्णैश्च सहितं॥ अत्राग्रिमपद्यचतुष्के च ब्रह्मण्यादिशब्दानां मूलं कैलासपक्षेमरकोशे वनौषधिवर्गे द्रष्टव्यम्‌॥48॥

माधव्यो घनचिकुराश्चन्द्रास्या बहुपराः प्रकामरुचः॥

जम्भालिकुचा महिलाः प्रवालशोभाधराश्च शुकनासाः49

शतपत्राधिकनेत्रा हेमाभिख्याः सुचित्रका यत्र॥

अतिमोचोरुवयस्थाश्चलदलका भूरिवज्रलोहितकैः॥50॥

युक्ता मुक्तावलभिर्भान्ति सकुन्दद्विजाः सदालकुलाः॥

बहुसुमनसो ह वेणीसुवहा आलङ्गितास्महरिपतिभिः 51॥

यत्र पुरे माधवानां यादवानां स्त्रियः माधव्यः। परा अन्याः स्त्रियश्च बहु यथा स्यात्तथा भान्ति स्म कीदृश्यः। वना मेधा इव चिकुराः केशा यासाम्‌। प्रकामात्यन्ता रुक्‌ कान्तिर्यासां। जम्भस्य जम्बीरस्य रलयोरैक्यादरयः कुचाः या सां। प्रवालः विद्रुम इव शोभा येषां तेऽघरा ओष्ठा यासाम्‌। शुकस्येव नासा यासां। शतपत्रात्कमलादधिकानि नेत्राणि यासां। हेमवदभिख्या कान्तिर्यासां। सुचित्रकाः शोभनतिलकाः। मोचां कदलीमतिक्रान्ता ऊरवः यासां ताश्चा ता वयस्थाश्च वयस्थस्तरुणो युवेत्यमरः। चलन्तोऽलकाश्चूर्णकेशा यासां। घनचिकुरा इत्यनेन नीलत्वं। अनेन चञ्चलत्वं। भूरिसुवर्णं। वज्राः हीरकाः। लोहितकाः माणिक्यानि च

तैः तद्भूषणैरित्यर्थः। मुक्तावलिभिः हारैश्च युक्ताः। सुकुन्दमिव द्विजा दन्ता यासां। सत्यः प्रशस्ता आलयः वयस्याः यासां। ईषदूनाः सुमनसः देव्यः। बहुसुमनसः देवताकल्पाः। विभाषासुपो बहुच्‌ पुरस्तात्तु इति बहुच्‌ प्रकृतिलिङ्गक इतिवचनात्प्रकृतिलङ्गता। अहिः सर्पं इव वेणी तस्याः सुवहाः सुष्ठु वहन्तीति हरिः शक्र इव पतयस्तैरालिङ्गिताश्च। कैलासपक्षे। यत्र कैलासे। परा उत्तमाः। माधव्यादयः भान्ति। तत्र माधव्यः वासन्त्यः। चन्द्रः कम्पिल्लं आस्यं मुख्यः यत्र। जम्भाः जम्बीराः। लिकुचाः महिला ‘वाघाटी’ ति प्रसिद्धं। शुकनासाः स्योनाकाः। हेमाभिख्याः काञ्चनाह्वयाः चम्पकाद्याः। सुचित्रकाः शोभनाः वह्निसंज्ञका एरण्डाश्च। अतिशयिता मोचाः रम्भाः। शाल्मलिद्रुमाश्च। उरु वयस्थाः महावलक्यः। चलदलकाः पिप्पलाः। भूरिभिः बहुभिः। वज्रैः सीहुण्डद्रुमैः रोहितकैः रोहिद्रुमैश्च युक्ताः। वेण्यः देवता़डाः। सुवहाः शेफलिकाः। सुष्टु कुन्दानि च द्विजा भार्ग्यश्च पक्षिणो वा कीदृशा एते। घनाः सान्द्राः चिकुराश्चपलाश्च। चपलश्चिकुरः समावित्यमरः। प्रकृष्टः कामः यतः सा रुक्‌ कान्तिर्येषां। प्रवालैः पल्लवैः शोभाभृतः। प्रवालोस्त्री किसलये वीणीदण्डे च विद्रुमे इति मेदिनी। शतान्यसंख्यानि पत्राणि येषामधिकानि नेत्राणि मूलानि येषां ते च ते। वह्व्यः सुमनसः पुष्पाणि यत्र। सदा अलयः भ्रमरा यत्र। हरीणां शुकानां कपीनां सर्पाणां च पतिभिरालिङ्गिता आश्रिताश्च। मुक्तपङ्क्तिभिश्च युक्ताः। इमानि विशेषणानि यथासंभवं ज्ञेयानि॥ 49॥ 50॥ 51॥

शुकगालवशाण्डिल्यागस्त्यभरद्वाजकौशिकाग्रीयाः॥

सव्यासाश्चाग्निमुखा यत्र समूहा वसन्ति सोल्लासाः॥ 52॥

यत्र पुरे शुकाद्रयः षडग्नीया मुख्या यत्र ते। व्यासयुताः। अग्निमुखाः विप्राः वसन्ति स्मेति पूर्वस्यानुषङ्गः कौशिकः विश्वामित्रः। कीदृशाः सम्यक्‌ ऊ हस्तर्को येषां। सोल्लासाः सानन्दाश्च॥ कैलासे तु। शुकाः शिरीषा गालवा लोध्राः शाण्डिल्याः बिल्वा। आगस्त्याः मुनिवृक्षाश्च। भरद्वाजा व्याघ्राटपक्षिणः कौशिका उलूकाश्च मुख्या येषु क्रमेण श्रेष्टेषु नीचेषु खगेषु ते। अग्निमुखीनां भल्लातकानामिमे आग्निमुखाः समुदायाः पसन्ति। भवेदग्निमुखो देवे विप्रे भल्लातके स्त्रियामिति मेदिनी। कीदृशाः शुकाद्याः व्यासेन विस्तारेण युताः। प्रफुल्लाश्च॥52॥

चतुःसुधर्मावपने च यत्रात्यन्तं भगानां नवकं चकास॥

लेभे शिवानां त्रितयं चतुष्कं चोत्कर्षमत्यादरमप्यजस्रम्‌ 53

चतुर्णां सुधर्माणां देवसभा सुन्यायः स्वाचारः सुस्वभावस्तेषामावपने पात्रे। यत्र पुरे भगानां नवकं अत्यन्तं शुशुभे। भगं धर्मे च मोक्षे च ज्ञानवैराग्यकीर्तिषु॥ माहात्म्यैश्वर्ययत्नेषु वीर्ये इत्युक्तानि नव भगानि। च। शिवानां सुखक्षेमजलानां त्रयं ऊत्कर्षं लेभे प्राप। सुखादित्रयं उत्कृष्टमासीदित्यर्थः। च। शिवानां पार्वतीशङ्गरवेदामलकीनां चतुष्कं अत्यादरं लेबे। शङ्करादीनां यत्र माहन्‌ आदर आसीदित्यर्थः॥53॥

भूयो व्यक्तगुगौर्मुदादि च सदाश्लेषादिभिः सर्वतः

कुर्वद्यत्सुरसं सुवर्णरचितं प्रासादिकान्तं तथा॥

राजद्रूपकदीपकादिभिरलङ्कारैर्लसत्सर्वतो

भद्राद्यै रुचिरं सुकाव्यमिव भावाद्यैश्च पद्यादिभिः॥ 54॥

अपि च। यत्पुरं सुकाव्यमिव। भूयोभिः अव्यक्तस्य विष्णोः गुणैः च सतां आश्लषादिभिः। आलिगङ्गनार्चनमनादिभिः। सर्वत्र। मुदादि आनन्दाद्यं कुर्वत्‌। च शोभना रसा भूमिर्यत्र। सुवर्णेन रचितं। प्रासाः कुन्ताः आदयः येषु खङ्गगदादिषु। तैः कान्तं सुन्दरं यद्वा। प्रासादाः सन्ति यस्मिन्तत्‌ कान्तं च। रूपकमाकारः दीपकाः प्रदीपाः तदादिभिः राजत्‌। च। अलङ्कारैः वितानमुक्तागुच्छादिभिः राजत्‌। सर्वतोभद्राद्यैः। आद्यशब्देन। स्वस्तिकनन्द्यावर्तविच्छन्दकादेर्ग्रहः॥ भा कान्तिः वाद्यानि च तैः। पद्याः मार्गाः तदाद्यैश्च सुन्दरं। काव्यं तु॥ श्लेषादिभिः। श्लेषः प्रसादः समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः। इत्युक्तैः। व्यक्तैः स्फुटैः गुणैः। शोभनाः रसाः शृङ्गारादयः यत्र। शोभनैः वर्णैः रचितं। प्रासादिभिः। आदिना यमकादेर्ग्रहः। कान्तं। प्रासादिकं च तदन्तं रम्यं चेति वा सर्वतोभद्रचक्रबन्धगोमूत्रिकादिभिः। भावाद्यैः अभिप्रायाद्यैः। पद्यानिश्लोलाः आदिना गद्यादेर्ग्रहः॥ 54॥

एष क्रूरतमः सजातिरसकृच्चास्मत्पुरस्वामिनः

कूटस्थं तुदति द्विजाधिपमृजो रीतिं बिभर्तीतराम्‌॥

सोढव्यं कथमागसां त्रयमदोस्माभिर्महावंशजैः

केतुं जेतुमतो गताः किलनभो यस्मिन्बभुः केतवः 55॥

एषः। सजातिः। अतिशयेन क्रूरः इत्येकोपराधः। ऋजोः सरलस्वभावस्य अस्माकं पुरस्य पत्युः कूटस्थं मूलपुरुषं विप्रोत्तमं मुहुः पीडयति इति द्वितीयः। इतरां नीचां रीतिं दधातीति तृतीयः। किलोत्प्रेक्षायां। वस्तुतः। क्रूरश्चासौ तमसः राहोः। सजातिश्च द्विजाधिपं चन्द्रं। ऋजोः सकाशादितरां भिन्नां वक्रांईतिं गतिं। वंशाः वेणवः॥55॥

पावित्रयमालोक्य यदीयमग्र्यं

गङ्गा जगामाशु रसातल सा॥

भेजेर्कपुत्री किलनीलिमानं

सरस्वती गुप्तवती स्वमूर्तिम्‌॥56॥

अर्कपुत्री यमुना। गुप्तवती गोपयतिस्म। भागीरथी प्लायत नागलोकमिति वा पाठः॥ 56॥

सुधिष्ण्यः सद्योगोथ शुभकरणो भव्यतिथिभाक्‌

सतां वर्गैः कान्तः सुतनुरनुकूलांबरचरः॥

मूहूर्तोत्रोद्वाहे हरिरिव सुवाराश्रयकरो

ऽमिलद्ध्युक्तिस्तुल्यं च मिलति समस्येति न मुषा॥57॥

कीदृशः मूहूर्त्तः। सुष्टु धिष्ण्यं नक्षत्रं यस्मिन्‌। भव्यां कल्याणकारिणीं तिथिं भजति। सतां शुभग्रहाणां वर्गैः। होराद्रेष्काणादिभिः कान्तः सुन्दरः। शोभना तनुर्मग्नं यत्र। अनुकूलाः अभरचराः ग्रहाः यत्र। अमिलत्‌ हि। अतो हेतोः। उक्तिः वचः। हरिपक्षे। धिष्ण्यं वैकुण्ठादिस्थानं। धिष्णयं स्थाने गृहेभेग्रौ इत्यमरः। योगः संगतिर्ध्यानं वा। अभवी असंसारी अतिथीन्‌ भजति सेवते। सतां सुनंदनंदादीनां वर्गेः संधैः। शोभना शुद्धसत्वमयी तनुर्मूर्तर्यस्य। अंबरचराः देवादयः। सुवारामतिशयितजलानां अश्रयकरः। जलशायित्वात्‌। 57॥

चित्रं प्रभुर्विवाहे सकलममंगलमसावपाकर्तुं॥

तनु जाया वस्वंबरं भवनान्यादादमंगलान्येव॥58॥

तनुः देहः। जाया पत्नी। वसूनि धनरत्नानि। अम्बराणि वस्त्राणि। भवनानि गृहाणि। अमंगलानि अशुभान्येवेति विरोधः। परिहारे। तन्वादीनि प्रथमसप्तमाष्टमदशमानि भवनानि स्थानानि। अमंगलानि भौमरहितानि।

रविर्मग्ने चंद्रस्तनुरिपुमृतिस्थः क्षितिसुतो

ष्टलग्नाभ्रे ज्ञेज्यौ निधनउशनस्त्र्यष्टरिपुषु॥

शनिः शेषो लग्ने तनुपतिरथार्यष्टमगृहे

विवाहे स्युः सर्वे मदनसदने नैव शुभदा॥

इत्युक्तेः॥58॥

चित्रं कृष्णचरित्रं दृष्टं वरणेच्छुरेव वामानां॥

वामौधा निःशेषा नयमतियत्नेन वारयामास॥59॥

वामानां नारीणां। वामानां प्रतीपानामोघान्‌ गणान्‌॥59॥

अस्त्रीभावः स्वस्य नित्यस्तथापि

पाणिन्युक्त्या स्त्रीत्वमेवाल्पतायां॥

तु स्यादेवं भूरभीत्येव शौरे

रुद्वाहेभून्मंडपोलं विशालः॥60॥

मण्डपोस्त्री जनाश्रयइत्यमरः॥ 60॥

तत्स्तांभा रत्नमया आश्रित्यामरगुरोः पदांभोजं॥

आत्मीयजडीभावं दूरीकर्तुं ध्रुवं दिवं जग्मुः॥61॥

तस्तम्भेति॥61॥

स नोल्लोचस्तस्यां तरति विलसन्किंतु पयसां

निधिः पुत्र्याः स्वस्यानुपममवतारांतरभवम्‌॥

विवाहं संद्रष्टुं वियति भृशतुंगं पदमधि-

ष्ठितो दुग्धात्मापीश्वररततया नाप तदधः॥ 62॥

तस्य मण्डपस्य अन्तः। अतिशयेन विलसन्‌। सः उल्लोचः वितानं न। किं तर्हि। अनेन ईश्वररतानां। अधःपातो नैवेति सिद्धं। इयं हेत्वपन्हुतिः॥62॥

तस्मिन्‌ भास्वररतनदीपरुचिरा उल्लम्बमानाश्चिरं

रेजुः सुन्दरकाचकाञ्चनघटीवाराश्च राहुद्विषः॥

द्रष्टुं चारुकरग्रहोत्सवविधिं तुन्दस्थसंख्येतर

ब्रह्माण्डस्थविरोचनाः खलु बहिः किं निर्गता एकदा 63

तस्मिन्निति॥63॥

कान्तं प्रेमपयोनिधिं भगवतः स्वस्मिन्स्मरत्सन्नव

नीतं रागयुतं समस्तमवनौ तस्योपयामोत्सवे॥

साह्यायोत्कमिवोच्चराङ्कवमुखैश्चारूरुचित्रासन

भावं तत्र किमाप साधुमुनिदेवाद्योपवेशाय च॥64॥

तत्र मण्डपे। रागोऽनुरागो लोहितादिश्च। राङ्कवं मृगरोमजमित्यमरः मुखशब्देन वाल्कवस्त्रादेर्ग्रहः। चारु रम्यमुरु महच्च चित्रयुक्तमासनं तस्य भावं। अनयोत्प्रेक्षयातिमृदुत्वादिगुणाः ज्ञेयाः॥64॥

वेद्या उपरि विवाहे लोके प्रथिता स्थितिर्वराङ्गनयोः॥

चित्रं हरिपरिणीतौ दृष्टावेदी वराङ्गनोपरि वै॥65॥

अङ्गनम्प्राङ्गणे याने काशिन्यामङ्गनामतेति विश्वः। परिहारे वरेण कुंकुमेन युक्तस्याङ्गनस्योपरि॥65॥

रुक्मिण्याः कुचसाम्यं स्वस्मिन्स्याद्वा नवेत्यथो द्रष्टुम्‌॥

हैमकुटलसन्मालास्तस्यास्तस्थुश्चतुर्षु काणेषु॥66॥

हेम्नः विकारा हैमाः कुटाः घटाः तेषां लसन्त्यो मालाः। तस्याः वेद्याः॥66॥

तेष्वेव रम्भासु रसालमुख्यै रेजे हरर्गोत्रवधे रतो नः॥

अयं तु गोत्रावनतत्परोतः सेव्योयमेवेति समागतैः किम्‌ 67

तेष्वेव कोणेष्वेव। रम्भास्वर्वेश्याविशेषः। सुराणां साला वृक्षाश्च मुख्यशब्देनोर्वश्यादयः। नोस्माकं हरिरिन्द्रः गोत्रस्य कुलस्य वधे सक्तः। अयं हरिः श्रीकृष्णः कुलस्यावनो रक्षणे तत्परो वस्तुतः। रम्भाः कदल्यः शोभना रसाला इक्षवः। च। मुख्यशब्देन पूगद्रुमाद्याः गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोरिति मेदिनी॥67॥

रम्याः कृत्रिमहंसा उल्लोचालम्बिमौक्तिकोद्गुच्छान्‌॥

अत्तुं प्रतीक्षमाणा विजनावसरं बभुश्च किल तस्याम्‌ 68

रम्याः इति॥ 68॥

सोपानकान्तां प्रतितां शुकद्विजाः

क्लप्ता बभुः श्रीभृदयं शुकप्रियः॥

दास्यत्यतो नः पुरुदक्षिणां कृते

होमेऽनया कामनया स्थिता इव॥69॥

शुकाः कीराः व्यासपुत्रश्च द्विजाः विप्राः पक्षिणश्च॥69॥

मत्स्वामिनिर्मितेयं ह्यस्यां वसतर्ममैव नान्यस्य॥

न्याय्येति मत्सरादिव चित्रावासो बभूव तद्भित्तौ॥70॥

इयं वेदी। मत्स्वामी त्वष्टा तेन निर्मिता। न्याय्या युक्ता। अभ्रेषन्याय्यकल्पास्तु इत्यमरः। चित्रायाः नक्षत्रस्य चित्राणामालेख्यानां चावासः॥70॥

मदुरस्युपविष्टेयं तस्मादहमपि हठादुरस्यस्याः॥

सूपविशामीति रुषा किमु चत्वरमुत्तमं च तत्राभूत्‌॥ 71॥

चत्वरं स्थण्डिलेङ्गने इति मेदिनी॥ 71॥

पर्यस्कारि ज्याखिलावृष्णिपुर्या

सा श्रीकृष्णोद्वाहसद्मोत्तमेन॥

तच्च प्रोच्चैर्मण्डपेनाथ रत्न-

वेद्या सोऽसौ चित्रया रङ्गवल्या॥ 72॥

पर्यस्कारीति॥ 72॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

हर्यो र्यशस्पात्र मकारि काव्यम्‌॥ 73॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविदान्तवाणिवरचिते पञ्चमः सर्गः॥ 5॥


.

***षष्ठः सर्गः। ***

पुष्करकरश्चतुष्कर एतो वृषवो गणाधिपोऽजसमः॥

प्रियमोदको विनायकगोत्रपविवरोध तत्र परिणीतौ॥ 1॥

अजेन विष्णुना समः। गणेश एत आगतः। कीदृशः गणेशः। रलयोरैक्यात्पुष्कलः श्रेष्टः करः शुण्डा यस्य। वृषेण उन्दुरुणा वाति गच्छति वा। गति गन्धनयोः॥ विनायका विघ्ना एव गोत्राः पर्वतास्तेषु पविवरः वज्रश्रेष्ठ इव च। विनायकस्तु हेरम्बे विघ्ने तार्क्ष्ये जिने गुराविति मेदिनी कीदृशः अजः। पुष्करं करे यस्य। अवृषं अधर्मं वाति हन्ति। प्रियाणां भक्तानां मोदकः। आनन्ददः विनायकस्य गुरोः गोत्रं कुलंभृत्‌पुत्रदानेन पाति चासौ विशेषेण वरः श्रेष्ठश्च। विशिष्ठा वारा यस्मादितिवा॥ 1॥

हंसप्रिया वस्वधिभू प्रवाल

हस्ता सुगौरं वसनं वसाना॥

पद्मासना चार्ययशस्करी सा

पद्मासमा तत्र च शारदाऽऽप॥ 2॥

कीदृशी शारदा। हंसः प्रियो यस्याः। वसुरग्निरधिभूः पतिर्यस्याः। प्रवालः वीणादण्डः हस्ते यस्याः। सुगौरं शोभनं शुक्लं च। आचार्यस्य गुरोः यशस्करी। कीदृशी पद्मा। हंसस्य विष्णोः प्रिया। वसूनां धनानामघिभूः स्वामिनी। प्रवालः पल्लव इव हस्तौ यस्याः। सुष्टु गौरं पीतं च। पद्मे आसना स्थितर्यस्याः। लक्ष्मीं सरोजस्थितामित्युक्तेः। आर्याणां साधूनां यशस्करी॥ 2॥

यो हंसगोथ हरिनाभिसरोजहंसो

लोकावलीकुटकुलोष्णमहाकुलालः॥

आम्नायनिर्जरतरूपवनं च तत्र

नेत्राष्टकङ्किमुत तर्पयितुं स येते॥ 3॥

लोकानां आवली पङ्क्तिरेव कुटानां कुलं वृन्दं तस्योष्णश्चतुरश्चासौ महाकुलालः। किमुत अत्यन्तं

बलवत्सुष्टु किमुतस्वत्यतीवचनिर्भरेत्यमरः। येते यत्नं चकार। एतं विवाहं द्रष्टुं ब्रह्मा आगत इत्यर्थः॥ 3॥

सूतो यस्य ससर्ज सर्वजगतीर्धत्ते गुणश्चावनिं

चापं निर्जरमन्दिरं च विशिखः पाति त्रिलोकीं सदा॥

चक्रे ध्वान्तहरे मुदं जनयतश्चक्री बिभर्ति ध्रुवं

विश्वं सोपि तदुत्सवे हरिपुरीं मेने स्वमद्रिं प्रभुः॥ 4॥

सूतः सारथिः ब्रह्मा। गुणः मौर्वी शेषः। निर्जरमन्दिरं मेरुः। विशिखः बाणः विष्णुः। चक्रे रथाङ्गे चन्द्रार्कौ। चक्री रथः पृथ्वी। सचासावुत्सवश्च तत्र। स्वं निजं पर्वतं कैलासं मेने। श्रीकृष्णपुर्यामाविवाहमवसदित्यर्थः॥ 4॥

आदौ या मदिरायतेस्म विखनस्तुत्या मधौ कैटभे

देवार्थं महिषादिवारणगणे सिंहायते स्माग्रतः॥

पश्चाच्छुम्भमुखाऽसुराकरपतंगौघस्य दीपायिता

शोभाले तिलकायिता प्रथमके भ्रातुर्विवाहे च सा॥ 5॥

विखनसः विरंचेः स्तवेन। शुम्भादीनामसुराणामाकरः समूह एव पतङ्गगणस्तस्य शोभाले शोभान्विते भ्रातुः श्रीकृष्णस्य प्रथमके आद्ये विवाहे। अथ चाप्रथमके। न प्रथमः यस्मिन्तस्मिम्‌ शोभाले भालरूपे इत्यर्थः। इदं पूर्वं च पर्यायोक्तं। पर्यायोक्तञ्च गम्यस्य वचोभंग्यन्तराश्रयमित्युक्तेः। श्रीविष्णुगौर्योर्भ्रोतृभगिनीत्वं प्राधानिकरहस्यादौ द्रष्टव्यम्‌॥ 5॥

यो वैनतं दास्यमवेक्ष्य हर्तुं तत्कष्टमिच्छन्नमृतं ददानः॥

धाम्नास तेभ्यो हि जनेभ्य इङ्गञ्जित्वैव तद्देव कदम्बकं च 6

हारं वरं वाहनमङ्गशृङ्गभद्रोथ भद्रोत्तमसाधुपक्षः॥

आभात्तदाव्यक्तसनीडवर्ती नन्दीश्वरोनीडजराजतुल्यः॥ 7॥

इदं युग्मं॥ नीडजानां पक्षिणां राजा गरुडस्तेन तुल्यः। सः नन्दीश्वरः आभात्‌ शुशुभे। सः। कः। यः वैनतं विनतानामिदं दास्यं सेवां दृष्ट्वा। तेषां नम्राणां कष्टं हर्तुमिच्छन्निङ्गं चञ्चलं तेषां देवकदम्बकमिन्द्रियवृन्दं जित्वैव स्थिरीकृत्यैव। तेभ्यः। जनेभ्यः। अमृतं मोक्षं ददान एव भवति हि पदमवधारणे॥ सः। कीदृशः। सः। हरस्येदं हारं वरं श्रेष्ठं वाहनं। किञ्च। अङ्गेन शृङ्गाभ्यां च भद्र उत्तमः॥ च। भद्रेषु वृषभेषु उत्तमश्चासौ साधुपक्षः सज्जनसहायश्च। चाव्यक्तस्य शम्भोः सनीडे समीपे वर्तते तच्छीलः॥ गरुडपक्षे। यः। विमतया तन्नाम्न्या स्वजनन्या प्राप्तं दास्यं दासीत्वं। तत्प्रसिद्धं अमरवृन्दं। धाम्ना प्रभावेण। इङ्गं अद्भुतं यथा स्या त्तथा। इङ्गस्यादिङ्गितेद्भुते। ज्ञानजङ्गमयोरितिहैमः। येषां दासी जता तेभ्योऽहिजनेभ्यः सर्पलोकेभ्योऽमृतं सुधां ददान आस आसीत्‌॥ सः कीदृशः सः हरेरिदं हारं। अङ्गेन देहेन शृङ्गेण प्राधान्येन च भद्र उत्तमः। भद्रेषु श्रेष्ठेषु उत्तमश्चासौसाधुपक्षः सुन्दरगरुच्च। अव्यक्तस्य विष्णोः सनीडवर्ती च अव्यक्तं परमात्मनि॥ महदादौ नाहरे विष्णाविति॥ 6॥ 7॥

भूम्ना शयाश्च विदिता अजितेन यस्य

नप्ता हरेरुपयमं खलु येन नीतः॥

योजप्रियो बलिसुतोर्जुनसाम्यशाली

बाणेन तेन गिरिशानुगाता प्रपेदे॥ 8॥

बाणेन बाणासुरेण गिरिशस्य शम्भोरनुगतानुगस्य भावः प्राप्ता। तेन। केन। अजितेन श्रीकृष्णेन। यस्य शयाः हस्ताः भूम्ना बाहुल्येन विशेषेण दिताः खंण्डिताः। छिन्नं छातं लूनं कृत्तं दातन्दितं छितं वृक्णं इत्यमरः। येन च। हरेः नप्ता प्रौत्रोऽनिरुद्धः उपयमं विवाहं नीतः। च योऽजस्य शम्भोः प्रियः। अर्जुनपक्षे। यस्याशया अभिप्रायाः भूम्नाधिकत्वेन विदिताः ज्ञाताः। अधिकान्मत्वा सिद्धीकृता इत्यर्थः॥ हरे रवेः नप्ता कर्णपुत्रः वृषसेनः। उपयमं यमसमीपे नीतः। हत इत्यर्थः॥ अजस्य श्रीकृष्णस्य प्रियः। बलिनां बलवतां सुतः पार्थिवः हस्तखण्डनादिकर्मणः विवाहोत्तरकालिकत्वेपि कव्युक्तेः प्राक्तनत्वान्न दोषः॥ इयं कथा भागवते।

हस्तखण्डनमपि गर्वनाशकतया भगवदनुग्रहः॥ 8॥

यस्यांको हरिणोत्तमेन शयनीचक्रे तमो हन्ति यः

सामोदं विदधाति यः कुवलयं यो रम्यभोगोदकः॥

यो यः शम्भुविभूषणं हरिकुलाद्यो यः स जैवातृकः

श्रीशेषोपि पपाट तं महमहो यानांघ्रिकष्टंविना॥ 9॥

यस्य शेषस्याङ्कोङ्गम्‌। उत्तमेन हरिणा श्रीकृष्णेन शयनीचक्रे मञ्चकीकृतः। शयनं मञ्चपर्यंका इत्यमरः। तमः अज्ञानं आमोदेनानन्देन सहितं यथा स्यात्तथा। कुवलयं भूमण्डलम्‌। विशेषेण दधाति धत्ते। रम्यः भोगः देहः फणा वा यस्य। अकं पापं द्यति खण्डयति। हरीणां सर्पाणां कुले आद्यः मुख्यः महमुत्सवं। जैवातृकश्चन्द्रः। यस्य चन्द्रस्य अङ्क उत्सङ्गः। अङ्को रूपकभेदाङ्गचिन्हरेखाजिभूषणे॥ रूपकांशान्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः इति मेदिनी। हरिणेषु मृगेषूत्तमेन। सामोदं सुगन्धि प्रफुल्लं च विदधाति करोति। रम्यभः सुन्दरकान्तिः। गोभिः किरणैः कं सुखं ददातीति। हरेः श्रीकृष्णस्य कुलस्य आद्यः मूलं पपाट जगाम। अटपटगतौ॥ शम्भोर्भूषणत्वात्तस्यागमननोनयारोगम नं जातमिति भावः॥ 9॥

पश्यन्तो ब्रह्म विश्वं हरिगिरिशयशो वर्णयन्तो जनाना-

मज्ञानं नाशयन्तो निजकरणरुचा पुष्पवन्तौ जयन्तः॥

यच्छन्तो दर्शनेन प्रमदमथ जटाजूटमुच्चैर्वहन्तो

ध्यायन्तो विष्णुमूर्ति सकरुणहृदया सक्षमा नारदाद्याः10

तस्मिन्नेव करग्रहामरतरौ श्रीकृष्णपादे महा

भूयः पत्रवति प्रभूतसुमनःस्कन्धे सुशाखान्विते॥

श्रीमद्भीष्मसुताद्युतौ नवरसैर्धर्मार्थकामामृतै

श्चाढ्ये चारुफलैर्द्विजा अपि बताऽभूवन्द्विजा एव ते॥ 11॥

निजकरणस्य स्वदेहस्य कान्त्या पुष्पवन्तौ सूर्यचन्द्रौ जयन्तः। ते नारदाद्याः द्विजा विप्रा अपि विप्रा अभूवन्‌ बतेत्याश्चर्ये वस्तुतः पक्षिणोभुवन्‌। यथा वृक्षे खगाः मिलन्ति तथा विवाहे विप्रा मिलन्ति स्मेत्यर्थः। कीदृशे विवाहदेवद्रुमे। श्रीकृष्णः पादः मूलं यस्य तत्र। महान्ति भूयांसि बहूनि च पत्राणि वाहनानि तान्येव पर्णानि सन्त्यस्य। प्रभूताः बहवः सुमनसां देवानां स्कन्धाः समूहास्ते एव पुष्पाणि स्कन्धाश्च यत्र॥ शाखा वेदभागाध्यायिनः कण्वादयस्ता एव शाखा द्रुमाङ्गानि ताभिरत्विते। शाखाशब्देन शाखाध्यायी ज्ञेयः। मञ्चाः क्रोशन्तीत्यत्र मञ्चस्थ पुरुषग्रहणवत्‌। श्रीमती भीष्मसुतैव द्युतिः कान्तिर्यस्य नवभिः रसैः शृङ्गाराद्यैः नूतनद्रवैश्च आढ्ये संपन्नेः। च। धर्मोघैश्चारुफलैराढ्ये॥ अमृतं मोक्षः। इदं युग्गम्‌॥ 10॥ 11॥

अमृतकरकलोब्जोल्लासभूमीकराभोऽ

त्र च वियदुदयो दण्डादिभिः शोभमानः॥

अतिरुचिरतमोदी नेत्रीसनन्दनोर्को

यतिरपि खगतां स्वां दर्शयामास कोपि॥ 12॥

अत्र करग्रहकल्पवृक्षे। अर्कः। कोपि यतिरपि दत्तात्रेयोपि। स्वां खगतां पक्षित्वम्‌। वस्तुतः देवत्वं। कीदृशः सूर्यः। अमृतकरे चन्द्रे कला यस्मादब्जानामुल्लासस्य भूमी स्थानं। करैः किरणैराभातीति वियति गगने उदयो यस्य। माठरः पिङ्गलो दण्डश्चप्डाशोः पारिपार्श्वकाइत्यभरः। अतरुचिरश्चासौ तमः द्यति खण्डयति तच्छीलः। स च। नेत्रिणां सम्यग्नन्दनः हर्षुकश्च। दत्तात्रेयस्तु अमृतस्य जलस्य सुधाया वा करकं कमण्डलुं लाति गृण्हातीति। अब्जयोः शंखपद्मयो रुल्लासस्य शोभायाः हस्ताभ्यामाभातीति। विशिष्टा यदौ यदुभूपे दया यस्य। दण्डाक्षमालाद्यैः। यद्वा। पौनानोहातिलायामैर्दण्डैर्वाक्कायचेतसां शोभमानः। दीने। अतिरुचिरतमः। अत्यन्तसाधुतमः। साधवो दीनवत्सला इति श्रीभागवतोक्तेः। अत्रेः उत्तमपुत्रश्च॥ 12॥

येनार्जुनः सुरभिहृच्च कार्तवीर्यस्तथा कहृत्सवितुः॥

अभिमन्युभूस्तदात्मजवारोप्योजस्विना क्षयं निन्ये॥ 13॥

योभक्ष्णिं समितौ हरेस्तु सविधं स्तोमं द्विजानां ततो

रेफाणां विततान सज्जनपतिर्ज्ञानी विरक्तोपि सः॥

श्रेष्ठं श्रीमधुसूदनोपयमनं संपातुमक्ष्णा भृशं

रामः पर्शुधरः शुकश्च भगवान्‌ जज्ञेतिरागी तदा॥ 14॥

येन रामेण सवितुः पितुः जमदग्नेः सुरभिं कामधेनुं हरति सः कार्तवीर्योर्जुनः। क्षयं निन्ये। ततः मन्योः कोपस्य भूः स्थानं। पितृवधेनातिक्रुद्धः। सवितुः जमदग्नेः कहृन्मस्तकहर्ता। तदात्मजवारोपि। अर्जुनपत्रगणोपि। अभि। न भीः यथास्यात्तथा। नाशं नीतः कीदृशेन येनौजस्विना। ओजो दीप्ताववष्टंभे प्रकाशबलयोरपीति मेदनी। च। परं यः समितौ युद्धे रेफाणां निन्द्यानां द्विजानां क्षत्रियाणां स्तेमं वृन्दम्‌। अभीक्ष्णं मुहुरेकविंशतिवारानित्यर्थः हरेः यमस्य सविधं समीपं विततान चकार। सदेशाभ्याससविधमित्यमरः। अमारयदित्यर्थः। शुकपक्षे। यः शुकः। अरेफाणामुत्तमानां द्विजानां विप्रादीनां समितौ सभायां। हरेः विष्णोः। सविधं विधियुक्तं। विधाविधौ प्रकारे चेत्यमरः। स्तोमं स्तवं कीर्तनयज्ञं वा। स्तोमः स्तोत्रे ध्वरे वृन्दे इत्यमरः। चकार। कीदृशः यः। कार्तवीर्यः। केन ब्रह्मणाप ऋतं पूजितं वीर्यं यस्य ऋते च तृतीयासमासे मासे इति वृद्धिः। ऋतमुञ्च्छशिले जले। सत्ये दीप्ते पूजिते च इति मेदिनी। सुरभि मनोज्ञं हृत्‌ स्वान्तं यस्य। अकं पापं हरतीति। आत्मनः मनसः जवस्य वेगस्यारः जेता। आरोरातिः शनिर्भौम इति हैमः। तदा तत्र काले सवितुः सूर्यादपि ओजस्विना कान्तिमता येल तुकेन। अभिमन्योः भवतीत्यभिमन्युभूः परिक्षद्राजा। अक्षयं अस्य विष्णोः क्षयं गृहं वैकुण्ठं निन्ये नीतः॥ 13॥ 14॥

उभयेऽथांग्निमुखा ये सुरान्द्विषन्तः प्रभूतशमवन्तः॥

गुरुमन्त्रिणोऽमृतभुजः कामदयाढ्याः सदाहवप्रणयाः॥ 15॥

ब्रह्मज्येष्ठाः सूक्षमाः स्वापशून्या-

श्चानाशाका ये च सत्त्वप्रवेकाः॥

स्वस्था येषां जाग्रतीष्टं प्रदातुं

खेगा बोधन्यायशोभाधिका ये॥ 16॥

हव्यानाममृतावां तत्र च ततृपुः पुरैव ते सर्वे॥

श्रीकृष्णो ह्यवतारात्प्रागपि भयदो बभूव कंसादेः 17

अथ ते उभये। अग्निमुखा देवा विप्राश्च। तत्र विवाहे पुरैव ग्रहयज्ञादौ। हव्यानां दैवान्नैः। अमृतानां यज्ञशेषैः। ततृपुः। हव्यानाममृतानामिति तृप्यतेर्योगात्करणे षष्ट्यौ। तत्र निदर्शनम्‌। श्रीकृष्ण इति। ते के। ये देवा असुरान्द्विषन्तः। प्रकार्षेण भूतानां शं सुखं यता स्यात्तथाऽवन्तः रक्षन्तः गुरुः बृहस्पतिः मन्त्री धीसचिवो येषां। अमृतभुजः सुधाशनाः। कामदा कामधेनौ स्यादिति मेदिनी। तयाऽऽढ्याः सम्पन्नाः। सदाहवे यज्ञे अस्य कृष्णस्य हवे आज्ञायां वा प्रणयः प्रेम येषां। ब्रह्मा ज्येष्ठः येषु। सुक्षमाः अतिसमर्थाः। स्वापेन निद्रया शून्याः। अनाशाकाः। न नाशः मरणं अकं दुःखं च येषां। सत्वेन गुणेन प्रवेकाः श्रेष्ठाः स्वस्थाः स्वर्गस्थाश्च। येषामगाः वृक्षाः। इष्टं प्रियं प्रदातुं खे स्वर्गे जाग्रति च ये। बोधः ज्ञानं। न्यायः नीतिः शोभा च ताभिरधिकाः॥ विप्रपक्षे। ये। सुरां मदिरां द्विषन्तः। अत्रानुस्वारस्य परसवर्णो नकारः। प्रभूतः बहुलः शमः असत्येषां। गुरवः महान्तः गायत्र्याद्या मन्त्राः संत्येषाममृतं अयाचितं यज्ञशेषं वा भुञ्जते। कामं प्रकामं दया कृपा तया सम्पन्नाः। ब्रह्मणा तपसा ज्येष्ठाः ब्रह्म तत्वं तपो वेदे इति मेदिनी। शोभना क्षमा क्षान्तिर्येषां। स्वापेनाज्ञानेन शून्याः। स्वापः शयननिद्रयोः। स्पर्शाज्ञतायामज्ञाने इति मेदिनी। न। आशा येषां तेऽनाशाकाः। अत्र शेषाद्विभाषेति कप्‌। सत्वेषु प्राणिषु प्रवेकाः श्रेष्ठाः। येषां गावः वाचः स्मृतिरूपा आशीरूपाश्च खे सुखे ऐहिकमामुष्मिकं च। प्रवृत्तिजन्यं निवृत्तिजन्यं चेति वा। खमिन्द्रिये सुखे स्वर्गे इत्यमरः। इष्टं यथास्यात्तथा दातुं जाग्रति। च। ये। धन्याः यशसा भया कान्त्या चाधिकाः। सदा हवप्रणया इत्यस्य प्रागिवार्थः। यद्वा। सदा अहवे वेदे। श्रुतिराज्ञावपुर्ज्ञानमित्युक्तेः प्रणयौ प्रेमविश्वासौ येषां। हव आज्ञाध्वराह्वाने इति मेदिनी॥ 15॥ 16॥ 17॥

भूपा अनुग्रा अपि शङ्कराश्च

सदा नमर्षा अपि सोत्सवा वै॥

घृणाविहीना अपि सानुकम्पा

भयान्विता अप्यथ निर्भया ये॥ 18॥

नितान्तगौरा अप कृष्णवर्णा

भवाद्विमुक्ता अपि भव्यपूर्णाः॥

अस्त्र्यन्विता अप्यबलाभजन्तः

सनात्वपक्षा अपि पत्रवन्तः॥ 19॥

परदारिणोप्यनङ्गीकृतपरतल्पाः परार्थभाजोपि॥

तेऽनितरद्रविणजुषः सन्निधना अपि किलानाशाः 20

श्रीकण्ठाङ्घ्रिकुशेशये स्वहृदये नित्यं दधाना अपि

निःशेषा उपदायुता ह तृणतां लोके वहन्तोप्यलम्‌॥

मान्याः काण्डभृतोप्यकुत्सितपुषश्चक्षुः सरोजैर्निजैः

पात्तुं प्रापुरमुं विभोः परिणयं चक्रैरवक्रैः समम्‌॥ 21॥

अथ भूपाः। अमुं विभोः श्रीकृष्णस्य परिणयं। निजैः नेत्रकमलैः पातुं सादरमवलोकितुं अवक्रैरनुकूलैश्चक्रैः सैन्यैः साकं प्रापुरिति चतुर्णामन्वयः। कीदृशाः भूपाः अनुग्राः शम्भुभिन्नाः। न अमर्षो रोषो येषां तेपि। उत्सवेनामर्षेण सहिताः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सव इत्यमरः। घृणया कृपया विहीनाः। परिहारे। अनुग्राः सौम्याः। शङ्कराः क्षेमंकराः। घृणया निन्दया रहिताः। जुगुप्साकरुणे घृणे इत्यमरः। भया कान्त्या सम्पम्नाः॥ 18॥

भवात्कल्याणात्‌। भव्येन कल्याणेन पूर्णाः अभलाः वनिताः प्रति। अनेन सकुटुम्बा आगता इति ज्ञेयम्‌। गरुत्पक्षच्छदाः पत्रमित्यमरः। परिहारे। नितान्तं गौराः शुद्धाः कृष्णस्येव वर्णो यशो येषां पुण्यश्लोका इत्यर्थः। भवाज्जन्मनः संसाराद्वा। अस्त्रभिः धनुर्धरैः अन्विताः। त्वेषां अन्येषां पक्षाः सहायाः एकस्त्वोन्येतरावपीत्यमरः। तु। अः कृष्णः पक्षः येषामिति वा। पत्राणि वाहनानि सन्त्येषाम्‌॥ 19॥

प्तरेषां, दाराः संत्येषु परस्त्रीगामिन इत्यर्थः। तल्पं शय्याट्टदारेषु इत्यमरः। नेतरस्य परस्य द्रविणं वित्तं जुषन्ति सेवन्ते। सत्‌ विद्यमानं निधनं मरणं येषां तेपि। अनाशाः मरणरहिताः। परिहारे। परान्‌ शत्रून्दारयन्त्येवं शीलाः। परानुत्तमान्‌ अर्थान्‌ भजन्ति। अनितरं अनिन्द्यं। द्रविणं बलं जुषन्ति। सत्‌ अभ्यर्हितं निधनं कुलं येषाम्‌। अनाशाः तृष्णारहिताः। अनेन वस्त्रभूषाद्याशया नागताः। किन्तु श्रीकृष्णप्रीत्यर्थमेवेति सर्वविशेषणानां साभिप्रायत्वमूह्यम्‌॥ 20॥

श्रीकण्ठस्य शम्भोरङ्घ्री पादावेव कुशेशये कमले। प्रति। ओः शम्भोः पदेनाङ्घ्रिणा अयुक्ताः। उकारः शङ्करे प्रोक्त इत्येकाक्षरः। लोके जगन्मध्ये तृणत्वं तुच्छतां। अलं अत्यन्तं मान्याः। काण्डान्कुत्सितान्ब्रिभ्रति पुष्णन्ति ते। परिहारे। उपदा उपायनं तया युक्ताः। लोके विषये जनरक्षणार्थमित्यर्थः। तृणतां चापं धारयन्तः। काण्डान्बाणान्ब्रिभ्रति धारयन्ति॥ 21॥

कृष्णाशयज्ञा यदवो बलाद्याः

स्तत्रागतानां नमनार्चनाद्यैः॥

निवासतोयादिविहायितैश्च

हृत्कैरवाणां शशिनो बभूवुः॥ 22॥

विहायितैः दानैः। च। हृत्कैरवाणां मनःकुमुदानाम्‌॥ 22॥

या दास्यमाना हरये स्वकन्या

कालिन्द्यभिख्या भविता सपत्नी॥

तस्याः श्व एवेति शुचेव सिन्धौ

चण्डांशुना मन्दरुचा निपेते॥ 23॥

भविता भविष्यति॥ 23॥

अथागतास्तेऽच्युतरूपदातृता-

मुखान्‌ गुणान्‌ वीक्ष्य नितान्तविरिपताः॥

ततो मिलित्वा समितौ परस्परं

महामुदा तानतुलानवर्णयन्‌॥ 24॥

अत्यन्तविस्मिता अभूवन्निति शेषः। ततः। तदनन्तरम्‌ 24

चित्रं तमोरिभमजिह्मकृशानुरूप-

घ्राणं दधत्तिलकमग्निशिखाकरस्य॥

राजीवबन्धुनयनं हृदि कृष्णवक्रं

धृत्वारुणोष्ठमभवाम वयं वितापाः॥ 25॥

तमोरिरग्निरर्को वा भा कान्तिर्यस्य। अजिह्यः अनलसः प्रदीप्त इत्यर्थः। स चासौ कृशानिरग्निः रूपं यस्य तत्‌ घ्राणं यत्र तत्‌ चाग्नेः शिखानां ज्वालानां आकरस्य समूहस्य तिलकं पुण्ड्रकं दधत्‌। राजीवानां बन्धू रवरेव नयने। यत्रा रुणः रविरेवोष्ठौ यत्र तत्‌। अश्लेषपक्षे। तमोरिश्चन्द्र इव भा यस्य। अजिह्मं सरलं कृशं अनुरूपं सुन्दरं घ्राणं यत्र। अग्निशिखेषु आकरस्य श्रेष्ठस्य॥ आकरो निकरे रत्नस्थाने श्रेष्ठे इति मेदिनी। राजीवस्य वन्धू तुल्ये नयने यत्र तत्‌॥ 25॥

यस्याभाति गले नभोमणिरथोदारोब्जशाली करो

व्याहारोपि च मङ्गलोज्ञगुरुता बुद्धौ च पादे शनिः॥

केतुर्धाम महत्तमोत्र भवतः सोयं खगात्माष्टमः

सन्संप्रत्यचलं तनोति कुशलं कोतः परो विस्मयः 26

हे ज्ञ हे वुध। नभोमणिः रविः। अब्जेन चन्द्रेण शालते तच्छीलः। यस्य धाम वपुः। तमः राहुः। खगात्मा। ग्रहरूपः सोयं। अत्र भवतः पूज्यस्याष्टमः सन्‌। अचलं स्थिरं महत्‌ कुशलं कल्याणं तनोति॥ पूज्ये तत्र भवानत्र भवांश्च भगवानिति इति हैमः। शुभत्वात्‌ बुधशुक्रयोरष्टमयोरग्नहणं। वस्तुतः। भो इति सम्बुद्धिः। उदारः महान्‌ मणिः कौस्तुभाख्यः कण्ठेन शोभते॥ पादे अशनिः वज्रः। ध्वजश्च। सोयं खगात्मा देवरूपः। धाम्ना प्रभावेण तेज सा वा महत्तमः। भवतः जन्मतोष्टमः सन्‌। शुभं अत्र लोके विस्तारयति च। अतः श्रीकृष्णात्‌ परः वृद्धोपि कः ब्रह्मा विस्मयः विगतगर्वोभूदिति शेषः॥ 26॥

भो राजन्नखरत्विषा प्रविलसच्छ्रीपुष्करोद्भारितिं

गङ्गाभूतिपदं तथातिकमलं शोणातिरम्यं सदा॥

मोविन्दाङ्घ्रियुगं हृदा यदि धृतं हन्ति द्रुतं प्राणिनां

सुप्रेम्णां कुशवच्च जाड्यमखिलं किं नात्र चित्रं महत्‌ 27

सुप्रेम्णां प्राणिनां जाड्यं शीतलतां हन्ति। कीदृशं युगं। अखरत्विषा चन्द्रेण प्रकर्षेण विलसत्‌। श्रीपुष्करतीर्थेन उद्भासितं। गङ्गानां भूतेः संपत्याः पदं स्थानं।

जान्हवी गौतमी चैव कृष्णवेणी पिनाकिनी॥

अखण्डा चैव कावेरी पञ्चगङ्गाः प्रकीर्तिताः॥ 1॥

इतिस्मृतिः॥ अतिशयितानि कमलानि जलानि स। शोणनदेन रम्यं। कुशं तीर्थं अस्त्यस्मिन्‌॥ वस्तुतः।

नखराणां त्विषां कान्त्या। प्रविलसत्‌। श्रिया शोभया युक्तेन पुष्करेण रेषात्मकपद्मेन। उद्भासितं। गङ्गायाः जान्हव्याः भूतेः जन्मनः पदं । कमलं पद्ममतिक्रान्तं॥ शोणमारक्तं च तदतिरम्यं च अङ्कुशवत्‌। रेषात्मकसृणिमत्‌। च। सुप्रेम्णा हृदा मनसा धृतं चेज्जाड्यमज्ञानं हन्ति॥ भूतिः स्त्री हस्तिशृङ्गारे जन्मसंपत्तिभस्मस्विति रत्नमाला॥ 27॥

अस्याभा पहसत्युमां जयति भो भावो भवं चात्मभू-

र्लावण्येन जितः स्वरातिरुचिरा वाचा पिकं निन्दति॥

कीर्तिर्वैश्रवणं करोति सुधियो वश्यं च देवाधिप

मस्यैवाखिलदेवतोपि वरिमा वित्तो हि लोकत्रये॥ 28॥

भोः सुधियः। अस्य श्रीकृष्णस्याभा कान्तिरुमां पार्वतीं हसति। च। भावः स्वभावः भवं शङ्करं जयति। आत्भभूः ब्रह्मा। स्वरा तस्य जाया। वाचेत्यावन्तं। कं ब्रह्माणं सूर्यं वा। वैश्रवणं कुबेरं। देवाधिपं शक्रं च वश्यमधीनं करोति। हि अतो हेतोः। अस्यैव श्रीकृष्णस्यैव सर्वदेवेभ्योपि वरिमा वरस्य भावः श्रेष्ठत्वं। वित्तः ख्यातः॥ वस्तुतः। उमां अतसीं। भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु इत्यमरः। भवं संसारं। वै पादपूरणे। सुधियः बुद्धिमतः। श्रवणं कर्णं। देवानामिन्द्रियाणामधिपं मनश्च वश्यं करोति। यद्वा हे सुधियः। अवश्यं निश्चयेन। वैश्रवणं विशिष्टं श्रवणं करोतीति वैश्रवणः विशेषेण श्रोतान्तं। शैषिकोण्‌। देवाधिपं विष्णुं करोति। आत्मेभूः मदनः। स्वरैः गान्धारादिभिः श्रेष्ठा। पिकं कोकिलम्‌॥ 28॥

अस्याच्चैःश्रव उत्तमं च जनयत्स्वामोदमर्ध्यां श्रिय-

मालिङ्गद्विगदं सदब्जविशदं सच्चक्रिलीलास्पदम्‌॥

वाहानां द्विविधं चतुष्कमतुलोदारं सुधाराधरं

प्राज्ञा रम्यतरं सुवर्णवलयप्राग्र्यं भृशं भ्राजते॥ 29॥

अस्य श्रीकृष्णस्य वाहानां भुजानामश्वानां च चतुष्टयं भ्राजते शोभते। वाहा भुजे पुमान्मानभेदाश्ववृषवायुषु इति मेदिनी। कीदृशं भुजचतुष्कं। उच्चैः महत्‌ उत्तमं च श्रवः यशः प्रतिजनयत्‌। सुष्टु आमोदः परिमलः यत्र। अर्ध्या श्रेष्ठां श्रियं लक्ष्मीमालिंगत्‌। विशिष्टा गदा यत्र। सद्भ्यामब्जाभ्यां शंखकमलाभ्यां। विशदः पाण्डुरेव्यक्ते इति मेदिनी। सत्प्रशस्तं चक्रं सुदर्शनमस्त्यस्मिन्‌। लीलायाः दैत्यवधादिक्रियायाः आत्यदं। लीला विलासक्रिययोरित्यमरः। अतुलमनुपमं च तदुदारं महत्‌। आजानु इत्यर्थः। शोभनः धाराधरः नन्दकनामखङ्गः यत्र। सुवर्णस्य वलयैः श्रेष्ठं च॥ कीदृशं। अश्वचतुष्कं। उच्चैःश्रवसः शक्राश्वादप्युत्तमं। अस्य श्रीकृष्णस्य। सुष्टु आमोदं अत्यानन्दं जनयत्‌। अकारो वासुदेवे स्यादित्येकाक्षरः। अस्येति पदावृत्तिः। श्रियं शोभां। विगदं नीरोगं। सम्पूर्णः अब्जश्चन्द्रइव शुभ्रं। सत उत्तमस्य चक्रिणः रथस्य लीलाश्रयं। सुधाराणां धरं॥ आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतं। गतयोमूः पंचधारा इत्यमरः॥ 29॥

क्षणप्रभाकोटिमजो रसाल-

यन्त्रेण निष्पीड्य विनिर्ममेस्य॥

वासो युगं नूनमतोस्ति चेदं

क्षणप्रभाकोटिपदं मुरारेः॥ 30॥

अजः ब्रह्मा। क्षणप्रभाणां विद्युतां कोटिं लक्षशतं रसालानामिक्षूणां यन्त्रेणनिष्पीड्य॥ वस्त्रद्वयं निर्मातिस्म नूनमुत्प्रेक्षायां। अत इदं वासोयुगं। उत्सवप्रभयोः कोटेरुत्कर्षस्य स्थानमस्त्येव। उत्कर्षेण उत्सवदायि शोभमानं चेत्यर्थः॥ 30॥

श्रीमानथोमाजनकोतिविस्तृतो

ह्यनन्तनागाधिपमण्यलङ्कृतः॥

उल्लोलशाली हरिवासभूषितो

हिमागतुल्योण्डजमुख्यमण्डितः॥ 31॥

रत्नाकराग्र्योतिपयोमयाति-

मुक्तो धराचैलतया प्रतीतः॥

दत्तः सरस्वानुपमन्यवे स्मे

प्यनेन नेत्रा क्व वदान्य ईदृक्‌॥ 32॥

इदं युग्मं॥ अनेन नेत्रा प्रभुणा सोपि अदेयोपि सरस्वान्‌ समुद्रः। कीदृशः। मायाः लक्ष्म्याः जनकः

पिताऽनन्तसंज्ञकः। नागाधिपमणिः भुजङ्गराजरत्नं तेनालङ्कृतः। अनन्तनागाधिपस्य मणिभिः फणारत्नैः भूषित इति वा। उल्लोलैः महातरङ्गै शालते तच्छीलः। हरेः विष्णोः वासेन भूषितः। वासो गृहे निवासे चेतिमेदिनी। अण्डजषु पक्षिषु मुख्येन गरुडेन अण्डत्तमुख्यैः मत्स्यादिभिश्च मण्डितः। रत्नाकरेषु समुद्रेषु अग्र्यः मुख्यः। अतिपयोमयः प्रकृष्टदुग्धप्रचुरः। अतिशयिता मुक्ताः मौक्तिकानि सनकाद्याश्च यत्र स चासौ स च॥ अतिप्रकर्षे लङ्घने भृशे॥ स्तुतावसम्प्रतिक्षेपेपीति हैमः। धरायाः भूमेः चैलतया वस्त्रत्वेन प्रतीतः ख्यातः। हिमाचलस्तु। उमायाः जनकः। अनन्तैः निरवधिभिः नागाधिपैः गजराजैः। मणिभिः रत्नैश्चालङ्कृतः। मण्यपेक्षया नागाधिपानामभ्यर्हितत्वात्पूर्वनिपातः। उल्लोला अतिचञ्चलाः शालाः वृक्षाः संत्यत्र। वृक्षवाची सालशब्दो दन्त्यादिस्तालव्यादिश्च। हरीणां सिंहानां वासेन भूषितः। अण्डजाः पक्षिणः मुख्या यत्र तैः भूषितः। रत्नानामाकरैः खनिभिः श्रेष्ठः। अतिशयिताः पयः जलं। मयाः उष्ट्राः अतिमुक्ता वा सन्त्यत्र। यत्र धरेषु पर्वतेषु अचैलतया। उत्तमत्वेन प्रतीतश्च॥ 31॥ 32॥

स्वं पूर्णे शिबिनैकदैव जनने दत्तं द्विजार्थं पल

मात्रं भूरि वनीयकाय जगरं कर्णस्त्वपूर्वन्ददौ॥

चक्रे कुप्रतपादनं बलिरतः क्वेमे क्व चायं दिश-

न्नार्येभ्योद्य्रधिकं सुवर्णममृतं कुर्वन्वरोत्सर्जनम्‌॥ 33॥

शिबिना राज्ञा। पूर्णो समग्ने जनने जन्मनि एकदैव पलमात्रं निष्कप्रमाणं भूरि सुवर्णं। दत्तं। कर्णस्तु। वनीयकाय याचकाय। अपूर्वं। आद्यवर्णरहितं जगरं गरं विषं ददौ। कुप्रतिपादनं कुत्सितं दानं॥ अयं श्रीकृष्णः। अद्रेः पर्वतादप्यधिकं वरमुत्तमं च तदुत्सर्जनं दानं च। वस्तुतः। द्विजार्थं कपोतखगार्थं। भूरि प्रचुरं स्वं स्वशरीरजं पलमात्रं मां समेव। जगरं कवचं। कोः भूमेः प्रतिपादनं। अद्रिषु वृक्षेषु अधिकं पारिजातं सत्यभामायै। अद्रयौ द्रुमशैलार्का इत्यमरः। सुष्टु वर्णं रूपं कुब्जायै। अमृतं मोक्षं द्विजपत्न्यादिभ्यः वराणां दानं च॥ 33॥

इन्द्रत्रा भुवनत्रयं कृतमुपेन्द्रेण श्रुतिर्ब्रह्मसा

च्चक्रे धर्मगुपा वृकाच्च हरिणा त्राणोज एतत्सम्‌॥

पुण्यश्लोकवरोपि पुण्यजनपान्संख्येषु संख्येतरा

न्धर्मान्वर्धयतो वधीदयमिदं नो देशरूपं विदन्‌ 34

हे विदन्‌ विद्वन्‌। उपेन्द्रेण इन्द्रावरजेन इन्द्रत्रा। शक्राधीनं च धर्मं गोपायते इति धर्मगुप्‌ तेन। श्रुतिः वेदः। ब्रह्मसात्‌ विप्राधीना कृता। वस्तुतः। विरञ्च्यधीनाच हरिणा मृगेन्द्रेण सिंहेन्‌ वृकादजः छागाः। त्राणः। त्रातं त्राणं रक्षितमित्यमरः। विष्णुना वृकासुरादजः शम्भुः त्रातः। वस्तुतः। एतत्समं तुल्यं। उचितमितियावत्‌। पुण्यवल्लोकान्पान्ति तान्‌। संख्ये तरानसंख्यान्‌। अयं श्रीकृष्णः अवधीदिदं देशरूपं समञ्चसं। नो न। वस्तुतः पुण्यजनपान्‌ राक्षसपालान्‌ रावण कंसादीन्‌। कीदृशान्‌। धर्मं वर्धयतः। छेतॄन्‌। इदं देशरूपं नो इति काक्वा देशरूपमेव। अनेनापि ब्रह्मेशेन्द्रेभ्योप्याधिक्यं द्योतितम्‌॥ 34॥

कान्तैः सारसपुण्डरीकविसरैः सौगन्धिकाद्यैः सुर

सालाद्यैः कुवलाण्डजादिनिकरैर्हंसव्रजैश्चोत्तमः॥

अत्युच्चो हरिणाश्रितः सदमृतो देवैश्च संसेवितः

श्रीमान्मानससंनिभो विजयते गोवर्धनो गोधरः35

सोनेन वृष्ट्या अतिदारुणाया-

स्त्रातु व्रजं सप्तदिनान्यृते श्रमम्‌॥

एकेन हस्तेन धृतो हि बाल्ये

चैतादृशः कोस्ति पराक्रमीतरः॥ 36॥

इति युग्मम्‌। मानसं देवसरः। तत्तुल्यः गोवर्धनाह्वः गोधरः क्ष्माभृत्‌ विजयते। कीदृशः गोवर्धनः सारसाः पुष्कराह्वपक्षिणः। पुण्डरीका व्याघ्राश्च। तेषां विसरैः। च। सौगन्धिकाद्यैः गन्धकादिभिः। आदिना

मनः शिलादेर्ग्रहः। शोभनै रसालाद्यैः। आम्रादितरुभिः। कुवलादीनां बदरादीनां। अण्डजाः पक्षिणः तदादीनां च निकरैः। वृन्दैः हसानां साधूनां व्रजैश्चोत्तमः॥ हरिणैराश्रितः। हरिणा सिंहेन वाश्रितो जात्यैकवचनं। सत्प्रशस्तं अमृतं जलं यत्र। सत्यः अमृताः मागधी धात्री पथ्या यत्रेति वा। देवैः मेघैः॥ मानसंतु। सारसानां कमलानां पुण्डरीकाणां सितकमलानां च वृन्दैः। सौगन्धिकाद्यैः कल्हारप्रमुखैः। सुराणां सालैः वृक्षैश्चा द्यशब्देन कल्पलताग्रहः। कुवलैः मुक्ताफलैः। अण्डजादीनां मीनादीनां गणैश्च। हरिणा शक्रेण। सत्‌। अमृतं जलं सुधा वा यत्र देवैरमरैः। श्रमं ऋते। विना॥ 35॥ 36॥

मूलं कूर्मः प्रकाण्डो भुजगपरिवृढोमुष्य शाखा दिशा वै

पत्राण्यादित्युमुख्याः कलिगणउडवः पुष्पवन्तौ च पुष्पे॥

अग्रं लोकेशलोकः फलममृतमयं पक्षिणोमुत्र सन्तो

ऽखण्डानन्दो रसोयं जयति मुररिपोः कीर्तिकल्पद्रुमोस्य 37

अस्त्री प्रकाण्डः स्कंन्धस्यादित्यमरः। आदित्यमुख्या देवादयः। अमृतमयं मोक्षरूपम्‌॥ 37॥

ईशानोयं वियुक्तो यदि धवलतनुश्चन्द्रमौलिः प्रियो मे

ब्रह्माण्डव्यापिकीर्तौ दनुतनुजभिदो मिश्रितो नो लभेत॥

इत्थं भीत्या कदापि त्यजति न गिरिजा नूनमर्धांगमैश-

मेवं मन्यामहे चेन्नहि कथमबलासक्त एवं विरक्तः॥ 38॥

एवमनुपमः विरक्तः। एवमत्यन्तमबलासक्त इति एवमित्यावृत्या योज्यम्‌॥ 38॥

श्वशुरमतिदिदृक्षुस्त्र्यंबको जात्वगाच्छ्री-

हरियशसि निमग्नं तं न दृष्ट्वा हिमाद्रिम्‌॥

मृत इतिखलु मत्वा सोतिमात्रं रुरोद

सकलजगति लेभे तेन रुद्राभिधानम्‌॥ 39॥

जातु कदाचित्‌ अतिमात्रं भृशम्‌। रुद्र इत्यभिधानं नाम॥ 39॥

मिलामि कंसद्विडुदारकीर्तौ

ज्ञास्यन्ति मा दारसुतादयः कथम्‌॥

इत्यङ्कमात्राय विधुः कुरङ्गं

धृत्वाङ्क आसीन्मृगलांच्छनो ध्रुवम्‌॥ 40॥

कंसद्विषः कृष्णस्य उदारकीर्तौ महायशासि। मा मां। अङ्कमात्राय चिह्नायैव। अङ्के उत्सङ्गे॥40॥

कृष्णादजायत यशोङ्ग नितान्तगौरं

तेनावृणोद्धवलिमाखिलविष्टपानि॥

तेनैव साधुजनताऽजनि रागिणी च

तेनाऽसितीभवति सा ननु किंन्न चित्रम्‌॥ 41॥

तेन गौरयशसा। धवलिमा शुभ्रत्वम्‌ सर्वभुवनानि प्रत्यावृणोत्‌। तेनैव यशसैव रागिणी रक्ता। वस्तुतः अनुरागवती। अजनि जाता। तेन रागेण। असिती भवति कृष्णीभवति। वस्तुतः। मुक्तीभवति। अश्लेषपक्षे। इदं चित्रं किं अपि तु न। गौरः पीते रुणे श्वेते इति मेदिनी॥ 41॥

अहो अदारा अपि कृष्णभक्ता

सनन्दनाद्या भुवने जनाः स्युः॥

जाताः सदारोपि हरेरभक्तो

भवेदजातो जननान्वितश्च॥ 42॥

अपत्नीका अपि कृष्णभक्ताः जनाः नन्दनाद्यैः पुत्रपौत्रादिभिः सहिताः जाताः स्युः सपत्नीकोप्यभक्तः जननेन सन्तानेनान्वितः अजातो भवेत्‌। जातो न स्यात्‌। अभावे नह्यनो नापीत्यमरः। अद्भुतं

भक्तिमाहात्म्यमित्यर्थः॥ अथ च। सनन्दनप्रभृतयोऽदाराः नैष्ठिकाः कृष्णभक्ताश्च सन्तः। अजनाः अजन्मानः। जननं जनः। जाताः स्युः॥ अभक्तस्तु। अजाया इत्यजातः अविद्याया हेतोः। सन्तः विद्यमाना आराः कामक्रोधादिशत्रवः यत्र सः। जननेन जन्मनानुमृतो भवति॥ 42॥

आज्ञप्तः पुरतोस्य गातुममरैर्गंधर्वराजस्तदा

मत्वा गानगुणं निजं यदुपतेर्गानादतिक्षुल्लकम्‌॥

हूहू इत्यकरोद्दरेण समृपाङ्गानीतशीतज्वरो

हूहूरित्यभिधामवाप सकले तेनैव लोके किल॥ 43॥

दरेण भयेन मृषां अङ्गे आनीतः शीतज्वरो येन सः। हूहू इति शीतज्वरानुकरणम्‌॥ 43॥

अवहन्‌ रसनिधिगाना नाकप्राणिव्रजैः सदा जुष्टाः॥

अस्यातिपद्मवदनाः स्वर्वेश्याश्चापगाः प्रियं प्राज्यम्‌॥ 44॥

स्वर्वेश्या उवर्शीमुखाः। नद्यश्चास्य श्रीकृष्णस्य प्राज्यं बहु। प्रियमिष्टं। अवहन्‌ चक्रुरित्यर्थः। कीदृशाः स्वर्वेश्याः। रसानां निधिः गानं यासां। नाकप्राणिनां देवादीनां व्रजैः गणैः जुष्टाः सेविताः। पद्ममतिक्रान्तं वदनं यासां ताश्च। नद्यस्तु। रसनिधिं जलधिं गच्छन्तिताः। नानाऽनेके कप्राणिनः जलजन्तवस्तेषां व्रजैः जुष्टाः। अतिशयितानि पद्मवदनानि यत्र ताश्च वदनशब्देन कुमुदादेर्ग्रहः॥ 44॥

रातं गरं पूतनया यदास्मै

सन्नेष पोतोपि तदा तदागसे॥

दत्वा विपाकं बत तस्य तस्याः

पोतो भवाब्धावभवच्च नाविकः॥ 45॥

रातं दत्तं। तदा। एष श्रीकृष्णः पोतः शिशुः सन्नपि। तदागसे तस्याः पूतनायाः आगसे पापाय। तस्य गरस्य विपाकं परिणामं नाशमित्यर्थः दत्वा। भवाब्धौ विषये। भवसिन्धुतरणार्थमित्यर्थः। पोतः समुद्रतरणनौका। नाविकश्चाभूत्‌॥ 45॥

परमं जनपदमैरावत्यं गमनश्च पुण्डरीकाक्षः॥

सत्कुमुदक्षणदेशो वामनरुक्‌ पुष्पदन्त भालश्च॥ 46॥

अथ सुप्रतीकमूर्तिश्च सार्वभौमश्रवा अपि स एषः॥

सपूर्णगोपनागो मातरमालोक्य यष्टियुक्तां ताम्‌॥ 47॥

संपश्यतो महान्तं द्वीपिनमध्न्यासकृत्करेर्नूनम्‌॥

सपदि दधार दशाम्भोवदावदातो वदाद्भुतं किंनु॥ 48॥

सोयं संपूर्णाः गाः दिशः पान्ति ते गोपाः ते च ते नामाः गजाः यत्र सः। सर्वदिग्गजवानित्यर्थः। यष्ठियुक्‌ च॥ तां तां। कृशां मातरं धेनुं॥ माता जनन्यां गोभूम्योरित्यमरः। आलोक्य। महान्तं विशालं। द्वीपिनं व्याघ्रं। सम्यक्‌ पश्यतः। अध्न्यायाः धोनोः सकृत्करेः वत्सस्य। दशां दधार। भोः वदावद हे वक्तः अतोद्भुतं किं तद्वद। सः कः। यः परं श्रेष्ठमन्यद्वांऽजनस्य पश्चिमदिग्गजस्य पदं स्थानं। अत्राञ्जनैरावतादिशब्दैः दिग्गजा ज्ञेयाः।

ऐरावतः पुण्डरीको वामनःकुमुदोञ्जनः॥

पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः॥

इत्यमरः। ऐरावतोस्त्यस्मिन्तदङ्गनं यस्य। पुण्डरीकोक्ष्णि नेत्रे यस्य। सन्‌ शस्तः कुमुदस्य क्षणः निर्व्यापारस्थितिः तस्य देशः स्थानं। वामनः रुचि यस्य रुक्‌ स्त्री शोभात्विडिच्छासु इति मेदिनी। पुष्पदन्तः भाले यस्य। सुप्रतीकः मूर्तौ देहे यस्य। सार्वभामः श्रवसि कर्णे यस्य स च॥ वस्तुतः संपूर्णेषु गोपेषु भूपेषु देवेषु च नागः श्रेष्ठोपि यष्ट्यायुक्तां तां प्रसिद्धां यशोदां मातरं। दृष्ट्वा। सः कः। परममुत्कृष्टं। जनानां पदं त्राणं। पदं व्यवसितत्राणस्थानमित्यमरः। ऐवारती विद्युदिवा ङ्गना जाया यस्येति वा। पुण्डरीकं सितांभोजमिवाक्षि यस्य सन्तः साधव एव कुमुदानि कैरवाणि तेषां क्षणदेशः चन्द्र इव। अवामना दीर्घा रुक्‌

कान्तिर्यस्य तेन पुष्पेण कमलेन। पुष्पकविमानेन वा। दन्तानां भया कान्त्या चाल्यते। अल्‌भूषणादौ घञ्‌। शोभनाः प्रतीका अवयवा यस्याः सा मूर्तिर्यस्य सः। सर्वभूमौ प्रतीतं सार्वभौमं श्रवो यशो यस्य स च। अनेनात्यन्तं भक्तवश्यता द्योत्यते॥ 46॥ 47॥ 48॥

कंसाद्याः प्रसुवं गुरं च जनकं धर्मं यमं च क्षमां

ताधुं मोक्षघृणे क्रमेण वडवां वाचस्पतिं मैथिलम्‌॥

पार्थं दण्डधरं भुव्रं च सुषमं मुष्कद्रुकुत्से विद्रु-

र्नीनास्तेप्यमुना ध्रुवं स्वभुवनं क्वेदृक्कृपासागरः॥ 49॥

प्रसूरश्वाजनन्योश्चेति मेदिनी। सुषमं साधु शोभनमित्यमरः मोक्षस्तु मुक्तिमुष्कद्रु मोचने इति मेदिनी। मातापितृगुरुधर्मादीनप्यजानन्त इत्यर्थः। यमः। अहिंसाऽस्तेयसत्यादिः। क्षमा क्षान्तिः। साधुः सज्जनः। घृणा कृपा॥ 49॥

पद्मासमक्षमृषिणा भृगुणाधिपोयं

लत्ताहतोप्युरसि नैव चुकोप किन्तु॥

वध्वेव वंजुलतरुर्विकसन्तदंघ्रि

संवाहनं प्रियतया व्यतनोत्क्षमासौ॥ 50॥

वंजुलोशोकः॥

लत्ताहतः प्रमदया विकसत्यशोकः

शोकं जहाति बकुलो मुखसीधुसिक्तः॥

आलिङ्गितः कुरुबकः कुरुते विकास

मालोकितस्तिलक उत्कलिको विभाति॥ 1॥

इति। असावनुपमा। क्षमा क्षान्तिः॥ 50॥

सुरापगाप्यस्य पदाब्जरेणून्‌

धत्ते हि सर्वा जगतीः पुनीते॥

मलापहा कीर्तिरपि श्रितास्या

त्पौत्यं च कथ्यङ्कियदेतदीयम्‌॥ 51॥

पूतस्य पवित्रस्य भावः पौत्यं। कीर्तिः प्रसादयशसोर्विस्तारेकर्दमेस्त्रयामिति मेदिनी॥ 51॥

अस्य प्रभोर्धार्मिकतां निशम्य

ययातिरुच्चान्यपतत्सुरालयात्‌॥

प्हिया निलल्ये मुनिभिर्गुहासु

कूपे निपेते च नृगेण नन्विति॥ 52॥

कारुण्यमुख्यार्यगुणांबुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविंदविप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 53॥

इति श्री रुक्मिणीपाणिग्रहणकावये गोविन्दान्तर्वाणिविरचिते षष्ठः सर्गः॥ 6॥


.

सप्तमः सर्गः।

सूत्रावृतसोपलदृषदुपरि निशानिर्मितावथाभ्यर्च्य॥

गौरीहरौ वधूः सा मनसातुष्टाव तत्र तिष्ठन्ती॥ 1॥

या पूर्वचन्द्रवदन्प्त शिशुचन्द्रमौलेः

प्राणप्रिया सुषमचन्द्रविभूषणाढ्या॥

चन्द्रप्रभारुचिरचन्द्रमुखाङ्गरागा

साम्बा करोतु करुणां मयि सुप्रसन्ना॥ 2॥

सुषमैः सुन्दरैः चन्द्रस्य हेम्नः विभूषणैः संपन्ना। चन्द्रः सुवर्णमिव प्रभा यस्याः। रुचिरः चन्द्रमुखैः कर्पूराद्यैः अङ्गरागौ यस्याः सा च॥ 2॥

इंदुर्यदीयसुयशो रुचिरं त्रिलोकी-

व्यापि स्वकान्तिजिदवेक्ष्य भृशं क्षिणोति॥

क्षीरोदधिश्च पृथुभङ्गधरः सदाभू-

त्सांबा करोतु करुणां मयि सुप्रसन्ना॥ 3॥

भङ्गो जयविपर्यये॥ भेदरोगतरङ्गेषु इति मेदिनी॥ 3॥

विश्वं मुहुः सृजति या सहसा विचित्रं

विश्वं गुणेन रजसाथ बिभर्ति सम्यक्‌॥

सत्वेन हन्ति तमसा प्रलये च तद्व-

त्साम्बाकरोतु करुणां मयि सुप्रसन्ना॥ 4॥

विश्वं कृत्स्ने च भुवने इति मेदिनी॥ 4॥

सुप्ता जनाभिनलिनस्थविधिं जिघांस्वो-

र्या कैटभस्य च मधोर्हननाय तस्य॥

नुत्या व्यबोधयदरन्तममोहपत्तौ

साम्बाकरोतु करुणां मयि सुप्रसन्ना॥ 5॥

तस्य ब्रह्मणस्तं विष्णुम्‌॥ 5॥

यस्याः क्रुधापि महिषादिकपूर्वदेवा

नीता दिवं बहुमुदं तु हि सर्वदेवाः॥

स्वास्थ्यं परं च सुजना अपि भूमिदेवाः

साम्बा करोतु करुणां मयि सुप्रसन्ना॥ 6॥

धूम्रेक्षणं सहबलानपि चण्डमुण्डौ

या रक्तबीजमपि शुम्भनिशुन्भमुख्यान्‌॥

हत्वा मृधे सकललोकहितं वितेने

साम्बाकरोतु करुणां मयि सुप्रसन्ना॥ 7॥

यस्याः प्रसादकलया सुरथः स्वराज्यं

लब्ध्वान्यजन्मनि मनुत्वमवाप रुच्यम्‌॥

ज्ञानं समाधिमपि मुक्तिनिदानमाप-

साम्बाकरोतु करुणां मयि सुप्रसन्ना॥ 8॥

यस्याः कृपामृतलवेन नरः समग्रै

र्वंद्योनुकूलसुतबन्धुवधूस्वभृत्यः॥

धर्मार्थशर्मयशसा च भवत्पनल्पः

साम्बाकरोतु करुणां मयि सुप्रसन्ना॥ 9॥

अनुकूलाःसुतादयोयस्य। बन्धवोमातापित्रादयः। स्वाः ज्ञातयश्च॥ 9॥

अथ हरस्तवः॥

यः शस्तात्मसखोथ शाश्वतसुखोदारः शिशुग्लौधरः

शीलालङ्करणः शुचीतरगलः शूलादिनानायुधः॥

शेषाद्याभरणश्च शैलतनयानाथश्च शोकापहः

शौर्यात्मा खलु शङ्करः स गिरिशः क्षेमं दिशत्वित्यथ 10

शस्त आत्मा मनो येषां तेषां सखा। शाश्वतस्य नित्यस्य सुखस्योदारः दाता। शौरौ विष्णावात्मा बुद्धिर्यस्य शङ्करः क्षेमङ्करश्च॥ 10॥

वध्वाह्यनन्तामरसाधुरत्ना

दिभिः समं सद्म सदानवं सः॥

दैत्याररप्युच्चमगाच्च वेद्यां

तत्र प्रतिष्ठापर्यात स्म शुक्रम्‌॥ 11॥

दानवशत्रुरपि। अनन्तैरसख्यै रलयोरैक्यादमलैः साधुभिः सुन्दरै रत्नसुवर्णादिभिः समं न्यूनाधिकत्वदोषरहित। अगात्पवतादप्युच्चं तुङ्गं सद्म बध्वा। तत्र वेद्यां दामवसहितं भार्गवंप्रतिष्ठापयतिस्मेति विरोधोत्र विरोधद्योतकोपि शब्दः। परहारे। वध्वाः रुक्मिण्याः गृहं। श्रीकृष्णः। अनन्तामरैः भूदेवैः साधुरत्नैरुद्धवादिभिरादिना ज्ञातिपुरन्ध्रीजनादेर्ग्रहः। समं साकं। अगात्‌ जगाम च। तत्र वेद्यांशुक्रमग्निं प्रतिष्ठापयतिस्म। कीदृशं सद्मं। उच्चं। सदा नूतनं च॥ हि अवधारणे॥ 11॥

भक्तप्रियत्वात्किल शुक्लतन्दुल-

राश्योरवस्थाप्य वधूवराविमौ॥

दत्वांजलावप्यथ तन्दुलाग्रिया-

न्मध्ये पठो विप्रवरैर्धृतो महान्‌॥ 12॥

भक्तमन्नं तन्दुलेषु अग्रियानुत्तमान्‌। वस्तुतः भक्तः सादुः। तन्दुला अग्रिया मुख्या येषु तान्‌ तन्दुलगुडजरिकान्‌॥ 12॥

मिथोनुरागौ प्रचुरौ तयोर्हृदो-

कसोर्न मातः स्म हि निर्गतौ बहिः॥

पटस्य तस्योभयतः स्थिताविव

प्रकुङ्कुमस्वस्तिकयोर्युगं बभौ॥ 13॥

न मातः स्म। न ममतुः॥ 13॥

स्वस्तिनइन्द्र इति क्ष्मादेवाः सूक्तमपठन्पुरन्ध्रीभिः॥

मङ्गलगीतमकारि च मङ्गलपद्याष्टकं जगुर्गणकाः॥ 14॥

श्रीमान्योगणराड्चं गानरसिको देवो गिरीशप्रियो

गीर्वाणौघनुतो गुणव्रजयुतो गूढस्वरूपोऽसताम्‌॥

गोयो गैरिजशर्मगोमदधिकत्विङ्गौरदेहो मदैर्गंधा-

ढ्यो वृषराजगः करिमुखः कुर्यात्स वो मङ्गलम्‌॥ 15॥

गिरिजाया इदं गैरिजं तत्‌ च तत्‌ शर्म। पार्वत्याः सुखहेतुरित्यर्थः॥ गोमतोकदिधका त्विट्‌ कान्तिर्यस्य। मदैः दोगैः कृत्वा गन्धाढ्य आमोदसंपन्नः। वृषाणामुन्दुरूणां राजा तेन गच्छतीति च॥ 15॥

शम्भुः पर्वतनायकोपरिवसन्पाता पिनाकायुधः

पीताच्छादनवल्लभः पुरुदयः पूताभिधः पेशलः॥

पैशून्यादसमस्तदोषरहितः पोतोपमः पौरुषी

पण्डावान्प्रियराघवाह्वयजपः कुर्यात्सदा मङ्गलम्‌॥ 16॥

पीताच्छादनस्य पीताम्बरस्य विष्णोः प्रियः। चारौ दक्षे च पेशल इत्यमरः पोतोपमोर्भकसमः। मानापमानशून्यइत्यर्थः। पौरुषी पराक्रमवान्‌ पण्डावान्बुद्धिमान्‌॥ 16॥

रामः सज्जनमानसाम्बुजरविः सामप्रियः सिद्धिदः

सीताप्राणपतिः सुरद्विजहितः सूर्यान्वयालंक्रिया॥

सेव्यः सैतवबन्धकृच्च सततं सोमाननः सौख्यदः

सन्तापघ्नयशाः प्रमोदितरसः कुर्यात्स वो मङ्गलम्‌ 17॥

धन्यो धान्यधनादिदो धिषणवन्मान्योथ धीमत्तया

धुन्वन्नेव कलिं च धूतषडरिर्धेन्वादिपो धैर्यवान्‌॥

धोरण्यश्वमुखैः सधौतकलुषो धम्मिल्लशाली बुधः

पुण्यश्लोकशिखामणिर्नलनृपः कुर्यात्सदा मङ्गलम्‌॥ 18॥

धिषणवत्‌। बृहस्पतिरिव। धोरणानि वाहनानि सन्त्यस्य स धोरणी। सः प्रसिद्धः॥ 18॥

भक्तो भागवतो भिया विरहितो भीष्मव्रतो यो भुवः

शीर्ण्णोलङ्करणं च भूतशरणं भेशाननो भैक्षभुक्‌॥

भोगं भौममनूनकं शमलवत्र्रैविष्टपं च त्यजन्‌

भङ्गोनो भगवन्निभः शुकमुनिः कुर्यात्स वो मङ्गलम्‌ 19

भूतानां प्राणिनां शरणं रक्षिता। भेशश्चन्द्रइवाननं यस्य। भङ्गेनोनश्च॥ 19॥

लग्नाष्टद्व्यषडायगा रविशनी राहुश्च केतुःशुभा

श्चन्द्रो द्वित्रिचतुर्थगश्च भवगो भौमस्त्रिषड्लाभगः॥

अष्टद्द्वाहशभिन्नगौ बुधगुरू शुक्रो विवाहे चतुः

पञ्चद्य्वङ्कदशायगश्च तनुगः कुर्वन्तु वो मङ्गलम्‌॥ 20॥

आयभवलाभा एकादशस्थानानि अङ्को नवमम्‌॥ 20॥

हस्तस्वातिमृगोत्तरात्रयमघामूलानुराधान्त्यभं

रोहिण्योन्यमतेश्विनी श्रुतियुगं चित्रा विवाहे शुभा॥

चन्द्रः सर्वशुभे त्रिसप्तदशषट्‌लाभाद्यगो शशितः

श्रेष्ठः पञ्चनवाद्विगोष्यबहुले कुर्याच्च वो मङ्गलम्‌॥ 21॥

राशितः जन्मराशेः। सर्वस्मिन्‌ शुभकार्ये अबहुले शुक्लपक्षे। बहुलः कृष्णपक्षेपीति त्रिकाण्डशेषः॥21॥

वेदाः सिन्धुमिता मता रसमितान्यङ्गानि शिक्षा तथा

कल्पो व्याकरणं निरुक्तममलं छन्दोपि च ज्योतिषम्‌॥

मीमांसा खलु धर्मशास्त्रमनिशन्न्यायः पुराणान्युपा

ङ्गान्यंबूनि दिशन्तु वो मनुमिता विद्या इमा यङ्गलम्‌ 22

सिंधुमिताश्चत्वारः। रसमितानि षट्‌। अमलं पापनिवर्तकमिदं सर्वेषां विशेषणं। अम्घूनि चत्वारि। मीमांसादीन्युपाङ्गानि॥ अमिशं सन्ततं मङ्गलं ददतु॥ मनवश्चतुदर्श॥ 22॥

श्रीकृष्णाघ्निरतो विधेरपि निषेधस्यापिनो किङ्कर

इत्थं वेदशिरोमतं प्रकटयन्तत्रत्यलोको खिलः॥

रुक्मिण्या सहतस्य दानवरिपोः साक्षाद्वरांगेक्षतान्‌

रक्ताक्तानपि शश्वदेवबहुलप्रेम्णा किलासार्पयन्‌॥ 13॥

शश्वदेवाऽसकृदेवाऽर्पयन्नास आसीत्‌। अक्षतैर्नार्चर्यद्वेष्णुमिति निषेधः। रक्तं रुधिरं कुङ्कुमं च तेनाक्तान्‌ लिप्तान्‌॥ 23॥

त्यक्त्वा सुतादिचरणं शरणं गतेषु

चैर्वोदिरेशकरुणोति विचिन्त्य नूनम्‌॥

हित्वा स्वनन्दनवनोत्तमगोधरादीन्‌

तत्राच्युते सुमनसोहि पदे निपेतुः॥ 24॥

सुतादि पुत्रादिकं॥ स्वं धनं नन्दनाः पुत्राः। वनोत्तमं उत्तमगृहं वनं गृहे जलेरण्ये इत्यमरः। गावः पशवः धरा आदिर्येषां दासादीनां तांश्च। अच्युतस्यायं तस्मिन्पदे चरणे सुमनसः सद्बृद्धयः। वस्तुतः। स्वकीयनन्दनसंज्ञकवनोत्तमं च गोधरः शक्रः आदिर्येषां देवादीनां तांश्च। गौः वज्रं। आच्युते पदे स्थाने सुमनसः

पुष्पाणि॥ 24॥

निर्वर्ण्य कंसार्युपयाममात्मो-

द्वाहोत्सुकः संन्दिवि संस्थितासु॥

तारासु काञ्चित्स वरीतुकामो

वाद्यस्य तारः किल नाकमार॥ 25॥

तार ऊच्चशब्दः। कंसारेः उपयामं विवाहं निर्वर्ण्य दृष्ट्वा आर जगाम॥ 25॥

भीष्मोपि सुताञ्चल्युपरि श्रीकृष्णांजलौ समुद्रेपि॥

विनिपात्य शुद्धमत्या जलधरां भूरिपूज्यतामाप॥ 26॥

भीष्मः भयङ्करोपि समुद्रे सागरेपि शुद्धमत्या निष्कामबूध्या भूरीणां पूज्यत्वं। श्रीकृष्णं प्रत्यमलमनसात्यल्पस्याप्यर्पणे महत्फलमितिः भाव॥ वस्तुतः॥ मुद्राभिः अङ्कुलियकैः सहिते शुद्धमत्याख्यपत्न्या। भूरे श्रीकृष्णस्य पूज्यतां श्वशुरत्वं। भूरि स्वर्णेन्यवत्प्राज्ये ना विष्णुब्रह्मशम्भुषु॥ इति मेदिन्युनुसारि॥ 26॥

भीष्मोऽभिज्ञो भूपो दत्वा हरये निजां सुतां सुतनुम्‌॥

जग्राह तस्य पृथ्वीं संसृति शमनीं सनातनीं प्रीतिम्‌॥ 27॥

सुतनुमत्यल्पां शोभनाङ्गीं च। पृथ्वी भूमौ महत्याञ्चेति मेदिनी॥ 27॥

धत्तोस्मत्सुतनाम केवलमिमौ किंवा गुणान्दातृतां

शौर्यादीन्सकलानितीक्षितुमथो कृत्वैव रूपद्वयम्‌॥

श्रीभास्वान्‌ श्रितवानिवासुररिपोः सत्कर्णयोः कुण्डले

श्रीमद्भीष्मनृपार्पिते मणिमये दिव्ये व्यभातां शुभे 28॥

धत्तोस्मदिति॥ 28॥

दत्वा भूवसुनैचिकीकरिमुखान्स प्रार्थयामास भो

लक्ष्मीस्तेपरिचारिका दिविषदो भृत्याः प्रभो कौस्तुभः॥

रत्नं पक्षरथाधिभूरनुपमं पत्रं तथा कामदाः

शृङ्गिण्योऽभ्रमुवल्लभादय इभा देयं किमस्तीति ते॥ 29॥

उत्तमा गोषु नैचिकीत्यमरः। कामदा कामधेनौ स्यादिति मेदिनी। शृङ्गिण्यः गावः॥ 29॥

एवंसुवर्णरुच्यां सन्मणियोग्यां निशम्य विनयाढ्याम्‌॥

रमणीमिव हरिवाणीं तं सम्मदयन्‌ जगाद गोविन्दः॥30॥

कीदृशीं वाणीं। शोभनैः वर्णैः। अक्षरैः रुच्यां कान्तां। सन्मणेः साधुवरस्य योग्यां विनयेनाढ्यां सम्पन्नां च। रमणीतु। सुष्ठु रूपेम हेम्ना वा मनोरमां। सन्तः शस्ता मणयः रत्नभूषा यत्र सा च सा योग्या च॥ 30॥

एषां क्षोणिधरस्तनी गजगतिश्चक्रीन्द्रवेणीयुता

स्त्रीपत्रावलिशालिनी हरिकटिर्नानामहिष्याश्रिया॥

धत्ते स्वंशुकभूरिसाधुमणिभं देहं सदा साम्बरां

?B चैनाम्भोदिशता प्रभोतिसुरभिं किं किं न दत्तं त्वया 31

क्षोणेः भूमेः धरौ स्तनौ यस्याः। चक्रीन्द्राणां महतां रथानां वेण्या प्रावहेण परंपरयेत्यर्थः युक्ता। पत्राणां शिबिकादियानानां पङ्क्तिभिः शालते तच्छीला। हरयोश्वाः कटौ यस्याः। नानामहिषीभिराश्रिता। अनेकमहिषीमती। स्वंशुकैः सद्वस्त्रैः भूरिणा सुवर्णेन साधुमणिभिः चारुरत्नैश्च भाति तं देहं धत्ते। कीदृशीमेनां। दासैः सहितां। वरां श्रेष्ठां। अतिशयिताः सुरभयः कामधेनवः यस्यास्तां च। अश्लेषपक्षे। एषा स्त्री॥ पर्वतइव स्तनौ यस्याः। चक्रीन्द्रः। सर्पराजइव वेण्या प्रवेणअया युक्ता। पत्रलेखाभिः शालत एवं शीला। नानानेकाभिः महिषीभिरभिषिक्तराजपत्नीभिराश्रिता। शोभना अंशवः किरणा येषां तैः स्वंशुकैः भूरिणा हेम्ना सुन्दररत्नैश्च भाति। तं। यद्वा स्वं स्वकीयं। शुकइव ये बहुकुलीनमणयस्तैः भाति तं देहं धत्ते। च। कीदृशीं एनां साम्बरां

वस्त्रयुतामतिसुरभिं। अत्यन्तमनोज्ञां च॥ 31॥

गोरम्यमस्या वदनारविन्दं

रसास्पदं वाग्बलिसद्मतुन्दम्‌॥

प्रयच्छता ते विधिना नृपैनां

दत्तं त्रयं चापि हि विष्टपानाम्‌॥ 32॥

हे नृप। च परं। गवा स्वर्गेण रम्यं सुन्दरं। वाक्‌ वाणी रसायाः भुवः आस्पदं स्थानम्‌। तुन्दं जठरं। बलिसद्म पातालं। हि अतः। ते त्वया। ते इति स्यात्त्वयेत्यर्थे इति त्रिकाण्डशेषेव्ययवर्गे। कीदृशेन विधिना चतुर्मखेन। वस्तुतः। गोभ्यां नेत्राभ्यां रम्यं। रसानां शृङ्गारादीनां आस्पदं। बलीनां गेहं। विधिना विधानेन॥32॥

सावित्र्यां च विधौ क्रमाज्जनयतः शीलानने न्यूनतां

पद्मैश्वर्यहरं च पाणिचरणं नासा हरिस्पर्धिनी॥

भावोस्या अतिशङ्करस्त्रिभुवने सत्पादृता ते सुता

यद्येषा किमलभ्यमस्ति भवतः सख्येन राजन्निति 33॥

आस्याः शीलं सद्वृत्तं आननं च। सावित्र्यां विरञ्चिपत्न्यां। विधौ विरिञ्चे। भावः स्वभावः शङ्करमतिक्रान्तः। सत्या पार्वत्या आदृतार्चिता। एषा एवंविधा इयं च ते तव पुत्रीचेत्‌ त्रिभुवने अलभ्येकिं न किमपि। भवतः सख्यं विना किमपि नेच्छामीत्यर्थः। वस्तुतः। सावित्र्यां सत्यवतः पत्न्यां। विधौ चन्द्रे। पद्मस्य शोभाहृत्‌॥ पाणिचरणामिति प्राण्यङ्गत्वादेकवद्भावः। हरिं शुकं स्पर्धते तच्छीला। भावोभिप्रायः। चेष्टा जन्मस्वभावोवातिक्षेमङ्करः त्रिभुवने त्रिभुवनस्य। वृक्षे शाखेतिवत्‌ षष्ठ्यर्थे सप्तमी। अथावा प्राग्वत्‌ योज्यं॥ सतीभिः पतिव्रताभिः आदृता। सत्ये सादरेतिवा॥ 33॥

भूयो भीष्म उवाच बो ऋभुवर स्रष्टा च पोष्टा भवान्‌

लोकानां वशवर्तिनो नटयतस्ते ते यथा पुत्तिकाः॥

एवं सत्यपि मेशकादपि निजं भक्तं तु मत्वाधिकं

तच्छन्देन च वर्तसेहमपि ते दासोस्म्यतः स्तौषि माम्‌ 34

लोकानां भुवनानां। यथा। पुत्तिकाः काष्ठप्रतिमाः। नटयतः। नर्तयितुः वशवर्तिन्यः। तथा ते तव। ते लोकाः। वशवर्तिनः सन्ति। मा लक्ष्मी ईशः शम्भुः कः ब्रह्मा च ततोप्यधिकं तस्य भक्तस्य च्छन्देन। अभिप्रायवशौ च्छन्दावित्यमरः॥ 34॥

मन्त्रास्तत्र करग्रहे बभुरपभ्रंशंविना ब्रह्मणां

कन्यादानपुरःसराश्च सकलाश्छिद्रंविनैव क्रियाः॥

त्यागागोन्नधरा सुवर्णवसनानांचाप्रियोक्तिं विना

जम्पन्त्योरुचिताशिषो द्विजनुषां वैतथ्यदोषं विना 35

ब्रह्मणां विप्राणां वेदानां वा। क्रियाः कर्माणि। जम्पत्यो दम्पत्त्योः। द्विजनुषां विप्राणां वितथस्य भावः वैतथ्यं मिथ्यात्वम्‌॥ 35॥

श्रीशोनलं श्यालमतोषयच्च

ब्रह्माणमाचार्यमखण्डविप्रान्‌॥

होमेन चोष्णीषवरेण पूर्ण

पात्रेण सत्संवसथेन राभिः॥ 36॥

चकारात्तत्र करग्रह इति पदयोरनुवृत्तिः। होमेनार्ग्नि। उत्तमोष्णीषेण श्यालं पत्नीभ्रातरं। इत्यादि यथासंख्यमन्वयः। अखण्डाः समग्राः। समौ संवसथग्रामावित्यमरः। राभिः स्वर्णैः॥ 36॥

सामोदान्‌ सुमनोगणान्विरचयन्धात्रीमलं शोषयन्‌

कं चान्नं बहुलं जनाय जनयन्‌ गोमण्डलं मण्डयन्‌॥

आधिक्यं वसुतंत्रकं नृषु नयन्नारं भृशं कम्पयन्‌

चक्रं चक्रभृतः क्रमं परिणयः षण्णामृनूनामयम्‌॥ 37॥

चक्रभृतः श्रीहरेः परिणयः। षष्णां वसन्तादिऋतूनां क्रमं विर्धि चकार। किङ्कुर्वन्‌। सुमनसां देवानां बुधानां च गणान्सानन्दा न्कुर्वन्‌। वसन्तः पुष्पौघान्‌ परिमलयुतान्विरचयति। च धात्र्याः मलं संमार्जनादिना पापं वा श्रवणादिना हरन्‌। ग्रीष्मः भूम। अलं निकामं शोषयति। च कं सुखरूपमन्नं जनार्थं उत्पादयन्‌। प्रावृट्‌ कं जलमन्नं च जनयति। गोः भुवः मण्डलं ध्वजादिभिश्च मण्डयन्‌। गवाम्पशूनां गजाश्वादीनां वृन्दं भूषयन्निति वा गवामपां वृन्दं नैर्मल्याम्बुजादिना भूषयति। च वसूनां धनरत्नानां तन्त्रकाणां नववस्त्राणां च समाहारं। नृषु मनुष्येषु आधिक्यं प्राचुर्यं नयन्‌। हेमन्तः। वसुमग्निं नूतनवस्त्रं च प्रेष्ठत्वं नयति। तन्त्रकं च नवाम्बरे॥ देवभेदे नले रश्मौ वसू रत्ने धने वसु इति च अमरः। च आरमरीणां समूहं। नयन्नारमत्राचोह्नस्वादचीति ङमुडागमः। शिशिरः नारं नरवृन्दं शीतेन कम्पयति॥ 37॥

दौर्गत्याय स चार्थिनां च गुणिनां लक्ष्म्यै च चेदीशितु

र्भैष्मीलाभमनोरथाय कृतिने विप्राप्तदीनादये॥

विश्वेभ्यः खलराजवर्जमदिशद्रेफात्मने रुक्मिणे

जन्मोडूर्कदिनादियोगजननं सद्यः फलं वावृता॥ 38॥

सः श्रीकृष्णपरिणयः। वावृता क्रमेण। अनुपूर्वी स्त्रियां वावृदित्यमरः। दुर्गतः दरिद्रः तस्य भावः दौर्गत्यं तदादिभ्यः। जन्मनक्षत्राणामर्कवारादीनां च योगेभ्यः जननं जन्म यस्य तत्फलं। अदिशद्ददावयं भावः। अर्थिनां याचकानां दारिद्य्राय जन्मोडुरविवारयोगफलं गमनं ददौ। दारिद्य्रं दूरीचकारेत्यर्थः। गुणिनां विद्यादिगुणवतां लक्ष्म्यै सम्पदे। जन्मर्क्षचन्द्रवारयोगफलं। अन्नं अन्नजन्यपुष्टत्वमेवमग्रेपि ज्ञेय। चेदीशितः शिशुपालस्य रुक्मिणीलाभकामनायैवह्निभयं ददौ। तां कामनां ददाहेत्यर्थः। कृतिने कुशलाय विदुषे वा सन्मतिं। दानादिदर्शनेनौदार्यादिमतिं बुद्धिं। विप्राप्तदीना आदयः यस्य तस्मै सामान्ये नपुंसकं। तृतीयादिषुभाषितपुंस्कंपुंवद्गालवस्येति पुं वद्भावः। वस्त्राणि। खलराजमतिदुष्टं वर्जयित्वा सौख्यं रेफः कुत्सित आत्मा बुद्धिर्यस्य तस्मै रुक्मिणे दुःखं ददौ। अध्वान्नवह्निभयसन्मतिवस्त्र्रसौख्यदुःखानिमासि जनिभे रविवासरादौ 38॥

प्रत्नेन पुंसा निजवंशमौक्तिक-

रत्नेन यत्नेन च नूत्नमुत्तमम्‌॥

ऊढं बधूरत्नमुदीक्षितुं किला-

रूढस्तदा ग्लौरुदयं महारुचिः॥ 39॥

महती रुचिः स्प्टहा प्रभा च यस्य सः ग्लौश्चन्द्रः वंशः। कुलं वेणुश्च।

जीमूतकरिमत्स्याहिवंशशंखवराहजाः॥

शूक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनयः॥

इति। प्रत्नेन पुराणेन उदयः पूर्वपर्यंत इत्यर्थः॥ 39॥

सर्वाङ्गीणनिशाङ्गनामलयजेऽस्वप्नादिमुक्तापत-

न्मल्लीपुष्पभरे भुवा परिहिते देव्याम्बरे पाण्डुरे॥

क्षीराब्धेर्गवि सर्वतः प्रसरणे दैत्यारिकीर्तेस्तनौ

स्तेनानामहिते जनामुमुदिरे ज्योत्स्नागमे तादृशे 40

कीदृशे चन्द्रिकागणे। सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणः निशैवाङ्गना तस्या मलयजश्चन्दनस्तस्मिन्‌ अस्वप्ना देवा आद्या येषां गन्धर्वादीनां तैः मुक्तः स चासौ आ सर्वतः पतन्मल्लिकानां पुष्पभरस्तत्र। च भूवा देव्या। परिहिते शुभ्रे वस्त्रे। गवि स्वर्गे भूमौ च॥ 40॥

प्राप्ता राज्ञा रुक्मिणी दिव्यकन्या

देवो वैकुण्ठस्तया तेन शोभा॥

उच्चैः कीर्तिः शोभया द्राग्जगत्यः

कीर्त्या ताभिः शर्म तेनामितत्वम्‌॥ 41॥

राज्ञा भीष्मेण। मालादीपकमिदम्‌॥ 41॥

हंसस्यास्य परस्य सद्वसुमतोन्येद्युस्तमोवैरिणः

पद्मामोदपदस्य हन्त परया काकार्यसाध्व्या समम्‌॥

हंसो नूनमहःश्रिया दयितया चासम्भवन्तं निशा

केलिं तत्र भवन्तमीक्षितुमिवारूढः स पूर्वाचलम्‌ 42

अन्येद्युः परदिने। सः प्रसिद्धः। हंसः रविः। अस्य परस्य द्वितीयस्य हंसस्य रवेः परया द्वितीयया दयितया प्रियया। अहःश्रिया दिवसक्ष्म्या समं साकं। असम्भवं। निशाकेलिं रात्रिक्रीडां। तत्र तस्मिन्दिने। नूनं निश्चयेन। भवतीति भवन्‌तं। हन्त हर्षेण द्रष्टुमिव पूर्वपर्वतमारुरोह। कीदृशस्य हंसस्य सद्वसुमतः शस्तकिरणवतः कमलामोदस्थानस्य च। कीदृश्या अहःश्रिया। काकानां अरीणां घूकानां असाध्ब्या। अनिष्ट्या। वस्तुतः। परस्य श्रेष्ठस्य। सद्वसु उत्तमरत्नंकौस्तुभाख्यं तद्वतः संत एव वसु धनमस्त्यस्य तस्येति वा। तमसः राहोरज्ञानस्य वा रपोः। लक्ष्म्याः आनन्दपदस्य च श्रीहरेः प्रियया रुक्मिण्या सह आ सर्वतः सम्भवः सम्यक्‌ कल्याणं यस्मात्तं निशया रात्र्या हरिद्रया क्रडां। तत्र भवन्तं पूज्यमिति वा कीदृश्या। दयितया। न कं सुखं अकं दुःखं च येषां तेष्वार्येषु साध्व्या हतकर्त्र्या। च। अनूनमहःश्रिया। अनूना सम्पूर्णा महसः श्री सम्पत्तिर्यस्यास्तया महस्तूत्सवतेजसोरिति मेदिनी॥ 42॥

भागीरथ्यधिका महावृषवती भूत्या महत्या तथा

विभ्राट्‌ शुष्मभृता दृशा च सहिता डिम्भेन राज्ञान्विता॥

पुन्नागैश्च परिष्कृताद्यशमनी चार्याश्रिता सर्वदा

श्रीमच्छंभुतनूपमा विरुरुचे गोष्ठी यदूनां तदा॥ 43॥

गोष्ठी सभा कीदृशी। भा कान्तिश्च गीः वाणी च रथिनश्च तैरधिका। महावृषवती अतिपुण्ययुक्ता। भूत्या सम्पत्या विभ्राट्‌ रोचिष्णुः। शुष्मेण बलेन भृता पूर्णा च। दृशा ज्ञानेन सहिता। अडिम्भेन विदुषा। डिम्भौ तु शिशुबालिशावित्यमरः। पुन्नागैः पुरुषश्रेष्ठैः परिष्कृता भूषिता। अघस्य दुःखस्य शमनी। सर्व ददातीति च। कीदृशी शम्भुतनुः। भूत्या भस्मना। अणिमाद्यैश्वर्येण वा शुष्माणमग्निं विभर्तिति शुष्मभृत्‌ तया दृशा नेत्रेण। बर्हिः शुष्मा कृष्णवर्त्मेत्यमरः। डिम्भेन शिशुना राज्ञा चन्द्रेण। पुमांसः सनक्राद्याः नागाश्च तैः अघस्य पापस्य शमनी। आर्या पार्वती तया च॥ 43॥

तन्मध्ये त्वधिसिंहासनमुपविष्टः स वेष्टितो भगवान्‌॥

बुधगुरुकविप्रधानैः सम्भैस्तारैः सुधांशुरिव शुशुभेः॥ 44॥

बुधा देवाः प्राज्ञाश्च। गुरवः पित्राद्याः। कवयः प्रधानानि च तैः। चन्द्रपक्षे बुधगुरु शुक्राः प्रधानानि मुख्याः येषु तैः तारैः नक्षत्रैः। नक्षत्रे चाक्षिमध्ये च ननातारमिति मेदिनी 44

श्रुत्यन्तंगानुत्तमदृग्वदान्या

नासादितस्वर्णकलिः स्मया सा॥

ससद्गुणा भीष्मसुता हि शौरे-

र्भूत्वा प्रियासन्निधिमाससाद॥ 45॥

श्रुतीनां वेदानां अन्तं गच्छतीति अनुत्तमा श्रेष्ठा दृक्‌ ज्ञानं यस्याः। वदान्या उदारा। न आसादिताः प्राप्ताः स्वर्णं सुवर्णं कलिः कलहः स्मयः गर्वश्च यया। सतां गुणैः दयादिभिः सहिता चासीत्‌ इति शेषः हिअतः हेतो शौरेः श्रीकृष्णस्य प्रिया भूत्वा सामीप्यं प्राप। अथ च कर्णांतगामिप्रशस्तनेत्रा। वल्गुवाक्‌। नासया दितः खण्डितः स्वर्णकलेश्चम्पककलिकायाः गर्वः यस्याः यया वा। सद्भिः प्रशस्तैः गुणैः रूपादिभिः सहिता च॥ 45॥

तन्वा रूपं जायतेन्नानुरूपं

विज्ञायैवं रुक्मिणी कृष्णकायम्‌॥

पत्युर्गौरीकर्तुकामेव यत्ना-

दासीदास्ये निक्षिपन्ती हरिद्राम्‌॥ 46॥

अत्रानुरूपं रूपं भवतीत्यत्र प्रमाणं स्वर्गापगाहेममृणालिनीनां नाला मृणालाग्रभुजो भुजामः। अन्नानुरूपां तनुरूपऋद्धिमित्यादि गैषधादौ॥ पत्युः श्रीहरेः कृष्णकायं नीलदेहं। आस्ये मुखे आसीत्‌॥ 46॥

सुग्रीवाय दिदेश वालिरमणीं रामावतारे ध्रुवं

तत्संस्कारवशेन जन्मनि तथा कुर्वन्निवात्राप्ययम्‌॥

श्रीकृष्णो निरवग्रहो जगदिनोऽहो चन्द्ररामां निशां

वैदर्भीलपनाय निर्भरहठं तत्सोदरायार्पयत्‌॥ 47॥

अत्रापि जन्मनि कृष्णावतारेपि। तथा कुर्वन्नेकस्य भार्यामन्यस्मै तद्भावे दिशन्सन्‌। चन्द्रस्य रामां वधूं निशां। तस्य चन्द्रस्य सोदराय रुक्मिणीमुखाय। निर्भरः अत्यन्तः हठः बलात्कारः यथास्यात्तथा॥ आपयत्समर्पितवान्‌। कीदृशः। श्रीकृष्णः। निरवग्रहः स्वतन्त्रः। जगतां इनः स्वामी च। वस्तुतश्चन्द्रः सुवर्णमिव रामां शोभनां निशां हरिद्रां। द्युनदीसोदरीमम्बामित्यादिवत्‌। सोदराय तुल्याय। रुक्मिण्या मुखे हरिद्रां निक्षितवानित्यर्थः। श्रीरामो वालिनं हत्वा तस्य भार्यां तारां तद्भात्रे सुग्रीवाय ददावित कथा रामायणे॥ 47॥

मायाबलं पश्यत साधुपूणो

यया हृतो माधवहस्तगोपि॥

कथं विजेष्यत्यपरो हि तां ना

न तं मुकुन्दं शरणं गतो यः॥ 48॥

मायायाः बलं। साधूनां पूगः समूहः। सः। अपरः साधुभिन्नः। ना पुरुषः। तां मायां। सः कः। यः मुकुन्दं मुक्तिदं तं माधवं शरणं न गतः॥ अथ च। मायाः लक्ष्म्या रुक्मिण्याः। साधुः सुन्दरः पगः क्रमुकफलं। अमा समीपे। धवहस्तगोपि गृहीत इति वा। न परः नीचः। शिशुपालादिः विजेष्यति। आत्मसात्करिष्यति। यः शरणं रक्षितारं मुकुन्दं न गतः। तत्सायुज्यं न प्राप्त इत्यर्थः॥ शरणं गृहरक्षित्रोर्वधरक्षणयोरपि इति मेदिनी॥ 48॥

ततो गृहीतोथ पुनः सं शौरिणा

प्रसह्य तजज्ञातमिदं तु सूरिणा॥

उपेन्द्रसेवी तु ततश्च्युतोपि तं

प्रयाति भूयो भरतादिवद्द्रुतम्‌॥ 49॥

तस्याः इति ततः। मायातः। रुक्मिणीतश्च। सः साधुपूगः॥ तत उपेन्द्रसेवनात्‌। भूयः पुनः भरतः। ऋषभत्य पुत्रः। सः राज्यादि हित्वा हरिं भजन्‌ मृगासक्तेः मृगविप्रयोर्जन्म गत्वा तं प्राप्त इति कथा पञ्चमस्कन्धे॥ 49॥

एवं द्रवं तौ बहुधा विधाय

परस्परां चार्वभिधां मुधान्याम्‌॥

मुदाददाते मददां बुधानां

प्रेम्णा सुशिष्ट्या निजबन्धुतायाः॥ 50॥

तौ रुक्मिणीकृष्णौ द्रवं क्रीडा। मुधान्यामव्यर्थां व्यर्थकेतु वृथा मुधेत्यमरः। बुधानां देवानां विदुषां च मदं हर्षं ददाति तां। अभिधां नाम। निजायाः बन्धुतायाः बन्धुवृन्दस्य। सुशिष्ट्या शोभनाज्ञया। चारु यथास्यात्तथाऽऽददाते जग्रहतुः॥ 50॥

॥ श्रीरुक्मिण्युवाच॥

अविकारसदानन्दः स्वयम्प्रकाशश्च सर्वतः श्रेयान्‌॥

येन प्रियमसुतनुसुतवित्तं सोयं हरिर्मम प्रेयान्‌॥ 51॥

॥ श्रीभगवानुवाच॥

प्रमदा सुवर्णयुक्ता बान्धवमपि गर्वतोवजानीते॥

निजबन्धुमिन्दुमेषा मुखकान्त्या रुक्मिणी हि धिक्कुरुते 52

सुवर्णेन हेम्ना शोभनरूपेण च युक्ता॥ 52॥

तदाग्रे निमेषं सृजन्ती सभानां

कलानाममत्रं सवित्री क्षणानाम्॥

अहो कालरूपा वियोगान्वितानां

ननर्तावली वारमुख्याजनानाम्‌॥ 53॥

अष्टादशनिमेषा स्तु काष्ठा त्रिंशत्तु ताः कला॥ तास्तु त्रिंशात्क्षण इत्यमरात्‌ श्लेषो ज्ञेयः। वारमुख्याः। उत्तमवेश्याः। सभानां सभ्यानां अग्रे पुरतः। वस्तुतः। अनिमेषं निमेषाभावं। कलानां नाट्यगीतादीनाममत्रं पात्रं क्षणानामुत्सवानां सवित्री जनयित्री॥ 53॥

मधुकरवाला राधोत्तमकाया शुक्रभा च शुचिरदना॥

सनभोमध्या सोर्जा मार्गादिश्रितकुचाम्बुरुट्‌ कोशा॥ 54॥

अत्रालङ्कारपक्षे। मधुराधशुक्रशुचिनभसः चैन्नाद्याः पञ्च। ऊर्जमार्गौ कार्तिकमार्गशीर्षौ। करवालः खङ्गः। हस्ताः केशाश्च वा वस्तुतः मधुकरा भ्रमरा इव बालाः केशा यस्याः। पुनः कीदृशी। आवली। राधायाः गोपीविशेषादप्युत्तमः कायो यस्याः। शुक्रोग्निरिव भा कान्तिर्यस्याः। वीर्येण भातीति वा। नभ आकाशमिव मध्यस्तेन सहिता ऊर्जेन उत्साहे न युक्ता। मार्गः कस्तूरी आदिर्येषु कुङ्कुमादिषु तैः श्रितौ कुचावेवाब्जकुङ्मलौ यस्याः। मार्गो मृगमदे मासे इति मेदिनी॥ 54॥

प्रभवो वशे च यस्या युवपार्थिवहृत्प्रमाथिभाववती॥

सौम्यश्रीमुखयुक्ता विजयानन्दादिशालिनी सुचिरम्॥ 55॥

यस्यः वारमुख्याजनानां पक्तेः वशे अधीनतायां प्रभवोस्तीति शेषः। अलङ्कारपक्षे प्रभवाद्या वत्सरभेदाः। युवपार्थिवाभिधौ वर्षौ हृत्‌ हृदयं यस्याः। प्रमाथिभावौ वत्सरौस्तोस्यां। सौम्यश्रीमुखाभ्यां युक्ता। विजयानन्दादिवर्षैः शालते च वस्तुतः प्रभवः नायकाः वशे सन्तीति शेषः। युवपार्थिवानां तुणभूपानां हृदः चित्तस्य प्रमाथिनः भावाः लौलाः सन्त्यस्यां। सौम्येन सुन्दरेम श्रीमुखेन सम्पदादिनां श्रीमद्वदनेन वा युक्ता। विजय उत्कर्षः आनन्दश्च तदाद्यैः शोभमाना च॥ 55॥

सपृथुकभगाप्यबालोपस्था नूनं सुरागरूपापि॥

कमनाखिलरिक्थहरा स्वीकृतसुरताप्यदेवता सौच्चैः 56

गानं जगौ च सुषिरोत्तममप्यरन्ध्रं

स्वातंकमप्यखिलतापहरं जवेन॥

नित्यं निषादमुखपण्डितमप्यजस्रं

दूरे च पुल्कसमुखाद्वत वर्तमानम्‌॥ 57॥

साऽऽवली उच्चैः गानमपि जगौ चकारेत्यर्थः चोष्यर्थे। कीदृशी सा। सपृथुकमर्भकसहितं भगं योनिर्यस्याः। पृथुकौ चिपिटार्भकावित्यमरः। अबालोपस्थार्भकशून्यभगा। सुराणां अगः वृक्षस्तद्रुपापि कामुकानां सर्वधनहर्त्री। स्वीकृता। सुरता देवत्वं यया सापि। अदेवता। इति विरोधः। परिहारे। पृथुभ्यां विशालाभ्यां केन सुखेन भगेन यशसा च सहिता। अबालानां गानादेर्विदुषां। उपस्था समीपवर्तिनी। उपस्थो योनिलिङ्गयोः। उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि॥ शोभनाः रागाः गान्धारादयः रूपं च यस्याः। अः श्रीकृष्ण एव देवता यस्याः सा च। कीदृशं गानं। सुषिरै रन्ध्रैरुत्तममपि रन्धरहितं। सुतरामातङ्कस्तापोयस्मात्तदपि। वेगेन सकलानां तापहरं। निषादमुखैश्चाण्डालादिभिः भूषितमपि पुल्कसमुखाच्चाण्डालादेः दूरे वर्तमानं। इति विरोधः। परिहारे सुषिरैर्वशादिवाद्यैः उत्तमं। अरन्ध्रं न्यूनत्वदोषरहितं। सुष्टु आतङ्कः मृदङ्गध्वनिर्यत्र। आतङ्कोरोगसन्तापशङ्कासु मुरजध्वनौ। इति मेदिनी। निषादादिसप्तस्वरैर्मण्डितं बतेत्याश्चर्ये॥ 56॥ 57॥

कान्तालंकृतिशालिनी प्रमदिनी प्राज्ञैर्गुणग्राहिणी

तापघ्नी बहुदायिनी सुनयिनी सम्मानिनी सोद्ववा॥

सास्थानी विदिता तदा सुकवितावन्मुक्तवगद्धसंव-

द्गंगावद्बलिवच्च दाशरथिवल्लोकेशवद्यागवत्‌॥ 58॥

सा आस्थानी सभा। प्राज्ञैः तदा कान्तालङ्कृतिभिः सुन्दर भूषणैः कान्तानां रमणीनां अलंकृतिभिर्भूषारूपाभिर्वा शालिनी। सुकवितावत्‌ विदिता ज्ञाता। च प्रमदिनी। आनन्दवती मुक्तवत्‌। एवमग्रेप्यन्वयः। सुनयउत्तमनीतिरस्त्यस्याः। उद्धवो यादवभिदि महे च क्रतुपावके। कवितापक्षे उपमादयोलंकृतयः। ज्ञेयाः॥ 58॥

या किन्नारालिसहिता द्युसमामृतान्ध-

स्तोमाश्रिता रुगधिका शतमन्युक्ता॥

चाभास्वरानिलवती शमलं दधाना

सास्याः कथं परिषदः समतां विदध्यात्‌ 59

सा। दिवः स्वर्गस्य सभा। दिवउत्‌ इत्युत्वम्‌। कीदृशी किन्नराणां कुत्सितनराणां आलिभिः पंक्तिभिः सहिता। मृता प्रमीततुल्या अन्धानां स्तोमेनाश्रिता। रुजा रोगेणाधिका। शतैरनेकैः मन्युभिर्युक्ता। णन्युर्दैन्ये क्रतौ क्रुधीत्यमरः। अभास्वरा कान्तिरहता। न इला वाग्येषां तेऽनिला मूकाः सन्त्यत्र शमलं पुरीषं मलं वा। वस्तुतः। किंनराणां किपुरुषाणां पंक्तिभिः युता। अमृतान्धसां देवानां समूहेनाश्रिता। रुचा कान्त्याधिका। शतमन्युना शक्रण युक्ता। आभास्वरा गणदेवभेदा अनिला वाताश्च सन्त्यत्र शं सुखं अलं प्रकामं दधाना च॥ 59॥

सुनरनिकरभाजश्चामराधिक्यराजः

सुवदविलसितायाः शोभया संयुतायाः॥

गतनिखिलमलायाः चारुनेत्रान्वितायाः

निवहमपि वहन्त्याः काल्यमक्रूरवत्याः॥ 60॥

कीदृश्याः। अस्याः अमरेभ्य आधिक्यं। चामराणां चाधिक्यं तेन राजति शोभते तस्याः। सुवदैः उत्तमवक्तृभिः विलसितायाः। चारुभिः नेत्रैः नयनैः वस्त्रैश्च युक्तायाः। कल्यानां नीरोगाणां दक्षाणां चायं काल्यस्तं निवहं समूहम्‌। वहंत्याश्च॥ 60॥

विससर्जादरेणैनां विशिष्टस्य विसर्जनैः॥

ताम्बूलादेर्यदूनां च तावद्राजा स संसदम्‌॥ 61॥

सः यदूनां राजा। उग्रसेनः। एनां संसदं सभां। आदरेण ताम्बूलादेर्विसर्जनैर्दानैः॥ 61॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रक्मिणीश्रीहर्यो

र्यशस्पात्रमकारिकाव्यम्‌॥ 62॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणिविरचिते सप्तमः सर्गः॥ 7॥


.

अष्टमः सर्गः

भिस्साश्येततरप्रगन्धविसरज्योत्स्नाहरित्सप्तयः

पूवव्यूहसुशष्कुलीगणमुखक्षोणीध्रदम्भोलयः॥

तत्रास्वादवदाज्यरुच्यपरमान्नाद्यर्णवागस्तयः

शिग्र्वाद्याऽतनुकूटनागहरयोथासंश्च विप्रादयः॥1॥

भिस्सानामोदनानां श्येततरा अतिशुक्लाश्च ते प्रकृष्टगन्धाश्च ये विसराः निकरस्ता एव ज्योत्स्नास्तासां हरिदश्वाः सूर्याः। पूपानामपूपानां व्यूहाः। शोभनशष्कुलीनां ‘जिलीबि’ इति प्रसिद्धानां गणाश्च मुखानि मुख्या येषु त एव श्रोणीध्राः पर्वतास्तेषां दम्भोलयः वज्रा इव। आस्वादवन्ति घृतानि रुच्यानि परमान्नानि

पायसानि चाद्यानि येषु तएवार्णवास्तेषामगस्तयः। अगस्तिः स्यादगस्त्यवदितिद्विरूपः। शिग्रवः शाका आद्या येषु व्यञ्जनादिषु तेषामतनवोनल्पाः कुटा राशयः त एव नागा गजास्तेषां हरयः सिंहाः। तत्रोद्वाहे॥ 1॥

मिष्ठान्नेषु चतुर्विधेषु दयितं भुक्त्वाऽऽगलं प्रत्यहं

हेरंबप्रमुखास्तु तुंदिलतमा जाताश्च सीर्यादयः॥

भूयः पायसभोजिनोतिबलिनो मन्ये विरिंच्यादय-

स्तत्रात्याज्यभुजो हि वीर्यबहुला ऐच्छन्सुताद्या अपि 2

दयितं अभीष्टं। आगलं आकण्ठं। प्रत्यहं प्रतिदिनं। अतिशयेन तुन्दिलास्तुन्दिलतमाः जाताः अभूवन्‌। भूयः प्रचुरं च तत्पायसं भुञ्जते एवं शीलाः। सीरी बलभद्रस्तदाद्या अतिबलिनो जाताः। विरिंचः ब्रह्मा आदिना शक्रपराशरादेर्ग्रहः। वीर्येण शुक्रेण बहुला अधिकाः जाताः ह अतो हेतोः सुताद्याः कन्यादीरप्यैच्छन्‌। घृतेन वर्धते वीर्यं पयसा वर्धते बलमिति वैद्यशास्त्रम्‌॥ 2॥

जन्याः संहननं सुरूपसदनं सालङ्करिष्यन्त्यथो

निध्यानस्यकृते तदाननविधोः श्रीदेवकीसोद्धवम्‌॥

सत्रागात्तदगामात्मसदृशीभिर्भीरुभिर्योगिनः

स्वान्तं शान्तिदयाक्षमादिभिररं श्रीविष्णुभक्तिर्यथा 3

जन्याः। समा स्नुषाजनी वध्व इत्यमरः। संहननं देहं। विधुर्विष्णौ चन्द्रमसीत्यमरः। निध्यानस्य दर्शनस्य कृते इत्यव्ययं दर्शनं कर्तुमित्यर्थः उद्धव उत्सवः यादवश्च तेन सहितं यथास्यात्तथा। आत्मना स्वेन सदृशीभिः भीरुभिः सुन्दरीभिः सत्रा साकं तदगारं स्नुषागृहं। अगाज्जगाम। स्वान्तं चित्तं। अरं शीघ्रम्‌॥ 3॥

क्रूरं जनाः प्रायश आद्रियन्ते

सन्तोष्यतोस्या जघनाय वध्वाः॥

गोविन्दमातापि ददौ दुकूलं

महाधनं चोलमुरोजयोश्च॥ 4॥

क्रूरौ कठिननिर्दयावलित्यमरः। बध्वाः स्नुषायाः। बहूमुल्यं महाधनमित्यर्थः इदं चोलदुकूलयोर्विशेषणं। चोलं कञ्चुकीं। उरोजयोः स्तनयोः॥ 4॥

कृष्णरुचश्चोदाराः स्निग्धा अपि कंसमाश्रिता एते॥

अविरतमिति क्रुधा किं वध्वा बालास्तया दृढं बद्धाः 5

कृष्णे हरौ रुगिच्छा येषां। उदाराः दानशौण्डाः। स्निगधाः स्नेहयुताः। वध्वाः स्नुषायाः बाला माणावकाः। तया देवक्या। वस्तुतः॥ क्रमान्नीलकान्तयः। महान्तः। चिक्कणाः। कं मस्तकं सम्यगाश्रिताः। वालाः केशाः॥ 5॥

मां व्यर्थं व्यथयन्‌ भरेण मधुहा तन्वां ननर्तेत्यहं

कुर्यां शीर्ष्ण्युपविश्य तस्य दयिताग्र्याया भरं निर्भरम्‌॥

इत्थं वैरधियेव सारसदृशस्तस्या वराङ्गे सदा

कृत्वा कुण्डलानां तु कालयफणी वेणीमिषेणावसत्‌॥ 6॥ 177

व्यर्थं निष्प्रयोजनं भरेण भारेण पीडयन्‌ सन्‌ मधुहा श्रीकृष्णः। तन्वां मम देहे नृत्यति स्म। इति हेतोः। तस्य श्रीकृष्णस्य दयितासु अग्र्यायाः मुख्यायाः शीर्ष्णि मस्तके उपविश्य भरं भारं तस्याः सारसदृशः पद्माक्ष्याः वराङ्गे मस्तके॥ 6॥

सम्भूषिते बत हरेः प्रसुवा स्नुषाङ्गे

पत्रावली तु वरलोचनयोर्व्यभाताम्‌॥

रेजुः क्रमात्प्रमुखचन्द्रवरेण्यनाभ्यो-

र्नानाविधाः सुवलयास्तलकश्च कान्तः॥ 7॥

पत्रावली पत्रलेखे। वरलोचनयोरुत्तमनेत्रयोः। प्रकृष्टमुखचन्द्रे वरेण्ये श्रेष्ठे नाभौ च। बतेत्याश्चर्ये॥

पत्रावलिवलयतलकानां कुचहस्तभालानि शोभापदानि। तानि तुक्रमेण नेत्रमुखनाभिषु रेजुरिति चित्रं। वस्तुतः। वरं कुङ्कुमं रलयोरैक्याद्रोचना च तयोः पत्रावली रेजतुः। प्रमुखस्य उत्तमस्य चन्द्रस्य हेम्नः शोभना वलया ‘गोठ तोडे’ इत्यादिशब्दैः प्रसिद्धाः। वरेण्याया उत्तमाया नाभेः कस्तूर्याः कान्त तिलकश्च शुशुभे॥ 7॥

महानागैर्दिव्यैरथ शिरसि तस्थे कचसितै-

र्भुजङ्ग्यां पुस्फोरोत्तमकनकपुष्पावलिरहो॥

बभूस्तारश्रेण्यो विधुमिव रविं चापि परितः

सुमुक्तालङ्कारोप्यनिशमभजत्काञ्चनकलिम्‌॥ 8॥

महद्भिः नागैः गजैः कचैः केशैरपि सितैः बद्धैः साद्भिः। ताराणां नक्षत्राणां श्रेण्यः लेखाः। तारो वानरभिन्मुक्ताविशुध्योः शुद्धमौक्तिके। ना नक्षत्रेक्षिमध्ये च ननेति मेदिनी। रविमिति च। अभितः परितः। अभितःपरितःसमयानिकषाहाप्रतियोगेपीति द्वितीया। सुमुक्तालङ्कारो मुक्तानां भूषणभूतउत्तमसाधुरपि। काञ्चनकलिं स्वर्णार्थकलहं। वस्तुतः। नागः नागाकारः ‘नाग’ नामालङ्कारः। बहुवचनेन ‘केतकचन्द्रकोण’ आदिभूषाः ज्ञेयाः। च्छत्रिण आयान्तीत्यादिवत्‌। भुजंग्यां वेण्यां ताराणां शुद्धमौक्तिकानां श्रेण्यः। ‘बिन्दी’ इति प्रसिद्धभूषाः। विधुः रविश्च चन्द्रसूर्याख्यालङ्कारः। सुमुक्तालङ्कारः। ‘नथ’ इतिप्रसिद्धं काञ्चनकलिं चम्पककलिकां नासामितियावत्‌॥ 8॥

स्थातुं नालमभूत्प्रभूषणमुदो भैष्म्या हृदोकस्तदा

देहान्तस्थपथेन सा स्थितवतीवागत्य मूर्धोपरि॥

वेण्याः कृष्णमनोरमोरुवलये भूषा मुदाख्या बभा-

वुच्चै रत्नवती मनोज्ञमहती तेजस्विनी काञ्चनी॥ 9॥

रुक्मिण्याः प्रकृष्टभूषाभिः मुत्‌ आनन्दः तस्याः स्थातुं। हृदेवौको गृहं। अलं पर्याप्तं नाभूत्तदा सा मुत्‌। देहमध्यस्थमार्गेणागत्य मस्तकोपरि तस्थाविवेत्युत्प्रेक्षा। कृष्णश्चासौ मनोरमश्च कृष्णस्य मनः रमयति च स चासावुरुर्महाश्च वलयः मण्डलं तत्र॥ 9॥

मुख्यं बीजमहं समग्रजगतः कार्यस्य मायाह्वया-

स्मीति ज्ञापयितुं जनेष्विव दधे वैदर्भभूमीन्द्रजा॥

देवी बीजवराभिधं गुरुमलङ्कारं ललाटोपरि

श्रीमन्तं रुचिरं सुवर्णरचितं मुक्ताफलैरञ्चितम्‌॥ 10॥

तमालपत्रं च सनाभिरूपं

मुक्तावृतं दृक्‌सुखदं सवृत्तम्‌॥

गोधौ वसत्कृष्णनिभं रराज

तस्या उदारं खलु देवकीजम्‌॥ 11॥

तस्या रुक्मिण्याः। तमालपत्रं। तिलकं श्रीकृष्णतुल्यं सना। नित्य। शुशुभे। कीदृशं तिलकं। अभिरूपं सुन्दरं। मुक्ताभिर्मौक्तिकैरावृतं वेष्टितं। दृशः नेत्रस्य सखदं सुवृत्तं सम्यग्वर्तुलं गोधौ ललाटे वसत्‌। उदारं महत्‌। देवकीजं देवक्या विरचितमित्यर्थः॥ कीदृशः। कृष्णः। अभिरूपः विद्वान्‌। मुक्तैः सनकादिभिरावृतः। मुक्तौ मोक्षे ऋतः पूजित इति वा। चर्मणि द्वीपिनं हन्तीत्यादिवत्सप्तमी। शोभनं वृत्तं चरित्रं यस्य। दृशां ज्ञानिनां सुखदः। दृग्‌ ज्ञाने ज्ञातरि त्रिषु इत्यमरः। गांवः उदकानि धीयन्ते यस्मिन्निति गोधिः समुद्रस्तत्र वसन्‌। उदारो दातृमहतोरित्यमरः॥ 11॥

अजितमपि कटाक्षैराशुगैराशु जित्वा

निहितमिव च विज्यं चापयुग्मं विधाय॥

नयनकुवलयोः सद्रेखयोः कज्जलस्य

युगलमतिबभासे सुभ्रुवश्चारु तस्याः॥ 12॥

कर्णौ कुण्डलयोर्भरं प्रवहतुर्गण्डौ विशालां तयोः

कान्तिं यत्नमृते च भेजतुरलं सत्याङ्गणे तिष्ठतः॥

पुष्पाणि द्युतरोर्निपेतुरजिरे श्रीभीष्मजाया यथा

तद्धेतुर्निरपेक्षतैव मनुजालाभे सतो वस्तुनः॥ 13॥

यथा सत्यायाः सत्यभामायाः अङ्गणे तिष्ठतः दिवः स्वर्गस्य तरोः पारजातस्य। पुष्पाणि श्रीभीष्मजा रुक्णी तस्या अजिरेङ्गणे। निषेतुस्तथा। तयोः कुण्डलयोः विशालां महतीं। हे मनुजाः। तत्ततः कारणात्‌। सत उत्तमस्य वस्तुनः पदार्थस्य। ब्रह्मणश्च लाभे निराशतैव कारणम्‌॥ 13॥

कृष्णप्रसादसुरपादपपर्शुराशा

तस्या हि मूलखननार्थमियं स्नुषायाः॥

आशापदे श्रुतियुगे किमपूर्ववर्णं

ताटङ्कयुग्ममतुलं च युयोज तूर्णम्‌॥ 14॥

आशा ककुभि तृष्णायामिति मेदिनी। पदे स्थाने। श्रुत्योः कर्णयोः युगे। कीदृशं ताटङ्कयुग्मं। न पूर्वः वर्णोक्षरं यत्र। टङ्कयुगमित्यर्थः। टंको नीलकपत्थे च खनित्र टङ्कणे स्त्रियामिति मेदिनी। वस्तुतः उत्तमरूपं। श्रोत्राधिष्टात्री देवता दिगिति सांख्ये॥ 14॥

एकं श्रीधररत्नं हृदि वांच्छन्त्याः सदैव वैदर्भ्याः॥

श्रीधरसुभूरिरत्नावलयो हृदये समर्पिता श्वश्र्वा॥ 15॥

सुभूरयोतिबहुलाः। वस्तुतः श्रीधराः शोभाभृतः सुभूरिण उत्तमहेम्नः रत्नानां चावलयो मालाः हृदये वक्षसि॥ 16॥

श्रीमत्पृथू उरोजौ मुक्तालिभिरेव सत्कृतौ सुदृशा॥

तनुमध्यः सुरशनया बद्धः सख्यं कृशे तु कस्यास्ति 16

प्टथू उरोजावित्यत्र। ईदूदेद्विवचनं प्रगृह्यमिति सन्ध्यभावः॥ तनुः कृशश्चासौ मध्यश्च। सुरशनया दृढरज्वा। वस्तुतः तनोः देहस्य मध्यः शोभनकाञ्च्या॥ 16॥

एषांगदासीत्प्रमदा गदाभृत-

स्तुल्यस्य तुल्यं भवति प्रतुष्टये॥

सेतीव वध्वा वरयोः प्रवेष्टयो

र्दिव्ये अमन्दे दददे मुदेंगदे॥ 17॥

सा देवकी। वध्वाः स्नुषायाः। भुजबाहू प्रवेष्टोदोरित्यमरः। अमन्दे महती। मुदे सन्तोषाय अङ्गदे केयूरे॥ 17॥

त्रैलोक्यपेन सुसुतेन करे गृहीतो

हार्देन यः स तु सबन्धुनवश्यमर्च्यः॥

एवं ध्रुवं मनसि कृत्य जनी शयाभ्यां

सादात्तदा मणिमयोत्तमकङ्कणाली॥ 18॥

हार्देन प्रेम्णा जन्याः स्नुषायाः शयाभ्यां कराभ्यां। अदाद्द्गदौ॥ 18॥

कान्तं भर्मतया विभूषणतया नित्यन्दधत्याप्यलं

तन्व्यांध्य्रोः सुकुमारयोः खलु तुलाकोट्योर्युगं हाटकम्‌॥

श्वश्र दत्तमनारतं प्रियतया सम्यग्धृतं रुक्मिणी

चैवं मण्डनलोलुपा यदि तदा कान्याङ्गनानां कथा॥ 19॥

भूषात्वेन कान्तं सुन्दरं भर्म कनकं अलं पर्याप्तं धारयंत्यापि तन्व्या कृशाङ्ग्या तया रुक्मिण्या। हाटकं सौवर्णं तुलानां कोटिद्वयं। गुञ्चाः पञ्चाद्यमाषकः। ते षोडशाक्षः कर्षोस्त्री पलं कर्षचतुष्टयं॥ तुलास्त्रियां पलशतं इत्यमरः। अनारतं सन्ततं। वस्तुतः। तुलाकोट्योः पादाङ्गदयोर्युगम्‌॥ च शब्दोवधारणे। समौ लोलुपलोलुभावित्यमरः॥ 19॥

एतां समुद्रजातां लक्ष्मीं नेतुं मनोजवसतां सा॥

रत्नोर्मिकादिसहितामेनां विदधे किल त्रिकालज्ञा॥ 20॥

मनोजवसः पितृसन्निभस्तस्य भावः तां। सा देवकी आदिनोक्तान्यभूषाग्रहः। समुद्रपक्षे ऊर्मिकास्तरङ्गा आदिना मत्स्यकूर्माद्याः॥ त्रिकालज्ञेति विशेषणं प्राग्भवीयसमुद्रकन्यात्वज्ञानाभिप्रायम््॥ 20॥

तनुतरमपि तस्या रदवसनयुगं सर्वदा सुरागं स्वम्‌॥

दंधदपि तांबूलस्याग्रही सरस्यापि लोभवलमेवम्‌॥ 21॥

स्वं स्वकीयं। परस्यान्यस्य वस्तुतः उत्तमस्य॥ सुराणा मगं शैलं वस्तुतः शोभनरागम्‌॥ 21॥

तस्याः समग्राभरणानि वक्तुं नाहं फणीन्द्रश्चतुराननोपि॥

वृन्दारकं भूषणमच्युतन्तं मेने च वृन्दारकभूषणं सा॥ 24॥

देवभूषणं तमच्युतं वृन्दारकं मुख्यं मेने तस्या भूषणेष्वभिनिवेशो नासीदित्यर्थः॥ 24॥

रेजे साथ निषेदुषी नववधूर्मध्ये सखीमण्डलं

क्षौमे पङ्कजकर्णिकेव कमले संवर्तिकास्वेकदा॥

संल्लापो बुधचातकौघमुदिरस्तासां तदा मारदो-

जन्मी स्नेहसमुद्रतः पुरुरसः पीयूषपूरायितः॥ 25॥

स्यादट्टः क्षौममस्त्रियामित्यमरः। मध्ये सखीमण्डलमिति पारे मध्ये पष्ठ्यावेत्यव्ययीभावः। कमले उदके। संवार्त्तिकासु कमलनवदलेषु । संल्लापो भाषणं मिथ इत्यमरः। पीयूषपूरइवाचरत्‌। कीदृशः बुधा ज्ञातार एव चातकास्तेषां वृन्दस्य मुदिरः मेघ इव। मारं मदनं ददातीति। पुरवः बहुला रसाः शृङ्गारादयः यत्र। पीयूषपूरपक्षे बुधा देवाः। मारं मरणं द्यति खण्डयतीति। स्नेहसमुद्राद्दुग्धाब्धेः जन्मवान्‌॥ 25॥

उत्फुल्लाननसारसो वरगणोजस्रं रसैः पूरितः

सद्रम्यो भ्रमरालको हृदयगो हार्देन कण्ठे धृतः॥

उल्लग्नस्तनकुङ्कुमोहि परमामोदश्च लक्ष्मीयुतः

प्रेष्ठे किं मधुसूदनः स न सखिस्रक्तल्लजो मोसितः॥ 26॥

इयं च्छेकापन्हुतिः॥ कीदृशः। मधुसूदनः। वराः श्रेष्ठा गुणाः कृपाद्याः यस्य। रसैः रसैः शृङ्गाराद्यैः। भ्रमरा इवालकाः केशा यस्य। हृदयगः स्वांतस्थः मनोरमश्च। परमामोदः सदानन्दरूपश्च। कीदृशः स्रक्तल्लजः प्रशस्तामाला। मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ प्रशस्तवाचकान्यमूनिइत्यमरः। उत्फुल्लमुखानि कमलानि यत्र। उत्तमसूत्रः। रसैः द्रवैः। सन्‌ शस्तः चासौ रम्यश्च। भ्रमरैरल्यते अलभूषणे घञ्‌ कप्रत्ययश्च। हृदयगः वक्षस्थः परमामोद उत्कृष्टगन्धः। लक्ष्म्या शोभया युतः। सितः बद्धः शुभ्रो वा॥ 26॥

धृत्वैकेन सुपुष्करेण भुजगीरत्नं परेणोरसा

गृण्हन्‌ हेमलतां च काञ्चनगिरी द्वाभ्यां हठेनाददत्॥

शश्वत्कान्तमणिर्युयोज विजने हीरैः प्रवालावतो

धत्ते काचिदतप्रमोदमिति मे भाति प्रिये रुक्मिणि 27

वस्तुतः कान्तमणिः रमणरत्नं श्रीकृष्णः। एकेन सुपुष्करेण तत्सादृश्याद्धस्तेन। भुजगीश्रेष्ठं वेणीं धृत्वा परेणान्यहस्तेन हेमलतां तनुं वक्षसा गृण्हन्‌ आलिङ्गन्निव द्वाभ्यां कराभ्यां काञ्चनगिरी कुचौ हठेन बलात्कारेणाददत्‌ गृण्हन्‌ सन्‌। विजने एकान्ते। हीरैः दन्तैः प्रवालावोष्ठौ युयोज दन्तक्षतौ चकारेत्यर्थः। त्वया सुरतसुखमनुभूतमिति भावः॥ 27॥

पूर्णाय द्विजनायकाय वदनं देवाय भा द्रुह्यति

गोजाताय च लोचनद्वयमये सद्वेषिगात्रं पटौ॥

शम्पाल्या अहितौ स्वयं च सकलक्ष्माया अलं दुःखदो

दृष्ट्वा कं गुणमितदीयमनधे वव्रेच्युतोयं त्वया॥ 28॥

पूर्णाय सकलाय। इदं त्रयणां विशेषणं। गवां धेनूनां जाताय जात्यै। पटौ वस्त्रे। शं कल्याणस्य

पाल्याः पंक्तेः अहितौ रिपूनाशकावित्यर्थः। शमिति मान्तमव्ययं॥ हे अनघे निष्पापे च्युतः भ्रष्टः॥ वस्तुतः द्विजनायकाय चन्द्राय। देवाय मेघाय। गोजाताय अब्जाय। सन्प्रशस्तः वेषोस्यातीति शंपाया विद्युतः आल्याः पंक्तेः। अलं भूषणं दुःखं द्यति खण्डयति स चाच्युतः। कं सुखरूपम्‌॥ 28॥

सन्दोषाकरमाननं त्विडप मेघं पङ्कजातं दृशे-

र्द्वंद्वं द्वेष्टि वप्नुः प्रसाधनपदं मुग्धे युगं वाससोः॥

शंपापाल्यहितं स्वयं सकलकोर्भूषा च दुःखं द्यती-

त्यर्थं वक्षि वचोमुमीशमगुणं वक्तुं न किं लज्जसे॥ 29॥

मुखं। सन्दोषाणामाकरं समूहं। द्वेष्टि। त्विट्‌ कान्तिरपि मे मायारूपस्य ममाघं। मायाजन्यदुखमित्यर्थः द्वेष्टि नेत्रयुगं कर्तृ। पङ्कानां जातं वृन्दं कर्म द्वेष्टि। प्रकृष्ठसाधनस्य ध्यानादेः। अलंकृतशोभायाश्च पदं स्थानं। आकल्पवेषौ नेपथ्यं प्रतिकर्मप्रसाधनमित्यमरः। वस्त्र्रयुगं। शं सुखरूपं। पापानामालेरहितं शत्रु। सकलायाः कोः भूमेः। इति उक्तलक्षणः अर्थ यस्मिन्तद्वचः। अथ च संदोषाकरं पूर्णचन्द्रं। मेखघं घनं। पङ्कजातं कमलं। शम्पानां विद्युतां पाल्याः पङ्क्तेः अहितम्‌॥ 29॥

बाले वरो मधुपरो विजयादरस्ते

कृष्णो लघुश्च भजते हितमाखुपत्रम्‌॥

लब्धो गुरुव्यसदृत्स रमादिपालः

संसारनाशि अगुणः परदारि एकः॥ 30॥

हे बाले अज्ञे ते वरः पतिः अगुणः गुणहीनः लब्धः। त्वं न जानासीति संबुध्या सिद्धं। कीदृशः वरः। मधुनि मद्ये परः सक्तः। विजयायां भृंग्यां आदरो यस्य सः। कृष्णोऽसितः। लघुः क्षुल्लकः॥ तमाखुपत्रं भजते भक्षयतीत्यर्थः। गुरुषु महत्सु व्यसनेषु मृगयाद्यूतादिषु हन्मनो यस्य। सरमा शुनी आदिर्येषु श्वपक्ष्यादिषु तान्पालयति संसारनाशि। अगुण इत्यादौ इको सवर्णे शाकल्यस्येति पाक्षिकः प्रकृतिभावः प्हस्वश्च। परदाराः सन्त्यस्मिन्‌। वस्तुतः मधोः दैत्यस्य शत्रुः। विजर्यर्जुने आदरो यस्य। कृष्णः भक्तदःखकर्षकः। अलघुर्महान्‌। लघुर्मनोज्ञो वा। हितं आखुपत्रं मूषिकवाहनं गणपतिं लोकसंग्रहाय सेवते। गुरोः सांदीपनेः। दैवानिष्टफलं मृतपुत्रदानेन हरति स्म गुर्वोः वित्रोः विपर्तिं हरति स्मेति वा महापापहरो वा॥ व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु॥ दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे इति मेदिनी। रमादीन्‌ लक्ष्मीप्रमुखान्प्रद्युम्नादीन्यदून्वा पालयति। रमा लक्ष्म्यां रमः कान्ते रक्ताशोकद्रूमे स्मरे इति मेदिनी संसारं जन्ममरणे नायति तच्छीलः। परान्‌ रिपून्दारयत्येवं शीलः। एको मुख्योऽद्वितीयश्च॥ 30॥

रुक्मिण्येतद्वाक्यमाकर्ण्य तूचे

युष्माभिर्भो आल्य उक्तेत्र वृत्ते॥

सम्यग्वित्ति बालता मे कुतः स्या-

त्किं च प्रेयान्कीदृशस्तच्छृणुध्वम्‌॥ 31॥

हे आल्यः वयस्याः। अत्रास्मिन्वृत्ते पद्ये। सम्यक्‌ सत्यं यथास्यात्तथा वित्ते विचारिते सुति। बालता जडत्वं। प्रेयानतिप्रियः श्रीकृष्णः॥ 31॥

सर्वेभ्यो महती मही पृथु ततस्तोयं ततोग्निर्महा-

न्तस्माद्वायुरुंरुस्ततः पृथुलमाकाशं ततोहङ्कृतिः॥

वड्रास्ते च ततो महांस्तु विपुलस्तस्मात्प्रधानं बृह-

त्तस्मादेष विशङ्कटो जगदिनः सख्यो हरिर्मत्प्रियः 32

हे सख्यः। महान्महत्तत्वं। विशङ्कटं प्टथुलं महत्‌। वड्रोरुविपुलमित्यमरः॥ 32॥

पत्यङ्गे वैपरींत्यं तव नृपतिसुते दृष्टमद्धा मयाद्य

नेत्र कट्यां विशालं विलसति मणिबन्धो गलेथो ललाटे॥

नाभिः पाण्योश्च नानापृथुतरवलपश्चौतदाकर्ण्य भैष्मी

प्राहाले ते कुदृष्ट्या त्वजनि तदखिलं तां हि हन्तुं यतिष्ये 33

वलिः। उदरावयवः हे आले सखि॥ वस्तुतः। नेत्रं वस्त्रं। मणेः कौस्तुभस्य बन्धः। नाभिः कस्तूरी। नानानेकः प्टथुतरोतिमहान्‌ वलयः कटकः॥ 33॥

भर्तू रूक्मिणिनाम कीर्तय हरिर्भेको धवः किं नहि

कृष्णः किं करटोस्ति नो मधुपरः किं मद्यपी नो विधुः॥

किं दोषाकर उत्तमे न भगवान्नुर्योनिमत्वं कथं

श्रुत्वैवं स्वसखीवचः स्मितवती सा प्हीमती चाभवत्‌॥ 34॥

करटः काकः। कृष्णः सत्यवतीपुत्रे वायसे केशवेर्जुने इतिमेदिनी। हे उत्तमे॥ 34॥

गोपेति किं ते प्रवदन्ति नाथं

प्रिये तवाक्षिद्वयचुम्बानाद्वै॥

एवं वचो भीष्मभुवो निशम्य

रुष्टालिरुत्थाय जगाम काचित्‌॥ 35॥

ततो मिथो वक्त्रमुदीक्ष्य भैष्भ्या

सख्यैकया चार्पितहस्ततालम्‌॥

अहस्यतैवं विविधो विनोद-

स्तासां नराणां हृदयङ्गमोभूत्‌॥ 36॥

एकया मुख्या सख्या चार्पितः हस्ततालः यस्यां क्रियायां यथास्यात्तथा अहस्यत। हसितं। तासां विनोदः। विविधः स्याद्बहुविधइत्यमरः॥ 36॥

अथ त्रिभिः श्लौकैस्तयोर्देवदर्शनमहोत्सवमाह।

ब्रह्माग्र्यैश्च विमानगैः शुचिमुखैः कान्तातपत्रैर्नृभिः

स्वस्थैरानकदुन्दुभिप्रभृतिभिर्वाद्यैस्तथा वृष्णिभिः॥

भास्वत्पुष्परथस्थकूकुदककुद्भीष्मादिभूपालिभिः

श्रीमन्नारदसात्यकिप्रमुखसद्भिश्चारुभिः कारुभिः॥ 37॥

शक्लैः स्वप्रियधोरणैर्गुणचणैः सूतप्रधानैर्जनै-

र्मात्राद्यैर्मलनाललामपठलैः सद्याप्ययानावनैः॥

गाणिक्येन च गानताण्डववता वैनीतके तिष्टता

चन्द्रज्योतिरनेकपालिबहुलक्रीजं यतो राजता॥ 38॥

नित्यासेचनकत्वयोः सबलयोः स्थानीयदेवीं तयो

र्जम्पत्योः सह सिंहसंहननयोस्तम्बेरमेन्द्रस्थयोः॥

लोकाश्चामररामयोर्न ततृपुर्नूनं विरक्ता अपि

निध्यानस्य सुसाधवोस्य च यशः पीयूषपीतेरव॥ 39॥

अपि लोका जनाः तयोः जपन्तयोः निध्यानस्य दर्शनेन। न ततृपुः। निध्यानस्येति तृप्यतेर्योगात्करमे षष्ठी। के इवास्य च श्रीकृष्णस्यैव यशोमृतस्य पीतेः पानेन सन्त इव॥ कीदृशयोः। नित्यं शाश्वतं आसेचनकत्वं ययोः। तदासेचनकंतृप्तेर्नास्त्यन्तो यस्य दर्शनात्‌ इत्यमरः। बलेन रामेण सेनया च सहितयोः। वराङ्गरूपोपेतो यः सिंहसंहननो हि स इत्यमरः। स्तम्बेरमाणां गजानामिन्द्रे ऐरावते स्थितयोः। चामरैः रामयोः सुन्दरयोः। अमरेषु रामयोश्च। स्थानीयस्य पुर्याः देवीं प्रति ब्रह्माग्र्यादिभिः सह समं। चन्द्रज्योतिषां गन्धकहरितालकर्पुरादिभिः कृतानां दीप्तिमद्वस्तूनां अनेकाः पालयः यत्र सा बहुलस्याग्नेः क्रीडा यथास्यात्तथा। पालिः स्त्र्यश्च्यङ्कपङ्क्तिषु॥ बहुलोग्नौ शितौ त्रिषु इति च अमरः। किञ्च चन्द्र इव ज्योतिः कान्तिर्येषां तेषामनेकपानां गजानामालेः पङ्क्ते बहुला क्रीडा यत्र यथा स्यात्तथा यतोः गच्छतोः। विमानगैः ब्रह्माग्र्यैः विरिंच्याद्यैः स्वस्थैः शुचिमुखैरग्निमुखैः देवैः किञ्च विमानगैः शिबिकागाभिभिः। ब्रह्माग्र्यैः विप्रप्रमुखैः वर्णैः।

ब्रहामा विप्रः प्रजापतिरित्यमरः। शुचयः शुद्धमन्त्रिणः मुखानि प्रमुखा यत्र तैः। नृभिश्च। आनका भेर्यः पटहाश्च प्रभृतयः येषु तैः वाद्यैः। आनकदुन्दुभिः वसुदेवः तदांद्यै वृष्णिभिश्च। स्वस्थैरव्यग्रैरिदं सर्वेषां विशेषणम्‌। कान्तातपत्रैः सुन्दरच्छत्रवद्भिरिति यथायोग्यत्वं। चपरं भास्वन्तः दीप्तिमन्तः पुष्परथाः क्रीडारथास्तत्र तिष्ठत्सु कूकुदेषु ककुत्‌ श्रेष्ठः भीष्मः आदिः येषु तेषां भूपानां पंक्तिभिः। सत्कृत्यालङ्कतां कन्यां यो ददाति स कूकुद इत्यमरः। ककुद्वत्ककुदः श्रेष्ठे इति विश्वः। च कारुभिः शिल्पिभिः। च शक्लैः प्रियंवदैः। स्वस्य प्रियाणि धोरणानि वाहनानि येषां तै। गुणचणैः। गुणैः ख्यातैः॥ तेनवित्तश्चञ्चुप्‌ चणपाविति चणप्‌। सूतप्रधानैः पौराणिकमागधादिभिः। जनैश्च। मातरौ देवकी शुद्धमतिश्च कृष्णरुक्मिणी जनन्यौ आद्ये येषु तैः। सन्ति प्रशस्तानि याप्ययानानि शिबिका अवनं रक्षणं च येषां तैः। ललनानां ललामानि भूषणानि तेषामुत्तमवधूनां पटलैः समूहै। च। वैनीतके तिष्ठता। परंपरावाहनं यत्तद्वैनीतकमस्त्रियामित्यमरः॥ गाणिक्येन गणिकावृन्देन॥ भूषा वाजिप्रधानेषु लालमं स्याल्ललामचेति रुद्रः॥ 37॥ 38॥ 39॥

न ज्ञायते स्म हरिणा प्रतिमा रमायाः

सारूप्यतः स्ववनिता च तदा विचार्य॥

निर्णीय सम्मुखगता कमलेति सम्य-

गानर्चतां सरुचिरोद्गमनीयमुख्यैः॥ 40॥

तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगमित्यमरः। मुख्यशब्देन भूषा कुङ्कुमादेर्ग्रहः॥ 40॥

हिरण्यपात्रे ससितं गृहीत्वा

क्षीरं जनीं तांप्रति पाययित्वा॥

अर्धं प्रचारात्सुतमच्युतं तं

श्रीदेवकी प्राशयतिस्म शेषम्‌॥ 41॥

सितया शर्करया सहितं। जनीं स्नुषाम्‌॥ 41॥

वासो यस्य पयोनिधौ श्वशुरता तत्रैव पस्त्ये पय-

स्विन्योघाश्च परः शता अपि पयोभृद्धर्ष्मणः श्रीपतेः॥

पाणिर्गोपवधूपयोधरघटे क्षीरायितः सोप्यलं

कान्तोच्छिष्टपयः पपौ प्रियतयाऽदः कामवीर्यं बुधाः 42

हे बुधाः। पस्त्ये गृहे। वर्ष्म देहप्रमाणयोरित्यमरः॥ 42॥

भो रुक्मिणि स्वप्रियनाम शोभने

क्षिप्तं गृहाणेति ततः प्रचोदितम्‌॥

यात्रा तदग्राहि नमत्तया तया

न लंघितं कोविदयातृशासनम्‌॥ 43॥

याता। देवरपत्नी तया। प्रचोदितमाज्ञप्तं। तया रुक्मिण्या। नमतीति नव सामान्ये नपुंसकं तस्य भावः मनत्ता। तया। नस्रत्वेन तन्नाम अग्राहि गृहीतं॥ हे कोविद। यातुः शासनमाज्ञा। 43॥

दितितनयविपक्षस्वामिजिद्राक्षसार्य-

ग्रजगृहजनयित्री धातृधातारमार्ये॥

वदति सकललोकोस्यावतारं द्वितीयं

त्रिभुवनपतिमेनं श्रीहरिं चिन्तयामि॥ 43॥

नामग्रहणप्रकारः॥

दितेः तनयानां दैत्यानां विपक्षाः शत्रवः देवास्तेषां स्वामी शक्रस्तं जयति सः राक्षस इन्द्रजित्‌ तस्यारिर्लक्ष्मणस्तदग्रजो रामचन्द्रस्तस्य गृहाः पत्नी सीता तस्याः जनयित्री प्टथिवी तस्याः धाता शेषस्तस्य धातारं कूर्मं। हे आर्ये श्रेष्ठे॥ दारेषु च गृहा इत्यमरः॥ 44॥

वृत्ते जनार्दनकरग्रहणोत्सवे वै

वर्षाऋताविव ययुर्द्विविधाश्च देवाः॥

स्वस्वस्थल दिन इव त्रिविधा द्विजाश्च

दिष्ट्यार्जुनेन समिताविव सर्व आशु॥ 45॥

वृत्ते समाप्ते सति। देवा अमरा भूपाश्च। दिष्ट्यानन्देन दिष्टिर्मुत्परिमाणयारितिमेदिनी। ययुः जन्मुः। के इव वर्षाऋतौ वृत्ते सति। वर्षाऋतावित्यत्र ऋत्यकं इति पाक्षिकः प्रकृतिभावः। देवा मेघा इव। देवः सुरेः घने राज्ञीति मेदिभि। च परं दिने वृत्ते सति द्विजाः पक्षिण इव त्रिविधा विप्रक्षत्रवैश्यरूपाः द्विजाः॥ अर्जुनेन। सह समितौ सङ्ग्रामे वृत्तायां सत्यां सर्वः शम्भुरिव। सर्वस्तु शर्वो भगवान्‌ शम्भुः कालञ्जरः शिव इतिं रामाश्रम्यां कोशः। सर्वे सकलाः सूताद्याश्च॥ 45॥

सत्या उक्त्वाथ धर्मान्‌ भुवि दिवि सुखद्वान्सूनवे शुद्धमत्या

धारं धारं स्वतुन्दे पुलकितवपुषालिंग्य तां चाश्रुमत्या॥

कृष्णं स्मारं वेश्म प्रति पतियुतया सम्प्रतस्थे सुमत्या॥

स्मारं स्मारं तदीयप्रवरगुणगणन्संमदं प्राप्तवत्या॥ 46॥

सत्याः पतिव्रतायाः धर्मान्‌। यद्वा सत्यै सूनवे कन्यायै स्वतुन्दे निजजठरे धृत्वा धृत्वेति। धारं धारं तां कन्यामालिंग्यवारंवारमालिंग्येत्यर्थः। च प्टष्ट्वा। कृष्णं च प्टष्ट्वा॥ 46॥

शश्वद्यत्र मृगप्रसङ्ग उत्त भीनीनामयैभ्यो भवे-

न्नस्वर्णस्थितिरत्ययायमिलितो नानागसार्थो यदि॥

पीडाकण्टकतोदरोहित उरुः सून्वादितापस्तथा

हित्वा तद्भवकाननं हि तनये नित्यं भजस्वाच्युतम्‌ 47

हे तनये। यद्वा हितः वृतः नयः नीतिर्यया तत्सम्बुद्धिः हे हितनये। तत्‌ भवः संसार एव काननं त्यक्त्वा शश्वत्‌ सततं नित्यं शाश्वतं अच्युतं सेवस्व। कीदृशः। भवः। यत्र शश्वन्मुहुः मृगस्य याञ्चायाः प्रसङ्गः। अन्वेषणायां याञ्चायां मृग इति मेदिनी। नानामयेभ्योऽनेकरोगेभ्यः भीरुत भयमपि भवति। च स्वर्णस्य स्थितिर्न। च। नानानेकेनागसा पापकर्मणा अर्थः मिलितः तर्हि अत्ययाय भवति। अत्ययोतिक्रमे दण्डे विनाशे दोषकुच्छ्रयोरिति मेदिनी। च कण्टकतः क्षुद्रारिभ्यः पीडा भवेत्‌ च हि ते उरुर्महान्दरः भयं भवेत्‌ च सून्वादेः पुत्रादेः तापः भवेत्‌ वने तु मृगानां सूकरादिपशूनां प्रसङ्गः। मयेभ्यः उष्ट्रेभ्यः शोभनस्यार्णसः जलस्य स्थितिर्न स्वर्णस्थितिरित्यत्र शर्परे खरिवेति विसर्गलोपः। अना अमनुष्यः राक्षसादिः। अमनुष्यशब्दः रक्षः पिशाचादीनाहेति कौमुद्याम्‌। नृपशब्दः मनुष्यमात्रवाच्यपि तेन नृपशब्दसिद्धिः। नागानां गजानां सार्थोवा मिलितः सङ्गतश्चेदत्ययाय नाशाय भवति। च अहितः सर्पात्‌। सूनुः सूर्यः आदिना वनाग्निः शश्वदिति यथायथं सर्वत्र योज्यं। भवपक्षेर्थान्तरं च अनागसाऽपापेन मिलितोर्थोत्ययाय न भवेदिति॥ 47॥

सेव्यः श्रीहरिरेव सोयमनघेऽतोस्मिन्मनोधीयता

मस्यैव प्रतिपाल्यतां जनचयो नास्मात्परो दृश्यताम्‌॥

अस्मै कर्म समर्प्यतां कथितमेनेनादृतं श्रूयतां

नित्यं सुन्दरि गृह्यतां निजसुखं चैनं भजन्त्या त्वया 48

कोच्युत इत्यपेक्षायामाह सोयमेव श्रीहरिस्ते तव सेव्य इति। अस्मात्‌ श्रीहरेः परः पुरुषः न दृश्यतां। पुमानन्यः कान्ताद्विधुरिव चतुर्थी समुदित इत्युक्तेः। यद्वा परः भिन्नः सर्वत्र भगवद्दृष्टिः कार्येति भावः। एनेन श्रीकृष्णेन अत्रान्वादेशादेनत्‌। कथितं आदृतं यथास्यात्तथा श्रूयतां क्रियतामित्यर्थः। किञ्च श्रुतिराज्ञावपुर्ज्ञानमित्युक्तेः। कथितमाज्ञप्तमौपनिषदोर्थः। इत्यर्थः। एवं सर्वत्रार्थद्वयमूह्यं। आदृतं सादरमिति च सर्वत्र॥ 48॥

कन्ये न वीनवाहं मुञ्चैवं रुक्मिणी तयाऽऽज्ञप्ता॥

सा तं नैव मुमोच स्वमातुराज्ञां न लंघयामास॥ 49॥

अत्र नूतनमश्वं मारोहेति भानं तेन विरोधः। परिहारे वीनः पक्षीशः वाहः यस्य तं श्रीकृष्णं न मुञ्च मा त्यज। नञ भावे निषेधे च तद्विरुद्धतदन्ययोरिति त्रिकाण्डशेषः। तया शुद्धमत्याख्य जनन्या॥ 49॥

अनं जनं जात्वपि नो भजस्व

पुत्रीति मात्रा खलु चोदिता सा॥

अनञ्जनं नित्यमसेवताहो

नोल्लंघयामास च मातुराज्ञाम्‌॥ 50॥

अनं श्रीकृष्णभिन्नं। अकारो वासुदेवे स्यादित्येकाक्षरः॥

अनञ्जनं। उपाधिशून्यं नित्यं परमात्मानम्‌॥ 50॥

मत्वा काञ्चनमेलकं किल महादष्टं वधूमण्डली

धाम्नो भीष्मभुवो हरेश्च तमपाकर्तुं समभ्यज्य तत्‌॥

श्वोद्वर्त्योत्पटवासकादिभिरुरुस्नाने सुखोष्णोदकैः

सातोद्यारवमर्पितैः शुतधुनीः कादम्बिनीवासृजत्‌॥ 51॥

हरिद्रानिष्कासनमाह॥

वधूनां मण्डली संहतिः। काञ्चनस्य मेलकं सङ्गं। वस्तुतः काञ्चन्या हरिद्राया अयं सचासौ मेलकंस्तं। भीष्मभुवः रुक्मिण्याः हरेः धाम्नः। धाम देहे गृहे रश्माविति विश्वः॥ तं॥ काञ्चनसङ्गं। तद्धाम। सम्यगभ्यज्य च। उद्वर्त्य पिष्टातः पटवासक इत्यमरः। उरौ महति स्नाने। आतोद्यानां वाद्यानां आरवेण शब्देन सहितं यथास्यात्तथार्पितैः कादम्बिनी मेघमालेव शतधुनीः अनेकनदीरसृजत्‌ ससर्ज॥ 51॥

चेतस्तामरंसारूणोऽखिलसतां स्वर्गौकसां सम्मद-

सिन्धोः पूर्णनिशाकरोऽग्रजनुषां दारिद्य्रतृण्यानलः॥

बन्धूनां सुरपादपोथ भगवन्नामद्विषत्पाप्मनां

खल्वासेचनको दृशां श्रुतिसुधां चाभूद्विवाह प्रभोः 52

प्रभोः श्रीकृष्णस्य। कीदृशः विवाहः। सर्वसाधूनां चेतास्येव तामरसानि कमलानि। तेषां अरुणः सूर्य इव। स्वर्गैकसां देवानां। आनन्दसमुद्रस्य पूर्मचन्द्र इव। अग्रजनुषां विप्राणां दारिद्य्रमेव तृण्या तृणसंहतिस्तस्या अग्निरिव॥ वधूनां मातृभगिनीश्वशुरादीनां कल्पवृक्षइव। द्विपन्तः शत्रव एव पाप्मानः पापानि तेषां भगवतः विष्णोर्नामेव॥ 52॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतीलक्ष्मणयोः सुतेन॥

गोविन्दविप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 53॥

इति श्रीरुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणिविरचिते अष्टमः सर्गः॥ 8॥


.

नवमः सर्गः।

तौ विश्वपौ पत्ररथेन्द्रगामिनौ

जायापती जात्वथ जग्मतुर्मुदा॥

सार्धं वयस्यैरनुजीविभिः परै-

श्चाराममात्मीयमतित्रिविष्टपम्‌॥ 1॥

त्रिविष्टपं स्वर्गमतक्रान्तम्‌॥ 1॥

राजन्तं सुरसालकोटिभिरसंख्येयैस्तथा पुष्पकै

रम्भाभिः सुरभिव्रजैश्च पुरुभिर्जम्भारिवृन्दैरपि॥

नानानिर्जरदीर्घिकाविलसितं नैकामृतालीयुतं

किंच श्रीमदनन्तमानसमतं संख्येतरैरावतम्‌॥ 2॥

कीदृशमारामं सुराणां सालाः वृक्षास्तेषां कोटिभिः। राजं तं। स्वर्गस्तु पचभिरेव राजत पचैते देवतरव इत्यमरः। अतोस्य स्वर्गादाधिक्यम्‌। एवमग्रेपि बोध्यं। पुष्पकैः विमानैः। जम्भारीणां शक्राणां वृन्दैः। निर्जरदीर्घिकाः स्वर्णद्यः। अनंन्तैर्निरवधिभिः मानसैः स्वस्तडागैः मतं पूजितं च। वस्तुतः। शोभनानां रसालानामाम्राणां कोटिभिः। पुष्पकैः कुसुमैः पुरुभिः बहुभिः रम्भाभिः कदलीभिः। सुरभीणां चम्पकानां व्रजैः। जम्भानां जम्बीराणां रलयोरैक्यादालीनां पंक्तीनां वृन्दैरपि राजन्तं। नानानेका निर्जरा नवाः दीर्घिकाः वाप्यस्ताभिर्विलसितं। नैकाभिः। अमृतानामामलकीनां पथ्यानां वा पंक्तिभिर्युतं। श्रीमतोनन्तस्य हरेश्चेतसः मतम्‌। संख्येतरे असंख्या ऐरावता नागरङ्गा यस्मिंस्तं च॥ 2॥

यस्मिन्‌ लांगलिगन्धसारनिवहाः सोद्वेगपूगाः प्लवाः

शैलूषाश्च पलाशिनोतिविटपा धूर्ताः कदम्बान्विताः॥

अक्षीबाः सरला अशोकमुनयः साम्येन रेजुः सदा

तल्लोकैर्निरटङ्किनैव विधमत्वं माधवींयेष्विति॥ 3॥

यस्मिन्नारामे। लाङ्गलिनः। हलधराः। गन्धेन गर्वेण साराः श्रेष्ठा अतिगर्विण इत्यर्थः। च तेषां समूहाः। चोद्वेगेन। उद्वाहुलेन सहितानां पूगाः समूहाः। च प्लवाः चण्डालाः। च शैलूषा नटाः। च पलं मांसमश्नन्ति तच्छीलाः। चातिशयेन विटान्पान्ति। ते। धूर्ता वंचकाः च कत्सिता अम्बाः कदम्बाः। कोः कत्तत्पुरुषेचीति कदादेशः। ताभिरन्विता एते नीचाः। अक्षीबा अमत्ताः। सरला उदाराः। सरलः पूतिकाष्टेनाथो दारावक्रयोस्त्रिषु इति मेदिनी। अशोकाश्च मुनयः मननशीलाश्च। एते उत्तमाश्च समत्वे शुशुभिरेतत्तस्मात्कारणात्‌। वस्तुतः। नारिकेलस्तु लांगली। गन्धसारोमलयज इति च अमरः। उद्वेगं क्रमुकी फले इति मेदिनी। तद्युक्ताः पूगाः क्रमुकद्रुमाः प्लवाः प्लक्षाः। शैलूषाः बिल्वाः। धूर्ता धत्तूराः। अक्षीबाः शिग्रवः। सरलाः तूतिकाष्ठानि। अशोकाः वंजुला। मुनयोगस्त्यतरवश्च। कीदृशा एते। प्रशस्तानि पलाशानि सन्त्येषु। प्राशस्त्ये इनिः। अतिशयितो विटपो विस्तारो येषां साम्येन साकल्येन। सर्वसाधुसमानेषु समन्त्रिष्विति मेदिनी॥ 3॥

मध्वादयोपि युगपत्पल्लवसुमनःफलप्रकाण्डैश्च॥

भक्त्या तयोर्विधातुं पूजां तत्राययुस्तदा नूनम्‌॥ 4॥

प्रकाण्डमुद्यतल्लजावित्यमरः॥ 4॥

इन्द्राणीशतसंकुलोथ बहलो योनन्दनालिव्रजै-

श्चाब्जैश्चित्ररथैरसंख्यगुरुभिः सम्भूषितोर्कार्बुदैः॥

बर्हिः पालिपरिष्कृतो विलसितो जायन्तवारैः पुन-

ऋत्वाद्यो न तिरश्चकार विबुधागारं कथं माधवः॥ 5॥

ऋतुषु आद्यः माधवः वसन्तः। विबुधागारं स्वर्गं। कथं न तिरस्करोति स्म। कीदृशं। इन्द्राणी तु शचीसिन्दुवारयोरिति हैमः। नन्दनानां शक्रोद्यानानां आलीनां पंक्तिनां व्रजैः। बहलोंधिकः। अब्जैः दशार्बुदमितैः। चित्ररथाख्यगन्धर्वैः। असंख्यैः गीष्पतिभिः। अर्काणां शक्राणामर्बुदैश्च। बर्हिषामग्नीनां पालिभिः पंक्तिभिः परिष्कृतः भूषितः। जयन्तानां पाकशासनीनां इमे तस्येदमित्यण्‌। जायन्ताश्च ते वाराः समूहाश्च तैः विलसितः दीप्तः। वस्तुतः। नन्दनानां हर्षुकाणां अलीनां भ्रमराणां व्रजैः। असंख्याश्च ते गुरवः महान्तश्च तैः। अब्जैः निचुलैः जलजैर्वा। चित्रै रथैः वेतसैः। अर्कोर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पताविति मेदिनी। बर्हिषां दर्भाणां। जयन्तीनां वृक्षविशेषाणां इमे॥ 5॥

सहकारो भ्रमरहतो वनप्रियश्रेष्ठवंशरवमोदी॥

यस्मिन्सुमनोव्रजभः कृष्ण इवामोदमाश्रितान्नयति॥ 6॥

कीदृशः सहकारोतिसौरभ आम्रः। भ्रंमराणां हितः। वनप्रियेषु कोकिलेषुश्रेष्ठानां वंशस्य रवेण शब्देन मोदयत तच्छीलः॥ सुमनसां पुष्पाणां व्रजेन वृन्देन भातीति च॥ आमोदं परिमलमानन्द च॥ कृष्णस्तु भ्रमेण रहितः। अवनं रक्षणं प्रियं यस्य स चासौ श्रेष्टवंशस्योत्तममुरल्या रवेण मोदयति। स च सुमनसां देवानां यद्वा

सुमनोयुक्ते व्रजे गोष्ठे भाति च॥ 6॥

यस्मिन्नतिपुष्पितमपि पुष्पलिहश्चंपकं तु गन्धभृतम्‌॥

न भुजन्ते तद्युक्तं सङ्गः सौख्याय नैव गर्ववताम्‌॥ 7॥

गन्धस्तु गर्व आमोदे इति मेदिनी॥ 7॥

यस्मिन्‌ शाखिवरा लताश्च रुचिराः शस्ताः सुमैः पल्लवैः

पूर्णः शीतकरः सुगन्धिशिशिरः सूक्ष्मः समीरं पिकाः॥

सारा मञ्जुगिरा सुपद्मनिकराः पद्माकराविष्किरै-

र्हंसाद्यैः सहिता वियोगिजनतां सम्पीडयन्ति ध्रुवम्‌॥ 8॥

सुमैः पुष्पैः। मंजु मंजुला गीः वाक्‌ तया सारा उत्तमाः विष्किरैः पाक्षिभिः॥ 8॥

सम्पन्नो विपिनश्रिया स सुरभिक्ष्माभृत्प्रसूनव्रज-

भूषाभृत्सुरभिप्रधानसहितश्चूतौघचक्रान्वितः॥

आरूढो मलयानिलाभ्रमुधवं श्रीमाधवं माधवं

त्वभ्यायात्किल कोकिलालिरुतवादित्रस्वनानुत्तमः॥ 9॥

सुरभिः वसन्त एव क्ष्माभृत्‌ राजा। मायाः लक्ष्म्याः धवं। श्रीमाधवं श्रीकृष्णं। किलाभ्याययौ। कीदृशः। चूतानामाम्राणां वृन्दमेव चक्रं सैन्यं तेनान्वितः। मलयवायुरेव अभ्रमुधंव ऐरावतस्तं। आरूढः। तिरश्चां वासितं रुतमित्यमरः॥ 9॥

यत्र प्रतापमहिमा स धनञ्जयस्य

किंञ्चाप्सरः प्रभृतयो गुरुतां लभन्ते॥

आमोदवत्सुमनसां च समल्लिकानां

जातं भवत्यथ तपो द्युसमस्तदाप॥ 10॥

सः तपः ग्रीष्मः दिवा ग्वर्गेण समः तुल्यः। दिव उदित्युत्वं। सः कः। यत्र तपे सः प्रसिद्धः धनंजयस्याग्नेः प्रकर्षेण तापस्य महिमा अधिक्यं भवति। च अद्भिः जलैः सहिताः सरःप्रभृतयः तडागाद्याः। गुरुतां महत्वं लभन्ते। मल्लिकानां तृणशूल्यानां आमोदवत्यः सुमनसः पुष्पाणि तासां जातं जन्म भवति स्वर्गपक्षे यत्र स्वर्गेधनञ्जस्यार्जुनस्य प्रतापमहिमा निवातकवचादिवधरूपः आस आसीत्‌। च यत्र सुमनसां देवानां मल्लिकानां। च इदमुपलक्षणं हंसमात्राणां। जातं। जातिः। आमोदवत्सानन्दं। भवति॥ मल्लिको हंसभेदे स्यात्तृणशूल्ये तु मल्लिका इति रुद्रः॥ 10॥

ऊंष्मागमे हो सविताप्यमन्द-

वसुर्भवन्तापयति स्म व्रिश्वम्‌॥

अतो सदेव द्रविणं हि नूनं

तत्कामयन्ते न कुलीनलोकाः॥ 11॥

अमन्दमनल्पं वसु धनं यस्य सः भवतीति भवन्‌ सन्‌। वस्तुतः। अमन्दास्तीक्ष्णाः वसवः किरणाः। यस्य तद्द्रविणं स्म पादपूरणे॥ 11॥

पुष्पवत्यामपि ग्रीष्मे मल्लिकायां यथेप्सितम्‌॥

मधुपास्तु रमन्ते वै तत्र नास्त्येव विस्मयः॥ 12॥

पुष्पवत्यां रजस्वलायां। मधुपाः मद्यापाः। वस्तुतः भ्रमराः॥ 12॥

यस्योपयोगः सततं द्विजानां

पेयं मुहुर्यत्सकलैः सरागम्‌॥

यत्तन्वतीवोदकमम्बुजाक्ष्या

ओष्ठोपमं भातिच तन्निदाघे॥ 13॥

निदाघे ग्रीष्मे तदुदकं। अम्बुजाक्ष्याः सुन्दर्या ओष्ठोपमं भाति। तत्किं। यस्योदकस्य उपयोगः द्विजानां

विप्रादीनां सदास्तीति शेषः। च यत्सकलैः सरागं प्रीतियुतं यथा स्यात्तथा पेयं। च यदतीव तनु अल्पं। ओष्ठपक्षे। द्विजानां दन्तानां उप समीये योगः। च यः सकलैः शुक्रसहितैस्तरुणैरित्यर्थः। कलं शुक्रे त्रिष्वजीर्णे इति मेदिनी। मुहुः पेयः। रागेण रक्तिम्ना सहितः तनुः सुक्ष्मश्च॥ 13॥

उष्णे तपनकिराताज्जडमाजिनयोनयोतिसन्त्रस्ताः॥

अन्धूदकतरुणीकुचबहुपाच्छायागुहासु निवसन्ति॥ 14॥

उष्णे ग्रीष्मे। जडस्य शीतलस्य भावाः जडिमान एवाजिनयोनयः मृगाः। अन्धुः कूपः। बहूपाद्वटद्रुः।

कूपोदकं वटच्छाया ताम्बुलं तरुणीकुचौ॥

शीतकाले भवेदुष्णमुष्णकाले च शीतलं॥ 1॥

इति॥ 14॥

अपर्णाभा ग्रीष्मे विटपिपटली रुद्रतनुव-

त्क्षितौ न स्यात्कीर्तेरणुरपि नृशंसेपि च यथा॥

स्वेरुस्रैरेणुस्तपति विरहीव स्मरशरै

र्भृशं जन्योस्तृष्णा भवति महती गगिण इव॥ 25॥

पर्णैराभाति। न पर्णाभा। विटपिनां वृक्षाणआं पटली। समूहः। भवत। अपि च। कीर्तेः कर्दमस्य अणुः लेशोपि नृशंसे पापे कीर्तेः यशसः। रेणुः धूलिः उस्रैः किरणैः। भृशं तपति। जन्योः प्राणिनः महती तृष्णा पिपासा। रागिणः कामुकस्येव तृष्णा स्पृहा॥ 15॥

प्रावृटंकालो जलधरकालोर्जुनवर्धकः कुजाद्यहितः॥

बहुधान्यवृद्धिकारी सीरिप्रेष्ठोथ शौरिरिव शुशुभे॥ 16॥

कीदृशः वर्षाकालः॥ जलधरैः मेधैः कालः कृष्णः। अर्जुनानां तृणानां वर्धकः कुजा वृक्षाः आद्यपदेन लतादेर्ग्रहः तेषां हितः। सीरिणां कृषीवलानां प्रेष्ठः। कृष्णस्तु मेघ इव नीलः। कुजः नरकासुरः आदिना मुरादिग्रहः। तेषां अहितः शत्रुः। बहुधा। अन्येषां वृद्धिं कर्तुं शीलं यस्य सः सीरिणः बलभद्रस्य श्रेयान्‌॥ 16॥

मेघागमक्षितिपतिर्दधदिन्द्रचाप-

मूष्मागमस्य च परस्य बहूग्रतापम्‌॥

ज्यामुक्तभीषणशरैः परिहृत्य चक्रे

विश्वम्भरां कबहुलां किमयुक्तमत्र॥ 17॥

परस्य शत्रोः। ज्यायाः गुणान्मुक्तबाणैः। केन सुखेन बहुलां। वस्तुतः परस्यान्यस्य। ऊष्मागमस्य ग्रीष्मस्य। ज्यायां धरण्यां मुक्तैः भयङ्करैः शरैः जलैः। केन जलेन प्रचुराम्‌ 17

वर्षाकालो विधत्तेवनितलमखिलं योगवन्नीरजस्कं

चेतोथो भूजजानेरिव च गुणगणो नीलकण्ठं सहर्षम्‌॥

अव्यांलोकं च मित्रं द्विजपतिमगुवच्चामृतेऽनच्छभावं

स्वान्ते कामो यथा तत्सकलशुभगणा एकतो नो वसंति 18

यथाष्टाङ्गयोमः चित्तं नीरजस्कं वासनारहितं कुरुते। तथा भूतलं धूलिरहितं विधत्ते। भूजा सीता जाया यस्य तस्य भूजजानेः रामचन्द्रस्य॥ नीलकण्ठं श्रीशङ्करं मयूरं च। अगुवत्‌ राहुरिव मित्रं सखायं रविं द्विजपतिं चन्द्रं विप्रेशं च न विशेषेणालोको यस्य। आलोकौ दर्शनोद्योतावलित्यमरः। यथा कामः। स्वान्ते मनसि। अनच्छभावं कलुषतां विधते तथावर्षाकालः अमृते जलेनच्छभावं कुरुते॥ 18॥

चित्रं प्रावृपि तरणिप्रादुर्भावस्तरङ्गिणीतोये॥

उडुपाल्याश्च विलासो नूनं तत्रैव दृश्यते नाभ्रे॥ 19॥

तरणिः रविः नौका च। उडूनां नक्षत्राणां पाल्याः पंक्त्याः विशेषेण लासः लसनं। उडुपानां प्लवानां आल्याः पंक्तेः विलासः क्रीडा च। तत्रैव नदीतोय एव॥ 19॥

अस्यां मूहुः सकरकं प्रचुरारबुवर्षं

पाराशरीव तष्टिनी च रसप्रपूर्णा॥

अत्युद्धता भवति दृष्टरजा मृगाक्षी

चाप्राप्तसौरतसुखा भृशकामुकीव॥ 20॥

अस्यां प्रावृषि। बहूदकवृष्टिः पाराशरीवभिक्षुरिव करकाभिः वर्षोपलैः सहिता॥ भवति। च परं। रसैः। जलैः प्रकर्षेण पूर्णा। तटिनी नदी। मृगाक्षीव अत्युद्धता भवति कीदृशी मृगाक्षी। रसेन वीर्येण प्रपूर्णा। वृषस्यन्ती तु कामुकीत्यमर-॥ 20॥

वर्षाख्यकालः खलु काल एव हि

स्मारैः शरैः प्रोषितयोषितां मनः॥

दीर्णं ध्रुवं दारयति स्म निर्भरं

धाराधरैः पङ्कवतः कुतः कृपा॥ 21॥

धाराधरोसिमेघयोः इति। पङ्कोस्त्री कर्दमे पापे इति च मेदिनी॥ 21॥

यस्याः कल्पायमानाजनि रजिरगारं च कारायमाणं

लेपः क्ष्वेडायमानो मलयजरचितो माल्यमङ्गारति स्म॥

याते प्रेष्ठेय तत्रागतवति सकलं तच्च तस्याः क्रमेण

काष्ठा सद्रत्नसङ्गामृतदयितकरस्पशवज्जायते स्म॥ 22॥

रजनिः रात्रिः। अजनि जाता। तत्र तस्मिन्‌ प्रेष्ठे आगतेवति सति। चोवधारणे॥ अयमर्थः। रात्रिः। काष्ठावज्जायते स्म। अष्टादशनिमेषास्तु काष्ठेत्यमरः। गृहं। सद्रत्नानां शुकादीनां सङ्ग इव। यथा सत्सङ्गोतिसुखदस्तथेत्यर्थः। चन्दनादिजः लेपः सुधेव। माला प्रियहस्तस्पर्श इव॥ विन्द्यादगारमागारमिति द्विरूपः॥ 22॥

पुष्करवेणीबहगुला, तडिदाभा चलपयोधरा प्रावृट्‌॥

तरुणीव तिलककनकाद्यलङ्वृता श्यामलाभ्वरा दृष्टा॥ 23॥

तरुणीव। प्रावृट्‌। दृष्टा कीदृशी प्रावृट्‌। पुष्कराणां जलानां वेण्या प्रवाहेण बहुला। बहुलाः प्रवाहा यत्रेत्यर्थः। यद्वा। पुष्करं बालं। बालं ह्रीबेरवर्हिष्ठोदीच्यं केशाम्बुनाम चेत्यमरः। वेणी। देवताडः वेणी सेतुप्रवाहयोः॥ देवताडे केशबन्धे इति हैमः॥ चलाः॥ चञ्चलाः मेघाः यत्र। तिलकवृक्षैः। कनकादिभिश्चापेयादिभिश्चालङ्कृता। तरुणी तु। पुष्करः सर्पविशेष इव वेणी तया बहुला कृष्णा। यस्या वेणी सर्पतुल्या कृष्णवर्णा चेत्यर्थः। बहुलोग्रौ शितौ त्रिषु इत्यमरः। अचलेपयोधरा पर्वतस्तनी। तिलकादिभिः चित्रकपत्रावल्याद्यैः। मुवर्णरत्नाद्यैश्चालंकृता॥ नीलवस्त्रा च॥ 23॥

स्तनितं निशप्यं भीमं मानिन्या सुष्टु रुष्टयातिभिया॥

त्वरया बत परिरब्धः कान्तश्चिरमनुनयन्‌ श्रमेणास्यां 24

अस्यां प्रावृषि॥ 24॥

सुमार्गनाशी यतिनश्च रुन्धन्‌

शुचीन्प्रतिघ्नन्नपि काननस्थान्‌॥

मेघागमः केवलजीवनानां

दानेन कीर्ति महतीमुपैति॥ 25॥

शुचीन्‌ पवित्रानग्नींश्च॥ 25॥

वर्षास्वनूनकमिलातलमाप्यमब्दाद्‌

व्यातन्वतोपि पयसः कणमप्यलब्ध्वा॥

स्तोकद्विजोतितृषितोनिशयाचमानो-

प्युच्चैर्हि तिष्ठति बलं तदिदं नियत्याः॥ 26॥

अनूनकं समग्रं। इलायाः भूमेः तलं प्रति। आप्यमम्मयं व्यातन्वतः कुर्वतः। अब्दान्मेघात्‌। पयसः जलस्य। स्तोकाद्वेजः चातकपक्षी। अनिशं सन्ततं सन्ततं याचते सः। नियत्याः दैवस्य॥ 26॥

आदौ मेघपरम्परा सपदि भो दूरीकृतैवाखिला-

थश्रीकृष्णमनस्यभूदतितरां शौचं प्रसादस्ततः॥

साकल्येन च साधुपुष्कलततेः सम्पादितोतो विभो

मां त्राहीति नरायणं सुशरणं प्राप्ता शरत्किं तदा 27

मे। मया। मे इति स्यान्मयेत्यर्थे इति त्रिकाण्डशेषः। हे श्रीकृष्ण। साधुषु पुष्कलाः श्रेष्ठास्तेषां ततेः पंक्तेः। विष्णुर्नरायणपुनर्वसुविश्वरूपाः इति त्रिकाण्डशेषः वस्तुत श्रीकृष्णस्य मनसि चन्द्रे। चन्द्रमा मनसो जात इति श्रुतेः। चन्द्रो मनो यस्येति श्रीभागवतोक्तेश्च। शौचं शुभ्रत्वं। शुचिः शुद्धे सिते चेति मेदिनी। प्रसादः प्रफुल्लत्वं। रलयोरैक्यात्पुष्कराणां कमलानां ततेः॥ साधु शोभनं यथास्यात्तथा सम्पादितः कृतः॥ 27॥

यत्रामन्दा उत्सवा जागदंबा

ग्रामे ग्रामे च स्युरानन्दकन्दाः॥

देवीपूजा यत्र होमो जपादि-

र्भूदेवाद्याराधनं सुन्दरं च॥ 28॥

यत्र शरदि। यत्रोत्सवेषु॥ 28॥

इन्दिन्दराश्च यत्रारविन्दसेवन्तिका मरन्दस्य॥

स्वादून्निपीय बिन्दून्‌ समदा मदयन्ति दान्तमपि नादैः 29

इन्दिदिराः भ्रमराः। दान्तं तपः क्लेशसहम्‌॥ 29॥

यान्ती हंसगमेन चोडुपटलीमुक्तावलीर्बिभ्रती

राजन्ती भ्रमराकरभ्रमरकैर्नीलाब्जचक्षुष्मती॥

चारुग्लौवदना सिताभ्रवसनाऽऽज्योत्स्नांगरागा जना-

न्भारवद्रक्तकचित्रका रमयति श्रीमच्छरत्सुन्दरी॥ 30॥

हंसस्य रवेः गमेन यान्ती शरत्‌। यद्वा हंसाना गमनमेवशरदः गमनं। वधूः हंसस्येव गमनेन गच्छती। भृङ्गाणामाकराः समूहा एव भ्रमरकाः भालस्थालकाः तैः। अभ्रं मेधः। आ सर्वतः। ज्योत्स्नैवाङ्गरागो यस्याः। भास्वत्‌ रक्तकं बन्धूकपुष्पं कुंकुमं च तस्य चित्रकं तिलकं यस्याम्‌॥ 30॥

वृन्दारकसुरवृन्दं यत्र च कर्मदनो मुदायन्ते॥

अर्थार्थमन्यविषयान्सार्थाः सार्थाश्च सार्थवाहानां॥ 31॥

कर्मन्दिनो भिक्षवः। वृन्दारकाणां मुख्यानां सुराणां वृन्दं। अयन्ते गच्छन्ति॥ सार्थवाहानां वणिजां सार्थाः अर्थ सहिताः सार्थाः समूहाः। विषयान्‌ देशांश्चायन्ते॥ 31॥

काल्यादयः स्युरपि च प्रजने हि काल्याः

शाल्यादयः परिणता हरिभक्ततुल्याः॥

भालस्थकुंकुममिवातनुमण्डनानि

सम्भूषयन्त्युपवनानि ततास्तुलस्यः॥ 32॥

अपि च। यत्रेत्यस्यानुवृत्तिः॥ काली महिषी आदिर्यत्र गवादिषु ताः प्रजने गर्भग्रहणे काल्याः प्राप्तकालाः स्युः। अतनूनि अनल्पानि मण्डनानि प्रति। तताः विस्तृताः॥ 32॥

प्रावृषि घनं व्यनुत्तरवर्णं चपला निरीक्ष्य चुम्बनदम्‌॥

क्रीडन्ती तेनवरे शरदभिधे काल आगते लीना॥ 33॥

चपला तडित्‌ कुलटा च घनं मेघं विशेषेणानुत्तरं उत्तमं वर्णं रूपं यस्य तं चुम्बनदं। दृष्टा वस्तुतः व्यनुत्तरवर्णं चुम्बनदम्‌। विगतोनुत्तरः पूर्वः ‘चुमि’ति वर्णः यस्मात्तं वनं जलं ददाति तं। तेन घनेन सह। वरे घवे काले यमतुल्ये वस्तुतः वरे श्रेष्ठे॥ 33॥

यस्याः सार्वजनिक्या योगात्पङ्काधिकापि धात्री द्राक्‌॥

समजनि समा विपङ्का भुवनं निर्मलतरं तथा निखिलम्‌॥ 34

सुरवर्त्म विश्वममलं मैत्रे विमला च मण्डलेपि श्रीः॥

नक्षत्रवृन्दममलन्तस्यायोगादभूदिदं चित्रम्‌॥ 35॥

सर्वजनेभ्यो हिता सार्वजनिकी तस्याः। पङ्कोस्त्री कर्दमे पापे इति मेदीनी। समा सकला। भुवनं जगत्‌ जलं च। सुरवर्त्मं। देवप्राप्तिमार्गः। अभ्रं च मैचे मित्राणां सुहृदां मित्रस्य रवेश्च इदन्तस्मिन्मैत्रे। मण्डले वृन्दे बिम्बे च। क्षत्राणां। क्षत्रियाणां वृन्दं। अमलं न जातमिदं। चित्रं’। मलोसस्त्री पापविट्‌ किट्टेष्वित्यमरः नक्षत्राणां वन्दं च॥ 34॥ 35॥

हेमन्तभूपः सरणं ययौ श्री-

कृष्णं च तत्पूज्यरवेः प्रतापः॥

अल्पीकृतः शीतशरैस्तदागो

दूरीकरिष्यन्निव तं प्रसाद्य॥ 36॥

तस्य श्रीकृष्णस्य पूज्यः श्वशूरः अर्च्यश्च सूर्यस्तस्य। शीतमेव शरा बाणास्तैः। परुत्परार्यादावल्पीकृतः॥ तत्प्रतापाल्पीकरणरूपमागोपराधम्‌॥ 36॥

कान्ता भजन्त उरुभोगभृतो विधूमा-

ग्न्याढ्यां प्रगेत्र शिवमूर्तिसभां हसन्तीम्‌॥

नक्तं विशेषणविशेष्यविपर्ययेण

शम्पामिवातुनुविलासवतीं च धन्याः॥ 37॥

ये। उरुं महान्तं भोगं धनं सुखं च बिभ्रति ते। प्रगे प्रातः। कान्तां। मनोरमां शंकरमूर्तितुल्यां हसन्तीं। अङ्गारधनिकां। भजन्ते सेवन्ते। कीदृशीं हसन्तीं। विधूमेनाग्निना आढ्यां पम्पन्नां। शिवमूर्ति तु विधुना चन्द्रेणोमयाग्निना च सम्पन्नां। नक्तं हसन्तीं हास्यमुखीं कान्तां सुन्दरीम्‌॥ कीदृशीं कान्तां शंपां विद्युतमिव। अतनुः महान्‌ विशेषेण लासः। लसनमस्त्यस्यां तां च भजन्ते ते धन्याः सुकृतिनः॥ यद्वा। धन्याः महाधनवन्तः सन्तः। प्रातः कान्तां हंसन्तीं निशि कान्तां च सेवन्ते इति यत्तदोरध्याहारंविनैवान्वयः॥ 39॥

कन्याः कात्यायन्याः सुरमान्यायाश्च कत्यसामान्याः॥

हेमन्ते सीमान्ते वरस्य भक्त्यार्चकाः श्वशुरवत्स्युः॥ 38॥

असामान्या असाधारणाः कति कन्याः। भक्त्या प्रेम्णाअर्चकाः। पूजकाः। सीमान्ते वरस्य जामातुः। श्वशुरवत्‌। श्वश्रूश्वशुराविव स्युः॥ 38॥

अवनौ हैमनपवनः प्रकंपयन्वर्ततेऽखिलान्‌ जंत्‌न्‌॥

मदनो यथोतितरुणीं यद्वा सिंधौ प्रकंपनस्तरणिम्‌॥ 39॥

सिन्धौ नद्यां समुद्रे वा। प्रकम्पनो महावात इत्यमरः। तरणिं नौकाम्‌॥

यस्मिन्‌ रामफलादयश्च जनतां संतोषयंति द्रवो

दिव्यामिष्टफलैर्व्रजंति सुखितामैकं भजंतो हरम्‌॥

कंपंते जनसंचयाः पवनतः शीतैर्नितांतं तप

आद्यः प्रादुरभूदृतुः स शिशिरः कैलासकल्पस्तदा 40

सः शिशिरोनाम ऋतुः प्रादुरभूत्‌। कीदृशः ईषदूनः कैलासः कैलासकल्पः॥ सः कः। यक्मिन्नृतौ रामफलाख्याः वृक्षभेदाः आदयः यत्र ते। दिव्या उत्तमाः द्रवः। वृक्षाः जनसमूहं सम्यक्‌ मिष्टैः फलै तोषयन्ति॥ एकं केवलं। धूमरहितं हरं वर्ह्नि भजन्तः सेवमानाः। सुखितां। प्रशस्तसुखं। गच्छंति। च। जनानां सञ्चयाः संघाः पवनतः वायुतः। पवाद्वा। निष्पावः पवने पव इत्यमरः। शीतैश्च कम्पते। च तपाः माघमास आद्यः यत्र सः। कैलासै तु। रामाणि चारूणि फलयुष्पादीनि येषां ते। दिव्यां। स्वर्गस्थां जनतां। इष्टस्य। ईप्सितस्य फलैः लाभैः। इच्छितदानौरत्यर्थः। एकं अद्वितीयं हरं शम्भुं। हरो हारकरुद्रयोः॥ वैश्वानरेपीति हैमः। च तेजनानां

वेणूनां सञ्चयाः॥ वेणुमस्करतेजना इत्यमरः। शीतैः वेतसैः सह पवनतः वातेन कंपं चलनमत्त्यन्तं व्रजन्ति। तपःसु आद्यः। तपस्तप्तुमुत्तम इत्यर्थः॥ 40॥

यंत्रेण निष्पीड्य निजं शरीरं

यस्मिन्‌ रसाला मधुरं रसं स्वम्‌॥

प्राज्यं प्रयच्छंति जनेभ्य इत्थं

कुलीनरीतिः प्रथिता पृथिव्याम्‌॥ 41॥

रसाला इक्षवः। कुलीनानां साधुनाम्‌। च रीतिः प्रचारः। इक्षवोपि बीजीभूताः कौलीना भवन्ति॥ 41॥

यस्मिन्दिवीव सुमनस्तोमादीनामुदेति संपत्तिः॥

स्वपरजनानां जननं जेतुं जागर्ति हारवसतिश्च॥ 42॥

यस्मिन्‌ शिशिरे। दिवीव स्वर्गइव सुमनानां गोधूमानां स्तोमाः वृन्दानि आदयः येषु चणकयावनालादिषु तेषां। च हरस्येयं हारी सा चासौ वसतिः रात्रिः शिवरात्रिः। स्वपरजनानां स्वस्मिन्नासक्तलोकानां जननं जन्म। स्वर्गे। तु। सुमनसां देवानां स्तोमा। अत्र शर्परे खरिवेति विसर्गलोपः। आदयः येषु गन्धर्वादिषु तेषां। च। हरेः शक्रस्येयं हारी वसतिः। वासः। वसतिः स्यादवस्थाने निशायां सदनेपिचेति हैमः॥ स्वस्य परेषां रिपूणां दैत्यानां जनानां जननं कुलं। यद्वा। हारवसतिः। औपेन्द्रवासः। स्वे। स्वकीयाः देवास्तेषां परजनादैत्यास्तेषाम्‌॥42॥

निर्वर्ण्योपवनं स्वं स्वं पुरमेतौ त रुक्मिणीकृष्णौ॥

एतौ ह्युपकार्यायां रेभाते वैजयंततुल्यायाम्‌॥ 43॥

निर्वर्ण्य विलोक्य। एतावागतौ। उपकार्यायां। सौधे। वैजयन्तः शक्रप्रासादः॥ 43॥

अहो मृगाक्षीयमतीव दक्षा दत्त्वा मनः स्वं परमाणुतुल्यम्‌॥

श्रीवासुदेवाय ततस्तु मेरोरप्याददे शर्म महत्सदालम्‌ 44

विष्वक्सेनमिमं ततो निरुपमैरूपैर्वयोभिर्गुणैः

सम्पन्ना मुनिदक्कलामितकुरङ्गाक्ष्यः स्वयं वव्रिरे॥

पंडोत्कृष्टमपि स्फुटं स्वजनयत्सर्वा स्वयं त्वात्मव

त्प्रत्त्येकं दशकं सुतस्य च सुतामेकां वशास्वप्यहो 45

विष्वक्सेन। श्रीकृष्णं। पण्डेषु क्लीबेषु उत्कृष्टमपि। परिहारे पण्डया बुध्या उत्कृष्टं। वशासु वंध्यास्वपि। परिहारे अधीनासु। स्वजनयत्‌। सुष्टु जनयति स्म। मुनयः सप्त दिशः दश॥ कलाः षोडश॥45॥

पयोजनाभः पुत्रीश्च वरैर्धन्यैः सुधामभिः॥

युयोज नाम पुत्रांश्च दारैर्मान्यैः सुधाशिभिः॥ 46॥

पयोजनाभः पद्मनाभः श्रीकृष्णः। शोभनानि घामानि देहादीनि येषां तैः। धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोरिति विश्वः॥ वरैः। पतिभिः। नामप्रसिद्धौ। सुधाशिभिः देवैरपि मान्यैः। दारैः पत्नीभिः कन्यापुत्राणां विवाहानकरोदित्यर्थः॥ 46॥

अत्र गोमूत्रिकाबंधः।

प ज भः त्री व र्ध सु म

यो ना पु श्च रै न्यैः घा भिः

यु ज म त्रां दा र्मा सु शि

श्रीशस्यैव भवः समैरनवमैरंगैरभूत्सूत्तम

स्तेनाऽसारतरोप्यसौ तु रुचिरं संसार इत्याह्वयम्‌॥

लेभै यं सकृदेव देव उदरे दाम्ना जनन्या सितो

नाडीमेव परन्तु नित्यमभजद्दामोदराख्यां यथा॥ 47॥

भवः संसारः। समैः सर्वैः। अनवमैरनिंद्यैः। अङ्गैः पतीपुत्रसदनधनादिभिः। सूत्तमोतिश्रेष्ठः संसारः। सम्यक्‌ सारः श्रेष्ठः। वरेन्यवत्सारमुदाहरन्तीति विश्वः। अयं देवः श्रीकृष्णः नाडीमेव घटिकामात्रं। सितः बद्धः कालध्वनोरत्यन्तसंयोग इति द्वितीया॥ 47॥

सान्तोपि नाशशून्यो नित्यमुमाभोपि सोऽविरूपाक्षः॥

भवतो भवतो मानरहितोपि मानरहितोवताद्वेधाः॥ 48॥

सः। वेधाः। श्रीकृष्णः भवतः संसारात्‌। नित्यमवताङ्रक्षतु। भवतः युष्मान्‌। मामपि॥ उमया आभातीतिउमाभः। अविरूपाक्षः। शम्भुभिन्नः। परिहारे सान्तः सकारान्तः। शसयोरैक्याच्छान्तो वा। उमातसीपुष्पमिवोमयाकीर्त्या वाऽऽभातीति॥ उमातसी हैमवती हरिद्रा कीर्तिकान्तिष्वितिमेदिनीं। अविरूपे उत्तमे अक्षिणी नेत्रे यस्य। उत्तममक्षं ज्ञानं चक्रं वा यस्येति वा अविः रविः तद्रूपं नेत्रं यस्येति वा। नरस्य जीवस्यार्जुनस्य वा हितः॥ 48॥

सत्कुलपुष्कंरपुष्करमणिररिपुष्करिहरिर्हरिः श्रीमान्‌॥

पदपुष्करतर्थं नः करुणापुष्करनिधिश्च दर्शयतु॥ 49॥

हरिः नः न पदमेव पुष्करतीर्थं दर्शयतु। पदकमलमेव तीर्थं गुरुरूपं वा। कीदृशः हरिः। सतां कुलमेव पुष्करं कमलतस्य पुष्करमणिः। द्युमणिः। अरय एव पुष्करिणो गजास्तेषां हरिः सिंहः॥ पुष्करी करटी कटीतित्रिकाण्डशेषः॥ करुणायाः कृपायाः पुष्करनिधिः जलधिश्च॥ 49॥

कमलाश्रयो मरालीपोषो हंसोतिमात्रमुक्ताशः॥

साधुगतरस्मदीये शुचिपक्षो मानसे सदारमताम्‌॥ 50॥

कीदृशः हंसः श्रीकृष्णः। अमराणामालीः पंक्तीः पोषयति अतिमात्रेण अत्यन्तसाकल्येन मुक्ता त्यक्ता आशा येन। मात्रं कार्स्न्येवधारणे इति मेदिनी। अतिमात्रात्यन्ता मुक्तानामाशा यत्रेतिवा। साधूनां गतिः गम्यः। शुचीनां पवित्राणां पक्षः सहायश्च॥ हंसपक्षी तु। मरालीं हंसीं पोषयति। अतिमात्रं मुक्ता अश्नाति। साधुगतिः सुन्दरगमनः। शुचिः शुभ्रः। मानसे देवतडागे॥ 50॥

गुणाब्धिकृष्णात्मजवैजनाथ-

पुत्रोत्तमश्रीधरधींरसूनोः॥

श्रीलक्ष्मणस्य प्रथमस्तनूजो

गोविन्दमाध्यन्दिनवेदविद्यः॥

श्रीरुक्मिणीपरिणयं व्यतनोद्धि काव्यं

हालोद्भवाद्भवगजेन्दुमिते स वर्षे॥

एतद्यदप्यमधुरं तदपि प्रधीशाः

क्षारोदकं मधुरतां घनवन्नयन्तु॥ 52॥

काव्यं यस्तु पठेदिदं स मनुजो रुण्याद्धरेः कानना-

न्नित्यं खी सुमुखो भवेच्च विमुखो द्यावान्धपूर्वों नवान्‌्॥

जावांश्च प्रमुखो ण्यवान्युवदनो जायादको वातृकः

क्वादिर्लीनजना(यी धवपदे माद्ये च रक्तः सदा॥ 53॥

कावर्णमाननं मुखं प्रथमं यस्य तस्माद्रुण्यात्‌ कारुण्याद्धेतोः। सुमुखः खी। सुखी। विः मुखं यस्य स द्यावान्‌। विद्यावानेवमग्रेपि। जैः आदिर्यस्य सः। अत्राऽऽयादेशः। जैवातृकः स्यादायुष्मानित्यर्थः। क्वादिः कुः आदिर्यस्य सः। कुलीनजनाश्रयी। कुलीनाः साधवः। मा आद्यः यस्य तत्र धवपदे। माधवपदे॥ 53॥

कारुण्यमुख्यार्यगुणाम्बुनिध्योः

श्रीपार्वतलक्ष्मणयोः सुतेन॥

गोविन्दवलिप्रेण तु रुक्मिणीश्री-

हर्योर्यशस्पात्रमकारि काव्यम्‌॥ 54॥

इति श्री रुक्मिणीपाणिग्रहणकाव्ये गोविन्दान्तर्वाणि विरचिते नवमः सर्गः॥ 9॥

समाप्तम्‌


]