भावनासारसङ्ग्रहः

[[भावनासारसङ्ग्रहः Source: EB]]

[

श्रीश्रीभावनासारसङ्ग्रहः

(१) निशान्तलीला (१८५ वेर्सेस्)

(२) प्रातर्लीला (४६६ वेर्सेस्)

(३) पूर्वाह्नलीला (३९९ वेर्सेस्)

श्रीश्रीभावनासारसङ्ग्रहः

(१)

निशान्तलीला

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥१॥

चैतन्यचन्द्रामृतं १३—

सिंहस्कन्धं मधुरमधुरस्मेरगण्डस्थलान्तं

दुर्विज्ञेयोज्ज्वलरसमयाश्चर्यनानाविकारम् ।

विभ्रत्कान्तिं विकचकनकाम्भोजगर्भाभिरामाम्

एकीभूतं वपुरवतु वो राधया माधवस्य ॥२॥

आनन्दवृन्दावनचम्पूः १.२—

शोणस्निग्धाङ्गुलिदलकुलं जातरागं परागैः

श्रीराधायाः स्तनमुकुलयोः कुङ्कुमक्षोदरूपैः ।

भक्तश्रद्धामधुनखमहःपुञ्जकिञ्जल्कजालं

जङ्घानालं चरणकमलं पातु नः पूतनारेः ॥३॥

भक्तिरसामृतसिन्धु १.१.४—

भक्तिरसामृतसिन्धौ चरतः परिभूतकालजालभियः ।

भक्तमकरानशीलितमुक्तिनदीकान्नमस्यामि ॥४॥

श्रीगौरचन्द्रः

प्रगे श्रीवासस्य द्विजकुलरवैर्निष्कु अवरे

श्रुतिध्वानप्रख्यैः सपदि गतनिद्रं पुलकितम् ।

हरेः पार्श्वे राधास्थितिमनुभवन्तं नयनजैर्

जलैः संसिक्ताङ्गं वरकनकगौरं भज मनः ॥५॥

मूलसूत्रः

गोविन्दलीलामृतं १.१०—

रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी

पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः ।

दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्खटीगीः सशङ्कौ

राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि ॥६॥

कृष्णभावनामृतं १.४९—

प्रतिस्वसेवावसरप्रबोधिता

सदातनाभ्यासजुषोऽथ किङ्करीः ।

निद्रैव रात्र्यन्तमवेत्य ता जहौ

सैव स्वयं जागरयाञ् चकार किम्? ॥७॥

उत्थाय तल्पाच्चकितेक्षणाः क्षणान्

दुहानयोर्नागरचक्रवर्तिनोः ।

स्वापं रहःस्वापमभङ्गमङ्गना

आलक्ष्य तूष्णीमधिशयमासत ॥८॥

पप्रच्छुरन्योन्यमिमा मिमानया

रसं परीहासभृतं सजृम्भया ।

गिरा चिराज्जागरमूढघूर्णन

स्वस्वाक्षिभृङ्गीततिलीढवक्षसः ॥९॥

निशान्तसेवोचितमाल्यवीटिका

कृत्यात्तचित्ता अथ काचिदाह ताः ।

अनङ्गबद्धाङ्गयुवद्वयोच्छलत्

सौरभ्यसौलभ्यवती रसोच्चला ॥१०॥

जानीत जालाध्वगतास्यपद्माः

सद्मान्तराल्यः स्वदृशः प्रहित्य ।

कान्तौ नितान्तातनुलास्यचुञ्चु

धिनोति सुप्तिः परिरभ्य कीदृक॥११॥

इतस्ततो न्यस्तमणिप्रदीपान्

अफुल्लनीलोत्पलचम्पकाभान।

विधत्त एतौ स्वमयूखवृन्दैर्

अनावृतैर्मण्डनमाल्यचेलैः ॥१२॥

कृष्णभावनामृतं १.१५१९—

स कृष्णमेघः स्थिरचञ्चलाली

वृतोऽतिमाधुर्यरसैरमूः किम्? ।

आस्नापयत्स्वार्हणकृत्यवृत्ताः

प्रत्यर्हणेनादित एव धिन्वनाणाम् ॥१३॥

ताम्बूलमालाविविधानुलेपैर्

अङ्गारधान्यागुरुवैश्च धूपैः ।

कालोचितैस्तैः प्रतिपाद्यमानैः

कतिक्षणांस्ता गमयां बभूवुः ॥१४॥

प्रभञ्जनो रञ्जयितुं निकुञ्ज

राजौ व्यराजिष्ट मुदा तदानीम् ।

मन्ये प्रबुध्य श्लथदुर्बलाङ्गो

द्रुतं प्रयातुं नतरां शशाक ॥१५॥

या वृक्षवल्ल्यो व्यकसंस्तदैव ताश्

चुम्बंस्तदामोदभरैर्दिशो दश ।

प्रसारितैः श्वासपथप्रवेशितैर्

भृङ्गावलीर्जागरयाञ् चकार सः ॥१६॥

तद्गुञ्जितै रञ्जितसुस्वरैर्भृशं

प्रबुध्य वृन्दाऽथ विलोक्य सर्वतः ।

स्वनाथयोर्जागरणे पतत्रिणो

न्ययुङ्क्त कालज्ञतया रयादियम् ॥१७॥

गोविन्दलीलामृतं १.१२—

आसन्यदर्थं प्रथमं द्विजेन्द्राः

सेवासमुत्कण्ठधियोऽपि मूकाः

वृन्दानिदेशं तमवाप्य हर्षात्

क्रीडानिकुञ्जं परितश्चुकूजुः ॥१८॥

गोविन्दलीलामृतं १.१४२१—

अथालिवृन्दं मकरन्दलुब्धं

रतीशितुर्मङ्गलकम्बुतुल्यम् ।

प्रफुल्लवल्लीचयमञ्जुकुञ्जे

जुगुञ्ज तल्पीकृतकञ्जपुञ्जे ॥१९॥

झङ्कृतिमङ्गीकुरुते

रतिमङ्गलझल्लरीव गोविन्दम् ।

बोधयितुं मधुमत्ता

मधुपीततिरुद्भ आनन्दा ॥२०॥

पिकश्रेणी मनोजस्य वीणेव व्यक्तपञ्चमम् । आललाप स्वरं तारं कुहूरिति मुहुर्मुहुः ॥२१॥

रतिमधुरविपञ्चीनादभङ्गीं दधाना

मदनमदविकूजत्कान्तपार्श्वे निषण्णा ।

मृदुलमुकुलजालास्वादविस्पष्टकण्ठी

कलयति सहकारे काकलीं कोकिलाली ॥२२॥

विद्राव्य गोपीधृतिधर्मचर्या

लज्जामृगीर्मानवृकेष्वमर्षी ।

कपोतघूत्कारमिषेण शङ्के

गर्जत्ययं कामतरक्षुराजः ॥२३॥

राधाधैर्यधराधरोद्धृतिविधौ केऽन्ये समर्था विना

कृष्णं कृष्णसुमत्तकुञ्जरवशीकारेऽप्यलं शृङ्खलाः ।

अन्याः का वृषभानुजामिह विना धन्यामतीवादृताः

केकाः किं समुदीरयन्ति शिखिनस्तौ बोधयन्तः प्रगे ॥२४॥

ह्रस्वदीर्घप्लुतैर्युक्तं कुकूकूकू इति स्वरम् ।

कुक्कुटोऽप्यपठत्प्रातर्वेदाभ्यासी बटुर्यथा ॥२५॥

अथ पक्षिणां कलकलैः प्रबोधिताव्

अपि तौ मिथोऽविदितजागरौ तदा ।

निबिडोपगूहणविभङ्गकातरौ

कपटेन मीलितदृशावतिष्ठताम् ॥२६॥

कृष्णभावनामृतं १.२८३२—

वृन्देङ्गितज्ञः स विचक्षणः शुकः

शुको यथा भागवतार्थकोविदः ।

दक्षः प्रबोधे जगतां प्रभोरति

प्रेमास्पदत्वानुपमः समभ्यधात॥२७॥

जय स्मराशेषविलासवैदुषी

निष्णातगोपीजनलोचनामृत! ।

प्राणप्रियाप्रेमधुनीमतङ्गज!

स्वमाधुरीप्लावितलोकसंहते ॥२८॥

प्रियाधरास्वादसुखे निमज्जसि

प्रबुध्यसे नेत्युचितं रसाम्बुधे! ।

रिरंसुतायां विरिरंसुरेव ते

किं चाधुनेयं क्षणदा क्षणं द्यति ॥२९॥

जहीहि निद्रां श्लथयोपगूहनं

व्रजं प्रतिष्ठासुररं प्रभो! भव ।

प्रातर्बभूवानुसर स्वचातुरीं

प्रच्छन्नकामत्वमथोररीकुरु ॥३०॥

जय व्रजानन्दन! नन्दचेतः

पयोधिपीयूषमयूख! देव! ।

गोष्ठेश्वरीपुण्यलताप्रसून!

प्रयाहि गेहाय धिनु स्वबन्धून॥३१॥

गोविन्दलीलामृतं १.२३२४—

गोकुलबन्धो! जय रससिन्धो!

जागृहि तल्पं त्यज शशिकल्पम् ।

प्रीत्यनुकूलां श्रितभुजमूलां

बोधय कान्तां रतिभरतान्ताम् ॥३२॥

उदयं प्रजवादयमेत्यरुणस्

तरुणीनिचये सहजाकरुणः ।

निभृतं निलयं व्रजनाथ! ततस्

त्वरितोऽट कलिन्दसुतातटतः ॥३३॥

कृष्णभावनामृतं १.३३—

शारी शुभा साऽथ जगाद सूक्ष्मधीः

शारी यथा देवनसम्मतस्थितिः ।

जयेश्वरि! स्वीयविलाससौभग

श्रीतर्षितश्रीमुखमुख्ययौवते ॥३४॥

गोविन्दलीलामृतं १.२५—

कमलमुखि! विलासायासगाढालसाङ्गी

स्वपिषि सखि! निशान्ते यत्तवायं न दोषः ।

दिगियमरुणितैन्द्री किन्तु पश्याविरासीत्

तव सुखमसहिष्णुः साध्वि! चन्द्रासखीव ॥३५॥

कृष्णभावनामृतं १.३४—

शेषेऽधुना यद्रतिवल्लभास्य

राजीवराजन्मधुपानमत्ता ।

असाम्प्रतं तत्खलु साम्प्रतं ते

प्रातस्ततो जागरयाम्यहं त्वाम् ॥३६॥

गोविन्दलीलामृतं १.३८३९, ४१—

कृष्णोऽप्यनिद्रः प्रिययोपगूढः

कान्ताऽप्यनिद्राऽप्यमुनोपगूढा ।

तल्पात्प्रभाताकुलमप्यनल्पान्

नोत्थातुमेतन्मिथुनं शशाक ॥३७॥

कृष्णस्य जानूपरियन्त्रितसन्नितम्बा

वक्षःस्थले धृतकुचा वदनेऽर्पितास्या ।

कण्ठे निवेशितभुजाऽस्य भुजोपधाना

कान्ता न हीङ्गति मनागपि लब्धबोधा ॥३८॥

श्रीकृष्णलीलारचनासु दक्षस्

तत्प्रेमजानन्दविफुल्लपक्षः ।

दक्षाख्य आह श्रितकुञ्जकक्षः

शुकः समध्यापितकीरलक्षः ॥३९॥

गोविन्दलीलामृतं १.३२—

एकं प्राच्यामरुणकिरणापा अलायां विधत्ते

चक्षुः कान्ते त्वरितमपरं दूरगे चक्रवाकी ।

शङ्काक्रान्तास्तरुकुहरगा मूकतां यान्ति घूकाः

शङ्के भास्वानुदयमुदगात्कृष्ण! निद्रां जहीहि ॥४०॥

कृष्णाह्निककौमुदी १.१९—

जय जय गुणसिन्धो! प्रेयसीप्राणबन्धो!

व्रजसरसिजभानो! सत्कलारत्नसानो! ।

इह हि रजनीशेषे किंमना नाथ! शेषे

समयमवकलयापीष्यते कुञ्जसय्या? ॥४१॥

कृष्णाह्निककौमुदी १.२४—

अयमपि च शिखण्डी जागरित्वैव खण्डी

कृतसुललितकेकः कालनिष्ठाविवेकः ।

प्रमिलति तव निद्राहानयेऽधीदरिद्राः

शिव शिव निजसेवाकालमुज्झन्ति के वा? ॥४२॥

गोविन्दलीलामृतं १.३६३७—

वृन्दावक्त्रादधिगतविद्या

सारी हारीकृतबहुपद्या ।

राधास्नेहोच्चयमधुमत्ता

तस्या निद्रापनयनयत्ता ॥४३॥

निद्रां जहीहि विजहीहि निकुञ्जशय्यां

वासं प्रयाहि सखि! नालसतां प्रयाहि ।

कान्तं च बोधय न बोधय लोकलज्जां

कालोचितां हि कृतिनः कृतिमुन्नयन्ति ॥४४॥

कृष्णाह्निककौमुदी १.३—

व्रजपतितनयाङ्कासङ्गतो वीतशङ्का

विधुमुखि! किमु शेषे निर्भरं रात्रिशेषे? ।

प्रमदमधुपपुञ्जे मा परं तिष्ठ कुञ्जे

न गणयसि विगर्हां किं गुरुणामनर्हाम्? ॥४५॥

कृष्णाह्निककौमुदी १.७—

सुदति! कुमुदिनीनामङ्कमासाद्य लीना

मदमधुकरमाला कालमासाद्य लोला ।

सरति कमलिनीनां राजिमेतामदीनां

भवति समय एव ग्लानिहर्षादिदेवः ॥४६॥

कृष्णाह्निककौमुदी १.१०११—

वियदतिलघुतारं त्वद्वपुः क्षुण्णहारं

विगलितकुसुमानां वर्ष्म शेफालिकानाम् ।

त्रितयमिदमिदानीमेकरूपं तदानीम्

अपि यदपि तथापि त्वद्वपुः श्रीभिरापि ॥४७॥

त्रुटितपतितमुक्ताहारवत्ते वियुक्ता

भवदुडुततिरेषा स्वल्पमात्रावशेषा ।

चिरशयनमवेक्ष्यारुन्धती ते विलक्ष्या

भवदिव परिवक्रे पश्य सप्तर्षिचक्रे ॥४८॥

कृष्णाह्निककौमुदी १.२८२९—

इति कलवचनानां शारिकाणां शुकानां

रुतमतिशयरम्यं श्रोत्रपेयं निशम्य ।

विहितशयनबाधा सा जजागार राधा

प्रथममथ स कृष्णः स्वापलीलावितृष्णः ॥४९॥

युगपदुभयनिद्राभङ्गविध्वस्तमुद्रा

युगपदुभयनेत्रापाङ्गभङ्गी विचित्रा ।

युगपदुभयघूर्णाजातसंक्लेशपूर्णा

भवदुभयविलोकाभावतः प्राप्तशोका ॥५०॥

कृष्णभावनामृतं १.३६३८—

कलक्वणत्कङ्कङनूपुरं जवाद्

अत्युच्छलद्गात्रयुगच्छविच्छटाम् ।

व्यस्तालकाग्रावलिवेष्टनोन्नमत्

ता अङ्कहारद्युतिदीपिताननम् ॥५१॥

स्रस्तांशुकान्वेषणसंभ्रमोदयाद्

इतस्ततो न्यस्तकराब्जमञ्जुलम् ।

शय्योत्थितं केलिविलासिनोस्तयोस्

त्रैलोक्यलक्ष्मीमिव सञ्चिकाय तम् ॥५२॥

घूर्णालसाक्षं श्लथसर्वगात्रं

विश्रस्तकेशं रसिकद्वयं तत।

भुग्नोपवेशं स्खलने कथं चिद्

अन्योन्यमालम्बनतां प्रपेदे ॥५३॥

अलङ्कारकौस्तुभः ५.११९१२१—

अन्योन्यग्रथिताङ्गुलीकिसलयामुन्नीय बाहुद्वयीं

जृम्भारम्भपुरःसरं विदधती गात्रस्य संमोटनम् ।

मीलन्नेत्रमुरोजयोर्नखपदव्यादानदीनानना

नानानेति पुनर्नखक्षतधिया सा कृष्णपाणी दधे ॥५४॥

सङ्गोपाय्य पटाञ्चलेन तनुना निःसारिदन्तावली

ज्योत्स्नाभिः स्नपितेन दक्षिणकराकृष्टेन वक्त्राम्बुजम् ।

लीलोल्लासितकन्धरं मृदुकलैर्वामाङ्गुलिच्छो इका

निःस्वानैश्चलकङ्कणस्वनसखैः श्रीराधिकाऽजृम्भत ॥५५॥

अलसवलितमूर्ध्वीकृत्य मूर्धोपकण्ठे

वलयितमिदमन्योन्येन संसक्तपाणि ।

त्रिकविचलनभङ्गिसङ्गि मो आयितायाः

परिधिरिव मुखेन्दोर्भाति दोर्द्वन्द्वमस्याः ॥५६॥

गोविन्दलीलामृतं १.५१५३—

उत्थायेशः सन्निविष्टोऽथ तल्पे

व्याजान्निद्राशालिनीं मीलिताक्षीम् ।

दोर्भ्यां कान्तां स्वाङ्कमानीय तान्तां

पश्यत्यस्या माधुरीं साधुरीति ॥५७॥

घूर्णायमानेक्षणखञ्जरी अं

लला अलोलालकभृङ्गजालम् ।

मुखं प्रभाताब्जनिभं प्रियायाः

पपौ दृशेषत्स्मितमच्युतोऽसौ ॥५८॥

संश्लिष्टसर्वाङ्गुलिबाहुयुग्मम्

उन्मथ्य देहं परिमोटयन्तीम् ।

उद्बुद्धजृम्भास्फुटदन्तकान्तिम्

आलोक्य कान्तां मुमुदे मुकुन्दः ॥५९॥

कृष्णभावनामृतं १.४०—

तदैव जृम्भोत्थरदांशुजाल

माणिक्यदीपैर्निरराजयत्किम् ।

सनिद्रमुन्मुद्रदृगन्तलक्ष्मी

रसज्ञयान्योन्यविलिह्यमानम् ॥६०॥

गोविन्दलीलामृतं १.५४५९—

स्वीयाङ्कोत्तानसुप्तामुषसि मृदु मृषा रोदनेषत्स्मितास्याम्

अर्धोन्मुक्ताग्रकेशां विमृदितकुसुमस्रग्धरां छिन्नहाराम् ।

उन्मील्योन्मील्य घूर्णालसनयनयुगं स्वाननालोकनोत्कां

कान्तां तां केलितान्तां मुदमतुलतमामाप पश्यन्व्रजेन्दुः ॥६१॥

हेमाब्जाङ्ग्याः प्रबलसुरतायासजातालसायाः

कान्तस्याङ्के निहतवपुषः स्निग्धतापिञ्छकान्तेः ।

शम्पाकम्पा नवजलधरे स्थास्नुतां चेदधास्यत्

श्रीराधायाः स्फुटमिह तदा साम्यकक्षामवाप्स्यत॥६२॥

स्फुरन्मकरकुण्डलं मधुरमन्दहासोदयं

मदालसविलोचनं कमलगन्धि लोलालकम् ।

मुखं स्वदशनक्षताञ्जनमलीमसौष्ठं हरेः

समीक्ष्य कमलेक्षणा पुनरभूद्विलासोत्सुका ॥६३॥

परस्परालोकनजातलज्जा

निवृत्तचञ्चद्दरकुञ्चिताक्षम् ।

ईषत्स्मितं वीक्ष्य मुखं प्रियाया

उद्दीप्ततृष्णः पुनरास कृष्णः ॥६४॥

वामेन चाधः शिर उन्नमय्य

करेण तस्याश्चिबुकं परेण ।

विभुग्नकण्ठः स्मितशोभिगण्डं

मुखं प्रियायाः स मुहुश्चुचुम्ब ॥६५॥

कान्ताधरस्पर्शसुखाब्धिमग्ना

करं धुनाना दरकुञ्चिताक्षी ।

मा मेति मन्दाक्षरसन्नकण्ठी

सखीदृशां सा मुदमाततान ॥६६॥

कृष्णभावनामृतं २.२०२४—

रूपामृतं मे त्रिजगद्विलक्षणं

निःसीममाधुर्यमिदं च यौवनम् ।

अद्यैव साफल्यमवाप सर्वथा

प्रेयानुपाभुङ्क्ततमां मुदा यतः ॥६७॥

सैवं विचिन्त्य क्षणमाह कान्तं

तदक्षिपीताखिलमाधुरीका ।

स्वान्तर्मुदात्यर्थलसद्दृगन्त

लक्ष्मीविहारायतनास्यपद्मम् ॥६८॥

भो भो विलासिन्नवधेहि यत्त्वया

विस्रस्तवेशाभरणास्म्यहं कृता ।

यावन्मदाल्योऽनुसरन्ति नोषसि

द्रुतं समाधित्ससि तन्न किं पुनः ॥६९॥

स्वचातुरीं साधय मां प्रसाधय

प्रसादयानङ्गमभीष्टदैवतम् ।

योऽस्मन्मनोमन्दिरवर्त्ययं त्वया

बहिष्कृतो लक्ष्मभिरेभिरेव यत॥७०॥

सत्यं ब्रवीष्यङ्गजमिष्टदेवं

त्वदङ्गपीठे प्रकटीभवन्तम् ।

यजामि भूषाम्बरगन्धपुष्पं

स्रक्चन्दनाद्यैरिति तां स ऊचे ॥७१॥

सङ्ग्रहकर्तुः—

इत्थमीश्वर्या वाक्यं हि

श्रुत्वा सेवनपेशला ।

तदुपयोगिवस्तूनि

समर्पयितुमुत्सुका ॥७२॥

कृष्णभावनामृतं १.२६—

द्वारं समुन्मुच्य मनागनारवं

शनैः पदन्यासविशेषमञ्जुला ।

निर्णीत तज्जागरणाथ किङ्करी

ततिर्विशङ्का प्रविवेश वेश्म सा ॥७३॥

कृष्णभावनामृतं १.९—

इतस्ततो न्यस्तमणिप्रदीपान्

अफुल्लनीलोत्पलचम्पकाभान।

विधत्त एतौ स्वमयूखवृन्दैर्

अनावृतैर्मण्डनमाल्यचेलैः ॥७४॥

गोविन्दलीलामृतं १.६३—

मिथो दशनविक्षताधरपु औ विलासालसौ

नखाङ्कितकलेवरौ गलितपत्रलेखाश्रियौ ।

श्लथाम्बरसुकुन्तलौ त्रुटितहारपुष्पस्रजौ

मुहुर्मुमुदिरे पुरः समभिलक्ष्य ताः स्वप्रियौ ॥७५॥

कृष्णभावनामृतं २.२५३३—

अथामुना कङ्कतिकां शनैः शनैर्

विकर्षता भानुमतीकरार्पिताम् ।

कचावली संस्त्रियते स्म मालती

मालोतवेणीरचनापटीयसा ॥७६॥

कस्तूरिकाचन्दनकुङ्कुमद्रवैः

सम्भावितैस्तामनुरागलेखया ।

चकार मालाञ्चितचारुचित्रकां

स चित्रचुञ्चुर्धृतनव्यवर्तिकः ॥७७॥

ता अङ्कयुग्मेन लवङ्गमञ्जरी

सम्पादितापूर्वरुचा स चारुणी ।

आनर्च तस्याः श्रवणे नवाञ्जने

नानञ्जकञ्जप्रतिमेतदक्षिनी ॥७८॥

दधार हारं रुचिमञ्जरीलितं

यदा तदोचे प्रियया मदोद्धुरम् ।

या खण्डिता चन्दनकञ्चुली त्वया

वक्षोजयोस्तां न कुतश्चिकीर्षसि? ॥७९॥

आलेख्यकर्मण्यतिगर्वधारिणीस्

तास्ता विशाखाप्रभृतीर्भवत्सखीः ।

विस्मापयाम्यद्य कुचद्वये कृतैश्

चित्रैर्विचित्रैरिति तां जगाद सः ॥८०॥

प्रसाधनार्थप्रतिपादनोन्मुख

श्रीरूपलीलारतिमञ्जरीमुखः ।

स्तनद्वयं तुलिकयाङ्कयन्हरि

पञ्चेषुपञ्चेषुशरव्यतामगात॥८१॥

पाणिश्च कम्पे यदि वक्ररेखं

चित्रं विलुम्पन्नुरसा मुहुः सः ।

मन्ये स्मराग्निं धमति स्म तस्या

धृतीन्धनं दग्धुमना विदग्धः ॥८२॥

कामस्तमवकल्पमनल्पवैभवैः

सद्यो विधायानियतस्थलस्थितम् ।

विमृज्य संसृज्य विखण्ड्य खण्डशस्

तेनैव सोल्लासमुभावभूषयत॥८३॥

दास्यश्च ताः फुल्लदृशां कृतार्थतां

मूर्तां चिरायाभिलषन्त्य एव ताम् ।

पुना रिरंसू समवेत्य तौ ततो

मिषेण सर्वा निरगूहि केनचित॥८४॥

कृष्णभावनामृतं १.४१४२—

पुनरपि घनघूर्ण श्रीमुखद्वन्द्वयोगाद्

अचटुलभुजवल्लीवेष्टनेनेष्टभासौ ।

क्षणमपि दरसुप्त्या शं भजावेत्य तस्ताव्

अनृजुकुसुमतल्पे स्रस्तगात्रावभूताम् ॥८५॥

विरहविकलया तच्छय्यया दूनया किं

कथमपि दरलब्धाश्लेषया निद्रया वा ।

उषसि न च विहातुं हन्त शक्तौ खगास्तौ

तदपि विदधुराभ्यां विप्रयुक्तौ स्वनन्तः ॥८६॥

कृष्णाह्निककौमुदी १.४६—

अगणितकुलनिष्ठा मा निकुञ्जे शयिष्ठाः

परिहर सुरतघ्नं स्वापमुद्गच्छ शीघ्रम् ।

समजनि सविशेषः पश्य दोषावशेषः

कुरु न गतसमाधां बन्धुवर्गस्य बाधाम् ॥८७॥

इयमजनि दिगैन्द्री दृश्यतां देवि! सान्द्री

भवदरुणिमधारा त्वत्पादाब्जानुकारा ।

इयमपि च वराकी सत्वरा चक्रवाकी

परिमिलित रथाङ्गे जातविच्छेदभङ्गे ॥८८॥

अपि तव मुखशोभामाप्तुकामोऽतिलोभाद्

अपरिकलितकामः स्वं वपुस्त्यक्तुकामः ।

चरमशिखरिशृङ्गं प्राप्य पश्यैव तुङ्गं

व्रजति शशधरोऽस्तं वारयेदद्य कस्तम् ॥८९॥

कृष्णाह्निककौमुदी १.९—

सुमुखि! नयनमुद्रां मुञ्च निर्धूय निद्रां

कलय वदनमासां विद्युदुद्द्योतभासाम् ।

रतिविगलितभूषां व्यस्तपर्यस्तवेषां

विलुलिततनुमेतास्त्वां भजन्तां समेताः ॥९०॥

कृष्णाह्निककौमुदी १.१२१८—

निजकरपरिपुष्टा पश्य सेयं प्रविष्टा

शशिमुखि! ललिताङ्गी सन्निधौ ते कुरङ्गी ।

कुरु सकृपमपाङ्गे किञ्चिदञ्चत्तरङ्गे

भवतु बत कृतार्था प्रीतये ते समर्था ॥९१॥

नवकिशलयबुद्ध्या जातितोऽन्तर्विशुद्ध्या

रुणपदकमलं ते स्वादितुं कृष्णकान्ते! ।

त्वरितमुपसरन्ती त्वत्सखीनां वहन्ती

करसरसिजघातं या विधत्ते प्रयातम् ॥९२॥

शशिमुखि! तव फेलामात्रभोगे सखेला

तव पदजलपानामोदमात्रावधाना ।

अपि भवदवलोकाभावसञ्जातशोका

तव मुखशशिबिम्बालोकमात्रावलम्बा ॥९३॥

हरिरतिकुतुकी ते नेत्रयुग्मं मिमीते

नयनयुगममायप्रेम यस्याः प्रमाय ।

किमपि विमलमुक्तामालया चारुवक्ता

नियतमुपमिमानः संशयं निर्धुनानः ॥९४॥

इति निगदितवत्यः शारिकाः प्रेमवत्यः

सुखदपदपदार्थां वाचमुत्थापनार्थाम् ।

यदि किमपि विरेमुः पत्रिणस्तं प्रणेमुः

समुपसृतनिकुञ्जाः प्राप्तसम्मोदपुञ्जाः ॥९५॥

अथ शयनसतृष्णं बोधयामास कृष्णं

विततिरपि शुकानां कृष्णहर्षोत्सुकानाम् ।

श्रवणसुखदसौम्यैः स्निग्धशब्दार्थरम्यैः

सरसतरमनल्पैः कूजितैः सीधुकल्पैः ॥९६॥

प्रणयरसगभीराश्चारुशब्दार्थधीराः

कलसुमधुरकण्ठाः प्रेमजल्पेष्वकुण्ठाः ।

सति समयविवेके बोधयां चक्रुरेके

न खलु बत विदग्धाः कार्यकाले विमुग्धाः ॥९७॥

कृष्णाह्निककौमुदी १.२३—

सुभग! रजनिशेषे स्वापगेहे सुशेषे

त्वमिति हि जननी ते संशयं स्वं धुनीते ।

समयमथ विदित्वा जागरार्थं त्वरित्वा

स्वयमियमुपगन्त्री स्नेह एवात्र मन्त्री ॥९८॥

कृष्णाह्निककौमुदी १.२२—

त्वमसि समयवेत्ता सर्वदुःखैकभेत्ता

भवसि भुवनबन्धुः सद्गुणग्रामसिन्धुः ।

व्रततिभवनतल्पं मूर्तिमन्मोदकल्पं

यदपि तदपि मुञ्च स्वस्ति तेऽस्मादुदञ्च ॥९९॥

कृष्णाह्निककौमुदी १.२०२१—

मदमधुपयुवानः प्राप्तदोषावसानः

च्युतकुसुमवनान्तः स्वापमुद्यातवन्तः ।

दधति कतिपयथ्यां केलिमम्भोजवीथ्यां

सति समयविवेके के विमुह्यन्ति लोके? ॥१००॥

क्वचन मुखविषादः क्वापि हासप्रसादः

क्व च दयितवियोगः क्वापि कान्तस्य योगः ।

कुमुदकमलवीथ्योर्वैसदृश्येऽतितथ्ये

भवति किमु न कालः क्षोभशोभाविशालः ॥१०१॥

कृष्णाह्निककौमुदी १.२७—

जय सुभग! नमस्ते श्रूयतां सत्वरस्ते

चिरशयनसपीडः कौत्ययं ताम्रचूडः ।

उपनतनिजसेवाकालसम्मोदपीवा

नहि समयविदग्धः कार्यकाले विमुग्धः ॥१०२॥

कृष्णभावनामृतं १.२०२२—

अथ प्रबुध्यैव विधूय पक्षान्

ग्रीवाः समुन्नीय चुकूजुरुच्चैः ।

यत्कुक्कुटाः पञ्चषवारमादौ

राधा जजागार तदाप्तबाधा ॥१०३॥

कृष्णाण्गसंश्लेषविशेषवाधिनस्

तानेव मत्वेति शशाप सा रुषा ।

अरे! परेताशु परेतरा पुरं

तत्रैव किं कूजत नो पदायुधाः? ॥१०४॥

विश्लिष्य किञ्चित्प्रियवक्षसः सा

तूष्णीं स्थितांस्तानुपलभ्य सद्यः ।

संश्लिष्य कान्तं दरनिद्रयैव

निषेव्यमाणा पुनरप्यराजीत॥१०५॥

कृष्णभावनामृतं २.१६—

जालादथो दृक्सफरी तदालयो

लावण्यवन्या भृशमन्वशीलयन।

क्रीणन्ति याः प्राणपरार्द्धकोटिभिस्

तयोः प्रमोदोत्थरुचिच्छटाकणम् ॥१०६॥

ऊचे विशाखा कलयालि! कान्तौ

निरंशुकावंशुकपुञ्जमञ्जू ।

विहारिणावप्यतिहारिणौ स्वैर्

अङ्गैरनङ्गैरलसौ लसन्तौ ॥१०७॥

अनङ्गदौ केलिवशादनङ्गदौ

निरञ्जनौ हन्त मिथो निरञ्जनौ ।

विस्रस्तरागाधरताभिलक्षितौ

विप्रस्तरागाधरताभिलक्षितौ ॥१०८॥

अथावभाषे ललिताऽवधार्यतां

जयः स्मराजौ कतराश्रितो द्वयोः ।

बभूव दष्टाधरयोः कचग्रह व्याक्षिप्तमूर्ध्नोर्नखरक्षतोरसोः ॥१०९॥

हृदोऽनुरागं कुचकुङ्कुमच्छलान्

न्यधत्त राधाच्युतपादपद्मयोः ।

यावद्रवारक्ततरालको दधौ

मूर्ध्नैव सोऽस्याः पदयोस्तमुज्ज्वलम् ॥११०॥

इत्थं क्षणं तावदलक्षिताङ्ग्यो

नीचैः स्वरं तावनुवर्णयन्त्यः ।

भाग्यं स्वमेवातिसभाजयन्त्यो

ममज्जुरानन्दमहोदधौ ताः ॥१११॥

कृष्णभावनामृतं १.२३२५—

ततः पुनस्तानथ टिट्टिभादीन्

उत्कूजतः प्राह विधूततन्द्रा ।

हंहो! क्षमध्वं शयितुं क्षणं मे

दत्तेति सा मोटयदङ्गमीषत॥११२॥

कादम्बकारण्डवहंससारसाः

कपोतशारीशुककेकिकोकिलाः ।

जगुः कलं केलिवनीजलस्थल

प्रचारिणः कृष्णकथामृतोपमम् ॥११३॥

प्रबुद्ध्य कान्तौ युगपद्यथा रुजं

विश्लेषजामूहतुरङ्गमोटनात।

चाम्पेयनीलाब्जधनुस्त्विषौ तथा

सान्द्रोपगूहेन मुदं च वक्षसोः ॥११४॥

गोविन्दलीलामृतं १.६०६२—

अथास्या वयस्याः प्रमोदात्स्मितास्याः

सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः ।

सशङ्काः समन्तात्प्रभाताद्दुरन्तात्

प्रविष्टा निकुञ्जं सशब्दालिपुञ्जम् ॥११५॥

अभिलक्ष्य सखीर्विहसद्वदनाः

सविधोपगता विचलन्नयनाः ।

दयिताय मुदं द्विगुणं ददती

दयितोरुयुगादुदतिष्ठदियम् ॥११६॥

त्वरोत्थिता सम्भ्रमसंगृहीत

पीतोत्तरीयेण वपुः पिधाय ।

पार्श्वे प्रियस्योपविवेश राधा

सलज्जमासां मुखमीक्षमाणा ॥११७॥

कृष्णभावनामृतं २.७—

अथानुरक्ताल्यनुमोदनाञ्चिता

मुदा तयोरैधत रूपमञ्जरी ।

सैव स्वयं केलिविलासिनोर्द्वयोस्

तदात्वरम्यापचितौ पटीयसी ॥११८॥

कृष्णभावनामृतं २.९—

पृष्ठोपधानं निदधे कयाचन

प्यधादथान्या मृदुलांशुकेन तौ ।

पीयूषव यार्पितयास्ययोः परा

निरस्य घूर्णां विकसद्दृशौ व्यधात॥११९॥

कृष्णभावनामृतं २.१६१७—

काचित्प्रसूनाम्बुदरार्द्रवाससा

व्यत्यस्तरागाञ्जनयावकादिकम् ।

मृष्ट्वा प्रतिस्वेक्षणसिद्धये तयोर्

मुखद्वयं दर्पणतां निनाय किम् ॥१२०॥

ताम्बूलवीटीर्निदधे परास्मिन्न्

एका प इम्ना मणिदीपपाल्या ।

तन्मङ्गलारात्रिकमाशु चक्रे

नीराजयन्त्येव निजासुलक्षैः ॥१२१॥

गोविन्दलीलामृतं १.६४६५—

मध्येऽच्युताङ्गघनकुङ्कुमपङ्कदिग्धं

राधाङ्घ्रियावकविचित्रितपार्श्वयुग्मम् ।

सिन्दूरचन्दनकणाञ्जनबिन्दुचित्रं

तल्पं तयोर्दिशति केलिविशेषमाभ्यः ॥१२२॥

प्रम्लिष्टपुष्पोच्चयसन्निवेशां

ताम्बूलरागाञ्जनचित्रिताङ्गीम् ।

व्यक्तीभवत्कान्तविलासचिह्नां

शय्यामपश्यन्स्वसखीमिवाल्यः ॥१२३॥

कृष्णाह्निककौमुदी १.३८३९—

क्वचन घुसृणपङ्कः क्वापि सिन्दूरजोऽङ्कः

क्षतविरहविपक्षप्रस्नुतासृक्सपक्षः ।

क्वचन कुसुमदामच्छिन्नकोदण्डधाम

क्व च विलुलितहारश्छिन्नमौर्वीप्रकारः ॥१२४॥

क्वचन मृगमदाङ्काः कुत्रचित्कज्जलाङ्काः

स्मरनरपतिदन्तिच्छेदकल्पाः स्फुरन्ति ।

स हि रतिरणरङ्गः कौतुकोद्यत्तरङ्गः

समजनि सुमुखीनामागतानां सखीनाम् ॥१२५॥

गोविन्दलीलामृत १.६७७४—

वक्षः स्वं दर्शयंस्ताभ्यो

दृग्भङ्ग्योवाच ता हरिः ।

दिदृक्षुः स्वप्रियावक्त्र

भावशाबल्यमाधुरीं ॥१२६॥

विधुं प्रयास्यन्तमवेक्ष्य कान्तं

विश्लेषभीतोषसि पश्यताल्यः ।

दिदृक्षयेवाम्बरचित्रप यां

राधेन्दुलेखाशतमालिलेख ॥१२७॥

इति निगदति कृष्णे वीक्ष्य साग्रे वयस्याः

प्रहसितवदनास्ताः सङ्कुचल्लोलनेत्रा ।

विकसदमलगण्डं दोलितारेचितभ्रूः

प्रियमनृजुकटाक्षैः पश्यति स्म घ्नतीव ॥१२८॥

हेलोल्लासादरमुकुलिता वास्पसान्द्रारुणान्ता

लज्जाशङ्काचपलचकिता भङ्गुरेर्ष्याभरेण ।

स्मेरस्मेरा दयितवदनालोकनोत्फुल्लतारा

राधादृष्टिर्दयितनयनानन्दमुच्चैर्व्यतानीत॥१२९॥

इत्थं मिथः प्रेमसुखाब्धिमग्नयोः

प्रगेतनीं विभ्रममाधुरीं तयोः ।

निपीय सख्यः प्रमदोन्मदास्तदा

तदात्वयोग्याचरणं विसस्मरुः ॥१३०॥

विलोक्य लीलामृतसिन्धुमग्नौ

तौ ताः सखीश्च प्रणयोन्मदान्धाः ।

वृन्दा प्रभातोदयजातशङ्का

निजेङ्गितज्ञां निदिदेश सारीम् ॥१३१॥

गुरुलज्जाभर्तृभीति लोकहासनिवारिका ।

शुभाख्या सारिका प्राह

राधिकाबोधसाधिका ॥१३२॥

आगन्ता ग्राहयित्वा तव पतिरधुना गोष्ठतः क्षीरभारान्

उत्तिष्ठोत्तिष्ठ राधे तदिह कुरु गृहे मङ्गलां वास्तुपूजाम ।

इत्थं यावद्धवाम्बा तव नहि शयनादुत्थिता वावदीति

तावच्छय्यानिकेतं व्रज सखि निभृतं कुञ्जतः कञ्जनेत्रे!! ॥१३३॥

गोविन्दलीलामृतं १.७७१०६—

शङ्कापङ्काकलितहृदया शङ्कतेऽस्या धवाम्बा

छिद्रान्वेषी पतिरतिक उः सार्थनामाभिमन्युः ।

रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा

प्रातर्जातं तदपि सरलां कृष्ण नैनां जहासि ॥१३४॥

सारीवचोमन्दरशैलपात

संक्षुब्धहृद्दुग्धपयोधिरेषा ।

अथोद्भ्रमन्नेत्रनवीनमीना

वियोगदीना शयनादुदस्थात॥१३५॥

कृष्णोऽपि कान्तं वृषभानुजायाः

पश्यन्मुखं भीतिविलोलनेत्रम् ।

नीलं सुचीनं दयितानिचोलं

गृह्णन्स्वतल्पात्त्वरयोदतिष्ठत॥१३६॥

परिवर्तितसंव्यानौ

मिथस्तावथ शङ्कितौ ।

परस्परकरालम्बौ

निरगातां निकुञ्जतः ॥१३७॥

राधापाणिं सव्येऽसव्ये

पाणौ बिभ्रद्वेणुं कृष्णः ।

रेजे कुञ्जान्निर्यन्यद्वद्

विद्युन्मालाश्लिष्टाम्भोदः ॥१३८॥

हैमं भृङ्गारमेका व्यजनमथ परा स्वर्णदण्डं दधाना

काप्यादर्शं सुदर्शं घुसृणमलयजाऽमत्रमन्या विचित्रम् ।

काचित्ताम्बूलपात्रं मणिचितमपरा सारिकां पञ्जरस्थाम्

इत्थं सख्यः कियत्याः प्रमुदितहृदया निर्ययुः कुञ्जगेहात॥१३९॥

माहेन्द्रकान्तच्छदनं सकाञ्चनं

दान्तं ससिन्दूरसमुद्गकं परा ।

आपन्नसत्वाकुचकु मलोपमं

कुञ्जाद्गृहीत्वा निरगान्मृदुस्मिता ॥१४०॥

आश्लेषसञ्छिन्नगुणात्परिच्युतं

हाराल्लसन्मौक्तिकसञ्चयं मुदा ।

विचित्य काचित्स्वप आञ्चले दृढं

निबध्नती कुञ्जगृहाद्विनिर्ययौ ॥१४१॥

ता अङ्कं केलिविभ्रष्टं

तल्पादादाय सत्वरा ।

निर्गत्य स्वेश्वरीकर्णे

युयोज रतिमञ्जरी ॥१४२॥

तल्पप्रान्तादुपादाय

कञ्चुलीं रूपमञ्जरी ।

प्रियनर्मसखी सख्यै

निर्गत्य निभृतं ददौ ॥१४३॥

पतद्ग्राहमुपादाय

दासिका गुणमञ्जरी ।

ताम्बूलं चर्वितं ताभ्यो

विभजन्ती बहिर्ययौ ॥१४४॥

मञ्जुलाली तयोरङ्गाच्

च्युतमाल्यानुलेपनम् ।

तल्पादादाय सर्वाभ्यः

प्रयच्छन्ती विनिर्गता ॥१४५॥

विलोक्याग्रे मेघाम्बरवृतशरीरं प्रियतमं

वयस्यां तां पीताम्बरपरिवृताङ्गीं प्रमुदिताम् ।

हसन्त्यस्ताः सख्यः करपिहितमुख्यः प्रतिदिशं

दिशन्त्यश्चान्योन्यं कुटिलचलदृग्भिर्मुमुदिरे ॥१४६॥

समीक्ष्य तासां परिहासभङ्गीम्

अन्योन्यवक्त्रार्पितफुल्लनेत्रौ ।

समुच्छलत्प्रेमसुखाब्धिमग्नौ

चित्रार्पिताङ्गाविव तावभूताम् ॥१४७॥

घनश्यामं चीनं वसनमभिलीनं प्रियतनौ

क्षमा नासीत्कान्ता स्वमपि परिचेतुं घनरुचौ ।

स्वमज्ञासीत्स्फीतं हरिरपि न पीतं प्रियतमा

तनौ लीनं चीनं कनकरुचि कम्बाविव पयः ॥१४८॥

तयोर्लीलासुधापान

प्रत्यूहामर्षसङ्कुला ।

निन्दन्त्यरुणमुद्यन्तम्

अथाह ललिता सखीम् ॥१४९॥

ऊषसि वरवधूनां पश्य राधेऽरुणोऽयं

रमणसहितलीलाभङ्गतः पापरुग्भिः ।

गलितपदयुगोऽप्यद्यापि तन्नो जहाति

ध्रुवमिति वचनं यद्दुस्त्यजः स्वस्वभावः ॥१५०॥

अरुणारुणे निदधती ततोऽम्बरे

रतिकेलिभङ्गजरुषाऽरुणां दृशम् ।

ललितोपहासजनितस्मितानना

वृषभानुजाह मृदुमञ्जुभाषिणी ॥१५१॥

अनूरुरप्यस्तमयन्क्षणार्द्धा

नभो विलङ्घ्योदयमेति सोऽयम् ।

चेत्सोरुमेनं स विधिर्व्यधास्यद्

वार्त्तापि रात्रेर्न तदाभविष्यत॥१५२॥

मनोरमां वीक्ष्य विभातलक्ष्मीं

निपीय तस्या वचनासवं च ।

मुदोन्मना विस्मृतगोष्ठयानः

प्राणेश्वरीं तामवदन्मुकुन्दः ॥१५३॥

इनं प्रभातोपगतं समीक्ष्य

कान्तेव कान्तान्तरभुक्तकान्तम् ।

पश्यान्यदिक्सङ्गकषायिताङ्गं

प्राचीयमीर्ष्यारुणितेव जाता ॥१५४॥

पश्योन्मत्ते द्विजेशोऽप्यखिलजनतमस्तोमहन्तापि शान्तः

कान्तोऽयं ते समन्तात्सपदि निपतितो वारुणीं संनिषेव्य ।

इत्थं स्वीयेनसङ्गप्रमुदितनलिनीहाससञ्जातलज्जा

शङ्के वक्त्रं पिधत्ते ह्युषसि कुमुदिनी सङ्कुचद्भिर्दलैः स्वैः ॥१५५॥

दृष्ट्वा तमःक्षयममी विधुनान्यपुष्टा

नक्तं तमश्चयनिभाश्चकिताः प्रभाते ।

मित्रं तदाश्रयतया तमसा चरन्तीं

ग्रस्तं कुहूरिति कुहूं स्वगिराह्वयन्ति ॥१५६॥

वसन्तकान्तसंसर्ग

जातानन्दभरा अवी ।

कपोतीघूत्कृतिमिषात्

शीत्करोतीव सोन्मदा ॥१५७॥

पश्यानुसरति चञ्चलभृङ्गः

कैरविणीकुलकेलिपिशङ्गः ।

नलिनीकोषे निशि कृतसङ्गां

भृङ्गीं शशिमुखि! कृतनतिभङ्गाम् ॥१५८॥

कान्तमायान्तमाशङ्क्या

रुणांशुद्विगुणारुणम् ।

कोकी कोकनदं चञ्च्वा

चुम्बत्यानन्दविह्वला ॥१५९॥

कलस्वनाख्यः कलकण्ठि! हंसः

समीक्ष्य नौ सम्मदफुल्लपक्षः ।

रिरंसुमप्येष विसृज्य हंसीं

त अं त इन्याः पुरतः समेति ॥१६०॥

स्वसहचरविसृष्टं स्वामिभुक्तं मृणालं

मदकलकलकण्ठी विभ्रती पश्य चञ्च्वा ।

रमणमनु समेति त्वन्मुखाब्जार्पिताक्षी

सरसिजमुखि नाम्ना तुण्डिकेती मराली ॥१६१॥

मलयशिखरचारी पङ्कजामोदधारी

व्रततिन अकुमारीलास्यशिक्षाधिकारी ।

वहति जलविहारी वायुरायासदारी

स रमणवरनारीस्वेदजालापहारी ॥१६२॥

इतीशयोः सुमधुरवाग्विलासयोः

समीक्ष्य तां स्वभवनयानविस्मृतम् ।

सखीश्च ताः स्मितरुचिरा मुदोन्मदा

वनेश्वरी दिवसभियास सोन्मनाः ॥१६३॥

कृष्णभावनामृतं २.५६५७—

कान्ता उदीयुर्विकसन्मुखेन्दवो

रात्रिर्गता चास्तमपास्तचन्द्रिका ।

विलासभङ्गः कथमस्तु नास्तु वा

क्षणं हृदैवेति पराममर्श सा ॥१६४॥

तमांस्य नश्यन्नभितो यथा यथा

तदा प्रकाशश्च यथा यथैधत ।

तथा तथा हृद्रुजमेव सान्वभूद्

व्रजस्य रीतिं श्रुतयोऽपि नो विदुः ॥१६५॥

गोविन्दलीलामृतं १.१०७१०८—

अथ वृन्देङ्गिताभिज्ञा

समयज्ञा तरुस्थिता ।

पद्यमुद्योतयामास

कक्खटी वृद्धमर्कटी ॥१६६॥

रक्ताम्बरा सतां वन्द्या

प्रातःसन्ध्या तपस्विनी ।

ऊर्ध्वप्रसर्पदर्कांशुर्

जटिलेयमुपस्थिता ॥१६७॥

कृष्णभावनामृतं २.६०—

आकर्ण्य ताभिर्जटिलेति वर्ण

त्रयीं विवर्णत्वमधारि सद्यः ।

विलासरत्नाकरमुद्भवन्ती

शङ्कैव तासां चुलुकीचकार ॥१६८॥

कृष्णाह्निककौमुदी १.४२४३—

पथि पिशुनमतिभ्यः शङ्कमानौ गुरुभ्यः

चलचकिततरङ्गौ निक्षिपन्तावपाङ्गौ ।

परमगुणगभीरौ कामसंग्रामधीरौ

ययतू रतिवितन्द्रौ राधिकाकृष्णचन्द्रौ ॥१६९॥

न पथि न भवने वा लक्षितौ तौ वने वा

सहजसदनुरक्त्या स्वीययानन्दशक्त्या ।

परिजननयनानामुत्सवानादधानाव्

अथ पथि विहरन्तौ रेजतुर्लोककान्तौ ॥१७०॥

गोविन्दलीलामृतं १.११०१११—

भ्रश्यद्दुकूलचिकुरस्रजमुन्नयन्तौ

भीतौ पृथग्गहनवर्त्मनि चापयान्तौ ।

तौ वीक्ष्य भीतितरलौ जटिलेति नाम्ना

सख्यस्ततस्तत इतश्चकिता निरीयुः ॥१७१॥

वामे चन्द्रावलिपरिजनान्घोषवृद्धान्पुरस्तात्

कृष्णः पश्चात्कुटिलजटिलामागतां मन्यमानः ।

यान्तीं कान्तां सभयचटुलां दक्षिणे द्रष्टुमुत्कश्

चञ्चद्ग्रीवं दिशि दिशि दृशौ प्रेरयन्गोष्ठमायात॥१७२॥

स्तवमाला, कुञ्जभङ्ग २—

म्लानामुत्क्षिप्य मालां त्रुटितमणिसरः कज्जलं विभ्रदोष्ठे

संकीर्णाङ्गो नखाङ्कैर्दिशि दिशि विकिरन्घूर्णिते नेत्रपद्मे ।

पश्य म्लानाङ्गयष्टिः स्फुटमपरिचितो गोपगोष्ठीभिरग्रे

गोष्ठे गोष्ठेन्द्रसूनुः प्रविशति रजनौ ध्वंसमासादयन्त्याम् ॥१७३॥

गोविन्दलीलामृतं १.११२—

अनुगता जटिलेत्यभिशङ्किनी

गुरुनितम्बकुचोद्वहनाकुला ।

द्रुतविलम्बितवल्गु ययौ व्रजं

करधृताम्बरकेशचयेश्वरी ॥१७४॥

जगन्नाथवल्लभनाटकं ५.३४

न व्यालादपि सम्बिभेति पुरतः स्थाणोर्यथा दूरतो

नोद्विग्ना करिगर्जितादपि यथा काकावलीनिस्वनात।

नैवेयं तिमिरेऽपि मुह्यतितरां कामं प्रकाशे यथा

तन्मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा ॥१७५॥

गोविन्दलीलामृतं १.११३११४—

भयानुरागोच्चयधूम्रलोलदृक्

तिरस्करिण्या पिहिते मनोरथे ।

निजे निवेश्यैव हि रूपमञ्जरी

गृहं निनीषुः पथि तां तदन्वयात॥१७६॥

इतस्ततः क्षिप्तचलेक्षणाशुगैर्

भीदुस्थहृद्वृत्तिचयैर्भ ऐरिव ।

अग्रेसरैस्तां रतिमञ्जरी च सा

निवारयन्त्यन्यजनांस्तदान्वयात॥१७७॥

कृष्णभावनामृतं २.८० —

ताभिर्वृता व्रजजनैरविलोकितैव

वेश्म प्रविश्य निजतल्पमथाध्यतिष्ठत।

प्रेयोवियोगविधुरा हि सखीमथासौ

हृद्वेदनां प्रकटमाह सगद्गदाश्रु ॥१७८॥

कृष्णभावनामृतं २.७६८०—

निःसार्य गेहाल्ललितेऽधुनैव मां

प्रवेशयस्यप्यधुनैव तत्पुनः

कृष्णाङ्गसङ्गामृतसिन्धुमज्जन

प्रलोभनैवाद्य वृथा कृता त्वया ॥१७९॥

अस्ताचलं यन्नधुना व्यलोकि यः

स तिग्मरश्मिः सखि! पूर्वपर्वतम्

आरोढुमाकाङ्क्षति किं विभावरी

खपुष्पतामद्यतनी जगाम किम्? ॥१८०॥

धिङ्मे श्रुतिं धिग्रसनां दृशं च धिक्

सदातनौत्कण्ठ्यभरज्वरातुरम्

प्रापुर्न पातुं लवमप्यमुष्य याः

सौस्वर्यसौरस्यसुरूपतामृतम् ॥१८१॥

निर्वेदपद्धतिमपीप हदेव पूर्वं

योगोऽधुना तु सरले भवतीं वियोगः

आद्योऽच्युतामृतमदर्शयदर्थमस्या

अन्योऽनुभावयति हा कटुकालकूटम् ॥१८२॥

इत्थं सखीगिरमपि प्रतिबोद्धुमेषा

नैवानुरागपरभागवती शशाक ।

स्वप्ने पुनः कलयितुं हृदयाधिनाथं

सुष्वाप साऽथ शयने वृषभानुपुत्री ॥१८३॥

अनभिसारिकां काञ्चित्पृच्छन्तीं प्रति काचिदाह, स्तवमाला, कुञ्जभङ्ग १—

स्रस्तं स्रस्तमुदञ्चयत्यधिशिरः श्यामं निचोलाञ्चलं

हस्तेन श्लथदुर्बलेन लुलिताकल्पां वहन्ती तनुम् ।

मुक्तार्धामवरुध्य वेणिमलसस्यन्दे क्षिपन्ती दृशौ

कुञ्जात्पश्य गृहं प्रविश्य निभृतं शेते सखी राधिका ॥१८४॥

गोविन्दलीलामृतं १.११६—

निर्वर्त्य विभ्रमभरं समये स्वधाम्नि

सुप्तेऽच्युते प्रतिलयं श्रुतयो यथेशम् ।

लीलाविताननिपुणाः सगुणाः समीयुः

सख्योऽपलक्ष्यगतयः सदनं यथास्वम् ॥१८५॥

इति श्रीभावनासारसङ्ग्रहे निशान्तलीलासङ्ग्रहो नाम प्रथमसङ्ग्रहः

ओ)०(ओ

(२)

श्रीश्रीभावनासारसङ्ग्रहः

पूर्वाह्नलीला

पश्यन्तीं स्वसुतं शचि भगवती सङ्कीर्तने विक्षतं

प्रातर्हा कथमेव ते वपुरिदं सूनो बभूव क्षतम् ।

इत्थं लालनतः स्वपुत्रवपुषि व्यग्रा स्पृशन्ती मुहुस्

तल्पाज्जागरयाञ् चकार यमहं तं गौरचन्द्रं भजे ॥१॥

भक्तैः सार्धमुपागतैर्भुवि नतैः श्रीवासगुप्तादिभिः

पृच्छद्भिः कुशलं प्रगे परिमिलन्प्रक्षाल्य वक्त्रं जलैः ।

पुष्पादिप्रतिवासितैः सुकथयन्स्वप्नानुभूतं कथां

स्नात्वाद्याद्धरिशेषमोदनवरं यस्तं हि गौरं भजे ॥२॥

मूलसूत्र

गोविन्दलीलामृत २.१—

राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे

तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम् ।

कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं

सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये ॥३॥

कृष्णभावनामृतं ३.११३—

स्नातानुलिप्तवपुषः पुपुषुः स्वभास्तन्

निर्माल्यमाल्यवसनाभरणेन दास्यः ।

प्रास्य स्वकाममनुवृत्तिरतास्तयोर्याः

श्रीरूपमञ्जरिसमानगुणाभिधानाः ॥४॥

ता विद्युदुद्द्युतिजयिप्रपदैकरेखा

वैदग्ध्य एव किल मूर्तिभृतस्तथापि ।

यूथेश्वरीत्वमपि सम्यगरोचयित्वा

दास्यामृताब्धिमनु सस्नुरेण अजस्रमस्याः ॥५॥

श्वश्रूपुरान्तरगतोत्तर पार्श्ववर्ति

भ्राजिष्णु धाम वरशिल्पकलैकधाम ।

तातेन वत्सलतया वृषभानुनैव

निर्मापितं तदुपमापि तदेव नान्यत॥६॥

स्थूणाप्रघाण पटलाङ्गणतोरणाली

गोपानसीविविधकोष्ठकपाटवेद्यः ।

राजन्ति यत्र मणिदीपततिप्रदीप्त

वैचित्र्यनिर्मितजनेक्षणचित्रभावाः ॥७॥

यत्रेन्द्रनीलमणिभूर्वलभी घनाभा

हंसालिरप्युपरि राजति राजती सा ।

ये वीक्ष्य बन्धुरिपुभानभृतो वितत्य

सङ्कोचयन्ति शिखिनः स्वशिखण्डपङ्क्तीः ॥८॥

तत्रोपवेशशयनाशनभूषणादि

वेदीर्विमृज्य परिलिप्य विशोध्य तास्ताः ।

आस्तीर्य राङ्कवमुपर्युपयुक्तमुक्तम्

उल्लोचमुन्नतमुदो मिलिता बबन्धुः ॥९॥

एका ममार्ज मणिकाञ्चनभाजनानि

काचित्पयः समययोग्यमुपानिनाय ।

चित्रांशुकापिहितरत्नचतुष्किकायाम्

आलम्बनीयमदधादपरोपबर्हम् ॥१०॥

पूर्वेद्युरंशुकमणिमयभूषणानि

मृष्टानि यत्र निहितान्यथ सम्पुटं तत।

उच्चैर्झनद्वलयराजि समुद्घटय्य

काचिज्जघर्ष विधुकुङ्कुमचन्दनानि ॥११॥

अन्या व्यधत्त सुमनाः सुमनोभिरेव

चित्रैः किरीटकटकाङ्गदहारकाञ्चीः ।

जातीलवङ्गखदिरादिभी रज्यमानाः

काचिद्बबन्ध सुरसाः फणिवल्लीवीटीः ॥१२॥

अत्रान्तरे प्रतिदिशं दधिमन्थनोत्थ

रावैरवारितमहीसुरवेदघोषैः ।

हम्बाध्वनिव्यतिविधानमिथोऽवधायि

धेन्वालितर्णकघटा वलदन्तरायैः ॥१३॥

वृन्दिष्ठवन्दिजनवृन्दवितायमान

श्रीकृष्णकीर्तिविरुदालिसुधातरङ्गैः ।

शारीशुकव्रजकलैः कलविङ्ककेकि

कोलाहलैः क्रमत एव समेधमानैः ॥१४॥

जाग्रत्सु लोकनिचयेष्वथ वासरेति

कर्तव्यभावनपरेष्वधिशयमेव ।

कृष्णेक्षणक्षण सतृष्णतया पुरन्ध्री

वृन्देषु नन्दगृहसन्दितमानसेषु ॥१५॥

नप्त्रीमुखाम्बुजविलोकनजीवितायां

तत्रोपसृत्य सहसा मुखराभिधायाम् ।

वात्सल्यरत्नपटलीभृतपेटिकायां

राधे! क्व पुत्रि! भवसीति समाह्वयन्त्याम् ॥१६॥

गोविन्दलीलामृतं २.४३५७—

स्वभावकुटिलाप्यात्मसुतसम्पत्तिकाङ्क्षया ।

व्याकुला जटिला गत्वा निकटं तामथाब्रवीत॥१७॥

सूनोः प्रजायुर्धनवृद्धयेऽसौ

त्वया स्नुषा ज्ञे! नियतं नियोज्या ।

सुमङ्गलस्नानविभूषणादौ

गोकोटिहेतोस्तपनार्चनाय ॥१८॥

आज्ञानवज्ञा निजगोष्ठराज्ञ्याः

कार्यानभिज्ञोक्तिषु तेऽप्यवज्ञा ।

इत्यादिशत्यन्वहमर्थविज्ञा

विज्ञापिता मे किल पौर्णमासी ॥१९॥

अस्मात्त्वमार्ये स्वां नप्त्रीं

सर्वमङ्गलमण्डिताम् ।

विधेहि सर्वसम्पत्तिर्

यथा सूनोर्भवेन्मम ॥२०॥

वधूमथाभाषसत पुत्रि! तल्पाद्

उत्तिष्ठ तूर्णं कुरु वास्तुपूजाम् ।

त्वं मङ्गलस्नानविधिं विधाय

पूजोपहारं सवितुर्विधेहि ॥२१॥

प्रभातमायातमहो तथापि

निद्राति नप्त्रीति मुहुर्वदन्ती ।

स्नेहद्रुताङ्गी मुखरा प्रविश्य

शय्यालयं तामवदत्तदेदम् ॥२२॥

उत्तिष्ठ वत्से शयनात्प्रमुग्धे

व्यस्मारि वारोऽद्य रवेस्त्वया किम्? ।

स्नात्वा प्रभातार्घ्यविधानमस्मै

पूजोपहारं रचयास्य चाशु ॥२३॥

तद्वचः प्रतिबुद्धाथ

विशाखोत्थाय सालसा ।

सखि! तूर्णं समुत्तिष्ठोत्

तिष्ठेति प्राह सत्वरा ॥२४॥

तासां वचोभिः शयनेऽथ मुग्धा

मुहुः प्रजागर्य्य पुनर्निदद्रौ ।

विचालिता वीचिचयैस्तडागे

सा राजहंसीव रतालसाङ्गी ॥२५॥

तदैवावसराभिज्ञा जग्राह रतिमञ्जरी ।

सखी वृन्दावनेश्वर्याः श्रीमच्चरणपङ्कजम् ॥२६॥

इत्थमियं बहुभिः कृतबोधा

स्वाच्छयनादुदतिष्ठदनल्पात।

तामथ वीक्ष्य सुपीतपटाङ्गीं

शङ्कितहृन्मुखरेदमुवाच ॥२७॥

द्रुतकनकसवर्णं सायमेतन्मुरारेर्

वसनमुरसि दृष्टं यत्सखी ते बिभर्ति ।

किमिदमयि विशाखे! हा प्रमादः प्रमादो

व्यवसितमिदमस्याः पश्य शुद्धान्वयायाः ॥२८॥

तद्वचश्चकितधीर्हृदि सख्या

वीक्ष्य पीतवसनं चलदृष्ट्या ।

हा किमेतदिति तां च दिशन्ती

द्रागुवाच जरतीं च विशाखा ॥२९॥

स्वभावान्धे! जालान्तरगतविभातोदितरवि

च्छटाजालस्पर्शोच्छलितकनकाङ्गद्युतिभरैः ।

वयस्यायाः श्यामं वसनमपि पीतिकृतमिदं

कुतो मुग्धे शङ्कां जरति कुरुषे शुद्धमतिषु ॥३०॥

ललिताप्रमुखास्तावत्सख्यस्ताः स्वस्वगेहतः ।

आजग्मुस्त्वरिताः सख्याः प्रस्खलद्गतयोऽन्तिकम् ॥३१॥

सङ्ग्रहकर्तुः—

तासां वाक्यैर्गतायां तु कृतवञ्चनसञ्चयैः ।

मुखरायां ततोऽन्यासु द्रष्टुकामासु तत्र ताम् ॥३२॥

कृष्णभावनामृतं ३.१७२७—

एकैकशोऽथ मिलितासु सखीषु सर्वा

स्वन्योन्यहासपरिहासपरासु तासु ।

सुश्लिष्टमण्डलतयैव कृतोपवेशा

स्वारूढरत्नमणिहेमचतुष्किकासु ॥३३॥ (युग्मकम्)

श्रीराधिकामिलनमेव समस्तहर्ष

शस्यैकवर्षमिति यद्धृदि निश्चिकाय ।

श्यामलैत्य समया समयाभिविज्ञा

श्लिष्टा तया सुषमयेव तदास तत्र ॥३४॥

श्यामे! त्वमेवमधुनैव विचिन्त्यमाना

मन्नेत्रवर्त्मगमिता विधिना यथैव ।

तद्वत्स तर्षविटपी फलयिष्यते चेद्

अद्यैव तर्हि गणयान्यपि सुप्रभातम् ॥३५॥

हन्तैष सन्ततमतीव समेधमानः

शश्वत्सखीभिरपि सुन्दरि! सिच्यमानः ।

नाद्यापि यत्फलमधादयि! कोऽत्र हेतुर्

हा तत्कदातिरभसादवलोकयिष्ये ॥३६॥

राधे! स ते न फलितो यदि तत्फलिष्यत्य्

आश्चर्यमस्य फलमप्यलसाङ्गि! बुद्ध्ये ।

आस्वाद्यमानमपि सौरभमादितालि

प्रत्याययत्यननुभूतमिव स्वमुच्चैः ॥३७॥

पक्ष्मावली बत यदीयरसेन शोणे

नारञ्जि कञ्जमुखि! तन्न तदप्यपश्यः ।

यत्स्वादनव्यतिकरादधरो व्रणित्वम्

आगात्तथापि तदहो! न कदाप्यभुङ्क्थाः ॥३८॥

श्यामे! त्वमप्यलमलक्षितमन्नितान्त

स्वान्तव्रणा हससि मां यदतो ब्रवीमि ।

विद्युद्विहन्ति तिमिरं निशि यद्दृशोस्तत्

सद्यः पुनर्द्विगुणयेदिति भोः प्रतीहि ॥३९॥

राधे! कलानिधिरयं विधिनोपनीतस्

त्वां सन्ततामृतमयैरधिनोत्कराग्रैः ।

यत्तत्कलाः स्वयमहो कुचयोर्बिभर्षि

विद्युन्निभत्वपरिवादमथापि दत्से ॥४०॥

श्यामे! स मे सखि! ददौ न कलङ्कमेव

सत्यं कलानिधिरसाविति वः प्रतीतः ।

दत्ते कदापि मम दृष्टिचकोरिका यैर्

ज्योत्स्नाकणं यदपि तन्न पुनर्निकामम् ॥४१॥

राधे! स्फुटं वद भवन्मुखपङ्कजोत्थ

नक्तन्तनेहितसुधाद्युधुनी विधूय ।

तापं निमज्जयतु मां स्वमनु प्रभाते

कृत्यान्तरं मम कथं तदृते सुसिध्येत॥४२॥

श्यामेऽधिकुञ्जनिलयं नवनीलकान्ति

धारा यदा स्नपयितुं निशि मां प्रवृत्ता ।

तर्ह्येव पञ्चशरसञ्चयनाट्यरङ्ग

भूमिं च केन च काञ्चन यापिताऽसम् ॥४३॥

सङ्ग्रहकर्तुः—

वदन्तीत्थं मूर्छां परमपरमानन्दजनिकां

गता सेयं सद्यः स्मृतिविधुरतापद्धतिमगात।

कदायाता श्यामे पुनरिति हि पृष्टाहमधुना

गतेत्युक्त्वापृच्छत्परिकलितबोधां सपदि ताम् ॥४४॥

आनन्दवृन्दावनचम्पूः ११.२१२३—

अलसवलितमङ्गं स्वावसादं व्यनक्ति

ग्लपितमिव मृणालीकन्दलं दोर्द्वयं ते ।

दशनवसनमेतन्नीरसं गण्डपाली

लुलितललितपत्रा प्रक्रमः कस्तवैषः ॥४५॥

अभिनवलतिकेव वातरुग्ना

नवनलिनीव मतङ्गजेन भुग्ना ।

मृदुतरनवमालिकेव धूता

मदमधुपेन विलक्ष्यसे त्वमद्य ॥४६॥

अपि चिरमभिलष्यमाण एवं

प्रणयिनि कोऽपि सुदुर्लभो हि लब्धः ।

अथ कथमियमन्यथाऽस्मदादेः

फलितवती सखि! भाग्यकल्पवल्ली ॥४७॥

सङ्ग्रहकर्तुः—

इति सप्रणयवाचा सादरं पृच्छ्यमाना

पटवृतमुखचन्द्रा स्वच्छचित्ता बतासौ ।

मुदमथ जनयन्ती पार्श्वगानां सखीनाम्

अवनिनिहितदृष्टिं सस्मितः प्रत्युवाच ॥४८॥

आनन्दवृन्दावनचम्पूः ११.२४२७—

क्वाहं स्थिता क्व चलिता क्व च वा स पन्था

नीतास्मि केन नलिनाक्षि तदीय पार्श्वम् ।

किंवा बभूव मयि तत्र समेतवत्यां

जानाम्यहं यदि तदा भवती न वेत्ति ॥४९॥

व्यापारो मनसश्च यत्र न गतः सम्भावनाभावतो

यत्स्वप्नः किमथेन्द्रजालमथवा भ्रान्तिः सुदीर्घैव मे ।

तत्किं ह्लादि किमार्तिदं किमुभयं किंवा न तन्नापि तच्

चेतोविद्रुतिकारकं च मनसो मूर्छाकरं चाभवत॥५०॥

अथ श्यामाह—

केलीकलाध्ययनकौशलमेकदैव

न स्यादतः किमपि नो भवती विवेद ।

भूयस्ततः सखि! विलासगुरोः सकाशाद्

यत्नादधीष्व यदि विज्ञतमासि भूष्णुः ॥५१॥

ततः श्रीराधिका प्राह—

मातः परं सुमुखि! यामि तदीयपार्श्वं

दूरादसौ नयनवर्त्मनिवर्तनीयः ।

अध्येतु नाम भवती तत एव तत्ते

पाण्डित्यमेव मनसो रसदं मम स्यात॥५२॥

उज्ज्वलनीलमणि ११.२०—

भ्राजन्ते वरदन्ति! मौक्तिकगणा यस्योल्लिखद्भिर्नखैः

क्षिप्ताः पुष्करमालयावृतरुचः कुञ्जेषु कुञ्जेष्वमी ।

शौटीर्याब्धिरुरोजपञ्जरतटे संवेशयन्त्या कथं

स श्रीमान्हरिणेक्षणे! हरिरभून्नेत्रेण बद्धस्त्वया? ॥५३॥

उज्ज्वलनीलमणि १४.१४८—

कोऽयं कृष्ण इति व्युदस्यति धृतिं यस्तन्वि कर्णं विशन्

रागान्धे! किमिदं सदैव भवती तस्योरसि क्रीडति ।

हास्यं मा कुरु मोहिते! त्वमधुना न्यस्तास्य हस्ते मया

सत्यं सत्यमसौ दृगङ्गनमगादद्यैव विद्युन्निभः ॥५४॥

सङ्ग्रहकर्तुः—

लज्जाभरक्रान्ततयातितूष्णीं

स्थिता वयस्या प्रियकेलिवार्ताम् ।

श्रोतुं गृहीत्वा चिबुकं तदा सा

ह्यत्याग्रहीदालीमथ प्रवक्तुम् ॥५५॥

वृन्दावनमहिमामृतं ५.९८—

प्रियसखि! मम वृत्तं पृच्छ मा भाग्यमीदृक्

क्व नु मम कथयेयं त्वय्यहं तान्विलासान।

धृतवति करमेव श्यामले क्वास काहं

किमिव च करकोऽसौ किं व्यधान्न स्मरामि ॥५६॥

वृन्दावनमहिमामृतं ५.९९—

वेणीं गुम्फति दिव्यपुष्पनिचयैः सीमन्तसीमन्यहो

सिन्दूरं निदधाति कज्जलमयीं निर्माति रेखां दृशोः ।

दिव्यं वासयते दुकूलमसकृत्ताम्बूलमप्याशयेद्

इत्थम्भूतरतिः सखा तव न मां तल्पे निधत्तेऽङ्कतः ॥५७॥

वृन्दावनमहिमामृतं ५.९७—

नित्यं मन्मुखसम्मुखं मुखविधुं धत्तेऽनिमिषेक्षणो

नित्यं मन्मुखमेव पश्यति मयैवाजस्रगोष्ठीपरः ।

आधायैव शयीत मां हृदि मयैवावर्तयेत्पार्श्वकं

सख्युस्ते सखि! सर्वनागरमणेः प्रीतिः कथं वर्ण्यताम्? ॥५८॥

अलङ्कारकौस्तुभ ३.५ (नोत्त्रचेदस्येत्)

विलासचेष्टा सखि! केशिनाशिनो

हलाहलाभा प्रदहन्ति मे मनः ।

कृन्तन्ति मर्माणि गुणा घुणा इव

प्रेमा विकारी हृदि हृद्व्रणो यथा ॥५९॥

अलङ्कारकौस्तुभ ५.४०—

नो विद्मः किमु गौरवं गुरुकुले कौलीन्यरक्षाविधौ

न श्रद्धा किमु दुर्जनोक्तिगरलज्वालासु किं नो भयम् ।

उद्वेगादनवस्थितं मम मनः कस्यापि मेघत्विषो

यूनः श्रोत्रगतैर्घुणैरिव गुणैरन्तः कृतं जर्जरम् ॥६०॥

कृष्णभावनामृतं ३.३१३२—

राधे! यदास्यसरसीरुहगन्ध एवम्

अन्धीकरोति कुलजाकुलमालि! दूरात।

तन्मध्वतीव सुरसं सरसं पिबन्त्याश्

चित्तभ्रमस्तव मदादिति नैव चित्रम् ॥६१॥

अत्रान्तरे मधुरिका मिलिताथ पृष्टा

ताभिर् जगाद मधुरं शृणुतैतदाल्यः ।

कस्यैचिदेव कृतये व्रजराजवेश्म

प्राप्ताद्य कौतुकमहो यदुषस्यपश्यम् ॥६२॥

राधाकृष्णगणोद्देशदीपिका ६९—

पौर्णमासी भगवती सर्वसिद्धिविधायिनी ।

काषायवसना गौरी काशकेशी दरायता ।

कृष्णं द्रष्टुमनास्तल्पादुदतिष्ठद्द्विजध्वनैः ॥६३॥

गोविन्दलीलामृतं २.२—

अथ प्रभाते कृतनित्यकृत्या

प्रीत्याच्युतस्यातिविहस्तचित्ता ।

प्रेमेन्दुपूर्णा किल पौर्णमासी

तूर्णं व्रजेन्द्रालयमाससाद ॥६४॥

श्रीमद्भागवतम्, १०.९.३—

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कवरविगलन्मालती निर्ममन्थ ॥६५॥

ललितमाधव २.२—

रजनिविपरिणामे गर्गरीणां गरीयान्

दधिमथनविनोदादुद्भवन्नेष नादः ।

अमरनगरकक्षाचक्रमाक्रम्य सद्यः

स्मरयति सुरवृन्दान्यब्धिमन्थोत्सवस्य ॥६६॥

गोविन्दलीलामृतं २.३७—

मन्थानोद्धृतगव्यविन्दुनिकरव्याकीर्णरम्याङ्गनं

प्रेमस्निग्धजनान्वितं बहुविधै रत्नैर्विचित्रान्तरम् ।

क्षीरोर्म्युच्छलितं मुदाहिविलसच्छय्याप्रसुप्ताच्युतं

श्वेतद्वीपमिवालयं व्रजपतेर्वीक्ष्यास सानन्दिता ॥६७॥

तामागतामभिप्रेक्ष्य साक्षादिव तपःश्रियम् ।

व्रजरज्ञी पराभिज्ञा स्थितिज्ञाभ्युद्ययौ मुदा ॥६८॥

एहि भो भगवतीति व्रजवन्द्ये

स्वागतासि भवतीं प्रणमामि ।

इत्युदीर्य सविधे प्रणमन्तीं

सा मुकुन्दजननीं परिरेभे ॥६९॥

आशीर्भिरभिनन्द्यामूं गोविन्ददर्शनोसुका ।

पप्रच्छ कुशलं चास्याः सधवात्मजगोततेः ॥७०॥

निवेद्य कुशलं चास्यै तयोत्कण्ठितया सह ।

उत्का शय्यागृहं सूनोः प्रविवेश व्रजेश्वरी ॥७१॥

भक्तिरसामृतसिन्धुः ३.४.१३—

डोरीजूटितवक्रकेशपटला सिन्दूरबिन्दूल्लसत्

सीमन्तद्युतिरङ्गभूषणविधिं नातिप्रभूतं श्रिता ।

गोविन्दास्यनिसृष्टसाश्रुनयनद्वन्द्वा नवेन्दीवर

श्यामश्यामरुचिर्विचित्रसिचया गोष्ठेश्वरी पातु वः ॥७२॥

गोविन्दलीलामृतं २.१३—

पर्यङ्के न्यस्य सव्यं तदुपरि निहितस्वाङ्गभाराथ पाणिं

कृष्णस्याङ्गं स्पृशन्तीतरकरकमलेनेषदाभुग्नमध्या ।

सिञ्चन्त्यानन्दबाष्पैः स्नुतकुचपयसां धारया चास्य तल्पं

वत्सोत्तिष्ठाशु निद्रां त्यज मुखकमलं दर्शयेत्याह माता ॥७३॥

कृष्णभावनामृतं ३.३८३९, मधुरिकोवाच—

गान्धर्विके! शृणु यदन्यदभूद्विचित्रं

नीलांशुकं स्वतनयोरसि वीक्ष्यमाणाम् ।

तामाह सैव भगवत्ययि गोष्ठराज्ञि!

रामाम्बरेण परिवर्तितमस्य वास ॥७४॥

ताटङ्कगारुणमणिप्रतिबिम्ब एव

गण्डे विभाति तव माधव! शोणशोचिः ।

इत्युक्त एव स तया निजपाणिना तं

सद्यो जघर्ष भवदाधररागभागम् ॥७५॥

कृष्णाह्निककौमुदी २.२६—

उत्तिष्ठ तात रजनीयमगाद्विरामं

पश्यांशुमन्तमुदयोद्यमनाभिरामम् ।

प्रत्यूषसेवनविधौ विलसद्विलासाः

शय्यालयं तव विशन्ति कुमारदासाः ॥७६॥

सङ्कीर्तयन्जय जयेति गिरा सुवृत्तस्

त्वां तात जागरयितुं प्रणयात्प्रवृत्तः ।

कीरस्तवैष निजपाणितलेन पुष्टः

सन्मञ्जुवाक्कनकपञ्जरवासहृष्टः ॥७७॥

खेदस्तवैष शयनालसभारमूलः

स्वापं जहीहि भव जागरणानुकूलः ।

इत्थं करेण मृदुना मुहुरङ्गमङ्गम्

आस्पृश्य बाहुयुगलेन तमालिलिङ्ग ॥७८॥

मातुः कलां गिरमतिप्रणयोपगूहं

श्रुत्वानुभूय च तदैव स सम्यगूहम् ।

गात्रावमोटनपुरःसरजृम्भणेन

जाग्रद्दशामभिनिनाय कुतूहलेन ॥७९॥

कालोचितेषु परिचारणकौशलेषु

गाढानुरागपरभागनिराकुलेषु ।

दक्षं समक्षमनुशास्य कुमारदासी

दासं व्रजेन्द्रगृहिणी स्वगृहानयासीत॥८०॥

गोविन्दलीलामृतं २.८११—

तावद्गोभटभद्रसेनसुबलश्रीस्तोककृष्णार्जुन

श्रीदामोज्ज्वलदामकिङ्किणिसुदामाद्याः सखायो गृहात।

आगत्य त्वरिता मुदाभिमिलिताः श्रीसीरिणा प्राङ्गणे

कृष्णोत्तिष्ठ निजेष्टगोष्ठमय भो इत्याह्वयन्तः स्थिताः ॥८१॥

ही ही प्रभातं किमु भो वयस्या

अद्यापि निद्राति कथं सखा नः ।

तद्बोधयाम्येनमितीरयन्स्व

तल्पादुदस्थान्मधुमङ्गलोऽपि ॥८२॥

समुत्तिष्ठ वयस्येति जल्पंस्तल्पालयं हरेः ।

निद्रालसस्खलद्यानः प्राविशन्मधुमङ्गलः ॥८३॥

तद्वाग्विगतनिद्रोऽयमुत्तिष्ठासुरपीश्वरः ।

उत्थातुमीश्वरो नासीद्घूर्णापूर्णेक्षणः क्षणम् ॥८४॥

गोविन्दलीलामृतं २.१५२४—

उत्तिष्ठ कुर्यां मुखमार्जनं ते

बलस्य वासः किमिह त्वदङ्गे ।

इति ब्रुवाणापनिनाय नीलं

वासस्तदङ्गादवदच्च सार्याम् ॥८५॥

अयि भगवति! पश्याचो इतं मेऽस्य सूनोः

कमलमृदुलमङ्गं मल्ललीलासु लोलैः ।

खरनखरशिखाभिर्धातुरागातिचित्रं

चपलशिशुसमूहैर्हा हता किं करोमि? ॥८६॥

स्नेहभरैः स्वजनन्याश्चित्रपदामपि वाणीम् ।

तामवधार्य मुरारिर्ह्रीचकितेक्षण आसीत॥८७॥

कृष्णं सशङ्कमाशङ्क्य परिहासपटुर्बटुः

स्नेहक्लिन्नान्तरामम्बामवदन्मधुमङ्गलः ॥८८॥

सत्यमम्ब! वयस्याली वारितापि मयानिशम् ।

रेमेऽनेनातिलुब्धेन कुञ्जेषु केलिचञ्चला ॥८९॥

अथ प्रकाशीकृतबाल्यविभ्रमो

यत्नात्समुन्मील्य विलोचनं मुहुः ।

पश्यन्पुरः स्वां जननीं हरिः पुनर्

न्यमीलयत्स स्मितवक्त्रपङ्कजः ॥९०॥

आकर्ण्य वाचं व्रजराजपत्न्याः

समीक्ष्य कृष्णस्य च बाल्यचेष्टाम् ।

भावान्तराच्छादकरीं जनन्यास्

तं पौर्णमासी स्मितपूर्वमाह ॥९१॥

सखीनां सन्दोहैर्निरवधि महाकेलिततिभिः

परिश्रान्तस्त्वं यत्स्वपिषि सुमते योग्यमिह तत।

अनालोक्य त्वां भोस्तृषितमपि नो तर्णककुलं

धयत्यूधः किन्तु व्रजकुलपते जागृहि ततः ॥९२॥

उत्तिष्ठ गोष्ठेश्वरनन्दनारात्

पश्याग्रजोऽयं सह ते वयस्यैः ।

गोष्ठं प्रतिष्ठासुरपि प्रतीक्ष्य

त्वामङ्गने तिष्ठति तर्णकैश्च ॥९३॥

समुष्टिपाणिद्वयमुन्नमय्य

विमोटयन्सोऽथ रसालसाङ्गम् ।

जृम्भाविसर्पद्दशनांशुजालस्

तमालनीलः शयनादुदस्थात॥९४॥

कृष्णाह्निककौमुदी २.७—

उन्मीलनप्रतिनिमीलनयोर्बहुत्वे

जाग्रच्छयानदशयोरिव मिश्रितत्वे ।

सा निद्रया विरहकातरया धृतेव

तस्योत्थितस्य नयनद्वितयी दिदेव ॥९५॥

गोविन्दलीलामृतं २.२५—

ख वैकदेशे त्वथ सन्निविष्टो

विन्यस्तपादाब्जयुगः पृथिव्याम् ।

नमाम्यहं त्वां भगवत्ययीति

जगाद जृम्भोद्गमगद्गदं सः ॥९६॥

कृष्णभावनामृतं ३.३५३६—

आपादशीर्षमथ पाणितलाभिमर्शे

नाव्यादजोऽङ्घ्रिमिति मन्त्रमुदाहरन्ती ।

संरक्ष्य तूर्णमखिलाङ्गमथोर्ध्वदृष्ट्या

किञ्चित्सकाकुभरमर्थयते स्म राज्ञी ॥९७॥

देवाधिदेव! भवतैव चिरात्सुतोऽयं

दत्तः स्वबन्धुजनजीवनतामुपेतः ।

पाल्योऽपि नाथ! भवतैव कृपाभरेण

स्वेनैव कामपचितिं तव वेद्मि कर्तुम् ॥९८॥

कृष्णाह्निककौमुदी २.८१८—

आरात्रिकेण मणिमङ्गलदीपभाजा

विभ्राजितेन जितसौभगवत्समाजाः ।

आधाय पणिसरसीरुहयोर्मुदास्य

नीराजनं विदधिरेऽस्य कुमारदास्यः ॥९९॥

उष्णीषबन्धसुमनोज्ञतमोत्तमाङ्गाः

पाथोजकेशरसुसौरभसुन्दराङ्गाः ।

श्यामाः सिताश्च हरिता अरुणाश्च पीता

ये केऽपि केऽपि महनीयगुणैः परीताः ॥१००॥

तैरेव केवलसुखानुभवस्वरूपैर्

नैसर्गिकानुदिनदिव्यकुमाररूपैः

दासीगणैरपि च दासगणैरुदारैः

सेवा व्यधायि विविधास्य विलोलहारैः ॥१०१॥

पर्यङ्कतः समधिरुह्य मणीचतुष्कं

श्रीपादपीठमहसा विलसद्वपुष्कम् ।

चारूपविष्टमतिहृष्टहृदो गृहीत्वा

चारूपचारमथ भेजुरमी मिलित्वा ॥१०२॥

तैराहितां करतले विनिधाय धारां

कर्पूरसौरभवतामतिचारुवाराम् ।

गण्डूषपुरमुपक्ÿप्तसुत्थोपजोषं

कृष्णः शनैरभिषिषेच मुखाब्जकोषम् ॥१०३॥

आमृज्य चारुमृदुसूक्ष्मबलक्षवासः

खण्डेन पाणिवदनं निरुपाधिहासः ।

तैराहितं करतले मृदु दन्तकाष्ठं

प्रत्यग्रहीन्म्रदिमनिष्ठमथो लघिष्ठम् ॥१०४॥

कल्पद्रुमस्य मृदुना विटपेन तेन

रत्नाङ्गुलीयकमहोभिरलङ्कृतेन ।

दन्तावलिं विहितवीक्षकनेत्रहर्षम्

आलोलकुण्डलयुगं शनकैर्जघर्ष ॥१०५॥

अङ्गुष्ठतर्जनिकयोर्धृतया वितस्त्या

जिह्वाविलेखनिकया मणिहेममय्या ।

राजन्मणीन्द्रवलयं व्यलिखन्मनोज्ञां

ताम्बूलरागपरभागवतीं रसज्ञाम् ॥१०६॥

भूयः पयोभिरमलैर्वदनं निनेज

भूयो ममार्ज च कदापि न चोद्विवेज ।

श्रीदर्पणं कृतसमर्पणचञ्चलाक्षि

लक्ष्म्या चकार मुखधावनशुद्धिसाक्षि ॥१०७॥

माणिक्यकङ्कतिकया करपद्मकोषं

सम्प्राप्तया वलयकङ्कतिचारुघोषम् ।

केशप्रसाधनमथानभिसन्धिहासी

भूतानना व्यधित कापि कुमारदासी ॥१०८॥

नक्तन्तनं वसनमस्य निरास्य कश्चिद्

वासोऽन्तरं सुपरिधाप्य कलाविपश्चित।

उष्णीषबन्धमथ मूर्ध्नि बबन्ध पादौ

प्रक्षाल्य वार्भिरभिमृज्य च वासरादौ ॥१०९॥

कृष्णभावनामृतं ३.४४६२—

गा दोग्धुमुद्धुरधियोऽपि वृथोद्यमास्ते

गोपा बभूवुरथ तर्णकमण्डलाश्च ।

चूषन्त एव न पयः कणमात्रमासाम्

आपीनतोऽद्य यदवापुरतो विषेदुः ॥११०॥

गावस्तवाध्वनि धृताश्रुभृताक्षियुग्मा

न प्रस्रवन्त्यपगतान्न लिहन्ति वत्सान।

हम्बाध्वनिध्वनितदिग्वलया विलम्बं

सोढुं दरापि न हि सम्प्रति शक्नुवन्ति ॥१११॥

इत्येव केनचिदुपेत्य स गोदुहोक्तो

मातृर्निजास्यदरहास्यसुधाभिषेकैः ।

स्वानन्दशंसिभिरसौ सुखयन्मुखाब्जं

ताम्बूलरञ्जितमलं कलयन्नुदस्थात॥११२॥

दोहं समाप्य बलभद्र! सहानुजस्त्वं

मल्लाजिरं व्रजसि चेत्कुरु मा विलम्बम् ।

निर्मञ्चनं तव भजे क्षणमात्रेव

सार्धं विहृत्य सखिभिर्द्रुतमेहि भोक्तुम् ॥११३॥

श्रुत्वेति मातृगिरमाह हरिर्न मातः

प्रत्येषि मां यदमुमेव वदस्यथैवम् ।

शिष्टोऽग्रणीः पुनरमीष्वहमेक एव

नो चेदमुष्य वशतां किमुरि करिष्ये? ॥११४॥

शिष्टो यथा त्वमसि वत्स! निजातिबाल्यम्

आरभ्य तत्खलु विदन्त्यखिलाः पुरन्ध्र्यः ।याः स्वालयापचयवेदनया पुरासां

फुत्कर्तुमापुरिह नो कतिधेति सोचे ॥११५॥

सौदामिनीततिविभाजयिदामनीद्युद्

विभ्राजिसव्यकरकोरकितारविन्दः ।

स ग्राहितप्रमितकानकदोहनीको

मात्रा तया सखि! रयादधिकं विरेजे ॥११६॥

स्तम्बेरमव्रजविडम्बिविलम्बिपाद

विन्यासझञ्झनझणत्कृतकिङ्किणीकः ।

लोलालकालिमणिकुण्डलकान्तिवेणी

वीचीभरस्नपितवक्त्रसुधांशुबिम्बः ॥११७॥

पीतोत्तरीयचपलेलितकेलिनृत्य

राजद्घनाङ्गकिरणोच्छलनोच्छ्रितश्रीः ।

प्रेङ्खोलहारपरिधिश्रितकौस्तुभोद्यद्

भानुः स्वनच्चरणभूषणचुम्बिदामा ॥११८॥

निष्क्रम्य रम्यपुरतः पुरतोऽभिगच्छन्

यच्छन्मुदं स्वजननीजनलोचनेभ्यः ।

दासैः प्रधारितमवारितरोचिरश्नं

ताम्बूलपुलकमवाप स गोपुराग्रम् ॥११९॥

तद्बाह्यकुट्टिमतटीमवलम्बमानः

का कुत्र किं कुरुत इत्यनुसन्दधानः ।

व्यापारयन्नयनमट्टघटासु नर्म

प्रेष्ठैर्मिलद्भिरभितः स रराज मित्रैः ॥१२०॥

तन्निर्मितानुपदकर्णकथारसज्ञ

स्यास्याम्बुजे किमपि यत्स्मितमुद्बभूव ।

तस्यार्थजातमपि किं विवरीतुमीशे

चेतोऽलिरेव तव सख्यनुसन्दधातु ॥१२१॥

उष्णीषवक्रिममहामधुरिम्णि तस्य

तात्कालिके किल न कस्य मनो न्यमाङ्क्षीत।

तत्रैव शेखरितकानकसूत्रजाल

राजन्मणिद्युतिभराः किमु वर्णनीयाः ॥१२२॥

तैः सौरभैः प्रसृमरैरनु नूपुरादि

ध्वानैर्बलेन वलभीमधिरोहिताभिः ।

गोशालवर्त्मनि चलल्ललनावलीभिर्

नेत्राम्बुजैः स कतिधा नहि पूज्यते स्म ॥१२३॥

तत्तद्विलासबलिता सुषमारसाला

प्रेष्ठस्य सा मधुरिका परिवेश्यमाना ।

वैश्लेषिकज्वरमशीशमदप्यथास्यास्

तेने च तं शतगुणं तृषमेधयन्ती ॥१२४॥

हर्षोन्नतिः स्तिमिततां श्रवसोर्व्यतानीत्

तर्षोत्थसंज्वरभरस्तु दृशोर्विवेश ।

आकस्मिकी निरुपमा प्रतिवेशिसम्पत्

तापं तनोति सहवासभृतां सदैव ॥१२५॥

प्राहानुरागपरभागवती ततः सा

ता एव चारुमुखि! धन्यतमा रमण्यः ।

याः खेलयन्ति सततं सुदृशस्तदीय

लावण्यकेलिजलधौ कलधौतगात्र्यः ॥१२६॥

जन्मैव हन्त किमभून्मम गोकुलेऽस्मिंस्

तन्माधुरीं न यदुरीकुरुते कदापि ।

तत्श्यामलेऽतिचपले हृदि लेशमात्री

नो सम्भवेदिह भवे धृतिरित्यवेहि ॥१२७॥

श्यामाह यामि! ललिते! शृणु यामि गेहं

सम्प्रत्यमूं प्रति ममास्तु गिरां विरामः ।

त्वं पद्मिनीं व्रजपुरन्दरसद्मनीमां

कृष्णेक्षणालिनि समर्पय बद्धतृष्णे ॥१२८॥

सङ्ग्रहकर्तुः—

प्रियविरहविहस्ता स्रस्तधीः सा तदानीं

क्षणमपि युगकल्पं कल्पयन्ती बभूव ।

यदखिलमपि कृत्यं कारिता किङ्करीभिः

समयविहितमेकोऽभ्यास एवात्र हेतुः ॥१२९॥

कृष्णभावनामृतं ३.६४—

अथ निखिलसखीनां स्वालिभिः स्नापितानां

धृतसमुचितवस्त्रालङ्कृतीनां ततिः सा ।

मथितशरदुदञ्चच्चन्द्रिकासिन्धुजातां

श्रियमपि निजपादाम्भोजभासा विजिग्ये ॥१३०॥

कृष्णाह्निककौमुदी २.४८५१—

काचिन्मणीन्द्रमयमासनमाजहार

श्रीपादपीठमपरा तदधो दधार ।

काप्यानयद्वदनधावनभाजनानि

काप्यादधे दशनशोधनसाधनानि ॥१३१॥

उत्थाय तल्पतलतः कनकासनस्था

निद्रावसानविगलन्नियतव्यवस्था ।

सा पादपीठमधि दत्तपदारविन्दा

बभ्राज सत्परिजनैर्विहिताभिनन्दा ॥१३२॥

भृङ्गारनालशिखरेण समर्पिताभिः

सन्धाय वक्त्रविवरे चुलुकीकृताभिः ।

तत्सौरभस्य रभसाधिकसौरभाभिः

श्रीपाणिपद्मतलसङ्गमलोहिताभिः ॥१३३॥

निक्षेपणे प्रियसखीकरयोः कृताभिः

कर्पूरपूररजसाऽभिसुवासिताभिः! ।

व्याप्तालिभिः सकलकेलिकलासुहृद्भिः

सा साधु शोधितवती मुखपद्ममद्भिः ॥१३४॥

कृष्णभावनामृतं ४.२

करतलादसकृच्चुलुकीकृतं

सलिलमारदताल्वनु चालितम् ।

चलकपोलयुगोन्नतिमञ्जुल

ध्वनिभृतं निभृतं क्षिपति स्म सा ॥१३५॥

कृष्णभावनामृतं ४.३

विसृमरानलकान्किरती शिरस्य्

उपरि सव्यकराङ्गुलिघट्टनैः ।

अलिकगण्डदृगाद्यथ सामित

द्युतिमितं तिमितं त्रिरदीधवत॥१३६॥

कृष्णभावनामृतं ४.४९—

विटपिकां द्युतरोस्ततरोचिषं

रदहितां निहितां स्ववयस्यया ।

मुकुलिताम्बुजतां भजताञ्जसा

मृदुतरेण करेण सुदृग्दधे ॥१३७॥

प्रतिसरोदितदोलनमस्वनद्

वलयमुच्चलकुण्डलमेतया ।

व्यधित सा मृजती रदनांश्छविं

कणवदुच्छलितां ललितां श्रितान॥१३८॥

अथ दधे सुदती धनुराकृतिं

मणिमयीं रसनापरिणेजिनीम् ।

मृदुलपाणियुगाङ्गुलियुग्मकां

सहचरीकरतोऽदरतोषतः ॥१३९॥

नवदलोपमितां रसनां मृजत्य्

अथ तया नतकम्पितमस्तकम् ।

मुखमियं स्खलितैरलकैर्वृतं

विदधती दधती स्मितमाबभौ ॥१४०॥

निरणिजद्बहिरन्तरमप्यरं

मुखविधोरथ धौतकरद्वया ।

परिजनार्पितमञ्जुलवाससा

जलकणापनयं सनयं व्यधात॥१४१॥

सहचरीविधृते मणिदर्पणे

तदभिनन्दनसाक्षिणि वीक्ष्य सा ।

स्मितसुधाभिरधावयदाननं

प्रियतमक्षणलक्षणलक्षकम् ॥१४२॥

सङ्ग्रहकर्तुः—

तस्य दोहादिकां क्रियां दृष्टागता कलावती ।

जगादाथ तदभ्यर्णे परमोल्लाससंयुता ॥१४३॥

गोविन्दलीलामृतं २.३७४१—

गोपालोऽपि स्वगोशालं सराममधुमङ्गलः ।

सकाव्यगीष्पतिः सायं शशीवाम्बरमाविशत॥१४४॥

दधार द्युषदां रामो धवलावलिवेष्टितः ।

कैलासगण्डशैलालीमध्यस्थैरावतभ्रमम् ॥१४५॥

मध्येऽच्युतोऽञ्चन्धवलावलीनाम्

उदाननानां परितः स्थितानाम् ।

दधौ जनानां स्फूटपुण्डरीक

श्रेण्यन्तरञ्चद्भ्रमरभ्रमं सः ॥१४६॥

हिही गङ्गे! गोदावरि! शबलि! कालिन्दि! धवले!

हिही धूम्रे! तूङ्गि! भ्रमरि! यमुने! हंसि! कमले! ।

हिही रम्भे! चम्पे! करिणि! हरिणीति व्रजविधुर्

मुहुर्नामग्राहं निखिलसुरभीराह्वयदसौ ॥१४७॥

न्यस्ताङ्गः प्रपदोपरि प्रघटयन्जानुद्वये दोहनीं

काश्चिद्दोग्धि पयः स्वयं त्वथ पराः स्वैर्दोहयत्युन्मुखीः ।

अन्याः पाययति स्वतर्णकगणान्कण्डूयनैः प्रीणयन्न्

इत्थं नन्दसुतः प्रगे स्वसुरभीरानन्दयन्नन्दति ॥१४८॥

आनन्दवृन्दावनचम्पुः ११.४—

पादाग्रे कृतपादुकं त्रिकसमुल्लासोल्लसत्पार्ष्णिकं

मध्ये न्यस्य घटीं पटोन्नमनतः प्रोद्यत्त्विषोर्जानुनोः ।

गोतुन्दव्यतिषङ्गसुन्दरदरक्षोभश्लथोष्णीषकं

पाणिभ्यां क्रमकुड्मलाङ्गुलिपुटं गां दोग्धि दुग्धं हरिः ॥१४९॥

आनन्दवृन्दावनचम्पुः ११.६—

वत्सादप्यधिकप्रियो भगवतः पाण्यम्बुजस्पर्शन

स्नेहस्राविपयःपयोधरपुटा गौर्दुह्यमाना स्वयम् ।

धाराभिः सुगभीरघोषगहनमापूर्य सा दोहनीं

दोहन्यन्तरमेति यावदवनीं तावत्समापुप्लुवत॥१५०॥

पद्यावली २६२—

अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिरसौ पादार्द्धनीरुद्धभूर्

आपीनाञ्चलमर्दयन्निह पुरो द्वित्रैः पयोबिन्दुभिः ।

न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरे प्रस्खलद्

धाराध्वानमनोहरं सखि! पयो गां दोग्धि दामोदरः ॥१५१॥

सङ्ग्रहकर्तुः—

शृण्वन्तीं भाववैवश्याद्विस्मृतस्नापनक्रियाम् ।

लवङ्गमञ्जरी सद्यो जुहाव व्यग्रमानसा ॥१५२॥

गोविन्दलीलामृतं २.६५—

तत्र काञ्चनमये मृदुपीठे

चीनचेलपिहिते विनिविष्टाम् ।

सेवने परिजना निपुणा द्राक्

तामुपायनकराः परिवव्रुः ॥१५३॥

गोविन्दलीलामृतं २.६०—

सावातारयदाभरणनिचयं

ललिता स्वसखीतनुतः सदयम् ।

कनकव्रततेरिव सप्रणयं

पल्लवकुसुमस्तवकप्रचयम् ॥१५४॥

कृष्णाह्निककौमुदी २.५५—

आमृज्य चेलशकलेन तनूत्तमेन

सर्वाङ्गमङ्कितमनङ्गरणाङ्ककेन ।

अभ्यङ्गसङ्गिवसनं परिधाप्य नक्तं

वासोऽभ्यमूमुचदनुत्तमगन्धयुक्तम् ॥१५५॥

कृष्णाह्निककौमुदी २.५४—

आकृष्य मुग्धमवगुण्ठनमुत्तमाङ्गाद्

उन्मोच्य कुन्तलततीः सुघनोत्तमाङ्गाः ।

रत्नप्रसाधनिकया चलकङ्कणालिः

सप्रेम सादरमशूशुधदुत्तमालिः ॥१५६॥

कृष्णाह्निककौमुदी २.५६६६—

प्रक्षाल्य पादयुगलं मुकुरं पुरस्ताद्

आदर्श्य काचन कलाकुशलत्वशस्ता ।

तैलेन सत्सुरभिणा लसतारुणिम्ना

भ्यानञ्ज कञ्जवदनां प्रणयेन भूम्ना ॥१५७॥

अङ्गाद्यतो यत उदस्यति चारुचेलं

तत्तन्निरीक्ष्य ह्रियं ऋच्छति सानुवेलम् ।

तेनाक्तमक्तमवधाय सखीयमङ्गं

तस्याः प्यधात्तदखिलं कृतह्रीविभङ्गम् ॥१५८॥

अभ्यज्य रज्यदतिशुद्धहृदो वयस्या

आपादमूर्धकृतमर्दनमङ्गमस्याः ।

उद्वर्तनं विदधिरे घनसारपूर्णैः

कस्तूरिकाघुसृणचन्दनचारुचूर्णैः ॥१५९॥

गन्धानुबन्धिविमलामलकीकषायैः

केशान्विघृष्य कतमा विविधैरुपायैः ।

भृङ्गारनालगलितैर्ललितैः कबन्धैर्

उक्षां चकार सहजप्रणयानुबन्धैः ॥१६०॥

कालोचितेन घनसारसुवासितेन

नानामणीश्वरघटीघटया भृतेन ।

द्वाभ्यां शनैरुभयतः प्रतिपादितेन

द्वे पार्श्वयोः सिषिचतुः सुमुखीं जलेन ॥१६१॥

संवेष्ट्य चारुचिकुरान्सिचयेन बाढं

निष्पीड्य भूरि गलदम्बु निगाल्य गाढम् ।

भूयः प्रसार्य चलदङ्गुलिभिर्विकीर्य

भूयो बबन्ध कतमा सिचयं वितीर्य ॥१६२॥

काचिन्मुखेन्दुमपरा गलमूलमन्या

कर्णौ ममार्ज मृदुना वसनेन धन्या ।

वक्षो विसारि कतमा कतमा च पृष्ठं

बाहुद्वयं च कतमा सुषमावरिष्ठम् ॥१६३॥

संवेष्ट्य शुष्कवसनेन निरासनीयं

श्रोण्या जहार विगलज्जलमन्तरीयम् ।

आमृज्य पाणियुगलेन शनैरुदारम्

अर्द्धोरुकं कटितटे घटयां चकार ॥१६४॥

आमृष्टयोर्वरपयोधरयोरलोलं

काचित्कलासु कुशलाथ बबन्ध चोलम् ।

पट्टांशुकेन रचितं स्वसखीजनेन

नानाविधातिशयशिल्पविशारदेन ॥१६५॥

तस्योपरि प्रतनु शोणतरं सुवीचि

चण्डातकादुदयदुच्चलसन्मरीचि ।

श्रीपादपद्मनखचन्द्रचयाग्रचुम्बि

चेलं बबन्ध तपनीयगुणानुबन्धि ॥१६६॥

लम्बप्रलम्बयुगलेन सुपट्टदाम्ना

मुक्तामणीन्द्रमहसा विलसद्गरिम्णा ।

आकुञ्चनक्रमवशात्कमलानुकारां

जग्रन्थ नीविमभिनाभि सुशिल्पसाराम् ॥१६७॥

कृष्णभावनामृतं ४.३५—

कनकबिन्दुमती नवशाटिका

घनरुचिस्तदुपर्यतिदिद्युते ।

यदभिवेष्टनमेव मुकुन्ददृङ्

निरनुरोधनरोधनमुच्यते ॥१६८॥

कृष्णाह्निककौमुदी २.६७६९—

आरोह्य तामथ महामणिपीठपृष्ठे

विस्तारितातिमृदुचेलकृतप्रतिष्ठे ।

प्रक्षाल्य पादकमलद्वितयं सतोषाः

सख्यो व्यधुर्विविधमङ्गलवेषभूषाः ॥१६९॥

भूयः प्रसार्य बहुशो बहुशः प्रसाध्य

रत्नप्रसाधनिकयाङ्गुलिभिर्विशोध्य ।

कालागुरुप्रभवधूपधुराप्रचारम्

आलीजनः कचभरं सुरभीचकार ॥१७०॥

स्नानादृजुं सदलकालिमरालयित्वा

कस्तूरिकाभिरलिके तिलकं लिखित्वा ।

सिन्दूरबिन्दुरुचिरेऽकृत बालपाश्यां

सीमन्तसीमनि मणीन्द्रमयूखरस्याम् ॥१७१॥

गोविन्दलीलामृतं २.७७—

कस्तूरीपत्रवल्लीसमुदयखचितं पार्श्वयोराकपोलं

भाले श्रीखण्डबिन्दूत्करवृतमभितः कामयन्त्राभिधानम् ।

अन्तः कस्तूरिकोद्यन्मलयजशशभृल्लेखयाधश्चितं सा

चक्रे सीमन्तरेखान्वितमथ तिलकं सान्द्रसिन्दूरपङ्कैः ॥१७२॥

कृष्णाह्निककौमुदी २.७०

मौलौ बबन्ध कतमा सुमणिप्रवेकं

सन्मालतीकुसुमगर्भककान्तिसेकम् ।

धम्मिल्लमुल्लसितलोहितपट्टदाम्ना

लम्बप्रलम्बयुगलेन मणीन्द्रधाम्ना ॥१७३॥

कृष्णाह्निककौमुदी २.७१७३—

सूक्ष्मोर्ध्वरन्ध्रगतहेमशलाकिकाया

मूलाग्रसङ्गललिते विदधे सुकाया ।

श्रीचक्रिकाबकुलिके श्रुतिमध्यदेशे

रत्नप्रभाभरधुरा विहितोपदेशे ॥१७४॥

मुक्ताकलापकलया ललितप्रकाश्यां

काचिद्व्यधादलकसीमनि पत्रपाश्याम् ।

काचिन्मणीन्द्रमयकुण्डलमत्युदारम्

एकैकशः श्रुतियुगे घटयां चकार ॥१७५॥

काचिद्विभूष्य नयने दलिताञ्जनेन

स्मारौ शराविव निघृष्टरसाञ्जनेन ।

नासापसव्यपुटके विततार मुक्तां

नेत्राञ्जनाधरविभाभरनीलरक्ताम् ॥१७६॥

कृष्णभावनामृतं ४.६८—

मकरिके लिखती मृदुगण्डयोर्

मकरकेतनमाह्वयदेव सा ।

यमधरारुणपल्लवमर्पयन्

रसमये समये हरिरर्चयेत॥१७७॥

गोविन्दलीलामृतं २.८३—

रुचिरचिबुकमध्ये रत्नराजच्छलाका

कलितकरविशाखानिर्मितोऽस्याश्चकास्ति ।

नवमृगमदबिन्दुः शोभयन्श्रीमुखेन्दुं

भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् ॥१७८॥

गोविन्दलीलामृतं २.७६—

कर्पूरागुरुकाश्मीर

पङ्कमिश्रितचन्दनैः ।

समालिप्य विशाखाऽस्याः

पृष्ठं बाहुकुचावुरः ॥१७९॥

गोविन्दलीलामृतं २.७८८०—

पुष्पगुच्छेन्दुलेखाब्ज

मकरीचूतपल्लवम् ।

लिलेख चित्रं कस्तूर्या

चित्रा तत्कुचयोस्तटे ॥१८०॥

मीनीप्रसूननवपल्लवचन्द्रलेखा

व्याजात्स्वचिह्नशरकुन्तधनूंषि कामः ।

तद्भ्रूधनुर्धुवनमात्रनिरस्तकर्मा

मन्ये न्यधत्त निजतत्कुचकोषगेहे ॥१८१॥

चित्रार्पितानेकविचित्ररत्न

मुक्ताचिता रक्तदुकूलचोली ।

कुचौ भजालेन्द्रधनुर्विचित्रा

तस्तार शैलाविव सान्ध्यकान्तिः ॥१८२॥

गोविन्दलीलामृतं २.८६९३—

उपरि खचितनानारत्नजालैः स्फुरन्त

विमलपुरटपत्र्या कण्ठमस्या विशाखा ।

हरिकरदरचिह्नश्रीहरं पुष्कराक्ष्याः

सपदि हरिभियेव छादयामास मध्ये ॥१८३॥

वज्राचिताखण्डलरत्नचित्र

सुस्थूलमध्यो गुणबद्धचञ्चुः ।

ललास तस्या उपकण्ठकूपं

दत्तस्तया हाटकचित्रहंसः ॥१८४॥

सुवर्णगोलीयुगमध्यगोल्लसन्

मसारगोलीगिलितोऽन्तरान्तरा ।

सुसूक्ष्ममुक्तावलिगुम्फितस्तया

न्ययोजि हारो हृदि गोस्तनाभिधः ॥१८५॥

मसारचन्द्रोपलपद्मराग

सुवर्णगोलीग्रथितान्तरालैः ।

मुक्ताप्रवालैः परिगुम्फितां सा

रत्नस्रजं तद्धृदये युयोज ॥१८६॥

वैदूर्ययुग्माचितहेमधात्रिका

बीजाभगोलीगिलितोऽन्तरान्तरा ।

विचित्रमुक्तावलिचित्रगुच्छको

रराज तस्या हृदयेऽर्पितस्तया ॥१८७॥

रासे निशीथे सहनृत्यगान

तुष्टेन दत्तां हरिणा स्वकण्ठात।

तस्यैव साक्षादिव राजलक्ष्मीं

गुञ्जावलीं तद्धृदि सा युयोज ॥१८८॥

स्थूलतारावलीरम्या सन्नायकविभूषिता ।

तस्या एकावलीज्योत्स्नी हृदम्बरममण्डयत॥१८९॥

कनकखचितवज्रैर्वेष्टितैः पद्मरागैश्

चितहरिमणिपूर्णाभ्यन्तरा शातकौम्भी ।

प्रतनुपुरटराजच्छृङ्खलालम्बमाना

लसति हृदि विशाखायोजितास्याश्चतुष्की ॥१९०॥

अलङ्कारकौस्तुभ ५.१८२—

आलीजनैर्मण्डनकेलिकाले

विभूष्यमाणा वृषभानुपुत्री ।

उरोगते नीलमणीन्द्रहारे

स्विन्ना सकम्पा पुलकाकुलासीत॥१९१॥

गोविन्दलीलामृतं २.९४—

पृष्ठान्तः क्रमलम्बमानममलं ग्रीवान्तहारावली

वीटीबन्धनपट्टसूत्रचमरीजालं तदास्या बभौ ।

मन्ये चारुनितम्बशैलकटकान्मूर्ध्नाधिरोहार्थकं

सोपानं विधिना कृतं करुणया वेणीभुजङ्ग्याः स्फुटम् ॥१९२॥

कृष्णाह्निककौमुदी २.७५—

मध्येप्रगण्डमतुलाङ्गदमुन्मणीनि

मध्येप्रकोष्ठमतुलानि च कङ्कणानि ।

तत्सीम्नि काप्यकृत मङ्गलपट्टसूत्रं

रत्नप्रकाशि मणिबन्धरुचातिचित्रम् ॥१९३॥

गोविन्दलीलामृतं २.९७—

मुक्तावलीखचितहाटककङ्कणाभ्यां

संवेष्टितः स वलयावलिसन्निवेशः ।

बिम्बैर्विधोर्मिलितभास्करमण्डलाभ्यां

तस्याश्चकास्ति नितरामिव सैंहिकेयः ॥१९४॥

गोविन्दलीलामृतं २.९९—

निजनामाङ्किता नानारत्नद्युतिकरम्बिता ।बभावङ्गुलिमुद्रास्या विपक्षमदमर्दनी ॥१९५॥

कृष्णाह्निककौमुदी २.७७—

तुन्दान्तिके मणिविनिर्मिततुन्दबन्धं

काञ्चीगुणं च तदधो मणिवृन्दबन्धम् ।

पादाङ्गुलीषु वररत्नमयोर्मिकालीम्

आगुल्फमाधृत सुहंसकयुग्ममाली ॥१९६॥

कृष्णभावनामृतं ४.९६—

नखशिखाङ्घ्रितलाद्युरुशोणिमाप्य्

अहह यावकरञ्जिततामगात।

भवति किं दरदीपजरोचिषा

दिनकृतो न कृतो मनुजैर्महः ॥१९७॥

अलङ्कारकौस्तुभ ५.१४३, अन्या काचिदाह—

वृथाऽकृथा यावकमङ्घ्रिपङ्कजे

स्व एव रागोऽस्य दृशां रसायनः ।

किन्त्वेक एवास्ति गुणोऽस्य राधिके

यः केशवस्यापि च केशरञ्जनः ॥१९८॥

कृष्णाह्निककौमुदी २.७८—

मञ्जीरयुग्ममतिमञ्जुलरत्नसिद्धं

पादाम्बुजोपरि चकार च कापि बद्धम् ।

तत्तत्स्वशिल्पकुशलत्वनिदर्शनाय

काचिन्मणीन्द्रमुकुरं पुरतो निनाय ॥१९९॥

गोविन्दलीलामृतं २.१०३—

अस्या न्यधादुषसि नर्मदया स्वसख्या

मालाकृतस्तनुजयोपहृतं विशाखा ।

स्मेरारविन्दवदनाथ करारविन्दे

लीलारविन्दमरविन्दविलोचनायाः ॥२००॥

गोविन्दलीलामृतं २.१०५—

सा कृष्णनेत्रकुतुकोचितरूपवेशं

वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।

कृष्णोपसत्तितरलास वराङ्गनानां

कान्तावलोकनफलो हि विशेषवेषः ॥२०१॥

सङ्ग्रहकर्तुः—

मल्ललीलादिकं तस्य तन्मध्ये सखिभिः सह ।

विलोक्यैव हिरण्याङ्गी तामायातावदद्द्रुतम् ॥२०२॥

कृष्णाह्निककौमुदी २.२०२७—

गोदोहनादथ विरम्य स रम्यलीलैः

सार्धं निजप्रियसखैः स्वसमानशीलैः ।

अभ्याययौ कुतुकमल्लविलासनित्या

भ्यासालयं मणिमयं सकलैकमत्या ॥२०३॥

प्रत्येकमेव सखिभिः सवयोभिरेतैर्

मल्लक्रियामथ भुजाभुजि वीतभीतैः ।

स्वस्वौजसः प्रकटनेन सरोषदर्पैश्

चक्रेऽपसर्पपरिसर्पविसर्पसर्पैः ॥२०४॥

विश्रम्य किञ्चिदथ सञ्चितपुण्यवृन्दैस्

तैरेव कैश्चन महागुणवृक्षकन्दैः ।

अभ्यञ्जनार्थमनुरञ्जनमञ्जुहासैर्

अभ्यङ्गमङ्गलगृहं प्रविवेश दासैः ॥२०५॥

नानाप्रबन्धबहुबन्धविधौ विदग्धैर्

अभ्यङ्गमङ्गलविशेषकलासु मुग्धैः ।

तैलेन साधु शुभगन्धसुबान्धवेन

प्रारम्भि यत्तदुररीकृतमप्यनेन ॥२०६॥

आपादमस्तकमनस्तसमस्तभाग्यैस्

तैलेन तैः प्रियसमाजसभाजयोग्यैः ।

नातिश्लथं च न दृढं च सुमङ्गलानि

प्रीत्या चिरं ममृदिरेऽथ तदङ्गकानि ॥२०७॥

ते कौङ्कुमेन रजसा घनसारचूर्णैः

पूर्णेन चारुमृदुना परिपेषशीर्णैः ।

विम्लानभावमथ तैलकृतं हरन्तः

कृष्णस्य तानवयवानुदवर्तयन्त ॥२०८॥

केनोचितेन घनसारसुवासितेन

नानाविधस्फटिकहेमघटीभृतेन! ।

केशान्कषायकषितान्कलयन्कुमार

दासीगणोऽम्बुजदृशं स्नापयां चकार ॥२०९॥

काचित्कषायितकचान्बहुशः कषन्ती

काचिन्मृदूनवयवान्मृदु मार्जयन्ती ।

भृङ्गारकेण कतमा सलिलं किरन्ती

लेभेतरामतितरामनुरागकान्ती ॥२१०॥

सङ्ग्रहकर्तुः—

ज्योत्स्नाभिर्नवनीरदः किमथवा शुक्लेन नीलो गुणः

शुद्धस्फटिकरत्नकान्तिसलिलैः किं वेन्द्रनीलाङ्कुरः ।

मुक्ताभिः किमु वा तमालतरुणः स्नातः समुद्भ्राजते

किं वा श्यामसरोजमुज्ज्वलविधुक्षोदैर्मुरारेर्वपुः ॥२११॥

कृष्णाह्निककौमुदी २.२८४६—

एवं समाप्य कतमे स्नपनं शुभेन

शङ्खोदकेन शिरसि प्रतिपादितेन ।

अङ्गोञ्छनांशुकमनेकमथोपनीय

संमार्जनं विदधुरस्य भृशं विनीय ॥२१२॥

आदौ सुचेलशकलैर्मृदुलैरशुष्कैः

पश्चात्क्रमेण ममृजुः सितसूक्ष्मशुष्कैः ।

आपादकुन्तलभरं प्रतिसन्धिसन्धि

ते मार्जनं विदधिरे प्रणयानुबन्धि ॥२१३॥

कश्चित्कचान्गतजलान्द्विविधेन वासः

खण्डेन साधु विदधे मृदुमन्दहासः ।

कश्चित्पटुः कटित आद्गलदम्बुचेलं

चेलान्तरेण विनिनाय कृतावहेलम् ॥२१४॥

एनापि नूतनमतित्वरयोपनीतं

कौषेयचेलयुगलं द्रुतहेमपीतम् ।

केनापि पाणिकमले क्रमतः प्रदत्तम्

उत्सार्य पूर्वपटमाशु स पर्यधत्त ॥२१५॥

तस्यास्थितस्य रमणीयमणीचतुष्कं

प्रक्षालिताङ्घ्रिकमलस्य लसद्वपुष्कम् ।

पश्चाद्गतेन कतमेन कुमारभृत्ये

नासेवि कुन्तलभरः कुशलेन कृत्ये ॥२१६॥

भूयः प्रसार्य परिमृज्य मुहुः प्रसाध्य

रत्नप्रसाधनिकया बहुशो विशोध्य ।

आवृत्य चेलशकलेन सता द्विफाल

बद्धः स कुन्तलभरः प्रभया पफाल ॥२१७॥

अन्योन्यपालनकृता कचमेचकिम्ना

सूक्ष्मातिसूक्ष्मवसनस्य च पाण्डरिम्णा ।

निर्मोकमोकपरभोगिनिभोऽस्य केश

विन्यास एष न हि कस्य दृशोर्विवेश ॥२१८॥

स्नानादृजून्सदलकानथ कुञ्चयित्वा

चारुस्वभावकुटिलानपि रञ्जयित्वा ।

भाले लिलेख तिलकं शशिमण्डलाभं

श्रीखण्डकुङ्कुमरसेन सुजातशोभम् ॥२१९॥

गारुत्मतेन्द्रमणिहीरकपद्मराग

प्रद्योतनं विधुरयन्त्यमिवाप्यनागः ।

अन्यप्रभावरणकारिमयूखसान्द्रं

श्रीकौस्तुभाभिधमधत्त महामणीन्द्रम् ॥२२०॥

स्थूलेन मौक्तिकफलप्रकरेण क्ÿप्तान्

हारान्दधार गिरगोचरतामवाप्तान।

कञ्चिद्विशालतरवक्षसि नाभिकूले

कञ्चित्प्रलम्बमथ कञ्चन जानुमूले ॥२२१॥

श्रीकुण्डले मणिमये मकरानुकारे

कान्तिप्रभाकृतकपोलमहःप्रचारे ।

श्रीकर्णयोरुपनिनाय जलोपरुद्धे

स्नानोत्सवेन विरहय्य स पूर्वसिद्धे ॥२२२॥

सत्पट्टसूत्रकृतमञ्जुतरप्रलम्बौ सद्रत्नपट्टमयमङ्गलसूत्रचुम्बौ ।

गारुत्मतादिनवरत्नजबाहुबन्धौ

कश्चिद्बबन्ध वलयौ मणिबन्धसन्धौ ॥२२३॥

दिव्याङ्गुलीयकमुदारमनामिकायां

तत्पद्मरागमहसां परिणामिकायाम् ।

पृष्ठोपसन्नमणिमुद्रमवर्जनीयं

दत्ते स्म कश्चिदधितर्जनि रञ्जनीयम् ॥२२४॥

नानामणीन्द्रघटया घटितानुबन्धं

पीतांशुकोदरतटीमनु तुन्दबन्धम् ।

माणिक्यकिङ्किणिगुणं च कटीरमूले

कश्चिद्बबन्ध परिधत्तलसद्दुकूले ॥२२५॥

पादाम्बुजोपरि मणीन्द्रघटानुक्ÿप्तं

मञ्जीरयुग्मकमथो नखचन्द्रदीप्तम् ।

आधाय कोऽपि मणिदर्पणमत्युदारम्

आस्येन्दुबिम्बमधि सस्पृहमादधार ॥२२६॥

अत्रान्तरे व्रजपुरन्दरसन्निदेशम्

आदाय कश्चन तदस्य गृहं विवेश ।

ऊचे च कृष्ण! जनकस्य गिरा बहुभ्यस्

त्वं दातुमर्हसि गवामयुतं द्विजेभ्यः ॥२२७॥

श्रुत्वा पितुर्गिरमसौ चिकुरं निबध्य

पीतोत्तरीयमपि सम्यगथो विशोध्य ।

आचम्य रम्यवदनो गुणरत्नसानू

रामानुजः सीवमनसा विततार धेनूः ॥२२८॥

गोष्ठेश्वरीप्सिततमो रसवत्प्रपाकः

सम्पादितो भवति यावदनेकपाकः ।

तावन्न सोढुमभिशक्तवती विलम्बं

सा प्राहिणोत्किमपि भोक्तुमथाविलम्बम् ॥२२९॥

हैयङ्गवीनदधिदुग्धसरादिभक्ष्यम्

एतत्समेतघनसाररजोऽभिभक्ष्य ।

आचम्य च प्रियसखांसकृतावलम्बस्

ताम्बूलमाद मधुराननचन्द्रबिम्बः ॥२३०॥

सङ्ग्रहकर्तुः—

निशम्येमां वार्त्तां प्रमुदितवती सीधुसदृशीं

स्वयं पक्त्वा यन्नो तदशनमसौ कारितवती ।

विषण्णा बाष्पाणां हिममिहिकाबिन्दुनिकरं

मुमोचेवाक्षिभ्यां जलजयुगतः शीकरकणम् ॥२३१॥

कृष्णभावनामृतं ४.१०९११०—

अत्रान्तरे व्रजपुराधिपयाऽनपाय

वात्सल्यकल्पलतयाऽतिरयान्निर्दिष्टा ।

आगत्य कुन्दलतिकान्तिमेतदक्षि

भृङ्गप्रमोदकृतये कृतिनी व्यराजीत॥२३२॥

अन्योन्यदर्शनसमुद्गमनस्मिताढ्य

शस्तानुयोगरभसोन्नतिसीधुवृष्टिः ।

सद्यो बभूव यत एव तदा तदालि

वृन्दं ननन्द समसौहृदहृद्यरोचिः ॥२३३॥

कृष्णभावनामृतं ५.११२—

व्रजपुरपरमेश्वरीप्रसादं

मयि सखि! व्यक्ति तवोदयो ह्यकस्मात।

न शिशिररुचिना विनैव पूर्वां

दिशमधि रात्रि समेति कापि लक्ष्मीः ॥२३४॥

तदहमनुमिमे निदेशदम्भात्

किमपि कृपामृतमेव सा व्यतारीत।

यदिदमनुपलभ्य यन्ममात्मा

स्वमपि सखेदमवैत्यनात्मनीनम् ॥२३५॥

अजनि रसवतीविधापनार्था

रसवति! ते गतिरित्यवैमि नूनम् ।

अथ किमितरथा जवादयासीः

प्रथमतोऽनुनयन्त्यमूं मदार्याम् ॥२३६॥

इति सुदृगुदितामृतं पिबन्ती

स्मितसुभगं निजगाद कुन्दवल्ली ।

तदयि सखि! विधेहि तत्र यात्राम्

अकृतविलम्बमितः सहालिवृन्दा ॥२३७॥

किमिह गुरुजनावलेरनुज्ञा

ग्रहणविधावणुमात्रमस्ति कष्टम् ।

यदतुलधनधेनुधान्यवर्षैर्

अकृत वशां स्वयमेव तां व्रजेशा ॥२३८॥

निरुपधिपरमप्रियोऽसुकोटेर्

अपि निखिलस्य जनस्य गोष्ठभाजः ।

व्रजपतितनयः समीहते यत्

परमिह विप्रतिपत्तिरस्ति कस्य ॥२३९॥

सखि! किमपि न वेद तत्सवित्री

तदतुलरोचकवस्तु संजिघृक्षुः ।

उचितमनुचितं स्वलाभहानी

निजपरभावभिदा यशोऽयशो वा ॥२४०॥

पचसि यदपि यश्च तस्य भोक्ता

स च तिरयत्यमृतं सदैव दिव्यम् ।

इति निखिलपुरेष्वतिप्रसिद्धिस्

तव सखि! कं न चमत्करोति बाढम् ॥२४१॥

यदवधि कलयां बभूव सा त्वां

मुनिवरदत्तवरां वराम्बुजाक्षि! ।

तदवधि तव पाणिसंस्कृतान्ना

शनविरतिं क्वचनाह्नि नास्य चक्रे ॥२४२॥

जयति यदतिघोरदैत्ययूथं

मृदुलतनुः स्वपराबुभूषुमेषः ।

त्वदमलकरपक्वभक्तभुक्तेर्

अपरमियं मनुते न हेतुमत्र ॥२४३॥

शृणु परमयि तत्त्वमत्र राधे

यदवगतं सहसान्तरं मयास्याः ।

प्रतिदिनमवलोकनं विना ते

शशिमुखि! खिद्यति सा यथा स्वसूनोः ॥२४४॥

सुतनुरभिदधेऽवधेहि विज्ञे

सखि! तदिदं न वदस्ययुक्तमित्थम् ।

अपि तु कुलवतीति वादभाजां

स्फुटमपराङ्गनगामितेत्ययुक्तम् ॥२४५॥

सङ्ग्रहकर्तुः—

यदपि बत सखीयं रीतिरेवेह लोके

तदपि तव वचो नो लङ्घनीयं कदापि ।

अनुनय प्रथमं तां किन्तु युक्त्या हि वृद्धां

परिवदति तु या मामाशु लब्ध्वापि रायम् ॥२४६॥

गोविन्दलीलामृतं ३.१८२५—

ततः सासाद्य जटिलां स्नुषायां कुटिलामपि ।

श्रावयामास सन्देशं व्रजेश्वर्या विचक्षणा ॥२४७॥

आकर्ण्य साज्ञां व्रजराजराज्ञ्याः

कृष्णात्स्नुषायामपि शङ्कमाना ।

विचिन्त्य शिक्षामथ पौर्णमास्यास्

तां कुन्दवल्लीं प्रणयादवादीत॥२४८॥

स्नुषेयं मे साध्वी गुणगरिममाध्वीकमधुरा

जनश्छिद्रान्वेषी स खलु चपलो नन्दतनयः ।

न चाज्ञावज्ञेया व्रजपतिगृहिण्या भगवती

वचः पाल्यं वत्से! नटति हृदयं किं नु करवै! ॥२४९॥

मातः! सत्यं वदति भवती किंच गोपेन्द्रसूनुर्

नायं ज्ञेयः खलसमुदयैर्यादृशः श्रावितोऽस्ति ।

किन्तु प्रोद्यद्द्युमणिरिव सद्धर्मपद्मे खलाली

घूके चायं वृजिनतिमिरे घोषसन्तोषकोके ॥२५०॥

माधुर्यं तून्मदयति जगद्यौवतं तस्य तस्माद्

भीतिर्नीतिस्तव नववधूपालनं चापि युक्तम् ।

माशङ्किष्ठास्तदयति यथा दृक्पथं नास्य साध्व्याश्

छायाप्यस्याः स्वयमहमिमां द्राक्तथा तेऽर्पयामि ॥२५१॥

त्वं पुत्रि! साध्वी प्रथितासि गोष्ठे

त्वय्यर्पितेयं सरला वधूस्तत।

स लोलदृष्टिः किल नन्दसूनुर्

नैनां यथा पश्यति तद्विधेयम् ॥२५२॥

वधूमथाहूय जगाद वत्से

व्रजालयान्नन्दवधूसमीपम् ।

निष्पाद्य तस्याः प्रियमेहि तूर्णं

सहानयैवाद्य रविस्त्वयार्च्यः ॥२५३॥

राधेति दिष्टा हृदि साभिनन्दिताप्य्

अनिच्छुवद्गन्तुमुवाच तां सखीम् ।

अस्तीह कृत्यं न च मे यियासुता

गृहं गृहं नेङ्गति यत्कुलाङ्गना ॥२५४॥

कृष्णभावनामृतं ५.२१२३—

व्रजपतिगृहिणीगिरं चिराभ्यर्

थनविनयानुनयानुबद्धमूलाम् ।

कति निरसितुमत्र शक्नुमस्तत्

तव भगवान्हरिरेव रक्षितास्तु! ॥२५५॥

अवति जगदिदं स्वधर्मपालीः

किमिह सतीः स जहाति लोकनाथः? ।

इति किल भवतीं तदीयपाणौ

सुमुखि! समर्प्य निराकुला भवेयम् ॥२५६॥

इति गुरुजरतीगिरा समुद्यत्

स्मितलवसंवृतिपेशलाः सखीः स्वाः ।

विकसदसितनेत्रकोणभङ्ग्या

किमपि निगद्य बभूव सापि तूष्णीम् ॥२५७॥

गोविन्दलीलामृतं ३.२६२७—

कृताग्रहोच्चैः पुनरार्ययासौ

कौन्द्या बभाषे कृतहस्तकर्षम् ।

भीतासि किं साध्व्यहमस्म्यवित्रीत्य्

उच्चालिता फुल्लतनुः प्रतस्थे ॥२५८॥

कृष्णस्य प्रातराशाय

संस्कृतं लड्डुकादिकम् ।

आदाय ललितामुख्याः

सख्योऽप्यनुययुः सखीम् ॥२५९॥

कृष्णभावनामृतं ५.२५२६—

अथ निजभवनाद्विनिर्यती सा

तनुवसनाभरणच्छविच्छटाभिः ।

व्यधित मणिविचित्रशातकौम्भीं

पुरविशिखां सुरभीकृताखिलाशा ॥२६०॥

जननिवहगतागतिप्रवृत्तौ

दरविमुखी सरणेः श्रितैकपार्श्वा ।

अवनतदृगवाचकास्यपद्मो

परि परिगुण्ठनमाधुरी प्रपेदे ॥२६१॥

गोविन्दलीलामृतं ३.२८३५—

वीक्ष्याध्वनि परानन्द

चलद्वक्षःपटाञ्चलाम् ।

सवयस्यां कुन्दवल्ली

प्रेम्णा परिजहास ताम् ॥२६२॥

मूल्यानीतोपसर्यास्त्रिचतुरदिवसान्प्रोष्य सन्ध्यागतस्ते

भर्ता गोभिः स्वगोष्ठे घटयितुमखिलां रात्रिमेव न्यवात्सीत।

वक्षः प्रोद्यन्नखाङ्कावलिचितमधरः स्पष्टदन्तक्षतो यत्

तत्साध्व्यास्ते सतीत्वं समुचितमधुना व्यक्तमुल्लालसीति ॥२६३॥

अन्तर्गूढस्मितोत्फुल्ल

किञ्चित्कुञ्चितलोचनाम् ।

स्वसखीं ललितालोक्य

कुन्दवल्लीमथाब्रवीत॥२६४॥

करकफलधियास्याः कानने धृष्टकीरः

स्तनमनुविनिविष्टः पक्वबिम्बभ्रमेण ।

अदशदधरमुच्चैस्तन्नखाचो इतं तद्

धृदयमिदममुष्याः किं वृथा शङ्कसे त्वम् ॥२६५॥

सखीवचःस्मारितकृष्णसङ्ग

लीलोच्छलत्कम्पतरङ्गिताङ्गीम् ।

तां वीक्ष्य पद्माकरमीक्षमाणा

जगौ पुनः कुन्दलता सहासम् ॥२६६॥

आनन्दकम्पोत्तरलासि मुग्धे!

किं भो वृथा पद्मिनि! कुन्दवल्ल्याः ।

न देवरस्त्वां मधुसूदनोऽसौ

भ्राम्यन्पुनः पास्यति भुक्तमुक्ताम् ॥२६७॥

कर्णशर्मदसन्नर्म

भर्मकुण्डलनिर्मितौ ।

कर्म हां कुन्दवल्लीं तां

विशाखाह विचक्षणा ॥२६८॥

स्वेनेऽनुरागं परमुद्वहन्ती

फुल्लापि मृद्वी भ्रमरात्सुलोलात।

सत्पद्मिनीयं सखि कुन्दवल्ली

भृङ्गानुजाद्भीतरला चकम्पे ॥२६९॥

अथानन्तरम्, कृष्णभावनामृतं ५.२७—

क्वचन च पथि निर्जने कदाचित्

स्फुटमितरेतरवाग्विलासरङ्गैः ।

यदि चलति तदा कुतः क्व यामी

त्यपि न हि वेदनगोचरीकरोति ॥२७०॥

सङ्ग्रहकर्तुः—

कृष्णानुरागेण विहस्तचित्ताम्

आनन्दराशिं जनयन्तमेव ।

सन्दर्शयामास पथि व्रजन्तीं

नन्दीश्वरं तां किल तुङ्गविद्या ॥२७१॥

आनन्दवृन्दावनचम्पूः १.४८, ५०५१

रसालपनसार्जुनक्रमुकनारिकेलासनैः

पलाशवटपर्कटीखदिरबिल्वजम्ब्वादिभिः ।

मधूकगिरिमल्लिकाबकुलनागपुन्नागकैर्

अशोकबकपाटलीकनकचम्पकैश्चम्पकैः ॥२७२॥

तमालनवमालिकाकनकयूथिकायूथिका

कुरण्टकलवङ्गिकादमनकातिमुक्तादिभिः ।

अपि स्थलसरोजिनीविचकिलादिभिः कन्दली

प्रियङ्गुतुलसीमुखैरपि विचित्रवीरुद्गणैः ॥२७३॥

सितासितविलोहितोत्पलसरोजकह्लारकै

रथाङ्गबकसारसैः कुररहंसकारण्डवैः ।

विराजिततरङ्गकैर्विमलवारिभिर्वापिका

तडागसरसीमुखैः परिवृतानि तोयाशयैः ॥२७४॥

विलापकुसुमाञ्जलिः ६०—

हम्बारवैरिह गवामपि बल्लवानां

कोलाहलैर्विविधवन्दिकलावतां तैः ।

सम्भ्राजते प्रियतया व्रजराजसूनोर्

गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः ॥२७५॥

कृष्णभावनामृतं ५.२८४९—

सखि! निजपुरतो विदूरमागा

व्रजपतिसद्म समीपवर्ति वृत्तम् ।

तदयि नयनचातकाभिलाषः

फलति तवाश्विति सम्प्रति प्रतीहि ॥२७६॥

इति निगदितमात्रतः स्वसख्या

सपदि सवेपथुजाड्यविप्लुताङ्गीम् ।

प्रसभमभिदधार चेतयन्ती

किमपि जगाद च तां तदैव कौन्दी ॥२७७॥

सुमुखि! किमधुनैव विक्लवाभूर्

नयनपथामिलितेऽपि कृष्णचन्द्रे ।

अवगममखिलं सतीत्वमाप्तं

तव सवयः सद एव यत्प्रमाणम् ॥२७८॥

धृतिमिह हृदि धर्तुमीशिषे नो

यदपि तदप्यबले! क्षणं दधीथाः ।

गिरियुगभरधारणाय यत्ते

गिरिधर एव मयाद्य योजनीयः ॥२७९॥

गिरिधरदिश एव शङ्कया या

जनि विधुराद्य सखी महासतीयम् ।

परिवदसि बलादिमामविज्ञे!

तदपि नियोक्ष्यसि हा पुनस्तमस्याम् ॥२८०॥

त्वयि मुहुरियमर्पितार्यया यत्

तदुचितमेव विधित्ससेऽद्य भद्रम् ।

स्वमिव सखि! परं जनं न विद्धी

त्युदितवती ललिता पुनस्तयोचे ॥२८१॥

अलमलमनया गिराविदूरे

कलय पुरः पुरतोरणोपकण्ठे ।

स्फटिकघटितरत्नचित्रितास्थान्य्

अभिनवकुट्टिमगं हृदेककाम्यम् ॥२८२॥

सरसमुषसि दुग्धनैचिकीकः

सहसवयाः कृतमल्लरङ्गकेलिः ।

अवगतभवदालियानवार्त्ता

क्षुभितहृदागत एष भाति पश्य ॥२८३॥

व्रजपुरललनाकुलोन्मदिष्णु

करणपटुच्छविमण्डलोपगूढः ।

मधुरिमधुरयैव किं त्रिभङ्गी

कृततनुरुच्चलदाममादितालीः ॥२८४॥

श्रितमृदुतरगण्डकुण्डलाध्या

पनपरताण्डवपण्डिताक्षियुग्मः ।

पवनधुतपटाङ्गगौरनील

द्युतिलहरीस्तिमितीकृताखिलाशः ॥२८५॥

प्रियसखभुजशीर्ष्णि राजदुद्यत्

करिकरनिन्दकधामवामबाहुः ।

निजरुचिविजिताब्जघूर्णनैक

व्यसनवशेतरपाणिरेष ईष्टे ॥२८६॥

इति गिरमथ रूपमाधुरीं तां

यदि चषकीकृतकर्णनेत्रयुग्मा! ।

अपिवददरमोहतस्तदा तत्

प्रसृमरसौरभमाश्वबोधयत्ताम् ॥२८७॥

पुलकनिवहकम्पसम्पदश्रु

स्रुतिकलिलापि धृतिं दधत्यवादीत।

सखि! किमपरमस्ति वर्त्म पादौ

न मम पुरश्चलतोऽस्य किं करोमि ॥२८८॥

गुरुपरवशतैव दोषदूरी

करणपटुस्तव किं भिया ह्रिया वा ।

सपदि सवयसेति बोध्यमाना

लघु लघु गन्तुमियेष सा तदग्रे ॥२८९॥

किमिदमिति परस्परावलोको

च्छलितमहामधुरिम्णि यत्तयोस्ताः ।

स्वमतुलतरसि न्यमज्जयन्ना

लय इति वर्णयितुं न गीरपीष्टे ॥२९०॥

अघदमनचकोरचन्द्रिकास्ताः

शशिवदनापि पपौ मुहुः पिपासुः ।

गिरिधरमुदिरोपरीह चातक्य्

अतनुरसं प्रववर्ष सेति चित्रम् ॥२९१॥

अथ निजनिज मूर्ध्नि सव्यहस्तोन्

नमनकलाकलितावगुण्ठनास्ताः ।

अवनतनयनाञ्चलीविलीढ

प्रियचरणाब्जसुधा ययुस्तदग्रात॥२९२॥

हरिरपि परिवृत्य तन्नितम्ब

द्युतिनिहितेक्षणपङ्कजोऽवतस्थे ।

वरतनुततिरप्यतीत्य तद्गो

पुरमवगुण्ठनमीषदस्यति स्म ॥२९३॥

सखि! भवदवलोकजातहर्षं

सपदि स चम्पकमालया बटुस्तम् ।

सुखिनमकृत यत्तदिङ्गितज्ञा

भवसि न वेत्युदिताह सा स्वसख्या ॥२९४॥

त्वमसि खलु यथा तथान्वमासीर्

निजदृशीर्यतसे परा विधित्सुः ।

इति दरविकसत्स्मिता भ्रमद्भ्रूस्

त्वरितमवाप महापुरान्तरं सा ॥२९५॥

स्फटिकघटितकुड्यमीड्यभर्मोज्

ज्वलपटलं पविकीलकं कवाटम् ।

मणिमयललनाधृतप्रदीप

व्रततिनगद्विजराजिराजितद्वाः ॥२९६॥

द्युमणिकिरणदीप्तरत्नकुम्भ

ध्वजनटकेकिवृताग्रपौर आट्टम् ।

सुरवरपुरनिन्दि यत्र शन्दं

विलसति मन्दिरवृन्दमिन्दिराढ्यम् ॥२९७॥

आनन्दवृन्दावनचम्पूः १.१५२

मसारप्राचीरं मरकतगृहं हेमपटलं

प्रवालस्तम्भालिस्फटिकवृतिवैदूर्यवडभिः ।

महानीलेन्द्रा अं विमलकुरुविन्दोपलमहा

प्रतीहारं नानाकृति जितविमानावलिपुरम् ॥२९८॥

आनन्दवृन्दावनचम्पूः १.४५—

कुड्ये यस्य मणिप्रवेकरचिते शिल्पक्रियाकल्पितैः

प्रत्यासज्य शुकैः समं गृहशुकेष्वासादितस्थेमसु ।

सप्राणाः किममी इमे किमथ वेत्युन्मीलतः संशयाद्

दातुं दाडिमबीजकानि सुचिरं मुह्यन्ति मुग्धाङ्गनाः ॥२९९॥

व्रजरीतिचिन्तामणिः २.१९२२—

मुख्यप्रकोष्ठे चतुरालयेऽस्या

भाण्डारगेहं वरुणस्य दिश्यम् ।

श्रीकृष्णवासः शुभदक्षिणस्थः

श्रीरामधामोत्तरदिश्युदेति ॥३००॥

प्राच्यां गृहं तादृशमेव यत्र

प्राच्यां स यस्यान्यतरप्रकोष्ठे ।

स्वपुत्रभद्राय निजेष्टदेवं

नारायणं सेवते एव नन्दः ॥३०१॥

कोषालयस्यान्वितदक्षिणांशे

कृष्णस्य धाम्नः शुभपश्चिमेऽस्ति ।

या पाकशालाद्वयमध्य एव

विश्रामधामानुरु राधिकायाः ॥३०२॥

कृष्णस्य धाम्नोऽन्वित दक्षिणांशे

पाकालयस्यापि विराजमानः ।

आराम आस्ते सरसी च यत्र

रहो मनोज्ञं बहुगेहवेदि ॥३०३॥

कृष्णभावनामृतं ५.५२—

अथ समुपसेदुषीं सखीभिर्हरि

जननी निजवेश्म भासयन्तीम् ।

अमनुत भुवनत्रयैकलक्ष्मीम्

उदितवतीं मुदिताऽर्कमित्रपुत्रीम् ॥३०४॥

गोविन्दलीलामृतं ३.३७३८—

तत्रागतां चरणयोः प्रणतां स्वदोर्भ्याम्

उत्थाप्य तां हृदि निधाय मुकुन्दमाता ।

आघ्राय मूर्ध्नि मुदिता जननी परार्धा

स्निग्धा चुचुम्ब मुखमश्रुमुखी ततोऽस्याः ॥३०५॥

प्रत्येकमालिङ्ग्य च तद्वयस्याः

पप्रच्छ साऽव्याहतभव्यमस्याः ।

व्यग्रा सुतस्याशनसाधने द्राक्

सस्नेहमेताः पुनरावभाषे ॥३०६॥

उज्ज्वलनीलमणिः ४.४५—

न सुतासि कीर्तिदायाः

किन्तु ममैवेति तथ्यमाख्यामि ।

प्राणिमि वीक्ष्य मुखं ते

कृष्णस्येवेति किं त्रपसे? ॥३०७॥

कृष्णभावनामृतं ५.५५—

मधुरमृदुलमोदकादि किञ्चित्

सममुपवेश्य सखीजनैर्बलात्ताम् ।

द्रुतहृदया धनिष्ठयाशयित्वा

भृशमुपलाल्य निनाय पाकशालाम् ॥३०८॥

गोविन्दलीलामृतं ३.३९६०—

विविधमधुरभक्ष्योत्पादने लब्धवर्णा

व्रजभुवि किल यूयं विश्रुता मिष्टहस्ताः ।

तदिह कुरुत पुत्र्यः! साधु भक्ष्याणि यत्नाद्

दररुचिरपि वत्सः सस्पृहं मे यथात्ति ॥३०९॥

उपलावणिकं त्वेकाः

काश्चित्कुरुत दाधिकम् ।

सार्पिष्कमपरा यूयं

वत्साः शार्करिकं पराः ॥३१०॥

सरसरसवतीसत्प्रक्रियापण्डितासि

त्वमिह रसवतीं मे याहि राधे! प्रयत्नात।

जननि! बलजनन्याधिष्ठितां मिष्टमन्नं

रचय सह तयैव व्यञ्जनान्युत्तमानि ॥३११॥

वटकममृतकेलिं साधयातिप्रयत्नात्

सरसमसृणमन्यं पुत्रि! कर्पूरकेलिम् ।

मधुरममृतकोटेर्यत्र कृष्णः सतृष्णस्

त्रिजगति न हि कश्चित्त्वां ऋते यस्य वेत्ता ॥३१२॥

यस्यामुच्चैर्लालसाढ्यः सुतो मे

तां पीयूषग्रन्थिपालीं च कृत्वा ।

कर्पूरैलाद्यन्वितपानके त्वं

यत्नाद्वत्से! धेहि पञ्चामृताख्ये ॥३१३॥

त्वं विधेहि ललितेऽम्ब! रसालां

त्वं च षाडवमिहाशु विशाखे! ।

त्वं च भोः शिखरिणीं शशिलेखे

पुत्रि चम्पकलते! मथितं त्वम् ॥३१४॥

आमिक्षां त्वं पुत्रि! संसाध्य तस्यास् तत्तद्द्रव्यैर्योगपाकप्रभेदैः ।

तत्तद्भेदान्तुङ्गविद्ये! विधेहि

त्वं मत्स्यण्डीपानकान्यम्ब! चित्रे! ॥३१५॥

त्वं खण्डमण्डानि च रङ्गदेवि!

त्वं क्षीरसारान्विविधान्सुदेवि! ।

वासन्ति! शुभ्रा मृदुफेनिकास्त्वं

त्वं मङ्गले! कुण्डलिकां विधेहि ॥३१६॥

कादम्बरि! त्वं कुरु चन्द्रकान्तीस्

त्वं लासिके! तण्डुलचूर्णपिण्डीः ।

त्वं शष्कुलीः कौमुदि! भूरिभेदास्

त्वमिन्दुपिण्डानि मदालसेऽम्ब! ॥३१७॥

शशिमुखि! वटकानि त्वं विधेहि प्रयत्नाद्

दधिवटकमुखानि प्राज्यमाधुर्यभाञ्जि ।

प्रणय सुमुखि! रम्याः शर्कराप इकास्त्वं

मणिमति! बहुभेदांस्त्वं च पिष्टान्नपूपान॥३१८॥

विधत्स्व भोः काञ्चनवल्लि! वत्से!

गोधूमचूर्णोद्भवलड्डुकानि ।

मनोहराख्यानि मनोरमे! त्वं

त्वं मौक्तिकाख्यानि च रत्नमाले! ॥३१९॥

सुभृष्टनिस्तुषतिलैर्

मोदकान्कुरु माधवि! ।

तथा तिलकदम्बाख्याः

सतिलाः खण्डपट्टिकाः ॥३२०॥

लाजान्धानांश्च संभृष्टान्

पृथुकान्घृतभर्जितान।

कृत्वा विन्ध्ये! सिताक्वाथैः

समुद्गान्कुरु मोदकान॥३२१॥

रम्भे! करम्भं कुरु शातकुम्भ

कुण्ड्यां सुरम्भाफलशर्कराद्यैः ।

निष्पीड्य पक्वाम्ररसं मनोज्ञे!

सिताघनक्षीरयुतं विधेहि ॥३२२॥

उत्थापितं यत्तु मया मथित्वा

प्रातः सुगन्धापयसो दधीनि ।

तदिष्टगन्धं नवनीतपिण्डं

हैयङ्गवीनं कुरु भोः किलिम्बे ॥३२३॥

स्वयं दुग्ध्वा व्रजेन्द्रेण

प्रहितं धवलापयः ।

पानार्थमम्बिके मन्दं

त्वं शृतं कुरु वत्सयोः ॥३२४॥

ऋजीषदर्वीनिवहैः परीतां

मृद्दारुकुण्ड्यादिकभाजनैश्च ।

चुल्लीचयाढ्यां मम सिक्तलिप्तां

तद्दुग्धशालां व्रजताशु बालाः ॥३२५॥

नानोपकरणानि त्वं

तानि तानि धनिष्ठिके! ।

निष्कास्य तत्तद्भाण्डेभ्यः

पात्रेष्वाधाय दापय ॥३२६॥

तत्तत्पदार्थांस्त्वरितं तुलस्या

सहानया रङ्गणमालिके त्वम् ।

आनीय कोषालयतोऽस्मदीयाद्

दासीगणैर्दापय तत्र तत्र ॥३२७॥

आम्रातकाम्रफलपूरकरीरधात्री

लिम्पाककोलिरुचकादिफलानि कामम्

तैले चिरं सलवणे किल सन्धितानि

मूलान्यथार्द्रकमुखानि च रोचकानि

मत्स्यण्डिकारसचिरोषितपक्वचिञ्चा

धात्रीरसालबदरीशकलानि तद्वत्

निष्कास्य भोस्त्वमिह मन्थनिकाकुलेभ्यः

कृत्वानयेन्दुमुखि! काञ्चनभाजनेषु

शन्दे शुभे भरणि पीवरि मिष्टहस्ते

चुल्लीचयोपरिधृतातुलमन्थनीषु ।

दुग्धानि भारिकगणोपहृतानि गोष्ठाद्

वत्साः! शनैः श्रपयताशु निधाय यूयम् ॥३३०॥

सङ्ग्रहकर्तुः—

कान्तभुक्तावशिष्टं सं

भुज्य तु जातशर्मिकाम् ।

आयातां स्वसमीपे तां

राधामाह सलालनम् ॥३३१॥

कृष्णभावनामृतं ५.५६—

सरसिजमुखि! कीर्तिदैककीर्ते!

पचनकलाचतुरा कृतासि धात्रा ।

तदयि रसवतीं प्रविश्य पाकं

कुरु ललितादिसखीकृतेति कृत्यम् ॥३३२॥

सङ्ग्रहकर्तुः—

शशिमुखि! शरदां शतं जयैवं

सुखय मनोनयने ममेत्युदित्वा ।

अनयत सुमनोहरास्तदालीः

शमतुलवत्सलतालता नताः सा ॥३३३॥

कृष्णाह्निककौमुदी २.८४—

गोष्ठेश्वरीं समभिवाद्य विशेषनम्रा

तत्पाणिपद्मधृतपाणिरतीव कम्रा ।

आसाद्य रामजननीं प्रणनाम याताम्

अध्यक्षतां पचनकर्मणि साभिजाता ॥३३४॥

सङ्ग्रहकर्तुः—

कैलासशैलकनिभं दधती स्वकान्त्या

नीलांशुका प्रणयिनी हि सदात्र राधा ।

एहीति दोःप्रसरणेन मुहुर्वदन्ती

शिश्लेष तां समुखचुम्बमसौ हसन्ती ॥३३५॥

कृष्णाह्निककौमुदी २.८५९३—

ताभ्यां महानसमुपेत्य च पाकशाला

पालीः स्मितेन मृदुना वचसा च बाला ।

सम्मान्य मान्यचरिता मुमुदे मितानि

पाकक्रियोपकरणानि विलोक्य तानि ॥३३६॥

कुष्माण्डकालुकचुमानककन्दतुम्बी

वार्त्ताकुमूलकपटोलफलानि शिम्बी ।

डिण्डीशवारणबुषामफलान्यनीचा

रम्भाविशेषनवगर्भनवीनमोचाः ॥३३७॥

वास्तूकमारिषपटोलशिखाः कलाय

वल्लीशिखाश्चणकाग्रशिखाः प्रधाय ।

तुम्बीशिखाश्च मृदुलाः सहपोदिकाग्राण्य्

आलोक्य सैक्षत सखीः सरसाः समग्राः ॥३३८॥

यद्येन येन विधिना रुचिरत्वमेत्य

यद्व्यञ्जने यदुपयुज्यत इत्यवेत्य ।

ताभिर्महानसचरीभिरमूनि तानि

तत्तत्प्रकारमथ कुट्टितकर्त्तितानि ॥३३९॥

एलालवङ्गमरिचार्द्रकजात्यजाजी

जातीफलत्वचसुलाङ्गलिसस्यराजीः ।

सिद्धार्थतण्डुलनिशा दलितांश्च माषान्

केचिज्जनाः पिपिषुरब्जदृशामशेषान॥३४०॥

पिष्ट्वा सुवर्णपुटिकासु शुभप्रभावैर्

आच्छादितास्वनुचरीघटया शरावैः ।

सुस्थापितानि वसनोपरि पाकलीला

रम्भे चकार हृदयं निरवद्यशीला ॥३४१॥

आवश्यकाभरणवेशलसत्प्रतीका

धौताङ्घ्रिपाणिकमला सहरोहिणीका ।

बभ्राज सा वरमहानसवेदिकायां

श्रद्धाय कौतुकवती पचनक्रियायाम् ॥३४२॥

दीप्तासु रामजननीङ्गिततोऽनलेन

चुल्लीषु चारुतरदारुसमुज्ज्वलेन ।

आरूरुहन्नखिललोचनचित्तजैत्रीस्

तास्ताम्ररीतिरजताचितपाकपात्रीः ॥३४३॥

जज्ज्वाल स स्वयमफुत्कृतिवीतधूमम्

अग्निः स्वयं जलमभूदनभूमभूम ।

यद्यत्र यत्र लवणं च तथा प्रमाणं

तत्तत्र तत्करतलेऽकुरुत प्रमाणम् ॥३४४॥

कृष्णभावनामृतं ५.६३६५—

अगुरुसरलदेवदारुदारु

ज्वलनपरिश्रितचुल्लिकाचयाग्रे ।

निहितविविधपात्रराजिराजद्

बहुविधतेमनसाधुसाधनार्थम् ॥३४५ ॥

ज्वलनकलनपात्रधारणोन्नत्य्

अवनतिमूर्छनदर्विचालनाद्यैः ।

त्रिवलिकुचभुजांसकम्पचेलोच्

चलनवशादुदपादि यस्तदाऽस्याः ॥३४६॥

मधुरिमभरमच्युतः स्वसौध

स्फुरितगवाक्षधृतेक्षणः पिबंस्तम् ।

मदनमदमुदञ्चितं विवृण्वन्

किमपि जगाद पटुर्बटुं मिषेण ॥३४७॥

गोविन्दलीलामृतं ३.८४१०७—

प्रहित्य तं साथ महानसं गता

किं किं त्वया साधितमेतया सह ।

सर्वं तदेतन्मम तेमनादिकं

संदर्शयेत्याह बलस्य मातरम् ॥३४८॥

तामाह सम्मार्जितवेदिकान्तरे

नवीनमृद्भाजनपङ्क्ति सम्भृतम् ।

सा दर्शयन्ती कृततेमनादिकं

राधां प्रशंसन्त्यथ तां च रोहिणी ॥३४९॥

सुमधुरं शशितोऽपि सुसंस्कृतं

निपुणया पचने मृदु राधया ।

प्रवरमन्थनिकासु सुसम्भृतं

सुमुखि! पश्य पुरः सखि! पायसम् ॥३५०॥

बलपुष्टिकरं हृद्यं

मधुरं मृदुलं सति! ।

मन्थनीसम्भृतं पश्य

संयावमनया कृतम् ॥३५१॥

रम्भासीरीक्षीरसारैः

शष्कुलीर्विविधाः सखि! ।

पश्य पिष्टविकारंश्च

नानाभेदान्सुसंस्कृतान॥३५२॥

पीयूषग्रन्थिकर्पूर

केलिकामृतकेलिकाः ।

अनया संस्कृताः पश्य

यद्विधिर्मे न गोचरः ॥३५३॥

केवलो मथितक्लिन्नो

मौद्गोऽयं वटको द्विधा ।

सितालवणसंयोगान्

माषस्यापि चतुर्विधः ॥३५४॥

चिञ्चाम्रातकचुक्राम्रैस्

तत्तद्द्रव्यादियोगतः ।

ईषन्मधुरगाढादि

भेदादम्लो द्विषड्विधः ॥३५५॥

बद्धरम्भानव्यगर्भ

तन्नव्यमुकुलांशयोः ।

मानकन्दाम्बुकच्वीनां

मुखांशस्यालुकस्य च ॥३५६॥

कुष्माण्डडिण्डिशाणां च

चक्राभखण्डजालकम् ।

चणकक्षोदपङ्काक्तं

घृतभृष्टं पृथक्पृथक॥३५७॥

चणकक्षोदवटकान्

याज्यभृष्टानि केवलम् ।

अपरान्यम्लसत्तक्र

क्वाथक्लिन्नानि लोकय ॥३५८॥

चणकक्षोदपिण्डानां

स्विन्नानां क्वथिताम्भसि ।

खण्डानि द्रव्यपाकादि

भेदान्नानाविधानि च ॥३५९॥

वटिका फलमूलानां

पृथक्संयोगभेदतः ।

त्रिजातमरिचाद्यैस्तु

प्रकारान्बहुधाकृतान॥३६०॥

कर्कारुज्योत्स्निकालाबु

फलान्यालि पृथक्पृथक।

राजिकादधियोगेन

संस्कृतान्यनया शुभे ॥३६१॥

वत्सेप्सितप्रसूनानि

घृतभृष्टानि केवलम् ।

घृतभृष्टा दधिक्लिन्नाः

कलिकाः कोविदारजाः ॥३६२॥

घृतभृष्टा दधिक्लिन्नाः

प्रसूनवटिका द्विधा ।

पटोलस्य फलान्याज्य

भृष्टानि रुचिदान्यलम् ॥३६३॥

वृद्धकुष्माण्डवटिकाः

कच्वीमानालुकन्दकैः ।

तिक्तलालितचूर्णाढ्याश्

चविकाढ्याः पराः कृताः ॥३६४॥

सितैलामरिचैर्योगाद्

दुग्धतुम्बीकृतानया ।

तद्योगादपरं मिष्टं

क्षीरकुष्माण्डनामकम् ॥३६५॥

दधिशूरणकं मिष्टं

धात्रीशूरणकं परम् ।

दध्नैकं भर्जितं चान्यं

कारविल्वफलं द्विधा ॥३६६॥

मृदुरम्भागर्भखण्ड

वृद्धकुष्माण्डखण्डयोः ।

सितादधियुतः पाको

मधुराम्लः सुशीतलः ॥३६७॥

नालीतमेथीशतपुष्पिकामिशी

पटोलवास्तूकवितुन्नमारिषाः ।

प्रकारसंयोगविभेदतोऽनया

शाकाः सुधागर्वहृतः सुसंस्कृताः ॥३६८॥

कलम्बी पक्वचिञ्चाया

रसपक्वा रुचिप्रदा ।

कृष्णनालीतशाकोऽयम्

आमाम्रफलयुक्शुभः ॥३६९॥

मयुष्ठकस्य मुद्गस्य

माषस्याप्यधुना मया ।

त्रिविधोऽयं सुधाकूप

निभः सूपो विपाच्यते ॥३७०॥

पङ्कैः सुमनचूर्णानां

दासीभिर्भृशमर्दितैः ।

पूर्णेन्दुमण्डलाकाराः

क्रियन्ते रोटिका मया ॥३७१॥

गोविन्दलीलामृतं ३.१०९११२—

कृतानि क्रियमाणानि

कर्तव्यानि तु कानिचित।

इत्यन्नव्यञ्जनानि त्वं

संसिद्धानि प्रतीहि नौ ॥३७२॥

सौरभ्यसद्वर्णमनोहरं तत्

सा वीक्ष्य सर्वं मुदिता बभूव ।

जिज्ञासमानामथ तद्विधानं

तां रोहिणी विस्मयपूर्वमाह ॥३७३॥

सामग्री सैव सामान्या

पाकस्य प्रक्रियाप्यसौ ।

किन्त्वपूर्वगुणे हेतुर्

गान्धर्वाहस्तसौष्ठवम् ॥३७४॥

सा तां राधामन्नसंस्कारसक्तां

प्रस्विद्यन्तीं लज्जया नम्रवक्त्राम् ।

दृष्ट्वा राज्ञी स्नेहविक्लिन्नचित्ता

दासीमस्या वीजनायादिदेश ॥३७५॥

अथ तस्याः परिवेशनकौशलमाह, कृष्णाह्निककौमुदी ३.१५—

व्याप्तायां वसनेन भोजनभुवि श्रीरत्नपीठाग्रतस्

तत्तद्व्यञ्जनरत्नरत्नपुटिकापङ्क्तिः क्रमेणाभितः ।

मिष्टाभीष्टसुपिष्टकौघपुटिकापङ्क्तिस्तु तासां बहिः

सम्यग्भव्यसुगव्यहेमपुटिकापङ्क्तिश्च तासां बहिः ॥३७६॥

इत्येवं क्रमतोऽर्धमण्डलतया पङ्क्तिक्रमेणाद्भुते

स्वालीभिः पुरुचारुचित्ररचनाद्वैविध्य आपादिते ।

अन्योन्याव्यतिषक्तसूक्ष्मसुरभिश्लक्ष्णैर्घृताच्योतनैर्

मध्ये हेममयी व्यधायि रुचिरा पात्री शुभैरोदनैः ॥३७७॥

सौवर्णीं तलपात्रिकां घृतपुटीलिम्पाकखण्डादिभिः

सन्धानार्द्ररसालखण्डसहितैः सत्कासमर्दादिभिः ।

युक्तां दक्षिणतो निधाय निकटे तस्याश्च भृङ्गारकान्

कर्पूरेण सुवासितेन पयसा पूर्णान्व्यधात्कानकान॥३७८॥

तस्याः पाकसुकौशलं बहुविधं दृष्ट्वा व्रजेशप्रिया

तासां तत्परिवेषचित्ररचनां चातिस्फुरद्विस्मया ।

आनेतुं प्रजिघाय वत्सलमनाः कृष्णं च रामं च सा

धात्रेयीमथ तौ समीयतुरतिश्रद्धावशादञ्जसा ॥३७९॥

नत्वा मातरमाज्ञया सहबलस्तस्याः समुल्लासनः

प्रेम्णा बालकदासिकाकृतपदाम्भोजद्वयीधावनः ।

आचम्योपविवेश सम्मुखतया चार्वन्नपात्रीपुरः

सर्वं तत्तदवेक्ष्य विस्मितमना बभ्राज पीताम्बरः ॥३८०॥

गोविन्दलीलामृतं ४.२२—

श्रीदामसुबलौ वामे पुरोऽस्य मधुमङ्गलः ।

दक्षिणे श्रीबलश्चान्ये परितः समुपाविशन॥३८१॥

कृष्णाह्निककौमुदी ३.७९—

मातृभ्यां क्रमदर्शितेन हि पथा भोक्तुं समारब्धवान्

यद्यद्भोक्तुमुपक्रमं स्म कुरुते त्यक्तुं न तत्सोढवान।

भोक्तुं तत्तदशेषमप्यभिलषन्सामर्थ्यवांश्च स्वयं

किञ्चित्किञ्चिदभुक्त वीक्षकभिया दुर्वादभीत्याप्ययम् ॥३८२॥

व्याख्याद्भिः सहभोजिभिः सहबलैः पाकस्य तत्कौशलं

स्वादुङ्कारमदन्नवागपि हृदा सोऽपि प्रशंसन्नलम् ।

आदौ पायसमाश किञ्चिदपरप्राचुर्यपर्याप्ततां

वीक्ष्य व्यञ्जनरत्नयत्नगमिना लोभेन भूम्ना चिताम् ॥३८३॥

शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जना

न्यादन्मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना ।

तान्सर्वान्सहभोजिनः सरसया वाचा हसन्हासयन्

भुञ्जध्वं न परित्यजेत किमपीत्येकान्तमाह्लादयन॥३८४॥

गोविन्दलीलामृतं ४.२४४१—

स्वस्वसंस्कृतमिष्टान्नं प्रातराशोपयोगि यत।

उपजह्रुस्तयाहूता मात्रे गोप्यो मुदान्विताः ॥३८५॥

श्रीराधया यत्नत एव गेहाद्

आनीतखण्डोद्भवलड्डुकानि ।

गङ्गाजलाख्यान्यथ रङ्गदेवी

तदिङ्गितेनोपजहार मात्रे ॥३८६॥

तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ ।

प्रकीर्णस्वर्णपात्रेषु विनिधाय पृथक्पृथक॥३८७॥

आस्वादयन्तं घृतपक्वमन्नं

सुनर्मभिस्तानपि हासयन्तम् ।

आलोकयन्तं नयनाञ्चलेन

राधाननं तं ददृशुर्मुदाल्यः ॥३८८॥

अदो भद्रमिदं मिष्टमेतत्स्निग्धं सुचारु तत।

तर्जन्या दर्शयन्त्यम्बा भुङ्क्ष्व वत्सेत्यभाषत ॥३८९॥

यद्यदिष्टं भवेद्यस्य ज्ञात्वा ज्ञात्वा हसन्हरिः ।

तस्मै तस्मै ददौ तत्तत्स्वपात्रात्प्रक्षिपन्मुहुः ॥३९०॥

वीक्ष्य यत्नान्वितामम्बां मन्दमश्नन्तमच्युतम् ।

परिहासपटुस्तस्मिन्व्रजेशामवदद्बटुः ॥३९१॥

अयं चेद्भूरि नात्त्यम्ब! देहि मे सर्वमद्म्यसौ ।

मयैवालिङ्गितः पुष्टो भविता भूरिभोजिना ॥३९२॥

नास्य मन्दरुचेः शक्तिर्घृतपक्वान्नभोजने ।

तदस्मै लघुराद्धान्नं व्यञ्जनान्यम्ब! दापय ॥३९३॥

अथ कृष्णः स्वपात्रस्थपक्वान्नाञ्जलिभिर्हसन।

पञ्चषैः पूरयामास भुङ्क्ष्वेति बटुभाजनम् ॥३९४॥

ततो वामकफोणिं स्वं वादयन्वामपार्श्वके ।

सम्यग्भोक्तुं कृतारम्भः प्रहृष्टो बटुराह तम् ॥३९५॥

वयस्य! पश्य भक्ष्येऽहमित्यश्नन्कवलद्वयम् ।

मातर्मे दधि देहीति प्राहिणोत्तां तदाहृतौ ॥३९६॥

गोपाः पश्यत नृत्यतीह चपलः पक्वान्नलब्धाशया

कीशेशो दधिलम्प ओऽयमिति तान्कृत्वोन्मुखांस्तद्दिशि ।

तेषां भोजनभाजनेषु शनकैर्निक्षिप्य भक्ष्यं निजं

सर्वं भुक्तमिदं मयेति स पुनर्गर्वायमानोऽवदत॥३९७॥

तथागतां तां दधिपात्रहस्ताम्

उवाच पश्याम्ब! विनैव दध्ना ।

मयोपभुक्तं द्रुतमेव सर्वं

तत्पायसं दापय भूरि मह्यम् ॥३९८॥

हैमेषु पात्रेषु निधाय राधया नवीनरम्भादलमन्दमारुतैः ।

शीतीकृतं स्वे परिवेशितं करे

तेभ्यो ददौ पायसमाशु रोहिणी ॥३९९॥

आनीयानीय गान्धर्वादत्तानि व्यञ्जनानि सा ।

शाकादीन्यम्लशेषाणि तेभ्योऽदात्क्रमशः शनैः ॥४००॥

रम्भोदरस्थच्छदवर्णलाघवाः

संमृष्टगोधूमसुचूर्णरो इकाः ।

घृताभिषिक्ताः परिवेशितास्तया

तेभ्योऽन्यपात्रेषु निधाय सा ददौ ॥४०१॥

सङ्ग्रहकर्तुः—

पूर्वं पक्वान्नमुद्दिश्या

धुना त्वन्नादिकं च या ।

बटोः सुपरिहासोक्तिर्

नात्र स्यात्पुनरुक्तता ॥४०२॥

कृष्णभावनामृतं ६.४५५४—

कृष्णः सतृष्णो नैवात्र

बलः कवलमात्रभुक।

श्रीदामा नाम मन्दाशी

सुबलोऽसुबलोज्झितः ॥४०३॥

क्वैषां भक्ष्यैकतानत्व

राहित्यमविदग्धता ।

क्वैतदन्नं सुधानिन्दि

स्वयं लक्ष्म्यैव साधितम् ॥४०४॥

काव्यं विफलतां किं न

याति सत्कविनिर्मितम्? ।

यत्र गोष्ठ्यां तदास्वाद

लोलुपत्वं न वर्तते ॥४०५॥

चतुर्वर्गफलं मूर्तं

एतदन्नं चतुर्विधम् ।

अहं केवलमेकोऽस्य

पात्रमित्यवदद्बटुः ॥४०६॥

श्रीदामोवाच पिण्डीभिः

पिचिण्डं पूरय द्रुतम् ।

यदेव तव सर्वस्वं

यदर्थं बटुतामधाः ॥४०७॥

बटुराख्यदरे मूर्ख!

गोपस्त्वं किं नु वेत्स्यसि? ।

रसास्वादं स्वधर्मार्थं

गा रोद्धुमटवीमट ॥४०८॥

पश्यैषोऽहमनूचानो

विप्रो यैर्मन्मुखे हुतम्! ।

तैरिष्टः सर्वयज्ञेन

भगवानेव केवलम् ॥४०९॥

श्रीदामोचे श्रुतिस्मृत्योर्

वर्त्मापि शतजन्मसु ।

त्वया परिचितं नैव

विप्रत्वे सूत्रमेव ते ॥४१०॥

कृष्णः प्राह बटोरस्ति

रसशास्त्रेऽनुशीलनम् ।

व्यञ्जनानेकतात्पर्य

लक्षणाभिज्ञता यतः ॥४११॥

बटुराह षडेवात्र

रसा न त्वष्ट मन्मते ।

षोढैव न्याय्य आस्वादो

यत्षडेवेन्द्रियाणि नः ॥४१२॥

कृष्णभावनामृतं ६.५६६३—

रसा ह्यष्टाविति प्राहुर्

ये तेऽपि व्यञ्जनाश्रिताः ।

व्यञ्जनाभिज्ञतालेशोऽप्य्

एषां किन्तु न विद्यते ॥४१३॥

विहाय शाकसूपादीन्

विहायस्ते धयन्ति यत।

तन्नीरं प्रकटं हित्वा

धावन्त्येव मरीचिकाम् ॥४१४॥

कारणं रसनिष्पत्तौ

चर्वणेनेति तज्जगुः ।

चर्वन्तु परिचोष्यन्ति

न पितुर्जन्मकोटिभिः ॥४१५॥

रामः प्राह रसास्वादे

केऽनुभावा भवन्मते ।

के वा सञ्चारिणः को वा

स्थायी स स्वाद्यते कथम् ॥४१६॥

बटुरूचे यदप्राप्त्या

पूर्वमेवाश्रु मे भवेत।

प्राप्त्या तु व्यञ्जनस्यास्य

पुलकास्यप्रसन्नते ॥४१७॥

वर्णस्य स्निग्धतातृप्त्या

वैवर्ण्यं तच्च पश्य मे ।

भुञ्जान एव यद्वच्मि

स्वरो मे तेन भिद्यते ॥४१८॥

स्तम्भो मे भूरि मिष्टान्न

भोजनाशक्तिदुःखजः ।

प्रस्वेदः प्रकटोऽन्ते तु

प्रलयो बहुभक्षणात॥४१९॥

आलस्यचिन्तास्वापाद्याः

स्पष्टाः सञ्चारिणोऽत्र नः ।

स्वाद्यत्वेनैक एवापि

स्थायी तु विविधाभिधः ॥४२०॥

कृष्णभावनामृतं ६.७०७४—

आज्याभ्यक्तानि भक्तानि मन्ये काञ्चनवारिणा ।

स्नपितानीव सौरभ्यं येषां सौलभ्यमभ्यगात॥४२१॥

गोदन्तकृत्तघासादिघ्रायिण्यां गोपसंसदि ।

कृतपुण्यस्य मे भूरिभोगभाजः प्रसङ्गतः ॥४२२॥

वने विप्रास्तपस्यन्ति पत्रमूलफलाशनाः ।

बटोस्ते नाधिकारोऽस्ति भोगे याहि तपश्चर ॥४२३॥

सत्यं भो यैः पुरा तप्तं पत्रमूलफलादिभिः ।

परिणम्य जनुष्यत्र व्यञ्जनत्वेन तैर्मम ॥४२४॥

भौमस्वर्गजुषः साधु प्रत्यक्षीभूयतेऽन्वहम् ।

इति जानीतभोगोऽयमतप्ततपसः कुतः ॥४२५॥

कृष्णभावनामृतं ६.७९८७—

एवं चेत्प्रथमं प्राप्तुमर्हन्त्येते वलीमुखाः ।

वाग्व्ययश्रमिणोऽत्रापि जनुष्येते तपस्विनः ॥४२६॥

शीतोष्णवातसहनाः पत्रपुष्पफलाशनाः ।

जातिस्मराः कथं न स्युः कोऽमीषां वेत्ति विज्ञताम् ॥४२७॥

कृष्णः प्राह सखे! विप्रा ब्रह्मोपासनतत्पराः ।

कीशाः कुक्षिम्भरा एषां द्वयेषां महदन्तरम् ॥४२८॥

अस्य कीशस्य चावैमि न किमप्यन्तरं हरे! ।

नरत्वं वानरत्वं वानयोर्भेदे न कारणम् ॥४२९॥

किं च ख्यापयता तेन लोकेऽपूर्वां स्वविज्नताम् ।

बृहत्त्वाद्बृंहणत्वाच्च स्वकुक्षिर्ब्रह्म मन्यते ॥४३०॥

अतस्त्रिषवणं तस्य ध्यायता पूर्तिसाधनम् ।

स एवोपास्यतेऽनेन नैष्ठिकब्रह्मचारिणा ॥४३१॥

कदाचिद्भूरिपक्कान्नग्रसनावेशसंभ्रमैः ।

कीशायितं स्यात्पाणिभ्यां भुञ्जानस्यास्य लाघवैः ॥४३२॥

इत्युक्त्वाजीहसत्सर्वान्सुबलस्तान्बटुः स तु ।

हसन्भुञ्जान एवोच्चैः काशैः शोणमुखोऽभवत॥४३३॥

गोष्ठेशाह बटो! तिष्ठ क्षणं मा भुङ्क्ष्व मा हस! ।

स्थैर्यमाप्नुहि मा जल्प मैनं हासयतार्भकाः ॥४३४॥

गोविन्दलीलामृतं ४.४२६९—

धनिष्ठया यल्ललितादिसंस्कृतं

तत्तद्रसालादिकमाहृतं पुरः ।

कृत्वा पृथक्पात्रचये व्रजेश्वरी

सस्नेहमेभ्यो ददती मुमोद सा ॥४३५॥

हृदयदयितमुखवीक्षणहृष्टास्

तदतिमधुरमृदुकान्तिविकृष्टाः ।

मुमुदुरुदितपृथुभावविहस्ता

रमणभवनमधि ताः पुरुशस्ताः ॥४३६॥

अन्नान्यथो तानि चतुर्विधानि ते

पीयुषसारोद्भवविक्रिया इव ।

आस्वादयन्तो मधुराणि सस्पृहं

तं हासयन्तो जहसुश्च नर्मभिः ॥४३७॥

चर्वन्ति चर्व्याणि मृदूनि केचिल्

लेह्यानि चान्ये चटुलं लिहन्ति ।

पिबन्ति पेयानि परे प्रहृष्टाश्

चूष्यन्ति चोष्याण्यपरे वितृप्ताः ॥४३८॥

स्वादुङ्कारं कमलनयनः सस्पृहं तत्तदन्नं

हस्तस्पर्शादमृतमधुरं मन्दमन्दं प्रियायाः ।

तद्वक्त्राब्जप्रहितनयनप्रान्तभृङ्गो निगूढं

प्राश्नन्नम्बामनसि निबिडं स प्रमोदं व्यतानीत॥४३९॥

प्रहितचकितनेत्रप्रान्तदृष्टिप्रणाली

मिलिततदतिलावन्यामृतास्वादपुष्टा ।

प्रसरदखिलभावोल्लासमाच्छादयन्ती

दयितहृदयमुच्चै राधिकाप्याजहार ॥४४०॥

अथ बलजननीं तामन्तराकृत्य नृत्यन्

मदकलमदिराक्षीमर्पयन्तीं करेऽस्याः ।

मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य कृष्णः

श्लथरुचिरशनेऽभूदुन्मना नागरेशः ॥४४१॥

सामिभुक्तं कियत्तेन

किं च त्र्यंशावशेषितम् ।

भक्ष्यं वीक्ष्याशने मन्दं

तं चासीद्व्याकुला प्रसूः ॥४४२॥

यत्नात्संस्कृतमन्नादि

सर्वं त्यक्तं कथं सुत! ।

क्षुधितोऽसि कियद्भुङ्क्ष्व

शपथः शिरसो मम ॥४४३॥

आनाय्य यत्नाद्वृषभानुकन्यकां

संस्कारितं सर्वमिदं सुतानया ।

अन्नादि मिष्टं च सुधापरार्द्धतस्

तथापि नाश्नासि करोमि किं हता ॥४४४॥

अथ सा रोहिणीमाह पश्य रोहिणि! चञ्चलः ।

दुर्बलः क्षुधितोऽप्येष किमप्यत्ति न मन्दभुक॥४४५॥

ततः स्नेहपरीताङ्गी लालयन्त्यघमर्दनम् ।

प्रलम्बहन्तुरम्बेयं बभाषे तं पुरःस्थिता ॥४४६॥

यत्नादन्नं साधितं वत्स! मिष्टं

मल्लीमृद्व्या राधयेदं मया च ।

क्षुत्क्षामोऽसि त्वं च नाश्नासि तत्ताम्

अम्बामेतां मां च किं वा दुनोषि ॥४४॥

जननी तव पश्य खिद्यते

सुत! निर्मञ्चनमत्र यामि ते ।

भ्रमतो भविता वने श्रमः

कियदश्नीहि विधेहि मद्वचः ॥४४८॥

भुक्तं मया भूरि गता बुभुक्षे

त्युक्त्वा नियम्योच्छलितं विकारम् ।

तं वीक्ष्य मन्दं पुनरप्यदन्तं

ननन्दतुर्नन्दसुतं जनन्यौ ॥४४९॥

इदमिदमतिमिष्टं वत्स! भुङ्क्ष्वेति माता

सशपथमथ तत्तद्दर्शयन्त्यङ्गुलीभिः ।

सकलमभिलषन्ती कर्तुमश्रुप्लुताक्षी

तदुदरगतमन्नं सात्मजं वावदीति ॥४५०॥

रसालापक्वाम्रद्रवशिखरिणीषाडवपयः

करम्भामिक्षाव्यञ्जनदधिफलापूपव अकान।

कृताम्रेडा नेत्रस्तनजपयसा क्लिन्नसिचया

प्यतृप्ता तं तृप्तं मुहुरथ सुतं प्राशयदियम् ॥४५१॥

भक्ष्यं भोज्यं बहुतरमिष्टं

लेह्यं पेयं मृदुमधुरं ते ।

भुक्त्वा पीत्वा रसभरतृप्ताः

सर्वेऽभूवन्वनगमनोत्काः ॥४५२॥

सर्वे सुवासितमृदा मुखपाणिपद्मा

न्यामृज्य साधु मृदुलेषिकया च दन्तान।

दासैः प्रणीतकनकादिककुण्डिकासु

तैर्दत्तवारिभिरथाचमनं व्यधूस्ते ॥४५३॥

एलालवङ्गघनसारविमिश्रिताभिर्

जम्बूलदत्तवरखादिरगोलिकाभिः ।

शीतोज्ज्वलाभिरधिवास्य मुदा मुखं ते

सव्येन पूर्णमुदरं ममृजुः करेण ॥४५४॥

रसालकरसंस्कृतोपहृतनागवल्लीस्फुरत्

सुपक्वदलवीटिकाः सुखमदन्त एवोत्सुकाः ।

ततः शतपदान्तरालयविशालपल्यङ्किका

कुलेष्वथ विशश्रमुः परिजनैरमी वीजिताः ॥४५५॥

तमिह विश्रमितं परिचारकाः

शिखिदलव्यजनैः समवीजयन।

अवदलय्य दलं मृदुवीटिकाः

प्रभुमथादयति स्म विलासकः ॥४५६॥

निष्क्रम्य धौताङ्घ्रिकरां महानसाद्

दासीगणैस्तां व्यजनैरुपासिताम् ।

राधां प्रकोष्ठान्तरगां सखीजनैर्

विलोकयन्तीं रमणं गवाक्षतः ॥४५७॥

आनन्दजस्वेदजलैर्व्रजेशया

प्रतीयमानां श्रमकर्षितेत्यलम् ।

भोक्तुं प्रयत्नादुपवेश्य सा मुदा

बलाम्बयान्नानि गृहाददापयत॥४५८॥

तया निदिष्टा घृतसंस्कृतान्नं

दातुं धनिष्ठा हरिभुक्तशेषैः ।

संमिश्र्य गूढं घृतसंस्कृतान्नैर्

गृहात्तदानीय ददावमूभ्यः ॥४५९॥

अनश्नन्तीं ह्रिया वीक्ष्य वस्त्रावृतनताननाम् ।

राधिकामवदत्कृष्णमाता वात्सल्यविक्लवा ॥४६०॥

जननि! मयि जनन्यां किं नु लज्जेदृशीयं

सुत इव मम चेतः स्निह्यति त्वय्यतीव ।

अयि तदपनयैनां यामि निर्मञ्चनं ते

शिशिरय मम नेत्रं भुङ्क्ष्व पश्यामि साक्षात॥४६१॥

यूयं च मे स्थ तनयास्त्वनया ह्रिया किं

पुत्र्यः कुरुध्वमशनं ललितादयस्तत।

इत्याग्रहाच्छपथदानशतैश्च माता

मिष्टान्नमिष्टवचनैः समभोजयत्ताः ॥४६२॥

सङ्ग्रहकर्तुः—

ततो दासीधौतैः करकमलयुग्मैर्निजनिजैर्

इमाः प्रक्षाल्यास्यं शशिसहितवार्भिर्निजनिजम् ।

प ऐर्मार्जित्वा च स्वपरिजनदत्ता हिमकरा

वियुक्ता वीटीस्ता वरकनकगौर्यो बुभुजिरे ॥४६३॥

गोविन्दलीलामृतं ४.७०७२—

हृद्युद्गतैः सुतकरग्रहणाभिलाषैस्

तद्भूषणैः सुबहुशः सह यानि यत्नात।

निष्पाद्य तन्नववधूप्रतिरूपकाणि

स्नेहाद्धृतानि सदने वरसम्पु एषु ॥४६४॥

तैर्भूषणैरथ धनिष्ठिकयोपनीतैस्

ताम्बूलचन्दननवाम्बरनागजैश्च ।

आलीवृतां नववधूमिव तां व्रजेशा

सम्मान्य हार्दवलिता मुदिता बभूव ॥४६५॥

राधाहृतं यन्निशि तद्विशाखा

धनिष्ठयादात्सुबलाय गूढम् ।

पीतोत्तरीयं सुबलोऽपि तस्यै

नीलाम्बरं कृष्णहृतं तयैव ॥४६६॥

इति श्रीभावनासारसङ्ग्रहे प्रातर्लीलासङ्ग्रहो नाम द्वितीयसङ्ग्रहः

॥२॥

ओ)०(ओ

श्रीश्रीभावनासारसङ्ग्रहः

(३)

अथ पूर्वाह्नलीला

हरिवनगतिलीलां व्याकुलीभूतगोष्ठां

स्मृतिविषयगतां यः कारयामास साक्षात।

तदनुकरणकारी भक्तवृन्दस्य मध्ये

तमहमिह भजामि गौरचन्द्रं हि नित्यम् ॥१॥

गोविन्दलीलामृतं ५.१—

कृष्णं गोभिः स्वमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं

श्रीराधास्फूर्तिलोलं तदभिसृतिकृते प्राप्ततत्कुण्डतीरम् ।

राधां चालोक्य कृष्णं कृतगृहगमनमार्ययार्कार्चनायै

दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥२॥

कृष्णाह्निककौमुदी ३.१५१७—

देवप्रस्थवरूथपांशुसुबलश्रीदामभिः शोभनैर्

ओजस्विप्रमुखैर्विशालवृषभश्रीस्तोककृष्णार्जुनैः ।

सार्धं गोपसुताः समानवयसः सर्वे समानाशया

गोपेन्द्राङ्गनमाययुः प्रमुदिताः श्रीकृष्णसङ्गाशयाः ॥३॥

सर्वे बर्हविषाणवेणुलकुटीनिर्योगपाशाञ्चिता

गुञ्जाधातुफलप्रवालसुमनोभूषाभिराभूषिताः ।

प्रातःस्नातसुमृष्टभुक्तधयितस्फीताः क्वणन्नूपुराः

कृष्णोत्तिष्ठ जय प्रयाम विपिनं चेत्यूचिरे सत्वराः ॥४॥

तेषामागमनस्वनेन कुतुकादुत्थाय तल्पोदराच्

छ्रीकृष्णोऽपि विमृज्य नेत्रकमलं व्यावल्गु निद्रादरात।

तं वेशं परिहाय वेषमपरं गोचारणे कानन

क्रीडाकौतुकमङ्गलोचितमथो जग्राह चन्द्राननः ॥५॥

गोविन्दलीलामृतं ४.७३७६—

तावत्स्वसेवाकृतिलब्धवर्णाः

स्नेहेन दासाः परिफुल्लगात्राः ।

तैर्गन्धमाल्याम्बरभूषणैस्ते

विभूषयामासुरधीश्वरं स्वयम् ॥६॥

भक्तिच्छेदाढ्यचर्चां मलयजघुसृणैः धातुचित्राणि बिभ्रद्

भूयिष्ठं नव्यवासः शिखिदलमुकुटं मुद्रिकाः कुण्डले द्वे ।

गुञ्जाहारं सुरत्नस्रजमपि तरलं कौस्तुभं वैजयन्तीं

केयूरे कङ्कणे श्रीयुतपदकटकौ नूपुरौ शृङ्खलां च ॥७॥

आत्मैकदृश्यगान्धर्वा प्रतिबिम्बकरन्वितैः ।

दधद्वक्षस्ययं हारं गुम्फितं स्थूलमौक्तिकैः ॥८॥

शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं

दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः ।

वामेनासौ सरललगुडीं पाणिना पीतवर्णां

लीलाम्भोजं कमलनयनः कम्पयन्दक्षिणेन ॥९॥

कृष्णाह्निककौमुदी ३.१८—

चूडाचुम्बितचारुचन्द्रकलसद्गुञ्जालतः कर्णयोः

पुन्नागस्तवकी मणीन्द्रमक्रश्रीकुण्डलापूर्णयोः ।

श्रीवक्षः प्रतिमुक्तमौक्तिकलता श्रीरञ्जिगुञ्जासरः

क्रीडाकाननयानकौतुकमना बभ्राज पीताम्बरः ॥१०॥

सङ्ग्रहकर्तुः (?)—

श्वेताद्रिभ्रमधारकापघनके कस्तूरिकाचर्चिकां

बर्हापीडमथो दधच्च निटिले केयूरभूषादिकम् ।

बाह्वादौ मणिकाञ्चनैर्विरचितं शृङ्गं च यष्टिं शखि

वृन्दैः स्वैः परिवेष्टितोऽसितधटीधारी बभौ श्रीबलः ॥११॥

एतन्मध्ये, कृष्णभावनामृत ७.१११७—

दधतेऽपचितिं हरेर्न चा

पचितिं प्रेम्णि येऽनुयायिनः ।

उपसेदुरिमे व्रजेश्वरीं

प्रथमं रक्तकपत्रकादयः ॥१२॥

अथ कश्चिदधात्तयार्पितां

तनयामोदकमोदकावलीम् ।

अतिवत्सलतालतावलत्

फलपीलामिव काञ्चिदर्चिताम् ॥१३॥

मणिचित्रितदारुपेटिकान्

तरगामंसतटे वहन्नसौ ।

शतकोट्यसुतोऽप्यथादराद्

अवधानीयताममंस्त ताम् ॥१४॥

स्तिमितारुणचेलकञ्चुका

वृतचन्द्रोपलचित्रझर्झरीम् ।

शशिवासितनीरपूरितं

अपरो बिभ्रदभ्रमाबभौ ॥१५॥

सितमानसवृत्तिमेव ताम्

अनुरागपिहितां द्रवत्तराम् ।

बहिरेष जनान्किमीक्षयन्न्

अतुलं सौभगरत्नमाददे ॥१६॥

स्फटिकोत्तमसम्पुटं परोऽ

रुहदन्तःफणिवल्लिवीटिकम् ।

अधिकक्षमयं दधार किं

शशिबिम्बं स्वमनोऽधिदैवतम् ॥१७॥

वसनाभरणाद्यनेकधा

दध एकः परिधेयमीशितुः ।

द्युमतामपि मोहनाय यत्

सुदृशां कार्मणतां प्रपत्स्यते ॥१८॥

कृष्णाह्निककौमुदी ३.१९—

मुग्धस्निग्धकुमारपार्षदसदो वेषान्तरापादिकां

सामग्रीं सपरिच्छदामथ दधद्वासोविभूषादिकाम् ।

आदायानुययौ कुतूहलवशाद्गोष्ठेशयोराज्ञया

ताम्बूलस्य च सम्पुटं मणिमयान्भृङ्गारकांश्चेच्छया ॥२२॥

कृष्णभावनामृत ७.२३, २५, २९३३—

जननीजननीवृतं द्रुतं

रचयन्हर्षपयःपरिप्लुतम् ।

व्रजतापशतापनोदनः

पुरतो यन्पुरतोरणादभूत॥२३॥

वनमेति मुकुन्द इत्ययं

ध्वनिरेकः स्फुटमुच्चचार यः ।

विविधध्वनिप्रसूर्भवन्नभात्

श्रुतिपालिः स पुरौकसां विशन॥२४॥

रचयालि मिषं विशारदे

जरतीवञ्चकमञ्चकं मुदाम् ।

निभृतेन पथा भजे वने

प्रियसङ्केतितकुञ्जमन्दिरम् ॥२५॥

सखि किं करवै रवैरवै

धिततर्षा हरिगोपुरोदितैः ।

बलभीमधिरोढुमप्यहं

न दधेऽस्पन्दवपुः समर्थताम् ॥२६॥

अलकैरलमत्र संस्कृतैर्

मदुरोऽप्यस्तुतमामनावृतम् ।

सकृदप्यवलोक्य माधवं

सखि जीवेयमितो विमुञ्च माम् ॥२७॥

अयि भावि यदस्तु तत्पतिः

कुरुतां दण्डमसह्य अद्य मे ।

स्वगुरोरपि पश्यतो व्रजाम्य्

अधुनायं समयो न यत्स्थिरः ॥२८॥

अयि दुर्मुखि रारटीषि किं

किमिहैकैव निरेमि ते गृहात।

कलयात्र रुणद्धि का वधूर्

अधूना स्वस्वपुराद्विनिर्यती ॥२९॥

अथ तस्य गमनमाह, कृष्णाह्निककौमुदी ३.२१—

व्योम्नि व्योमचरैः सुगन्धिकुसुमासारैः समाराधितः

प्रासादेषु कुलाङ्गनाभिरभितो नेत्राम्बुजैः पूजितः ।

रथ्यायां शिशुभिर्जयेति मधुराव्यक्तैः कलैरर्चितः

स्वस्वद्वारि विसारिणां प्रवयसामाशीर्भिरावर्धितः ॥२७॥

गोविन्दलीलामृत ५.२—

स मन्द्रघोषाभिधशृङ्गघोषैः

सङ्घोषयन्घोषमपास्तदोषैः ।

सम्मोहयन्हृद्व्रजसुन्दरीणां

सम्पोषयन्प्रेम बहिर्जगाम ॥२८॥

गोविन्दलीलामृत ५.६—

गवां स्थानीश्रेणीस्फूरितमभितोऽल्पावृतिचयो

ल्लसद्वत्सावासस्फुरिततलवृक्षावलिचितम् ।

करीषक्षोदस्योच्चयमृदुलभूमीतलमसौ

व्रजाभ्यर्णं पूर्णं व्रजधनजनैर्वीक्ष्य मुमुदे ॥२९॥

कृष्णाह्निककौमुदी ३.२०—

गोपेन्द्रेण पुरैव दासतनयैर्गावो विनिष्कासिता

दोहनान्तरमेव वत्सनिचयाश्चान्यत्र सञ्चारिताः ।

उत्कर्णाश्चकितेक्षणाः प्रणयिताव्यालम्बिहम्बारवास्

तस्थुस्ता व्रजसीम्नि एव निकटे कृष्णप्रतीक्षेक्षणाः ॥३०॥

कृष्णाह्निककौमुदी ३.२३२७—

बभ्राजे स गवां गणो हरशिरश्चन्द्रप्रभाभास्वरः

श्वेतद्वीप इवापरो वसुमतीसञ्चारलीलापरः ।

तस्मिन्सन्ततमेव किन्तु भगवान्विक्रीडति श्रीधरः

श्रीमानेष तु सञ्चरत्यघरिपोरव्यग्रमग्रेसरः ॥३१॥

दुग्धाब्धिप्रसरक्षमा अपि रुचा दुग्धाब्धिशोभाहरा

दुग्धाब्धेः स्वयमुत्थिता भगवती लक्ष्मीरिहैव स्थिरा ।

सर्वाः कामगवीयशोभरमुषो यासां निपीतं पयः

कृष्णेन श्रुतिर्मूर्तयः कथममूर्गावो गिरामाश्रयः ॥३२॥

दृष्ट्वा कृष्णमुपागतं सह सखिव्रातैः समानन्दिताः

पङ्क्तीभूय निजेच्छयैव चलिताः केनापि न प्रेरिताः ।

कृष्णावेशमनोविकाशपिशुनैरानन्दहम्बारवैः

कुर्वाणा हरितां मुखं मुखरितं ताः कीर्णकर्णोत्सवैः ॥३३॥

साहंपूर्विकमाशु धावितवतां कृष्णस्य पश्चात्पुरः

पार्श्वेषु व्रजपालबालसदसां सम्मोद आसीत्परः ।

येषां शेखरबर्हिबर्हमहसा सन्मञ्जुगुञ्जावली

भूषाभाभिरभून्महाझलमलत्कारा दिशां मण्डली ॥३४॥

तेषां वेणुविषाणपत्रनिनदः प्रोद्गीर्णकर्णोत्सवः

प्रीतानां च गवां मरालमधुरः सम्मोदहम्बारवः ।

तेषां च प्रतिनिःस्वनः समभवत्कृष्णप्रयाणोत्सव

श्रीरंसी जयडिण्डिमध्वनिरिव व्याकीर्य धैर्यं दिवः ॥३५॥

गोविन्दलीलामृत ५.१२२०—

वनाय गच्छन्वनजेक्षणो हरिर्

यतो यतः सन्निदधे पदाम्बुजम् ।

ततस्ततः सा व्रजभूः समुत्सुका

प्रकाशयामास हृदम्बुजं स्वकम् ॥३६॥

तच्छ्रीपदस्पर्शभरप्रमोदैः

सा फुल्लरोमाञ्चितसर्वगात्री ।

ननन्द कृत्तानि तृणानि भूयः

खुरैः क्षताङ्गानि च रोहयन्ती ॥३७॥

फुल्लाक्षिपद्मातिजवासुसम्भ्रमा

प्रीत्यम्बुवृष्ट्यैधितसर्वतोमुखा ।

वृद्धादिबालान्तजनावलीसरिद्

व्रजाचलात्कृष्णसमुद्रमाययौ ॥३८॥

क्लिन्नाम्बराऽक्षिस्तनजैः पयःस्रवैस्

तथाविधैर्यातृमुखाङ्गनागणैः ।

अम्बा किलिम्बानुगया बलाम्बया

सहागताम्बा सुतदर्शनोत्सुकाः ॥३९॥

अन्योन्यासङ्गसंस्तब्धदृष्टिहिल्लोलमुल्बनम् ।

कृष्णं रसार्णवं भेजे राधा सुरतरङ्गिणी ॥४०॥

मङ्गलाश्यामलाभद्रापालीचन्द्रावलीमुखाः ।

स्वस्वयूथाः यूथनाथाः सर्वतस्तास्तमन्वयुः ॥४१॥

सह धनजनवृन्दैर्निर्गते प्राणनाथे

जनगतिरवहान्यास्पन्दनालापहीना ।

पशुखुरजरजोभिर्धूसरासौ जडाङ्गी

व्रजवसतिरथासीत्प्रोषितप्रेयसीव ॥४२॥

अन्वयत्पितरौ वीक्ष्य सव्रजौ वनसीमनि ।

स्थितेऽस्मिन्वलितग्रीवं तस्तम्भे गोकदम्बकैः ॥४३॥

अनन्तशङ्कौ स्ववनप्रयाणेऽप्य्

अभद्रभीतेरनिवारयन्तौ ।

अस्राकुलाक्षावपि दर्शनोत्सुकौ

स दुःस्थितोऽभूत्पितरौ समीक्ष्य ॥४४॥

गोविन्दलीलामृत ५.२२, २४—

समीक्ष्य राधावदनारविन्दे

श्रीनेत्रनृत्यन्मदखञ्जरीटौ ।

सुमङ्गलां स्वां मनुते स्म यात्रां

तदीयसन्दर्शनसत्फलां सः ॥४५॥

विमनस्कापि मनसा भावयन्त्यथ तत्शुभम् ।

विहस्तापि स्वहस्ताभ्यां जननी तमलालयत॥४६॥

कृष्णभावनामृत ७.३८४६—

सुकुमारकुमार ! चारयन्

सुरभीर्याहि वनाय यासि चेत।

अनुयाम वयं च वञ्चयन्

न दृशस्त्वं स्फुटमञ्च किं च नः ॥४७॥

तनय ! प्रणयन्नयं नय

स्वसमीपात्क्वचनान्यतो न नः ।

न सहस्व सुहृद्व्यथां हृदि

स्ववियोगानलहेतिहेतुकाम् ॥४८॥

पुरभूषण ! दूषणं त्विदं

नगरी सेयमिमे गृहाश्च ते ।

त्वयि निर्गत एव नो बलान्

निगिलन्तीव वृथा स्थितायुषः ॥४९॥

प्रहरा अपि भाविनस्त्रयः

प्रहरिष्यन्त्यपयातुमक्षमाः ।

न च शीघ्रमिहैष्यसि त्वमित्य्

अत इत्थं करवाम किं वयम् ॥५०॥

अरुणाब्जदलश्रेणी क्व ते

सुकुमारे विमले पदोस्तले ।

तृणकण्टकशर्कराङ्किता

क्व नु सा काननभूमिरेषि याम् ॥५१॥

मृगनाभिरसोक्षिता क्व ते

नवनीतप्रतिमेव हा तनुह।

क्व नु सूर्यकरा इमे प्रति

क्षणवर्धिष्णुतमा विषोल्बणाः ॥५२॥

असवो यदमी स्फुटन्ति नो

जनयित्र्यास्तव सौभगोज्झिताः ।

अतिनिष्ठुरतापदे परां

बत साम्राज्यधुरामतो दधुः ॥५३॥

धवलाः परिपान्तु वल्लबाः

स्वयमेव व्रजराज एतु वा ।

स्वहठं न जहासि हा शिशो !

कथमत्र श्वसितु स्वबन्धुता ॥५४॥

स्तिमिताङ्गसुमङ्गलामृतेर्

अजनिष्ठाः किमु बल्लवान्वये ।

तृणचारिगणानुगामिता

परिभूतिं मृदुलो यदन्वभूः ॥५५॥

कृष्णभावनामृत ७.५८६८—

सरणिस्तरणिप्रभाज्वलत्

सिकता सूनुरटाट्यतेऽद्य याम् ।

जनके कनकेष्टकालये

वसतीत्येतदवेक्षते प्रसूः ॥५६॥

अनयाप्यविपद्यमानया

गृहकृत्यं विदधानया मया ।

जननीत्यभिधा धृता गत

त्रपया तां स्तुवतेऽप्यमी जनाः ॥५७॥

कुलिशायितता तता ततो

भवतो बन्धुतया निजार्जिता ।

कुसुमायितहृत्त्वमाश्रयंस्

तदपीमां स्वगुणैरमूमुदः ॥६८॥

इति मातृवचः स च श्रुति

प्रथितोत्तंसमिवारचष्य ताम् ।

स्मितचन्द्रमसौ रसोक्षणैर्

अनुतप्तां समधुक्षयन्मनाक॥६९॥

यमुनोपवनोपकण्ठगाः

कलयन्तः सुखमेव हन्त गाः ।

विलसाम सुगन्धशीतले

निविडच्छायातरुव्रजान्तरे ॥७०॥

न च कालनहेतुकः श्रमः

स ममैष्यत्यपि सम्भविष्णुताम् ।

घटनादिषु यदगवां नवां

मुरलीमेव विशारदामधाम् ॥७१॥

चमरीचयलूममार्जिता

परिषिक्ता मकरन्द बिन्दुभिः ।

तरुषण्डनिरातपाभितः

प्रचरन्नाभिमृगातिवासिता ॥७२॥

मृदुलामलतूलिकेव या

नुपदं साधुपदानुभूयते ।

न तु मातरवेक्षिता त्वया

प्रसभं या सरणिर्विनिन्द्यते ॥७३॥

विविधद्युतिपुष्पवल्लीभिर्

वलितैर्मन्दसमीरवेल्लितैः ।

परितः प्रसरज्झरैररं

शिशिरैः सौरभसौभगोदयैः ॥७४॥

पिकगायककेकिनर्तकैर्

भ्रकदिन्दिन्दिरवृन्दवन्दिभिः ।

क्षितिभृत्तटकुञ्जकन्दरैर्

मम चेतोऽनुपदं विकृष्यते ॥७५॥

मणिमन्दिरवृन्दशन्दताम्

अनयद्यच्छविरेव मन्दताम् ।

सवयश्चयभूषितः शये

सुखमत्राप्यतिखिद्यसे कुतः ॥७६॥

अथ सोवाच, गोविन्दलीलामृत ५.२५३३—

शतशः सन्ति मे गोपा निपुणाः पालने गवाम् ।

पालयामि स्वयमिति वत्स कोऽयं दुराग्रहः ॥६७॥

बालोऽसि मृदुलस्तत्र विमुक्तच्छत्रपादुकः ।

दिनं भ्रमसि कान्तारे जीवेतां पितरौ कथम् ॥६८॥

क्रियमाणाग्रहौ स्वस्य च्छत्रोपानद्विधारणे ।

वात्सल्यव्याकुलौ वीक्ष्य पितरौ प्राह केशवः ॥६९॥

गोपालनं स्वधर्मो नस्तास्तु निश्छत्रपादुकाः ।

यथा गावस्तथा गोपास्तर्हि धर्मः सुनिर्मलः ॥७०॥

धर्मादायुर्यशो वृद्धिर्धर्मो रक्षति रक्षितः ।

स कथं त्यज्यते मात भीषु धर्मोऽस्ति रक्षिता ॥७१॥

सुतस्य साद्गुण्यमवेक्ष्य तृप्तौ

ननन्दतुस्तौ हृदि यद्यपारम् ।

अनिष्टशङ्काकुलिता तथापि

गोपान्समाहूय जगाद माता ॥७२॥

सुभद्र मण्डलीभद्र वत्स भो बलभद्रक ।

समर्पितोऽयं युष्मासु बालोऽतिमृदुलश्चलः ॥७३॥

यन्त्रणीयः शिक्षणीयः पालनीयश्च वः सदा ।

स्वैरी चेच्चलतां याति कथनीयं तदा मयि ॥७४॥

धृतखड्गधनुर्बाणैर्भो वत्सा विजयादयः ।

पालनीयोऽप्रमत्तैर्वः सदायमभितः स्थितैः ॥७५॥

पद्यावली १४९—

वत्स स्थवरकन्दरेषु विचरन्दूरप्रचारे गवां

हिंस्रान्वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि ।

इत्युक्तस्य यशोदया मुरारिपोरव्याज्जगन्ति स्फुरद्

बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥७६॥

गोविन्दलीलामृत ५.३४८०—

अङ्गे सुतस्याथ करेण माता

स्निग्धा स्पृशन्तीश्वरनाममन्त्रैः ।

नृसिंहबीजैश्च विधाय रक्षां

बबन्ध रक्षामणिमस्य हस्ते ॥७७॥

आज्ञा मातः पितरिति सुतं सम्पतन्तं पदान्ते

दोर्भ्यां धृत्वा हृदि निदधतौ स्तन्यबाष्पाम्बुसिक्तम् ।

चुम्बन्तौ तद्वदनकमलं मार्जयन्तौ कराभ्यां

जिघ्रन्तौ तं शिरसि पितरावूहतुर्बाष्पकण्ठम् ॥७८॥

भूर्द्यौर्भव्या भवतु भवतो रक्षिता श्रीनृसिंहः

शस्तः पन्था वनमपि शुभं भावुका दिग्विदिक्च ।

स्वागम्याः स्वं पुनरथ गृहं मङ्गलालिङ्गितस्त्वं

दत्तानुज्ञः स इति मुमुदे वत्सलाभ्यां पितृभ्याम् ॥७९॥

यथा पितृभ्यां स तथा बलाम्बाप्य्

अम्बा किलिम्बाद्युपमातृयुक्तया ।

गोपैश्च गोपीनिवहैश्च लालितो यथा

हरिस्तैः स बलोऽप्यभूत्तथा ॥८०॥

व्रजाङ्गनानां तृषिताक्षिचातकान्

सिञ्चन्कटाक्षामृतवृष्टिधारया ।

न्यवेदयत्काननयानमात्मनस्

ताभिः स्वदृष्ट्यैव स चानुमोदितः ॥८१॥

तासां मनो दीनकुरङ्गसङ्घान्

विलोक्य लोलान्रुचिपल्लवान्स्वान।

निन्ये स्फुटं चारयितुं स्वसङ्गे

सन्दान्य दृक्शृङ्खलया स्वयासौ ॥८२॥

द्वित्राः क्षेप्याः सुमुखि घटिकाश्चक्षुषी मुद्रयित्वा

मा गाः खेदं सपदि भविता सङ्गमो नौ वनान्ते ।

आगन्तव्यं मयि करुणया छद्मनाशु स्वकुण्डं

कृष्णश्चक्रे स्फुटमनुनयं राधिकायां दृशेत्थम् ॥८३॥

ययाचे राधिकामाज्ञां स्वदृशा दैन्यपूर्णया ।

कातर्यं वमताभूत्तत्कटाक्षेणानुमोदितः ॥८४॥

मध्येनभः सम्मिलनेऽप्यलूनैर्

जवात्प्रविष्टैर्हृदये मिथस्तौ ।

कटाक्षबाणैरपि मोदमाप्तौ

प्रेम्नो विचित्रा हि गतिर्दुरूहा ॥८५॥

राधामनोमीनमयं स्वसङ्गे

स्वकान्ति जालेन निबध्य निन्ये ।

रुरोध तच्चित्तमरालमुत्कं

सापि स्वदृक्कूणनपञ्जरान्तः ॥८६॥

प्रेरयन्नग्रतो धेनूराकर्षन्पृष्ठतो व्रजम् ।

समित्रैरावृतोऽरण्यं प्रवेष्टुमुपचक्रमे ॥८७॥

तिर्यग्ग्रीवं पुनः प्रेक्ष्य सव्रजौ स्नेहकर्षितौ ।

अन्वायान्तौ पुरस्तिष्ठन्नब्रवीत्पितरौ हरिः ॥८८॥

मातर्नातः परमिह पुरो गन्तुमर्ह्याटवीं वो

व्यावर्तध्वं त्वरितमिह मे प्रापणीया रसाला ।

तातैषाद्य त्रुटितशिखरा कन्दुकाक्षेपणी मे

गत्वा घोषं झटिति सुदृढाः पञ्चषाः कारणीयाः ॥८९॥

वलितग्रीवमूर्ध्वास्यं क्षुधितास्तृषिता अपि ।

तस्तम्भिरे पुरो गावः पश्याम्ब मदपेक्षया ॥९०॥

प्रेषयिष्यामि सद्भोज्यं भुक्त्वा मध्याह्न एव तत।

आगच्छेदपराह्ने त्वं तूर्णमित्याह तं प्रसूः ॥९१॥

सोऽप्यब्रवीत्तां कृतभोजनौ चेत्

श्रोष्यामि गेहे मुदितौ भवन्तौ ।

भोक्ष्यामि भोज्यं प्रहितं तदा ते

गृहं समेष्यामि न चान्यथाम्ब ॥९२॥

कृतावनः कायमनोवचोभिः

संसिक्तदेहः स्तनदृक्पयोभिः ।

स चुम्बितालिङ्गित आकुलाभ्यां

मुहुर्मुहुर्दृष्टमुखः पितृभ्याम् ॥९३॥

उद्यद्वियोगोष्णरविप्रतापितैः

सिक्तैर्निजप्रेक्षणवीचिशिकरैः ।

कटाक्षधारानलनालिकाचयैर्

निपीतलावण्यसरःप्रियागणैः ॥९४॥

व्रजत्यागारण्ययानोत्पन्नाभ्यां नन्दनन्दनः ।

वैमनस्योन्मनस्याभ्यां व्याग्रोऽसौ प्राविशद्वनम् ॥९५॥

व्रजस्य कृष्णे निहितेक्षणस्या

खिलेन्द्रियाणां नयनत्वमासीत।

तस्मिन्वनेनान्तरिते क्षणेन

तेषां समन्तात्सुविलीनताभूत॥९६॥

चरत्वतः स्थावरतैव धन्या

वनं प्रयात्येष विहाय यन्नः ।

इतीव खिन्नाः स्फुटमाधुनस्तां

स्तम्भस्य दम्भात्व्रजवासिनस्ते ॥९७॥

हरेश्चिल्लीचिल्लीगिलितमतिमिलच्छफरिका

मुखाम्भोजान्म्लानाच्चलितचलदृष्टिभ्रमरिकाः ।

वियोगोद्यत्पङ्कावलिपतितहंसा न विवभुस्

तदाभीरीनद्यो वनशुचिहृते जीवनधने ॥९८॥

अभ्यासतोऽतह्व्रजवासिनस्ते

विमोहितौ तौ व्रजपौ गृहीत्वा ।

कृष्णानुगामि स्वमनोविहीनैर्

देहैः परं गेहमयुर्निरीहाः ॥९९॥

स्वां स्वां सख्योऽपि यूथेशां यत्नादादाय मूर्च्छिताम् ।

निन्युर्गृहं यन्त्रचञ्चत्प्रतिमाः प्रतिमामिव ॥१००॥

कुन्दवल्ल्यथ तां राधां स्वयं व्यग्राप्यचेतनाम् ।

आदायायाद्व्रजं यत्नाद्विचित्तैस्तत्सखीजनैः ॥१०१॥

यद्यप्यस्मिन्न्यस्तचित्ता व्रजस्था

आतद्दर्शं ज्ञप्तिशून्यास्तथापि ।

तत्तत्कर्माण्याचरन्ति स्म यद्वज्

जीवन्मुक्ता देहसंस्कारतस्ते ॥१०२॥

निर्माणोत्कां स्वपथि जटिलां गोशकृत्पिण्डिकानां

वध्वा वर्त्मन्यथ धृतदृशं व्याकुलां कुन्दवल्ली ।

दृष्ट्वाऽवादीज्जडिमकलितां राधिकां चेतयन्ती

कृष्णाभ्यर्णं नय निपुणधीस्तूर्णमेनां निनीषुः ॥१०३॥

नमाम्यार्ये स्नुषेयस्ते कल्याणी नीयतां पुरः ।

छायाप्यस्या न कृष्णस्य दृष्टिगोचरतां गता ॥१०४॥

साब्धिद्वीपा भवति पृथिवी यस्य नैकस्य मूल्यं

तादृग्दिव्यामितमणिमयं पश्य शच्याप्यलभ्यम् ।

सर्वाङ्गीनं वसनसहितं भूषणं दत्तमस्यै ।

गोष्ठेश्वर्या मुदित मनसा पाकनैपुण्यतोऽस्याः ॥१०५॥

धर्मार्थलाभान्मुदिता स्नुषायास्

तयैव कार्यान्तरमुच्चिकीर्षुः ।

स्वाभीष्टसम्पादनलब्धवर्णां

मत्वावदत्तां जटिला स्तुवन्ती ॥१०६॥

एह्येहि वत्से कुशलं भवत्यास्

त्वच्छीलनिर्मञ्छनमाशु यामि ।

स्निग्धासि यत्त्वं मयि सस्नुषायां

मदाशिषा त्वं सुतवस्करा स्याः ॥१०७॥

स्वयं साध्वी प्रगल्भा त्वमन्यासां धर्मपालने ।

आत्मनीव प्रतीतिर्मे त्वयि त्वां प्रार्थये ततः ॥१०८॥

धर्मे पत्न्या पालिते तत्पतिः स्याद्

गोमान्पुत्री वित्तवांश्चायुराढ्यः ।

इत्याहास्मान्पौर्णमासी स्मृतिज्ञा

सेयं तत्त्वय्यर्पिता धर्मगुप्त्यै ॥१०९॥

धर्मादर्थश्च कामश्चेत्यादि सत्यं सतां वचः ।

यतोऽस्याः पालिताद्धर्मात्भूयानर्थोऽपि साधितः ॥११०॥

एकः सुतो मे कुशली यथासौ

कुलेऽमले स्यान्न यथा कलङ्कः ।

धर्मं तथास्याः परिपालयन्ती

निर्वाह्य सूर्यार्चनमानयैनाम् ॥१११॥

राधे त्वं ताम्रकुण्डीमरुणकपिलिकाक्षीरदध्याज्यमिज्यं

सार्पिष्कान्नं जवामैक्षवमथ घुसृणं पत्रकं पद्ममालाम् ।

सार्धं सख्या नयेत्याद्युपकरणचयं पुत्रि गेहाद्गृहीत्वा

गार्ग्या वा केनचिद्वार्चनपटुबटुना याहि सूर्यार्चनाय ॥११२॥

चण्डासि साध्वी ललिते त्वयासौ

नैकाकिनी क्वापि सखी विधेया ।

गन्धोऽपि यस्यां किल नन्दसूनोस्

तस्यै दिशे वोऽञ्जलिरेव कार्यः ॥११३॥

अत्यारूढं दिनं वत्से सन्ति गोमयराशयः ।

युवयोर्न्यस्तभारा स्यां निश्चिन्तोत्पलिकाकृतौ ॥११४॥

तामूचतुस्ते हृदि सम्प्रहर्षिते

निश्चिन्तमार्ये क्रियतां क्रिया निजा ।

आवामवावः सततं भवद्वधूं

तारामिवाक्ष्णः सहपक्ष्मलोचके ॥११५॥

ताः प्रोन्मत्ता अपि जटिलायाः

पीत्वाज्ञावाङ्मधुमधुराङ्ग्यः ।

आनन्दोत्फुल्लिततनुचित्ता

धैर्यं धृत्वा गृहमनुजग्मुः ॥११६॥

आगत्य खट्टोपरि सन्निविष्टां

श्रीराधिकां क्षालितमार्जिताङ्घ्रिम् ।

दास्यो मुदा पर्यचरन्निजेशां

पादाब्जसंवाहनवीजनाद्यैः ॥११७॥

मल्लीरङ्गणकर्णिकारबकुलाऽमोघालतासप्तला

जातीचम्पकनागकेशरलवङ्गाब्जादिपुष्पोच्चयम् ।

श्रीवृन्दाप्रहितं वनादलिकुलास्पृष्टं दरोज्जृम्भितं

स्वेश्वर्याः पुरतोऽन्यधाद्वनसखी श्रीनर्मदा मालिकी ॥११८॥

कृष्णाङ्गकामालयवैजयन्तिकां

तैर्वैजयन्तीं विरचय्य सा व्यधात।

राधा स्वनैपुण्यगुणादिसूचिकां

कर्पूरकृष्णागुरुसत्त्वभाविताम् ॥११९॥

एलेन्दुजातीफलखादिरान्विताः

स्वपाणिहृत्सौरभरागभाविताः ।

कृष्णाक्षिचित्ताननचन्द्ररञ्जिकाः

सा नागवल्लीदलवीटिका व्यधात॥१२०॥

मालामेतां तुलसि हरये वीटिकाश्चोपहृत्य

ज्ञात्वा वृन्दा सुबलमुखतः केलिसङ्केतकुञ्जम् ।

आगच्छताशु त्वमिति ललिताप्रेरितादाय तान्ताः

कस्तूर्यालीसहिततुलसी कृष्णपार्श्वं प्रतस्थे ॥१२१॥

श्रीराधिकाप्यथ सखीसहितातिदक्षा

श्रीकृष्णचन्द्रसकलेन्द्रियतर्पणानि ।

कर्पूरकेल्यमृतकेलिमुखानि कामं

कर्तुं समारभत साद्भुतलड्डुकानि ॥१२२॥

यदपि निजसखी सान्वेषणायास्य याता

स्वयमपि च निमग्ना कृष्णसम्बन्धिकृत्ये ।

तदपि हरिमुखेन्दोर्दर्शनोत्काथ मेने

त्रुटिमपि युगलक्षं व्यग्रराधाचकोरी ॥१२३॥

सङ्ग्रहकर्तुः—

वृन्दया प्रहिता काचिदाससादातिसत्वरा ।

वृन्दावनेश्वरीं नत्वा जगाद क्रीडितं हरेः ॥१२४॥

आनन्दवृन्दावनचम्पू १४.२५२६—

लीलाङ्गीकृतपीतकञ्चुकपरिप्रोदञ्चितालङ्कृतिः

चञ्चत्काञ्चितटीनटीं मणिमयीं कर्पूरधानीं दधत।

दोलत्सारसनाग्रचुम्बनलसज्जङ्घातलः किङ्किणी

रत्नोद्यद्घटिकः पदाम्बुजलसच्छिञ्जानमञ्जीरकः ॥१२५॥

वेणुं वामकरेण दक्षिणकरेणान्दोलयन्कन्दुकं

सैन्दूरं न विदूरयन्वदनतो रागं वसन्ताभिधम् ।

उद्गीते सुबलादिभिः प्रियसखैः श्रीमूर्धनिर्धूनने

नास्वादं प्रथयन्मदालसलसद्घूर्णायमानेक्षणः ॥१२६॥

आनन्दवृन्दावनचम्पू ७.४७—

वेणुं वामे करकिशलये दक्षिणे चारुयष्टिं

कक्षे वेत्रं दलविरचितं शृङ्गमत्यद्भुतं च ।

बर्होत्तंसं चिकुरनिकरे वलुगुकण्ठोपकण्ठे

गुञ्जाहारं कुवलययुगं कर्णयोश्चारु बिभ्रत॥१२७॥

सद्रत्नालङ्कारणनिकरेष्वादधानोऽवहेलां

वन्याकल्पे विरचितरुचिर्वत्सपालानुकृत्या ।

धावन्नग्रे व्रजशिशुगणस्योल्लसद्वैजयन्ती

मालः श्रीरञ्जितलसदुरोभित्तिराभाति कृष्णः ॥१२८॥

अंसे चारुविहङ्गिकाग्रविलसच्छिक्यस्थभाण्डौदना

कक्षे वेणुविषाणपत्रमुरलीशृङ्गाणि यष्टिः करे ।

गुञ्जोत्तंसमयूरपिच्छरचना मौलौ गले गौञ्जिको

हारः श्रोणितटे घटीति मधुरो वेशः शिशूनां बभौ ॥१२९॥

केयूरे वलयानि किङ्किणिघटा हारावली कुण्डले

मञ्जीरौ मणितुन्दबन्धलतिका यद्यप्यमीषां बभुः ।

नासीत्तत्र तथापि मातृरचिताकल्पेषु तेषां ग्रहः

कामं वत्सकरक्षणोचितवनाकल्पे यथा लालसा ॥१३०॥

सङ्ग्रहकर्तुः—

सौभाग्यं सा सखिनां हि निःशङ्कालिङनादिकम् ।

स्मृत्वा वक्तुं गुणांस्तेषां तान्दासांश्चाभ्यवन्दत ॥१३१॥

भक्तिरसामृतसिन्धुः ३.३.२८—

गण्डान्तःस्फुरदेककुण्डलमलिच्छन्नावतंसोत्पलं

कस्तूरीकृतचित्रकं पृथुहृदि भ्राजिष्णु गुञ्जास्रजम् ।

तं वीरं शरदम्बुदद्युतिभरं संवीतकालाम्बरं

गम्भीरस्वनितं प्रलम्बभुजमालम्बे प्रलम्बद्विषम् ॥१३२॥

भक्तिरसामृतसिन्धुः ३.३.२६—

पाटलपटलसदङ्गो लकुटकरः शेखरी शिखण्डेन ।

द्युतिमण्डलीमलिनिभां भाति दधन्मण्डलीभद्रः ॥१३३॥

भक्तिरसामृतसिन्धुः ३.३.४१—

वासः पिङ्गं बिभ्रतं शृङ्गपाणिं

बद्धस्पर्धं सौहृदान्माधवेन ।

ताम्रोष्णीषं श्यामधामाभिरामं

श्रीदामानं दामभाजं भजामि ॥१३४॥

भक्तिरसामृतसिन्धुः ३.३.४६—

तनुरुचिविजितहिरण्यं

हरिदयितं हारिणं हरिद्वसनम् ।

सुबलं कुवलयनयनं

नयनन्दितबान्धवं वन्दे ॥१३५॥

भक्तिरसामृतसिन्धुः ३.३.४८—

अरुणाम्बरमुच्चलेक्षणं

मधुपुष्पबलिभिः प्रसाधितम् ।

हरिनीलरुचिं हरिप्रियं

मणिहारोज्ज्वलमुज्ज्वलं भजे ॥१३६॥

भक्तिरसामृतसिन्धुः ३.२.४६—

रम्यपिङ्गपटमङ्गरोचिषा

खर्वितोरुशतपर्विकारुचम् ।

सुष्ठु गोष्ठयुवराजसेविनं

रक्तकण्ठमनुयामि रक्तकम् ॥४६॥

भक्तिरसामृतसिन्धुः ३.२.४३—

मणिमयवरमण्डनोज्ज्वलाङ्गान्

पुरटजवामधुलिट्पटीरभासः ।

निजवपुरनुरूपदिव्यवस्त्रान्

व्रजपतिनन्दनकिङ्करान्नमामि ॥१३८॥

श्रीमद्भागवतं १०.१८.७८—

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् ।

गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥१३९॥

क्रीडिष्यमाणस्तत्कृष्णो भगवान्बलसंयुतः ।

वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत॥१४०॥

श्रीमद्भागवतं १०.१५.३१४—

तन्मञ्जुघोषालिमृगद्विजाकुलं

महन्मनःप्रख्यपयःसरस्वता ।

वातेन जुष्टं शतपत्रगन्धिना

निरीक्ष्य रन्तुं भगवान्मनो दधे ॥१४१॥

स तत्र तत्रारुणपल्लवश्रिया

फलप्रसूनोरुभरेण पादयोः ।

स्पृशच्छिखान्वीक्ष्य वनस्पतीन्मुदा

स्मयन्निवाहाग्रजमादिपुरुषः ॥१४२॥

अहो अमी देववरामरार्चितं

पादाम्बुजं ते सुमनःफलार्हणम् ।

नमन्त्युपादाय शिखाभिरात्मनस्

तमोऽपहत्यै तरुजन्म यत्कृतम् ॥१४३॥

एतेऽलिनस्तव यशोऽखिललोकतीर्थं

गायन्त आदिपुरुषानुपदं भजन्ते ।

प्रायो अमी मुनिगणा भवदीयमुख्या

गूठं वनेऽपि न जहत्यनघात्मदैवम् ॥१४४॥

नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः

कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।

सूक्तैश्च कोकिलगणा गृहमागताय

धन्या वनौकस इयान्हि सतां निसर्गः ॥१४५॥

धन्येयमद्य धरणी तृणवीरुधस्त्वत्

पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।

नद्योऽद्रयः खगमृगाः सदयावलोकैर्

गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥१४६॥

एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून।

रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥१४७॥

क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः ।

उपगीयमानचरितः पथि सङ्कर्षणान्वितः ॥१४८॥

अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित।

क्वचित्सवल्गु कूजन्तमनुकूजति कोकिलम् ॥१४९॥

क्वचिच्च कलहंसानामनुकूजति कूजितम् ।

अभिनृत्यति नृत्यन्तं बर्हिणं हासयन्क्वचित॥१५०॥

मेघगम्भीरया वाचा नामभिर्दूरगान्पशून।

क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥१५१॥

चकोरक्रौञ्चचक्राह्व भारद्वाजांश्च बर्हिणः ।

अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥१५२॥

श्रीमद्भागवतं १०.१८.९१०—

प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः ।

रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥१५३॥

कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन।

वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे ॥१५४॥

श्रीमद्भागवतं १०.१८.१४१६—

क्वचिद्बिल्वैः क्वचिद्कुम्भैः क्वचामलकमुष्टिभिः ।

अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया ॥१५५॥

क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः ।

कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया ॥१५६॥

एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ।

नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च ॥१५७॥

श्रीमद्भागवतं १०.१८.१९२२—

तत्रोपहूय गोपालान्कृष्णः प्राह विहारवित।

हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥१५८॥

तत्र चक्रुः परिवृठौ गोपा रामजनार्दनौ ।

कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे ॥१५९॥

आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।

यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥१६०॥

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् ।

भण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥१६१॥

श्रीमद्भागवतं १०.१८.२४—

उवाह कृष्णो भगवान्श्रीदामानं पराजितः ।

वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥१६२॥

श्रीमद्भागवतं १०.१५.१५, १७१८—

क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।

स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥१६३॥

क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः ।

वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥१६४॥

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः ।

अपरे हतपाप्मानो व्यजनैः समवीजयन॥१६५॥

सङ्ग्रहकर्तुः—

इति स्वकान्तकेलिं सा शृण्वती वरवर्णिनी ।

मोहजाड्यादिसम्पन्ना प्रेम्णान्यच्छ्रोतुमुन्मनाः ॥१६६॥

गता श्रावयितुं राधां सम्बोध्य सा सखी तदा ।

वर्णयामास कृष्णस्य लीलावृन्दं मनोहरम् ॥१६७॥

कृष्णाह्निककौमुदी ३.३८, ३६, ४०, ४१, ३७—

विश्रम्य क्षणमुत्थितः स परितः पर्यन्तशम्पादिनीः

श्रद्धावानवधाय धेनुपटली पानीयपानार्थिनीः ।

बालैस्तत्परिपालकैर्मुरलिकानादोपदिष्टैर्युता

कृष्णो भास्करनन्दिनीपरिसरानासादयामास ताः ॥१६८॥

बालाः केचन केचन प्रसृमरा गोमण्डलीमन्वगुः

केचित्कृष्णसमीप एव मिलितास्तत्तद्गुणानाजगुः ।

दूरस्था निकटस्थिताश्च सकला गावश्च गोपाश्च ते

तुल्यां प्रीतिमवाप्य कृष्णमभितस्तुल्यां रतिं तन्वते ॥१६९॥

दूरे सन्तु सचेतना मणिभुवोऽप्युद्न्दन्ति यत्स्पर्शतः

किं ब्रमो व्रजराजपुत्रपदयोस्तां माधुरीं तन्वतोः ।

या संव्यक्ततमध्वजाम्बुजयवाद्यङ्कावलीशालिता

सा केनापि कदापि कापि कथमप्यासीन्न संलोपिता ॥१७०॥

वक्तुं कोऽर्हति गोपराजयुवराजस्याङ्घ्रिपङ्केजयोः

सौगन्ध्यं क्षितिवक्षसि प्रणयतो लीलागतिन्यस्तस्तयोः ।

अङ्केष्वेष्वविशङ्कया बत धिया सौगन्ध्यबन्धान्धया

पुञ्जीभूय विधूय कुञ्जकुसुमं गुञ्जन्ति पुष्पन्धयः ॥१७१॥

तूष्णीकान्मुखरीकरोति मुखरांस्तूष्णीकयत्यम्भसां

स्तम्भं स्तम्भवतां द्रवं द्रुतमतिस्निग्धत्वमुग्रौजसाम् ।

कर्णाभ्यर्णमुपेत्य तूर्णमसकृद्येमं विधत्ते क्रमं

तां वंशीमधरे निधाय मधुरं कृष्णो जगौ पञ्चमम् ॥१७२॥

गोविन्दलीलामृत ६.१४१५—

सत्त्वधर्मविपर्यासैर्वेणुनादामृतोत्थितैः ।

स्वसात्त्विकविकारैश्च तदाभूद्व्याकुलाटवी ॥१७३॥

प्रोद्यद्वेपथुरुच्चलं स्थिरचरैः स्तब्धा जडैर्जङ्गमैः

प्रस्विन्ना स्रवदश्रुजालसलिलैः श्वेता प्रसूनोत्करैः ।

साश्रुः पुष्पमधुद्रवैः स्वरभिदा युक्ता खगाली रवै

रोमाञ्चालि युता लताङ्कुरचयैर्वृन्दाटवी सा बभौ ॥१७४॥

गोविन्दलीलामृत ६.१७२६—

कूजद्भृङ्गविहङ्गपञ्चमकलालापोल्लसन्ती हरेश्

च्योतत्पक्त्रिमसत्फलोत्कररसोल्लासाटवी साभवत।

सम्फुल्लन्नलिनीविलासिविहसद्वल्लीमतल्लीनटी

लास्याचार्यमरुद्गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥१७५॥

पुष्पैर्हास्यं भ्रमरैर्गानं

पण्णैर्लास्यं मधुभिः पानम् ।

दधतस्तरवः स्वफलैः खानं

कुर्वन्त्यभ्यागतहरिमानम् ॥१७६॥

अलिगायकचुम्बितकुसुमास्यं

पल्लवपटव्र्तविवृतसुहास्यम् ।

दधती रहसि विदधती लास्यं

व्यवृणुत वल्लीततिरपि दास्यम् ॥१७७॥

स्वरमणसहितानां वेणुनादाहृतानां

तृणकवलमुखानां चञ्चलालोकनानि ।

हरिरथ हरिणीनां वीक्ष्य राधाकटाक्षैः

स्मृतिपथमधिरूढैर्विव्यथे विद्धमर्मा ॥१७८॥

प्रेम्णानृत्यत्फुल्लमयूरीततियुक्तः

कृष्णालोकान्मत्तमयूरव्रज आरात।

स्निग्धे राधाकेशकलापे रतिमुक्ते

यत्सत्पिञ्छैराशु मुरारेः स्मृतिरासीत॥१७९॥

मदकलकलविङ्कीमत्तकादम्बिकानां

सरसि च कलनादैः सारसानां प्रियायाः ।

वलयकटककाञ्चीनूपुरोद्यत्स्वनोर्मी

भ्रमचुलुकितचित्तोऽभ्यागतां तां स मेने ॥१८०॥

उपरिचपलभृङ्गं पद्ममीषत्प्रकाशं

वरपरिमलपूरं शश्वदालोक्य कृष्णः ।

स्मितशवलकटाक्षं पद्मगन्धं प्रियाया

मुखमिदमिति मत्वा तामुपेतां विवेद ॥१८१॥

रुचककरकबिल्वैर्नागरङ्गैः सुपक्वैः

प्रतिदिशमनुदृष्टैर्हर्षतर्षाकुलोऽसौ ।

सपदि लसदुरोजभ्रान्तिसम्भ्रान्तचेता

वपुष इह विभुत्वं राधिकायाः शशङ्के ॥१८२॥

यतो यतः पतति विलोचनं हरेस्

ततस्ततः स्फुरति तदङ्गसंहतिः ।

न चाद्भुतं तदिह तु यद्व्रजाटवी

मुदे हरेरलभत राधिकात्मताम् ॥१८३॥

तैरुद्दीप्तभावाली वात्ययोच्चालितं मनः ।

शशाक न स्थिरीकर्तुं काशपुष्पनिभं हरिः ॥१८४॥

गोविन्दलीलामृत ६.२९—

प्रचार्य गाश्चारयितुं क्षुधार्ता

गोवर्धनक्ष्माभृदुपत्यकायाम् ।

मनोऽनुधावद्दयितां निवर्तयन्

समं वयस्यैर्विजहार कृष्णः ॥१८५॥

गोविन्दलीलामृत ६.३२३७—

तावद्धनिष्ठा घृतपक्वमन्नं

प्रातः कृतं यल्ललितादिभिस्तत।

दत्तं रसालासहितं जनन्या

दासीभिरादाय समाजगाम ॥१८६॥

तां वीक्ष्य हृष्टः स हरिर्बभाषे

किं मे धनिष्ठे पितरौ सुखं स्तः ।

सुस्नातमाभ्यां विहितेशपूजा

प्रतोष्य सर्वान्वद किं नु भुक्तम् ॥१८७॥

साप्याह तं तौ तव मङ्गलार्थं

स्नातार्चितेशौ द्विजसात्कृतार्थौ ।

सम्भोज्य सर्वानथ भुक्तवन्तौ

भोज्यानि च प्रेषयतः स्म तुभ्यम् ॥१८८॥

राधासङ्गद्रुमारोहोत्कण्ठितालम्बनार्थिनी ।

तां परालम्बनां मेने चित्तवृत्तिलता हरेः ॥१८९॥

इतस्ततः सञ्चरतीर्गवालीः

स्ववेणुनादैरथ सङ्कलय्य ।

जगाम ताः पाययितुं वयस्यैः

सञ्चालयन्मानसजाह्नवीं सः ॥१९०॥

पाययित्वा जलं गास्ताः शीतं स्वादु सुनिर्मलम् ।

स्वयं गोपाः पपुः सस्नुर्विजह्रुः सलिले चिरम् ॥१९१॥

बृहद्भागवतामृत २.७.४६—

परस्परं वार्यभिसिञ्चतः सखीन्

कदाचिदुत्क्षिप्य जलानि भञ्जयेत।

कदापि तैरेव विनोदकोविदो

विलम्भितो भङ्गभरं जहर्ष सः ॥१९२॥

बृहद्भागवतामृत २.७.४८५१—

कदापि कृष्णाजलमध्यतो निजं

वपुः स निह्नुत्य सरोजकानने ।

मुखं च विन्यस्य कुतूहलीस्थितो

यथा न केनापि भवेत्स लक्षितः ॥१९३॥

ततस्तदेकेक्षणजीवनस्ते

न तं समन्विष्य यदालभन्त ।

तद महार्तः सुहृदो रुदन्तो

विचुक्रुषुर्व्यग्रधियः सुघोरम् ॥१९४॥

ततो हसन्पद्मवनाद्विनिःश्र्तः

प्रहर्षपूरेण विकासितेक्षणैः ।

सकूर्दनं तैः पुरतोऽभिसारिभिः

सङ्गम्यमानो विजहार कौतुकी ॥१९५॥

मृणालजालेन मनोरमेण

विरच्य हारान्जलपुष्पजातैः ।

सखीनलङ्कृत्य समुत्ततार

जलात्समं तैः स च भूषितस्तैः ॥१९६॥

सङ्ग्रहकर्तुः—

भूषणेन विचित्रेण वन्येन सखिभिः पुनः ।

अहंपूर्विकया सर्वैर्भूषितोऽसौ यथारुचि ॥१९७॥

श्रीमद्भागवतं १०.१३.५६—

अहोऽतिरम्यं पुलिनं वयस्याः

स्वकेलिसम्पन्मृदुलाच्छवालुकम् ।

स्फुटत्सरोगन्धहृतालिपत्रिक

ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥१९८॥

अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिताः ।

वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥१९९॥

श्रीमद्भागवतं १०.१३.८९—

कृष्णस्य विष्वक्पुरुराजिमण्डलैर्

अभ्याननाः फुल्लदृशो व्रजार्भकाः ।

सहोपविष्टा विपिने विरेजुश्

छदा यथाम्भोरुहकर्णिकायाः ॥२००॥

केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः ।

शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः ॥२०१॥

श्रीमद्भागवतं १०.१३.११—

बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे

वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः ।

स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥२०२॥

बृहद्भागवतामृत २.७.६२—

आचम्य ताम्बूलमथ सुगन्धं

कर्पूरपूर्णं स्वगृहोपनीतम् ।

वन्यं च भुङ्क्ते स्म विभज्य नूत्नं

सनागवल्लीदलपूगमर्द्रम् ॥२०३॥

सङ्ग्रहकर्तुः—

मोहोत्थितां तां हरिमाल्यगन्धैः

सख्या प्रयुक्तैर्नसि राधिकां सा ।

निशम्य वृन्दामुखतो मिलित्वा

संश्रावयामास तदैव सर्वम् ॥२०४॥

गोविन्दलीलामृतं ६.३९५७—

ततः सखीनाह हरिः सहार्या

यूयं क्षणं चारयताग्रतो गाः ।

अहं सखिभ्यां सह माधवीयां

वनश्रियं द्रष्टुमिह भ्रमामि ॥२०५॥

दासीर्धनिष्ठावददाशु यात

यूयं गृहीत्वाखिलभाजनानि ।

पुष्पाणि नारायणसेवनार्थं

सञ्चित्य पश्चादहमागतास्मि ॥२०६॥

फुल्लं गन्धफलीद्वन्द्वमवतंसोचितं तदा ।

आदायागत्य कृष्णस्य वृन्दार्पितवती करे ॥२०७॥

तदालोकात्प्रियाकान्तिस्मृत्युत्कण्ठावतो हरेः ।

एजत्करात्तदादाय तच्छ्रुत्योर्निदधे बटुः ॥२०८॥

वृन्दां धनिष्ठां सुबलं बटुं च

षाड्गुण्यविज्ञान्सचिवान्स कृष्णः ।

उपाय दक्षानुपलभ्य मेने

राधाङ्गसङ्गोत्तमराज्यलब्धिम् ॥२०९॥

मधुमङ्गलहस्तं स प्रगृह्य वामपाणिना ।

वृन्दाधनिष्ठासुबलैः ससार सुमनःसरः ॥२१०॥

कुसुमिततरुवल्लीवीथिकुञ्जैर्लसन्तीं

स्थलजलविहगालिव्यूहकोलाहलैश्च ।

स कुसुमसरसीं तां वीक्ष्य राधागमोत्कस्

तदभिसृतिविचारं स्वानुगैराचचार ॥२११॥

प्रयाति वृन्दा सुबलो बटुर्वा

राधान्तिकं चेज्जटिला सशङ्का ।

एभिः समं वा कलहं विदध्यद्

वधूं निरुन्ध्यादथवा गृहान्तः ॥२१२॥

आकर्षणीं वा मुरलीं नियुञ्ज्यां

सर्वाः समेष्यन्ति च गोपरामाः ।

तदिष्टलीलादिरसो न सिद्ध्येत्

परस्परेर्ष्यामदमानवाम्यात॥२१३॥

ततो धनिष्ठे व्रज कुन्दवल्लीं

प्रतीतिकृत्सा जटिला यदस्याम् ।

तद्वञ्चनाचञ्चुमतिः सदा नौ

स्निग्धार्थिता सा ध्रुवमानयेत्ताम् ॥२१४॥

अथाह वृन्दा भवता यदुक्तं

सत्यं हि तच्चेत्सुमनोऽवचेतुम् ।

राधा सखी काचिदिहागता स्याज्

ज्ञेयस्तदास्यास्तदुदन्त आदौ ॥२१५॥

अथागता सा तुलसी स्वसख्या

कृष्णं सखिभ्यां सह तत्सखीभ्याम् ।

प्रियागमोपायविचारलग्नं

पुरः स्फुरन्तं मुमुदे समीक्ष्य ॥२१६॥

स्वप्नेऽपि तत्सन्निधिमत्यजन्तीं

तां राधया ते जहृषुः समेताम् ।

निश्चित्य सर्वेऽप्यथ माधवोऽभूत्

तद्दर्शनोत्कोऽध्वनि दत्तदृष्टिः ॥२१७॥

ततः सा तुलसी न्यस्य हृष्टा बटुकरे स्रजम् ।

उद्घाट्य पुटिकां वीटीं सुबलस्य करे ददौ ॥२१८॥

राधाकरामोदसमृद्धसौरभं

तच्छिल्पनैपुण्यभरं तथाद्भुतम् ।

तामुद्गिरन्तीं भ्रमरालिकर्षिणीं

स्रजं विलोक्याभवदुन्मना हरिः ॥२१९॥

कण्ठे स्रजं तामथ वैजयन्तीं

हसन्न्यधाच्छ्रीमधुमङ्गलोऽस्य ।

राधाकरस्पर्शसुखादिवासौ

तत्स्पर्शतः कण्टकिताङ्ग आसीत॥२२०॥

आगत्य कुञ्जे परिहासलीनां

सम्भावयंस्तं दयितां मुकुन्दः ।

तदास्य वीक्षोत्कलिकाकुलात्मा

तया हसन्त्या सह संललाप ॥२२१॥

सख्यास्ते कुशलं सखीशकुशलं कुत्रेयमात्मालये

किं नायाति वनं कृतौ स्वगुरुणा दिष्टाथ किं चेष्टते ।

मथ्नात्यम्बुघटं ततः किमभवन्निर्भर्त्स्य रुद्धा गृहे

युक्त्या चानय वृन्दया न जटिला वञ्च्याह हा धिग्विधिम् ॥२२२॥

सदा राधातिदौर्लभ्यस्फूर्त्या मत्वा बभूव सः ।

हासोक्तिमपि सत्यां तां विषण्णात्मा स्मराकुलः ॥२२३॥

विदग्धमाधव २.२६—

कनकाद्रिनिकेतकेतकी

कालिकाकल्पकलेवरद्युतिः ।

हृदि सा मुदिरालिमेदुरे

चपला मां किमलङ्करिष्यति ॥२२४॥

गोविन्दलीलामृतं ६.५८८६—

कृष्णं विषण्णमालोक्य व्याकुला तुलसी स्वयम् ।

दृशा वृन्दाधनिष्ठाभ्यां भर्त्सिताह ससम्भ्रमम् ॥२२५॥

मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव ।

आगतां विद्धि दयितां परिहासः कृतो मया ॥२२६॥

तामागतामथ निशम्य दिदृक्षुरेनाम्

औत्सुक्यचञ्चलमना व्रजराजसूनुः ।

उत्तार्य चम्पकयुगं निजकर्णयोस्तत्

तस्याः समर्प्य करयोर्मुदितोऽवदत्ताम् ॥२२७॥

क्वेयं क्वेयं निह्नुता वा किमर्थं

रुष्टा सा चेन्नापराधो ममास्ति ।

चेन्नर्मैतद्दूनचित्ते न युक्तं

हा हा शीघ्रं दर्शयामूं प्रियां मे ॥२२८॥

प्रियावलोकनोत्कण्ठं कालदेशार्थतत्त्ववित।

आनिनीषुर्द्रुतं राधां बभाषे तुलसी हरिम् ॥२२९॥

सा ते कान्ता कमलनयन त्वन्मुखालोकनोत्का

सूर्यार्चायै सपदि जटिलाप्रेषिता कुन्दवल्ल्या ।

त्वामायान्ती प्रथममिह मां प्राहिणोत्त्वत्प्रवृत्त्यै

क्रीडाकुञ्जं त्वमुपदिश तं यत्र तामानयामि ॥२३०॥

तच्छ्रुत्वोच्छ्वसितस्वान्तः प्रीतो गुञ्जावलीं हरिः ।

तुलस्यै दत्तवान्कण्ठादुत्तार्य पारितोषिकम् ॥२३१॥

लीलानिकुञ्जकलनाय तदाथ वृन्दा

कृष्णावलोकितमुखी तुलसीं बभाषे ।

तत्कुण्डतीरगतमानय राधिकां तां

कन्दर्पकेलिसुखदाख्यनिकुञ्जमाशु ॥२३२॥

अहं च केलिसामग्रीं समग्रयितुमुत्सुका ।

राधाकुण्डं त्वया सार्धं प्रयातास्मि द्रुतं सखि ॥२३३॥

तावत्कृत्वा प्रियसहचरीं स्वस्य चन्द्रावलीं तां

सङ्केतस्थां व्रजपतिसुतं नेतुमागत्य तत्र ।

गुञ्जाहारं हरिहृदि सखीदत्तमाधाय शैब्या

दृष्ट्वा वृन्दासहिततुलसीं विव्यथे क्षुब्धचित्ता ॥२३४॥

कृष्णस्याग्रे वृन्दया संलपन्त्या

आलोकात्तत्प्रेष्ठसख्यास्तुलस्याः ।

राधां मत्वा सागतां दुःकिता तां

शैब्या सव्याज्यं तदा व्याजहार ॥२३५॥

कुर्वन्त्याद्य तया दुर्गाव्रतोद्याप महोत्सवम् ।

तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥२३६॥

साद्य लब्धा मयान्विष्य न गृहे नापि कानने ।

दिष्ट्या लब्धासि तुलसि कथ्यतां कुत्र ते सखी ॥२३७॥

ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यमाश्रिताम् ।

अवदत्तां सकौटिल्यं शठे शाठ्यं हि यन्नयः ॥२३८॥

कुर्वाणया व्रतमहोत्सवमम्बिकायाः

सा श्यामया स्वसुहृदाद्य निमन्त्र्य नीता ।

वृन्दाटवीपरिवृढा स्वगृहं तथास्याम्

भारोऽप्यधायि विनयैः ससखीकुलायाम् ॥२३९॥

ततो ललितया पुष्पफलमाल्यसमृद्धये ।

वृन्दां नेतुं प्रेषिता तां गृहीत्वा चलितास्म्यहम् ॥२४०॥

इति तां तुलसी भङ्ग्या प्रतार्य कुटिलामपि ।

ययौ वृन्दाधनिष्ठाभ्यामुदासीनेव माधवे ॥२४१॥

पुनर्विवक्षुं तां शैब्यां कृष्णं कुञ्चितचक्षुषा ।

निवार्याह स्वमौदास्यं तुलस्यां व्यञ्जयन्निव ॥२४२॥

मा किञ्चिद्वद यात्वेषा स्वसख्याः कुशलं वद ।

क्वेयमास्ते किं कुरुते प्रिया चन्द्रावली मम ॥२४३॥

साति हृष्टाथ तां प्राह निरुद्धाऽपि धवाम्बया ।

दुर्गार्चाच्छद्मनानीता यत्नाच्चन्द्रावली मया ॥२४४॥

सखीस्थल्युपशल्ये तां त्वत्सङ्गोत्कलिकाकुलाम् ।

संरक्ष्य पद्मया तूर्णं त्वामन्वेष्टुमिहागता ॥२४५॥

चिन्तितोऽन्तर्बहिर्हृष्यन्प्रत्युत्पन्नमतिर्हरिः ।

अवदद्वञ्चयन्शैब्यां च्छद्मनानन्दयन्निव ॥२४६॥

अहं तद्दर्शनोत्कण्ठा दिष्ट्या नीतेयमाल्यसौ ।

गौरीतीर्थं लम्भयैनां गुरूणां वञ्चनक्षमम् ॥२४७॥

यावत्प्रमदराधाख्ये गाः सञ्चारयतो वने ।

अवधार्यागतोऽहं स्यां गवां सम्भालने सखीन॥२४८॥

गोविन्दलीलामृत ६.८६—

इति प्रतार्य तां शैव्यां गोदिशं ससखोऽव्रजत।

मुरारिस्त्वरया हृष्टो सापि चन्द्रावलीं प्रति ॥२४९॥

कृष्णभावनामृतं ८.६, ८२७—

प्रेषिता ललितया तदालयः

पेशला जनतयाप्यलक्षिता ।

भूभृदन्तिकमुपेत्य सौरभं

भेजुरुन्नतमुदो वनस्रजः ॥२५०॥

तत्र वीक्ष्य मुदितासु तासु तं

प्राह काचन खनिर्गुणश्रियाम् ।

रूपमञ्जरिरपारसौभगा

पृष्टयौवतमणिप्रवृत्तिकम् ॥२५१॥

नागरेन्द्र ! भवता यदा पदा

लिङ्गिता विपिनभूर्दधे श्रियम् ।

स्पर्धयेव तव गोष्ठभूस्तया

लिङ्ग्यत स्वसुषमां ददानया ॥२५२॥

त्वं हरे हरिमणिमयीं व्यधाः

क्ष्मामिमां निजसवर्णतर्पणैः ।

साप्यधास्यत विवर्णतां न चेत्

तां च काञ्चनमयीं व्यधास्यते ॥२५३॥

गोरजश्चुरितमास्यमीक्षयंस्

त्वं वनौकस इमानरोदयः ।

हन्त गोरजसि चेष्टमानया

स्वालयः किल तयापि रोदितः ॥२५४॥

किन्त्वनीतिरियमीक्षणाम्बुजे

सन्तताम्बुजनके तया कृते ।

ते तु पौत्रमुचितं प्रचक्रतुः

कर्दमोऽम्बुजभवोद्भवो यतः ॥२५५॥

माल्यकेशवसनादयः समुच्

छृङ्खलत्वमतिसाधवोऽप्यधुः ।

भूभूजा विरहितेऽपि नीवृति

स्यात्क्व कस्य च न वा नियम्यता ॥२५६॥

यत्तवाङ्घ्रिवनजद्वयं वनोत्

सङ्ग एव विहरत्प्रमोदते ।

तत्र विश्वसिति सा न निःश्वसित्य्

उष्णमेव बहुधापि बोधिता ॥२५७॥

नैव तत्र कटुशर्कराङ्कुरेत्य्

अर्धवागपि सखीमुखोद्गता ।

श्रोत्रसीमपतितैव तां परि

क्रोशयन्त्यथ जवादमूर्च्छयत॥२५८॥

हन्त ते प्रियतमः समागतो

वीक्ष्य तमिति सखीमृषोक्तिभिः ।

त्वद्वनस्रगतिसौरभैश्च सा

प्राप्य बोधमति सम्भ्रमं दधौ ॥२५९॥

आलि ! नेत्रमदिरैकनर्तकः

स क्व ते सखि गृहेऽस्ति निह्नुतः ।

किं प्रतारयसि नैव साक्षि यद्

वक्ति तं किल तदङ्गसौरभम् ॥२६०॥

इत्यलम्भि सुखमेतया मनाक्

तन्न सोढुमशकन्मनोभवः ।

एकदैव शरपञ्चकस्य यल्

लक्षतामनयदेव तां बलात॥२६१॥

स्विद्यति स्म पतति स्म वेपते

स्माश्रुभिः स्वमभिषिञ्चति गृहम् ।

सा प्रविश्य न भवन्मुखेन्दुना

प्राप शीतलयितुं स्वलोचने ॥२६२॥

हा सखीजनवचोऽनृतं मनस्

त्वं मुदामृतसमं वृथा कथाः ।

संज्वरो द्विगुणितो यतो द्यति

त्वामितीयमपतत्पुनः क्षितौ ॥२६३॥

त्वं धिगस्तु रहितं स्वबन्धुना

जीवितेत्यलघु गर्हयाप्यहो ।

नो मनागपि तदाप लाघवं

प्रत्युतातिगुरुभारतामगात॥२६४॥

हन्त कान्तविरहेऽपि किं महत्

सौकुमार्यमुदियाय सुभ्रुवः ।

अङ्गकानि यदसु प्रभञ्जन

स्पन्दनं च न हि सोढुमीशते ॥२६५॥

इत्यवेत्य मधुसूदनः प्रियोद्

अन्तमन्तरुद्घूर्णतातुरः ।

बाष्पपूर्णनयने निरुद्धवाग्

अक्षिपत्प्रियसखास्यमण्डले ॥२६६॥

तामुवाच बटुरानय द्रुतं

राधिकां कनकपद्मिनीं वनम् ।

अन्यथा किमवनं भवेद्गतिः

सैव हन्त मधुसूदनस्य यत॥२६७॥

माधवोऽथ निजमाल्यमर्पयंस्

तां व्यजिज्ञपदिदं च किञ्चन ।

प्रेयसीहृदि गतास्तु चम्पक

स्रङ्ममाद्य सखि सेयमुद्गता ॥२६८॥

वृत्तमाख्यदखिलं समेत्य सा

राधिकामथ तया वरस्रजः ।

श्लेषणाप्तरमणाङ्गसौरभेः

स्वीयजीवितमकारि जीवितम् ॥२६९॥

प्रेयसीस्वविरहोग्रवृश्चिक

व्रातदंशविधुरे श्रुते पुनः ।

तद्विषज्वलनजर्जरं तदै

वान्वभावि निजमर्मशर्मभित॥२७०॥

गोविन्दलीलामृत ७.१—

कियद्दूरं ततो गत्वा निवृत्योद्वर्त्मना हरिः ।

राधाकुण्डं समायातः प्रियासन्गोत्सुकः प्रियम् ॥२७१॥

वृन्दावनमहिमामृतं ४.१०६१०८—

तन्मध्ये नवमञ्जुकुञ्जवलयं शोभाविभूत्यासमा

नोर्ध्वं दिव्यविचित्ररत्नलतिकाद्यानन्दपुष्पश्रिया ।

अन्तस्तल्पवरं वरोपकरणैराढ्यं समन्ताद्दधद्

राधामाधवभुक्तभोग्यमखिलानन्दैकसाम्राज्यभूः ॥२७२॥

मध्येतादृशकुञ्जमण्डलमहो कुण्डं महामोहनं

सान्द्रानन्दमहारसामृतभरैः स्वच्छैः सदा सम्भृतम् ।

रत्नाबद्धचतुस्तटी विलसितं सद्रत्नसोपानवत्

तीर्थं श्रीतटसत्कदम्बकतलच्छायामणीकुट्टिमम् ॥२७३॥

गाधागाधतया तयोरतिमुदं कुर्वत्परप्रेष्ठयोर्

नानादिव्यरसोत्तमानवसरे व्यञ्जत्तयोः प्रीतये ।

आश्चर्यं कमलोत्पलादिकुतुकायोन्मीलयन्मीलयन्

नानारत्नमयच्छटाम्बुधिजलं व्यञ्जन्निकुञ्जादिकम् ॥२७४॥

वृन्दावनमहिमामृतं ३.१०३—

कह्लारोत्पलपद्मकैरवमुखासङ्ख्यप्रसूनैः स्फुटैर्

हंसैः सारसचक्रवाकमिथुनैः कारण्डवाद्यैः खगैः ।

अत्यानन्दमदोरुखेलनकलध्वानैर्महारम्यया

भृङ्गीयूथशतैर्भ्रमद्भिरभितो गुञ्जद्भिरामञ्जुले ॥२७५॥

गोविन्दलीलामृत ७.४६—

प्रतिमण्डपपार्श्वस्थतरुशाखावलम्बनैः ।

युतं नानापुष्पवासश्चित्रैर्दोलाचतुष्टयैः ॥२७६॥

याम्ये चम्पकयोः पूर्वे नीपयोराम्रयोः परे ।

सौम्ये बकुलयोर्बद्धरत्नहिन्दोलिकान्वितम् ॥२७७॥

पूर्वाग्नेयदिशोर्मध्ये प्रियकुण्डेन सङ्गतम् ।

तत्रोर्ध्वे स्तम्भकालम्बि चित्रसेतुसमन्वितम् ॥२७८॥

गोविन्दलीलामृत ७.१०—

चतुष्कोणेषु वासन्तीचतुःशालाभिरावृतम् ।

वानीरकेशराशोकनिकुञ्जैः परितो वृतम् ॥२७९॥

गोविन्दलीलामृत ७.७९—

गलहृदुदरनाभिश्रोणिजानूरुदघ्नैः

षडुदधिवसुकोनैर्मण्डलाङ्गैश्च कैश्चित।

शिशिरमनु समुष्णैः ग्रीष्मकाले सुशीतैर्

विविधमणिनिबद्धैर्दिक्षु सोपानयुक्तैः ॥२८०॥

मणिरुचिजलवीचिभ्रान्तितृष्णाभिभूता

पतितविहगवृन्दाच्छालबालान्तरालैः ।

परिजनयुतराधाकृष्णयोर्नर्मगोष्ठी

प्रमदकृदुपवेशानल्पवेदीसुशोभैः ॥२८१॥

निचितपृथुतलानां कुट्टिमैश्चित्रवर्णैः

कुसुमितबहुवल्लीश्लिष्टशाखाभुजानाम् ।

घनदलफलपुष्पश्रेणिभारानतानां

विततिभिरभितः संवेष्टितं पादपानाम् ॥२८२॥

गोविन्दलीलामृत ७.१११२—

तद्बहिः पक्त्रिमापक्वफलपुष्पोत्कराकरैः ।

परितः कदलीषण्डैर्मण्डितं शीतलच्छदैः ॥२८३॥

तद्बहिर्बाह्योपवनाश्लिष्टपुष्पाटवीवृतम् ।

स्वमध्यसलिला दीव्यत्ससेतुरत्नमन्दिरम् ॥२८४॥

गोविन्दलीलामृत ७.१५१७—

ऋतुराजादिसर्वर्तुगुणसेवितकाननम् ।

वृन्दासंमृष्टगन्धाम्भःसंसिक्ताधाङ्गणालयम् ॥२८५॥

तया तोरणकोल्लोचपतकालम्बगुच्छकैः ।

पौष्पैश्चित्रित कुञ्जाध्व दोला चत्वर मण्डपम् ॥२८६॥

नवकमलदलालीपल्लवावृन्तनाना

कुसुमरचितशय्योच्छीर्षचन्द्रोपधानैः ।

समधुचषकताम्बूलाम्बुपात्रादियुक्तैः

सुवलिततललीलागारकुञ्जप्रपञ्चम् ॥२८७॥

वृन्दावनमहिमामृत ४.१०५—

राधाकृष्णरहःकथानुवदनादाश्चर्यमाधुर्यवद्

ध्वानैः श्रीशुकसारिकाव्यतिकरैःरानन्दसर्वस्वदम् ।

कर्णाकर्षिकुहूकुहूरिति कलालापैर्वृतं कोकिलैर्

नृत्यन्मत्तमयूरमन्यविहगैश्चानन्दकोलाहलम् ॥२८८॥

गोविन्दलीलामृत ७.२२१३२—

हारीतपारावतचातकादिक

प्रहृष्टनानाविधचित्रपक्षिणाम् ।

कृष्णेक्षणानन्दविफुल्लवर्ष्मणां

कर्णामृतध्वानमनोज्ञकाननम् ॥२८९॥

राकेशार्बुदनिर्मञ्छ्यराधेशास्येन्दुपायिभिः ।

चकोरैर्न्यक्कृतत्यक्तचन्द्रैर्वृतनभस्थलम् ॥२९०॥

विपक्वजालकापक्वफलैः कुसुमपल्लवैह।

मुकुलैर्मञ्जरीभिश्च नम्रैर्वल्लीद्रुमैर्वृतम् ॥२९१॥

अनेकपद्माकरमध्यसंस्थितं

हरेर्विलासान्विततीरनीरकम् ।

नानाब्जकान्त्युच्छलितं निरन्तरं

गुणैर्जितक्षीरसमुद्रमद्भुतम् ॥२९२॥

स्वसदृक्तीरनीरेण कृष्णपादाब्जजन्मना ।

निजपार्श्वोपविष्टेनारिष्टकुण्डेन सङ्गतम् ॥२९३॥

तीरे कुञ्जा यस्य भान्त्यष्टदिक्षु

प्रेष्ठालीनां स्वस्वनाम्ना प्रसिद्धाः

ताभिः प्रेम्ना स्वीयहस्तेन यत्नात्

क्रीडातुष्ट्यै प्रेष्ठयोः संस्कृता ये ॥२९४॥

तत्तत्काष्ठाप्रान्तविच्छिन्न

सीमारामोद्यानावेशनांशान्विताश्च ।

तत्तत्सीमाभ्यन्तरोत्पन्नवृक्ष

श्रेणीयुग्माच्छन्नवर्त्मालियुक्ताः ॥२९५॥

उपरि तनुतरङ्गाकारचित्राञ्चिशुद्ध

स्फटिकमणिचितान्यस्फारवर्त्मानि तानि ।

मरकतमणिवृन्दैराचिताभ्यन्तराणि

प्रतनुलहरिकुल्याभ्रान्तिमुत्पादयन्ति ॥२९६॥

मणिचयरचनाभिः स्वेषु भित्तिभ्रमं द्राक्

स्वनिकटमणिभित्तौ चात्मबुद्धिं ददद्भिः ।

उपवनयुगमध्ये द्वारवृन्दैर्युतानि

प्रविशदितरलोके दर्शनादेव भान्ति ॥२९७॥

चकास्त्युदीच्यां दिशि तीर्थसन्निधाव्

अनङ्गरङ्गाम्बुजनाम चत्वरम् ।

पद्माभकुञ्जाष्टदलैर्विराजितं

सुहेमरम्भावलिकेशरान्वितम् ॥२९८॥

सहस्रपत्राम्बुजसन्निभं स्फुरत्

सुवर्णसत्कुट्टिममञ्जुकर्णिकम् ।

लीलानुकूल्योचितसन्ततोल्लसद्

विस्तीर्णतालाघवमुन्नतप्रभम् ॥२९९॥

ललिताशिष्यया नित्यंकलावत्या सुसंस्कृतम् ।

सर्वर्तुसुखसम्पन्नं नानाकेलिरसाकरम् ॥३००॥

ललितानन्ददं राधाकृष्णयोः सवयस्ययोः ।

निकुञ्जराजयोः पट्टमन्दिरं स्फुरदिन्दिरम् ॥३०१॥

माणिक्यकेशरश्रेणीवेष्टितस्वर्णकर्णिकम् ।

बहिर्बहिः क्रमादूर्ध्वमानसङ्ख्याप्रमाणकैः ॥३०२॥

एकैकवर्णसद्रत्नकदम्बेनाचितैः पृथक।

रचितं बहुभिश्चारुसमपत्रालिमण्डलैः ॥३०३॥

पञ्चेन्द्रियाह्लादकरैः शैत्यान्यब्जगुणैर्युतम् ।

तद्बहिः क्रमशः स्वर्णैर्वैदूर्यैरिन्द्रनीलकैः ॥३०४॥

स्फटिकैः पद्मरागैश्च चितैर्मण्डपपञ्चकैः ।

शोभितं मण्डलेष्वन्तर्नानारत्नविनिर्मितौ ॥३०५॥

केवलैर्मिथुनीभावसङ्गतैर्मृगपक्षिभिः ।

देवैर्नृभिर्युतं चान्यैश्चित्रितै रसदीपनैः ॥३०६॥

पञ्चवर्णभूरिचित्रपत्रपुष्पविस्फुरत्

केशरादिशखिशाखिकालिसद्वितानकम् ।

अन्तरस्य भाति जानुदघ्नरत्नकुट्टिमागार

मध्यकर्णिकासहस्रपत्रसारसम् ॥३०७॥

आमूलपुष्पिताशोकवल्लीमण्डलसञ्चयैः ।

सितारुणहरित्पीतश्यामपुष्पैः प्रकल्पितैः ॥३०८॥

पद्मपुष्पदलाकारैरुपकुञ्जाष्टकैर्वृतम् ।

प्रवीणतादृशाशोकतरुकुञ्जवराटकम् ॥३०९॥

वसन्तसुखदं यस्य भृङ्गकोकिलनादितम् ।

वायव्यां दिशि भात्यष्टदलकुञ्जाम्बुजं दलम् ॥३१०॥

श्रीपद्ममन्दिरं नाम नैरृत्यं राजते दलम् ।

चतुर्द्वारं चतुष्पार्श्वे वातायनसमन्वितम् ॥३११॥

नानामणिचितानेकचित्रभित्तिचतुष्टयम् ।

अन्तःसकृष्णगोपीनां पूर्वरागादिचेष्टितैः ॥३१२॥

रासकुञ्जविलासैश्च ललिताचित्रितैर्युतम् ।

पूतनारिष्टसंहाराद्यन्ततच्चरितैर्बहिः ॥३१३॥

रत्नालिद्युतिकिञ्जल्कं सद्गर्भागारकर्णिकम् ।

बहिरब्जदलाकारैर्वृतं षोडशकोष्ठकैः ॥३१४॥

तत्तद्युगान्तरालस्थद्व्यष्टोपकोष्ठकैरपि ।

ऊर्ध्वे तादृक्सन्निवेशस्फुरदट्टालिकान्वितम् ॥३१५॥

अन्तरन्तःक्रमादुच्चनिर्भित्तिस्तम्भपङ्क्तिषु ।

स्फाटिकीषु सुविन्यस्तप्रवालबलभीकुले ॥३१६॥

छादितेन महारत्नपटलैस्तिर्यगूर्ध्वगैः ।

भ्राजितेन सुकुम्भेन शिखरेण विराजितम् ॥३१७॥

अत्युच्चेन वनालोकसुखदेन निजेशयोः ।

मुक्तपार्श्वतृतीयोच्चखण्डेन च सुमण्डितम् ॥३१८॥

अधो रत्नाचितानेकचित्रचित्रेण भास्वता ।

उपकुट्टिमयुग्मान्तर्दिक्षु सोपानशोभिना ॥३१९॥

कण्ठदघ्नातिविस्तीर्णकुट्टिमेनाभितो वृतम् ।

परितस्तावदुच्चानां प्रान्तोत्पन्नमहीरुहम् ॥३२०॥

फलैः पुष्पैश्च संश्लिष्टकुट्टिमप्रान्तदेशकम् ।

केलिरत्नाकरं राधाकृष्णयोः सवयस्ययोः ॥३२१॥

आग्नेयं भाति पद्माभरत्नहिन्दोलकुट्टिमम् ।

पूर्वापरदिगुत्पन्नप्रवीणबकुलागयोः ॥३२२॥

साचि किञ्चिद्विनिर्गत्य गत्या वक्रोर्ध्वयोपरि ।

मिलिताभ्यां सुशाखाभ्यां छादितं मण्डपाकृति ॥३२३॥

तच्छाखामूलसंनद्धैः पट्टरज्जुचतुष्टयैः ।

दृढैर्बद्धचतुष्कोणं नाभिमात्रोच्चसंस्थिति ॥३२४॥

पद्मरागाष्टपट्टीभिः प्रवालजपदाष्टकैः ।

घटितं हस्तमात्रोच्चपट्टीवेष्टनकेशरम् ॥३२५॥

द्व्यष्टपत्राम्बुजाकाररत्नालिचित्रकर्णिकम् ।

द्विद्विपादान्विताम्भोजदलाभाष्टदलैर्वृतम् ॥३२६॥

रत्नपट्टीकेशरान्तर्द्वाराष्टकसुसंयुतम् ।

दक्षिणे दलपार्श्वस्थारोहद्वारद्वयान्वितम् ॥३२७॥

लघुस्तम्भद्वयासक्तपट्टिपृष्ठावलम्बकम् ।

पट्टतुलीलसन्मध्यं पार्श्वपृष्ठोपधानकम् ॥३२८॥

नानाचित्रांशुकैश्छन्नं स्वर्णसूत्राम्बरैरपि ।

लसच्चन्द्रावलीमुक्तादामगुच्छवितानकम् ॥३२९॥

यत्राष्टदलगालीनां मध्यगौ राधिकाच्युतौ ।

गायदन्यवयस्याभिर्वृन्दा दोलयतीश्वरौ ॥३३०॥

स्वारूढराधाच्युतयोः सर्वाभिमुखताकरम् ।

हिन्दोलाम्बुजमाभाति मदनान्दोलनाभिधम् ॥३३१॥

ऐशान्यां भात्यष्टपत्रं माधवीकुञ्जसारसम् ।

माधवानन्ददं नाम नानालीलोपहारयुक॥३३२॥

फुल्लमल्लीभिराश्लिष्टनम्रशाखाभुजव्रजैः ।

छादितं फुल्लपुन्नागैश्चन्द्रकान्तिचितान्तरम् ॥३३३॥

पद्मपत्राकारकुञ्जैर्वेष्टितं स्वर्णकर्णिकम् ।

उदीच्यां मणिकिञ्जल्कं भाति कुञ्जं सिताम्बुजम् ॥३३४॥

नम्रशाखाभुजाश्लिष्टफुल्लहेमलताचयैः ।

तमालैः कल्पितं जिष्णुनीलरत्नावलीचितम् ॥३३५॥

नीलपद्मदलाकारैरुपकुञ्जाष्टकैर्वृतम् ।

सुवर्णकर्णिकं प्राच्यां भाति कुञ्जासिताम्बुजम् ॥३३६॥

अवाच्यां पद्मरागादिचितान्तर्बाह्यमण्डलम् ।

लवङ्गैश्छादितं फुल्लैर्भाति कुञ्जारुणाम्बुजम् ॥३३७॥

कुञ्जं हेमाम्बुजं भाति प्रतीच्यां फुल्लचम्पकैः ।

वल्लीभिश्छादितं हेमचितबाह्यान्तरालकम् ॥३३८॥

एवमुत्तरादिकुञ्जा भान्ति राधाहरिप्रियाः ।

नानावर्णाकारभेदात्दृशां विस्मयकारिणः ॥३३९॥

प्रतिविदिशमुदञ्चच्चम्पकानां च तूर्णाम्

अरुणहरितपीतश्यामपुष्पोच्चायानाम् ।

वरपरिमलधाराक्षिप्तगन्धान्तराणां

प्रतिदिशमधिरोहन्माधवीवेष्टितानाम् ॥३४०॥

व्यतिसुमिलिततिर्यङ्निर्गतैः कैश्चिदन्यैर्

उपरिघटितसङ्गैः स्निग्धशाखासमूहैः ।

शुकपिकमधुपानां नीलपीतारुणानां

मधुरनिनदरम्यैश्छादितः सौधतुल्यः ॥३४१॥

स्थलजलजनिपुष्पैः पल्लवैः क्ÿप्त

नानाभरणवसनशय्यासद्वितानादिपूर्णः ।

अरुणविषदपीतश्यामपद्मोत्पलाद्यैर्

दिशि विदिशि सनालैः कल्पितानेकचित्रः ॥३४२॥

जठरशरशलाकैः पल्लवैश्चित्रपुष्पैर्

घटितमृदुकबाटीप्रावृतद्वाश्चतुष्कः ।

मदकलचलभृङ्गाऽनीकिनीद्वारपालो

मणिचयचितभूमिद्व्यष्टपत्राब्जमध्यः ॥३४३॥

बहिरपि ततशाखाच्छादिताभिः समन्ताच्

चतसृभिरभिताभिः वेष्टितो देहलीभिः ।

अनिशमिह विशाखाशिष्यया मञ्जुमुख्या

रचननिपुणमत्या संस्कृतोऽध्यक्षयास्य ॥३४४॥

शिवहरिति तटस्थोऽप्येष राधा बकारेर्

विहरणरसवन्याप्लावितात्मा समन्तात।

मदनसुखदनामा लोचनानन्दधामा

विलसति स विशाखानन्ददः कुञ्जराजः ॥३४५॥

विचित्रवृक्षवल्लीभिश्चित्ररत्नैश्चितान्तरः ।

चित्रवर्णैः खगैर्भृङ्गैः कुट्टिमैः प्राङ्गणैर्वृतः ॥३४६॥

चित्रमण्डपसंयुक्तश्चित्रहिन्दोलिकान्वितः ।

प्राच्यां चित्रानन्ददाख्यश्चित्रकुञ्जो विराजते ॥३४७॥

स्फटिकैरिन्दुकान्तैश्च चितकुट्टिमचत्वरः ।

चित्रितः पुण्डरीकैश्च कैरवैर्मल्लिकादिभिः ॥३४८॥

शुभ्रपुष्पदलैर्वृक्षैर्वल्लीभिश्च समन्वितः ।

शुभ्रालिपिककीराद्यैः शब्दज्ञेयैर्निनादितः ॥३४९॥

शुभ्रवेशौ तु राकायां राधाकृष्णौ सहालिभिः ।

क्रीडन्तावपि नेक्ष्येते कैश्चिद्यत्रागतैरपि ॥३५०॥

पूर्णेन्दुनामा कुञ्जोऽयमिन्दुलेखासुखप्रदः ।

सुशुभ्रकेलितल्पादिराग्नेय्यां दिशि राजते ॥३५१॥

हेमवल्लीवृतैर्हेमपुष्पकैश्छादितोऽभितः ।

हेमपद्मावलीचित्रो हेमप्राङ्गणकुट्टिमह॥३५२॥

हेममण्डपिकायुक्तो हेमहिन्दोलिकान्वितः ।

हेमाभालिखगैर्युक्तो हेमलीलापरिच्छदः ॥३५३॥

लीलया पीतवसना पीतालेपविभूषणा ।

यत्र प्रविष्टा श्रीराधा कृष्णेनापि न लक्ष्यते ॥३५४॥

गौराङ्गीवेशधृक्कृष्णः स्वप्रेयस्याः सहालिभिः ।

शृणोति प्रेम संलापं यत्रैताभिरलक्षितः ॥३५५॥

कदाचित्पद्मया यत्र प्रेरिता जटिलागता ।

ददर्श कृष्णं नो राधां तेनैकासनगामपि ॥३५६॥

स्ववर्णकृत्स्वस्थितानां भाति काञ्चनभूरिव ।

दक्षिणे चम्पकलतानन्ददो हेमकुञ्जकः ॥३५७॥

यत्र चम्पकवल्ल्याः सा निकुञ्जपाकशालिका ।

आस्ते तद्शयोश्चित्रजग्धिवेदिकयान्विता ॥३५८॥

यस्यां पाकक्रियाचार्या सवृन्दा सा निजेशयोः ।

सम्पादयति संमोदात्कदाचित्कुञ्जभोजनम् ॥३५९॥

तमालैः श्यामवल्लीभिः श्लिष्टशाखैर्धृतान्तरम् ।

इन्द्रनीलचिताभ्यन्तर्भूमिकुट्टिमचत्वरः ॥३६०॥

राधया युगलीभावं गतोऽपि मुखरादिभिः ।

नेक्ष्यते हरिरेकैव राधिका यत्र दृश्यते ॥३६१॥

राजते दिशि नैरृत्यां रङ्गदेवीसुखप्रदः ।

सर्वश्यामः श्यामकुञ्जो राधिकारतिवर्धनः ॥३६२॥

रक्तवल्लीवृतो रक्तपुष्पपत्रैर्द्रुमैर्वृतः ।

शोणरत्नचिताभ्यन्तः कुट्टिमाङ्गनमण्डपः ॥३६३॥

रक्तहिन्दोलिकायुक्तः कृष्णेष्टः सर्वलोहितः ।

तुङ्गविद्यानन्ददोऽस्ति पश्चिमेऽरुणकुञ्जकः ॥३६४॥

हरिवल्लीवृक्षचित्रो हरित्पक्ष्यलिसंयुतः ।

हरिन्मणिचिताभ्यन्तर्बाह्यकुट्टिमचत्वरः ॥३६५॥

वायव्यां सर्वहरितो राधाकृष्णाक्षकेलिभूः ।

सुदेवीसुखदाभिख्यो हरित्कुञ्जो विराजते ॥३६६॥

उपरि लहरीतुल्याकारचित्रैः स्फुरद्भिर्

मरकतचयगर्भैः पुष्परागेन्दुकान्तैः ।

घटितमितरलोके तोयवद्भासमानं

मणिमयकुमुदाम्भोजालिहंसादियुक्तम् ॥३६७॥

धनपतिदिशि तादृक्सेतुबन्धानुषक्तं

षडधिकदशपत्राम्भोजवत्सन्निवेशम् ।

सलिलकमलसद्मानङ्गयुङ्मञ्जरी शं

प्रदमतुल सुलावण्योल्लसल्लालसीति ॥३६८॥

श्रीराधेव हरेस्तदीयसरसी प्रेष्ठाद्भुतैः स्वैर्गुणैर्

यस्यां श्रीयुतमाधवेन्दुरनिशं प्रेम्ना तया क्रीडति ।

प्रेमास्मिन्बत राधिकेव लभते यस्मिन्सकृत्स्नानकृत्

तत्तस्या महिमा तथा मधुरिमा केनास्तु वर्ण्यः क्षितौ ॥३६९॥

प्रियाकुण्डं दृष्ट्वा मुदितहृदयोऽप्यस्य विविधैर्

गुणैस्तैस्तैरुद्दीपितविरहभावः स्मरवशः ।

प्रियाप्राप्त्युत्कण्ठाकवलितमना नागरगुरुर्

भ्रमानानोत्प्रेक्षां बकरिपुरमुष्मिन्स विदधे ॥३७०॥

खेलच्चक्रयुगोरोजं फेणमुक्तास्रगुज्ज्वलम् ।

रसोर्म्युच्चलितं मेने प्रियवक्षःसमं सरः ॥३७१॥

मधुररसतरङ्गा बिभ्रती पङ्कजास्यं

भ्रमरकपरिवीतं प्रोल्लसत्खञ्जनाक्षम् ।

प्रमुदितहरिणोच्चैर्हंसकारावरम्या

प्रियतमसरसी सा प्रेयसीव व्यलोकि ॥३७२॥

स्वप्रेष्ठारिष्टकुण्डोर्मिचञ्चद्बाहूपगूहिता ।

स्वकोकनदपाणिभ्यां क्षिप्ततच्चलतत्करा ॥३७३॥

समीरचञ्चदम्भोजचलास्येन बलादिव ।

चुम्बितालिकटाक्षेषत्तिर्यगम्बुजसन्मुखी ॥३७४॥

भृङ्गीझङ्कारशीत्कारविकलस्वरगद्गदा ।

प्रोद्यत्कुट्टमिता तेन राधिकेव व्यलोकि सा ॥३७५॥

समुद्भ्राम्यल्लीलाम्बुजमनिलजातोर्मिवलितं

सरोयुग्मं वीक्ष्यानतशिरसि गोवर्धनगिरेः ।

निजप्रेमोद्घूर्णा स्खलितवपुषस्तस्य स हरिर्

भ्रमत्तारं बाष्पोच्छलितमिव मेनेऽक्षियुगलम् ॥३७६॥

इत्थं प्रियायाः स सरः समीक्ष्य तत्

प्रत्यङ्गसंस्मारकमात्मनो गुणैः ।

विदंस्तदानन्दममन्दमप्यभूत्

तदागमौत्सुक्यविभिन्नधैर्यकः ॥३७७॥

प्रायेन एवंविधसन्निवेशकं

ददर्श तत्पार्श्वगमात्मनः सरः ।

कुञ्जैः स्वकान्ताग्रहतोऽतिसंस्कृतैर्

विराजितं नर्मसखालिनिर्मितैः ॥३७८॥

प्रियनर्मवयस्या ये सुबलो मधुमङ्गलः ।

उज्ज्वलार्जुनगन्धर्वा विदग्धभृङ्गकोकिलाः ॥३७९॥

दक्षसन्नन्दनाद्याश्च तेषां स्वस्वाभिधान्विताः ।

तैर्विभज्यार्पिताः कुञ्जास्ते राधाललितादिषु ॥३८०॥

वयोर्दिश्यस्ति सुबलानन्ददा कुञ्जशालिका ।

राधयाङ्गीकृता यस्यास्तीर्थं मानसपावनम् ॥३८१॥

नित्यं स्नात्यत्र सालीभिः कुण्डेऽस्मिन्विपुलाग्रहा ।

कृष्णपादाब्जमाध्वीकपानीये कृष्णवत्प्रिये ॥३८२॥

ललिताङ्गीकृतोदीच्यां कुञ्जशालातिचित्रिता ।

मधुमङ्गलशन्दाख्या भाति श्रीराधिकाप्रिया ॥३८३॥

विशाखाङ्गीकृतैशान्यामुज्ज्वलानन्ददापरा ।

एवमन्यासु दिक्ष्वन्या भान्त्यन्याभिः कृताश्रयाः ॥३८४॥

पूर्वपश्चिमदिङ्मार्गावीशेशा कुण्डयोः क्रमात।

विस्तीर्णौ नृपशूनां स्तः स्नानपानार्थतीर्थगौ ॥३८५॥

लीलानुकूलेषु जनेषु चित्ते

षूत्पन्नभावेषु च साधकानाम् ।

एवं विधं सर्वमिदं चकास्ति

स्वरूपतः प्राकृतवत्परेषु ॥३८६॥

अथ वृन्दागतं वीक्ष्यानन्दिता नन्दनन्दनम् ।

कर्णिकारावतंसौ द्वावभ्येत्योपजहार सा ॥३८७॥

वृन्दा तत्तन्निजनिपुणतासंस्कृतं दर्शयन्ती

तत्तत्कुञ्जादिकामनु तटं सेश्वरीं स्मारयन्ती ।

राधाकान्तं ककुभि सहजैर्भ्राजमानं गुणैः स्वैः

कुण्डेशान्यां मदनसुखदाभिख्यकुञ्जं निनाय ॥३८८॥

स तद्दृष्टातिहृष्टोऽभूत्तत्तत्स्थानेषु राधया ।

कृतकर्तव्यलीलानां स्म्र्तिसङ्कल्पतत्परः ॥३८९॥

विशाखया मञ्जुमुख्या वृन्दया च सुमण्डितम् ।

कुञ्जं विलोक्य तं प्रीतस्तामाहोत्कलिकाकुलः ॥३९०॥

दिष्ट्या वृन्दे यदि तव सखी सागता स्यादकस्मान्

निष्प्रत्यूहं यदि मम तया स्युश्च ते ते विलासाः ।

कुण्डारण्यं मधुसुमधुरं कुञ्जगेहं तदास्मिन्

वैचित्री च त्वदुपरचिता कल्पते सत्फलाय ॥३९१॥

सङ्केतकुञ्जमगतं तुलसीसकाशाच्

छैब्यान्वितं च पथि मां नु निशम्य राधा ।

नैष्यत्यसौ तत इतः किल कापि गत्वा

तामानयेदिह निवेद्य मम प्रवृत्तम् ॥३९२॥

श्रीराधायाः सविध उभयीं माधवीयामवस्थां

शंसन्त्युच्चैर्मदनविषमां लालसोद्दीपनां च ।

कुर्वाणैणां प्रणयविकलां व्याकुलां तृष्णयाद्धा

तामानेतुं त्वरय ललितां मद्गिरा त्वं धनिष्ठे ॥३९३॥

स्थापयैकां सखीं वृन्दे गोदिगध्वन्यसौ यथा ।

मामन्वेष्टुं सखा कश्चिदागच्छेत्तं प्रतारयेत॥३९४॥

गौरीतीर्थाध्वनि परां दक्षां स्थापय सा यथा ।

पुनरायाति शैब्या चेदन्या वा तां च वञ्चयेत॥३९५॥

पक्वरम्भाफले मग्नदृष्टिलोलं बटुं हरिः ।

वीक्ष्याह वृन्दामनयोः फलैस्त्वं पूरयोदरम् ॥३९६॥

बटुराहानया किं मे त्वमाज्ञापय मां सखे ।

दृष्ट्वा दृष्ट्वा यथावाञ्छं खादंस्तृप्यामि लोलुपः ॥३९७॥

तत्र तत्र प्रहितयोः सख्योर्निपुणयोस्तया ।

कृष्णोऽप्युत्कण्ठितोऽतिष्ठत्प्रियाध्वनिहितेक्षणः ॥३९८॥

स्मितकमलमुखी सा यावदायाति तावत्

जलधिशतगभीरोऽप्यस्तधैर्यः स मेने ।

क्षणमपि युगलक्षं हन्त यत्तन्न चित्रं

प्रणयिनि सहजेयं प्रेमभाजां हि चेष्टा ॥३९९॥

इति श्रीभावनासारसङ्ग्रहे पूर्वाह्नलीलास्वादनानुमोदनो नाम

तृतीयः सङ्ग्रहः

॥३॥

श्रीश्रीभावसारसङ्ग्रहः (ईई)

(४)

अथ मध्याह्नलीला

सहालिश्रीराधासहितहरिलीलां बहुविधां

स्मरन्मध्याह्नीयां पुलकिततनुर्गद्गदवचाः ।

ब्रुवन्व्यक्तं तां च स्वजनगणमध्येऽनुकुरुते

शचीसूनुर्यस्तं भज मनस्त्वं बत सदा ॥१॥

गोविन्दलीलामृत ८.१८—

मध्याह्नेऽन्योन्यसङ्गोदितविविधविकारादिभूषाप्रमुग्धौ

वाम्योत्कण्ठातिलोलौ स्मरमखललिताद्यालिनर्माप्तशातौ ।

दोलारण्याम्बुवंशीहृतिरतिमधुपानार्कपूजादिलीलौ

राधाकृष्णौ सतृष्णौ परिजनघटया सेव्यमानौ स्मरामि ॥२॥

अथात्र घोषेश्वरनन्दनप्रिया

पृथक्पृथक्सा युगपन्निजेन्द्रियैः ।

आकृष्टचित्ता प्रियसङ्गमौत्सुकैः

स्वं सान्त्वयन्तीमवदद्विशाखिकाम् ॥३॥

सौन्दर्यामृतसिन्धुभङ्गललनाचित्ताद्रिसम्प्लावकः

कर्णानन्दिसनर्मरम्यवचनः कोटीन्दुशीताङ्गकः ।

सौरभ्यामृतसम्प्लवावृतजगत्पीयूषरम्याधरः

श्रीगोपेन्द्रसुतः स कर्षति बलात्पञ्चेन्द्रियाण्यालि मे ॥४॥

नवाम्बुदलसद्द्युतिर्नवतडिन्मनोज्ञाम्बरः

सुचित्रमुरलीस्फुरच्छरदमन्दचन्द्राननः ।

मयूरदलभूषितः सुभगतारहारप्रभः

स मे मदनमोहनः सखि तनोति नेत्रस्पृहाम् ॥५॥

नदज्जलदनिस्वनः श्रवणकर्षिसच्छिञ्जितः

सनर्मरससूचकाक्षरपदार्थभङ्ग्युक्तिकः ।

रमादिकवराङ्गनाहृदयहारिवंशीकलः

स मे मदनमोहनः सखि तनोति कर्णस्पृहाम् ॥६॥

कुरङ्गमदजिद्वपुःपरिमलोर्मिकृष्टाङ्गनः

स्वकाङ्गनलिनाष्टके शशियुताब्जगन्धप्रथः ।

मदेन्दुवरचन्दनागुरुसुगन्धिचर्चार्चितः

स मे मदनमोहनः सखि तनोति नासास्पृहाम् ॥७॥

हरिन्मणिकवाटिकाप्रततहारिवक्षःस्थलः

स्मरार्ततरुणीमनःकलुषहारिदोरर्गलः ।

सुधांशुहरिचन्दनोत्पलसिताभ्रशीताङ्गकः

स मे मदनमोहनः सखि तनोति वक्षःस्पृहाम् ॥८॥

व्रजातुलकुलाङ्गनेतररसालितृष्णाहर

प्रदीव्यदधरामृतः सुकृतिलभ्यफेलालवः ।

सुधाजिदहिवल्लिकासुदलवीटिकाचर्वितः

स मे मदनमोहनः सखि तनोति जिह्वास्पृहाम् ॥९॥

सङ्ग्रहकर्तुः—

एवं गदन्त्यां स्वमनोऽभिलाषं

स्वेदाश्रुकम्पादिकरं महान्तम् ।

कृष्णे गताया हि तथा तुलस्या

वीथीं च तस्यामवलोकयन्त्याम् ॥१०॥

कृष्णभावनामृत ८.३४—

प्राहिनोन्मुरलिकां स्वदूतिकाम्

अच्युतः श्रुतियुगे विधृत्य या ।

प्रेयसीं निजकलेन लम्भयेत्

कण्ठमस्य कनकस्रजं यथा ॥११॥

अलङ्कारकौस्तुभ ८.७२, चैतन्यचन्द्रोदयनाटकं ३.३३—

मधुरिमरसवापीमत्तहंसी प्रजल्पः

प्रणयकुसुमवाटीभृङ्गसङ्गीतघोषः ।

सुरतसमरभेरीभाङ्कृतिः पूतनारेर्

जयति हृदयदंशी कोऽपि वंशीनिनादः ॥१२॥

आनन्दवृन्दावनचम्पू १७.५०—

स हरिमुरलिकाया निःस्वनोऽभूद्वधूनां

श्रवणविधचारी मन्मथोन्माथकारी ।

अविकलकुलशीलाचारचर्याभिचारो

धृतिविघटनतन्त्रः कोऽपि मन्त्रः स्वतन्त्रः ॥१३॥

(अज्ञातस्य)—

विषायमाणं मधुरं तथोग्रं

वाञ्छापकं सा च निशम्य वंश्याः ।

नादं विनिन्द्यापि प्रशस्य तां तं

सखीसमूहं पुनराह राधा ॥१४॥

विदग्धमाधवः १.३५—

अजडः कम्पसम्पादी शास्त्रादन्यो निकृन्तनः ।

तापनोऽनुष्णताधारी को वायं मुरलीरवः ॥१५॥

विदग्धमाधवः ६.१२—

सूतिस्ते धनुषश्च वंशवरतो वन्दे तयोरन्तिमं

विद्धे येन जनस्तनुं विहरयन्नान्तश्चिरं ताम्यति ।

विद्धानां हृदि मारपत्रिविषमैर्ध्वानेषुभिर्नस्त्वया

क्रूरे वंशी न जीवनं न च मृतिर्घोराविरासीद्दशा ॥१६॥

आनन्दवृन्दावनचम्पू ११.३४३६—

सरन्ध्रा नीरन्ध्रा भवति मुखरागैर्मधुपतेः

कठोरा सारस्यं गमयति कठोरान्तरमपि

अतूष्णीकां तूष्णीकयति मृगपक्षिप्रभृतिकं

स्वयं वंशे जाता विकलयति सद्वंशजवधूः ॥१७॥

स्वयं शून्याप्यन्तर्बहु वहति रागव्यतिकरं

दधात्येकं पर्व प्रकटयति पर्वाणि शतशः ।

कलान्धत्ते रम्यान्विकलयति जगदहो

मुरारेर्वंशीयं जडयति समुल्लासयति च ॥१८॥

कलोऽप्यस्याः विलसति विसारी त्रिभुवने

विशत्यन्तः श्रोत्रं सकलतनुपीडां रचयति ।

रसं नानाकारं सहजमधुरोऽप्येष तनुते

कदाचित्पीयूषं वितरति कदाचिद्विषमपि ॥१९॥

बृहद्भागवतामृत २.६.४८—

न जाने सा वंश्युद्गिरति गरलं वामृतरसं

न जाने तन्नादोऽप्यशणिपरुषो वाम्बुमृदुलः ।

न जाने चात्युष्णो ज्वलितदहनाद्वेन्दुशिशिरो

यतो जातोन्मादा मुमुहुरखिलास्ते व्रजजनाः ॥२०॥

आनन्दवृन्दावनचम्पू ११.३२३३—

बिम्बाधरारुणकराङ्गुलिकान्तिपूरैः

पूर्णोदरान्तविवरेण बहिः सरद्भिः ।

सा मालवश्रियमिव प्रतिलङ्घ्य कामं

रागावलीं तनुमतीं वमतीव वंशी ॥२१॥

स्फुरताधरपल्लवेन मन्दं

विकसद्भिर्दशनांशुभिः स्मितेन ।

रमणीमुखसौभगं प्रपेदे

मुरलीरन्ध्रमनेन चुम्ब्यमानम् ॥२२॥

आनन्दवृन्दावनचम्पू ११.३७—

अम्भः स्तम्भयति द्रुतं द्रवयति द्रागद्रिमद्रिं द्रवन्

शुष्कानप्यवनीरुहः किसलयत्यामूलमुन्मूलितान।

ब्रह्मानन्दलयं गतानपि मुनीनुच्चैः समुच्चाटयत्य्

आश्चर्यस्य निधानमेष जयति श्रीकृष्णवेणुध्वनिः ॥२३॥

आनन्दवृन्दावनचम्पू ११.४०६२—

धन्या धयन्ति मुखपङ्कजमस्य दृग्भ्यां

चुम्बन्ति तत्किमपि धन्यतरास्त एके ।

ते नाम के मुरलिकापरिपीतशेषं

येऽस्याधरं सुमुखि धन्यतमाः पिबन्ति ॥२४॥

धन्यासि भो मुरलि यत्परिपीयमाना

श्यामेन तद्दशनचन्द्रिकयासि दिग्धा ।

स्निग्धा सती मणितवत्कलकूजितानि

सन्तन्वती भुवनमुत्तरलीकरोषि ॥२५॥

आपच्यमानदरदाडिमबीजराजि

राजीवमध्यमपि चेदुररीकरोति ।

इन्दुदरं विशति चेत्कुरुविन्दपङ्क्तिर्

दन्तावलिः किल तदस्य तुलां बिभर्ति ॥२६॥

अत्यन्तसाहसवती मुरली यदेषा

कृष्णाधरं पिबति यं परकीयपेयः ।

किं सौभगं तदनयातनि येन रत्नं

यत्नं विनापि पुरतः स्वयमेति यस्याः ॥२७॥

यत्पीतशेषरसशीकरसम्प्रयोगान्

नद्यः प्रफुल्लकमलावलिलोमहर्षाः ।

स्तभ्नन्ति रुद्धतरसस्तरवः प्रसून

माध्वीकलोचनजलाः परितो रुवन्ति ॥२८॥

धन्या जयत्यपि मही महिता महिम्ना

कृष्णस्य यच्चरणचिह्नविचित्रवक्षाः ।

वंशीरवामृतरसैः सरसान्तरेव

याजस्रमेव यवसाङ्कुररोमहर्षा ॥२९॥

वृन्दावनस्य महिमा न हि मादृशीनां

गम्यो यदत्र मुरभिन्मुरलीरवेण ।

स्वान्तं बिलास्य मृदुलास्यमयुर्मयूराः

स्पन्दं जहुस्तरुलता मरुता हताश्च ॥३०॥

किं दुश्चरं चरितमालि तपो मृगीभिः

पश्यन्ति याः समुरलीकलमास्यमस्य ।

अक्ष्णोः प्रकामकमनीयगुणत्वमेषां

सा साम्प्रतं भवति सम्प्रति सम्प्रतीहि ॥३१॥

सौभाग्यभागियमहो सखि कृष्णसारी

सारीकरोति नयने सहकृष्णसारा ।

वंशीनिनादमकरन्दभरं दधानं

कृष्णास्यपङ्कजमशाङ्कितमापिबन्ती ॥३२॥

धन्या विमानवनिता जनितानुरागा

द्रागात्तगाढरतिभिः पतिभिः परीताः ।

लीलाकलक्वणितवेणुमवेक्ष्य कृष्णं

धैर्यादथावरुरुहुर्मुमुहुर्मुहुश्च ॥३३॥

विस्रंसमानचिकुराः श्लथमाननीव्यो

देव्यो धृतिव्यसनतो निखिला दिवीव ।

आरिप्स्यमानममरद्रुमपुष्पवर्षं

विस्मृत्य हन्त ववृषुर्नयनाम्भ एव ॥३४॥

अर्धावलीढयवसाङ्कुरशोभिदन्ताः

सोत्कण्ठमुन्मिषितनेत्रमुदीर्णकर्णम् ।

चित्रार्पिता इव पतन्तमिवामृतौघं

वेणुध्वनिं श्रुतिपुटे गमयन्ति गावः ॥३५॥

चूषन्ति चूचुकमहो न न सन्त्यजन्ति

वत्सा नयन्ति न पयःकवलं गलाधः ।

वंशीकलाहृतहृदां सखि नैचिकीनां

स्नेहस्नुतस्तनरसो धरयैव पीतः ॥३६॥

वंशीकलं कलयतोऽस्य निपीय दृग्भ्यां

रूपामृतं पुनरमुष्य रसानुभूत्या ।

ध्यायन्ति मीलितदृशः सखि बद्धमौनं

बद्धासनं मुनय एव पतत्त्रिणोऽमी ॥३७॥

न स्पन्दते सखि न रौति न वीक्षतेऽन्यन्

नान्यच्छृणोति न जिघत्सति पक्षिसङ्घः ।

रोमाञ्चवानिव मुदा गरुतं धुनानो

वंशीकलास्वदनमेव परं करोति ॥३८॥

स्रस्ते रथाङ्गकलहंषविचित्रचेले

प्रव्यक्तसैकतनितम्बमुदीर्णफेनम् ।

आवर्तवर्तितघनभ्रमिभिः समीयेऽ

पस्मार एव मुरलीनिनदैर्नदीभिः ॥३९॥

वीचीकरैः सरसिजाञ्जलिमर्पयन्त्यः

कृष्णाङ्घ्रिपङ्कजयुगं बहुमानयन्त्यः ।

सच्छीकरैः शिशिरयन्ति रसेन वंशी

नादप्रहृष्टमनसःसखि शवलिन्यः ॥४०॥

आच्छादयन्शरदशीतकरस्य तापं

छत्रायितः स्ववपुषायमचेतनोऽपि ।

संसर्पति प्रतिपथं परितः प्रसर्पन्

मैत्रीं विभावयन्ति मेघरुचीह मेघः ॥४१॥

कर्पूरपूरपरमाणुसमेन वारां

शीतेन शीकरभरेण विसारिणां यः ।

गोचारणश्रममपाकुरुतेऽनुगायन्

वंशीममुष्य घन एव निसर्गबन्धुः ॥४२॥

स्निग्धेषु शाद्वलतलेषु पदारविन्द

स्यन्दीनि वल्लभतमाकुचकुङ्कुमानि ।

वक्षुरुहेषु च मुखेषु च रूषयन्त्यो

धन्याः पुलिन्दसुदृशः सुरसा भवन्ति ॥४३॥

हन्ताधिकार्यनधिकारितया न भेदः

सर्वाभिलाषसदने मधुरिम्णि तस्य ।

युक्तं पुलिन्दसुदृशो यदिहानुरक्ता

रागस्य च प्रकटने ह्ययमेव मार्गः ॥४४॥

यः कन्दकन्दरपयःफलधातुरागैः

क्रीडोपयोगिभिरसौ भजतेऽनुवेलम् ।

गोवर्धनो गिरिवरः स हि माघवस्य

लीलासखश्च सखि भागवतोत्तमश्च ॥४५॥

यस्याश्रमं कृतवतां सखि बद्धतृष्णः

कृष्णस्तनोत्यभिमतं मतमेतदेव ।

श्रेयः सिसाधयिषवो न विना सहायं

योग्याश्च तद्घटयितुं कुशला भवन्ति ॥४६॥

सङ्ग्रहकर्तुः—

इत्थमेव मुरलीस्वनामृतं

वर्णनेन सुरभीकृतं मुहुः ।

कर्णचारुचषकान्तराहितं

ता मिथोऽपि परिवेशितं पपुः ॥४७॥

गोविन्दलीलामृत ८.९३८—

अथागत्य सा तुलसी सभां तां

गुञ्जावलीं गन्धफलीयुगं च ।

निवेदयन्ती ललिताकराब्जे

वृत्तं समस्तं मुदिता शशंसे ॥४८॥

श्रवसोरवतंसकद्वयीं

हृदि गुञ्जास्रजमप्यमुं शुभाम् ।

हरिसङ्गसमृद्धसौरभां

प्रियसख्या ललिता मुदा दधे ॥४९॥

तत्स्पर्शतः फुल्लसरोजनेत्रा

कृष्णाङ्गसंस्पर्शमिवानुभूय ।

कम्पाकुला कण्टकिताङ्गयष्ठिर्

उत्कापि गन्तुं स्थगिता तदासीत॥५०॥

धीरतावामतासूक्ष्ममेधालीभिः प्रबोधिता ।

त्वरयन्ती सखीर्याने भङ्ग्या परिजहास सा ॥५१॥

पश्यताग्रे दिदृक्सा चेद्गत्वालं मदपेक्षया ।

शैब्या वाग्वागुराबद्धं कृष्णसारं मृगेक्षणाः ॥५२॥

विधेयः पद्मिनीनां वः प्रयत्नः कृष्णपद्मिनः ।

चन्द्रावलीसखीवारीपतितस्य समुद्धृतौ ॥५३॥

न हठात्क्रियते सुपण्डितैर्

अविचारात्कृतमप्यनर्थकम् ।

सुविचार्य कृतं हि कल्पते

सुधियां साधु फलोपपत्तये ॥५४॥

ललिताह सत्यमेतद्यन्न सङ्केतगो हरिः ।

किन्तु शैब्यादिभिर्वीतस्तद्यानं मानहानये ॥५५॥

अथेशा कृष्णसङ्गाशोत्कलिकाव्याकुलान्तरा ।

तस्या दुर्लभतास्फूर्त्या मनस्येतदचिन्तयत॥५६॥

ननान्दा विद्वेष्टि पतिरतिकटुः सापि कुटिला

धवाम्बा मे पद्माप्रभृतिरिपुपक्षश्च बलवान।

वनं व्याप्तं सर्वं व्रजधनजनैरह्नि सखिभिर्

वृतः कृष्णो लभ्यः कथमिह भवेद्विघ्नबहुले ॥५७॥

निष्प्रत्यूहं हरेः सङ्गो दुर्लभो मेऽद्य दुर्विधेः ।

इत्याकुलधियस्तस्याः शुभासीच्छकुनोन्नतिः ॥५८॥

सुलभो वृषभः स गिरौ कमपि

प्रसभं गणको बहिरित्यवदत।

निजवामकुचोरुभुजानयनं

प्रियसङ्गतयेऽस्फुरदाशु समम् ॥५९॥

भविकशकुनजातामोदपूर्णापि गाढ

प्रणयविसरजासम्भावनालीनचित्ता ।

हृदयदयितवार्ताप्राप्तितृष्णास्रवन्त्या

सममहह धनिष्ठामागतां सा ददर्श ॥६०॥

स्वमिलनमुदितां तां वीक्ष्य राधा धनिष्ठां

हृदयदयितपादैः प्रेषितां मन्यमाना ।

उदितविविधभावव्याकुलाप्यस्य वार्ता

श्रवणकुतुकदिग्धा व्याजतस्तामपृच्छत॥६१॥

कुत इह सखि वृन्दारण्यतो माधवश्रीः

कथय किमनुभूता लोकिता गोत्रवर्यः ।

व्रज धनजनपाता सङ्गतश्चेक्षितोऽसौ

कथयतु भवती सा कीदृशी वा स कीदृक॥६२॥

विकसितवनमालाकृष्टपुष्टालिवृन्दा

विकचतिलकलक्ष्मीः कोकिलालापरम्या ।

हृदि युवतिजनानां काममुद्दीपयन्ती

स्फुरति सखि विशाला माधुरी माधवस्य ॥६३॥

विविधोत्कलिकाकीर्णां दर्शनात्स्मरवर्धिनीम् ।

माधवीयामवस्थां कः सखि वर्णयितुं क्षमः ॥६४॥

धरोद्धर्ता धातूच्चयरचितचित्रावयववान्

ध्वनद्वेणुर्धेनुव्रजजलदभीतिव्रजहरः ।

वयःक्रीडोन्मीलः सकलसुरभीवर्धनकृती

विरावोच्चैः शृङ्गो लसति सखि गोवर्धनधरः ॥६५॥

तद्वाग्भङ्गीमधुलीनां पानोन्मत्तहृदप्यसौ ।

कान्तोदन्तं स्फुटं श्रोतुं संवादमनयाकरोत॥६६॥

यानं क्व ते सम्प्रति ते समीपे

किमर्थमावेदयितुं प्रवृत्तिम् ।

कस्य व्रजेन्दोः सखि कीदृशी सा

स्वशत्रुकन्दर्पतमोऽभिभूतिः ॥६७॥

छायाद्वितीयोऽयमसौ सहायी

निरायुधोऽयं स च शस्त्रपूर्णः ।

स्वरूपसम्पज्जयजातरोषस्

तं बाधतेऽसौ स्वमधौ समृद्धः ॥६८॥

समाच्छन्नं कुर्वन्नुपरि कुसुमैः स्वैरिव शरैः

समन्तात्सामन्तैरलिपिकवसन्तानिलमुखैः ।

भवत्कुण्डारण्यं न्यरुणदिह कृष्णं रतिपतिर्

बहिःस्थानीकिन्या इव स तव सङ्गं स्पृहयति ॥६९॥

बहुधा कृतरक्षणं प्रियं

पतितं दैवबलेन सङ्कटे ।

तव सङ्गतिमात्रतारणे

त्वरितं त्राहि न चेत्कृतघ्नता ॥७०॥

त्वत्सङ्गत्या यदा भाति तदा मदनमोहनः ।

अन्यत्र विश्वमोहोऽपि स्वयं मदनमोहितः ॥७१॥

धृतानल्पाकल्पः कृतकुसुमतल्पो हृदि बलत्विकल्पः

सङ्कल्पान्विदधदिह जल्पंस्तव कथाम् ।

स शूरोऽपि क्रूरातनुकदनदूरोज्झितधृतिर्

हरिः कुञ्जे गुञ्जन्मधुपपिकपुञ्जे निवसति ॥७२॥

नवीनजलदद्युतिः कनकपीतपट्टाम्बरः

स्फुरन्मकरकुण्डलो घुसृणचारुचर्चाञ्चितः ।

प्रफुल्लकमलेक्षणः कनकयूथिकामाल्यवान्

शिखण्डकृतशेखरः स्फुरति साध्वि कुञ्जे हरिः ॥७३॥

श्रीतारुण्यमहामृताब्धिविलसत्सौन्दर्यपाथःस्फुरल्

लावण्योच्चतरङ्गभङ्गिविलसत्कन्दर्पभावभ्रमे ।

श्रीवंशीध्वनिवात्ययोत्थितपतद्योषाक्षिचेतस्तृणस्

तन्वानाशु निमज्जयन्नपि हरिस्त्वद्वीथिमुद्वीक्स्यते ॥७४॥

बकभिदि सुविदग्धे स्वां सुवैदग्ध्य

धारां नवतरुणिमपूर्णे नव्यतारुण्यलक्ष्मीम् ।

शशिमुखि रतितृष्णामप्यमुष्मिन्सतृष्णे

सफलय वरवेशे वेशभङ्गीं समर्प्य ॥७५॥

प्रेमोद्भ्रान्तं द्रुतस्वान्तं स्मराक्रान्तं त्वदाश्रितम् ।

मूर्च्छान्तां क्लान्तिमायान्तं कान्तं कान्ते द्रुतं व्रज ॥७६॥

इति सखीवचनामृतपानज

प्रकटभावचयाचितविग्रहा ।

अतिशयोत्सुकताजडताकुला

द्रुतविलम्बितयानमतिर्बभौ ॥७७॥

कृष्णभावनामृत ८.३७—

काननाभिसारणोचितांशुक

कल्पवेशपरिधापनोन्मुखीः ।

सा सखीरपि विलम्ब शङ्कयाक्षिप्य

वेषमकृत स्वयं तनोः ॥७८॥

अलङ्कारकौस्तुभः ५.१२३—

अधात्काञ्चीं कण्ठे जघनभुवि हारं चरणयोः

कृशाङ्गी केयूरं भुजलतिकयोर्नूपुरयुगम् ।

किमङ्गैरन्योन्यं मधुमथनमङ्गोत्सवविधौ

प्रमादो व्यातेने प्रणयपिशुनः स्वस्वविभवैः ॥७९॥

कृष्णभावनामृत ८.३८४०—

गोस्तनाख्य मणिहार वेष्टनैर्

द्राङ्नितम्बमकरोदलङ्कृतम् ।

कण्ठमन्वधित किङ्किणीं स्रजं

मूर्ध्निं वेणि शिखरे ललाटिकाम् ॥८०॥

लोचने मृगमदद्रवाञ्जित

भालमञ्जनविशेषकार्चिताम् ।

हन्त यावकरसेन निर्ममे

स्थासकं तनुमनूदिताम्बर ॥८१॥

नीलमञ्जुलनिचोलसंवृत

माधुरीव निरगात्पुराद्बहिः ।

कौमुदीव घनतां गता क्षितौ

किं घनेन निहितात्मनोऽन्तरे ॥८२॥

गोविन्दलीलामृत ३९४१—

ततस्तदैवागतकुन्दवल्ल्याः

स्वस्य प्रयाणाय कृतत्वरायाः ।

सा सव्यहस्तेन करं दधाना

परेण लीलाकमलं चचाल ॥८३॥

पुरतस्तुलसी धनिष्ठया सविशाखा ललिता च पार्श्वतः ।

परितश्च सखीततिः परा स्वसखीं तां परिवार्य सान्वयात॥८४॥

स्वसमसहचरीभिः कृष्णराधाङ्घ्रि

सेवोपकरणवलिताभिर्दासिकाभ्यां च युक्ता ।

अनुसरति युताभ्यां सूर्यपूजोपचारैः

प्रणयसहचरी तां मञ्जरी रूपपूर्वा ॥८५॥

कृष्णभावनामृत ८.४१—

आलीभिः सह पुरोपकानन

प्रान्तवर्त्मनिहिताङ्घ्रिपल्लवा ।

ह्रीक्षपाक्षयवशादवगुण्ठनोन्

मुक्तमास्य कमलं दधे स्फुटम् ॥८६॥

गोविन्दलीलामृत ८.४२४४—

व्रजाद्विनिष्क्रम्य ददर्श सा पुरः

सुमङ्गलां स्त्रीं दधिपात्रधारिणीम् ।

चाषं द्विजातिं नकुलं मृगावलीं धेनुं

सवत्सं वृषभं च दक्षिणे ॥८७॥

सरसि विकचपद्मे वेष्टिते भृङ्गपङ्क्त्या

मदिरयुगलमुद्यल्लास्यमालोक्य बाला ।

प्रचलदलकपाली सङ्गिरिङ्गत्सुनेत्र

स्वरमणमुखबिम्बभ्रान्तिभाक्स्तम्भितासीत॥८८॥

इति शुभशकुनेक्षोद्भूतमुन्मन्थराणां

विविधकुटिलहास्योल्लासमातन्वतीनाम् ।

प्रणयसहचरीणां श्रेणिभिः पूर्णपार्श्वा

मदगजगुरुयाना काननाभ्यर्णमाप ॥८९॥

जगन्नाथवल्लभनाटक १.३७

केलिविपिनं प्रविशति राधा ।

प्रतिपदसमुदितमनसिजबाधा ॥ ध्रुवम् ॥

विनिदधती मृदुमन्थरपादम् ।

रचयति कुञ्जरगतिमनुवादम् ॥

जनयतु रुद्रगजाधिपमुदितम् ।

रामानन्दरायकविगदितम् ॥९०॥

गोविन्दलीलामृत ८.४५४८—

इयमथ तरुवल्लीवृन्दमुत्फुल्लयन्ती

मदकलकलकण्ठीकाकलीकण्ठनादा ।

मधुकरकलविङ्कीझङ्कृतोच्छिञ्जितोर्मिर्

वनमनु वनजाक्षी माधवश्रीर्विवेश ॥९१॥

फुल्लश्यामलतोज्ज्वलं सुतिलकश्रीयुक्विशालार्जुन

प्रोत्फुल्लोच्चहलिप्रियं शिखिदलश्रेणीभिराभूषितम् ।

पुन्नागामलचम्पकालिकृतमालालङ्कृतं पल्लवैर्

दीव्यत्काञ्चनविद्रुमादिवलितं तापिञ्छकान्त्युल्लसत॥९२॥

गुञ्जापुञ्जविराजितं श्रमहरच्छायाकदम्बाश्रयं

वेणुध्वानमनोहरं प्रविलसच्छ्रीपीतनाचर्चितम् ।

फुल्लन्मन्मथशङ्कुलं वरवयः शोभाविलासास्पदं

सापश्यत्पुरतो वनं वपुरिव प्रेष्ठस्य सर्वेष्टदम् ॥९३॥ (युग्मकम्)

पतति नयनमस्या यत्र यत्रात्र वस्तुन्य्

अखिलमिदमघारेस्तत्तदङ्गायमानम् ।

मदयदपि हृदन्तः शस्त्रतामेत्य सद्यः

प्रहरति विषमेषोश्चित्रमेतच्च तच्च ॥९४॥

वनस्य कान्तसादृश्यं पश्यन्तीं विहस्तां तां वयस्याह (चैतन्यचन्द्रोदय १.३५)—

हसन्ती वासन्ती वलितमुकुलो बालबकुलो

विशोकश्चाशोकः सुलभविचयश्चम्पकचयः ।

अनागः पुन्नागस्तवककमनः पश्य सुमनः

कुटीरः पाटीरश्वसनसुरभिर्भाति सुरभिः ॥९५॥

अथ कान्तस्य चरणचिह्नैरङ्कितां वनस्थलीं पश्यन्ती सा विशाखामाह (दानकेलिकौमुद्यां १३)—

पदततिभिरलङ्कृतोज्ज्वलेयं

ध्वजकुलिशाङ्कुशपङ्कजाङ्किताभिः ।

नखरलुठितकुट्मलावनाली

किमपि धिनोति धुनोति चान्तरं मे ॥९६॥

गोविन्दलीलामृत ८.५२७१—

यूथेश्वरीभिः ससखीकुलाभिर्

अन्विष्यमाणो वनगह्वरेषु ।

कथं न लभ्यो निपुणाभिरेताः

प्राप्ताः कथं हास्यति वा स लुब्धः ॥९७॥

इति निजहृदि राधासन्दिहानाप्यसव्ये

वनमनु विलसन्तं कृष्णसारं मृगीभिः ।

शिखिवरमपि सव्ये केकिनीभिः समीक्ष्य

प्रियमृगशिखिबुद्ध्या भ्रान्तितः शङ्कितासीत॥९८॥ (युग्मकम्)

तमालमष्टापदबद्धमूलं

सा वेष्टितं फुल्लसुवर्णयूथ्या ।

शाखाग्रनृत्यच्छिखिनं समीक्ष्य

निर्णीतचेता विचिकित्सिताभूत॥९९॥

प्रेमेर्ष्याभुजगी दष्टा नष्टपण्डा प्रचण्डधीः ।

चण्डीशचण्डकोदण्डभ्रूदण्डाह धनिष्ठिकम् ॥१००॥

किमिदमयि धनिष्ठे कुत्र किं पश्यताग्रे

वनमिदमिह किं तत्वन्यजातं न चान्यत।

नटनमिदमपूर्वं यच्छठेन्दोः पुरस्तात्

कलयसि न हि धूर्ते मुद्रिताक्षी किमासीः ॥१०१॥

ललिताप्रभृतीरथावदत्

प्रियसख्योऽद्भुतमत्र शर्मदम् ।

युगपन्नटनं शठेशयोर्

नटनट्योरनयोर्नु पश्यत ॥१०२॥

निजवाङ्मधुना विमोहिका

स्ववशीकृत्य भृशं धनिष्ठिका ।

हरिणा निजधार्ष्ट्यनर्तने

विहितासौ बत कूटनर्तकी ॥१०३॥

रतहिण्डकहिण्डितासकौ

छलदूत्याभिधनृत्यपण्डिता ।

नयतीह विधातुमुत्सुका

शठनृत्ये भवतीः सभासदः ॥१०४॥

कलयत स सुरङ्गाख्योऽपि जात्या कुरङ्गः

प्रणयसहचरीं स्वां रङ्गिणीं वञ्चयित्वा ।

विलसति हरिणीभिर्मां विलोक्याप्यमुञ्चन्

ननु हरिशठतास्मिन्सङ्गतः संससर्ज्ज ॥१०५॥

मत्सङ्गिनीं प्रणयिणीं दयितां मयूरीं

वीक्ष्यापि सम्मुखगतां बत केकिनीभिः ।

निःशङ्कमुल्लसति ताण्डविकः कलापी

सङ्गेन धार्ष्ट्यमिह सङ्क्रमितं बकारेः ॥१०६॥

अथावदत्स्मेरमुखी धनिष्ठा

त्वयैव सर्वा निजचित्रनृत्ये ।

वयं कृताः साध्वि सभासदोऽस्मिन्

प्रीताः स्म दृष्ट्वा यददृष्टपूर्वम् ॥१०७॥

दुर्लभे सुलभे चार्थे यत्रासक्तिस्तु रागजा ।

तत्र नित्यं रागभाजां प्रत्यूहशङ्किनी मतिः ॥१०८॥

आगच्छताल्योऽद्भुतनृत्यम्

एतत्कृष्णाय तूर्णं विनिवेदयामः ।

स्निह्यत्यमुष्यां स यथा विलासी

गुणिन्यलं रज्यति यद्गुणज्ञः ॥१०९॥

अथ सा स्मित संवृताननं

स्वसखीवृन्दमवेक्ष्य विस्मिता ।

पुनरप्यवलोकनाल्पता

तरुसङ्गं त्ववधार्य लज्जिता ॥११०॥

इत्थं माधवसङ्गरङ्गविकसद्वृन्दावनालोकनात्

तां कृष्णाद्भुतमाधुरीवरसुधापानातितृष्णाकुलाम् ।

प्रेमोन्मादविघूर्णितान्तरतया नानाभ्रमव्याकुलां

तत्कृष्णाप्तिसमुत्सुका विजहसुः सख्यश्चलन्त्यो द्रुतम् ॥१११॥

मदनरणबाटिकाख्यप्रियकेलिकुसुमवनस्य मध्ये ।

सा कुञ्जस्थितरविमूर्तेः सविधं समुपस्थिताकस्मात॥११२॥

प्रणम्य तां भक्तिभरेन

तन्वी बद्धाञ्जलिर्वल्गुवरं ययाचे ।

निर्विघ्नगोविन्दपदारविन्द

सङ्गोऽस्तु मे देव भवत्प्रसादात॥११३॥

प्रतिमाफुल्लदृग्वक्त्रप्रसादोत्फुल्लमानसा ।

पुनस्तां प्रणिपत्येयं सखीभिः सह निर्गता ॥११४॥

श्रीसूर्यपूजासम्भारसहिते परिचारिके ।

स्थिते तत्रैव तद्वाटीदेवीभिर्ललिताज्ञया ॥११५॥

दिशि दिशि विसरन्तीं श्रीमदङ्गान्मुरारेर्

मृगमदपरिलिप्तेन्दीवराणामिवोच्चैः ।

पथि परिमलधारां प्राप्य राधोन्मदिष्णुः

सपदि तमनु भृङ्गीवोत्पतिष्णुस्तदासीत॥११६॥

कान्ताङ्गगन्धं प्राप्योल्लासेन साह (उज्ज्वलनीलमणि ११.६८)—

मिलति परिमलोर्मिः कस्य रोमश्रियासौ

मम तनुलतिकायां कुर्वती कुड्मलानि ।

सखि विदितमिहाग्रे माधवः प्रादुरासीद्

भुवि सुरभितया यः ख्यातिमङ्गीकरोति ॥११७॥

सङ्ग्रहकर्तुः—

किं वा तपः कृतमहो ननु गन्धवाह

भ्रातस्त्वया क्व वसता वरतीर्थराजे ।

यद्गोकुलेन्दुर्पदयोः सततं सुखेन

स्पर्शं निजाङ्गनिकरैः कुरुषे मनोज्ञैः ॥११८॥

गोविन्दलीलामृत ८.७२७३—

कृष्णः कान्तातनुसुरधुनीसौरभोच्छामृतोर्मि

धारामाराद्विपिनवलयं प्लावयन्तीमकस्मात।

काश्मीराक्ताम्बुजपरिमलोल्लङ्घिनीं घ्राणपूर्णाम्

आघ्रायासीत्पुलकजटिलो भृङ्गवत्प्रोत्पतिष्णुः ॥११९॥

परिमलमिलनान्मिलितां वनमनुदयितां दवीयसीं मत्वा ।

हरिणा प्रहिता वृन्दा तामानेतुं समुत्सुकेन ॥१२०॥

पाथि व्रजन्त्या वृन्दाया मानसविचारोऽयं (दानकेलिकौमुदी १२)—

राधाया मुखमण्डलेन बलिना चन्द्रस्य पद्मस्य वा

व्याक्षिप्ता सुषमेति केयमबुधैः श्लाघा विनिर्मीयते ।

यद्दूरेऽप्यनुभूय भूयसि सुधा शुद्धापि चन्द्रावली

पद्माली च विसृज्य शीर्यति निजां सौन्दर्यदर्पश्रियम् ॥१२१॥

गोविन्दलीलामृतं ८.७४७७—

कुञ्जे नवाख्यमथ कुञ्जनृपस्य धाम

प्राप्ता ददर्श मिलितां स्वगतिप्रवृत्त्यै ।

राधोत्सुकेन हरिणा प्रहितां हि वृन्दां

स्वाभीष्टसिद्धिमिव मूर्तिमतीं पुरः सा ॥१२२॥

कृष्णोत्तंसचरं तस्यै वृन्दापीन्दीवरद्वयं

तदङ्गसङ्गगन्धान्धी कृतपुष्पन्धयं ददौ ॥१२३॥

तत्स्पर्शसौरभ्यमवाप्य कृष्णो

पस्पर्श गन्धानुभवेन मत्ता ।

समुद्भवद्भावपिधानयत्ता

संवादमुत्काशु तया व्यधत्त ॥१२४॥

कस्माद्वृन्दे प्रियसखि हरेः पादमूलात्कुतोऽसौ

कुण्डारण्ये किमिह कुरुते नृत्यशिक्षां गुरुः कः ।

तं त्वन्मूर्तिः प्रतितरुलतं दिग्विदिक्षु स्फुरन्ती

शैलूषीव भ्रमति परितो नर्तयन्ती स्वपश्चात॥१२५॥

मृषाभाषिणि ! एवं मा वदेति राधावाक्यानन्तरं वृन्दाह (उज्ज्वलनीलमणि १.२७)—

वैदग्धीनिकुरम्बचुम्बितधियः सौन्दर्यसारोज्ज्वलाः

कामिन्यः कति नाद्य वल्लवपतेर्दीव्यन्ति गोष्ठान्तरे ।

राधे पुण्यवतीशिखामणिरसि क्षामोदरि त्वां विना

प्रेङ्खन्ती न परासु यन्मधुरिपोर्दृष्टात्र दृष्टिर्मया ॥१२६॥

गोविन्दलीलामृतं ८.८०१०९—

तद्वार्तया नः किमिहास्त्यरिष्ट

कुण्डोत्थपातालगङ्गावारि ।

स्नात्वा यथार्याचरणानुशासनं

मित्रं समभ्यर्च्य गृहं प्रयामः ॥१२७॥

क्व यानं ते वृन्दे तव चरणराजीवसविधे

किमर्थं ते राज्याद्भुतभविकविज्ञापनकृते ।

वदैतत्किं श्रीमाधवसुविभवालङ्कृतमिदं

मुहुर्वृन्दारण्यं लसति भवदालोकनकृपाम् ॥१२८॥

अथावदत्कुन्दलता प्रगल्भा

विमुञ्च वृन्दे निजकूटदूत्यम् ।

मय्यर्पिता सूर्यसमर्चनार्थं

निजार्यया कृष्णसशङ्कयेयम् ॥१२९॥

पातालगङ्गाजलजेऽरिष्टमर्दि सरस्यमूम् ।

संस्नाप्य निभृतं नेष्ये पूजायै सूर्यवेदिकाम् ॥१३०॥

न यामस्तत्र चेत्कृष्णो मनोगङ्गामयामहे ।

कृष्णगन्धि दिश्यसौ यन्न नेया जटिलाज्ञया ॥१३१॥

वृन्दाब्रवीत्कुन्दलते किमर्थं

हरेर्भिया हिण्डसि चित्तगङ्गाम् ।

उपायमेकं शृणु येन तत्र

गता अपि द्रक्ष्यति वः स नैव ॥१३२॥

कृष्णः कान्तासरसि मदनोद्घूर्णितात्मास्ति कुञ्जे

यूयं वासन्तिकवनपथा पूर्वतः सुष्ठु गत्वा ।

तीर्थे पादाम्बुजरसमयेऽरिष्टहन्तुः प्रशस्ते

स्नात्वा कामं व्रजत निभृतं साध्वि केनाप्यदृष्टाः ॥१३३॥

अवदल्ललिता कुन्दलते किं निजदेवरात।

हरेर्बिभेषि मुग्धेव प्रगल्भाप्यप्रगल्भतः ॥१३४॥

यामः स्वकुण्डं पश्यामो माधवीयां श्रियं वने ।

स्नात्वा पुनः समेष्यामः किं नः कृष्णः करिष्यति ॥१३५॥

स्त्रीणां स्वैरं क्रीडनस्थानतो नः

पुम्भिर्द्रष्टुं स्थातुमप्यत्ययोग्यात।

तूर्णं वृन्दे याहि निःसारयामुं

गोपातुर्वा तत्र किं कार्यमस्य ॥१३६॥

अहमतिमृद्वी हरिरतिचण्डः

सुकरः कथमिह वर्जनदण्डः ।

अपसार्यस्ते सखि स शिखण्डी

यदसि प्रखरा गुरुरतिचण्डी ॥१३७॥

कुन्दवल्ल्याह वृन्दे त्वं भ्रान्ता चण्ड्यानया कथम् ।

स निष्कास्यः पशुपतिर्व्याप्यमर्धाङ्गमस्य तु ॥१३८॥

वृन्दाहाप्तसुभद्रश्रीः कुन्दवल्ल्येव दृश्यते ।

मधुसूदनसम्भोग्या पुन्नागाङ्गाश्रयोन्मुखी ॥१३९॥

स्मेरासु सर्वास्ववदद्विलोक्य

श्रीराधिकामुत्कलिकान्वितां सा ।

तां भावगाम्भीर्यसुमन्थराङ्गीं

कृष्णस्य तृष्णां विनिवेदयन्ती ॥१४०॥

मत्प्रश्नमेकं ललिते वद द्रुतं

कादम्बिनीं वीक्ष्य दिगन्त उद्गताम् ।

पिपासया मुह्यति चातकेश्वरे

समीरणाल्याः करणीयमाशु किम् ॥१४१॥

दिशि दिशि निशि चाह्नि प्रस्फुरन्ति प्रचण्डा

अविरतगतिकाली प्रेष्यमाणाः पुरोऽमुम् ।

नवनवरसपूरैः कालिकाः सेचयन्त्यो

न भवति परमेको प्रेक्षणीयास्य सैव ॥१४२॥

स चेत्तदेकनिष्ठः स्यात्सापि तां त्वरितं तदा ।

सामानाय्य पुरोऽस्यामुं पाययेदमृतं मुदा ॥१४३॥

नीरसा अपि ताः शश्वदशुगालीविचालिताः ।

चपलाः कालिकाः क्वापि भवन्त्येता न तन्मुदा ॥१४४॥

तद्यात यूयं स्वच्छन्दं स्नात्वारिष्टारितीर्थके ।

कुरुताल्यो मित्रपूजां तिष्ठाम्यत्रास्ति मे कृतिः ॥१४५॥

यातासु तासु लघुसूक्ष्मधियं शुभां

च सा शारिके सुचतुरा न्यदिशत्प्रवृत्त्यै ।

आद्यां व्रजाय सुतरामभिमन्युमातुश्

चन्द्रावलेरथ परां गिरिजालयाय ॥१४६॥

सेवासम्भारसंस्कारागारमागत्य वीक्ष्य तान।

सम्भारान्प्रशशंसोच्चैः सा मुदा तत्कृतो जनान॥१४७॥

वसन्तकेलिर्हिन्दोललीलामाध्वीकपानयोः ।

वनरत्यम्बुकेलीनां मिथोवेशकृते तयोः ॥१४८॥

वन्याशनस्वपयोश्च शुकपाठाक्षलीलयोः ।

तत्तत्स्थानेषु सा तत्तत्सामग्रीस्तैरयोजयत॥१४९॥

तत्तल्लीलापरिकरान्सर्वान्स्थावरजङ्गमान।

नन्दितांस्त्वरितांश्चक्रे तयोरागतिर्वार्तया ॥१५०॥

तयोर्मिथोदर्शनलब्धिराका

समुच्छलद्भावचयामृताब्धौ ।

सा सम्प्लवेच्छा त्वरितान्तरासीत्

स्थिता हरेः सन्निधिकुञ्जलीना ॥१५१॥

तावन्नान्दीमुखी तासां पश्चादागत्य सोत्सुका ।

तयोर्लीलावलोकाय स्थिता सा वृन्दया सह ॥१५२॥

कृष्णोऽप्याराद्बकुलविटपिश्रेणी युग्मान्तराध्वन्य्

आगच्छन्ती प्रियसहचरीवेष्टितां वल्लभां ताम् ।

दृष्ट्वा साक्षादुदितमदनोऽपि प्रतीयाय नायं

स्फूर्त्या तस्यास्तदभिगमने यन्मुहुर्वञ्चितोऽस्ति ॥१५३॥

कान्तापि कान्तमवलोक्य चमत्कृतात्मा

तं भूरिभावविवशा न हि निश्चिकाय ।

यत्प्राक्तमालमनु तदद्भुतः

प्रलापादालीकुलस्य हसितैरतिलज्जितासीत॥१५४॥

मिथस्तत्तद्गुणानन्त्यानुभवाक्रान्तमानसौ ।

दर्शनानन्दमत्तौ तौ सवितर्कं तदोचतुः ॥१५५॥

किं कान्तेः कुलदेवता किमुत वा तारुण्यलक्ष्मीरियं

सम्पद्वा किमु माधुरी तनुमती लावण्यवन्या नु किम् ।

किं वानन्दतरङ्गिणी किमथवा पीयूषधाराश्रुतिः

कान्तासावुत वा ममेन्द्रियगणानाह्लादयन्त्यागताः ॥१५६॥

चैतन्यचन्द्रोदय ३.६४—

उत्कीर्णा किमु चारु कारुपतिना कामेन किं चित्रिता

प्रेम्णा चित्रकरेण किं लवणिमा त्वष्ट्रैव कुन्दे धृता ।

सौन्दर्याम्बुधिमन्थनात्किमुदिता माधुर्यलक्ष्मीरियं

वैचित्रं जनयत्यहो अहरहर्दृष्टाप्यदृष्टेव मे ॥१५७॥

अलङ्कारकौस्तुभः २.१७—

उत्कीर्णैरिव चित्रितैरिव नवोभिन्नैरिवोद्यद्वयः

कुन्दे विभ्रमितैरिव स्मेरकलाशाणे निशातैरिव ।

मग्नोन्मग्नतयालसैरिव भृशं लावण्यवापीजले

केयं केलिकलानिधिः सुबल मे चेतो हरत्यङ्गकैः ॥१५८॥

गोविन्दलीलामृत ८.११०—

या मे नेत्रचकोरचन्द्रवदना नासालिनी पद्मिनी

जिह्वाकोकिलिका रसालदधरा कर्णेन हृच्छिञ्जिता ।

देहानङ्गदवार्तवारणसुधास्रोतस्वती मूर्तिका

सैवेयं दयितोदिता फलितवान्मद्भाग्यकल्पद्रुमः ॥१५९॥

चैतन्यचन्द्रोदय ३.५१—

अञ्जनी मृगदृशो दृगञ्चलः

पञ्जरस्थ इव भाति खञ्जनः ।

लेश एष हसितस्य दृश्यते

वस्त्रपूत इव चन्द्रमो द्रवः ॥१६०॥

उज्ज्वलनीलमणि ११.७६—

रचितशिखरशोभारम्भमम्भोरुहाक्षी

श्वसितपवनदोलान्दोलिना मौक्तिकेन ।

पुटयुगमतिफुल्लं बिभ्रती नासिकायां

मम मनसि विलग्ना दर्शनादेव राधा ॥१६१॥

गोविन्दलीलामृत ८.१११११४—

तापिञ्छः किं किमु जलधरः कन्दलो वैन्द्रनीलः

सानुः किं वाञ्जनशिखरिणः क्षीवभृङ्गव्रजो नु ।

कृष्णापूरः किमुत निचयः किं स्विदिन्दीवराणां

पुञ्जीभूतो व्रजमृगदृशां किं न्वपाङ्गावलोकः ॥१६२॥

अयं किं कन्दर्पः स खलु वितनुः किं नु रसराट्

स नो धर्मी किंवामृतरसनिधिः सोऽतिविततः ।

किमुत्फुल्लप्रेमामरतरुवरः सोऽपि न चरः

स वासौ मत्प्रेयान्जयति मम भाग्यं क्व नु तथा ॥१६३॥ (युग्मकम्)

कान्तः सोऽयं स्फुरति पुरतो नेत्रभृङ्गारविन्दं

किं वा भ्रान्तास्म्यहमिति सखि ब्रूहि सत्यं विशाखे ।

इत्थं पृष्टा पुलकिततनुं गद्गदारुद्धकण्ठीम्

आलीहासैश्चपलनयनां तामवादीद्मुदासौ ॥१६४॥

कस्तूर्याः सत्तिलकमलिके यस्तवोरोजयुग्मे

चित्रं बिन्दुः सुमुखि चिबुके नेत्रयुग्मेऽञ्जनश्रीः ।

श्रुत्योरिन्दीवरविरचितः कुन्तले चावतंसः

सोऽयं कान्तः स्फुरति सखि ते भाग्यराशिर्व्रजामुम् ॥१६५॥

गीतगोविन्द ११.३२—

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन

प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।

इदानीं राधायाः प्रियतमसमालोकसमये

पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥१६६॥

ललितमाधव ४.१२—

निजमधुरिममुद्राम्लापितेन्दीवरश्रीर्

जयति परमजैत्रः कोऽपि राधाकटाक्षः ।

त्रिभुवनजयलक्ष्मीवर्यया दत्तदामा

मधुरिपुरपि येन क्रीडया निर्जितोऽभूत॥१६७॥

तुलसीवाक्यस्मरणेन विवर्तितमुखीं तां सख्याह (उज्ज्वलनीलमणि ७.५१)—

चित्रं गौरि विवर्तते भ्रमिकरी विश्रम्य विश्रम्य ते

दृक्ताराभ्रमरी गतागतिमियं कर्णोत्पले कुर्वती ।

यस्याः केलिभिराकुलीकृतमतेः पद्मालिवार्ता क्व सा

गान्धर्वे मधुसूदनस्य नितरां स्वस्याप्यभूद्विस्मृतिः ॥१६८॥

ललितमाधव ४.२८—

जङ्घाधस्तटसङ्गिदक्षिणपदं किञ्चिद्विभुग्नत्रिकम्

साचिस्तम्भितकन्धरं सखि तिरःसञ्चारिनेत्राञ्चलम् ।

वंशीं कुट्मलिते दधानमधरे लोलाङ्गुलीसङ्गतां

रिङ्गद्भ्रूभ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥१६९॥

चैतन्यचन्द्रोदय ३.३९—

नवजलधरधामा कोटिकामाभिरामः

परिणतशरदिन्दुस्निग्धमुग्धाननश्रीः ।

नवकमलपलाशद्रोणिदीर्घारुणाक्षो

दशनकुसुमकान्तिश्रान्तिबिम्बाधरौष्ठः ॥१७०॥

ललितमाधव १.२७—

बिभ्रन्नीलच्छविमविषमामग्रहस्तेन यष्टिं

जुष्टश्रोणीतटरुचिरसौ पीतपट्टांशुकेन ।

निन्दन्निन्दीवरमविरलोत्सर्पिभिः कान्तिपूरैर्

आभीरीणामिह विहरति प्रेमलक्ष्मीविवर्तः ॥१७१॥

दानकेलिकौमुदी १९—

सरोजानां पुञ्जे मदकलममुं पश्यत पुरः

परागैरापिङ्गैः स्पुरदधरकायं मधुकरम्

मुहुर्भ्रामं भ्रामं भ्रमररमणीर्यः सरभसं

निरुद्धानो ध्वानोद्धतिविधूतमूर्द्धा विहरति ॥१७२॥

कृष्णकर्णामृत १.८६—

करौ शरदिज्याम्बुजक्रमविलासशिक्षागुरू

पदौ विबुधपादप्रथमपल्लवोल्लङ्घिनौ ।

दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ

विलोकय विलोचनामृतमहो महः शैशवम् ॥१७३॥

चैतन्यचन्द्रोदय ३.५०—

श्यामीकरोति भुवनं वपुषा दिगन्तान्

पूर्णेन्दुमण्डलमयी कुरुते मुखेन ।

वाचा सुधारसभृतो विदधाति कर्णान्

दृष्ट्या नभोऽम्बुजमयी कुरुते किमेतत॥१७४॥

सखीवचनात्शान्तचित्ता सस्पृहं पश्यन्ती सा आह, कृष्णकर्णामृत १.८८—

तदुच्छ्वसितयौवनं तरलशैशवालङ्कृतं

मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।

प्रतिक्षणविलोभनं प्रणयपीतवंशीमुखं

जगत्त्रयमनोहरं जयति मामकं जीवितम् ॥१७५॥

ललितमाधव ४.१८—

नवमुरलिमरालीहारिहस्तारविन्दः

कवलितकुरुविन्दच्छायगुञ्जाद्भुतश्रीः ।

मृदुलपवनचञ्चत्पिच्छचूडाञ्चलोऽयं

मदयति हृदयं मे श्यामिकानां विलासः ॥१७६॥

दानकेलिकौमुदी २७२९—

समस्तजगतीभुवां मृगदृशामभीष्टाशिषः

समर्थमभिपूरणे किमपि दोलयन्दोर्युगम् ।

असौ कुलजवल्लवीमदनवेदनोन्मादन

व्रतप्रणयिनोरसा रसिकमौलिरुद्भासते ॥१७७॥

प्रपन्नः पन्थानं हरिरसकृदस्मन्नयनयोर्

अपूर्वोऽयं पूर्वं क्वचिदपि न दृष्टो मधुरिमा ।

प्रतीकेऽप्येकस्य स्फुरति मुहुरङ्गस्य सखि या

श्रियस्तस्याः पातुं लवमपि समर्था न दृगियम् ॥१७८॥

यदा यदा पश्यसि माधवं पुरस्

तदा तदैवास्य वदस्यपूर्वताम् ।

नवः सदा स्यात्किमयं तवाथ वा

रागोन्मदे विस्मयतः किमक्षिणी ॥१७९॥

गोविन्दलीलामृतं ८.११५—

इत्थं मिथो दर्शनतो विशुद्ध

प्रेमस्वभावोद्गतभाववृन्दैः ।

विक्षुब्धसोल्लासमनस्तनू तौ

क्षणं न काञ्चित्ययतुः प्रवृत्तिम् ॥१८०॥

सङ्ग्रहकर्तुः—

भावाकृआन्ततया तौ तु बहिर्वृत्तिपराङ्मुखौ ।

जिजल्पिषा दिदृक्षा च स्रस्तचित्तौ व्यधान्मिथः ॥१८१॥

गोविन्दलीलामृत ९.१११९—

पुरः कृष्णालोकात्स्थगितकुटिलास्या गतिरभूत्

तिरश्चीनं कृष्णाम्बरदरवृतं श्रीमुखमपि ।

चलत्तारं स्फारं नयनयुगमाभुग्नमिति सा

विलासाख्यस्वालङ्करणवलितासीत्प्रियमुदे ॥१८२॥

आकृष्टा पुरतस्तदोत्सुकतया सख्येव सा लज्जया

पश्चाद्वामतयानृजुप्रणयतः सव्ये स्वगेहाध्वनि ।

सा सव्येऽप्यवहित्थया प्रबलया पुष्पावचित्यै बलाद्

इत्थं भावचयोद्गतिप्रचलिता कृष्णस्य सासीन्मुदे ॥१८३॥

इत्थं कृष्टा प्रियाग्रे सा बलिष्ठाभिः समन्ततः ।

मनोवृत्तिवयस्याभिर्न निर्याता न च स्थिता ॥१८४॥

ह्रिया तिर्यग्ग्रीवाचरणकटिभङ्गीसुमधुरा

चलच्चिल्लीवल्लीदलितरतिनाथोर्जितधनुः ।

प्रियप्रेमोल्लासोल्लसितललितालालिततनुः

प्रियप्रीत्यै सासीदुदितललितालङ्कृतियुता ॥१८५॥

हरिमानसनटवर्ये राधातनुनर्तकीगुणैस्तोषात।

गतवति तां परिरब्धुं तत्तनुनट्यपि तदनुगता जाता ॥१८६॥

व्यत्यस्ताकल्पगात्री द्रुतमभिसरणावेशतस्त्वं प्रिये तच्

चापल्यं वेश एष प्रथयति मनसोऽप्येह्यमुं संस्करोमि ।

इत्थं स्पर्शोत्सुकस्वप्रियपरिहसितावाङ्मुखी सङ्कुचन्ती

लोलाक्षी विभ्रमालङ्कृतिरुचिरतनुस्तस्य तुष्टिं व्यतानीत॥१८७॥

ह्रिया भिया वामतयावहित्थया

कृतावकर्षा कुसुमग्रहाय सा ।

तिरश्चलन्ती हरिणोत्कचेतसा

पुरो निरुद्धा मुमुदे चुकोप च ॥१८८॥

बाष्पव्याकुलितारुणाञ्चलचलन्नेत्रं रसोल्लासितं

हेलोल्लासचलाधरं कुटिलितभ्रूयुग्ममुद्यत्स्मितम् ।

राधायाः किलकिञ्चिताञ्चितमसौ वीक्ष्याननं सङ्गमाद्

आनन्दं तमवाप कोटिगुणितं योऽभून्न गीर्गोचरः ॥१८९॥

अथ सा सविधस्थकेशर

द्रुमशाखां मुकुलाकुलामनु ।

अतिसम्भ्रमतः स्वदोर्लतां

कुसुमादानमिषादुदक्षिपत॥१९०॥

अलङ्कारकौस्तुभ ८.२२?

प्रियालोके राधा कुसुमचयने कौतुकवती

धुनीते सत्रासं करतलमदष्टापि मधुपैः ।

अखिन्नापि श्रान्ताश्रयति भुजयालीभुजशिरः

परावृता पश्यत्यधृतवसनापि व्रततिभिः ॥१९१॥

उज्ज्वलनीलमणि १५.२४०—

अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं

त्वमेव प्रच्छन्ना मम सुमनसां मञ्जरिमितः ।

चिराद्दिष्ट्या चौरि त्वमिह विधृताद्य स्वयमतो

गुहाकारामारात्प्रविश वसतिं प्रौढिभिरलम् ॥१९२॥

स्तवमाला, स्वयमुत्प्रेक्षितलीला ६—

सा पृथुवेपथुदोलितहस्ता

प्रेमसमुत्थितभावविहस्ता ।

फुल्लमहीरुहमण्डलकान्ते

तत्र पुरः प्रससार वनान्ते ॥१९३॥

अलङ्कारकौस्तुभ ५.११२—

सख्यैकया मूर्ध्नि धृतांशुकाञ्चला

संवीज्यमाना दलमालयान्यया ।

अवेक्षमाणा दयितं विदूरतश्

चिनोति मन्दं कुसुमानि राधिका ॥१९४॥

कृष्णाह्निककौमुदी ४.४२५२—

एतदीयकुसुमं सखि हेयं

कृष्णपक्षसरसा लतिकेयम् ।

या रुणद्धि वसनं बत शाखा

पाणिनेत्युपजहास विशाखा ॥१९५॥

शुक्लपक्षनिभपुष्पविशेषा

कृष्णपक्षसरसा कथमेषा ।

मद्विइयोगसहिष्णुरियं माम्

आरुणद्धि मम कौतुककामा ॥१९६॥

मुग्ध एति मधुपो मुखचन्द्रं

स्वादितुं कमलधीस्तव सान्द्रम् ।

तत्त्वयावहितया भवितव्यं

श्यामलस्य चरितं नहि भव्यम् ॥१९७॥

त्वादृशां मुखसरोजसमाजे

सुस्मिते सति कथं द्विजराजे ।

हन्त गन्धरहिते कथमस्य

स्वाद एष भविता मधुपस्य ॥१९८॥

पुष्पितां स्पृशति कोऽपि न लोके

जह्यमुं सखि लतां सुविलोके ।

जातिरेव मधुमासि पवित्रा

स्पृश्यतां वहति कोमलपत्रा ॥१९९॥

पुष्पवत्यपि पवित्रतमैषा

काननेऽत्र लतिकालिरशेषा ।

यां स्पृशन्ननिल एष पुनीते

विश्वमेव दुरितं च धुनीते ॥२००॥

आलि पुष्पितमशोकमुदारं

पश्य याहि भज तं च मुदाऽरम् ।

यं समेत्य सुमनो गुरुरागं

बिभ्रति व्रजजनाः परभागम् ॥२०१॥

नामतोऽपि सखि विद्धि पुमांसं

न स्पृशामि पुरुषत्वकृतांशम् ।

वञ्जुलोऽयमपि तिष्ठतु दूरे

त्वं प्रयाहि तदमुं मतिशूरे ॥२०२॥

आलि पश्य पुरुषोत्तममेतं

स्निग्धमुग्धसुमनःसमुपेतम् ।

पश्य यत्परिमलो विसरात्त्वद्

दृष्टिमोहनगुणोऽप्यति चात्तः ॥२०३॥

पूर्वजल्पित इहापि स दोषस्

त्वं भजैनमपि चेत्तव तोषः ।

उच्छ्रितासि स च ते करलभ्यश्

चारुवेशपुरुषस्तव लोभ्यः ॥२०४॥

इत्यतिप्रियसखीजनवाक्यं

सुभ्रुवश्च सरसं प्रतिवाक्यम् ।

तन्निशम्य रसिकः स सुबोधः

प्रेयसी जितवतीति बुबोध ॥२०५॥

कृष्णाह्निककौमुदी ४.७१७५—

मन्दमन्दमथ सा विहरन्ती

नूपुरे मृदुकलं क्वणयन्ती ।

आवृता सह सखीभिरुदारा

शोभते स्म कुचयोश्चलहारा ॥२०६॥

यत्र तद्वदनपञ्कजगन्धस्

तत्र भृङ्गनिकरोऽभवदन्धः ।

अन्धकारमभितो विदधानः

प्रत्युपैति गरुतो विधुनानः ॥२०७॥

यत्र पक्ष्मलदृशश्चलदृष्टिर्

द्योतते विहितनीलमसृष्टिः ।

उल्लसन्मधुकरोत्करतुष्टिस्

तत्र सा कुवलयच्छदवृष्टिः ॥२०८॥

यत्र तत्तनुरुचः कृतझम्पा

निष्पतन्ति जितनिर्घनशम्पाः ।

तत्र गाढतिमिरेऽपि नितान्तं

चन्द्रिका इव चरन्ति दिगन्तम् ॥२०९॥

यत्र तत्पदनखेन्दुमरीचिः

सिञ्चति क्षितिमुदञ्चितवीचिः ।

तत्र सञ्चरति चञ्चुकिशोरा

वासरेऽपि विलुठन्ति चकोराः ॥२१०॥

सङ्ग्रहकर्तुः—

राधासौन्दर्यमाध्वीकपानमत्तो भृशं यदा ।

विस्मितपूर्ववृत्तान्त आदावासीन्मिलन्निव ॥२११॥

स्तवमाला, स्वयमुत्प्रेक्षितलीला ६१०, १२२५, २७२८—

माधवस्तां तदालोकयन्राधिकां

वल्लवीवर्गतः सद्गुणेनाधिकाम् ।

केयमुद्बाधते मद्वनं रागतस्

तूर्णामित्युल्लपन्फुल्लधीरागतः ॥२१२॥

भालविद्योतितस्फीतगोरोचनं

पार्श्वतः प्रेक्ष्य तं विभ्रमल्लोचनम् ।

सा पटेनावृता कैतवाद्भामिनी

वक्रितभ्रूरभूद्दूरभूगामिनी ॥२१३॥

लीलोद्भ्रान्तं मुहुरथ नुदती

नेत्रद्वन्द्वं दिशि दिशि सुदती ।

वीक्षांचक्रे दलभरावकटां

मल्लीवल्लीं तटभुवि निकटाम् ॥२१४॥

तामुन्मीलद्भ्रमरविलसितां

लब्धा पुष्पैरुपरि किल सिताम् ।

लीनेवाभूद्विकसितमदना

तस्याः प्रान्ते सरसिजवदना ॥२१५॥

भङ्गुरानङ्कुरान्निर्दयं छिन्दती

वीरुधः कोमओल्द्भेदिनीभिर्भिन्दती ।

आः कथं लुण्ठसि त्वं मृगाङ्कानने

पुष्पराजीमसौ हन्त मत्कानने ॥२१६॥

सदात्र चिनुमः प्रसूनमजने

वयं हि निरताः सुराभिभजने ।

न कोऽपि कुरुते निषेधरचनं

किमद्य तनुषे प्रगल्भवचनम् ॥२१७॥

प्रसीद कुसुमं विचित्र्य सरसा

प्रयामि सरसीरुहाक्ष तरसा ।

क्रियाद्य महती ममास्ति भवने

विलम्बमधिकं तनुष्व न वने ॥२१८॥

नियुक्तः क्षितीन्द्रेण तेनास्मि कामं

वनं पालयामि क्रमेणाभिरामम् ।

जनः शीर्णमप्युद्धरेद्यो दलार्धं

हराम्यम्बरं तस्य वित्तेन सार्धम् ॥२१९॥

परिज्ञातमद्य प्रसूनालिमेतां

लूनीषे त्वमेवं प्रवालैः समेताम् ।

धृतासौ मया काञ्चनश्रेणिगौरि

प्रविष्टासि गेहं कथं पुष्पचौरि ॥२२०॥

स पतिः पिशुनः कुपितोऽपिशुनः

सदने मुखरा जरती मुखरा ।

चतुरा गुरवो भविता कुरवो

व्यसनं पुरुषेश्वर किं कुरुषे ॥२२१॥

जलजेक्षण हे कुलजामबलां

न हि दुर्यशसा रचयाधवलाम् ।

तरसा विरमत्किरणं तरणिं

दिवि पश्य ततस्त्यज मे सरणिम् ॥२२२॥

जाने तव कचपक्षं

सम्भृतवरमल्लिकालक्षम् ।

उरसि च कञ्चुकराजं

ध्रुवमर्बुधमाधवीभाजम् ॥२२३॥

एहि तव क्षणमात्रं

विचारयामि क्रमाद्गात्रम् ।

तत्त्वे किल निर्णीते

प्रयाहि भवनं तडितपीते ॥२२४॥

न मुषा माधव रचय विवादं

विदधे तव मुहुरहमभिवादम् ।

गोकुलवसतौ स्वरमिव मूर्तं

न किमु भवन्तं जाने धूर्तम् ॥२२५॥

वेत्ति न गोपी वृन्दारामं

वृन्दावनमपि भुवि कः कामम् ।

अहमिह तदिदं कितव रसालं

कथमवचेष्ये न कुसुमजालम् ॥२२६॥

नेदमत्र कलसस्तनि शंस

क्रोधनो नृपतिरेष नृशंसः ।

तेन हन्त विदिते वनभङ्गे

यौवतं पतति भीतितरङ्गे ॥२२७॥

तन्वि गेहगमनव्यवसायं

चेत्करोषि शृणु रम्यमुपायम् ।

अत्र मत्तबहुषट्पदवीरे

लीलया प्रविश कुञ्जकुटीरे ॥२२८॥

गोकुले कुलवधूभिरर्चिता

शीलचन्दनरसेन चर्चिता ।

राधाहमधिकारितामतः

किं करोषि मय्धूर्त कामतः ॥२२९॥

भ्रूलेखां किमरालां त्वं निर्मासि करालां

किं वा पश्यसि वामं संरम्भादभिरामम् ।

दिष्ट्या काननलोला हेलोत्फुल्लकपोला

वृत्ता त्वं हरिहस्ते त्रातान्यो भुवि कस्ते ॥२३०॥

आरुह्य द्रुमवाटीं मुञ्चेमां परिपाटीं

गेहान्तस्तव सर्वं जाने भामिनि गर्वम् ।

नेदिष्ठः किल भूपः सोऽयं भैरवरूपस्

तस्याग्रे चल वामे चोलीमर्पय वामे ॥२३१॥

गोविन्दलीलामृत ९.३९४९—

इति तदुदितनर्माकर्ण्य कर्णामृतं

साभ्युदिततनुविकारान्शश्वदावृत्य यत्नात।

लपनमिदमसत्यं कामिनः काः स्वकर्णे

विदधति तदितो यामीति नीचैर्वदन्ती ॥२३२॥

दयितमपि मनाक्तं वीक्ष्य सावज्ञदृष्ट्या

द्रुतगतिचलिताग्रे मुग्धविव्वोकदिग्धा ।

क्व चलसि ननु धूर्ते मामनादृत्य भङ्ग्या

हरिरिति स वदंस्तामंशुकान्ते दधार ॥२३३॥ (युग्मकम्)

अनुभूयैव तत्स्पर्शमानन्दोत्थैर्विचालिता ।

नानाभावैः प्रियं राधा तिर्यग्ग्रीवा व्यलोकयत॥२३४॥

तारानर्तनसूचितात्यवमतिः स्मेरा तदास्याम्बुजं

धावन्ती तृषितालिनीव कुटिलप्रान्ता निवृत्ता ततः ।

किञ्चिद्बाष्पकुलाकुलाऽरुणतया स्पृष्टाञ्चलोल्लासिनी राधा

दृष्टिरमज्जयत्प्रियमपारानन्दवारां निधौ ॥२३५॥

आकृष्य तत्करधृतं वसनाञ्चलं सा

तिर्यग्दृगञ्चलकला स्मरबाणदृष्ट्या ।

विद्धं मुहुर्विदधती प्रियमुन्मदान्धा

प्रत्याह तं स्मितसुधासुभगाननाब्जम् ॥२३६॥

मधुरसरसरम्यं वस्तुजातं हि यद्यत्

निवसति किल लोके प्राकृतेऽप्राकृते वा ।

श्रियमुरुतनुचौर्या त्वं हरन्नस्य साधुः

स्वयमसि तदिहान्यत्रापि चौर्यापवादी ॥२३७॥

साधुत्वे धार्मिकत्वे च यस्य ते भाति साक्षिणी ।

कुमारीणां कोट्टवीनां मूर्ध्नि बद्धाञ्जलिस्तुतिः ॥२३८॥

व्रजभुवि युवराजः सर्वसाद्गुण्यपूज्यः

परिणयविधियोग्यानन्तकन्यायुतायाम् ।

अभिनवतरुणोऽप्यप्राप्तपाणिग्रहो यत्

तद्धृतनियमोऽसि ब्रह्मचारीति सत्यम् ॥२३९॥

किं वासाधारणः कश्चिद्भाति त्वयि गुणो महान।

यमाकर्ण्य न कापि त्वां कन्या वृतवती क्वचित॥२४०॥

तत्तापाद्भवता मन्ये तुरङ्गब्रह्मचर्यकम् ।

अङ्गीकृत्य व्रजे स्वस्य ख्यापिता बटुता मृषा ॥२४१॥

बटुश्चेत्पररामास्यालोकेन कुतुकी कूतः ।

वंशीचौरीहृताभिर्वा परस्त्रीभिः कूतो रतिः ॥२४२॥

तद्भवान्वर्णिताख्याति च्छलेन स्वार्थसाधकः ।

कन्यानां च सतीनां च धर्मध्वंसाय दीक्षितः ॥२४३॥

गोविन्दलीलामृत ९.५६—

बटो न ते कृत्यमिहास्ति पुष्पा

रामेऽबला स्वैरविहारधाम्नि ।

पशूनवंस्त्वं पशुपालसङ्गी

तच्चारणाय व्रज शाद्वलेषु ॥२४४॥

गोविन्दलीलामृत ९.५१५२—

कदाप्यनारोपितपुष्पवल्ली

द्रुमैकपोतोऽपि वनाधिकारी ।

असङ्ख्यगोचारणलूनतत्तन्

मूलोऽपि सत्यं विपिनावकस्त्वम् ॥२४५॥

सख्यास्माकं वृन्दया वर्धितं यद्

वृन्दारण्यं ख्यातिमेतद्विधात्रा ।

मह्यं दत्तं तत्सरत्नाभिषेकं

राजानङ्गस्त्वं च पातेति सत्यम् ॥२४६॥

इति राधायाः सयुक्तिकवाक्पीयूषमत्तः श्रीकृष्णः सस्मितमाह (स्तवावलि, कुसुमकेलि ८२८)

इयं लक्ष्मीवृन्दादपि मधुरवृन्दा मम वधूर्

भवेन्नो चेदारात्सशपथमिमं पृच्छत सतीम् ।

श्रुतौ यद्दम्पत्योर्न हि भवति भेदस्त्रुटिरतो

द्वयोर्नौ नाम्नैव त्रिजगति जनो गायति वनम् ॥२४७॥

इति श्रीकृष्णस्य वागमृतमापीय राधा वृन्दां प्रति नीचैराह—

इदं वृन्दे सत्यं भवति न हि किं वा कथय नः

पुरो लज्जां हा हा कथमिव तनोषि प्रियगणे ।

ऋतं चेत्तद्रोषच्छलत इव गच्छ क्षणमितो

यथा नानावादैर्वयमिह जयामः शठगुरुम् ॥२४८॥

इदं कर्णे तस्या निगदितवतीष्वाशु सहसं

मृषारोषादेषा चलकुटिलचिल्लीक्षणतटैः ।

अलं शोणैरेणीदृगतिकुटिलाः प्रेक्ष्य सखि ताः

सगर्वे गोविन्दे परिषदि ददावुत्तरमिदम् ॥२४९॥

अये पद्माषण्ड व्रजनगरभण्ड व्रजवनाद्

इतस्त्वं चेदिच्छे रुचिरवनराजत्वमचिरात।

सखीस्थल्याः षष्ठीं भज निजवधूं तां किल तदा

यथा सा तुष्ट्या ते बदरवनराज्यं वितरती ॥२५०॥

तत इत्थं तत्सौन्दर्यादिस्तवनारभट्या श्री गान्धर्वाया वृन्दाटव्यां स्वतामर्पयन्ती तमुपलभ्य सोल्लासं पुनराह—

यदेतद्बिम्बत्वाल्लसति मुखमस्याः कमलतो

दृशोर्द्वन्द्वं चञ्चत्कुवलयमृगानामिव चयात।

उदञ्चन्नासश्रीः शुकनवयुवत्रोटिवलनाल्

लसद्बन्धूकेभ्यो ऽपि च रुचिघटराज्यदधरः ॥२५१॥

अये दन्ताः कुन्दावलीकरकबीजादिरचनाद्

अपि स्फीता गीताः कुमुदवनतो ऽपि स्मितलवः ।

श्रुतिद्वन्द्वं मुञ्जाललितगुणपुञ्जादपि पुनर्

ललाटोद्यल्लक्ष्मीः सुभगबकपुष्पादतितराम् ॥२५२॥

चलाचिल्लीवल्ली भ्रमरवरपङ्क्तेरपि ततः

स्फुरञ्जम्बूपक्वप्रचुरफलतो ऽप्येतदलकः ।

कचोल्लासः स्फुर्जन्मदशिखिशिखण्डादपि मधौ

पिकोत्तानध्वानादपि परमुदारं मृदुवचः ॥२५३॥

नितम्बः शैलानामपि विपुलभारादतिगुरुः

कुचौ तुङ्गौ बिल्वादिकफलकुलादपि अतिघनौ ।

भुजयुग्मं भ्राजद्व्रततिततितो ऽपीह ललितां

ललामश्रीलोमावलीरपि भुजाङ्गीततिरुचेः ॥२५४॥

वरोरू रम्भालिक्रमरचनजृम्भादपि गतिर्

मरालीपालीनामपि चलनरङ्गान्मृदुतरा ।

पदद्वन्द्वं फुल्लस्थलकमलवृन्दादपि सदा

वदान्यत्वं कल्पद्रुमनिकरतो ऽपि व्रजपुरे ॥२५५॥

दृशोः प्रेम्णा शश्वत्क्षरदमृतनिःस्यन्दविततिस्

तथा स्वेदस्तोमः कनकजयिवर्ष्मप्रपतितः ।

मनोगङ्गाकृष्णाविविधसरसीवृन्दविचलत्

प्रवाहादप्युच्चैः पुलक उत नीपस्तवकतः ॥२५६॥

अलं गन्धस्निग्धा कनकगिरिवन्द्या द्युतिरपि

स्फुटत्फुल्लचम्पावलीकनकयूथीनिवहतः

अपि भ्राजद्वक्षःस्थलमतुलसिंहासनकुलाद्

अपि भ्राम्यन्नेत्रक्रमणनटनं खञ्जनगणात॥२५७॥

परं चास्यादीनां विकसनभरादेषु किल स

क्वचिन्मानान्म्लानेर्बत भवति सैवैष्विह यतः ।

अतो ऽस्याश्छायैव स्फुटमटविरित्थं खलु भवेत्

कथंकारं स्वामिन्भवतु भवतः साम्प्रतमियम् ॥२५८॥

अपि च—

मुखादीनां पद्मादिकपुरुपदार्थः समरुचः

प्रपन्नाः सारूप्यं यदति विलसन्ति स्फुटमतः ।

अजाण्डे विख्याता प्रकृतिमधुरेयं समगुणा

ततः श्रीराधायाः प्रकटमटवीयं प्रियसखी ॥२५९॥

विराजाछायात्वे प्रकटतरसारूप्यवलनात्

सखीत्वे ऽपि क्रीडास्पदमटविरेषा रसमयी ।

सदैतस्या एव व्रजभुवि भवत्येव सुतरां

यतश्छायासख्योः स्फुरति न हि भेदः क्वचिदपि ॥२६०॥

अदो वृन्दानान्दीस्तवरसभरैः पोषितवपुः

श्रिया पूर्णे घूर्णत्स्मरनटनतृष्णातरलिते ।

अहो राधोन्मीलन्मनसिजमहानाटकनटी

नटाचार्ये तस्मिन्नटितुमिव दृष्टिं समतनोत॥२६१॥

विशाखा तु स्नेहस्नपनकृतरोमञ्चविलसद्

वपुस्तामालिङ्ग्य स्तवरचितह्रीश्रीस्मितवृताम् ।

सहासं दृग्भङ्ग्या गिरिधरमुपालभ्य सहसम्

विनोदैर्वृन्दायाः शिरसि सुमनोवृष्टिमकरोत॥२६२॥

एतन्मधुरवर्णनाकर्णनेन स्वान्तस्तोषं बहिर्विहस्य सोत्प्रासं कृष्णः पुनराह—

त्वदालेरङ्गाली मम कमनवृन्दावनतनोः

सदङ्गानां कुञ्जादिकरुचिरनाम्नां रुचिधनम् ।

ध्रुवं हृत्वा म्लानं प्रकटमकरोत्तं कथमिमम्

इदानीं सारूप्यस्तवनमिषतो रक्षसि शठे ॥२६३॥

तवाल्या एवं चेदति गुणगणा मत्प्रियवनाद्

अपि श्रेष्ठः सुष्ठु ध्रुवमिह भवन्ति स्फुटममी ।

तदा तुच्छं पुष्पं कथमपहरेत्सेयमथवा

स्वभावश्चौराणां परधनजिघृक्षुर्न हि चलेत॥२६४॥

प्रकारैश्छायातो यदतिवरबिम्बास्य महिमा

नमुच्चैर्विस्फार्य स्मरसि मयि राधां वितरितुम् ।

कथं तत्स्याद्यस्मात्पतिपरवशेयं तत इमं

स चेदाराद्दद्याद्भवति मम तर्ह्येव ममता ॥२६५॥

एतद्विचित्ररङ्गोच्छलितवाग्भण्#इविलाससुधास्वर्धुनीतरङ्गेनोत्तरलीकृतहृद्वृत्तिदृढनौकं श्रीराधां सस्मितमलोकयन्तीषु सर्वासु सस्मितं ललिता ललाप—

पिपासार्थः कश्चित्क्षुदितविवशो वर्त्मनि चलन्

मरुक्षेत्रे क्षारोदकमलभमानो ऽपि विरसम् ।

स्वयम्भूसंस्तव्यं हरिपुरवरस्थामपि सुधां

प्रपातुं द्रागिच्छन्जगति किल हास्यास्पदमभूत॥२६६॥

ततो रसिकशेखरं व्रजराजकुमारं स दृगञ्चलविभ्रमेण पस्यन्ती सखीः प्रति श्रीराधा व्यजहार—

स्फुटं काली शैब्या चमरवनिता मध्यमवधूर्

महापद्मा पद्मा परमरुचिकृत्कामदकुचा ।

वरा षष्ठी चन्द्रावलिरपि लसेद्यस्य महिषी

कथं तस्याप्यन्या भवतु भुवि योग्या नववधूः ॥२६७॥

गोविन्दलीलामृतं ९.५७६७—

स्मितरुचिशिशिरात्तद्वक्त्रपीयूषरश्मेश्

चलनयनकुरङ्गोत्प्लावरम्यात्स्रवन्तीम् ।

पिबति हरिचकोरे नर्मपीयूषधाराम्

अतृपदिह सखीनां दृक्चकोरीचयोऽपि ॥२६८॥

तत्स्पर्शभीत्येव विवृत्त्य कन्धरां

कटाक्षनीलोत्पलमालया प्रियम् ।

सा भूषयन्त्यस्फुटभर्त्सनोक्तिका

सावज्ञमग्रेऽपससार लीलया ॥२६९॥

कृष्णोऽथ कान्तातनुचित्रनर्तकी

लास्यावलोकोच्छलितातिलालसः ।

द्रुतं समेत्योच्चलितेन पाणिना

दधार चास्याश्चलकञ्चुकाञ्चलम् ॥२७०॥

कान्ता विभुग्नीकृतचिल्लिकार्मुका

शोणाक्षिकोणेक्षणबाणसञ्चयैः ।

विखण्ड्य तूर्णं प्रियधैर्यकञ्चुकं

लीलारविन्देन तताड तं मुहुः ॥२७१॥

तस्यारविन्दाहतिजातशातं

विश्वाश्रयेऽस्यापि ममौ न देहे ।

ततः सकम्पात्प्रससार बाह्ये

प्रस्वेदबाष्पोत्पुलकच्छलेन ॥२७२॥

तत्स्पर्शसम्फुल्लतनोर्नतभ्रुवश्

छिन्ना स्वयं कञ्चुकबन्धवीटिका ।

नीवी च चीनं स्खलदन्तरीयकं

रुन्धे परं स्वेदजलं नितम्बके ॥२७३॥

अथालिवर्गस्मितलोलनेत्रा

तत्पाणिरोधाद्वसनं विमोच्य ।

ततोऽपसृत्य द्रुतनीविबन्धे

सा दक्षहस्ताप्यभवद्विहस्ता ॥२७४॥

कृष्णोऽपि तावद्वरभाजि पूर्णे

स्वेदाम्बुभिस्तत्स्तनहेमकुम्भे ।

स्मरोत्सवारम्भमिषेण पाणिम्

आधातुमुत्कोऽन्तिकमाप तस्याः ॥२७५॥

कान्ता कथञ्चिद्विनिबद्ध्य नीवीं

नेत्रेण पश्यन्त्यरुणाञ्चलेन ।

वामेन तं स्मेरसखीः परेण

तत्पाणिरोधं प्रति सत्वरासीत॥२७६॥

स्मितरुदितविमिश्रं गद्गदास्पष्टवर्णं

रमणमनृजुनेत्रा भर्त्सयन्त्युत्सुकापि ।

प्रणयसुखजवाम्योद्भ्रामिता सास्य वाञ्छा

प्रतिहतिरहितं तत्पाणिरोधं व्यतानीत॥२७७॥

सङ्घट्ट आसीत्करयोर्निरुद्धयोर्

मिथश्चलत्कङ्कणनादमञ्जुलः ।

समीरगत्या चलयोः समन्ततः

कूजन्मदालिव्रजयोरिवाब्जयोः ॥२७८॥

गोविन्दलीलामृत १०.७३०—

सगद्गदं भर्त्सयन्ती सेयं सस्मितरोदनम् ।

तस्मात्कथञ्चित्विश्लिष्य सेर्षं तस्थौ तदग्रतः ॥२७९॥

मुखपरिमललुब्धस्यालिवृन्दस्य

कर्णान्तिकमनुपततः सा झङ्कृतित्रस्तचेताः ।

तदनुचकितचञ्चद्दृष्टिभङ्गीर्दधाना

स्वयमपगतधैर्या सस्वजे प्राणनाथम् ॥२८०॥

ततः सखीनां स्मितजातलज्जा

कृतप्रयत्नापि ततोऽपसर्तुम् ।

तेनातिगाढं हसता गृहीता

बभौ पयोदे स्थिरचञ्चलेव ॥२८१॥

ईर्षात्रपानिर्वृतिवामताभिर्

द्राग्देवताभिर्ललनाग्रहैः सा ।

आविष्टवाङ्मानसविग्रहासीत्

स्वचेष्टया लोकयतां सुखाय ॥२८२॥

सशपथनुतिनिन्दातर्जनाक्षेपदैन्यं

स्मितरुदितविमिश्रं श्लिष्टमेषा लपन्ती ।

प्रियदृढभुजबन्धं मोचयन्ती कराभ्यां

भृशमतनुत सालीवृन्दकृष्णस्य तुष्टिम् ॥२८३॥

तयोर्दृढालिङ्गनतः सुतृप्ताः

कम्पादिसम्पन्निचिताह्समीक्ष्य ।

सखीर्मुदोत्फुल्लमुखीर्निकुञ्जे

नान्दीमुखीं सा वदति स्म वृन्दा ॥२८४॥

आश्चर्यां हरिणा राधा गाढमालिङ्गिता चिरम् ।

तदसङ्गतियुक्तापि निवृतासीत्सखीततिर॥२८५॥

अदृष्टे दर्शनोत्कण्ठा दृष्टेऽस्मिन्स्पर्शलालसा ।

स्पर्शेऽस्य सेर्ष्यवाम्यं तच्चित्रमासां विचेष्टितम् ॥२८६॥

नान्दीमुखी तामवदत्वनेश्वरीं

लोकोत्तराणां व्रजसुभ्रुवां सदा ।

कृष्णैकसौख्यार्थशरीरचेतसां

तत्तन्न चित्रं किल चेष्टितं यतः ॥२८७॥

सख्यः श्रीराधिकाया व्रजकुमुदविधोर्ह्लादिनीनामशक्तेः

सारांशप्रेमवल्ल्याः किशलयदलपुष्पादितुल्याः स्वतुल्याः ।

सिक्तायां कृष्णलीलामृतरसनिचयैरुल्लसन्त्याममुष्यां

जातोल्लासाः स्वसेकाच्छतगुणमधिकं सन्ति यत्तन्न चित्रम् ॥२८८॥

विभुरपि सुखरूपः स्वप्रकाशोऽपि भावः

क्षणमपि नहि राधाकृष्णयोर्या ऋते स्वाः ।

प्रवहति रसपुष्टिं चिद्विभूतिरिवेशः

शयति न पदमासां कः सखीनां रसज्ञः ॥२८९॥

राधा काञ्चनवल्ली फुल्ला कृष्णस्तु फुल्ल तापिञ्छः ।

अनयोः सङ्गमलक्ष्मीः सुखयति नहि कं सचेतनं लोकम् ॥२९०॥

आसां विशुद्धप्रणयार्द्रचेतसां

तात्पर्यमस्यैव सुखेन चात्मनः ।

वाम्यं हि कान्तस्य सुखाय सुभ्रुवाम्

अतस्तदुन्मीलति तस्य सङ्गमे ॥२९१॥

अथेप्सितैतद्दृढबाहुवक्षः

स्पर्शोत्थितानन्दभरापि राधा ।

वाम्योत्थवैमत्यमिवाचरन्ती

सा भर्त्सयन्ती ललितामवादीत॥२९२॥

सकुष्र्तिहरिदूत्या कुन्दवल्ल्या मिलन्ती

कपटिनि ललिते त्वं मामिहानीय धृष्टे ।

शठकुलगुरुहस्ते नेत्रभङ्ग्या निधाय

कलयसि खलभर्तुर्धार्ष्ट्य नृत्यं तटस्था ॥२९३॥

प्रखरा यदभूर्मृद्वी मृदुनालिङ्गितामुना ।

न तच्चित्रं यदासीद्वां गुणयोः परिवर्तनम् ॥२९४॥

रुष्टेन तुष्टा ललितामुना व्यधात्

संवादमुद्यत्स्मितगर्भतर्जनम् ।

सतीव्रतध्वंसनधृष्टभूपते

विधातुमारब्धमिदं न किं त्वया ॥२९५॥

स्वसखीं पृच्छ ललिते किमियं कर्तुमुद्यता ।

बलात्स्वाङ्गेन संवेष्ट्य मदङ्गं यात्मसाद्व्यधात॥२९६॥

पुन्नागं त्वां माधवीयं स्वयं

यत्फुल्ला स्वाङ्गैर्वेष्टते युक्तमेतत।

त्वं यत्तां तैर्वेष्टसे तन्न युक्तं

वल्ल्या वृक्षो वेष्ट्यते नामुनासौ ॥२९७॥

मयाप्यस्यै दत्तमङ्गमनयाप्यात्मसात्कृतम् ।

का ते हानिः पुनर्नैतदादातुं शक्यते मया ॥२९८॥

इयं क्रूरा शूरा जयति ललिता क्रोधवलिता

यशःश्वेतामेतां विसृज शठ तां स्वाञ्च शठताम् ।

निजाभिध्यामिद्धामलिपक सुसिद्धां स्वपुरतः

प्रजावत्यां सत्यां त्वयि च रतिमत्यां विरचय ॥२९९॥

ललितायाः पुरो राधां वातोऽपि स्प्रष्टुमक्षमः ।

तत्त्यजामुं न चेदस्माद्धाटिशाटीं निचोलय ॥३००॥

इत्यालपन्त्यां त्वरितं रुषास्याम्

अग्रेसरत्यां ससखीकुलायाम् ।

कम्पाश्रुरोमाञ्चमुखैश्च भावैर्

आनन्दजैः सोऽप्यभवद्विहस्तः ॥३०१॥

कान्ताङ्गसङ्गजसुखेन विमोहितेऽस्मिन्

भीतोऽयमित्यवगते ललिताभियान्यैः ।

आदाय कम्पितकरान्मुरलीं स्खलन्तीं

सा निर्गता झटिति विश्लथबाहुबन्धात॥३०२॥

अथ सखीनां परस्परवाक्यं (विदग्धमाधव ४.३४)—

निद्रागमोऽपि सखि नन्दसुतस्य हर्तुं

यां शक्नुवन्ति न पराः पशुपालबालाः ।

धन्या कटाक्षकलया किल मोहयन्ती

तां राधिकाद्य पुरतो मुरलीं जहार ॥३०३॥

राधा स्वगतं (विदग्धमाधव ४.३५)

या निर्माति निकेतकर्मरचनारम्भे करस्तम्भनं

रात्रौ हन्त करोति कर्षणविधिं या पत्युरङ्कादपि ।

गौरीणां कुरुते गुरोऋ अपि पुरो या नीवीविध्वंसनं

धूर्ता गोकुलमङ्गलस्य मुरली सेयं ममाभुद्वशा ॥३०४॥

अथ वंशीं प्रत्याह (पद्यावली २५४२५५)—

अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु

मौखर्यमस्तमितमस्तु गुरुत्वमस्तु ।

कृष्णप्रिये सखि दिशामि सदाशिषस्ते

यद्वासरे मुरलि मे करुणां करोषि ॥३०५॥

शून्यत्वं हृदये सलाघवमिदं शुष्कत्वमङ्गेषु मे

मौखर्यं व्रजनाथनामकथने दत्तं भवत्या निजम् ।

तत्किं नो मुरलि प्रयच्चसि प्नर्गोविन्दवक्त्रासवं

यं पीत्वा भुवनं वशे विदधती निर्लज्जमुद्गायसि ॥३०६॥

गोविन्दलीलामृत १०.३११४७—

निर्गता तस्यां स्वपटाञ्चलेन

सङ्गोपयन्त्यां मुरलीं प्रयत्नात।

आगत्य तस्याः पुरतो विशाखा

कृष्णेन संलापमसौ व्यधत्त ॥३०७॥

हे कृष्ण दोर्बिम्बविधुन्तुद त्वं

भ्रान्तोऽपि या ते प्रसभं गृहीता ।

चन्द्रावलीयं न हि पश्य तारा

राधाभिधान्येऽपि च तादृशोऽस्याः ॥३०८॥

अस्याद्वैता विशाखाहमनुराधा त्वियं परा ।

इयं ज्येष्ठा धनिष्ठेयं चित्रेयं भरणी त्वियम् ॥३०९॥

अन्या वा कति मे गण्या या चैकास्तीन्दुलेखिका ।

सापि तद्ग्रहणायोग्या तत्त्वं चन्द्रावलीं व्रज ॥३१०॥

विशाखे सर्वसुखदा सत्यं त्वं शाङ्करीतनुः ।

वाग्वज्रभीषणा मूर्तिर्ललिता शातमन्यवी ॥३११॥

असौ विशाखे सुलभां विहाय

चन्द्रावलीं तां बहुधोपभुक्ताम् ।

सुदुर्लभां वाञ्छति भानवीयां

श्रियं रसास्वादविशेषलिप्सुः ॥३१२॥

भोगः क्रमेण तारासु सदा राहोर्विराजते ।

कौतुकादिन्दुलेखामप्यपूर्वां स जिघृक्षति ॥३१३॥

इत्यालपन्श्रीहरिरिन्दुलेखां

अलिङ्गितुं तत्सविधं जगाम ।

दृष्ट्वान्तिके तं चकितापयान्ती

साप्युच्चलद्भ्रूः स्मितपूर्वमाह ॥३१४॥

धृष्टापगच्छ हे राहो न ते योग्येन्दुलेखिका ।

पूर्णां चन्द्रावलीं याहि भुङ्क्ष्व तारां क्रमेण व ॥३१५॥

तेनालक्षितमागत्य गृहीता ललिताब्रवीत।

अनुराधा न ते लभ्या विशाखाभोगमन्तरा ॥३१६॥

स्पृष्टा विशाखाप्यथ साब्रवीत्तं

राधोपभोगाद्भवता विशाखा ।

भुक्तैव तत्किं पुनरेषि धृष्ट

ज्येष्ठां विहाय क्रमलभ्यभोगाम् ॥३१७॥

ज्येष्ठाप्यलक्षितं स्पृष्ट्वा म्लिष्टं रुष्टा तमब्रवीत।

चित्राभोगं विना धृष्ट क्लिष्टोऽन्यासां तवाक्रमः ॥३१८॥

सहसा विधृता चित्रा तमाहापैहि लम्पट ।

ग्रहाणां क्रमतो भोगस्तारासूत्क्रमतो न हि ॥३१९॥

तुङ्गविद्याब्रवीच्चित्रे राहोर्नात्र व्यतिक्रमः ।

वक्राति चारगत्यापि ग्रहाणां क्वचिदाक्रमः ॥३२०॥

साप्याह तुङ्गविद्ये त्वं तुलाराशिस्ततोऽमुना ।

आक्रान्तायां तु चित्रायां पीडिताशु भविष्यसि ॥३२१॥

तुङ्गविद्याह तं स्पृष्ट्वा धृष्ट किं रङ्गदेविकाम् ।

आदौ पीड्यां तुलाराशिं हित्वा मां त्वं जिघृक्षसि ॥३२२॥

सापि स्पृष्टाह तं राहो त्वं कन्याराशिभोगकृत।

पूर्णदृष्टां मीनराशिं चम्पवल्लीं प्रपीडय ॥३२३॥

साप्याशु विधृताप्याह धूर्तेमां कुम्भराशिकाम् ।

सुदेवीं त्वरितं याहि यतस्ते व्युत्क्रमा गतिः ॥३२४॥

स्पृष्टा सुदेवी तं प्राह मधुसूदन ते स्पृहाम् ।

सर्वां काञ्चन्वल्लीयं प्रफुल्ला पूरयिष्यति ॥३२५॥

सा गृहीतावदत्कृष्ण चकोरात्र किमागतः ।

स्फुरच्चन्द्रमुखीमासां स्वतृष्णाशान्तये व्रज ॥३२६॥

अलक्षितं साप्यमुना गृहीता

चुचुम्बिषुं तं विमुखी जगाद ।

त्यजान्यजायां शठ वंशिकां तां

निजप्रियां चुम्ब चुचुम्बिषा चेत॥३२७॥

स चिरात्स्वकरादपच्युतां

मुरलीं तामवधार्य तद्गिरा ।

क्व गतेति विलक्षितक्षणं

स्वदृशं कुन्दलतानने न्यधात॥३२८॥

सापि तं चलदृग्भङ्ग्या राधिकां तामदर्शयत।

तद्विज्ञाय तया वंशी तुलस्यां गुप्तमर्पिता ॥३२९॥

सा तां प्रयत्नात्पिहितां विधाय

स्थिता विशाखा ललितादिपश्चात।

कृष्णोऽपि राधां समुपेत्य तावद्

दिधीर्षुरेनामिदमाललाप ॥३३०॥

मनो विशुद्धं चलमप्यदृश्यं

कटाक्षकामाङ्कुशशृङ्गविद्धम् ।

विधाय पाटच्चरि मे हरन्त्या

न दृश्यवंशीहृतिरद्भुता ते ॥३३१॥

सा तां प्रयत्नात्पिहितां विधाय

स्थिता विशाखाललितादिपश्चात।

कृष्णोऽपि राधां समुपेत्य तावद्

दिधीषुरेनामिदमाललाप ॥३३२॥

राधाप्यसाधारणभावविद्धा

सावज्ञमालोक्य हरिं चलन्ती ।

वंशीविचारच्छलतो निरुद्धा

निवारितेनाप्यमुना गृहीता ॥३३३॥

हरिस्तामाह चौरि त्वं वृथा किं चेष्टसे तव ।

त्यागो वंश्या न मे यावत्तावद्दोर्बन्धनाय सः ॥३३४॥

मृषारुषारालचलाक्षिचिल्ली

लतं समुद्यत्स्मितगर्वितास्यम् ।

हरेः पुरस्तावदुपेत्य तूर्णं

साटोपतर्ज्जं ललितावदत्तम् ॥३३५॥

पराङ्गनासङ्गमपूतमूर्ते

सतीव्रतध्वंसन याहि याहि ।

स्नातां पवित्रां रविपूजनार्थं

स्पृष्ट्वा छलोक्त्या कुरु मापवित्राम् ॥३३६॥

उन्मादितः स्वाधरपायनैर्यया

त्वं धृष्टयासीः सुमनःसरोवरे ।

वंशी तया ते शठ शैब्यया हृता

न मन्यसे चेत्तुलसीह साक्षिणी ॥३३७॥

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।

शैब्यया ह्रियते वंशी साध्वी राधा तु दूष्यते ॥३३८॥

तया दृशः प्रेरणया निदिष्टां

कृष्णे यियासौ तुलसीमभीष्टाम् ।

राधापयाता दयितोपरोधात्

सौधाकरी मूर्तिरिवाम्बुवाहात॥३३९॥

सापीङ्गितज्ञा लघु रूपमञ्जरी

करेऽर्पयित्वा मुरलीमतर्कितम् ।

ततोऽपसर्तुं विहितोद्यमामुना

बलाद्गृहीतोत्पुलकास कम्पिता ॥३४०॥

निधाय कुब्जीकृतपाणिशाखा

निजानने साब्रुवतातिदीना ।

हा हा कृपालो त्यज मामयोग्यां

निर्मञ्छनं यामि तवास्मि दासी ॥३४१॥

वंशी न मय्यस्ति यदर्थमाग्रहः

शैब्याकरे साद्य मयैव लोकिता ।

इत्यालपन्ती चलदृष्टिसंज्ञया

सासूयत्तं प्रति रूपमञ्जरीम् ॥३४२॥

यावद्विहाय तुलसीं मधुसूदनोऽसौ

तां मञ्जरीं विदितवेणुमरन्दगन्धाम् ।

आयाति तावदियमिङ्गितपण्डिताशु वंशीं

निधाय ललितामनु साधु तस्थौ ॥३४३॥

कृष्णोऽपि तां तूर्णमलक्षितागतिः

स्वबाहुपाशेन निबद्ध्य सत्वरः ।

वंशीं विचिन्वन्कुचपट्टिकान्तरे

तामाह सा तस्करि ते क्व गोपिता ॥३४४॥

साप्यब्रवीत्तं विनिवारयन्ती

लब्धैव चौर्यां मयि साद्य वंशी ।

दिष्ट्या भवान्पूर्णमनोरथोऽभूद्

गत्वानयैवाह्वय गोपनारीः ॥३४५॥

निजाभिमर्शेन पराङ्गनाततेः

सतीव्रतः दूषयितुं त्वमुत्सुकः ।

स्वयं विनिह्नुत्य कुतोऽपि वंशिकां

तन्मार्गणव्याजमुपाश्रितोऽधुना ॥३४६॥

ततो दृशास्मै ललितां प्रदर्श्य सा

तद्बाहुबन्धाच्छितिलाद्विनिर्गता ।

कृष्णोऽपि स स्वागतिशङ्कया रहस्तां

कुन्दवल्ल्यर्पितवंशिकां ययौ ॥३४७॥

उपागतं तं ललिताह कोपना

हुं दूरतस्तिष्ठ किमर्थमागतः ।

वंशी यदीयं मयि नैव विद्यते

धार्ष्ट्येन चेत्तत्फलमाश्ववाप्स्यसि ॥३४८॥

चिन्तामणीनां चयमन्तिके स्थितं

पदापि ये नाभिमृशन्त्यवज्ञया ।

राधासखीभिस्तव वंशनालिका

किमर्थमाभिर्बत सा हृता शठ ॥३४९॥

सच्छिद्रया नीरसया कठोरया

ययानिशं व्याकुलितं जगत्त्रयम् ।

स स्वामिनो यन्मुरलीकराद्गता

वृत्तं बहूनां तदिदं सुमङ्गलम् ॥३५०॥

स्वस्थानसन्दानितनीविकुन्तलाः

कुर्वन्तु कर्माणि सुखं गृहेऽबलाः ।

स्वैरं हरिण्योऽपि चरन्तु सप्रियाः

सरन्तु तूर्णं सरितः सरित्पतिम् ॥३५१॥

शीतार्तनग्नाम्बुनिमग्नकन्यका

गणस्य वासांसि हृतानि यत्त्वया ।

तेनाचिरात्ते मुरलीकराद्गता

प्राप्नोति दुःकं परदुःकदो हि यः ॥३५२॥

हस्तमात्रायता शुष्का सरन्ध्रा वंशकाष्ठिका ।

हा हन्त गोकुलेशस्य सर्वस्वं केन वा हृतम् ॥३५३॥

व्याजाद्विषण्णमिव तं प्रसमीक्ष्य कृष्णं

सावज्ञहासललिता वचनावरुद्धम् ।

श्रीराधिकामनुनिधाय रहोऽस्य वंशीं

साकूतमब्रुवत कुन्दलताभ्युपेत्य ॥३५४॥

सच्छिद्रैकवराटिकार्द्धमपि यन्मूल्यं न सा जर्जरा

याता मस्करपर्विका तव कराद्यात्वस्तु ते मङ्गलम् ।

का वा हानिरियं विषीदसि कथं पुत्रोऽसि गोपेशितुस्

त्वामेता विहसन्ति हन्त मुदिताः श्रुत्वा म्रियेऽहं ह्रिया ॥३५५॥

सोऽप्याह तां कुन्दलतेऽनभिज्ञा

वंशीगुणानां यदिदं ब्रवीषि ।

चित्रं न तद्यत्स्वगुणः प्रकाश्यते

यथानयासु त्वयि न क्वचित्तथा ॥३५६॥

या या यदेच्छा मम जायतेऽन्तर्

मयाप्यसाध्या किल हेलयासौ ।

तदैव तां तां कुरुते सुसिद्धां

नारायणस्येव चिदाख्यशक्तिः ॥३५७॥

सर्वशक्तियुता सेयं मम सर्वार्थसाधिका ।

अलौकिकीं शक्तिमस्या विदन्ति राधिकादयः ॥३५८॥

ललिताह कथं वंशीं न विद्मः कुट्टनीनृपाम् ।

इमां तन्नीति कुशलां षिड्गस्य तव वल्लभाम् ॥३५९॥

सुधापारीनारीहृदयकरिवारीयमनिशं

जगद्योषादोषामलसुकृतमोषातिनिपुणा ।

रमागौरीसौरीमुखयुवतिचौरी त्रिजगति

प्रसिद्धा सिद्धा तेऽद्भुतगुणसमृद्धा मुरलिका ॥३६०॥

अवददथ स ललिता खलु चण्डी

कुटिलवचनदृढकण्तकदुर्गा ।

अपहरति च मुरलीं मम शाठ्याद्

बत परिवदति च तामुत मां च ॥३६१॥

इत्याभाष्य हरौ तस्याः संव्यानान्तं जिघृक्षति ।

सापसृत्याब्रवीद्भुग्नभ्रूलतं सस्मिताननम् ॥३६२॥

सैवास्मि ललिता कृष्ण बहुधा कलिता त्वया ।

चलिता वलितालीभिः शठता फलिता न ते ॥३६३॥

इत्युदीर्य ललितामपयान्तीं

तां निगृह्य वसने स जगाद ।

वंशिकावितरणं न विना ते

यानमद्य सुलभं स्वगृहाय ॥३६४॥

त्वया चेन्न हृता वंशी कथं भीत्या पलाय्यते ।

शोधयित्वा निजाङ्गनानि यथेष्टं गच्छ तिष्ठ वा ॥३६५॥

ततः सांशुकमाकृष्य वक्रदृष्ट्याह वीक्ष्य तम् ।

अङ्गानि स्वप्रजावत्याः काममत्त विचारय ॥३६६॥

वंश्यस्माभिर्नैव नीता न दृष्टा

नोज्झस्यौग्र्याच्चेत्तथापि त्वमस्मान।

दास्ये मूल्यं कुन्दवल्लीप्रदिष्टं

तच्चेन्नेष्टं तत्सदृक्षां ततोऽन्याम् ॥३६७॥

मल्लीभृङ्ग्यौ श्रीपुलिन्दात्मजे नः

सख्यौ शैलेन्द्रालये मद्गिरा ते ।

दास्येते ते जर्जरां छिद्रमुक्ताम्

आनीयैकां पर्विकां कीचकस्य ॥३६८॥

पुलिन्दानां कन्या मयि परमधन्या रतियुषस्

तृणाप्तास्मत्पादाम्बुजघुसृणलेपक्षतरुजः ।

गिरेर्गुन्जाधातून्भृशमुपहरन्ति स्वसहितान्

मदीयास्ता दास्यः कथमु तव सख्यः समभवन॥३६९॥

वंशीं हरसि मे मामप्यवजानासि यत्ततः ।

निबध्य दण्डयामि त्वं कोऽसौ रक्षति रक्षतु ॥३७०॥

ललितां पृष्ठतः कृत्वा विशाखा तत्पुरःस्थिता ।

नीचैरुपदिशन्तीव सस्मितं सा तमब्रवीत॥३७१॥

प्रगतार्थानामर्थो नष्टोद्देशकसहायतो लभ्यः ।

युक्त्या मार्गय तत्त्वं नह्यौग्र्येण क्रियासिद्धिः ॥३७२॥

अवदच्चम्पकवल्ली नष्टोद्देश्यर्थलोलुपह्सुतराम् ।

वंशैकपर्विकायै बहुधनहानिः कथममुना क्रियताम् ॥३७३॥

तुङ्गविद्याह मुग्धे त्वं मर्मज्ञा नासि तच्छृणु ।

वंश्येव यस्य सर्वस्वं किं न दद्यात्न तत्कृते ॥३७४॥

चौरे नष्टोद्देशकस्य प्रसादात्

लब्धे ग्राह्यं वित्तमात्मीयमादौ ।

पश्चान्नष्टोद्देशिनेऽपि प्रदातुं

दण्ड्यादस्माद्भूरि कृत्वेति नीतिः ॥३७५॥

विशाखाह वद स्वामिन्यन्नष्टोद्देशिने त्वया ।

देयश्चौरे तु यो दण्डस्तज्ज्ञात्वाख्यामि ते हितम् ॥३७६॥

अङ्गस्रङ्मणिमाले करमर्दफलं च चुम्बकं रत्नम् ।

परमपि दास्याम्यस्मै यो मे वंशीं समुद्दिशति ॥३७७॥

हर्तुर्हराम्यम्बररत्नभूषणे

तारुण्यरत्नं च घटद्वये स्थितम् ।

दोःपाशबन्धं स्मर दण्डनाय तं

निकुञ्जकारामनुवेशयामि च ॥३७८॥

साप्याह योग्यमेवैतत्गोपेन्द्रतनयस्य ते ।

वंशीं च हस्तगां विद्धि यत्त्वं कृपणायसे ॥३७९॥

वंश्युद्देशं कुन्दवल्ल्येव

साक्षात्जानात्येकाहं च तस्याः सकाशात।

मय्युद्देशः क्लेशकारी कृतः स्याद्

दत्त्वोत्कोचं तां ततः पृच्छ यत्नात॥३८०॥

अथाह सा कुन्दलतां प्रहृष्टा

दिष्ट्यागतस्ते सखि लाभदिष्टः ।

उद्दिश्य वंशीं निजदेवराय

सुदुर्लभोत्कोचमिमं गृहाण ॥३८१॥

कुन्दवल्ल्या विशाखायां लग्नायां श्रवसीश्वरी ।

इङ्गितज्ञा न्यधद्वंशी निभृतं तुलसी करे ॥३८२॥

साकूतं पश्यति ततः कुन्दवल्ल्या मुखं हरौ ।

साब्रवीत्तां विशाखेऽहं न चौरं वेद्मि ते शपे ॥३८३॥

जानीयं चेद्विनोद्कोचमुद्दिशामि स्वयं हितम् ।

देवृस्वं यन्ममैव स्वं नाहं यूयं यथा पराः ॥३८४॥

वेत्सि हि चौरं त्वमिह मुरल्याः

स्वीकुरु रत्नानि च दिश तत्ताम् ।

यद्यनुकूला त्वमिह सखि स्यास्

तर्हि च सा स्वप्रभुकरगा स्यात॥३८५॥

गृहाण पूर्वमुत्कोचं वंशिकां वा समुद्दिश ।

वंशिकोत्कोचयोर्लाभे युवयोः प्रतिभूरहम् ॥३८६॥

कृष्णोऽपि कुन्दलतिकानयनेङ्गितज्ञः

स्वौत्सुक्यमुत्प्रकटयन्निजवंशिकाप्त्यै ।

पार्श्वागतः शितकटाक्षशरैः प्रियायाः

स्तब्धो भवन्ननुगया स तया बभाषे ॥३८७॥

निज श्यामरसो वंश्यां यस्त्वया न्यस्यतेऽत्र सः ।

विश्वं कृष्णरुचिं कुर्वन्भाति बिन्दुतया स्थितः ॥३८८॥

हृत्वा ते राधया वंशीबिन्दुच्यावाद्वशीकृताः ।

बिन्दुः स्वचिबुके लग्नोऽप्यज्ञातत्वान्न गोपितः ॥३८९॥

वंश्या मुद्राः बिन्दुमेनं त्वयादौ

दिष्ट्या दृष्टं स्वाधरेणाहराशु ।

पश्चाज्जित्वा न्यायतस्तां गृहीत्वा

दण्डोत्कोचावप्यमूः दण्डयोक्तौ ॥३९०॥

सिद्धैव सा मुरलिका तव राधिकायां

तां त्वं गृहाण न हि वा मम नात्र हानिः ।

उत्कोचमर्थयति मां त्वरितं विशाखा

मुष्यै प्रतिश्रुतधनं वितराग्रतो मे ॥३९१॥

मुद्रामादौ वंशिकाया गृहीत्वा

दास्याम्यस्मै त्वत्कृतोत्कोचमाशु ।

पश्चाद्वंशीं दत्तमुत्कोचमेतां

काराकुञ्जे दण्डयाम्यत्र रुद्धा ॥३९२॥

इति ब्रुवाणं दयितान्तिकागतं

कृष्णं समीक्ष्याधर दंशनोद्यतम् ।

तं वारयन्ती ललिता मृषा रुषा

मध्यं तयोरेत्य जगाद सस्मितम् ॥३९३॥

मित्रार्चना नाद्य कृतानयास्याः

क्षतेन मालिन्यमहो विधातुम् ।

हठात्प्रवृत्तोऽस्यपयाहि किं ते

भीतिर्न देवान्न च लोकधर्मात॥३९४॥

हरिस्तामाह हे राधे मद्दन्तानां ममापि न ।

दोषोऽयं किन्तु ते बिन्दुर्यद्बहिः प्रकटं धृतः ॥३९५॥

चिबुकमनु वसन्नप्येष बिन्दुर्भयात्

ते परिचितनिजमित्रं मां समीपे समीक्ष्य ।

सपदि दशनदुर्गे सम्प्रविष्टोऽस्य सङ्गाच्

छशिमुखिदशना मे दंशनास्ते बभूवुः ॥३९६॥ (युग्मकम्)

तां कुन्द्वल्ल्याह सुचित्रकाव्ये

व्यदर्शि बिन्दुच्युतके स्वशक्तिः ।

त्वयेर्षया साभ्यधिकामुनापि

बिन्द्वागमे तत्र कवीश्वरेण ॥३९७॥

विवृतस्वगुणोत्कर्षे गुणिनि गुणज्ञा न दोषमायान्ति ।

प्रीणन्त्यस्मिंस्तस्मान्मण्डय मणिमालया त्वममुम् ॥३९८॥

देवर शिशिरगुणैर्यत्सम्प्रति सखि कुन्दवल्लि फुल्लासि ।

स्वदशनकुसुमैः पूजय तदधरमरुणं त्वमेवास्य ॥३९९॥

रुष्टेव कुन्दलतिकावददच्युतं सा

सेयं हरेऽतिमुखरा मुखरासुनप्त्री ।

एषा सदैव ललिता प्रखरा त्वया सा

लभ्या कथं नु मुरली मृदुभीरुणात्र ॥४००॥

एताः प्रगल्भाः कुटिला बह्व्यस्त्वं मृदुरेकलः ।

संरक्ष्य वस्त्रालङ्कारं तदितः स्वसखीन्व्रज ॥४०१॥

परपुरुषगृध्नुचित्ता

धर्माधर्मगविचाररहिताश्च ।

मामपि तन्निजसङ्गे

कृतार्थयितुमुद्यता एताः ॥४०२॥

यासां स्वधर्मनिष्ठानां साध्वीनाममलात्मनाम् ।

बालेन देवरेणापि सम्भाषणमसाम्प्रतम् ॥४०३॥

ता नः संदूषयन्त्येता दुरुक्त्या यामि तद्गृहम् ।

दत्त्वा मोचय मां बन्धाद्विशाखायै प्रतिश्रुतम् ॥४०४॥ (युग्मकम्)

ततो हसन्नाह हरिविशाखाम्

एह्येहि रत्नानि गृहाण साध्वि ।

इतीरयंस्तां परिषष्वजेऽसौ

सख्यो हसन्त्यः परिवव्रुरेनम् ॥४०५॥

ताभिस्तदास्मिन्कलहायमाने

कोलाहले प्रोच्छलिते च राधा ।

प्रयत्नसन्मूकितभूषणा सा

प्रविश्य कुञ्जान्तरभून्निलीना ॥४०६॥

तावत्सशङ्का तुलसी तु वंशीं

वृन्दान्वितं कुञ्जमगाद्गृहीत्वा ।

वृन्दाप्युपादाय करात्ततोऽस्या

निधाय वंशीं हृदि तामवादीत॥४०७॥

वंशोत्तंसा वंशिकेऽसि त्वमेका

सद्वंशानां क्षुद्रवंशोद्भवापि ।

या लीलानां हेतुरेतादृशीनामासीद्

राधाकृष्णयोरद्भुतानाम् ॥४०८॥

ततः सखीहासविलोलनेत्रा

सगद्गदं कृष्ण अधिक्षिपन्ती ।

तद्बाहु बन्धान्निविडात्प्रयत्नात्

निर्गत्य रोषादवदद्विशाखा ॥४०९॥

न स्मः स्वीयास्त्वत्कृतौ वा सहाया

ग्राह्यं वित्तं ते कथं नः परस्य ।

तस्मादर्थोद्देशिकायै निजायै

देह्येतत्त्वं भ्रातृपत्न्यै शठेश ॥४१०॥

कुन्दालि त्वं किं प्रगल्भापि मुग्धा

जाताकस्माद्यत्स्वदेवुर्धनं स्वम् ।

हित्वा मौग्ध्यादन्यदीयं चिकीर्षुर्

मालिन्यं नस्तेन किं वा करोषि ॥४११॥

तामब्रवीत्कुन्दलता विशाखे

ददात्यसौ वो वर सुद्विजाभ्यः ।

धनं वदान्यो निजधर्मवृद्ध्यै

निषिद्ध्य पापं किमहं विदध्याम् ॥४१२॥

चेत्प्रीतिदानमस्येदं किं भीताः स्थः प्रतिग्रहात।

गृहीत्वा द्विगुणं कृत्वा यूयं वितरताचिरात॥४१३॥

चित्राब्रवीद्धनमिदं निजवेतनत्वात्

स्वीयं सखि त्यजसि किं परकीयबुद्ध्या ।

आढ्यास्यनेन न कृतिस्तव चेत्स्वसख्यै

स्वस्याग्रतः सपदि दापय कुन्दवल्ल्यै ॥४१४॥

पुनः कौन्द्यब्रवीच्चित्रे स्वरत्नं दीयतेऽमुना ।

नाङ्गीकुरुत चेत्कास्य हानिस्तत्स्वगृहे स्थितम् ॥४१५॥

कृष्णादानं प्रदानं ते क्षुद्रास्वेतासु नोचितम् ।

सुकलः सुकलायां त्वं राधायां तत्तदाचर ॥४१६॥

अन्विष्य तामथ दृशा हरिरप्यपश्यन्

कुत्राप्युवाच ललितां क्व नु गोपितासौ ।

चौरी त्वया कुटिलया स्वसखी पुरो मे

आनीयतामितरथा त्वमिहासि दण्ड्या ॥४१७॥

साप्याह प्रतिभूर्नाहं का जानाति क्व सा गता ।

कुरु राज्यं तयात्र त्वं योग्यया याम्यहं गृहम् ॥४१८॥

एकाब्रवीत्सा स्वगृहं प्रयाता

पराब्रवीत्सूर्यसमर्चनायै ।

अन्याब्रवीन्मानसजाह्नवीं ते

स्पृष्टा पवित्रा पुनराप्लवाय ॥४१९॥

इत्यालीभिः प्रलब्धोऽसौ पश्यन्कुन्दलताननम् ।

तया दृशा निकुञ्जाय प्रेरितस्तं प्रविष्टवान॥४२०॥

तस्मिन्प्रविष्टेऽथ निकुञ्जगह्वरं

चतुर्षु सख्योऽथ सकुन्दवल्लिकाः ।

बद्धलतापाशचयैः कवाटिका

द्वारेषु कुञ्जाङ्गन एव ताः स्थिताः ॥४२१॥

कान्तं वीक्ष्यान्तिकायान्तं सापसर्तुं कृतोद्यमा ।

अलब्धनिर्गमा द्वार्षु तल्पं नीतामुना बलात॥४२२॥

स्मरदावप्रतप्तोऽसौ राधां सुरतरङ्गिणीम् ।

रहो लब्ध्वा यथावाञ्छं रेमे कृष्ण मतङ्गजः ॥४२३॥

विदग्धमाधवः ७.३८३९—

भ्रूभेदः स्मितसंवृतो न हि न हीत्युक्तिर्मदेनाकुला

विश्रान्तोद्धति पाणिरोधरचनं शुष्कं तथा क्रन्दनम् ।

सृष्टो यः सखि राधया मुहुरयं सङ्गोपनोपक्रमो

भावस्तेन हृदि स्थितो मुरभिदि व्यक्तः समन्तादभूत॥४२४॥

प्रातिकूल्यमिव यद्विवृणोति

राधिका रदनखार्पणोद्धूरा ।

केलिकर्मणि गता प्रगल्भतां

तेन तुष्टिमतुलां हरिर्ययौ ॥४२५॥

कृष्णभावनामृत ९.६४—

तदा तामुद्धृत्योरसि भुजबलादुच्छलदुरु

स्फुरज्जङ्घग्रीवापदमतिननोक्त्या कुटिलिताम् ।

स्मराश्चापं स्वं चाम्पकमिव सकम्पं सरसयन्

नटद्विद्युद्वल्लीमिव नवघनस्तल्पमविशत॥४२६॥

गोविन्दलीलामृत १०.१४८१४९—

नीवीकञ्चुकमुक्तिरोधविचलद्दोरुत्स्वनत्कङ्कणा

वंशीं मे दद देह्यलं मम ममा मेत्युल्लसद्गद्गदाः ।

तारुण्यादिधनात्मसात्कृतिसुसंरक्षोद्गतव्यग्रत

उद्यद्धार्ष्ट्य भटापसारितधृतिह्रीवामताद्यालयः ॥४२७॥

आविर्भूतमिथोऽतिपौरुषलसद्गाढप्रयोगोत्सवाः

सीत्काराञ्चितकण्ठकूजितसरत्पीयूषधारोत्कराः ।

अन्योऽन्याग्रहनर्मपूर्वककृताकल्पादिशोभा द्वयो

राधामाधवयोर्जयन्ति मधुराः कुञ्जे रहःकेलयः ॥४२८॥

गोविन्दलीलामृत ११.४५, ७१७, १९२०—

क्रीडावसानमवधार्य ततः समन्ताद्

द्रष्टुं तयोर्निधुवनान्तविलासमुत्काः ।

आगत्य कुञ्जमनु मुक्तकवाटबन्धाश्

छिद्रेषु दत्तनयनाः परितः स्थितास्ताः ॥४२९॥

आम्रेडितः स्वाङ्गविभूषणाय

तत्कर्तुं प्रवृत्तोऽप्यनया निवारितः ।

समुच्छलद्विभ्रमया तदप्यमुं

विभूषयन्नास तया स भूषितः ॥४३०॥

सखीत्रपाकुण्ठितनिर्गमेच्छां

चौरीमिव न्यायजितां गृहीत्वा ।

करे बलात्फुल्लविलोचनोऽसौ

कुञ्जालयात्प्राङ्गणमाससाद ॥४३१॥

सङ्कुचत्फुल्लनयनौ प्राणप्रेष्ठौ पुरःस्थितौ ।

हृष्यन्त्यः परिवार्याल्यः सखीमाहुः ससम्भ्रमम् ॥४३२॥

मुञ्चन्त्या नः कुत्र यातं भवत्या

नास्माभिश्चान्विष्य लब्ध्वा कुतोऽपि ।

धृष्टेनासीत्क्वामुना वा प्रसङ्गो

जातास्मात्ते भाग्यतो नाभिभूतिः ॥४३३॥

निशम्य तासां परिहासभङ्गीं

निशाम्य चासौ रतिलक्षणानि ।

कान्तं निजालीः प्रति सूचयन्तं

ह्रियेर्ष्यया चोच्छलिता तदासीत॥४३४॥

कान्तं हसन्तं कुटिलीकृतभ्रूश्

चलाधरा गद्गदरुद्धकण्ठी ।

सा तर्जनीचालनया ततर्ज स्वालीर्

हसन्तीरवदच्च भङ्ग्या ॥४३५॥

गृहोन्मुखीं कर्षथ वस्त्रकर्षं

लीनां क्वचित्सूचयथाश्वमुष्मै ।

सङ्गे स्थितां खेदयथामुना मां

सङ्गः कथं वोऽथ मया विधेयः ॥४३६॥

युष्माभिरीरितसुमत्तभुजङ्गवर्यान्

मां चञ्चलात्सपदि कण्टकवल्लिसख्यः ।

स्पर्शोत्सुकादपसृतां चकितां रुरुक्षुः

कुञ्जाश्च रक्तसितसच्छतपत्रिकाश्च ॥४३७॥

कुन्दवल्ल्यवदत्सत्यं राधे ते नानृतं वचः ।

यत्तन्निरोधजं चिह्नं कृष्णाङ्गे दृश्यते स्फुटम् ॥४३८॥

तीक्ष्णैः स्वकण्टकनखैश्चटुलाभिराभिस्

त्वद्गोपनाय वपुरस्य लतासखीभिः ।

आचोटितं सखि तदौपयिकं तदेतच्

चित्रं त्विदं तदधिकं यदिदं तवापि ॥४३९॥

गोपाङ्गणागणरते रतिलम्पटस्य

चन्द्रावलेर्धृतिरुरस्यमलस्य युक्ता ।

यत्त्वं बिभर्षि हृदि तामहितामपीदं

चित्रं परं सखि वदात्र च तत्र हेतुम् ॥४४०॥

तामाललाप ललिता कुरु मात्र शङ्कां

पुंसः परादतिचलाद्भयविद्रुतानाम् ।

स्पर्शोत्सुकाद्वपुषि साध्वि कथं सतीनां

दारिद्रमस्तु वनकण्टकजक्षतानाम् ॥४४१॥

तृप्त्यै मुरारेरथ राधिकाया

माधुर्यकर्पूरसुवासितां स्वाम् ।

विधातु कामाः कवितारसालां

तया निषिद्धाः कुटिलभ्रुवापि ॥४४२॥

सम्फुल्लगोविन्दमुखारविन्द

मन्दस्मितमन्दमरन्दसिक्तः ।

तदिन्गितज्ञः क्रमतश्चलक्षीं

तं वर्णयन्त्यो जहसुर्वयस्याः ॥४४३॥

गोविन्दलीलामृत ११.२५—

क्षयिष्णुं तं हित्वा शशजठरमिन्दुं मितकलं

सदा पूर्णानङ्का विगणितकलानामघभिदः ।

कलाभिर्बह्वीभिः करनखविधूनां निजतनूम्

अलं चक्रेऽस्याः किं स्तनगिरिशलिङ्गद्वयमिदम् ॥४४४॥

गोविन्दलीलामृत ११.४३—

नाभिर्लोमावलिरुरसिजद्वन्द्वमास्यं विभाति

श्रीराधायायामिति विधिकृता पश्यतां भ्रान्तिरेषा ।

सत्यं सान्द्रामृतमयसरस्येकनालोत्थमब्ज

द्वन्द्वं शश्वत्करपरिचयैर्मीलय न दीव्यतीन्दुः ॥४४५॥

गोविन्दलीलामृत ११.४५—

नाभिः कुण्डं त्रिवलिविततिर्मेखला चावलग्नं

वेदिर्लोमावलिरपि जुहूः श्रीकुचौ भद्रकुम्भौ ।

कामो यज्वा सुजघनगलौ पीठशङ्खौ बकारेश्

चित्ताकृष्टिः फलमिह बभौ यज्ञशालास्य राधा ॥४४६॥

गोविन्दलीलामृत ११.४७—

भ्रूरोमावल्यौ धनुरसिलते श्रीकटाक्षाः पृषत्का

बाहू पाशौ गल इह दरः श्रीनितम्बो रथाङ्गम् ।

दीव्यद्गण्डौ कनकफलके श्रीनखाश्चाङ्कुशाः

श्रीराधा भाति स्मरनरपतेः शस्त्रशाला विशाला ॥४४७॥

गोविन्दलीलामृत ११.४९—

राधायाः सुतनुः सुधासुरधुनी बाहू विशे सत्स्तनौ

कोकौ श्रीमुखनाभिपाणिचरणाः पद्मानि वक्रालकाः ।

रोलम्बा मधुरस्मितं च कुमुदं नेत्रे तथेन्दीवरे

रोमाली जलनीलिकेह लसति श्रीकृष्णहृत्कुन्जरः ॥४४८॥

गोविन्दलीलामृत ११.७७—

यो बालार्कविकाशिसुप्तमधुपस्वर्णाम्बुजैकच्छदो

विश्राम्यत्पिकहेममन्दिरगवाक्षाधोविटङ्कोऽपि यः ।

तौ राधामदबिन्दुचारुचिबुकं दृष्ट्वा स्वसाम्योत्सुकौ

श्रीकृष्णाङ्गुलिसङ्गसौभगगुणैर्न्यक्कृत्य विभ्राजते ॥४४९॥

गोविन्दलीलामृत ११.११७—

राधायाः कुङ्कुमानां परिमलविततिर्निर्जिहीतेऽखिलाङ्गान्

नभिभ्रूकेशनेत्रादगुरुमृगमदालिप्तनीलोत्पलानाम् ।

वक्षःश्रोत्रास्यनासाकरपदयुगलादिन्दुलिप्ताम्बुजानां

कक्षश्रेणीनखेभ्यो मलयजरससंसिक्तसत्केतकीनाम् ॥४५०॥

अलङ्कारकौस्तुभ ५.१२९—

कयात्ममूर्तिर्लिखिता नखेन

वामस्तनार्धे तव पङ्कजाक्ष ।

न माति न म्लायते दिव्यरूपां

यामुद्वहन्हन्त न लज्जसे त्वम् ॥४५१॥

अलङ्कारकौस्तुभ ८.३५—

श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश्च गर्हाकरो ।

राधापादसरोजयावकरसो वक्षःस्थलस्थो हरेः ।

बालार्कद्युतिमण्डलीव तिमिरैश्छन्देन बन्दीकृता

कालिन्द्याः पयसीव पीबविकक्षं रक्तोत्पलं पातु वः ॥४५२॥

कृष्णभावनामृत १०.७०—

मिथस्तासां प्रेमाम्बुधिमथनजां वाङ्मयसुधां

धयन्कृष्णस्तृष्णामधिकमुपलेभे श्रुतिभृताम् ।

तदास्याब्जेनापि प्रवरपरिहासामृतमधुद्रवा

सारैर्वृष्टैरतुलमुदमाद्यन्तमहिलाः ॥४५३॥

गोविन्दलीलामृत १२.१२—

अथाह वृन्दा व्रजकामनेशौ

पादाम्बुजे वामृतुकारुमुख्यैः ।

निवेदितं षड्भिरिहास्ति यत्तत्

सार्धं समाकर्णयतं सखीभिः ॥४५४॥

प्रीत्यर्थं युवयोः सुचित्रितमिदं वृन्दावनं किङ्करैर्

अस्माभिर्बहुयत्नतो निपुणतासर्वस्वप्रत्यर्पणैः ।

तन्नाथौ कृपया समीक्ष्य सफलं कर्तुं युवामर्हतं

भृत्यानां हि विशेषकौशलकृतेरीशावलोकः फलम् ॥४५५॥

कृष्णभावनामृत ११.१५—

निर्यन्कुञ्जादालिपालीपरीतः

कृष्णः कान्तापाङ्गभृङ्गीविलीढः ।

पञ्चेषूणां सञ्चयं प्राञ्चयन्किं

पादाग्रैकत्विट्कणं स्वं विरेजे ॥४५६॥

वीक्ष्याकस्मात्प्रेयसः सव्यदोष्णा

राधास्कन्धं सन्दितं स्वं चकम्पे ।

माधुर्याब्धेरुत्तरङ्गेण केनाप्य्

अभ्यमृष्टा कनकाम्भोजिनीव ॥४५७॥

पार्श्वद्वन्द्वे दीयमाने सखीभ्यां

राधाकृष्णौ चारुताम्बूलवीट्यौ ।

नीत्वा सव्यासव्यपाणाङ्गुलीभिर्

वक्त्रद्वन्द्वेऽन्योन्यमेवादधाते ॥४५८॥

वामा प्रेयोवामपाणिं निरास्यद्

वक्षोजं स्वं स्पष्टुकामं करेण ।

चित्रं मन्येऽरुन्ध लावण्यवापी

पद्मं चक्रास्वादिरक्तोत्पलेन ॥४५९॥

शाखिव्रातैरावृतेऽप्यन्तरन्तः

सूर्यद्योति प्रस्फुरत्याकुलात्मा ।

सद्यःस्वेदि श्रीमुखं स्वप्रिययास्

तिर्यङ्मौलिच्छाययाच्छादयं सः ॥४६०॥

गोविन्दलीलामृत १२.३४४७—

किञ्चिद्विवक्षौ पुरतः सरन्त्यां

चलत्करायां वनपालिकायाम् ।

दैवात्समीराभिमुखी यदासीद्

वंशी तदास्य ध्वनिरुच्चचार ॥४६१॥

तत्काकलीश्रवणतश्चकितासु सर्वा

स्वासाद्य तां सपदि कुन्दलता सखीभिः ।

आदाय तत्करतलान्मुरलीमथैनां

चौरीयमित्युपनिनाय हरेः समीपम् ॥४६२॥

राधाब्रवीन्मुरलिकां विनिधाय वृन्दा

पाणौ कदर्थयति ते सखि देवरोऽस्मान।

तन्मन्यसे न यदि पृच्छ कुतोऽनयेयं

प्राप्ता न चेद्वदति सत्यमियं हि दण्ड्या ॥४६३॥

वृन्दाह कक्खटिकया वंशी शैव्याकराद्बलात।

आच्छिद्यानीय मे दत्ता कुञ्जे नान्दीमुखीपुरः ॥४६४॥

अथ कुन्दलता वंशीं कृष्णपाणौ समर्पयत।

सोऽप्यादाय चिराल्लब्धां प्रहृष्टामवादयत॥४६५॥

मनो वंशान्कुर्वंस्त्रिजगदबलानां मदनरुग्

घूर्णोत्कीर्णान्जीर्णान्स्थिरचरगधर्मान्विनिमयन।

ऋतूनां सपत्तीर्युगपदिह षण्णां समुदयन्

सुधासारैः सिञ्चन्जगदुदलसद्वेणुनिनदः ॥४६६॥

श्रीकृष्णस्याविकलमुरलीध्वानबाणैर्विदूरान्

नारीणां यद्वरधृतियुजां दर्पकोन्मत्ततासीत।

अस्त्रीलोकोऽप्यभवदतनूच्चण्डपीडाविहस्तस्

तन्नाश्चर्यं यदयमभितो मारमूर्तिस्वरूपः ॥४६७॥

द्रवति शिखरवृन्देऽचञ्चले वेणुनादैर्

दिशि दिशि विसरन्तीर्निर्झरापः समीक्ष्य ।

तृषितखगमृगाली गन्तुमुत्का जडा तैः

स्वयमपि सविधाप्ता नैव पातुं समर्था ॥४६८॥

वंशीनादैः सरसि पयसि प्रापिते ग्रावधर्मं

हंसीः सन्दानितपदयुगाः स्तम्भिताङ्गी रिरंसुः ।

आसन्नीशाः स्वयमपि जडा बद्धपादा न गन्तुं

ताभ्यो दातुं न विषशकलं नापि भोक्तुं मरालाः ॥४६९॥

ततो वृन्दाटवीं वृन्दा स्फीतां तत्तदृतुश्रिया ।

दर्शयन्ती स्वनाथौ तावभाषत पुरोगता ॥४७०॥

स्फुरत्स्तम्भास्तब्धैर्विलसितचरैः कम्पवलिता

स्थिरैः कम्प्रैः स्विन्ना स्रवदुपलकैर्गद्गदयुता ।

विरावैरस्पष्टैः पुलकवलिताङ्ग्यङ्कुरचयैः

सखीश्रेणीवेशौ प्रणयविवशा सेयमटवी ॥४७१॥

वासन्ती बकुलादिकैर्विचकिलामोघा शिरीषादिकैर्

यूथीनीपसुकेतकीप्रभृतिभिर्जात्यब्जबाणादिभिः ।

लोध्राम्लानमुखैश्च चारुकुसुमैर्बन्धूककुन्दादिभिः

क्ÿप्ताकल्पविभूषणार्चिततनुस्तैर्भाति सैषाटवी ॥४७२॥

फुल्लाभिर्माधवीभिर्बकहर विलसन्त्यत्र फुल्ला रसालाः

सन्मल्लीभिः शिरीषास्त्विह वरगणिका वीथिभिश्चात्र नीपाः ।

जातीभिः सप्तपर्णा इह च कुसुमिताम्लानपालीभिरस्मिन्

लोध्रास्ते वां सपर्यार्थिन इह फलिनी श्रेणिभिः कुन्दभेदाः ॥४७३॥

भृङ्गैः क्वापि वनप्रियाः क्वचिदिमे चाषैश्च धूम्याटका

दात्यूहैः शिखिचातकास्तत इतो हंसादयः सारसैः ।

कीराः क्वापि किखीकुलैरिह भरद्वाजैश्च हारीतका

गायन्तीव मुदात्र वां गुणयशः प्रेम्ना रुवन्तः सदा ॥४७४॥

आनन्दवृन्दावनचम्पू १.१७२०—

क्वचिन्मरकतस्थली कनकगुल्मवीरुद्द्रुमाः

क्वचित्कनकवीथिकामरकतस्य वन्यादयः ।

क्वचित्कमलरागभूस्फटिकगुल्मवीरुद्द्रुमाः

क्वचित्स्फटिकवाटिका कमलरागवल्ल्यादयः ॥४७५॥

क्वचिन्मरकतद्रुमाः कनकवल्लिभिर्वेल्लिताः

क्वचित्कनकपादपा मरकतस्य वल्लीजुषः ।

क्वचित्स्फटिकभूरुहाः कमलरागवल्लीभृतो

द्रुमाः कमलरागजाः स्फटिकवल्लिभाजः क्वचित॥४७६॥

न सोऽस्ति मणिभूरुहो विविधरत्नशाखो न यः

सुचित्रमणिपल्लवा न खलु या न शाखाश्च ताः ।

न तेऽपि मणिपल्लवा विविधरत्नपुष्पा न ये

न पुष्पनिकरोऽप्यसौ विविधगन्धबन्धुर्न यः ॥४७७॥

विहारमणिपर्वतप्रकरतः पतद्भिर्मणि

द्रवैरिव सुनिर्झरैः स्वयमितस्ततः पूरिता ।

स्थलस्थलरुहां मणीतरमणीभिराकल्पिता

तथा मणिपतत्रिभिर्विलसितालवालावली ॥४७८॥

आनन्दवृन्दावनचम्पू १.२३—

केऽप्यालवालकुरुविन्दमयूखवृन्दैर्

लाक्षारसैर्निरवधीव कृताभिषेकाः ।

अन्तर्न मान्तमिव सन्ततमेधमानं

कृष्णानुरागरसमेव समुद्वमन्ति ॥४७९॥

आनन्दवृन्दावनचम्पू १.४२४३—

चत्वारस्तरवश्चतुर्षु सरुचः कोणेषु तेषामधो

द्वे द्वे चोभयतः प्रिये इव लते विष्वक्तथावर्धताम् ।

तानाक्रम्य परस्परात्तवपुषः पुष्पैः फले पल्लवैः

साङ्गोपाङ्गमणीन्द्रमण्डपरुचं कुर्वन्ति सर्वा यथा ॥४८०॥

स्तम्भास्तेऽमी बडभ्यो नियतकुसुमिताः स्कन्धशाखास्तदीया

वल्लीनां पुष्पितानामपि विटपकुलैः कल्पितानि च्छदींसि ।

कैश्चिद्द्वारोऽपि भङ्गीविरचनरुचिरा भित्तयः कैश्चिदन्यैः

पुष्पैः प्रालम्बचूडाकलसविरचनाचामरादीनि कैश्चित॥४८१॥

सङ्ग्रहकर्तुः—

तयेत्थं दर्शितं सर्वं विलोक्य पारितोषिकम् ।

ददतुर्हारयुग्मं च श्लाघां चक्रतुरीश्वरौ ॥४८२॥

अलङ्कारकौस्तुभ ५.२६२८—

अर्घ्यं कुट्मलकैर्मरन्दपटलैः पाद्यं परागैर्मधु

स्यन्दार्द्रैरनुलेपनं किसलयैः पुष्पैश्च भूषां फलैः ।

नैवेद्यं पवनाहतैरवयवैर्नृत्यं मदालिस्वनैर्

गीतं कल्पयता हरिर्वनगतो वल्लीचयेनाचितः ॥४८३॥

अपि च—

एकेनानिलचपलेन पत्रहस्ते

नारौत्सीत्स्तवकपयोधरं परेण ।

आक्षेपं न न न न नेति चञ्चलालि

भ्रूभङ्ग्या वाधित हरिं विलोक्य वल्ली ॥४८४॥

सन्त्रासं किसलयपाणिकम्पनेन

प्रोत्साहं कुसुममयेन सुस्मितेन ।

रोषं च भ्रमरघटाकटाक्षपातैर्

आसन्ने मधुभिदि वीरुधोऽभ्यनैषुः ॥४८५॥

नानापुष्पाणि दृष्ट्वा सलालसः कृष्णो राधां प्रसाधयति (अलङ्कारकौस्तुभ ५.२९)—

सीमन्तोपरि बन्धुजीवकुसुमं सिन्धूरबिन्दुकृतं

चित्रैर्नव्यदलैर्व्यधायि मकरी गण्डे नखाग्रक्षतैः ।

चक्रे कञ्चुलिका पयोधरभरे नानाप्रसूनच्छदैः

कृष्णेन प्रणयातुरेकरभसस्तस्यामभिव्यञ्जितः ॥४८६॥

अलङ्कारकौस्तुभ ५.६३—

विपिनलतादलकुसुमैर्विभूष्य राधां हरिः प्राह ।

त्वं सुमुखि कृष्णपक्षप्रणयवती कुञ्जदेवता कापि ॥४८७॥

अलङ्कारकौस्तुभ ८.३६—

राधे मुखं तव विधुर्नु सरोरुहं नु

नेत्रे च खञ्जनयुगं नु चकोरकी नु ।

मूर्तिश्च काञ्चनलतैव नु चन्द्रिका नु

धाता नु पञ्चविशिखी नु रसो नु वाऽद्य ॥४८८॥

अलङ्कारकौस्तुभ ८.३९—

उदञ्चद्वक्षोजस्तवकनमिता बाहुविटप

द्वयीदोले रम्या स्मितकुसुमसौरभ्यसुभगा ।

इयं सन्ध्यारागच्छविलमृदुपाण्यङ्गुलिदला

नवीना ते राधे विलसति तनू रत्नलतिका ॥४८९॥

अलङ्कारकौस्तुभ ८.७३—

पूर्णो यदि स्यादनिशं सुधांशुः

स चेत्कलङ्केन भवेद्विहीनः ।

चकोरपेयोऽपि न चेदयं स्यात्

त्वदास्यदास्याय तदैव राधे ॥४९०॥

अलङ्कारकौस्तुभ ८.१७१—

स्वतश्चपललोहिते सुमुखि राधिके ते दृशौ

गतं सहजलालसं प्रकृतिमन्दमन्दं स्मितम् ।

स्वभावमृदुवक्रता ललितमर्धमर्धं वचो

मदश्च मदनोऽथवा मधुमदश्च कैर्लक्ष्यताम् ॥४९१॥

अलङ्कारकौस्तुभ ५.७०—

स्तनौ स्तवकविभ्रमौ विहसितं प्रसूनोद्गतिर्

वचो मधुरसो दृशावभिमुखीस्थितौ खञ्जनौ ।

भ्रुवौ भ्रमरमण्डली करपदं नवाः पल्लवास्

त्वमेव सखि राधिके मदनकल्पवल्ली भुवि ॥४९२॥

एवं वर्णयतस्तस्य मुखं दृष्ट्वा सा मानं चकारेति वर्णयति (अ.कौ. ५.१९४)

गण्डे कुण्डलपद्मरागमहसो किम्बं प्रति प्रेयसः

पारक्योऽधरराग इत्यरुणितापाङ्गी चलं वीक्ष्य तम् ।

स्निग्धाक्षी दयितो रुषं विदितवान्नो वेति दोलायिता

न्यञ्चद्वक्त्रतया विचार्य च मृषा मानं दधे राधिका ॥४९३॥

अलङ्कारकौस्तुभ ४.३—

कोपे यथातिललितं न तथा प्रसादे

वक्त्रं विधिस्तव तनोतु सदैव कोपम् ।

इत्याकलय्य दयितस्य वचोविभङ्गीं

राधा जहास विहसत्सु सखीजनेषु ॥४९४॥

अलङ्कारकौस्तुभ ५.१९५—

प्रियालोके दृष्टिं नमयति तमन्यां प्रति लसद्

दृशं स्निग्धावक्तप्रचलनयना पश्य्यति वधूः ।

पुनः पश्य्य्७ स्मितपुलकसङ्गोपनपरा

हठात्तेन श्लिष्टा सपदि गतवाम्या समभवत॥४९५॥

कान्तभुजबन्धनात्विश्लिष्टा चलन्ती अग्रे भ्रमरं दृष्ट्वा परावृत्य काकमाह (उ.नी. १३.१४)—

अपि करधुतिभिर्मयापनुन्नो

मुखमयमञ्चति चञ्चलो द्विरेफः ।

अघदमन मयि प्रसीद वन्दे

कुरु करुणामवरुन्धि दुष्टमेनम् ॥४९६॥

उज्ज्वलनीलमणि ११.६८—

रक्ष रक्ष मुहुरेष भीषणो

धावति श्रवणचम्पकं मम ।

इत्युदीर्य मधुपाद्विशङ्किता

सस्वजे हरिणलोचना हरिम् ॥४९७॥

सङ्ग्रहकर्तुः—

राधाभासो मरकतमयीं कुर्वते कृष्णकान्तिं

कृष्णस्याभा अपि च हरितीकुर्वते धाम तस्या ।

स्थाने स्थाने यदि बत निवसतस्तौ तदा गौरनीलाव्

एकस्थाने यदि तदा तुल्यभासौ विभातः ॥४९८॥

चैतन्यचरितामृतमहाकाव्यं ९.१९—

केशवांसतटराजिभुजाय

मन्थारलसगतेः सह यान्त्याः ।

तन्नितम्बभुवि लग्नविलग्नो

वीचिवत्किल रराज नितम्बः ॥४९९॥

चैतन्यचरितामृतमहाकाव्यं ९.१३१६—

उल्लसन्मदनमन्थरपाद

न्यासभाजिगमने रमणीनाम् ।

श्रोणिबिम्बकुचयोः परिणाहः

खेदयन्नपि बभूव सुखाय ॥५००॥

वीचिभङ्ग इव काञ्चनकाञ्ची

कामडिण्डिमरवेण नितम्बः ।

सुभ्रुवां गमनविभ्रमभूषो

मन्दमन्दमलसेन ननर्त ॥५०१॥

कोमलं चरणपद्ममशक्तं

मा स्म गा द्रुततरं मदिराक्षि ।

इत्यतीव विवशौ रुदतः किं

नूपुरौ प्रणयतो रमणीनाम् ॥५०२॥

तत्तदङ्घ्रिकमलस्य विलासे

सस्पृहं कथयतीव महान्तम् ।

स्वानुरागमनुरागवतीनां

यावकैररुणिता वनभूमिः ॥५०३॥

गोविन्दलीलामृत १२.६८—

ईशाविमं पश्यतमात्मनोऽग्रे

वसन्तकान्ताख्यमरण्यभागम् ।

यस्मिन्नृतूनामधिपो मुदा वां

सेवोत्सुकः स्वैर्विभवैश्चकास्ति ॥५०४॥

कृष्णाह्निककौमुदी ३.५८—

यस्मिन्पुञ्जितमञ्जुगुञ्जदलयो वासन्तिका मण्डपाः

कूजत्कोकिलकेलिकौतुकरहःकोहलाः पादपाः ।

चञ्चच्चन्दनशैलनन्दनमरुल्लोलल्लताबान्धवं

लीलाचङ्क्रमणक्रमेण स ययौ देशं वसन्तोत्सवम् ॥५०५॥

गोविन्दलीलामृत १२.६९—

अथ तद्विलोकमुदितेन स्व

मधुरिमदर्शनोद्गता सा ।

हृदयदयितां प्रति तां प्रमदाद्

अवर्णि हरिणा वनद्युतिः ॥५०६॥

आनन्दवृन्दावनचम्पू १.३५—

पुन्नागैरवतंसनं विदधती वासन्तिकाभिः स्रजं

गुच्छार्धं बकुलैर्ललाटफलके सिन्दूरकं किंशुकैः ।

चाम्पेयैः कुचकञ्चुकं कटितटे शोणाम्बरं वञ्जुलैर्

नित्यं मूर्तिमती सती विजयते श्रीर्यत्र पौष्पाकरी ॥५०७॥

गोविन्दलीलामृत १२.७०७६—

कुन्दे मरन्दाशनतुन्दिलान्ते

मन्दादराः सम्प्रति कुन्ददन्ति ।

इन्दिन्दिराः पश्य मरन्दलुभ्दा

माकन्दमुच्छूनशिखं प्रयान्ति ॥५०८॥

मौनव्रतं त्यक्तुमिवान्यपुष्टाः

कण्ठं कषायेण विशोधयन्तः ।

सार्धं पिकीभिः कलकण्ठ पश्य

माकन्दमुद्यन्मुकुलं प्रयान्ति ॥५०९॥

वासन्ती स्वर्णयूथीमुखहसितलतालीभिरालिङ्गिताङ्गी

फुल्लेयं चम्पकाली बकुलततिरियं सापि तापिञ्छमाला ।

सेयं पुन्नागवीथी सुतिलकविततिः सा त्वियं चूतपाली

श्रेणीयं वञ्जुलानां विलसति पुरतश्चावलिः केशराणाम् ॥५१०॥

पुन्नागाः सप्तलाभिर्विधुमुखि बकुलाः सल्लवङ्गावलीभिः

कुब्जाभिः कोविदाराः सुदति रुरुचिरे चम्पकाः केतकीभिः ।

तेऽशोकाः स्वर्णयूथीततिभिरिह लसत्किंशुकाः पाटलीभिर्

वासन्तीभी रसालाः सितशतदलिकाश्रेणिभिः केशराश्च ॥५११॥

अतिमुक्तैरतिमुक्तैरतिमुक्तैश्चान्वितं वनं यदिदम् ।

रथकृन्मालिकमोक्षाकाङ्क्षैरपि सेवितं तस्मात॥५१२॥

शरोत्पत्तिस्थानायत इदमरण्यं रतिपतेर्

लतावृक्षव्रातः कुसुमशरकारायत इह ।

पतन्भृङ्गव्यूहः प्रतिकुसुममुच्चैर्ध्वनिमिषाद्

दिशन्भद्राभद्रं गणयति परीक्षाकर इव ॥५१३॥

मधुपी मधुपं विष्टं स्वप्रतिबिम्बाञ्चिपुष्पमनु दृष्ट्वा ।

मिलितां मधुपीमन्यां मत्वा तृषितापि निववृते रोषात॥५१४॥

कृष्णभावनामृत १३.१९—

अजनि मदनो राज मन्त्री मधुर्मलयानिलो

निखिलविजयि सेनानीन्द्रश्चरा भ्रमरा इह ।

पिकपरिषदः प्रापुर्दण्डेऽधिकारमदक्षिणा

व्रजकुलभुवो दण्ड्याः काराः कृता गिरिगह्वरा ॥५१५॥

आनन्दवृन्दावनचम्पू १.३३३४—

माकन्दानां कलितकलिकास्वादनः कोकिलोऽयं

चञ्चच्चञ्चुर्यदयमनदत्कण्ठमूलं दुनानः ।

ग्रासीभूतः सह कलिकया यत्र लब्धावकाशो

मूर्तो नादः कुहुरिति बहिर्याति यत्र द्विरेफः ॥५१६॥

मदकलकलकण्ठकण्ठघण्टा

ध्वनिनिकरानुमितस्वतन्त्रचारः ।

प्रतिसरति स यत्र मत्तवामा

कलकलदः स्मरगन्धसिन्धुरेन्द्रः ॥५१७॥

अथ कान्तवाक्यमसहमानानामिव सखीनां परस्परमुत्प्रेक्षोक्तिः, आनन्दवृन्दावनचम्पू १४.३१—

आमन्दचन्दनसमीरगुरूपदेशात्

प्रत्यग्रपल्लवकराभिनयं दधत्यः ।

गीतेन भृङ्गमिथुनप्रकरस्य वल्ल्यः

कृष्णावलोकनमुदा सरसं नटन्ति ॥५१८॥

अलङ्कारकौस्तुभ ५.२८, २७—

सन्त्रासं किसलय पाणिकम्पनेन

प्रोत्साहं कुसुममयेन सुस्मितेन ।

रोषं च भ्रमरघटाकटाक्षपातैर्

आसन्ने मधुभिदि वीरुधोऽभ्यनैषुः ॥५१९॥

एकेनानिलचपलेन पत्रहस्ते

नारौत्सीत्स्तवकपयोधरं परेण ।

आक्षेपं न न न न नेति चञ्चलालि

भ्रूभङ्ग्या वाधित हरिं विलोक्य वल्ली ॥५२०॥

एहीत्याह्वयत इवापरेण काञ्चित्सव्रीडा कुसुममयं स्मितं पिधत्ते—

सङ्ग्रहकर्तुः—

अथारण्यश्रान्तेः श्रितविटपिमूला मुरभिदः

प्रसूनैर्वासन्तैरकृत विविधाकल्परचनाम् ।

यदा राधां सालीं रचयैतुमसौ भूषिततनुं

समारब्धह्रीतोऽस्थित नहि तदा तस्य सविधे ॥५२१॥

आनन्दवृन्दावनचम्पू १४.१४—

कचौघे पुन्नागं बकुलमुकुलानि भ्रमरकेष्व्

अशोकं सीमन्ते श्रवसि सहकारस्य कलिकाः ।

स्तनाग्रे वासन्तीकुसुमदलमालेति कुसुमैः

स्वयं वृन्दा राधां सपदि मुमुदेऽलङ्कृतवती ॥५२२॥

आनन्दवृन्दावनचम्पू १४.१३—

वृन्दादिभिः सरभसं वनदेवताभिः

प्रीत्यादरेण महताभ्युपगम्यमानाः ।

कामं वसन्तमहमङ्गलवेषवासो

भूषादिभिर्विदधिरे परिभूषितास्ताः ॥५२३॥

गोविन्दलीलामृत १४.२७३०—

तथाह वृन्दा व्रजमङ्गलाकरा

वालेपचित्रै रुचिरां सुविस्तृताम् ।

वसन्तलीलोत्सवरङ्गवेदिका

स्थलीमिमां पश्यतमग्रतः स्थिताम् ॥५२४॥

अगुरुघुसृणकस्तूरीन्दुसच्चन्दनानां

पृथगपृथगुदञ्चत्कर्दमाम्भःप्रपूर्णैः ।

विविधमणिचिताम्बुक्षेपयन्त्रैर्विराजद्

विततवदनकुभैरन्वितां शातकुम्भैः ॥५२५॥

सैन्दूरकार्पूरकपौष्पकन्दुकैः

शरासनैर्बाणचयैश्च कौसुमैः ।

ताम्बूलमाल्यैः कुसुमाम्बुचन्दनैर्

आपूर्णसौवर्णकभाजनैर्युताम् ॥५२६॥

कर्पूरकुङ्कुममदागुरुचन्दनानां

पङ्कैश्च चूर्णनिकरैरतिपूरिताभिः ।

श्वासाभिलव्यमृदुजातुषकूपिकाभिर्

आपूर्णहैमततभाजनवृन्दयुक्ताम् ॥५२७॥

आनन्दवृन्दावनचम्पू १४.१७—

बाष्पच्छेद्यसदच्छजातुषपुटिगर्भेषु सम्पूरितां

नानावर्णविलासचूर्णपटलीं पङ्कं च कास्तूरिकम् ।

पौष्पं कार्मुकमायुधं च विविधं नानाविधान्कन्दुकान्

रत्नानां जलयन्त्रकाणि सुषुवुः कल्पद्रुमाणां गणाः ॥५२८॥

गोविन्दलीलामृत १४.३१—

आरुह्य तां श्रीरमणीचर्यो भवंस्

तदैकतः श्रीरमणोऽप्यथैकतः ।

गृहीततत्तज्जलयन्त्रकादिकः

परस्परं प्रेमभरादरीरमत॥५२९॥

आनन्दवृन्दावनचम्पू २२.१४१५—

काश्चित्कौङ्कुमधूलिधोरणिभृतां वासोऽञ्चलीं लीलया

तिर्यक्काञ्चनकाञ्चिन्सीम्नि जघने बद्धां बभुः ।

याभिर्यच्चिरसञ्चितं रतिकलावैदग्ध्यविद्याधनं

क्रेतुं कृष्णमनोमणिं तदिव ता ग्रन्थौ निधायागताः ॥५३०॥

श्च्योतैरागुरवैर्महासुरभिभिः कस्तूरिकाकर्दमैः

कार्पूरैरपि रेणुभिर्मलयजक्षोदैश्च सम्पूरिताः ।

बाष्पच्छेद्यतया महामणिमयस्थाल्यन्तरस्थापिताः

काश्चिज्जातुषकूपिकाः करतलेनादाय तत्राययुः ॥५३१॥

आनन्दवृन्दावनचम्पू १४.२४—

वल्गद्वल्गुमपीन्द्रकुण्डलधुरादीर्घीकृतच्छिद्रयोर्

बिभ्रत्तत्क्षणभुग्नचूतमुकुलं श्रीकर्णयोरेकतः ।

गण्डे तत्प्रतिबिम्बभाजि मधुरां काञ्चित्त्विषो मञ्जरीं

ग्रीवासीम्नि विलासबद्धचिकुरस्तोमेऽतिमुक्तस्रजम् ॥५३२॥

आनन्दवृन्दावनचम्पू १४.२८—

उद्धूनितैस्तत इतः पटवासपूरैर्

बालारुणाकृतिभिरुद्भटगन्धवद्भिः ।

अत्यन्तलाघवतया नभसि भ्रमद्भिर्

अप्राप्तमौलितिलकालकपक्ष्मलक्ष्मीः ॥५३३॥

आनन्दवृन्दावनचम्पू २१.१०—

कृष्णः कलेन मुरलीनिनदेन तासां

वृन्दावनं सुचिरसञ्चितगानगर्वम् ।

काश्मीररेणुनिकरेण समं समन्तात्

ताभिः प्रमोदरभसेन विकीर्यते स्म ॥५३४॥

आनन्दवृन्दावनचम्पू १४.२२८—

नानायन्त्रमवादयन्त कतिचित्केचिद्वसन्तं जगुः

केचिद्गन्धरजांसि कन्दुकचयानन्योन्यमाचिक्षिपुः ।

श्रीकृष्णानुचरोत्करेषु सुबलश्रेष्ठेषु हृष्टान्तरो

हासैकप्रणयी बटुः पटुरटन्नुल्लासनृत्यं व्यधात॥५३५॥

आनन्दवृन्दावनचम्पू २१.९—

अन्योन्यहासपरिहासविलासपूर्वं

सैन्दूरकौङ्कुमरजोनिकरं किरन्त्यः ।

वीणादिवादनविधानरसेन मुक्त

कण्ठं जगुर्द्विपदिकां मदिराग्रताक्ष्यः ॥५३६॥

आनन्दवृन्दावनचम्पू २२.५—

काश्चित्कुङ्कुमवारिभिर्मलयजाम्भोभिश्च कस्तूरिका

पाथोभिः कुसुमद्रवैरपि पृथक्सम्पूरितं पौरटम् ।

बिभ्रत्यो जलयन्त्रजालमतुलं शिल्पेन नानात्मना

रेजुर्मन्मथयुद्धयान्त्रिकततेर्मूर्ता इवौजःश्रियः ॥५३७॥

आनन्दवृन्दावनचम्पू २१.११—

कृष्णे गायति चर्चरीमतिकलां कण्ठेन वीणाजिता

स्तभ्नाति स्म कलिन्दजा तरुलताश्रेण्योऽश्रुवर्षं दधुः ।

शृण्वन्तः श्रवणोपकण्ठगलितं स्वेदाम्बु तन्माधुरी

धारास्यन्दधिया लिहन्ति रभसादन्योन्यमेणीगणाः॥५३८॥

आनन्दवृन्दावनचम्पू २१.१२—

गान्धारग्रामसन्धापितगरिमधुराधूतगान्धर्वविद्यं

गन्धर्वीगर्वखर्वीकरणपटु नटद्भ्रूलतं रक्तकण्ठी ।

त्रिस्थानस्पर्शि नानाविधगमकगमं साहसोत्साहनश्यद्

व्रीडाक्रीडारसेनालपदतिललितोदारकेदाररागम् ॥५३९॥

आनन्दवृन्दावनचम्पू २१.१६—

अश्मानो य इमे मणीन्द्रवपुषो वृक्षाऽऽलवालात्मकाः

सर्वे विद्रुतिमागता यदवमन्नम्भस्तदेतत्पुनः ।

जातस्तम्भमलम्भयत्कठिनतां येयं तया सर्वतो

वृक्षाणां प्रतिमूलमेव निविडा व्यातेनिरे वेदयः ॥५४०॥

आनन्दवृन्दावनचम्पू १४.४७४९—

आलीनां कुटिलकटाक्षबाणलक्षैर्

आबिद्धो हरिरसृजत्कटाक्षबाणम् ।

राधाया उरसि निपत्य ही कथञ्चित्

स व्रीडाकवचविभेदमेव तेने ॥५४१॥

व्यतनुत वृषभानुनन्दिनीयं

तनुतरकज्जलकालकूटदिग्धम् ।

स हसितनिशितः कटाक्षबाणो

हरिहृदयं विदर्य विनिर्बिभेद ॥५४२॥

लीलासां मुकुलिताक्षमरालितभ्रूर्

झङ्कारित्कङ्कणमुदस्य कराब्जकोषम् ।

केनाप्यलक्षितमथो वृषभानुपुत्री

सिन्दूरकन्दुकमुरस्यकिरन्मुरारेः ॥५४३॥

आनन्दवृन्दावनचम्पू १४.३७३८—

सहचरकरदत्तैः कन्दुकैः कैङ्करातैः

सकलकुलवधूनामेव विक्षोभि वक्षः ।

यदकृत कृतहस्तो यौगपद्येन सद्यस्

तदमरवरनार्यः साधुवादैः पुपूजुः ॥५४४॥

शोणश्लक्ष्णऽरुणसुरभिर्धूलिभिर्धूलिभिश्च

क्रीडायुद्धं समजनि महत्कन्दुकैः कन्दुकैश्च ।

शृङ्गोन्मुक्तैः कुसुमधनुषो वारुणास्त्रैरिवारात्

काश्मीरीयैरतिसुरभिभिर्वारिभिर्वारिभिश्च ॥५४५॥

गोविन्दलीलामृत १४.३७४३—

अंसालम्बितपौष्पकार्मुकलतां बाणावलीं कौसुमीं

वंशीं चातुलतुन्दबन्धनिहितां रत्नाम्बुयन्त्रं करे ।

बिभ्रत्श्रीघटिकाण्चलं च निभृतं पिष्टातकैः श्रीहरिः

कान्तायन्त्रविमुक्तगन्धसलिलैः सिञ्चन्निमा दिव्यति ॥५४६॥

एकास्य निःसरति या जलयन्त्रधारा

व्योमाध्वनीह शतधा च सहस्रधा च ।

आसन्नपातसमये किल लक्षधासौ

लक्ष्येषु पातसमये बत कोटिधा स्यात॥५४७॥

जातुष्यो या गन्धचूर्णैः प्रपूर्नाः

क्षिप्तास्ताभिस्तेन वा कूपिकास्ताः ।

भूमौ पेतूः क्षेपवेगैर्वशीर्णास्

तन्मध्यस्था गोलिका लक्ष्यमापुः ॥५४८॥

तासां तनौ कुङ्कुमबिन्दुजाल

मध्ये विराजन्मदबिन्दवस्ते ।

सुवर्णवल्लीततिपुष्पवृन्द

सुप्तालिसङ्घभ्रममुन्नयन्ति ॥५४९॥

श्रीराधिकाप्रथमकीर्णसुसूक्ष्मरन्ध्र

सद्यन्त्रकुङ्कुमजलामलबिन्दुजालैः ।

व्याप्तं परिस्फुरति संहननं बकारेर्

उद्यत्सुधाकिरणबिम्बशतैर्नभो वा ॥५५०॥

ताः क्षेपवेगगलितावृतिकूपिकानां

कर्पूरनागजपरागजगोलिकाभिः ।

लग्नाभिरङ्गवसनेऽथ सुगन्धितोयैः

पङ्कत्वमेत्य विहिताः शवलाङ्गभासः ॥५५१॥

नानावर्णैर्गन्धचूर्णैर्विकीर्णैर्

आदौ भूर्द्यौर्व्यानशे दिग्विदिक्च ।

गन्धाम्बूनां वृष्टिसंछिन्नमूलैर्

लेभे पश्चाच्चित्रचन्द्रातपत्वम् ॥५५२॥

गोविन्दलीलामृत १४.४७—

कृष्णस्तीक्ष्णैरतनुविशिखैर्नर्ममन्त्रप्रवीणैस्

तासामासीन्मदनविवशो विद्धमर्मा कटाक्षैः ।

तत्प्रत्यस्त्रैः सदरहसितापाङ्गलोकाशुगैस्तान्

प्रत्यावर्त्य व्यधदथ ता व्याकुलाः सोऽपि शश्वत॥५५३॥

आनन्दवृन्दावनचम्पू १४.५६—

काचिद्वंशीमपहृतवती कापि पानीययन्त्रं

काचित्पौष्पं धनुरनुपमं बाणजालं च काचित।

अप्यन्यस्यां कुतुककलया मण्डनान्याहरन्त्यां

भ्रूभङ्गेन स्मितसुरुचिना राधिका बाधिकासीत॥५५४॥

आनन्दवृन्दावनचम्पू २२.३१३२—

आवेगस्य जवेन तेन महता निर्भज्य विभ्रश्यतो

भूमौ जातुषकोषातोऽतिमृदुलान्निःसृत्य दूरं गतैः ।

गन्धैरागुरवैर्धनैर्मलयजक्षोदैश्च गोलायितैर्

भित्त्वाण्डं खगपोतकैरिव वह्निर्भूतैर्निपेतेऽभितः ॥५५५॥

तेषां ये व्रजराजसूनुनिकटे वेगात्समं सर्वतः

क्षिप्तानां निपतन्ति तानरहयन्पार्श्वस्थिताः सुभ्रुवः ।

ये वा केऽपि लगन्ति तस्मात्जलदश्यामे प्रतीकेऽभितः

तानालुम्पति राधिका स्मितमुखी स्वेदच्युता पाणिना ॥५५६॥

आनन्दवृन्दावनचम्पू १४.५७—

स्वाञ्चलेन घुसृणादिकपङ्कान्

स्वेदवारि च शनैः क्षयन्त्या ।

यत्पपे मधुरिमास्य दृशा तद्

वीरपानमिव जातममुष्याः ॥५५७॥

कृष्णभावनामृत १२.८४—

अनू दक्षिणोत्तरदिशौ विशाखया

सह चित्रया व्यजलचारुचालनैः ।

व्यतिदर्शनोपधिकघर्मबिन्दवः

सहसास्ततां दधति वां सहोदिताः ॥५५८॥

सङ्ग्रहकर्तुः (?)—

लीलाविलासगमनक्रममन्दमन्द

शब्दायमानमणिनूपुरकिङ्किणीकः ।

ओष्ठाधरे ललितया लैतोपनीतं

ताम्बूलपूरकमदन्मदमत्तमूर्तिः ॥५५९॥

गोविन्दलीलामृत १४.३३३४—

क्लिन्नातिसूक्ष्मवसनान्तरुदीर्णतत्तद्

अङ्गावलीमधुरिमामृतसत्प्रवाहैः ।

संसिक्तकान्तनयनाब्जमनस्तटीकास्

तस्यापि तैरतिनिषिक्तवितृप्तनेत्राः ॥५६०॥

ताम्बूलचर्वितदरोच्छ्वसितैकगण्डाः

क्लिन्नालकालिवृतघर्मजलाञ्चिभालाः ।

विस्रस्तकेशविगलत्कुसुमावलिका

लोलत्कचांसयुगचारुकुचांशमध्या ॥५६१॥

गोविन्दलीलामृत १४.४८—

मह्यां मेघः स च नरवपुस्तं च सिञ्चन्त्यजस्रं

शम्पास्तस्मात्पृथगितलसन्मूर्तयो गन्धवारान।

धारासारैः सततममुना सिच्यमाना मुदास्मिन्

वृन्दादीनामपिबदमृतं नेत्रवापीह वर्गः ॥५६२॥

सङ्ग्रहकर्तुः—

काञ्चीकुन्तलहारमौलिकटकैः शय्यातपत्रालयैर्

वल्लीवृक्षमृगद्विजैर्बहुविधैर्नानाकलाकल्पितैः ।

पौष्पैरेव मुदा वाधुः परिजनश्रेण्यस्तयोः स्वामिनोः

सेवां स्वादितवन्यमूलफलयोस्ताम्बूलपूर्णास्ययोः ॥५६३॥

गोविन्दलीलामृत १२.७९८०—

अटवीं प्रियामथ दर्शयन।

अवदत्प्रियौ मधुमङ्गलः ॥५६४॥

निचायतं श्रीव्रजकाननेशौ

निदाघमञ्जुं वनभागमेतम् ।

यः स्वागतौ वीक्ष्य पुरोभवन्तौ

सेवोत्सुकः स्वैर्विभवैश्चकास्ति ॥५६५॥

सङ्ग्रहकर्तुः—

यत्र निर्झरनिह्रादनिवृत्तस्वनझिल्लिकम् ।

स्वस्वतुच्छीकरजीषद्रुममण्डलमण्डितम् ॥५६६॥

सरित्सरः प्रस्रवणोर्मिवायुना

कह्लारकञ्जोत्पलरेणुहारिणा ।

न विद्यते यत्र वनौकसां दवो

निदाघवह्न्यर्कभवोऽतिशाद्वले ॥५६७॥

अगाधतोयह्रदिनीतटोर्मिभिर्

द्रवत्पुरीष्याः पुलिनैः समन्ततः ।

न यत्र चण्डांशुकरा विषोल्बणा

भुवो रसं शाद्वलितं च गृह्णते ॥५६८॥

गोविन्दलीलामृत १२.८२९१—

वस्त्राणि सत्पाटलिपुष्पवृन्दैः

शिरीषपुष्पैरवतंसकांश्च ।

मल्लीभिरङ्गाभरणानि हर्षाद्

बिभर्त्यसौ वामिव दातुमुत्कः ॥५६९॥

सुपक्त्रिमैः पीलुकरीरधात्री

राजादनैः सत्पनसाम्रबिल्वैः ।

विकङ्कतैर्जालकतालबीजैः

सिषेविषुर्वां धिनुतेऽसकौ माम् ॥५७०॥

इह रविमणि बद्धप्रान्तभूम्युष्मदीप्यद्

दिनकरकरजालैर्म्लानिमाशङ्क्य वां किम् ।

प्रणयतत निजाङ्गैश्छादयन्त्यो भवन्तौ

कलयतमगवल्ल्यः पल्लवैर्वीजयन्ती ॥५७१॥

बहुप्रजेयं कदली निजात्मजैर्

वृताभितस्तैः सुतवस्करा यथा ।

तान्लालयन्ती च्छदपाणिना बभौ

धयन्त्यधोऽञ्चत्सुमनःस्नुतस्तनम् ॥५७२॥

सुदीर्घ नासेति सुपक्त्रिमाम्रे

विन्यस्तचञ्चुं पिकमाकलय्य ।

स्मेराननाः प्रेक्ष्य पुरो निजालीः

प्रियां हरे पश्य विनम्रवक्त्राम् ॥५७३॥

मल्लीवल्लीमतल्लीततिभिरिह लसल्लोललोलालिमाला

चिल्लीभिश्चारुतल्लीतटभुवि विदधत्साधुहल्लीशकेलिम् ।

क्रुध्यत्कन्दर्पमल्लीकृतकुसुमचयेषत्स्मिताभिस्तमालः

सोऽयं श्रीगोपपल्लीपतिसुत इव सद्वल्लरीभिश्चकास्ति ॥५७४॥

निशम्य वाचं मधुमङ्गलस्य

राधामुकुन्दौ स्मितशोभितास्यौ ।

वृन्दावितीर्णान्श्रवणे न्यधात्तां

शिरीषपुष्पस्तवकान्परस्परम् ॥५७५॥

करारविन्देन परागपांशुलान्

कृष्णः प्रियाया अलकान्व्यतुस्तयत।

साप्यस्य चूडोपरि केकिचन्द्रकान्

विकाशिदोर्मूलमथालकानपि ॥५७६॥

प्रियामाहि हृदि स्पृशन्प्रिये

निदाघतापैरुपतापितोऽभितः ।

पलायमानः कुचशैलदुर्गकं

समाश्रितः शैत्यगुणोऽस्ति किं तव ॥५७७॥

कान्ते सुधांशुमणिबद्धनगालबाले

तद्वक्त्रशुभ्रकिरणोदयजाम्बुपूरे ।

स्नात्वा निपीय सलिलं विगतोष्णतापास्

तत्सेतुमूर्ध्नि विलसन्ति खगाः सकान्ताः ॥५७८॥

कृष्णभावनामृत १३.२०२१—

कलय पुरतः कान्ते गोवर्धनोऽखिलभूभृतां

नृपतिरभवच्छक्रं शत्रुं चिरस्य निरस्य किम् ।

निजनिजरुचां तत्या मेर्वादिभिः करभूतया

यदयमधुनापासांचक्रे विनिह्नुतविग्रहैः ॥५७९॥

क्वचन कनकप्रस्थात्स्वस्था प्रसर्पति जाह्नवी

क्वचिदिह गुहा विद्योतन्ते हिमैर्विहितालयाः ।

क्वचन शिखरैर्वीथीं रोद्धुं रवेरभिलाषते

क्वचन रजतग्रावैः सिंहासनान्यपि भान्ति नौ ॥५८०॥

ललितमाधव ८.२७२९—

भृङ्गारास्तनुनिर्झरैर्विटपिभिस्तत्रातपत्रावली

पल्यङ्का स्फटिकैरलङ्कृतिकुलं धौतोज्ज्वलैर्धातुभिः ।

रत्नानां निकुरम्बकेण हरये येनार्पिता दर्पणाः

सोऽयं राजति शेखरः शिखरिणां गोवर्धनाख्यो गिरिः ॥५८१॥

विलसति किल सोऽयं पश्य मत्तो मयूरः

शिखरभुवि निविष्टस्तन्वि गोवर्धनस्य ।

मुहुरमलशिखण्डं ताण्डवव्याजतस्ते

व्यकिरदुपहरन्यः कर्णपूरोत्सवाय ॥५८२॥

अग्रे चम्पकचक्रमस्य पुरतः पुन्नागवीथी ततो

जम्बूनां निकुरम्बकं तदभितस्तुङ्गा कदम्बाटवी ।

इत्युच्चैर्वरशाखिभिः परिचितैरेभिः क्रमादाचितः

कालिन्दीमुपतिष्ठते गिरितटात्पन्थाः प्रथीयानसौ ॥५८३॥

अलङ्कारकौस्तुभ ५.११६—

कृष्णेन हर्षादुपढौकितानि

निर्माय पुष्पाभरणानि यानि ।

उच्चैरभीष्टान्यपि तानि राधा

नेच्छद्गभीरप्रणयस्मयेन ॥५८४॥

उज्ज्वलनीलमणि १५.१०७—

अहमिह विचिनोमि त्वद्गिरैव प्रसूनं

कथय कथमकाण्डे चण्डि वाचं यमासि ।

विदितमुपधिनालं राधिके शाधि केन

प्रियसखि कुसुमेन श्रोत्रमुत्तंसयामि ॥५८५॥

उज्ज्वलनीलमणि १५.१११—

रोषस्तवाभूद्यदि राधिकेऽधिकस्

तथास्तु गण्डः कथमुच्छ्वसित्यसौ ।

स्वनर्मणेत्थं दुरपह्नवस्मितां

प्रियामचुम्बत्पशुपेन्द्रनन्दनः ॥५८६॥

कृष्णाह्निककौमुदी ३.५९—

लीलारत्नमयाचलोदरशरच्छीताम्भसो निर्झरः

प्रच्छायक्षतभानुनिकरा भूमिरुहाणां वराः ।

वाताः पाटलिवाटिकापरिमलैः खञ्जन्ति यत्खञ्जवत्

स्थानं फुल्लशिरीषकुञ्जमगमत्तद्ग्रीष्मसन्तोषवत॥५८७॥

कृष्णभावनामृत ११.११—

किं वा हेमोद्योतिनीलाश्मदिव्य

च्छत्रीभावं प्राप्य घर्मापनुत्यै ।

वैवर्ण्यास्रे ऊहतुर्गद्गदोद्यन्

मन्द्रध्वानेनास्तुवातां मुदेमौ ॥५८८॥

आनन्दवृन्दावनचम्पू १.३८३९—

कर्पूरत्रसरेणुबन्धुभिरपां निःस्यन्दिभिर्बिन्दुभिश्

चञ्चच्चामरचारुमारुतधूतैर्मुक्तावितानैरपि ।

आकीर्णे जलयन्त्रवेश्मनि सरोवाप्यादिमध्यस्थिते

कृष्णो यत्र मुदा निदाघदिवसे शेते समं कान्तया ॥५८९॥

भालप्रान्तनिबद्धकुन्तलभरो मुक्तास्रजा स्थूलया

वासः काञ्चनवारिहारि पवनस्पन्दानुमेयं दधत।

मल्लीकोरकमालया द्रुततरश्रीखण्डपङ्केन च

द्वित्रेण प्रियमण्डनेन च कृताकल्पो हरिः खेलति ॥५९०॥

उज्ज्वलनीलमणि ११.५७—

सुभ्रूभङ्गमनङ्गबाणजननीरालोकयन्ती लताः

सोल्लासं पदपङ्कजे दिशि दिशि प्रेङ्खोलयन्त्युज्ज्वला ।

गन्धाकृष्टधियः करेण मृदुना व्याधुन्वती षट्पदान्

राधा नन्दति कुञ्जकन्दरतटे वृन्दावनश्रीरिव ॥५९१॥

गोविन्दलीलामृत १२.९२९४—

राधाकृष्णौ प्राह ततस्तौ सुबलोऽपि

प्रावृड्मञ्जुं पश्यतमग्रे वनभागम् ।

विद्युन्मेघौ वामिह मत्वा प्रणयान्धौ

नृत्यत्यारान्मत्तमयूरव्रज एषः ॥५९२॥

मल्लीमतल्लीकुलपालिकानाम्

अङ्के निषण्णान्भ्रमरान्सुलोलान।

स्वसौरभैः पश्यतमात्तगर्वाः

कर्षन्त्यमुष्मिन्गणिका हसन्त्यः ॥५९३॥

अस्मिन्भृङ्गालिललिता वर्षावर्षोर्जिताटवी ।

घनमेघावृता भाति यूथी यूथीकृतालिका ॥५९४॥

गोविन्दलीलामृत १२.९९—

कदम्बैः प्रालम्बान्कुटजकुसुमैर्गर्भक

वरान्किरीतान्केतक्या दलसमुदयै रङ्गणयुतैः ।

स्फुटद्यूथीपुष्पैरपि विविधहारान्सककुभैर्

असौ प्रावृड्लक्ष्मीश्चरणकमलेष्वर्पयति वाम् ॥५९५॥

कृष्णाह्निककौमुदी ३.६०—

अन्तःस्तम्भितवारि जातिमुकुलोन्मेषक्षमं वर्षतां

स्फूर्जत्स्फूर्जथुमप्यपोह्य शिखिनां लास्योचितं गर्जताम् ।

श्लिष्ट्वा शीकरवाहिनं जलमुचामोघः कदम्बानिलं

यत्रास्ते सततं स तत्प्रतिययौ वर्षाप्रहर्षस्थलम् ॥५९६॥

आनन्दवृन्दावनचम्पू १.२३२७—

समुन्मिषितमालतीकुसुमसुस्मिता मेदिनी

कदम्बतरुकोरकैः पुलकिता वनानां ततिः ।

अजस्रगलदस्रभृद्घनपयःकणानां गणैर्

अपि द्युरमणी समं यदनुरागमातन्वते ॥५९७॥

पुरन्दरधनुर्लतातिलकचारुभालस्थला

तडित्कनककेतकीदललसत्तमःकुन्तला ।

विलोलविषकण्ठिकाविमलमालभारिण्यसौ

नवोन्नतपयोधरा हरिमनोहरा दिग्वधूः ॥५९८॥

सारङ्गीकुलकाकुकर्षणविधेराश्वासवाङ्मालिनी

मानक्षोदनपेषणीभ्रमिवलत्सुस्निग्धमन्द्रध्वनिः ।

नृत्यन्मत्तमयूरमौरजरवः प्राणेशविश्लेषिणी

प्राणाकर्षणमस्त्रपाठनिनदो मेघस्वनः श्रूयते ॥५९९॥

दात्यूहाः परितो रुवन्ति गणशः कोयष्टिकाः सर्वतो

मण्डूकाः प्रचलाकिनस्तत इतो धाराधरा व्योमनि ।

आसाराः पयसां झपज्झपदिति स्निग्धातिमन्द्रस्वराः

सर्वे मुग्धदृशां रतान्तसमये स्वापोत्सवं कुर्वते ॥६००॥

मध्ये गौरी परिणतफलैर्नम्रशालै रसालैर्

अन्ते श्यामा रुचिभिरभितः पक्वजम्बुफलानाम् ।

प्रान्ते पाण्डुः स्फुटसुरभिभिः सूचिभिः केतकानाम्

उद्यानश्रीः स्फुरति विविधैर्वर्णकैश्चित्रितेव ॥६०१॥

कृष्णभावनामृत ११.१२१४—

ऊर्ध्वोर्ध्वोरुश्यामशाखासहस्रैः

पीतैः पुष्पैः स्यन्दमानैर्मरन्दैः ।

शम्पाम्भोदश्रीजयिन्यां विशन्तौ

नीपाटव्यां रेजतुस्तौ लसन्तौ ॥६०२॥

मध्ये तस्या या मणिकुट्टिमाल्यो

द्राघीयस्यः कृष्णमुद्वप्रभूताः ।

ता विन्दन्तेऽहर्निशं सीधुवृष्टिं

जाग्रत्या सत्यालिपाल्यैव पाल्याः ॥६०३॥

तत्प्रान्तोत्थस्तम्भवत्द्विद्विवृक्षोद्

अञ्चच्छाखान्योन्यसंश्लेषभङ्ग्या ।

गोपानस्येवाञ्चिता भान्ति पुष्प

प्रालम्बाढ्या मारकत्यो वलभ्यः ॥६०४॥

आनन्दवृन्दावनचम्पू २२.४—

यच्छाखाग्रविलम्बिनीभिरनतिस्थूलाभिरान्दोलिनी

बद्धा काञ्चनरज्जूभिर्विजयते प्रेङ्खोलखट्वा हरेः ।

या प्राग्दक्षिणपश्चिमोत्तरगते तुल्ये समस्ताङ्गणे

सर्वाभिर्मम सम्मुखीति ककुभां लक्ष्मीभिरालोक्यते ॥६०५॥

कृष्णभावनामृत ११.१६२५—

पुष्पैः सूक्ष्मश्लक्ष्नचेलान्तरस्थैर्

वृन्तोन्मुक्तैः किङ्करीभिः कलाभिः ।

आच्छन्नास्ताः सौरभैः सौकुमार्यैस्

तावाक्रष्टुं साधुशक्तिं तदाधुः ॥६०६॥

मध्ये तासां काञ्चिदञ्चत्पताकां

वीक्ष्यारुह्य श्यामधामा विरेजे ।

शोभादेव्या सेव्यमानमिवैतां

मन्ये मूर्तानन्द एवाध्यतिष्ठत॥६०७॥

कर्षन्कान्तां हर्षवर्षासु सम्यक्

तिम्यन्हस्तालम्बमालम्बमानाम् ।

उद्दाप्यैतां स्वाग्रतो जाग्रतः किं

प्रेम्णो वापीमापिपत्स्वाभिमुख्यम् ॥६०८॥

पुष्पावल्यारात्रिकेणास्य पद्म

द्वन्द्वं नीराज्यालिसङ्घ सगानम् ।

हारोष्णीषाद्यापयन्सुस्थितत्वं

स्रक्ताम्बूलस्थासकैः पर्यचारीत॥६०९॥

काञ्च्यामुक्तप्राञ्चिशाट्यन्चलान्ते

किञ्चित्पौर्वापर्यतोऽङ्घ्री विलङ्घ्य ।

कुब्जीभूयादाय दोलां क्षिपन्त्याव्

अन्वस्थातां द्वे दिशौ प्राणसख्यौ ॥६१०॥

अन्ये धन्ये तिष्ठतः स्मेक्षमाणे

धृत्वा पाण्योः पुण्यताम्बूलवीट्यौ ।

यूनोरास्याम्भोजयोरर्पयन्त्यौ

वेगोपान्ते मङ्क्षु लब्धावकाशे ॥६११॥

आलो मान्याः प्रेमवन्या इवान्याः

पर्वश्रीलाः सर्वतः साधुशीलाः ।

हस्तोदस्तैः शस्तरागैः परागैश्

चक्रुर्वृष्टिं दृष्टिमापय्य हृष्टिम् ॥६१२॥

देव्यस्त्विष्टं मानयन्त्यः स्वदिष्टं

तौ पश्यन्त्यः श्यन्त्य एवाखिलाधिम् ।

जातस्तम्भा अप्यसम्भाविताशा

दिव्यातेनुः पुष्पवर्षं सतर्षम् ॥६१३॥

तत्सङ्गिन्यो विप्रुषो वृष्यमाणा

हृष्यन्मेघैस्तन्मरन्दत्वमापुः ।

रामाराजेरङ्गसङ्गात्तदीयैर्

मुक्तावृन्दैरन्वविन्दन्त मैत्रीम् ॥६१४॥

जृम्भोदञ्चत्सौरभव्रातमाद्यद्

भृङ्गश्रेणिस्तोत्रभाजा मुखेन ।

गीतैर्नीतैर्माधुरीं साधुरीति

द्यामाच्छाद्य द्योतने स्मालिपालि ॥६१५॥

गोविन्दलीलामृत १३.५५—

तयोर्भ्रश्यत्कैश्यं मिथ इह चलत्कुण्डलयुगे

तथा चञ्चत्काञ्चीस्तवकपटलं तत्समुदये ।

परिम्लायन्माल्यद्वयमपि चलत्कङ्कणवरे

दृढं दोलान्दोले सति सपदि सन्दानितमभूत॥६१६॥

कृष्णभावनामृत ११.२६५२—

नृत्यं भेजुर्हारताटङ्कमाल्यान्य्

अतोद्यत्वं किङ्किणीनूपुराद्याः ।

वक्त्रे स्मित्वा सभ्यतामाददाते

यूनोर्दोलानन्दचन्द्रे विवृद्धे ॥६१७॥

अन्योन्याङ्गप्रोच्छलत्कान्तिसिन्धोर्

वीचीव्रातामन्दहिन्दोलिकासु ।

प्राप्तान्दोलान्योन्यनेत्रारविन्द

श्रीसन्दोहैराढ्यतामापुराल्यः ॥६१८॥

इत्थं चेतस्त्वेतयोर्दोलयन्यत्

कामो वामोऽन्तरायं न चक्रे ।

लीलाशक्तेरेव तत्र प्रभावः

कोऽप्योजस्वी हेतुरित्याहुरार्याः ॥६१९॥

दोलरज्ज्वालम्बशाखे स्वलौल्याद्

एतौ चञ्चत्पञ्चशाखाग्राभिः ।

पुष्पाढ्याभिः पल्लवालिभिरिष्टैः

सेवेते स्मामोदनैर्वीजनैः किम् ॥६२०॥

तत्तत्पत्राभ्यन्तरानन्तशिल्प

प्रोतन्धर्तुं चञ्चलान्माल्यखण्डान।

यत्नैर्भृङ्गा नाशकन्यद्भ्रमन्तस्

तत्रागुञ्जन्केवलं सापि शोभा ॥६२१॥

दोलावेगाधिक्यकामौ स्वपद्भ्यां

आक्रम्यैतां स्वावनत्युन्नतिभ्याम् ।

स्वं स्वं सर्वाः कौशलं दर्शयन्तौ

प्रेमानन्दं तुन्दिलं चक्रतुस्तौ ॥६२२॥

हिन्दोलाया रंहसि विन्दमाने

पर्यायेण द्वे दिशौ स्तो यदन्तौ ।

प्राप्योर्ध्वाधःस्थायिनो खेलतोः सा

यूनोः कान्तिः कौतुकं कापि तेने ॥६२३॥

राधाहारः संस्पृशन्कृष्णवक्षश्

चक्रे नृत्यान्येकतो दिश्युदारम् ।

अन्यत्रास्याः कञ्चुकीं श्लिष्यति स्म

स्रक्तस्यापीत्याययुर्मोदमाल्यः ॥६२४॥

अन्योन्याङ्गादर्शदृष्टस्वभासोर्

अन्योन्यानालोकजकान्तिभाजोः ।

तर्ह्यन्योन्यश्वासभूमाभिमर्शाद्

अन्योन्यं संस्पृश्य तौ हृष्यतः स्म ॥६२५॥

इत्थं लीलावारिधिः कौतुकित्वाद्

अत्युद्रेकं रंहसो निर्मिमाणः ।

पृष्ठामृष्टोत्तुङ्गपर्यन्तशाखा

पत्रालीकां तां चकारेव भीताम् ॥६२६॥

मैवं मैवं माधिकं हन्त दोलेत्य्

उक्तिं तस्यां तत्सखीनां च शृण्वन।

स्मित्वा स्मित्वा वर्धयन्नेव दोला

जङ्घालत्वं माधवो भ्राजते स्म ॥६२७॥

बन्धाद्वेणी विच्युता नावगुण्ठस्

तस्थौ मूर्ध्नि व्यस्तता भूषणानाम् ।

पादौ शाटी नाप्यधादित्यमुष्या

वैयग्र्ये हा जहासीति स्म कृष्णः ॥६२८॥

इत्थं स्वाक्ष्णोस्तृप्यतो रंहसा तां

वित्रस्ताक्षीमासनान्भ्रंशयित्वा ।

स्वीयं कण्ठं ग्राहयमास मध्ये

दोलाखट्टं तां च जग्राह दोर्भ्याम् ॥६२९॥

एकीभूते चम्पकेन्दीवराभे

मूर्ती यूनोरुद्गिरन्त्यावभाताम् ।

सम्मर्दोत्थं सौरभं व्याश्नुवानं

पारे स्वर्गं हन्त पद्मादिनासा ॥६३०॥

साम्यग्वेगा सा समन्ताद्धृताभूद्

दोलाप्यारादागताभिः सखीभिः ।

राधा द्रागेवावरुह्याथ तस्यास्

ताविस्तत्तत्संलपन्ती ललास ॥६३१॥

मुख्यास्वष्टास्वाद्यभूतामथालीं

आरोह्यास्यां तां स कृष्णां स्वयं सा ।

प्रेम्णा गायद्दोलयन्ती स चापि

प्रेयान्दोले पूर्ववत्तामजैसीत॥६३२॥

एवं प्रेष्ठास्ता विशाखादिकाली

सान्द्रं दोलान्दोलमापय्य तस्याः ।

हिन्दोलातः सोऽवतीर्य्येव सर्वा

स्वेकैकस्यामन्यहिन्दोलिकासु ॥६३३॥

तासां द्वे द्वे सुन्दरीणां स्वदोर्भ्यां

तत्रागृह्यारोह्य मह्याः प्रसह्य ।

भ्राम्यन्नेको दोलयत्ताः समस्ताः

प्रेमाम्भोदेस्तस्य किं वास्त्यकृत्यम् ॥६३४॥

ताः सर्वास्तु स्वस्वहिन्दोलिकान्तस्

तं चापश्यन्स्वस्ववक्त्रं धयन्तम् ।

नैतच्चित्रं गोकुलाधीशसूनोर्

इच्छाशक्तेर्किं पुनः स्यादशक्यम् ॥६३५॥

एकं तत्रैवास्ति हिन्दोलनाब्जं

वृन्दोद्दिष्टप्रेयसीभिर्मुकुन्दः ।

आरुह्यैतत्कर्णिकास्थोपबर्हा

लम्बी दोषाश्लिष्टाराधो रराज ॥६३६॥

अष्टाबाल्योऽप्यष्टपत्रान्तरस्थास्

तत्तद्बाह्ये षोडशाल्यो विभान्त्यः ।

वृन्दानीत स्वादुखर्जुरजम्बू

द्राक्षाः प्राश्नन्कान्तभुक्तावशिष्टाः ॥६३७॥

पीयूषान्तर्गर्वसर्वङ्कषस्य

प्रागेवाभूत्पानकादेः प्रपाणम् ।

अन्ते हेमद्योतिताम्बूलवीटि

वृन्दान्योन्यप्रीतिदानाभियोगः ॥६३८॥

नान्दी वृन्दे विन्दतः स्म प्रमोदं

नोदं पाण्योदोलनाब्जे ददत्यौ ।

दास्योऽप्यास्योल्लासमापद्य सद्यो

नाना गानारम्भशम्भा बभूवुः ॥६३९॥

दोलान्दोलनक्रीडया ताः समस्ताः

जित्वा प्राप्ताश्लेषचुम्बादिरत्नः ।

सार्धं कान्तमण्डलेनावरुह्य

प्रागात्प्रेयान्काननात्काननाय ॥६४०॥

राधास्योत्था मुद्रिता या स्मितश्रीस्

तस्यास्तत्र स्मारकानेव दृष्ट्वा ।

यूथ्यालीनां कोरकान्स व्यचैषीत्

हृद्याधातुं तान्स्रजः संरचय्य ॥६४१॥

खेऽगान्मेघः कृष्णगात्रच्छवित्वं

विद्युत्तासामङ्गभासाततित्वम् ।

भूमे रूढैरिन्द्रगोपैः समूढैः

पादालक्ताभ्यक्तता व्यक्तमासीत॥६४२॥

कृष्णाभ्रेणातुलघनरसैः सर्वतो वृष्यमानैर्

उत्फुल्लाः किल सुमनसः सर्ववत्यो लताश्च ।

तत्सस्याल्योऽप्यसमसुषमाः शं चिरायान्वभूवन्

वर्षाहर्षं वनमपि यतो हर्षवर्षास्वमाङ्क्षीत॥६४३॥

कृष्णाह्निककौमुदी ३.६१—

यत्रोत्फुल्लसरोरुहोत्पलचलत्कह्लाररक्तोत्पलैः

सत्कारण्डवहंससारसबकक्रौञ्चादिभिश्चञ्चलैः ।

वाप्यो रत्नतटाः सरांस्यपि सुधान्यक्कारिकारीण्यथ

प्रायोद्देशमयं तमेव शरदामोदं नवो मन्मथः ॥६४४॥

गोविन्दलीलामृत १३.६८—

अथावद्कुन्दलता निचायतं

वृन्दावनेशौ वनभागमग्रतः ।

इमं शरच्चारुतयेह विश्रुतं

वयस्यया वां शरदा विभूषितम् ॥६४५॥

चञ्चत्खञ्जनलोचनाम्बुजमुखी लोलालिमालालका

खेलत्कोककुचा सिताभ्रसिचया रक्तोत्पलौष्ठाधरा ।

कूजत्सारसपालिरम्यरसना नीलोत्पलोत्तंसिका

नाथौ पश्यतमत्र वां शरदियं सेवोत्सुकास्ते सखी ॥६४६॥

जातीभिः सह रङ्गणाभिरखिलाङ्गालङ्कृतीः कैरवैर्

उत्तंसानवतंसकांश्च सुभगौ रक्तोत्पलेन्दीवरैः ।

शय्यां कुञ्जगृहे स्वयं निपतितैः शेफालिकासञ्चयैर्

निर्मायार्पयितुं शरत्सहचरी वां वर्त्म संवीक्ष्यते ॥६४७॥

आनन्दवृन्दावनचम्पू १.६८—

स्थलकमलवनान्तः कौसुमं यस्य तल्पं

विमलबहुलतारं व्योम मुक्तावितानम् ।

विकशितचलकाशाश्चामराणां समूहः

स ऋतुरतुलकान्तिर्यत्र राजेव रेजे ॥६४८॥

कृष्णभावनामृत १२.७१६—

अथ वृन्दयोपहृतमम्बुजं हरिः

परिगृह्य हस्तनलिनेन शस्तरुक।

समजिघ्रदप्यतुलसौरभैः क्षितौ

जयसि त्वमित्यलघु तुष्टुवे च तत॥६४९॥

कमलस्तवे सखि कृते मया कथं

वदनं तवाभवदरालचिल्लिकम् ।

दरशोणिमां चटुलिताङ्ग्यवेदिषं

निजगौरवच्यवनहेतुकं हि तम् ॥६५०॥

भवतु क्रमादुभयमेव जिघ्रता

यतरद्भवेन्मधुर सौरभाधिकम् ।

तदवेत्य तस्य जय एव सर्वदा

निजवेणुनाप्यलघु गास्यते मया ॥६५१॥

इति तां निगद्य तदलक्षितं हरिः

परिचुम्ब्य तन्मुखमुवाच विस्मितः ।

अहहातुलः परिमलोऽयमेव तत्

सखि नानृतं त्वमपि मे समक्रुधः ॥६५२॥

धिगरे वृथैव परिफुल्ल मूढ किं

त्रपसे न जैत्रवनितास्यसन्निधौ ।

निजपङ्कजत्वजलजत्वयोर्द्वयोर्

अनुरूपमेव शठ चेष्टसेऽथवा ॥६५३॥

तरुवल्लिलास्यविधिशिक्षणं प्रति

क्षणमेव स क्षणमितो वितन्वता ।

तदुपाहृतस्वमकरन्दसौरभो

च्चयदक्षिणाभिरपि न प्रसीदता ॥६५४॥

शृणु कोपने तव मुखाम्बुजाञ्चली

तटमेव किं नटयता नभस्वता ।

प्रतिलभ्य तत्परिमलान्सुदुर्लभान्

अहमद्य धन्य इति नाभ्यमन्यत ॥६५५॥

ललिताह यस्य दरगन्धमात्रतस्

त्वमुदारमुन्मुरहराभिलक्ष्यसे ।

मकरन्दमस्य किमु हास्यसि त्वं

इत्यशङ्कया कवलितां करोषि माम् ॥६५६॥

सखि मा विषीद कति वा न माधुरी

सरितः स्रवन्ति परितो यतोऽनिशम् ।

सकृदेव पञ्चषपृषन्तिपानतः

सरसोऽस्य किं नु भविता दरिद्रता ॥६५७॥

इति सव्यदोर्भुजगपाशवेष्टनैः

स्वबलाद्वशीकृततनोर्नतभ्रुवः ।

अधरामृतं यदपिबत्तदुत्थिता

वदनद्वयद्युतिरतीतृपत्सखीः ॥६५८॥

कृष्णाह्निककौमुदी ३.६२—

पक्वाम्रातकपिङ्गलामरुणितां सत्पक्वनारङ्गकैः

पीतां पक्त्रिमकर्मरङ्गकफलैः श्यामां च भल्लातकैः ।

आपक्वैरथ फुल्ललोध्रधवलामम्लायदम्लानकां

श्रीकृष्णो विपिनस्थलीमथ ययौ हेमन्तसन्तोषिकाम् ॥६५९॥

गोविन्दलीलामृत १३.४५५१—

नान्दीमुखी तदनु ताववदद्वनेशौ

निचायतं स्वपुरतो वनभागमेतम् ।

हेमन्तशन्तमतया प्रथितं निजैः सत्

सम्पच्चयैश्चरणमर्चितुमुत्सुकं वाम् ॥६६०॥

चित्राम्लानकुरुण्डकैः फुल्लैर्लसत्सौरभा

माद्यत्तित्तिरिलावषट्पदकिखीकीरारवैर्मञ्जुला ।

हृद्या पक्त्रिमनागरङ्गरुचकैः शीता तुषारानिलैः

सेयं भाति वनस्थलीह भवतो पञ्चेन्दिर्याह्लादिनी ॥६६१॥

स्फुरितसहचरालीवेष्टितोऽम्लानकान्तिस्

ततकुसुमधनुर्मूर्च्छालिगोपीप्रगीतः ।

विकचकुसुमबाणः कृष्ण ते देहतुल्यो

मुखरितशुकलीलो भाति हेमन्तकालः ॥६६२॥

हिमऋतुलक्ष्मीमतिमुदितस्ताम् ।

हरिरथ कान्तां प्रतिकुरुते स्म ॥६६३॥

रुचिरविविधवर्णा पक्वशाल्यंशुकाङ्गी

मदकलशुकपालीनादनान्दीमुखी व ।

सुमुखि परिणतोच्चैर्नागरङ्गस्तनीयं

वलय वरनटीवाभाति हेमन्तलक्ष्मीः ॥६६४॥

औष्ण्यं हिमर्तुमनु ते हृदयाख्यदुर्गं

भानोः समाश्रयति साध्वि तुषारभीत्या ।

तत्सङ्गमादनुपलब्धवियोगदुःखं

रात्रिन्दिवं विलसति स्तनकोकयुग्मम् ॥६६५॥

ऋताविहाग्नेः प्रबलोष्णभावा

भिया हिमान्याः परितो द्रवन्तः ।

कूपाप्सु केचिद्विनिपत्य लीनाः

क्रोडे द्रुमस्याद्रिदरीषु चान्ये ॥६६६॥

आनन्दवृन्दावनचम्पू १.३१—

क्रमाद्भानोरुष्मा ह्रसति हिमयोगेन महता

वलन्ते वक्षोजद्वयपरिसरेषूष्मविभवाः ।

क्रमाद्दैर्घ्यं रात्रेर्भवति ह्रसिमा वाम्यरहसो

वधूनां शीतार्तप्रियतमपरिष्वञ्जनविधौ ॥६६७॥

कृष्णभावनामृत १३.३७—

इह सखि तुषारांशोरंशो निशाऽतिसमेधते

ह्रसति दिवसो भागो भागोपतेरपि ताम्यति ।

तनुरपि धृतोत्कम्पा शम्पासमाप्य तनूद्धृता

हिममहिमभिः कान्ते कां ते गमिष्यते वा दशाम् ॥६६७॥

तदिह मम हृद्वेश्मन्यस्मिन्स्त्वदुत्कलिकालिभिस्

तदुचितनिवासार्थं कोष्णीकृते निभृतेक्षणम् ।

प्रविश सहसा जड्यं दूरे विहाय विहारिणीत्य्

अतिजवभुजद्वन्द्वेनैनां चकर्ष स हर्षदः ॥६६८॥

नहि नहि नहीत्युक्तेनापि प्रियेण दृढं बलाद्

उरसि रसिका सा बाहुभ्यां न्यबध्यत वल्लभा ।

शिथिल रसनाबन्धाद्बन्धोस्तदुरुविमर्दिताद्

अपतदवनौ वंशी रोषादिवादरलाघवत॥६६९॥

त्वमसि कठिने शीता गीताश्रयाप्युरुदोषभूस्

तदुचितफलं विश्वोद्वेजिन्यवाप्नुहि साम्प्रतम् ।

इति ललितया स वेण्यग्रे निबध्य निजुह्नुवे

स्मरमधुमदात्तां तत्स्वामी चिरादपि नास्मरत॥६७०॥

समयविदतैथाभ्यः सार्धं प्रियेण विहारिणा

सरसमटवीपाली पाली प्रमोदधुराधरा ।

अरुणकपिशश्यामान्श्लक्ष्नान्सुवर्नरसाञ्जितान्

लघु लघु लघून्नीशाराणां चयान्समुपाहरत॥६७१॥

आनन्दवृन्दावनचम्पू १.७७७८—

कुरुवककुसुमानि केशपाशेष्व्

अलककुलेषु वहन्ति लोध्रधूलीः ।

स्रजमुरसि महासहाप्रसूनैर्

व्रजसुदृशो न मणीन्द्रमण्डनानि ॥६७२॥

कालीयकालेपनमङ्गरागे

लीलागृहे केवलधूपधूमः ।

ताम्बूलमेलादिकटुप्रयोगं

नोष्णेतरो यत्र गुणो गुणाय ॥६७३॥

कृष्णाह्निककौमुदी ३.६३—

प्रालेयद्रवशीकरैर्दिनमुखे कृष्णागमाकाङ्क्षया

या हर्षेण विरोदितीव विकसत्कुन्दौघदन्तश्रिया ।

उद्दामद्युतिदामभिर्दमनकैस्तां कीर्णकेशामिव

प्रीत्याश्वासयितुं जगाम शिशिरामोदस्थलीं माधवः ॥६७४॥

गोविन्दलीलामृत १३.५५६५—

अथालोकयन्तौ पुरोऽरण्यभागम् ।

समुत्कौ निजेशाववादीद्वनेशा ॥६७५॥

प्रविशदखिलजन्तूत्कम्परोमाञ्चकारी

क्वचिदलघुनगाधः कोष्णताशीतहारी ।

मृदुलितरविकान्तिर्दक्षिणाशागतार्कः

शिशिररुचिरनामा भात्यरण्यैकदेशः ॥६७६॥

जवाबन्धूकाभारुणवरदुकूलं दमनक

प्रभाचोलीं कुन्दद्युतिसितनिचोलं च दधती ।

भरद्वाजश्रेणीविरुतियुतहारीतरुतिभिः

स्तुवन्तीव प्रेम्ना शिशिरऋतुलक्ष्मीर्मिलति वाम् ॥६७७॥

निविडदलतरूणां वासराद्यन्तकाला

गतरविकरकोष्णे सूर्यकान्ताञ्चितेऽङ्के ।

मृगततिरुपविष्टा मन्दरोमन्थरम्या

प्रकटपुलकबाष्पा वां समीक्ष्याभ्युपैति ॥६७८॥

ऋतावस्मिन्तेजः क्षतिरनुदिनं प्राणसुहृदां

सरोजानां नष्टिः स्वसुखसमयाह्नोऽपि लघुता ।

तुषारैश्चण्डांशोरपि मृदुभिरुच्चैर्बत कृता

विनैकं विश्वेशं भवति नहि कः कालवशगः ॥६७९॥

प्रबलशिशिरभीत्या भानुरौष्ण्यं स्ववित्तं

स्तनयुगगिरिदुर्गे बल्लबीनां न्यधत्त ।

त्वरितमिदममूभिः कृष्णभोगाय क्ÿप्तं

प्रभवति नहि गाढप्रेम्नि धर्माद्यपेक्षा ॥६८०॥

इति तद्गिरा प्रमुदितोऽत्र

शिशिरऋतुजां वनश्रियम् ।

बकरिपुरथ कलयन्स

तदा ललितं जगाद निजप्रियाम् ॥६८१॥

भ्रमदिन्दिन्दिरवृन्दं सुन्दरि शिशिरागमम् ।

दिशत्यत्र मन्दादरमरविन्दे विन्दति कुन्दे यदानन्दम् ॥६८२॥

पश्येन्दिरेन्दिन्दिरवृन्दसंयुता

दन्दह्यमानं प्रबलैर्हिमैर्निजाम् ।

विहाय सम्प्रत्यरविन्दमन्दिरं

कुन्दावलौ सुन्दरि मन्दिरीयति ॥६८३॥

हिमानि राहुसेनानी सूर्यं निर्जेतुमक्षमा ।

तस्मिन्प्रणयिनीं ज्ञात्वाज्वालयत्पद्मिनी ततिम् ॥६८४॥

तोयोत्थिताया व्रजकन्यकाततेः

स्तनावली यां स्मृतिमानिनाय मे ।

पाकोन्मुखी सद्बदरीफलावली

तामत्र सा मत्स्मृतिमानयत्यसौ ॥६८५॥

आनन्दवृन्दावनचम्पू १.३५—

कचभरमधि बन्धुजीवमाला

दमनकपल्लववल्लभोऽवतंसः ।

उरसि च नवकुन्दकोरकाणां

स्रगिति वधूर्न दधे मणीन्द्रभूषाम् ॥६८६॥

गोविन्दलीलामृत १३.६६७१—

हरिरथ दयिताया वृन्दयानीय दत्तौ

सितमृदुलजवान्तर्मञ्जरीकर्णपूरौ ।

सपुलककरकम्पं कर्णयोः संन्यधत्त

श्रुतियुगमनु तस्यैषापि कौन्दावतंसौ ॥६८७॥

राधायाः करपङ्कजेऽथ निहिता कौन्दी मुदा वृन्दया

या माला लघुलोहितोत्पलकुलस्रग्दीप्तिमेष दधे ।

सूक्ष्मेन्दीवरमाल्यरोचिरनया कृष्णस्य कण्ठेऽर्पिता

तेनास्या हृदि योजिता सपुलके चाम्पेयमाल्यद्युतिम् ॥६८८॥

स्मेरा विशाखाऽवददेतदद्भुतं

सुकोमला पश्यत कुन्दवल्लिका ।

एकैव पुष्पिण्यनिशं स्मरोन्मदैः

क्रमोत्क्रमाभ्यां भ्रमरैः प्रपीयते ॥६८९॥

चित्राब्रवीत्साध्वि न चित्रमेतत्

सौभद्रमेषां रमणं यदस्याम् ।

विभात्यमीष्वत्यनुरागवत्यां

प्रचेतसामास यथैव वार्क्ष्याम् ॥६९०॥

कौन्द्याललाप कलयाद्भुतमालि फुल्लान्

स्वान्स्वान्निजान्तिकगतानपि बन्धुजीवान।

सन्त्यज्य धैर्यरहिता नवबन्धुजीवम्

एकं पिबन्ति तमिमं शतशो भ्रमर्यः ॥६९१॥

चित्राह सारग्रहिलातिपूता

कृष्णत्विडुद्यन्मधुमात्रवृत्तिः ।

भृङ्गीततिः पञ्चमगानगुर्वी

यत्रातिशुद्धं मधु तत्र सक्ता ॥६९२॥

गोविन्दलीलामृत १४.१५—

अथालिवर्गाननसौरभाहृतस्

ताभिर्मुखाब्जेषु पतन्निवारितः ।

विन्दन्स राधावदनाम्बुजं रुवंस्

तद्गन्धमत्तः परितोऽलिरञ्चति ॥६९३॥

नेत्रान्तोद्धुवनैश्च कङ्कणझनत्कारोर्मिसन्तर्जनैस्

त्रासाद्दोलितपाणिपद्मधुवनैः क्षिप्तोऽपि भृङ्गो यदा ।

लोभान्नापससार तर्ह्यपसृता श्रीराधिका श्रीहरेः

संव्यानाञ्चलसंवृतास्यकमला पार्श्वे निलीय स्थिता ॥६९४॥

तस्मिन्गते पद्मवनीमलौ चले

तामाहुराल्यः सखि मा भयं कुरु ।

निवारितोऽस्माभिरसौ रुवन्शठः

पद्मालिमुत्को मधुसूदनो गतः ॥६९५॥

आढ्यंकरण्या सुभगंकरण्या

स्थूलंकरण्या प्रणयोच्चलक्ष्म्या ।

अन्धंकरण्या दयितं पुरस्थं

नान्धीकृतासावनुसन्दधे तम् ॥६९६॥

तावत्कृष्णेन ताः सख्य इङ्गितज्ञेन वारिताः ।

तत्पक्षं जगृहुः सख्या विस्मिताः प्रेमचेष्टितैः ॥६९७॥

विदग्धमाधव ५.४६—

समजनि दवाद्वित्रस्तानां किमार्तरवो गवां

मयि किमभवद्वैगुण्यं वा निरङ्कुशमीक्षितम् ।

व्यरचि निभृतं किं वाहूतिः कयाचिदभीष्टया

यदिह सहसा मामत्याक्षीद्वने वनजेक्षणः ॥६९८॥

गोविन्दलीलामृत १४.६१५—

प्रेमवैचित्त्यविभ्रान्ता कान्ता कान्तान्तरं गतम् ।

कान्तं मत्वा ततोऽभ्येत्य रुष्टा प्राह धनिष्ठिकाम् ॥६९९॥

धनिष्ठे धृष्टस्ते क्वनु कपटनाटीनटिनटस्

त्वदर्थं स्वप्रेयान्कुसुममवचेतुं सखि गतः ।

गतोऽयं पद्मालीं कपटिनि स तामानयति चेद्

भविष्यत्यप्येषा तव मुखरुचा निर्जितरुचिः ॥७००॥

दोषोऽत्र ते नास्त्यहमेव मूढा

श्रुत्वापि यातं गहने सशैब्यम् ।

विश्रभ्य वाण्यां तव कूटदूत्या

यदा गता तस्य शठस्य पार्श्वम् ॥७०१॥

धनिष्ठैषाप्यस्मद्धृदयसदृशी वञ्चयति नः

स चाप्यस्मानस्यन्विलसति तया मत्प्रियवने ।

इदं चाप्यस्माकं नयनविषयं सम्प्रति गतं

चिरं जीवेद्योऽस्मिन्जगति स हि वा पश्यति न किम् ॥७०२॥

इदं किं सोढव्यं भवति यदयं मत्प्रियसरो

निकुञ्जे पद्मालीं क्वचिदपि निधायात्र निभृतम् ।

समानाय्याप्यस्मान्क्षणमहह सन्दर्श्य शठधीर्

मुधालापारम्भं न इह स विहायागमदमूम् ॥७०३॥

ललिता प्राह तद्धार्ष्ट्यं मया दृष्टं मुहुः सखि ।

नावैषि सरला तत्त्वमेहि यामः स्वमन्दिरम् ॥७०४॥

इति तां ललितापाणौ धृत्वा चक्रे गृहोन्मुखीम् ।

सापि तद्विरहाद्भीता दीनार्तोत्का जगाद ताम् ॥७०५॥

दृष्टान्दोषान्न गृह्नाति चिन्तयत्यसतो गुणान।

दिदृक्षते तादृशं तं वामं चेतः करोमि किम् ॥७०६॥

स्त्रीततेर्न क्वचित्कामजाप्युर्ज्जिता

लालसा वल्लरी दृश्यते बाह्यगा ।

षष्ठिका धान्यजातेरिवेतीरिता

सा तया तां सखीं राधिका व्याहरत॥७०७॥

त्यज व्यर्थां नारीचयनयकथां कर्णतुदनीं

विनिर्यान्ति प्राणाः स्फुटति मम हृद्घूर्णति वपुः ।

व्रजेन्नाशं मानो व्रजतु महिमा ह्रीश्च सधृतिः

सखि त्वां वन्दे हा हृदयदयितं दर्शय लघु ॥७०८॥

उज्ज्वलनीलमणि १५.१४८—

आभीरेन्द्रसुते स्फुरत्यपि पुरस्तीव्रानुरागोत्थया

विश्लेषज्वरसम्पदा विवशधीरत्यन्तमुद्घूर्णिता ।

कान्तं मे सखि दर्शयेति दशनैरुद्गूर्णशस्याङ्कुरा

राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्यभूद्विस्मितः ॥७०९॥

गोविन्दलीलामृत १४.१६२४—

सारल्यं ते विविधरमणीलम्पटो धृष्टभूपश्

चापल्यं चाप्यनुपममिदं क्वापि रामास्वदृष्टम् ।

आलोक्येतोऽप्यधिकमहहो वञ्चयिष्यत्यसौ त्वां

त्वच्चरित्रैर्वयमिह हताः किं पुनर्हंसि वास्मान॥७१०॥

इतोऽपि का सास्त्यधिकात्र वञ्चना

यया शठोऽस्मान्स कदर्थयिष्यति ।

इत्यालपन्ती प्रियमैक्षताग्रतः

सालिङ्ग्य काञ्चिद्दयितां समागतम् ॥७११॥

तां वीक्ष्य पश्चाद्दयितोपगूढां

स्वसंमुखीनां प्रतिकुर्वतीं स्वम् ।

पद्मा सखीत्वेन विनिर्णयन्ती

ह्रियेर्ष्यया सा विमुखी चकम्पे ॥७१२॥

वल्गूयन्तीं समीक्ष्यामूं मन्तूयन्तीह राधिका ।

सा कुन्दलतयाभाषि कृष्णेनेरितया दृशा ॥७१२॥

कान्तं द्रष्टुं समुत्का त्वमागतं तं समुत्सुकम् ।

द्रुतं मिल कथं जातास्यकस्माद्विमुखी रुषा ॥७१३॥

साप्याह तां हरेर्वक्षस्यमूं किं त्वं न पश्यसि ।

यां प्रदर्शयितुं गेहादानीताहं त्वया शठे ॥७१४॥

कृष्णाब्रवीद्यां मनुसे न सैषा

काप्यागतैकात्र मयानुयुक्ता ।

राधा वयस्या वनदेवतास्मीत्य्

उक्त्वा बलान्मां परिरभ्य सास्ते ॥७१५॥

आलिङ्ग्य संचुम्ब्य च मां स्वविद्यया

पृष्ठेन लग्नोरसि मे तथासकौ ।

यथा न निःसारयितुं क्षमोऽस्म्यमुं

स्वयं च निःसर्तुमपि प्रयत्नतः ॥७१६॥

प्रार्थितापि मया नैषा मां जहात्यतिकामुकी ।

वारयैनां निजसखीं बलान्मां पीडयत्यसौ ॥७१७॥

उज्ज्वलनीलमणि १०.३०—

शृणु सखि तव कर्णे वर्णयाम्यत्र नीचैर्

विरचय मुखचन्द्रं मा वृथाराद्विवर्णम् ।

इयमुरसि मुरारेरस्ति नान्या मृगाक्षी

मरकतमुकुराभे बिम्बितासि त्वमेव ॥७१९॥

गोविन्दलीलामृत १४.२५—

लग्नायां ललितायां तच्छ्रुतौ सासीदधोमुखी ।

सकृष्णा जहसुः सभ्याः कुन्दवल्ली जगाद ताम् ॥७२०॥

गोविन्दलीलामृत १४.२६—

नैवाक्षि लग्नं दयितं विलोकसे

छायां निजामन्यजनीं च मन्यसे ।

सर्वत्र चन्द्रावलिकां विशङ्कसे

चित्रं तवेदं प्रणयाख्यनर्तनम् ॥७२१॥

उज्ज्वलनीलमणि १४.८१—

ज्योत्स्नाशीधुं हरिमुखविधोरप्यनल्पं पिबन्तौ

नान्तस्तृप्तिं तव कथमपि प्राप्नुतो दृक्चकोरौ ।

आघूर्णन्तौ मदकलतया सुष्ठु मुग्धौ यदेतौ

भूयो भूयस्तमिह वमतो बाष्पपूरच्छलेन ॥७२२॥

उज्ज्वलनीलमणि १४.१५०—

समारम्भं पारस्परिकविजयाय प्रथयतोर्

अपूर्वा केयं वामघदमन संरम्भलहरी ।

मनोहस्ती बद्धस्तव यदनया रागनिगडैस्

त्वयाप्यस्याः प्रेमोत्सवनवगुणैश्चित्तहरिणः ॥७२३॥

उज्ज्वलनीलमणि १४.१५५—

राधाया भवतश्च चित्तजतुनी स्वेदैर्विलाप्य क्रमात्

युञ्जन्नद्रिनिकुञ्जकुञ्जरपते निर्धूतभेदभ्रमम् ।

चित्राय स्वयमन्वरञ्जयदिह ब्रह्माण्डहर्म्योदरे

भूयोभिर्नवरागहिङ्गुलभरैः शृङ्गारकारुः कृती ॥७२४॥

गोविन्दलीलामृत १३.११४—

इत्थं दीव्यन्नविकलकलाशालिसीमन्तिनीनां

नर्मच्छद्माधरकुचकरस्पर्शपुष्पार्चनाद्यैः ।

वल्लीनां वा किशलयफलास्वादमत्तः पिकेशो

भ्रामं भ्रामं स किल ललितानन्ददं कुञ्जमाप ॥७२५॥

गोविन्दलीलामृत १४.७७१०४—

अथ ताभिः समं कृष्णो माध्वीकपानकुट्टिमे ।

निविष्टः शीतलच्छाये विश्रामसुखमन्वभूत॥७२६॥

गोपीनामरविन्दसुन्दरदृशां श्रीकृष्णपार्श्वद्वयाद्

आरभ्याग्रत एव मण्डलतया तत्रोपवेशस्थितिम् ।

लब्धानां पुरतः स राजति धृतालङ्कारपीताम्बरो

रत्नालीखचितो यथा हरिमणिः सौवर्णहारान्तरे ॥७२७॥

अथालयः स्वके करे सरोजसञ्चयाद्वरे

निधाय पञ्चचामरं चिता भरैर्मुदामरम् ।

निविष्टमत्र कान्तया नितान्तकेलितान्तया

न्यवीजयन्निजं प्रियं रुचा जितस्मरश्रियम् ॥७२८॥

गत श्रमेऽस्मिन्सगणे सखीभिः

पदाब्जसंवाहनवीजनाद्यैः ।

माध्वीकपूर्णं चषकं पुरस्तात्

तयोः समानीय दधार वृन्दा ॥७२९॥

विकसितमनु नृत्यत्खञ्जनाभ्यां विराजत्

कनककमलमेकं नीलराजीवमन्यत।

वरतनुबकशत्र्वोः पश्यतोः प्रादुरासीद्

अधि चषकमकस्मात्पद्मयुग्मं विचित्रम् ॥७३०॥

नयनमधुपयुग्मं राधिकायाः प्रलुब्धं

झटितिपतितमासीन्नीलपद्मेऽथ तस्मात।

द्युतिभरमधुपूर्णान्नालमुत्थातुमासीत्

कनककमलमध्ये तद्वदेवाच्युतस्य ॥७३१॥

सौन्दर्यं मधुतां मुखं चषकतां माध्वीकमादर्शतां

नेत्रद्वन्द्वमवाप सन्मधुपतां सर्वेन्द्रियं नेत्रताम् ।

अन्याङ्गं जडतां तयोः सपुलकं चित्तं स्मरोन्मत्ततां

साम्यगेव तदेतरेत्थमभवत्पानक्रियाप्तोन्नतिम् ॥७३२॥

कौन्द्यब्रवीत्पेयमिदं स्वचक्षुषा

पीतं युवाभ्यां मधु पङ्कजाननौ ।

नेत्रोत्पलास्याब्जसुवासितं द्वयो

रसज्ञया पेयमिदं निपीयताम् ॥७३३॥

आदाय निन्ये चषकं बलानुजः

पिबेति कान्तावदनाब्जसन्निधिम् ।

तिर्यङ्मुखी तद्दयितापि लज्जया

करेण जग्राह निजेन तत्करात॥७३४॥

आवृत्य वक्त्रं वसनाञ्चलेन सा

माध्वीकमाघ्राय सकृत्सुधामुखी ।

निजाधरस्पर्शसुवासितीकृतं

समर्पयामास करे प्रियस्य सा ॥७३५॥

प्रियाटवीवृक्षलतोद्भवं प्रियं

प्रियाधरस्पर्शसुसौरभं मधु ।

निजप्रियालीपरिहासवासितं

प्रियार्पितं सस्पृहमापपौ प्रियः ॥७३६॥

दयितागुणमेदुरेण तद्

दयितापाणितलेऽमुनार्पितम् ।

दयिताधरवासितं पपौ

दयिताप्यंशुकसंवृतानना ॥७३७॥

तद्वक्त्रशेषामृतमिश्रितासवैः

पूर्णानि कृत्वा चषकाणि सादरम् ।

वृन्दा सवृन्दा सहकुन्दवल्लिका

न्यधात्सखीनां पूरतः प्रमोदतः ॥७३८॥

ताभिः सखीनां चषकेष्वथाग्रतो

न्यस्तेषु कृष्णः स्वविचित्रविद्यया ।

पार्श्वेऽखिलानां युगपत्स दक्षिणे

नालोकि केनापि परिस्फुरन्नपि ॥७३९॥

सख्यस्ताः केवलं स्वस्य स्वस्यैव पार्श्वमागतम् ।

पाययन्तं पिबन्तं च मधु तं ददृशुः प्रियम् ॥७४०॥

कादम्बरीमदविघूर्णितशोण

कोणप्रोत्फुल्ललोचनसरोजविराजितानि ।

आमोदमोदितनिमन्त्रितषट्पदानि

हासेन्दुकान्तिवलिताधरपल्लवानि ॥७४१॥

कृष्णस्य नेत्ररसना स्वदनीयभूरि

सौन्दर्यसल्लवणिमासवपूरितानि ।

तस्यातिपानमनु तृट्परिपूरणाय

वक्राण्ययुश्चषकतां सुदृशाममूषाम् ॥७४२॥

स्मरयुजां सरकाय मृगीदृशां

सरकपानमदोन्मदचेतसः ।

सरकतामयिते मुखपङ्कजे

सरकतां समगादधरो हरेः ॥७४३॥

माध्वीकभेदान्विविधान्सवृन्दा

वृन्दाथ वृन्दावननाथयोः सा ।

नानाविदंशैः सहितान्पुरस्तात्

समर्पयामास तथा सखीनाम् ॥७४४॥

तांस्तान्प्रपिबतां तेषां पानपायनमाधुरी ।

नेत्रोन्मादाय वृन्दादेश्चिराय मदिरायते ॥७४५॥

अविरतमधुपाने स्वादुकान्ताधरोष्ठं

सततमधरपाने मध्वभूत्तद्विदंशः ।

मदनमधुमदाभ्यां तृष्णया पानभाजां

मिथ इह मिथुनानां निश्चयो नास पाने ॥७४६॥

माधवागत्यनङ्गोत्थैर्मदैर्माधवपानजैः ।

माधवस्पर्शजैश्चासन्व्याकुलास्ताः वराङ्गनाः ॥७४७॥

स्खलितवसनभूषाङ्गाद्य सम्भालनं

यत्स्फुटहसितमकाण्डेऽप्रश्नपूर्वोत्तरं च ।

प्रलपितमणिदानं चोत्थितं वल्लबीनां

प्रथयति मदमन्तर्वारुणीपानजं तत॥७४८॥

निधुवनमनु पूर्वं यत्प्रियेण प्रियाणां

स्खलनमयनवासः केशवाचां विधेयम् ।

मधुमद इह कुर्वन्तद्वधूनाममूषाम्

अकुरुत मुरशत्रोः प्रीतिसाहाय्यमस्य ॥७४९॥

उक्तौ लोहलता गतौ स्खलितता केशांशुके स्रस्तता

नेत्रान्तेऽरुणता मुखे सुरभिता नेत्रे तथोद्घूर्णता ।

नर्मोक्तौ स्फुटता दृशि भ्रमितता तत्तत्कृतौ धृष्टता

यायासीत्सुदृशां तदा त्रिसरकोत्पन्नाधिनोत्सा प्रियम् ॥७५०॥

कृष्णे व्रजाम्बुजदृशां हृदि गाढ

रागो नारीस्वभावजह्रिया विनिगूहितो यः ।

आडम्बरं मधुमदस्य न सोढुमीशो

नेत्रोत्पलेषु बहिरेत्य चकार वासम् ॥७५१॥

नवेन मधुपानेन काचिन्नवकिशोरिका ।

मदोद्रेकाद्भ्रान्तनेत्रा प्रललापाति विह्वला ॥७५२॥

लललललिते पपपपश्य राधाच्युतौ

ससससह वो ममममण्डलैर्भ्राम्यतः ।

विविविविपिनं ममममही च ताभ्यां

समं गगगगगनं लम्बते हा कथम् ॥७५३॥

आनन्दवृन्दावनचम्पू २०.१६५—

अलङ्कारकौस्तुभ ५.२२—

अङ्काङ्कि सूवलनं कराकरि मनःसंवादसंवेदनं

कर्णाकर्णि वृथाकथासु युगपच्चुम्बाः शतं गण्डयोः ।

स्कन्धास्कन्धि भुजौ मुखामुखि मुहुर्माध्वीकपानक्रमो

राधामाधवयोर्मधौ मधुमदक्रीडा जरीजृम्भते ॥७५५॥

अलङ्कारकौस्तुभ ५.३१—

आलि प्रेयान्हरिरतिशठः कृष्ण मे सम्प्रसीद

श्यामे स त्वामभिसरति किं नाथ दासी तवास्मि ।

इत्यन्योन्यप्रकृतिविकृती भावतोऽनन्वितोक्ती

राधाकृष्णौ मधुमदमुदा मोहितौ वः पुनीताम् ॥७५६॥

उज्ज्वलनीलमणि ११.८८—

करोति नादं मुरली रली रली

व्रजाङ्गनाहृन्मथनं थनं थनम् ।

ततो विदूना भजते जते जते

हरे भवन्तं ललिता लिता लिता ॥७५७॥

गोविन्दलीलामृतं १४.१०५११२—

विसृत्वरामोदविकृष्टभृङ्ग

विकस्वराम्भोजविनिन्दिवक्त्रः ।

मध्वासवेष्टाधरसीधुपान

प्रोद्बुद्धकन्दर्पमदातिलोलः ॥७५८॥

अन्तर्विलोलालिसमीरवेल्लत्

प्रोत्फुल्लरक्तोत्पलजैत्रनेत्रः ।

ललास लोलल्ललनासुधृष्णक्

कृष्णः सतृष्णालिरिवाब्जिनीषु ॥७५९॥

मदेरिताभ्यामथ तौ सखीभ्यां

रिरंसयान्तश्च सुषुप्सया च ।

निषेवितावासतुरालिपालिः

सुषुप्सया केवलयाञ्चितासीत॥७६०॥

तयोर्मदोत्पन्ननिगूढलीला

स्पृहाविदह्प्रेरणयाथ कौन्द्याः ।

कान्तावतंसार्थमशोकपुष्प

गुच्छाय गच्छत्यरविन्दनेत्रे ॥७६१॥

कान्तापि घूर्णा परिपूर्णिताक्षी

सेवापरालीततिसेव्यमाना ।

निकुञ्जकुञ्जाभिधकुञ्जराजे

सुष्वाप पुष्पावलितल्पभाजि ॥७६२॥

गन्धोत्तमाः परिमलाधिकवासितोद्यज्

जृम्भोद्गमास्यकमला गलदम्बराङ्ग्यः ।

घूर्णायमाननयनाः शयनाभिलाषाः

सख्योऽप्ययुस्तत इतः स्खलिताङ्घ्रिपाताः ॥७६३॥

तल्पोपकल्पनगृहीतदलालिकञ्ज

किञ्जल्कधूलिपरिपिञ्जरितान्तरेषु ।

संवर्तिकाब्जदलपल्लवपुष्पतल्प

तल्पपुञ्जेषु चञ्चलदलिगुञ्जितमञ्जुलेषु ॥७६४॥

गुञ्जावलीकुसुममञ्जरिचित्रितेषु

ताम्बूलगन्धजलभाजनराजितेषु ।

कुञ्जेषु कञ्जवदना मदखञ्जनाक्ष्यः

सर्वाः पृथक्पृथगिताः सुषुपुर्वयस्याः ॥७६५॥

गोविन्दलीलामृतं १५.१७—

कङ्केल्लिपल्लवकतल्लजकर्णपूरः

कङ्केल्लिवल्लिनवकस्तवकाञ्चिपाणिः ।

तत्रागतोऽथ स हरिः प्रविवेश तूर्णं

वृन्दादृशोदितनिकुञ्जसरोजमुत्कः ॥७६६॥

राधासुरधनीं प्राप्ते कृष्णमत्तमतङ्गजे ।

उड्डीयापससाराली मरालीपालिरञ्जसा ॥७६७॥

पिबन्नसौ लोचनपुष्करेण

लावण्यरूपामृतमम्बुजाक्ष्याः ।

व्यदालयत्कञ्चुकशैवलं श्री

करणे नीवीनलिनीं च लोलः ॥७६८॥

कान्तापि तन्दृअविनिमीलिताक्षी

स्वप्ने ददर्श प्रियमन्तिकाप्तम् ।

नीवीकुचाकर्षणयत्नवन्तं

तं वारयन्ती प्रललाप वाम्यात॥७६९॥

म म म मापि पि पि पृश मां हरे

कि कि कि किं वि विधातुमिहैच्छसि ।

श शयितुं द द देहि मम क्षणं

क कलिताक्षियुगास्मि घू घूर्णय ॥७७०॥

स्मितरुदितविमिश्रं गद्गदास्पष्टवर्णं

रमणमनु तदेति व्याहरन्ती कराभ्याम् ।

प्रियकरमतिलोलं वारयन्ती प्रबुद्धा

प्रियमथ तमपश्यत्स्वं च तादृक्क्रियं सा ॥७७१॥

मीलितोन्मीलिताक्षी स स्मरमाध्वीकमादिता ।

स्वप्नजागरयोरासीत्समवाक्चेष्टितादिका ॥७७२॥

अलङ्कारकौस्तुभ ५.१४—

धृते पाणिद्वन्द्वे झटिति झणितं रत्नवलयैर्

हृते नीवीग्रन्थी मुखरितममन्दं रसनया ।

प्रियायाः स्वानन्दप्रतिहतधियः किन्त्वपघनो

घनोत्तृष्णं कृष्णं प्रति समतनोत्तर्जनमिव ॥७७३॥

सङ्ग्रहकर्तुः—

प्राग्दोर्मण्डलपीडनोद्धूरधियः प्रोद्दामवैजात्यया

निर्बन्धादधरामृतानि पिबतः सीत्कारपूर्णास्यया ।

कन्दर्पोत्सवपण्डितस्य मणितैराक्रान्तकुञ्जान्तया

सार्धं राधिकया हरेर्निधुवनक्रीडाविधिर्वर्धते ॥७७४॥

श्रीगोविन्दरतिमञ्जरी ५.९२—

राधायाः स्तनमण्डले हरिपरीरम्भेण दम्भोद्धुरं

व्याप्ता स्वर्णधराधरं जलधरारम्भोऽद्य भूयानभूत।

स्वस्थानं परिहृत्य कौस्तुभमणिव्याजेन निर्वाणदं

स्थातुं सम्प्रति नूनमम्बरमणिस्तत्सन्धिमभ्याविशत॥७७५॥

गीतगोविन्द १२.१०१३—

प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च

क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।

आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्

उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः ॥७७६॥

दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैर्

आविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।

हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः

कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥७७७॥

माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस

प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात।

निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं

वक्षो मिलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥७७८॥

तस्याः पाटलपाणिजाङ्कितमुरो निद्राकाषाये दृशौ

निर्धौताधरशोनिमा विलुलितस्रस्तस्रजो मूर्धजः ।

काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर्

एभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥७७९॥

गोविन्दलीलामृतं १५.२१, २३२९—

तदास्याः श्रीभालं श्रमसलिललोलालकवृतं

नितम्बो निष्पन्दः स्तनयुगलमुच्छ्वासचपलम् ।

भुजद्वन्द्वं मन्दं नयनयुगमामीलितमभूत्

पराभूतेतीयं समिति दयितानन्दमतनोत॥७८०॥

श्रमजलकणदिग्धनिष्पन्दमूर्तिर्

गलितवसनभूषाकल्पतल्पप्रजल्पा ।

प्रियहृदि पतिताङ्गी राधिका मीलिताक्षी

स्थिरतडिदिव नय्वाम्भोधरे सा रराज ॥७८१॥

अस्याः श्वासोच्चलत्तुन्दं मुहुः कृष्णोदरः स्पृशत।

किमानन्दजडं तस्याः सेवायै चेतयत्यमुम् ॥७८२॥

दीव्यत्तदात्वोदितमाधुरीणां

स्पर्शेक्षणेच्छा दयिताङ्गकानाम् ।

समागतालीव हरेर्मृगाक्ष्या

ग्लानिस्तदैका तनुसेविकासीत॥७८३॥

ताभ्यां तु सन्धौ विहिते तदा तयोः

प्रेम्णा प्रियायाः स्वकराम्बुजन्मना ।

उत्थाय चक्रे श्रमतोयमार्जनं

कैश्यालकाल्यम्बरसंवृतिं च सः ॥७८४॥

सम्प्रार्थितो वपुरलङ्कृतये तया तां

नैच्छत्स तां विहसितुं पुरतः सखीनाम् ।

आम्रेडितः पुनरिमां विदधन्निषिद्धस्

तत्स्पर्शसम्मदजविभ्रमयानयोचे ॥७८५॥

मया किं भूषायै त्वमसि रमण प्रार्थित इह

त्यज व्यर्थां श्रान्तिं विरम नहि भूषा मम मुदे ।

न चाहं शक्तालङ्करणचयभारस्य वहने

दुनोत्युद्घूर्णा मां क्षणमवसरं देहि शयितुम् ॥७८६॥

इति गदितमरन्दं प्रेयसीवक्त्रपद्मात्

स्मितरुदितसुरम्यान्मीलिताक्षात्सतृष्णः ।

हरिरथ स निपीयास्पष्टवर्णात्तदासीद्

उदितमदनमत्तः सस्मितो विस्मितश्च ॥७८७॥

समाहर्तुः—

शिवोत्तंसादिचरणाङ्गुल्ञान्तविभूषणैः ।

विभूष्य तां हरिः पश्चात्तयासीत्तैर्विभूषितः ॥७८८॥

गोविन्दलीलामृतं १५.३०३६—

तावत्तयोः सेवनमात्रसौख्याः

प्रतीक्षमाणाः समयं वहिष्ठाः ।

सेवोपचारान्वितपाणिकुञ्जाः

कुञ्जालयं ता विविशुः प्रियाल्यः ॥७८९॥

ताम्बूलशीतलजलामलगन्धमाल्यैः

पादाम्बुजादिमृदुमर्दनबीजनाद्यैः ।

ताभिर्निषेवितपदौ प्रणयोन्मदाभिर्

आमोदमापतुरलं विगतश्रमौ ॥७९०॥

साकूतसस्मितदृशा प्रियमीरयन्ती

कान्ताब्रवीत्प्रिय न शर्म लभे विना याः ।

कुञ्जेषु कुञ्जवदना मदविह्वलाङ्ग्यः

सख्यः स्वपन्ति रमणानय ताः प्रबोध्य ॥७९१॥

तदनिच्छन्नर्मणासौ प्रियया मुहुरर्थितः ।

निर्ययौ ता रमयितुं मत्तेभ इव पद्मिनीः ॥७९२॥

कृष्णश्चक्रे मनसि ललितां यामि किं वा विशाखाम्

आदौ चित्रामिति स निखिला भावयंस्ताः प्रियालीः ।

गच्छन्हर्षाद्युगपदखिले प्राविशत्कुञ्जवृन्दे

आत्मानं ते निजविरचिते जीवदेहे यथैकः ॥७९३॥

तासां कुञ्जेषु सर्वासां तेन लीला मनोहरा ।

स्वप्नजागरयोरासीद्यूथेशाया यथा पुरा ॥७९४॥

आलीमल्लीमतल्लीस्ता दोर्युद्धे तत्कृते मिथः ।

जिगाय युगपत्सर्वाः श्रीकृष्णो मल्लतल्लजः ॥७९५॥

गोविन्दलीलामृतं १५.३८३९—

स्वाधीनकान्तकरकारितभूरिभूषा

संछादिताङ्गरतिलक्षणसञ्चयापि ।

प्रौढस्मराहवविमर्दनसूचकाङ्गी

भूयोऽभिमार्जितसमाप्तमखस्थलीव ॥७९६॥

स्वालीं प्रति प्रणयरोषविभङ्गुरभ्रूर्

लज्जाविनम्रवदना स्खलिताङ्घ्रिपाता ।

आयासविश्लथभुजार्धनिमीलिताक्षी

सालिततिस्तत इतो मिलिताभ्युपेत्य ॥७९७॥

कृष्णभावनामृत १९.५७—

उपालिप्सुरलीः पुनरुपसृता वीक्ष्य पिहित

स्मिता चिल्लीवल्लीं दर चटुलयन्त्याह सुतनुः ।

अहो कष्टं किं वः क्षतमजनि बिम्बाधरकुचे

भुजङ्गं मृग्यन्त्यः कमविशत वा गह्वरवरम् ॥७९८॥

भुजङ्गं स्वाधीनं सुमुखि जनतां दंशयसि यत्

तदास्तां ते ख्यातं व्रजभुवि यशो मा हस पुनः ।

अहं चेद्व्याख्यास्ये किमपि चरितं तत्सपदि ते

गिरं तां ह्रीर्देवी विरमयितुमाविर्न भविता ॥७९९॥

इत्येव यावल्ललिताबभाषे

मध्येसभं तावदुपेत्य कृष्णः ।

प्राहालयो वच्मि चरित्रमस्याश्

चित्रं यदेवाद्यतनं सुरम्यम् ॥८००॥

उज्ज्वलनीलमणि ५.५०—

सख्यास्तवानङ्गरणोत्सवेऽधुना

ननर्त मुक्तालतिका स्तनोपरि ।

उत्प्लुत्य यस्याः सखि नायकश्चलो

धीरं मुहुर्मे प्रजहार कौस्तुभम् ॥८०१॥

अलङ्कारकौस्तुभ ८.१२४—

मनोरागं दत्त्वा चरणदलरागो मृगदृशस्

त्वयादत्तो वक्षःस्थलमलति यः कौस्तुभ इव ।

रसं दत्त्वा नीता त्वदधरपुटेनेक्षणमसौ

समं त्वद्वैदग्ध्यं तदवयववैदग्ध्यमपि च ॥८०२॥

अथ सखीमप्याह, विदग्धमाधवे ७.४१—

नैरञ्जन्यमुपेयतुः परिगलन्मोदाश्रुणी लोचने

स्वेदोद्धूतविलेपनं किल कुचद्वन्द्वं जहौ रागिताम् ।

योगौत्सुक्यमगादुरः स्फुरदिति प्रेक्ष्योदयं सङ्गिनां

राधे नीविरियं तव श्लथगुणा शङ्के मुमुक्षां दधे ॥८०३॥

उज्ज्वलनीलमणि ७.४९—

पूर्णं प्रमोदोत्तरलेन राधे

श्यामां रसानां निधिमिन्दुभाजम् ।

सव्येन नेत्राञ्जलिना पिबन्ती

त्वमुन्मनाः कुम्भभवायितासि ॥८०४॥

उज्ज्वलनीलमणि १०.४०—

चित्रं धनिष्ठे तनुवाससोऽपि

चीनस्य पीनस्तनि सङ्गमेन ।

लिप्तेव ते लोहितचन्दनेन

मूर्तिर्बिन्दुना सखि लोहितासीत॥८०५॥

उज्ज्वलनीलमणि ४.८—

कचास्तव सुकुञ्चिता मुखमधीरदीर्घेक्षणं

कठोरकुचभागुरः क्रशिमशालि मध्यस्थलम् ।

नते शिरसि दोर्लते करजरत्नरम्यौ करौ

विधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥८०६॥

उज्ज्वलनीलमणि ४.२२—

तडिदतिचलतां ते किं दृगन्तादपाठीद्

विधुमुखि तडितो वा किं तवायं दृगन्तः ।

ध्रुवमिह गुरुताभूत्त्वद्दृगन्तस्य राधे

वरमतिजविनां मे येन जिग्ये मनोऽपि ॥८०७॥

उज्ज्वलनीलमणि ४.२७—

सुवदने वदने तव रधिके

स्फुरति केयमिहाक्षरमाधुरी ।

विकलतां लभते किल कोकिलः

सखि ययाद्य सुधापि मुधार्थताम् ॥८०८॥

उज्ज्वलनीलमणि ४.४१—

तिर्यक्क्षिप्तचलद्दृगञ्चलरुचिर्लास्योल्लसद्भ्रूलता

कुन्दाभस्मितचन्द्रिकोज्ज्वलमुखी गण्डोच्छलत्कुण्डला ।

कन्दर्पागमसिद्धमन्त्रगहनामर्धं दुहाना गिरं

हारिण्यद्य हरेर्जहार हृदयं राधा विलासोर्मिभिः ॥८०९॥

उज्ज्वलनीलमणि ५.२९—

भ्रुवोर्विक्षेपस्ते कवलयति मीनध्वजधनुः

प्रभारम्भं रम्भाश्रियमुपहसत्युरुयुगलम् ।

कुचद्वन्द्वं धत्ते रथचरणयूनोर्विलसितं

वरोरूणां राधे तरुणिमनि चूडामणिरसि ॥८१०॥

उज्ज्वलनीलमणि १२.१६—

प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे

तासां नोज्ज्वलनर्मभङ्गिभिरपि प्राप्तोऽस्मि तुष्टिं तथा ।

द्वित्रैरद्य मुहुस्तरङ्गदधरग्रस्तार्धवर्णैर्यथा

राधायाः सखि रोषगद्गदपदैराक्षेपवाग्बिन्दुभिः ॥८११॥

सङ्ग्रहकर्तुः—

इति माधवेऽभिदधतीह दीपित

प्रमदामणीमुखमुदञ्चितस्मितम् ।

दरभुग्नतारसरसेक्षणं क्षणाद्

अधयद्दृशोच्चलितया भृशोत्सुकः ॥८१२॥

गोविन्दलीलामृत १५.४२४९—

मधुरिपुरतिलीलागाधापीयूषसिन्धुः

सततदुरवगाहः प्रेमतीर्थावगाहैः ।

प्रणयिविरललोकैः स्वाद्यतेऽसौ यदन्यैः

कविभिरपि तटस्थैः स्पृश्यते भाग्यमेतत॥८१३॥

अथ विविधविलासश्रान्तितः क्लान्तिपूर्णा

अवसरनिजसेवाभिज्ञयोपेत्य तूर्णम् ।

जलमनु जललीलावाञ्छयाल्या तदान्तर्

हरिहरिदयिताल्यश्चाल्यमाना बभूवुः ॥८१४॥

ग्रीवसंयमितकेलिविमुक्तकेशाः

संवस्त्रिताभिनवशुक्लसुचीनचेलाः ।

सेवापरालिनिचयैरवतारिताति

भाराङ्गभूषणचयाः सुदृशो बहुस्ताः ॥८१५॥

उद्यत्सुधांशुशतपुष्करनिन्दिकान्तिः

प्रोद्यद्विभाकरविकस्वरपुष्कराक्षः ।

कन्दर्पसौमनसपुष्करजित्कटाक्षः

श्रान्तिप्रशान्तिकरपुष्करकेलिलोलः ॥८१६॥

संवेष्टितः सकलपुष्करिणीभिराभिः

कृष्णः प्रियादयितपुष्करिणीं जगाहे ।

श्रान्तः श्रमाकुलितपुष्करिणीघटाभिः

स्वैरी वनेचरमदोत्कटपुष्करीव ॥८१७॥

(युग्मकम्)

नेत्रोत्पलास्यकमलालकलोलभृङ्गा

वक्षोजकोकयुगला तनुदोर्मृणाला ।

कृष्णाक्षिमत्तगजयोर्जलकेलितुष्ट्यै

गोपीततिः प्रथमतः सरसी तदासीत॥८१८॥

भीरुस्वभावादजलावगाहाः

काश्चित्तटस्थाः सलिलैर्निषिच्य ।

बलाद्गृहीत्वा वसनेऽपयान्तीर्

निन्युर्हसन्त्यः सलिलान्तरन्याः ॥८१९॥

काश्चिद्स्वजानुद्वयसे स्थिता जले

भीत्योरुदघ्ने प्रियोसेकतो पराः ।

स्वनाभिमात्रे सलिले स्थितो हरिः

सर्वा न्यसिञ्चद्विहसन्बलाज्जलैः ॥८२०॥

कृष्णाह्निककौमुदी ४.१३६१४४—

ताः परस्परविषक्तशरीराः

केलिलोलमनसस्त्वतिधीराः ।

कृष्णसन्निधिवियोगभीताः

पर्युपर्युपरिचेलुरभीताः ॥८२१॥

कापि कृष्णकृतपुष्पविभूषा

हानये धृतनिमज्जेन दोषा ।

कूलमूलमवलम्बितुकामा

तस्थूषी विरुरुचे वररामा ॥८२२॥

तां विलोक्य सुमुखीमथ कूले

स्वाभिलाषरभसेष्वनुकूले ।

सत्वराः प्रणयतोऽतिविचित्राद्

उत्सुका विचकर्षुर्मृगनेत्राः ॥८२३॥

तां तथापि कृतभूरिविलम्बाम्

अम्बुभिर्भृतकराम्बुजलिम्बाः ।

ताः समं सरसचारुविलासा

निर्भियोऽभिषिषिचुः कृतहासाः ॥८२४॥

आननैः सरसिजैः कुचककुम्भैश्

चक्रवाकमिथुनैर्गतदम्भैः ।

नाभिभिर्घनरसभ्रमिगर्तैर्

मैत्रुवास सुषमापरिवर्तैः ॥८२५॥

आत्तपाणिरितरेतरमासाम्

आवलिः कनकजालविलासा ।

आववार हृदयेशममन्दं

चन्द्रिकाततिरिवाम्बुदवृन्दम् ॥८२६॥

बन्धमेत्य स तदन्तरवर्ती

भ्रूविभङ्गवरनर्तकनर्ती ।

सुभ्रुवां नयनविद्रवशूरैर्

बन्धभङ्गमकरोज्जलपूरैः ॥८२७॥

ताः समेत्य रभसादविदूरं

वारिभिः सिषिचुरञ्जलिपूरम् ।

पाणिरुद्धनयनः कृतहर्षं

शेक एष सुदृशां जलवर्षम् ॥८२८॥

वारिवर्षरभसेन विहस्तं

सुभ्रुवामपघनोऽथ समस्तः ।

एक एव किल किन्तु न जग्लौ

हर्षतो वदनबिम्ब इव ग्लौः ॥८२९॥

कृष्णाह्निककौमुदी ४.१४६१५१—

तं सिषेच करपङ्कजकोषैः

साम्बुभिः समणिकङ्कणघोषैः ।

वारुणास्त्रमेव तत्कुसुमेषोर्

अत्यसह्यमभव्द्विजिगीषोः ॥८३०॥

अम्बुदस्य कुतुकाज्जलयन्त्री

भूतमञ्जलिपुटं विनियन्त्री ।

अक्षिपज्जलभरं कराभ्यां

दीर्घधारमतिचारुतराभ्याम् ॥८३१॥

हृत्पतेरुरसि सा जलधारां

पेतुषी विरुरुचेऽलमुदारा ।

मन्मथस्य गुरुदीर्घशलाका

कापि शुक्तिरिव रुद्धपताका ॥८३२॥

शश्लथे भगवती वनमाला

हारयष्टिरपतत्सुविशाला ।

एक एव बलवान्प्रियदेहे

कौस्तुभः परिभवं स विषेहे ॥८३३॥

सह्यतामयमयं मम पाथः

सेक इत्यथ निगद्य स नाथः ।

प्रेयसीवदन एव सहर्षः

सस्मितं सरसाञ्जुरवर्ष ॥८३४॥

पाणिपद्मकृतलोचनरोधा

कृष्णकीर्णसलिलैः कृतबाधा ।

अञ्जसासहत खञ्जननेत्रा

प्रेमिनीमतिरतीव विचित्रा ॥८३५॥

कृष्णभावनामृत १४.४०—

अथैत्य मधुसूदने धयति ता बलात्पद्मिनीर्

अपाङ्गशरपञ्जरान्तरमपि प्रविश्यौजसा ।

स झङ्कृति मणीमयाभरणमाददाने मृगी

दृशां कलकलेऽप्यलं शिखिपिकैः प्रवृद्धीकृते ॥८३६॥

कृष्णभावनामृत १४.४३—

कुचान्विगतकञ्चुकान्नखरविक्षतान्दोर्द्वयैः

पिधाय तिमितायतालकलिपिप्रलिप्तानना ।

निबध्य शशिशेखरान्विसमिषोग्रपाशैर्बभाव्

अनङ्गपृतनैव सा न खलु पद्मिनीसंहतिः ॥८३७॥

कृष्णभावनामृत १४.४२—

ततह्श्वसितचञ्चलच्चलदलच्छदाभोदरा

गिरा स्खलितगद्गदाक्षरभृतैत्य नान्दीमुखीम् ।

जगाद किमपि प्रियप्रतिहृतोत्तरीयाबला

ततिर्विगतभूषणाप्यतनुमाधुरीं बिभ्रति ॥८३८॥

गोविन्दलीलामृत १५.५०—

क्लिन्नातिसूक्ष्मवसनान्तरुदीर्णतत्तद्

अङ्गालिसौष्ठवसरित्सुषमाप्सु तासाम् ।

मग्नं हरेर्लसति नेत्रमदेभयुग्मं

तस्यापि तासु दयितादृगिभीघटापि ॥८३९॥

गोविन्दलीलामृत १५.५२—

राजीवरक्तोत्पलपुण्डरीक

कह्लारनीलोत्पलकैरवाणाम् ।

स्रवन्मरन्दैश्च पतत्परागैः

सौरभ्यभाज्यम्भसि ता विजह्रुः ॥८४०॥

गोविन्दलीलामृत १५.५५—

व्यात्युक्षीप्रधनं तदा समभवत्ताभिः समं श्रीहरेर्

यत्रासां मृदुसेचनैः स विदधे प्रोत्साहवृद्धिं क्षणम् ।

सिञ्चन्त्यः परितो निरन्तरजलासारैरमुं ता व्यधुर्

भीत्याधोवदनं कराङ्गुलिदलैरुद्धाक्षिनासाश्रुतिम् ॥८४१॥

व्र्ण्दावनमहिमामृतं ३.३६—

जलक्रीडाकाले कनककमलिन्येकविपिने

निलीना श्रीराधा यदधि कमलं चुम्बति हरौ ।

स्ववक्त्राब्जभ्रान्त्या हसितमथ नालं स्थगयितुं

हसित्वा कान्तेनाध्रियत हसितालीपरिकरा ॥८४२॥

व्र्ण्दावनमहिमामृतं ५.४—

सखीभिः सम्भूय स्वकरकमलद्वन्द्वकलितैर्

जलैः सेकं राधा बहु विदधती नागरमणेः ।

सुधापूर्णान्वर्णान्नमितवदनेन्दोरलमलं

जितोऽस्मीत्याकर्ण्यासदुपरता यत्र किमिति ॥८४३॥

स्तवमाला, गीतावली ४२—

= धनाश्रीः =

राधे निजकुण्डपयसि तुङ्गीकुरु रङ्गम् ।

किं च सिञ्च पिञ्छमुकुटमङ्गीकृतभङ्गम् ॥ध्रुव॥

अस्य पश्य फुल्लकुसुमरचितोज्ज्वलचूडा ।

भीतिभिरतिनीलनिविडकुन्तलमनु गूढा ॥

धातुरचितचित्रवीथिरम्भसि परिलीना ।

मालाप्यतिशिथिलवृत्तिरजनि भृङ्गहीना ॥

श्रीसनातनसुमणिरत्नमंशुभिरपि चण्डम् ।

भेजे प्रतिबिम्बभावदम्भी तव गण्डम् ॥८४४॥

गोविन्दलीलामृत १५.६८—

चूडा पश्चादपसृतवती कौस्तुभो बिम्बदम्भाद्

गण्डे तेऽसौ शरणमभजत्कुण्डले कम्पलोले ।

लीनं चासीत्तिलकमलिके छिन्नभिन्नास्य माला

तस्माद्युद्धाद्विरम सखि मा कातरं पीडयामुम् ॥८४५॥

गोविन्दलीलामृत १५.९१—

हरिहरिदयितानां गात्रसौरभ्यशैत्यैस्

अधिकसुरभिशीतं तोषमासीत्सरस्याः ।

असितसितपिशङ्गैः कर्बुरं चाङ्गरागैर्

भवति हि गुणिसङ्गान्निर्मलानां गुणाप्तिः ॥८४६॥

कृष्णाह्निककौमुदी ४.१५२१८६—

एवमेव विरते जलयुद्धे

मन्मथस्य रभसे प्रतिबुद्धे ।

आहवः समजनिष्ट स पद्मा

पद्मि पद्मनयनावलिसद्मा ॥८४७॥

आलिभिः समवचित्य वितीर्णैः

पङ्कजैः करतलेऽनुपशीर्णैः ।

उद्भुज दरविकस्वरकक्षं

सा जघान हृदये कमलाक्षम् ॥८४८॥

यद्यदुत्क्षिप्तै पद्ममुदारा

वल्लभोरसि सुजातविकारा ।

तत्तदेव स करेण गृहीत्वा

तां निहन्ति कुतुकेन हसित्वा ॥८४९॥

एवमेवमुभयोः करसङ्गे

वर्धितच्छवि गतागतरङ्गे ।

पङ्कजं जयति तत्र सुपीव

प्रेमहेमपटवासतुरीव ॥८५०॥

तावतां जलरुहामनुयायी

प्रोल्लसत्परिमलव्यवसायी ।

स द्वयोरिव कटाक्षशरोघः

पुप्लुवेऽलिनिकरोऽयममोघः ॥८५१॥

दोर्लते विलुलिते घनसान्द्रा

श्वासपालिरथ दृक्च सतन्द्रा ।

सुभ्रुवः स्तनतटी च सकम्पा

वर्धते तदपि केल्यनुकम्पा ॥८५२॥

प्रोज्झ्य पङ्कजमलिर्वदनेऽस्याः

पादसीम्नि शफरी सवयस्या ।

निष्पपात युगपद्यदि दूना

सा भियास दयितोरसि लीना ॥८५३॥

आलयस्तु सममेत्य तमेताः

पङ्कजैः परित एवमभीताः ।

जघ्नुरुन्नतभुजाः सविलासः

तां च तं च परिहासविकाशम् ॥८५४॥

तत्सखीजनसरोरुहवर्षं

हन्त सा च स च सस्मितहर्षम् ।

पद्मिनीदलमृणालवराभ्यां

प्राक्षिपत्करतले विधृताभ्याम् ॥८५५॥

मुख्यया व्यतनि युद्धविसर्गः

किं करिष्यति सखीजनवर्गः ।

इत्यनर्ति दयितस्य सपक्षैः

पक्षिभिर्जलचरैर्धृतपक्षैः ॥८५६॥

तामुरोद्वयसो वारिनिमग्नां

वीक्ष्य कृष्णसविधे मृदुभग्नाम् ।

प्राप कोकमिथुनं निजगोत्र

भ्रान्तितः स्तनयुगान्तिकमत्र ॥८५७॥

तद्विलोक्य दयितः करकोषे

णामृशद्वलति मानसतोषे ।

अप्यधत्त कुचमण्डलमेषा

स्वस्तिकेन धृतभूषणवेषा ॥८५८॥

कण्ठमर्पयति चारुमृणालं

वल्लभे सुवलितं सुविशालम् ।

दोर्लते पुलकिते विधुमुख्यां

प्रेम्ण एव महतीयमभिख्या ॥८५९॥

वेष्टयन्तु परितो भवदाल्यस्

त्वं च तिष्ठ सखि मामनुपाल्य ।

आनयध्वमभितो मृगयित्वा

मां निमग्नमिह साधु गृहीत्वा ॥८६०॥

सुभ्रुवामथ तथा स्थितवत्याम्

आबलौ प्रियगिरा रसवत्याः ।

निर्ममज्ज दयितोऽम्बुनि रस्यः

पश्यतो विधुमुखीनिकरस्य ॥८६१॥

ताः परस्परपराचितहस्ताश्

चन्द्रिकावलयजालवदस्ताः ।

मण्डलीं विदधिरे क्रमह्रस्वां

तं विवेक्तुमुपसर्पणतः स्वाम् ॥८६२॥

ता उपर्युपरि लग्नशरीरा

ह्रस्वमण्डलतया रसधीराः ।

पाणिभिः सरसिजैरिव लोलैर्

वैजयन्त सलिलान्यकरालैः ॥८६३॥

ताः क्रमेण सविधं विधुमुख्याः

प्राप्तवत्य उदितोत्सवमुख्याः ।

लेभिरे न रमणं यदि रामास्

तस्थुरेव हसितैरभिरामाः ॥८६४॥

तास्तथा स्थितवतीर्विहसन्तीर्

मध्यगा विधुमुखी कलयन्ती ।

आह वः कतमयैव स वामः

प्रत्तमन्तरमतो स जगाम ॥८६५॥

नो मया न च मया न मयापि

प्रात्तमन्तरमयं तु तथापि ।

कुत्र वा सखि कयाप्युत रीत्या

प्रापलायत तवैव हि भीत्या ॥८६६॥

तत्त्वमेव सखि वेत्सि नितान्तं

नो वयं त्वपगतं तव कान्तम् ।

गोपयस्यपि कथं त्वदधीना

मादृशीः प्रति विलासनवीना ॥८६७॥

इत्यमूभिरुपहस्य विनुन्या

सा तिलार्धविरहेऽप्यतिखिन्ना ।

विस्मिता स्थितवती कृतचिन्तं

न्यक्षिपद्दिशि दिशि स्वदृगन्तम् ॥८६८॥

गुञ्जितेन कृतवाग्व्यवसायः

पुञ्जितो मधुलिहां समुदायः ।

व्याजहार नलिनीवनलीनं

लीलया कुतुकिनं तमदीनम् ॥८६९॥

तास्तथैव कृतमण्डलबन्धं

तत्पलायनभियाऽप्रतिबन्धम् ।

सत्वरान्तमभितः परिवव्रुः

कां श्रियं च परमां न विवव्रुः ॥८७०॥

आवृतः स परितोऽयममूभिर्

जित्वरीभ्रिव कामचमूभिः ।

आप तुष्टिमथ दृष्ट्यरविन्द

स्यन्दमानकरुणामकरन्दः ॥८७१॥

पद्मिनीवनविहारिणमेकं

किं नु वेष्टयथ मामतिरेकम् ।

निर्जिता अपि ह्रियं न लभध्वे

खेलितुं पुनरपि प्रयतध्वे ॥८७२॥

इत्युदारमधुरं मधुरञ्जि

व्याहरन्तमबलागणगञ्जि ।

सस्मयं सकुतुकं सविरोधं

सुभ्रुवो जगदुरेनमदोषम् ॥८७३॥

पद्मकेलिसमरं विरहय्य

त्वं सरोरुहवनं प्रपलय्य ।

प्राप्तवानसि जितोऽस्यबलाभिर्

लज्जसे न हि कलाकुशलाभिः ॥८७४॥

वारिमज्जनमिषेण हि मूर्तं

धूर्तभावमवलम्ब्य मुहूर्तम् ।

वर्त्मनाथ कतमेन कथं वा

निर्गतोऽसि हिर्यमेषि न किं वा ॥८७५॥

वेत्तु कोऽत्र कथयिष्यति कस्मै

युज्यते कथयितुं न परस्मै

योऽभवत्परिभवो भवतीभ्यस्

तं न्यवेदयदयं नलिनीभ्यः ॥८७६॥

एक एष बहवो हि भवत्यः

खेलने परिभवोऽस्य हि सत्यः ।

इत्युवाच सुमुखी यदि मुख्या

प्रेयसो व्यजनि काचिदभिख्या ॥८७७॥

एहि सुन्दरि ममासि सपक्षा

वेत्सि मेऽन्तरममूर्न विपक्षाः ।

पूजयामि भवतीमिति कृष्णस्

तामभूषयदतीव सतृष्णः ॥८७८॥

बीजकोषशकलैः अवतंसे

सच्छदैश्चिकुरचारुवतंसः ।

केशरैश्च कुटिलालकशिल्पं

तेन तेन उरुवाञ्छमनल्पम् ॥८७९॥

शैवलेन मणिकाञ्चिरुदारः

सन्मृणालशकलैरपि हारः ।

गण्डमण्डलमकारि सरागैर्

मण्डितं कमलषण्डापरागैः ॥८८०॥

पाणिना पयसि पाणितलस्थे

ताडिते कलरवैरवतस्थे ।

तैरकारि जलमण्डुकमाद्यं

ताभिरात्मजयडिण्डिमवाद्यम् ॥८८१॥

कृष्णाह्निककौमुदी ४.१९११९९—

हरिवल्गिषु बभौ गुणनाशस्

तत्र बन्धरहितः कचपाशः ।

ते रदच्छदपुटाः क्षतरागाः ।

सर्वलेपरहिताः स्तनभागाः ॥८८२॥

लोचनं विगलिताञ्जनमासीत्

किङ्किणी किमपि मौनमयासीत।

प्राप नीविरपि मोक्षपरत्वं

पश्य कृष्णजलकेलिमहत्त्वम् ॥८८३॥

व्रीडयेव परया तनुलग्नं

त्यागभीतिवशतोऽतिविरुग्नम् ।

निर्गलज्जललवैरतिदीनं

रोदितीव सुदृशामथ चीनम् ॥८८४॥

पाण्डिमानमगमत्तनुशोभा

लोचनं विकचकोकनदाभाः ।

तच्च तच्च सुदृशामतिरम्यं

हृत्पतेः समभवन्ननु काम्यम् ॥८८५॥

पूर्वमेव कतिचित्कृतखेलाः

स्नातमृष्टतनवो धृतचेलाः ।

उक्तपूर्वपुलिनोदरकुञ्जान्

लेभिरे धृतपरिच्छदपुञ्जान॥८८६॥

आलिपालिरथ वारिणि राधा

कृष्णयोः प्रणयतः क्षतबाधा ।

वारिखेलनमखेऽवभृथाख्यं

स्नानमारभत दीव्यदभिख्यम् ॥८८७॥

चारुभिः करसरोरुहकोषैर्

निक्वणत्कनककङ्कणघोषैः ।

क्षालयन्त्य उचितप्रणयार्द्राः

स्वेदशीकरभरैरपि सार्द्राः ॥८८८॥

पद्मरेणुदलकेशरनालैर्

आविलम्बपुरपूर्वमरालैः ।

तत्तयोर्विदधिरेऽथ रमण्यो

हारि वारिकरिवारिकरिण्योः ॥८८९॥

गन्धतैलमिलनव्यवसायैः

सप्रबन्धशुभगन्धकषायैः ।

केशशोधनमसाध्यत पूर्वं

गात्रशुद्धिरथ ताभिरपूर्वम् ॥८९०॥

गोविन्दलीलामृत १५.९३९६—

सेवालीभिः कृष्णकृष्णप्रियास्तास्

तैलैर्गन्धोद्वर्तनैः सेविताङ्गाः ।

प्रेम्णान्योन्यं स्नापयित्वा प्रहर्षात्

स्नात्वोत्तस्थुर्नीरतस्तीर्थतीरे ॥८९०॥

गौराङ्गीणामङ्गलग्नाम्बरान्ता

द्वारां धारा निष्पतन्त्यो विरेजुः ।

यद्वत्सौवर्णाचलक्षुद्रशृङ्ग

श्रेणीलग्नाच्छारदाम्भोदवृन्दात॥८९१॥

विस्रस्तकुन्तलततेः शिखराद्गलन्तस्

तासां गुणग्रथितमौक्तिकपालित्तुल्याः ।

अन्तर्हृदीशितुरलं जलबिन्दवोऽमी

एकावलीनिचयतामुपलभ्य रेजुः ॥८९२॥

स्वप्नेऽपि दुर्लभविलोकलवस्य तस्य

दृष्टाप्तविघ्नरहितेष्टसुसङ्गमस्य ।

चित्रं चिरान्मधुर्मामृतमापिबन्त्यस्

तृष्णाभिवृद्धिमगमन्द्विगुणां मृगाक्ष्याः ॥८९३॥

गोविन्दलीलामृत १५.९९१०८—

आलीचलेन परिमार्जितदेहकेशश्

चीनांशुकैः परिहितोद्गमनीयचेलः ।

कृष्णश्च कृष्णरमणीनिचयः ससभ्यः

श्रीपद्ममन्दिरमितो द्रुतमारुरोह ॥८९४॥

अनल्पैराकल्पैः कुसुमरचितैर्भूषणचयैर्

निविष्टं तं याम्ये कमलगृहसत्कुट्टिमवरे ।

निजप्राणप्रेष्ठं प्रणयपरिपाटीघटनया

स्वयं श्रीराधालीनिचयसहिता मण्डयति सा ॥८९५॥

धूपैरागुरवैर्विशुष्कसुरभीन्श्रीकङ्कतीशोधितान्

मल्लीगर्भकवेष्टितान्स्वदयितस्योद्यम्य बद्ध्वा कचान।

जातीरङ्गणयूथिकाबकुलसद्गाङ्गेययूथीकृतैर्

गुच्छोत्पल्लवकेतकीदललसच्चाम्पेयबर्हान्वितैः ॥८९६॥

गुञ्जामौक्तिकमाल्ययुग्मविलसत्पार्श्वद्वयैर्माल्यकैर्

ऊर्ध्वोर्ध्वक्रमवेष्टितां स्तवकयुक्पिञ्छैर्लसत्शेखराम् ।

मूले स्थूलतां सुसूक्ष्मशिखरां कृष्टालिवृन्दां व्यधात्

चूडां चामरडामरीमलिकगां राधा जगन्मोहिनीम् ॥८९७॥

यस्यां लग्ना न दृगलिघटा निर्जिहीतेऽङ्गनानां

या संलग्ना हृदयकमले जातु नैतज्जहाति ।

यस्याश्छाया भ्रमयति सकृद्वीक्ष्यमाणापि कृष्णं

कार्ष्णीं चूडा विलसति जगत्सा पिबन्ती स्वधाम्ना ॥८९८॥

यत्कौङ्कमं ललितया तिलकं ललाटे

सृष्टं हरेः शशिनिभं मदबिन्दुमध्यम् ।

श्रीखण्डबिन्दुनिचितं बहिरेतदासां

हृत्खण्डने मदनहाटकचक्रमासीत॥८९९॥

भक्तिच्छेदैरन्वितां यां सुचर्चां

चित्रा चक्रे कौङ्कुमीं तत्तनौ सा ।

लावण्योर्मिचञ्चलास्मारयत्तां

दीव्यद्गोपीकृष्णयुग्माणि रासे ॥९००॥

चित्राथ चित्रमकरोन्निजमित्रगात्रे

मैत्रीपवित्रचरिताम्बुदजैत्रकान्तौ ।

यत्तत्सखी नयनखञ्जनबन्धनाय

कन्दर्पशाकुनिकविस्तृतजालमासीत॥९०१॥

नानावर्णसुगन्धपुष्पं पुष्पैः कृतैः पल्लवैः

क्ÿप्तैः कुण्डलहारकङ्कणलसन्मञ्जीरकाञ्च्यङ्गदैः ।

ताभिर्याभरणैर्मुदा प्रियतनौ श्रीवेशभङ्गी कृता

सैवासां नयनैणबन्धनविधौ कामस्य पाशायते ॥९०२॥

पौष्पैश्चाभरणैस्तत्र राधा काण्डपटावृता ।

आलीभिर्भूषिताल्यश्च सेविकानिचयैः क्रमात॥९०३॥

(अज्ञातस्य)—

अशोकैर्बाणैः सद्विचकिला शिरीषैर्मरुवकैः

सरोजैः कुन्दाद्यै रचितबहुभूषाकृतिभरैः ।

मणीन्जेतुं शीलैः करचरणवक्षःप्रभृतिषु

सुकेली राधां दास्युरुगुणवती भूषितवती ॥९०४॥

चैतन्यचरितामृतमहाकाव्य १०.१६२६—

वासितानि पटवासविमर्दैर्

निर्भरं तनुसुखानि तनूनि ।

अंशुकानि दधिरे मदिराक्ष्यो

मान्मथानि किमु शुद्धयशांसि ॥९०५॥

अंशुकाञ्चललसन्निविडोरुः

सुभ्रुवां कनकसौभगकम्रः ।

मन्मथस्य नगरी सपताक

स्तम्भदम्भमहरत्सविशेषम् ॥९०६॥

गन्धवासितसितांशुकखण्डैर्

मार्जनाय समलङ्कृतगर्भः ।

राजति स्म सुदृशां कचपाशः

कौमुदीमिव पिबंस्तिमिरौघः ॥९०७॥

मृष्टमुक्तचिकुरा वलयन्ती

चारुवामकरजैरलकाग्रम् ।

दर्पणार्पितविलोचनलक्ष्मीः

कापि कामनगरीव रराज ॥९०८॥

सत्प्रसाधनिकया लघुहेलं

मृष्टमुक्तचिकुरा वरनारी ।

अन्वलिप्त वपुरुत्तमसान्द्रैः

कुङ्कुमच्छिदुरचन्दनपङ्कैः ॥९०९॥

सान्द्रचन्द्रमृगनाभिविभिन्नः

कौङ्कुमेन च रसेन विमुग्धः ।

आदधे वपुषि मुग्धवधूभिश्

चन्द्रपङ्क इव चन्दनपङ्कः ॥९१०॥

भूषणस्य च विभूषणमङ्गं

तत्किमेभिरिति कापि वराङ्गी ।

नाभजत्किमपि किन्त्वनुभेजे

केवले सदनुलेपनचेले ॥९११॥

स्पर्शनव्यवधिरेव किमन्य्न्

मा कृथाः सुतनु तत्तनुबाधाम् ।

इत्यदः प्रियसखीवचनान्ते

नानुलेपमपि काचिदियेष ॥९१२॥

लोचनद्वयरुचैव समीपं

प्राप्तया श्रवणयोरतिशोभा ।

जायते किममुनेति कयाचिन्

नादधे कुवलयस्य वतंसम् ॥९१३॥

मुक्तमुक्तमपि कैशिकमेतच्

छोभते यदपि मुग्धसखीभिः ।

स्वीयशिल्पकलनादिव युक्त्या

बन्धनं तदपि चारु वितेने ॥९१४॥

दर्पणस्य खलु दर्पणमेतल्

लोच्यतां कथमिति प्रवराङ्गी ।

अङ्गमैक्षत सविभ्रममङ्गे

स्वच्छमच्छतरहाटकगौरे ॥९१५॥

कृष्णाह्निककौमुदी ४.२०६—

ताश्च ताश्च सुदृशो मिथो मिथः

स्वस्ववेशकृतिचातुरीमथ ।

संविधाय पुनरेव संहताः

प्रेयसो निकटमेव संश्रिताः ॥९१६॥

कृष्णाह्निककौमुदी ४.२१३२२३—

कौमुदीकुमुदिनीकुमुद्वती

शीतलाशशिकलाकलावती ।

रूपमञ्जरिरनङ्गमञ्जरी

केलिमञ्जरिरशोकमञ्जरी ॥९१७॥

वन्यभोजनविधानकौशले

पण्डिता मृगदृशो ह्यनाविले ।

अन्वतन्वत तमुद्यमं तया

वृन्दया परिजनैः समेतया ॥९१८॥

मातुलङ्गकरसैरथ युक्तं

सारशुद्धमथितैरभिषिक्तः ।

ईर्ष्ययेव न परस्परसक्तः

सूक्ष्मशुभ्रमृदुलागुणपृक्तः ॥९१९॥

भव्यनव्यविलसन्मृदमत्र

शोणिकाविवरवासपवित्रः ।

प्रातरेव भवनाहृतसद्यः

क्षालितान्न निकरो निरवद्यः ॥९२०॥ (युग्मकम्)

मांसलानि शशिमांसमहांसि

प्राप्तसारघनसाररजांसि ।

स्वादुनिर्जितसुधाम्बुनिधीनि

प्रापितानि ललितानि दधीनि ॥९२१॥

पक्वविक्वणसुदाडिमबीजैस्

तद्रसैरमृतसौभगबीजैः ।

तालसस्यवलयैरतिनव्यैस्

तद्रसैरपि सुधारसभव्यैः ॥९२२॥

बीजलाङ्गलिफलोच्चयगर्भैः

कोमलैः शशिमयूखसगर्भैः ।

तालबीजजठराङ्कुरमूलैश्

चारुकोमलतया जिततूलैः ॥९२३॥

स्निग्धभासुरकशेरुकराजैर्

बीजकोषभवनिस्तुषबीजैः ।

नागरङ्गफलकोषसमूहैः

पीलुभिश्च रसभारदुरूहैः ॥९२४॥

आममिष्टसहकारफलानां

खण्डकैः सुललितैः सुरसानाम् ।

गोस्तनीफलचयैश्च सुपाकैः

स्वादुगन्धलहरीकृतसेकैः ॥९२५॥

उद्यदङ्कुरकणैरतिमुद्गैः

सार्द्रकैः सलवणैरपि मुद्गैः ।

भास्वदिक्सूसकलैरपि शीर्णैः

कोमलैः सरसतापरिपूर्णैः ॥९२६॥

पूरिता नवपलाशपलाशैर्

निर्मिता मरकतप्रतिकाशैः ।

द्रोणयः परिजनैः सह भव्या

वृन्दयोपजह्रिरे वन्ददेव्या ॥९२७॥ (षड्भिः कुलकम्)

गोविन्दलीलामृत १५.१११११२—

भोक्तुं तान्युपविष्टोऽसौ शुभ्रपुष्पांशुकासने ।

सव्ये श्रीसुबलस्तस्य दक्षिणे मधुमङ्गलः ॥९२८॥

उपविष्टा पुरो राधा तानि साली वनेशया ।

आनीयानीय दत्तानि तेभ्यः परिविवेश सा ॥९२९॥

कृष्णाह्निककौमुदी ४.२२४२२९—

सम्भृता विशदकाचघटीषु

स्फाटिकीषु सुतटीषु पुटीषु ।

आरराज सा रसालरसौघः

सौरभस्य लहरीभिरमोघः ॥९३०॥

सुप्रपानकरसाश्च सुशीताः

शुद्धसारघनसारपरीताः ।

रेज्रल्पमरिचाः सुसिताभिर्

भूरिभिर्विलुलिताश्च सिताभिः ॥९३१॥

नारिकेलवलयाः कृतशङ्खा

कारचारव उदारसुपुङ्खाः ।

मिष्टतापरिमलव्ययशङ्काश्

चारुचेलपिहिता विकलङ्काः ॥९३२॥

एकमेकमखिलस्य वस्तुनः

स्वादुमोदपरभागवास्तुनः ।

ईषदीषदुपगृह्य पाणिना

सा ददौ प्रियकरे स्मितानना ॥९३३॥

चारुकर्तरिकयोत्तमोत्तमं

सा निकृत्य सहकारमक्लमम् ।

पाणिना प्रणयिपाणिपङ्कजे

दत्तमोदमतुलं च सस्वजे ॥९३४॥

उत्तमोत्तममवेक्ष्य पाणिना

सा रसालफलमम्बुजानना ।

संनिगाल्य परिपूर्य सत्पुटीर्

आनिनाय पुरतोऽस्य पौरटीः ॥९३५॥

गोविन्दलीलामृत १५.१२७१२९—

सिताभिः क्षीरसारैश्च कृतान्श्रीराधयालये ।

नारङ्गरुचकाम्रादिफलाकारविकारकान॥९३६॥

फलपुष्पयुतान्वृक्षान्शर्करापाकनिर्मितान।

बिल्वदाडिमशीर्याम्रनारङ्गरुचकादिकान॥९३७॥

कृष्णपञ्चेन्द्रियाह्लादिगुणान्गेहे तया कृतान।

लड्डुकानि चन्द्रकान्तिगङ्गाजलमुखानि च ॥९३८॥

गोविन्दलीलामृत १५.१३११३२—

पनसाम्रादिकरसान्मधुचन्द्रसितान्वितान।

कर्पूरामृतकेल्यादीन्यानीतानि प्रियालिभिः ॥९३९॥

पर्यवेशयदेतानि सर्वाणि राधिका क्रमात।

ताभ्यां सह हरिस्तानि बुभुजे कमलेक्षणः ॥९४०॥

गोविन्दलीलामृत १५.१३४—

बटुर्निन्दन्प्रशंसंश्च भक्ष्याणि च तदर्पिकाः ।

सर्वास्ता हासयामास सनर्ममुखवैकृतैः ॥९४१॥

कृष्णाह्निककौमुदी ४.२३०२३२—

यद्यदेव दयिताकरकोषे

सा ददाति सुषमाकृतपोषे ।

तत्तदेव बुभुजे स सहासः

प्रेम सत्प्रकटयन्सविलासः ॥९४२॥

एवमेव स सम्पाप्य कानन

प्रीतिभोजनमथाम्बुजाननः ।

आचचाम बहु वामलोचनः

पुण्डरीकदलदीर्घलोचनः ॥९४३॥

सोऽविधास्य वदनं मुखवासैश्

चारु सारघनसारविलासैः ।

इच्छया मणिशिलोपरि कुञ्ज

द्वारि भूरुहतले प्रससञ्ज ॥९४४॥

गोविन्दलीलामृत १५.१३६१३७—

यातस्ततः स हरिरम्बुजमन्दिरान्तः

शेतेऽत्र सत्कुसुमकल्पिततल्पमध्ये ।

ताम्बूलदानपदलालनबीजनाद्यैस्

तत्र प्रियालिभिरमुं तुलसी सिषेवे ॥९४५॥

ताम्बूलवीटिकामश्नन्तत्पद्मयाम्यकुट्टिमे ।

शेते शीतलशय्यायां सुबलेन समं बटुः ॥९४६॥

कृष्णाह्निककौमुदी ४.२३३२३८—

कृष्णभुक्तपरिशिष्टमभीष्टं

प्रेमतोऽत्तुमनसामतिमिष्टम् ।

प्राप्य योग्यपरिवेशनकालं

सुभ्रुवां हृदयामास विलोलम् ॥९४७॥

मुख्यया सति कियत्युपभुक्तेऽ

स्माभिरत्तुमुचितं हि विविक्ते ।

इत्यवेत्य हृदयं स्वसखीनां

सा जगाद सुदती सुमुखीनाम् ॥९४८॥

अश्नुमः सह वयं त्वममन्दे

साधु साध्वि परिवेशय वृन्दे ।

आलिभिर्नहि विना प्रतिप्रत्तुं

शक्तिरस्ति मम किं पुनरुत्तमम् ॥९४९॥

मण्डलेन कुतुकादुपविष्टास्व्

आसु सादरमसावुपदिष्टा ।

पर्यावेशयदनुक्रमपाली

राधिकां प्रथमतोऽथ तदालीः ॥९५०॥

वृन्दया प्रतिजनं रसयित्वा

तत्क्रमेण परिवेशितमत्त्वा ।

ता विदुः प्रियतमाधरसीधु

स्पर्शतः प्रकृतितोऽप्यतिसाधु ॥९५१॥

सौहृदेन हृदयं रसयित्वा

ताः क्रमेण सकलं तददित्वा ।

साधु धौतवदनऽ मुखवासं

भेजुरात्तघनसारविलासम् ॥९५२॥

गोविन्दलीलामृत १५.१४०१४६—

अथाचम्याययुः सर्वाः श्रीपद्ममन्दिरान्तरम् ।

तल्पे राधा सखीपालिः परितः समुपाविशत॥९५३॥

ताम्बूलचर्वितं ताभ्यः श्रीहरेस्तुलसी ददौ ।

नान्दीमुख्यै धनिष्ठायै कुन्दवल्ल्यै च वीटिकाः ॥९५४॥

ततः सा तुलसी रूपमञ्जरी च वनेश्वरी ।

भक्ष्याण्युर्वरितान्यादुः सेविकालीचयैः समम् ॥९५५॥

तासु भुक्त्वा गतास्वत्र सख्यस्तत्पूर्वकुट्टिमे ।

निर्गत्य सुषुपुः सर्वा नान्दीमुख्यादयश्च ताः ॥९५६॥

ततः श्रीराधिका ताभ्यो ददौ ताम्बूलचर्वितम् ।

वृन्दायै वीटिकां सा च तामदन्ती बहिर्ययौ ॥९५७॥

कृष्णः कान्तां तां समाकृष्य ह्रीणां

हासं हासं यत्नतः स्वाननाब्जात।

ताम्बूलीयं चर्वितं तन्मुखाब्जे

न्यस्यन्हृष्यन्शाययामास पार्श्वे ॥९५८॥

श्रीरूपमञ्जरीमुख्यसखीभिर्वीजनादिभिः ।

सेवितौ तौ क्षणं तत्र निद्रासुखमवापतुः ॥९५९॥

गोविन्दलीलामृत १६.१५—

अथ क्षणात्तौ प्रतिलब्धबोधाव्

उत्थाय तल्पोपरि सन्निविष्टौ ।

पूर्वं प्रबुद्धाः प्रसमीक्ष्य सख्यो

ययुः सखीभ्यां सह तत्समीपम् ॥९६०॥

वृन्दाप्यायात्स्वशिष्यौ सा बालौ विद्याविशारदौ ।

कलोक्तिमञ्जुवाक्संज्ञौ गृहीत्वा सारिकाशुकौ ॥९६१॥

ततस्तौ पठतो नम्रौ जय वृन्दावनेश्वर ।

जय वृन्दावनेशानि जयताल्यः प्रसीदत ॥९६२॥

राधादृगिङ्गिताभिज्ञा वृन्दा विज्ञा समादिशत।

पठेति कीरं कीरोऽपि पपाठानन्दयन्सभाम् ॥९६३॥

गुणैः स्वैर्हीना मे यदपि कविता नातिमधुरा

सतां स्वाद्याथाप्यच्युतगुणयुतत्वेन भविता ।

अयःशस्त्री स्पृष्टा मृगयुगृहगा स्पर्शमणिना

सुवर्णत्वं प्राप्ता भवति महतां भूषणकृते ॥९६४॥

आनन्दवृन्दावनचम्पू ५.१२ —

जय श्रीमद्वृन्दावनमदन नन्दात्मज विभो

प्रियाभीरीवृन्दारिकनिखिलवृन्दारकमणे ।

चिदानन्दस्यन्दाधिकपदारविन्दासव नमो

नमस्ते गोविन्दाखिलभुवनकन्दाय महते ॥९६५॥

क्रमदीपिका ३.७१६—

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज

प्रत्यग्रनीलजलजन्मसमानभासम् ।

सुस्निग्धनीलघनकुञ्चितकेशजालं

राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥९६६॥

रोलम्बललितसुरद्रुमसूनकल्पि

तोत्तंसमुत्कचनवोत्पलकर्णपूरम् ।

लोलालकस्फुरितभालतलप्रदीप्त

गोरोचनातिलकमुच्चलच्चिल्लिमालम् ॥९६७॥

आपूर्णशारदगताङ्कुशशाङ्कबिम्ब

कान्ताननं कमलपत्रविशालनेत्रम् ।

रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त

गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥९६८॥

सिन्दूरसुन्दरतराधरमिन्दुकुन्द

मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।

वन्यप्रवालकुसुमप्रचयावक्ÿप्त

ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥९६९॥

मत्तभ्रमरजुष्टविलम्बमान

सन्तानकप्रसवदामपरिष्कृतांसम् ।

हारावलीभगणराजितपीवरोरो

व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥९७०॥

श्रीवत्सलक्षणसुलक्षितमुन्नतांसम्

आजानुपीनपरिवृत्तसुजातबाहुम् ।

आबन्धुरोदरमुदारगम्भीरनाभिं

भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥९७१॥

नानामणिप्रघटिताङ्गदकङ्कणोर्मि

ग्रैवेयसारसननूपुरतुन्दबन्धम् ।

द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम्

आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥९७२॥

चारूरुजानुमनुवृत्तमनोज्ञजङ्घ

कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।

माणिक्यदर्पणलसन्नखराजिराजद्

रत्नाङ्गुलिच्छदन्सुन्दरपादपद्मम् ॥९७३॥

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र

संलक्षितारुणकराङ्घ्रितलाभिरामम् ।

लावण्यसारसमुदायविनिर्मिताङ्ग

सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥९७४॥

आस्यारविन्दपरिपूरितवेणुरन्ध्र

लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।

शश्वद्द्रवीजृतविकृष्टसमस्तजन्तु

सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥९७५॥

वन्दे व्रजेन्द्रसूनुं तं

राधासङ्गविहारिणम् ॥९७६॥

शारिका प्राह, आनन्दवृन्दावनचम्पू ११.६६७३—

सुस्निग्धदीर्घघनकुञ्चितकेशपाशं

मन्दभ्रमद्भ्रमरकावलिभव्यभालम् ।

सुभ्रूलतं स्वलकमुन्नतचारुनासं

घ्रेयं भविष्यति कदास्य तदास्यपद्मम् ॥९७७॥

माधुर्यसिन्धुमधि यस्य भवेन्निपातस्

तत्केवलं मधुरिमाणमुरीकरोति ।

उष्णीषसीमनि सहेलगता मुरारेर्

गोच्छन्दरज्जुरपि मज्जति रम्यतायाम् ॥९७८॥

रत्नोल्लसन्मकरकुण्डलताण्डवने

विभ्राजमानतममस्य कपोलबिम्बम् ।

ताम्बूलगन्धिरदनच्छदबन्धुजीवैर्

धन्याः परं प्रमुदिताः परिपूजयन्ति ॥९७९॥

श्रीवत्सकौस्तुभरमावनमालिकानां

लक्ष्मीभरेण परयापि च हारभासा ।

विभ्राजमानपरिहासममुष्य वक्षः

का नाम वामनयनेच्छति न प्रवेष्टुम् ॥९८०॥

जानुद्वयीलवणिमामृतमुद्दिधीर्ष्वोः

पार्श्वस्थयोर्मदमनोभवनागयूणोः ।

शुण्डाद्वयीव भुजयोर्द्वितयीयमस्य

कस्या विलोडयति हन्त न हृत्तडागम् ॥९८१॥

आवेल्लितं सुवलितावलिभिर्वलीभिर्

मुष्टिप्रमेयमपि पुष्टमिवौजसा यत।

लग्नं मुहुस्तदवलग्नममुष्य नोऽन्तर्

हा हन्त तत्कृशमिदं च कृशीकरोति ॥९८२॥

लावण्यकलतरुकोटरकल्पनाभी

निर्यत्तनुभ्रमरराजिरिवोन्मुखीयम् ।

रोमावलिर्मलिनिमानमहो वहन्ती

हा हन्त कालभुजगीव ददंश हृन्नः ॥९८३॥

शोणारविन्दरुचिनिन्दकमङ्घ्रियुग्मं

वज्राङ्कुशध्वजसरोरुहलक्ष्मलक्ष्मि ।

मञ्जीररत्नकिरणोल्लसदङ्गुलीकं

वक्षस्तटीमहह भूषयिता कदा नु ॥९८४॥

गोविन्दलीलामृत १६.६—

चक्रार्धेनुयवाष्टकोणकलसैश्छत्रत्रिकोणाम्बरैश्

चापस्वस्तिकवज्रगोष्पददरैर्मीनोर्ध्वरेखाङ्कुशैः ।

अम्भोजध्वजपक्वजाम्बवफलैः सल्लक्षणैरङ्कितां

जीयात्श्रीपुरुषोत्तमत्वगमकैः श्रीकृष्णपादद्वयम् ॥९८५॥

आनन्दवृन्दावनचम्पू १.१२—

वन्दे कृष्णपदारविन्दयुगलं यस्मिन्कुरङ्गीदृशां

वक्षोजप्रणयीकृते विलसति स्निग्धोऽङ्गरागः स्वतः ।

काश्मीरं तलशोणिमोपरितनः कस्तूरिकां नीलिमा

श्रीखण्डं नखचन्द्रकान्तिलहरी निर्वाजमातन्वते ॥९८६॥

शोणस्निग्धाङ्गुलिदलकुलं जातरागं परागैः

श्रीराधायाः स्तनमुकुलयोः कुङ्कुमक्षोदरूपैः ।

भक्तश्रद्धामधु नखमहःपुञ्जकिञ्जल्कजालं

जङ्घानालं चरणकमलं पातु नः पूतनारेः ॥९८७॥

चैतन्यचन्द्रोदय ७.१२—

लीढानेव पथश्चकोरयुवतीयूथेन याः कुर्वते

सद्यः स्पाटिकयन्ति रत्नघटितां याः पादपीठावलीम् ।

याः प्रक्षालितमृष्टयोर्जललवप्रस्यन्दशङ्काकृतस्

ताः कृष्णस्य पदाब्जयोर्नखमणिज्योत्स्नाश्चिरं पान्तु वः ॥९८८॥

गोविन्दलीलामृत १६.१८—

चन्द्रेन्दीवरचन्दनेन्दुनलदाच्छीतं लसत्सौरभं

राधायाः स्तनसङ्गलोलुपतमं तत्पाणिसंलालितम् ।

तच्छ्रीकुङ्कुमचर्चितं सुललितं शोभालिलीलास्पदं

तच्छ्रीकृष्णपदाम्बुजं भवतु नः संवाहनीयं सदा ॥९८९॥

गोविन्दलीलामृत १६.२०—

गुल्फौ बकारेर्लसतोऽतिचिक्कणौ

लावण्यभङ्गोच्छलितौ सुवर्तुलौ ।

कलिन्दकन्यातनुवीचिनिर्झराद्

अर्द्धोदितेन्दीवरकोरकाविव ॥९९०॥

गोविन्दलीलामृत १६.२५—

मरकतमणिरम्भास्तम्भसम्भेदिधात्रा

भुवनभवनमूलस्तम्भतां लम्भितं यत।

युवतिनिचयचेतः पीलुनीलाश्मकीलं

प्रणयतु हरिजङ्घायुग्ममङ्घो विघातम् ॥९९१॥

गोविन्दलीलामृत १६.२८२९—

माधुर्यलक्ष्म्या रुचिरासनद्वयं

लावण्यवल्ल्या गुरुपर्वयुग्मकम् ।

शोभाश्रियोऽलङ्कृतिपेटिकायुगं

जानुद्वयं भाति मनोहरं हरेः ॥९९२॥

रम्योरूपर्वद्वयमद्भुतं हरेर्

माहेन्द्रनीलं लघु सम्पुटद्वयम् ।

असङ्ख्यगोसङ्ख्यकुलाङ्गनाततेस्

ते चित्तचिन्तामणयोऽत्र मान्ति यत॥९९३॥

गोविन्दलीलामृत १६.३१—

उरुद्वयं सुवलितं ललितं बकारेः

पीनं सुचिक्वणमधःक्रमकार्श्ययुक्तम् ।

कन्दर्पवृन्दवरनर्तकलास्यरङ्गं

लावण्यकेलिसदनं हृदि नश्चकास्तु ॥९९४॥

गोविन्दलीलामृत १६.३४३६—

रम्भालिगर्वभरदारणसन्निवेशे

मत्तेभहस्तमदमर्दनमार्दवे ये ।

श्रीराधिकाकरभसन्ततसेव्यमाने

केनोपमान्तु कवयो हरिसक्थिनी ते ॥९९५॥

विस्तीर्णपीनमतिसुन्दरसन्निवेशं

रासस्थलं सरति कामनटार्बुदानाम् ।

आभीरधीररमणीकमनीयशोभं

श्रीश्रोणीमण्डलमलं विलसत्यघारेः ॥९९६॥

कतीरबिम्बं लसदूर्ध्व

कायतमालनीलाश्मकृतालबालम् ।

कृष्णस्य लावण्यजलालिखेलत्

काञ्चीमरालीवलितं विभाति ॥९९७॥

गोविन्दलीलामृत १६.४४—

दृष्ट्वा बकारेरवलग्नसौष्ठवं

निजावलग्नस्य कुकीर्तिशङ्कया ।

दुर्गासु दुर्गा जनकस्य भूभृतो

दरीषु पारीन्द्रगणा विलिल्यिरे ॥९९८॥

गोविन्दलीलामृत १६.४६—

श्रीकृष्णविग्रहतमालसुरद्रुमेऽस्मिन्

शोभामरन्दभृतनाभिसुकोटरोऽस्ति ।

लोभाद्वधूदृगलिपालिरिह प्रविष्टा यत्

सा पुनर्नहि निरेति रसे निमग्ना ॥९९९॥

गोविन्दलीलामृत १६.४९—

लवणिममधु पीत्वा नाभिपद्मान्मुरारेर्

व्रजयुवतिजनानां नेत्रभृङ्गार्भकालिः ।

उदरनलिनपत्रे या पपातोच्चलन्ती

तनुरुहततिदम्भात्सैव शेते प्रमत्ता ॥१०००॥

गोविन्दलीलामृत १६.५२५३—

हृद्युच्छलत्तनुरुहच्छलनिःसृत

श्रीनाभिह्रदानुपतितादिरसप्रवाहम् ।

अल्पोच्चपार्श्वयुगलं दरनिम्नमध्यं

मध्ये मनो मम हरेरुदरं चकास्तु ॥१००१॥

राधाचित्तमरालदृक्शफरिकाशश्वद्विलासास्पदम्

काञ्चीसारसपालिनिस्वनितटं लोमालिशैबालकम् ।

लावण्यामृतपूरितं त्रिवलिका सूक्ष्मोर्मिविभ्राजितं

श्रीनाभीनलिनं लसत्यघरिपोः श्रीतुन्दसत्पल्वलम् ॥१००२॥

गोविन्दलीलामृत १६.५५५७—

रेखास्वरूपरमयाश्रितवामभागं

श्रीवत्ससच्छविविराजितदक्षिणांशम् ।

कण्ठस्थकौस्तुभगभस्तिविराजमानं

शश्वद्विलासललितं वनमालिकायाः ॥१००३॥

श्रीबल्लवीहृदयदोहदभाजनं

श्रीराधामनोनृपहरिन्मणिसिंहपीठम् ।

त्रैलोक्ययौवतमनोहरमाधुरीकं

वक्षःस्थलं सुविपुलं विलसत्यघारेः ॥१००४॥

मुक्तावलीसुरधुनीतनुरोमराजी

भास्वत्सुतातरलकान्तिसरस्वतीनाम् ।

सङ्गेन मङ्गलकरं त्रिजगज्जनानां

कृष्णस्य नौमि तमुरःस्थलतीर्थराजम् ॥१००५॥

गोविन्दलीलामृत १६.६३—

पीनायतौ लवणिमोच्छलितौ सुवृत्तौ

पद्मादिविश्वरमणीकमनीयशोभौ ।

पीनस्तनीहृदयदोहदभाजनं तौ

श्रीमद्भुजौ मनसि मे स्फुरतामघारेः ॥१००६॥

अलङ्कारकौस्तुभ ८.४६—

रत्नस्तम्भौ व्रजमृगदृशां चित्तदोलोत्सवस्य

श्रीराधाया रतिजयकलातोरणोत्तानदण्डौ ।

दैत्येन्द्रानां परिभवमहायज्ञनीलेन्द्रयूपौ

शुण्डे कामप्रमदकरिणो कृष्णबाहू स्मरामः ॥१००७॥

गोविन्दलीलामृत १६.६७७७—

शङ्खोर्धेन्दुयवाङ्कुशैररिगदाच्छत्रध्वजस्वस्तिकैर्

यूपाब्जासिहलैर्धनुःपरिघकैः श्रीवृक्षमीनेषुभिः ।

नन्द्यावर्तचयैस्तथाङ्गुलिगतैरेतैर्निजैर्लक्षणैर्

भातः श्रीपुरुषोत्तमत्वगमकैः पाणी हरेरङ्कितौ ॥१००८॥

हस्तौ स्वभावमृदुलावपि कर्कशौ तौ

शौरेर्महापुरुषलक्ष्मतयोचुरेके ।

तन्नामृतं यदि तदा कमठीकठोर

गोपीस्तनानिशविमर्दनमत्र हेतुः ॥१००९॥

अनङ्गशरजर्ज्जरव्रजनवीनरामालिहृद्

विशल्यकरणौषधिप्रथमपल्लवौ सन्तमौ ।

रसोच्छलितराधिकोरसिजहेमकुम्भद्वयी

विभूषणनवाम्बुजे व्रजविधोः करौ दीव्यतः ॥१०१०॥

श्रीकामाङ्कुशतीक्ष्णशुद्धमुकुटैः पूर्णेन्दुसन्मण्डलैः

श्लिष्टान्योन्यमिलद्दलावलिशिरःपश्चाद्विभागे क्वचित।

अब्जे चेदभविष्यतां विकसितश्यामाम्बुजान्तर्गते

श्रीपाण्योरुपमां तदात्र कवयोऽदास्यन्नमूभ्यां हरेः ॥१०११॥

वृषभककुदनिन्दिस्कन्धयोस्तुङ्गतां

सत्पुरुषवरतयैवेत्याहुरेके बकारेः ।

मम तु मतमिदं श्रीराधिकादोर्मृणाली

सततमिलनमोदोत्फुल्लतैवात्र हेतुः ॥१०१२॥

अंसौ हरेरुल्लसतः समुन्नतौ

मन्ये लसत्कौस्तुभकण्ठमाधुरीम् ।

द्रष्टुं सदोद्ग्रीविकयोत्सुकेन तां

पार्श्वद्वयेनोन्नमितौ स्वमस्तकौ ॥१०१३॥

ऊर्ध्वे सुविस्तृतमधः क्रमकार्श्ययुक्तं

माधुर्यभूमिभुज आसनमैन्द्रनीलम् ।

लावण्यपूरवहनाद्दरनिम्नमध्यम्

इष्टं दृशां मृगदृशां हरिपृष्ठमीडे ॥१०१४॥

सुस्थूलमूलाद्दरकार्श्यमञ्जुला

स्वमाधुरीसिंहशिरोधिदर्पहृत।

श्रीकेशजूटस्य विलासखट्टिका

सुवर्तुला भाति मुकुन्दकन्धरा ॥१०१५॥

पिकततशुषिरालीनादनिन्दिस्वरोर्मिस्

त्रिभुवनजननेत्रानन्दिरेखात्रयश्रीः ।

नवनवनिजकान्त्या भूषितश्रीमणीन्द्रो

विलसति बकशत्रोः कण्ठनीलाश्मकम्बुः ॥१०१६॥

कण्ठो हरेर्लसति कौस्तुभराजहंस्

लीलामृताक्षयसरः सततं यतोऽस्मात।

लावण्यनर्मकविता वरगानसम्पद्

दिव्यापगाः प्रतिदिशं किल निःसरन्ति ॥१०१७॥

नासाहन्वधरोष्ठगण्डचिबुकश्रोत्रादिदिव्यद्दलं

श्रीदन्तावलिकेशरं स्मितमधुभ्राज्युल्लसत्सौरभम् ।

श्रीनेत्रद्वयखञ्जनं भ्रमरिकैर्भ्रूभृङ्गिकाल्यावृतं

श्रीजिह्वाद्भुतकर्णिकं विजयते श्रीकृष्णवक्त्राम्बुजम् ॥१०१८॥

गोविन्दलीलामृत १६.७९—

बन्धूके मुकुरौ सुकुन्दकलिकापाल्यो नटत्खञ्जनाव्

अर्धेन्दुं तिलपुष्पकं स्मरधनुर्लोलालिमालामपि ।

पूर्णेन्दौ यदि तत्कलङ्कमुदपास्यैतान्यधास्यद्विधिः

श्रीकृष्णस्य कवीश्वरा मुखमुपामास्यांस्तदैवामुना ॥१०१९॥

गोविन्दविरुदावली ५६—

उदञ्चदतिमञ्जुलस्मितसुधोर्मिलीलास्पदं

तरङ्गितवराङ्गनास्फुरदनङ्गरङ्गाम्बुधिः ।

दृगिन्दुमणिमण्डलीसलिलनिर्झरस्यन्दनो

मुकुन्द मुखचन्द्रमास्तव तनोति शर्माणि नः ॥१०२०॥

जगन्नाथवल्लभ १.३—

कामं कामपयोनिधिं मृगदृशामुद्भावयन्निर्भरं

चेतःकैरवकाननानि यमिनामत्यन्तमुल्लासयन।

रक्षःकोककुलानि शोकविकलान्येकान्तमाकल्पयन्न्

आनन्दं वितनोतु वो मधुरिपोर्वक्त्रापदेशः शशी ॥१०२१॥

गोविन्दलीलामृत १६.८०८१—

बाल्ये जनन्याङ्गुलिलालने यद्

अङ्गुष्ठसङ्गाद्दरनिम्नमध्यम् ।

अधोऽङ्गुलिद्वन्द्वकृतोन्नतेश्च

स्वल्पोन्नताग्रांशममेयशोभम् ॥१०२२॥

नीलोत्पलस्योदयदिन्दुकान्ति

फुल्लैकपौरस्य दलोपमर्दि ।

लावण्यवन्योच्छलितं मनोज्ञं

तच्छ्रीहरेः श्रीचिबुकं चकास्ति ॥१०२३॥

गोविन्दलीलामृत १६.८४८६—

श्रीकर्णभूषणभराद्दरदीर्घरन्ध्रं

विश्वाङ्गनानयनमीनमनोजजालम् ।

गोपीमनोहरिणबन्धनवागुरा यत्

श्रीराधिकानयनखञ्जनबन्धपाशः ॥१०२४॥

गान्धर्विकासपरिहाससगर्वनिन्दा

खञ्जद्वचोऽमृतरसायनपानलोलम् ।

शोणान्तरं सुरुचिरं समसन्निवेशं

तन्मे हृदि स्फुरतु माधवकर्णयुग्मम् ॥१०२५॥

कृष्णस्य पूर्णविधुमण्डलसन्निवेशं

राधाधरामृतरसायनसेकपुष्टम् ।

गण्डद्वयं मकरकुण्डलनृत्यरङ्गं

भातीन्द्रनीलमणिदर्पणदर्पहारि ॥१०२६॥

गोविन्दलीलामृत १६.८८९२—

ओष्ठोपरि श्वसननिर्गमनाल्पनिम्नं

बन्धूकजिच्छविदरोच्छ्वसितोष्ठमध्यम् ।

श्रीश्यामिमारुणिमयोर्मिलनप्रदेशे

स्तोकोन्नतायत मनोहरसीमशोभम् ॥१०२७॥

बिम्बातिमञ्ज्वधरमध्यगताल्परेखं

स्वं पश्यतामितररागहरस्वभावम् ।

शश्वन्निजामृतसुवासितमञ्जुवंशी

सूक्ष्मायतध्वनिभिराहृतविश्वचित्तम् ॥१०२८॥

सर्वस्वरत्नपिटको व्रजसुन्दरीणां

जीवातुसीधुचषकं वृषभानुजायाः ।

तच्छ्रीलसद्दशनलक्षणलक्षितं श्री

कृष्णाधरौष्ठमनिशं हृदि मे चकास्तु ॥१०२९॥

स्वाकारसौष्ठवविनिन्दितकुन्दवृन्द

सत्कोरकान्शिखरहीरकमौक्तिकानाम् ।

शोभाभिमानभरखण्डनकान्तिलेशान्

वामभ्रुवामधरबिम्बशुकायमानान॥१०३०॥

जात्यैव पक्त्रिमसुदाडिमबीजमञ्जून्

शश्वत्प्रियाधररसास्वादनेन शोणान।

कान्तौष्ठशोणमणिभेदनकामटङ्कान्

श्रीमन्मुकुन्ददशनान्सुभगाः स्मरन्ति ॥१०३१॥

गोविन्दविरुदावली १९—

प्रपन्नजनतातमःक्षपणशारदेन्दुप्रभा

व्रजाम्बुज विलोचनस्मरसमृद्धिसिद्धौषधिः ।

विडम्बितसुधाम्बुधिप्रबलमाधुरीडम्बरा

बिभर्तु तव माधव स्मितकडम्बकान्तिमुर्दम् ॥१०३२॥

गोविन्दलीलामृत १६.९६९७—

अन्तःप्रेमघृतस्मितोत्तममधुनर्मैक्षवैः संयुता

शब्दर्थोभयशक्तिसूचितरसादीन्दुल्लसत्सौरभा ।

आभीरीमदनार्कतापशमनी विश्वैकसन्तर्पनी

सा जीयादमृताब्धिदर्पदमनी वाणी रसाला हरेः ॥१०३३॥

अर्वाङ्मुखेन्द्रमणिसृष्टतिलप्रसून

कान्तिः स्मराशुगविशेष इवेन्द्रनीलः ।

नीलाश्मक्ÿप्तशुकचञ्चुविनिन्दिरोचिः

श्रीनासिकोच्चशिखरा विलसत्यघारेः ॥१०३४॥

गोविन्दलीलामृत १६.१०१—

अत्यायते सुविपुले मसृणे सुशोणे

सुस्निग्धपीनघनचञ्चलपक्ष्मरम्ये ।

तारुण्यसारमदघूर्णनमन्थरे च

नेत्रे हरेर्मम हृदि स्फुरतां सदा ते ॥१०३५॥

सङ्ग्रहकर्तुः—

क्षीराब्धेः कति वीचयः कति दलद्रक्तोत्पलानां दलद्

रोणीसञ्चयवृष्टयः कति मधून्मत्तालिविञ्छोलयः ।

हेलोदञ्चदवाञ्चतोर्न नयनयोः कृष्णस्य नीलेक्षण

व्यापारे कति नोन्मीषत्ति विविधज्योतिर्विलासच्छलात॥१०३६॥

गोविन्दविरुदावली १३—

अजर्जरपतिवर्ताहृदयवज्रभेदोद्धुराः

कठोरवरवर्णिनीनिकरमानवर्मच्छिदः ।

अनङ्गधनुरुद्धतप्रचलचिल्लिचापच्युताः

क्रियासुरघविद्विषस्तव मुदं कटाक्षेषवः ॥१०३७॥

गोविन्दलीलामृत १६.१०२१०३—

साध्वीस्वधर्मदृढवर्मविभेद

दक्षकामेषुतीक्ष्णकठिना विलसन्त्यघारेः ।

स्वप्नेऽपि दुर्लभसमस्तदरिद्रगोष्ठी

वाञ्छाभिपूरणवदान्यवरा कटाक्षाः ॥१०३८॥

या विश्वयौवतविलोलमनःकुरन्गान्

आविध्य घूर्णयति नर्तनमार्गणैः स्वैः ।

सा भ्रूलता मुररिपोः कुटिलापि कीर्त्या

कन्दर्पपुष्पतृणतां तृणतां निनाय ॥१०३९॥

गोविन्दलीलामृत १६.१०५—

चिल्लीलतालकवरूथकरम्यपार्श्वं

कृष्णाष्टमीशशिनिभं गिरिधातुचित्रम् ।

राधामनोहरिणबन्धनकामयन्त्र

काश्मीरचारुतिलकं हरिभालमीडे ॥१०४०॥

गोविन्दलीलामृत १६.१०७१०८—

श्लघ्यायतो भ्रमरगञ्जनचिक्कणाभः

सूक्ष्मः सुकुञ्चिततरोऽतिघनः समग्रः ।

कस्तूरिकायुगसितोत्पलगन्धहृद्यः

कामध्वजासितसुचामरचारुशोभः ॥१०४१॥

चूडाद्विफालकवरार्धकजूटवेणी

जूटादिकालकृतबन्धविशेषरम्यः ।

यो हृत्सुधारुचिकुरङ्गतिराधिकायाश्

चित्ते स नः स्फुरतु केशवकेशपाशः ॥१०४२॥

पद्यावली ८९—

आरक्तदीर्घनयनो नयनाभिरामः

कन्दर्पकोटिललितं वपुरादधानः ।

भूयात्स मेऽद्य हृदयाम्बुरुहाधिवर्ती

वृन्दाटवीनगरनागरचक्रवर्ती ॥१०४३॥

पद्यावली ९६—

अनङ्गरसचातुरीचपलचारुनेत्राञ्चलश्

चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः ।

व्रजोल्लसितनागरीनिकररासलास्योत्सुकः

स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥१०४४॥

अलङ्कारकौस्तुभ ?

सान्द्रानन्दघनं घनाघनघटास्निग्धोज्ज्वलश्यामल

ज्योत्स्नाजालजटालमालय इव प्रेम्णां त्रिलोकीश्रियः ।

कृष्णस्याङ्गमनङ्गसङ्गरलसद्गोपाङ्गनापाङ्गक

व्यासङ्गेन तरङ्गितं मम मनः सङ्गित्वमङ्गीक्रियात॥१०४५॥

गोविन्दलीलामृत १६.१०९११०—

अपारमाधुर्यसुधार्णवानि

नानाङ्गभूषाचयभूषणानि ।

जगद्दृगासेचनकानि शौरेर्

वर्ण्यानि नाङ्गानि सहस्रवक्त्रैः ॥१०४६॥

इतीरयित्वा विरते शुकेशे

ससारिके गद्गदरुद्धकण्ठे ।

तद्वाक्सुधाम्भोधिनिमग्नचित्ता

क्षणं सभा सा स्तिमिता तदासीत॥१०४७॥

गोविन्दलीलामृत १७.१७—

श्रीराधया प्रेरितयाथ वृन्दया

संलालितः स्वास्थ्यमुपागतः शुकः ।

दिष्टश्च कृष्णस्य गुणानुवर्णने ससारिकः

प्राह सभां स नन्दयन॥१०४८॥

कविभिरनवगाह्यं तं महद्भिर्वराकोऽप्य्

अहमजितगुणाब्धिं जिह्वया लेढुमीहे ।

यदपि फलमभेद्यं लाङ्गलीयं सुपक्वं

स्पृशति तदपि चञ्च्वा तन्मुहुर्लुब्धकीरः ॥१०४९॥

इहानिनीषामि करेण भास्करं

मूर्ध्ना बिभित्सामि सुमेरुपर्वतम् ।

दोर्भ्यां तितीर्षामि महार्णवो यतो

गुणान्विवक्ष्यामि हरेरपत्रपः ॥१०५०॥

या या जाता हरिगुणलवस्पर्शपूता रसज्ञा

सा सा जातु स्पृशति नितरां क्वापि वार्तां तदन्याम् ।

माकन्दीयप्रथममुकुलास्वादपुष्टान्यपुष्ट

श्रेणी या सा रसयति कथं कुट्मलं पैचुमर्दम् ॥१०५१॥

यदुक्तं गर्गेण व्रजपतिपुरस्तेऽस्य हि शिशोर्

गुणैस्तैस्तैः साम्यं लभत इह नारायण इति ।

गुणानामानन्त्यं परमशुभता गोकुलविधोर्

महत्त्वं गाम्भीर्यादिकमपि च तेनैव कथितम् ॥१०५२॥

स्व भक्ते वात्सल्य प्रणय वशतादेर्गुणततेर्

अनन्तत्वात्सङ्ख्या दनुज जयिनो नैव घटते ।

बहुत्वात्पाल्यानामनिशमुरुवृत्तेः समुदयाद्

इहाप्येकैकस्यापि हि भवति सम्यङ्नगणनम् ॥१०५३॥

रूपं भूषण भूषणं नववयः कैशोर मध्य स्थितं

वीर्यं कन्दूकिताद्रि शिलममलं लीला जगन्मोहिनी ।

औदार्यं स्व समर्पणावधि दया यस्याखिल प्लाविका

कीर्तिर्विश्व विशोधिनी कथमसौ कृष्णोऽस्तु वर्ण्य क्षितौ ॥१०५४॥

गोविन्दलीलामृत १७.९—

श्रीकृष्णस्याखिलाङ्गान्मृगमदरससंलिप्तनीलोत्पलानां

कक्षभ्रूश्रोणिकेशादगुरुरसलसत्पारिजातोत्पलानाम् ।

श्रीनासानाभिवक्त्रात्करपदनयनाच्चेन्दुलिप्ताम्बुजानां

सत्सौरभ्यामृतोर्मिः प्रसरति जगदाप्लावयन्ती समन्तात॥१०५५॥

गोविन्दलीलामृत १७.१४१७—

लावण्यवन्योत्सलिलेऽघविद्विषो

राधात्ममूर्तिं प्रतिबिम्बितां हृदि ।

दृष्ट्वाङ्गनां स्वं प्रतिकुर्वतीं परां

निश्चित्य रोषाद्विमुखी स्म वेप्यते ॥१०५६॥

श्रीराधयानन्यसमोर्ध्वयाहृतं

मनो हरेर्धावति नापराङ्गनाम् ।

सरोजिनी सन्मधुलम्पटः सदा वल्लीं

परामिच्छति किं मधुव्रतः ॥१०५७॥

उष्णो रविः शीतल एव चन्द्रः

सर्वंसह भूश्चपलः समीरः ।

साधुः सुधीरोऽम्बुनिधिर्गभीरः

स्वभावतः प्रेमवशो हि कृष्णः ॥१०५८॥

गम्भीरोऽतिस्थिरमतिरतिव्रीडितो निर्विकारी

यः कृष्णस्ते सुबल सवयाः साम्प्रतं पश्य सोऽयम् ।

श्रीराधायाः समसवयसः श्रीमुखालोकजातैर्

भावैर्लोलः स्मरविवशधीः सम्भ्रमाद्बम्भ्रमीति ॥१०५९॥

गोविन्दलीलामृत १७.१९२१—

प्रस्वेदोत्पुलकादरोक्त्यमृतसत्सौरभ्यमन्दस्मितैः

पाद्यार्घ्याचमनीयगन्धकुसुमान्याजह्रुराराधने ।

कृष्णस्य व्रजसुभ्रुवस्त्विह परीरम्भादिलीलामृतं

नैवेद्यं च तदा सुधाधररसस्ताम्बूलमासामभूत॥१०६०॥

वदान्येशस्तृष्णानिचयचितचित्तैः करुणराट्

विपन्नैः कन्दर्पो युवतिनिकरैर्मृत्युररिभिः ।

अधीशः सद्भक्तैः सहजनिजबन्धुर्व्रजजनैः

प्रतीतः कृष्णोऽसाविति विविधलोकैर्बहुविधः ॥१०६१॥

सांमुख्यात्श्वपचो द्विजोऽस्ति विमुखश्चेद्यस्य विप्रऽन्त्यजो

यत्प्रेमाप्यमृतायते प्रणयिनां ह्री कालकूटन्नपि ।

कीर्तिः कृष्णरुचीन्करोति विषदी कुर्वत्यशेषान्जनान्

इन्दुर्यद्विरहेऽग्निरग्निरमृतं कृष्णाय तस्मै नमः ॥१०६२॥

गोविन्दलीलामृत १७.२५—

कामोत्पत्तिर्धृति धन हृतिह्संहृतिर्लोकभीतेर्

धर्मोच्छित्तिः कुवलयदृशामाहृतिः पत्युरङ्कात।

कम्पोद्भिः स्थिरमनुचरे स्तब्धिरप्यापगानां

या सा जीयान्मधुरमुरलीकाकली गोकुलेन्दोः ॥१०६३॥

गोविन्दलीलामृत १७.२७—

नादव्याजात्क्षिपसि कठिने गारलीमामृतीं वा

धावां वंशि प्रणय सखि नो जीवनं वा मृतिं वा ।

ताभ्यां नान्यां वितर विषमां हा दशामत्यसह्यां

गोप्यः कृष्णप्रणयविकला वंशिकामित्थमाहुः ॥१०६४॥

गोविन्दलीलामृत १७.३४३६—

सौन्दर्यं पदयोः सरोजवदहो कान्तं तथेन्दुर्मुखं

रम्या भ्रुभ्रमरावलीव मधुरः पीयूषतुल्योऽधरः ।

लोलाब्जेन समे चले सुनयने शुभ्रा रदा कुन्दवत्

कंसारेरमृतं यथा सुलपितं ज्योत्स्नेव हास द्युतिः ॥१०६५॥

श्रीपाणी नवपल्लवेन सदृशौ पूर्णेन्दुतुल्या नखा

गण्डौ दर्पणवद्द्युतिर्नवघनश्यामा च यस्याङ्गनाः ।

दृष्टाम्भोरुहदर्शमास्यमलिसञ्चारं चरन्त्युत्तृषः

साधौ चन्द्रति यः सूतीयति नतान्कुञ्जेषु सौधीयति ॥१०६६॥

यो दैत्येष्वशनीयतीह रमणीवृन्दे मनोजायते

दाता येन समः क्वचिन्नहि न यत्तुल्योऽस्ति शूरः क्वचित।

यल्लीला सदृशी क्वचिन्नहि न येनास्ते समानोऽपि वा

चुम्बन्त्याननपद्ममेणनयना यस्यैष कृष्णोऽवतु ॥१०६७॥

गोविन्दलीलामृत १७.४८४९—

एवं हि कृष्णस्य गुणा अनन्ता

लीलाप्यनन्ता महिमाप्यनन्तः ।

तत्तत्कणस्पर्शनमात्मवाचां

विशुद्धये तद्गणनाशयालम् ॥१०६८॥

इत्थं हरेस्तद्गुणवर्णनाम्बुधौ

निमज्जनोन्मज्जनफुल्लमानसौ ।

सारीशुकौ स्वेप्सितमीश्वरौ निजा

वयाचतां तद्गुणवर्णनैः पुनः ॥१०६९॥

आनन्दवृन्दावनचम्पू १५.२२०—

जय जय नन्दात्मज जय वृन्दावनरसकन्दातुलगुणविन्दा

धिकतरनन्दच्चिन्मकरन्दस्वपदारविन्दद्वयकुरुविन्द

प्रभनखचन्द्रावलिभिरतन्द्रामलरुचिसान्द्राकृतिभिरलं

द्रावितनिजलोकव्यतिकरशोकस्फुरदस्तोक

प्रथितश्लोक श्रीधरधीर व्रजवरवीर

प्रकटाभीर श्यामशरीर ॥१०७०॥

गोविन्दविरुदावली ३७—

जय जय वंशीवाद्यविशारद शारदसरसीरुहपरिभावक

भावकलितलोचनसंचारण चारणसिद्धवधूधृतिहारक

हारकलापरुचाञ्चितकुण्डल कुण्डलसद्गोवर्धनभूषित

भूषितभूषणचिद्घनविग्रह विग्रहखण्डितखलवृषभासुर

भासुरकुटिलकचार्पितचन्द्रक चन्द्रकलापरुचाभ्यधिकानन

काननकुञ्जगृहस्मरसङ्गर सङ्गरसोद्धुरबाहुभुजङ्गम

जङ्गमनवतापिच्छनगोपम गोपमनीषितसिद्धिषु दक्षिण

दक्षिणपाणिगदण्डसभाजित भाजितकोटिशशाङ्कविरोचन

रोचनया कृतचारुविशेषक शेसकमलभवसनकसनन्दन

नन्दनगुण मा नन्दय सुन्दर ॥ वीर ॥१०७१॥

गोविन्दविरुदावली ३९—

त्वं जय केशव केशबलस्तुत वीर्यविलक्षण लक्षणबोधित

केलिषु नागर नागरणोद्धत गोकुलनन्दन नन्दनतिव्रत

सान्द्रमुदर्पक दर्पकमोहन हे सुषमानवमानवतीगण

माननिरासक रासकलाश्रित सस्तनगौरवगौरवधूवृत

कुञ्जशतोषित तोषितयौवत रूपभराधिकराधिकयार्चित

भीरुविलम्बित लम्बितशेखर केलिकुलालसलालसलोचन

रोषमदारुणदारुणदानवमुक्तिदलोकन लोकनमस्कृत

गोपसभावक भावकशर्मद हन्त कृपालय पालय मामपि ॥ वीर ॥१०७२॥

सङ्गीतमाधवं २३—

वरसीमन्तरसामृतसारिणीधृतसिन्दूरसुरेखाम् ।

श्रीवृषभानुकृपाम्बुधिसम्भवसुभगसुधाकरलेखाम् ॥

स्मरति मनो मम निरवधि राधाम् ।

मधुपतिरूपगुणश्रवणोदितसहजमनोभवबाधाम् ॥

सुरुचिरकवरीविराजितकोमलपरिमलमल्लिसुमालाम् ।

मदचलखञ्जनखेलनगञ्जनलोचनकमलविशालाम् ॥

मदकरिराजविराजदनूत्तमचलितललितगतिभङ्गीम् ।

अतिसुकुमारकमकवनचम्पकगौरमधुरमधुराङ्गीम् ॥

मणिकेयूरललितवलयावलिमण्डितमृदुभुजवल्लीम् ।

प्रतिपदमद्भुतरूपचमत्कृतिमोहनयुवतीमतल्लीम् ॥

मृदुमृदुहासललितमुखमण्डलकृतशशिबिम्बविडम्बाम् ।

किङ्किणिजालखचितपृथुसुन्दरनवरसराशिनितम्बाम् ॥

चित्रितकञ्चुलिकास्थगितओद्भटकुचहाटकघटशोभाम् ।

स्फुरदरुणाधरस्वादुसुधारसकृतहरिमानसलोभाम् ॥

सुन्दरचिबुकविराजितमोहनमेचकबिन्दुविलासाम् ।

सकनकरत्नखचितपृथुमौक्तिकरुचिरुचिरोज्ज्वलनासाम् ॥

उज्ज्वलरागरसामृतसागरसारतनुं वररूपाम् ।

निपतितमाधवमुग्धमनोमृगनाभिसुधारसकूपाम् ॥

नूपुरहारमनोहरकुण्डलकृतरुचिमरुणदुकूलाम् ।

पथि पथि मदनमदाकुलगोकुलचन्द्रकलितपदमूलाम् ॥

रसिकसरस्वतिगीतमाहद्भुतराधारूपरहस्यम् ।

वृन्दावनरसलालसमनसामिदमुपगेयमवश्यम् ॥१०७३॥

सङ्गीतमाधवं २४२७—

सुभगशिखलक्ष्मीकोटिकाम्यैकपादा ।

धृतनखमणिचन्द्रज्योतिरामोदमात्रा ।

अतिमधुरचरित्रानङ्गलीलाविलासा

मम हृदि रसमूर्तिः स्फूर्तिमायातु राधा ॥१०७४॥

नवरसमदघूर्णन्माधवप्राणकोटि

प्रियनखमणिशोभा सर्वसौभाग्यभूमिः ।

स्फुरतु हृदि सदा मे कापि काश्मीररोचिर्

व्रजनगरकिशोरीवृन्दसीमन्तभूषा ॥१०७५॥

गोविन्दप्राणसर्वस्वनखचन्द्रैकचन्द्रिका ।

कापि प्रेमरसोदारा किशोरी मम जीवनम् ॥१०७६॥

चेतः कामपि कुन्दसुन्दरसुधानिःस्यन्दिमन्दस्मित

ज्योतिर्मोहनवक्त्रचन्द्रविगलत्प्रेमामृताम्भोनिधिम् ।

प्रत्यङ्गोच्छलितानुरागसहजानङ्गोत्सवैकावधिं

श्रीवृन्दावनचन्द्रदुर्मदमनश्चौरीं किशोरीं स्मर ॥१०७७॥

गोविन्दलीलामृतं ११.५०५४—

पुनः कृष्णेङ्गितज्ञास्ताः श्लोकैरेकैकशः पृथक।

वयस्यां वर्णयामासुः प्रेम्ना ताः ललितादयः ॥१०७८॥

शङ्खार्धेन्दुयवाब्जकुञ्जररथैः सीराङ्कुशेषुध्वजैश्

चापस्वस्तिकमत्स्यतोमरमुखैः सल्लक्षणैरङ्कितम् ।

लाक्षावर्मितमाहवोपकरणैरेभिर्विजित्याखिलं

श्रीराधाचरणद्वयं सुकटकं साम्राज्यलक्ष्म्या बभौ ॥१०७९॥

यत्कान्त्या लवनाच्छ्रियः किशलये या पल्लवाख्यां न्यधात्

पद्माख्यां नलिले विधाय मलिनीभावं निशा कोकवत।

शोकात्कोकनदाभिधां विलपनै रक्तोत्पले चेत्यसौ

सा राधा भुवि तत्पदद्वयमिदं केनोपमेयं भवेत॥१०८०॥

अपूर्वा श्रीराधाचरणकमलनखचन्द्रावलिर्

इयं सदा पूर्णा भान्ती हरिहृदि निरङ्कारुणरुचिः ।

समुत्फुल्लं तस्येन्द्रियकुमुदवृन्दं विदधती

हठाच्चन्द्रावल्या विरचयति या विस्मृतमपि ॥१०८१॥

तारुण्ये नवराज्ञि नीतिशिथिले राधावपुःपत्तने

वक्षोजद्वयदस्युना स जघनेनाक्रम्य मध्यं बलात।

पौष्कल्यं निखिलं हृतं त्रिवलिभिः फुत्कारभीत्या गुणैर्

बद्ध्वा स्थापितमित्यवेत्य भयतो गुल्फौ निलीय स्थितौ ॥१०८२॥

गोविन्दलीलामृतं ११.५६—

अस्या मिषात्प्रसृतयोर्मदनाय हैमा

लानद्वयं विधिरदादनुमार्थितः किम् ।

यत्कृष्णचित्तमदमत्तगजं स चास्मिन्

तन्माधुरी सुदृढशृङ्खलया बबन्ध ॥१०८३॥

गोविन्दलीलामृतं ११.५५—

स्वस्थित्यैव स्तम्भितस्वर्णरम्भा

स्तम्भारम्भे दीव्यतोऽस्या सुजङ्घे ।

धात्रानङ्गोष्णार्तकृष्णेभशीत

च्छायाशालास्तम्भतां लम्भिते ये ॥१०८४॥

जानुद्वयं न तदिदं वृषभानुजायाः

कामस्ये ते कनकसम्पुटिके सुगुप्ते ।

यत्कृष्णहृन्नयनरत्नमनेकयत्नैः

संमुष्य सोऽयमनयोर्मुमुदे निधाय ॥१०८५॥

त्वचि कठिनकरेभ्यः पद्मिनां भीः करेः

स्याज्जलमयकदलीनां ह्रीश्च काण्डादसारात।

हरिकरभविलासायासलभ्ये तदस्या

निरुपममधुरे ते सक्थिनी केन तुल्ये ॥१०८६॥

गोविन्दलीलामृतं ११.६०६२—

राधाश्रोणिरियं समानपुलिनैः सत्या कवेर्गीरियं

यद्वेणी यमुना तदेव पुलिनं काञ्ची मरालीततिः ।

नो चेत्तत्र हरेर्मनोनटवरः श्रीरासलास्यं कथं

स्वाभिर्वृत्तिसखीनटीभिरनिशं कुर्वन्न विश्राम्यति ॥१०८७॥

वीर्योन्मत्तैर्मदकरितनुस्थूलता हस्तकुम्भैर्

मैत्रीं कृत्वा शठगुरुनितम्बोरुवक्षोजचौरैः ।

पौष्कल्यं मे हृतमिति भयक्रोधशोकादिवास्या

दुःस्थं मध्यं त्वरितमकरोत्सिंहमध्येन सख्यम् ॥१०८८॥

अस्या नितम्बस्तनयोर्दरिद्रयोः

सन्धिं विधायाहृतमध्यसम्पदोः ।

पश्चाद्विधिर्वीक्ष्य कलिं प्रलुब्धयोश्

चकार सीमां त्रिवलिच्छलेन किम् ॥१०८९॥

गोविन्दलीलामृतं ११.६५—

चलदलदलजाले कम्पदं हैमदीव्यत्

कमलनवदलालौ जाड्यदं निर्जयेन ।

तिलकितमिव रोमश्रेणि कस्तूरिकाभिस्

तदिदमुदरमस्या भाति साम्राज्यलक्ष्म्या ॥१०९०॥

गोविन्दलीलामृतं ११.३१—

अस्या लसत्तनुवनीमनुभाति काम

गम्भीरवेदिगजराट्यदिहास्य भातः ।

कुम्भौ मिषेण कुचयोर्हरिपाणिजम््म कामाङ्कुशक्षतशतौ मदलेपचित्रौ ॥१०९१॥

गोविन्दलीलामृतं ११.६६६९—

भृङ्गाराम्भोजमालाव्यजनशशिकलाकुण्डलच्छत्रयूपैः

शङ्खश्रीवृक्षवेद्यासनकुसुमलताचामरस्वस्तिकाद्यैः ।

सौभाग्याङ्कैरमीभिर्युतकरयुगला राधिका राजतेऽसौ

मन्ये तत्तन्मिषात्स्वप्रियपरिचरणस्योपचारान्बिभर्ति ॥१०९२॥

श्रीकामाङ्कुशतीक्ष्णचारुशिखरैर्माणिक्यपूर्णेन्दुभिः

श्लिष्टाग्रार्धविभागगन्धफलिकाश्रेणीदलैः शोभिते ।

पद्मे चेदभविष्यतां क्वचिदपि श्रीराधिकाहस्तयोर्

औपम्यं जितपल्लवाब्जचययोः सम्प्राप्स्यतां ते तदा ॥१०९३॥

राधाकराब्जनखराः सुखरबकारेर्

वक्षस्तटीगरुडरत्नकवाटिकायाम् ।

उत्कीर्णचित्रकरणाय रतीशकारोष्

टङ्काः सुसूक्ष्मनिशिताः स्फुटमुल्लसन्ति ॥१०९४॥

मूलेऽधोवदनं वराटकयुगं चाग्रेऽम्बुजे बिभ्रती

नैते स्वर्णमृणालके रतिपतेर्ये पाशतामागते ।

कृष्णोत्फुल्लतमालवेष्टनपटुबिल्वत्कुचाधः

फले राधाबाहुलते इमे करयुगश्रीपल्लवे दीव्यतः ॥१०९५॥

गोविन्दलीलामृतं ११.७२७४—

स्मरजयलिपियुक्ता हाटकीपट्टिकेयं किमु

विधृतमनोभूशस्त्रिकं स्वर्णपीठम् ।

मदनभुजगपाशाधारतूणं नु हैमं

नहि लसति विराजद्वेणिराधासुपृष्ठम् ॥१०९६॥

सहजविनतमंसद्वन्द्वमस्याः कवीन्द्रा

गिरिधरकरशश्वद्भारतो नम्रमाहुः ।

मम तु मतमनुच्चैरप्यदः सर्वमुच्चैः

शिरसगणमतीत्योद्भाति तत्सौभगेन ॥१०९७॥

सौन्दर्यलक्ष्मीरिह काव्यलक्ष्मीः

सन्गीतलक्ष्मीश्च हरेर्मुदेऽस्ति ।

पूर्णेति धातुर्गणनात्तु रेखा

त्रयेण कण्ठः किमु भात्यमुष्याः ॥१०९८॥

गोविन्दलीलामृतं ११.७६७८—

व्यर्थीकृता स्वरगुणैर्गहनं पिकाली

भेजे सुधा च कटुतां जडतां ततश्रीः ।

यस्य श्रिया दरततिश्च समुद्रमस्याः

केनोपमान्तु कवयस्तमिमं सुकण्ठम् ॥१०९९॥

यो बालार्कविकाशिसुप्तमधुपस्वर्णाम्बुजैकच्छदो

विश्राम्यत्पिकहेममन्दिरगवाक्षाधोविटङ्कोऽपि यः ।

तौ राधामदबिन्दुचारुचिबुकं दृष्ट्वा स्वसाम्योत्सुकौ

श्रीकृष्णाङ्गुलिसङ्गसौभगगुणैर्न्यक्कृत्य विभ्राजते ॥११००॥

बन्धोर्हरेर्जीवतयास्य तत्ता

प्रेम्नो बहिर्बिम्बतया तथास्य ।

राधाधरौष्ठाविति बन्धुजीवबिम्बौ

स्वयं तन्नहि साम्यमाभ्याम् ॥११०१॥

गोविन्दलीलामृतं ११.८१—

कुन्दाकृतिर्हीररुचिर्विचित्र

श्रीराधिकाया रदकीरराजिः ।

या नित्यकृष्णाधरबिम्बमात्र

स्वादेन लेभे शिखरच्छवित्वम् ॥११०२॥

गोविन्दलीलामृतं ११.८४८६—

श्रीकृष्णसत्कीर्त्यभिधाननाम्नो

सुनव्ययूनोर्मिथुनस्य धात्रा ।

हिन्दोललीलाभिरतस्य चक्रे

राधारसज्ञारुणवस्त्रदोला ॥११०३॥

पीयूषाब्धितरङ्गवर्णमधुरं नर्मप्रहेलीमयं

शब्दार्थोभयशक्तिसूचितरसालङ्कारवस्तुध्वनि ।

भृङ्गीभृङ्गपिकीपिकध्वनिकलास्वध्यापकं राजते

श्रीकृष्णश्रवसो रसायनमिदं श्रीराधिकाभाषितम् ॥११०४॥

प्रेमाज्यनर्मालिसितारसावली

माध्वीकमन्दस्मितचन्द्रसम्युता ।

अस्या मृषेर्ष्या मरिचान्विताद्भुता

वाणी रसालोल्लसतीशतृप्तिदा ॥११०५॥

गोविन्दलीलामृतं ११.८८—

हरेर्गुणालीवरकल्पवल्ल्यो

राधाहृदाराममनु प्रफुल्लाः ।

लसन्ति या याः कुसुमानि तासां

स्मितच्छलात्किन्तु बहिः स्खलन्ति ॥११०६॥

गोविन्दलीलामृतं ११.९२९४—

हरिनयनचकोरप्रीतये राधिकाया

मुखशशिनमपूर्वं पूर्णमुत्पाद्य धाता ।

नयनहरिणयुग्मं न्यस्य तस्मिन्सुलोलं

न्यधित तदवरोद्धुं पार्श्वयोः कर्णपाशौ ॥११०७॥

चन्द्रः कलङ्की क्षयितोऽतिविह्वलस्

तत्पादघातैर्मलिनं यथाम्बुजम् ।

सुनिर्मलं सन्ततपूर्णमण्डलं

केनोपमेयं वद राधिकाननम् ॥११०८॥

राधाया जितहेमदर्पणमदं गण्डद्वयं सुन्दरम्

लावाण्यामृतपूर्णितं हि कनकक्षौण्यां सरोयुग्मकम् ।

यत्ताटङ्कसुवर्णपद्मकलिकं कस्तुरिकाचित्रसच्

छैवालं मकरीविलासवलितं कृष्णातितृष्णाहरम् ॥११०९॥

गोविन्दलीलामृतं ११.९८१००—

अमुष्याः श्रीनासातिलकुसुमतूणो रतिपतेर्

अधोवक्त्रं पूर्णः कुसुमविशिखैश्चित्रमृगयोः ।

मुखद्वारा तस्मात्स्मितचयमिषात्ते निपतिताः

शरव्यत्वं येषामलभत हरेश्चित्तहरिणः ॥१११०॥

राधाया नयनाञ्जनाहररुचा व्याप्तं नु गुञ्जायते

नासामौक्तिकमेतदित्यविदुषां काव्यं ममैतन्मतम् ।

शश्वत्कृष्णविराजिरागिहृदयश्वासानिलैर्भावितं

तत्तद्वर्णतयाशु तत्परिणतं तेषां हि तत्तद्गुणैः ॥११११॥

नयनयुगविधाने राधिकाया विधात्रा

जगति मदुरसाराः सञ्चिताः सद्गुणा ये ।

भुवि पतिततदंशस्तेन सृष्टान्यसारैर्

भ्रमरमृगचकोराम्भोजमीनोत्पलानि ॥१११२॥

गोविन्दलीलामृतं ११.१०३१०४—

राधाक्षिपद्मद्वयधाम्नि तिष्ठतः

सदा सृजन्तौ भ्रमरप्रजापती ।

प्रजावलीं मानसिकीं यतोऽसकौ

कटाक्षधारामिषतो निरेत्युत ॥१११३॥

भ्रुवौ तिरःप्रसारिण्यौ विष्णुक्रान्तालते ध्रुवम् ।

अस्याः कृष्णे ययोर्भातः कुसुमे नेत्रयोर्मिषात॥१११४॥

गोविन्दलीलामृतं ११.१०६—

राधालिकं चिल्ल्यलकालिमञ्जुलं

नवेन्दुलेखामदहारि दीव्यति ।

उपर्यधः षट्पदपालिवेष्टितं

यथा नवं काञ्चनमाधवीदलम् ॥१११५॥

गोविन्दलीलामृतं ११.१०८—

सीमन्तरेखाञ्च्यरुणाम्बरावृतं

सैन्दूरमस्यास्तिलकं विभाति ।

करावगुण्ठाभिधमुद्रयावृतं

ताम्रार्घ्यपात्रं सशिखं स्मरस्य वा ॥१११६॥

गोविन्दलीलामृतं ११.१११११२—

अलकमधुपमाला भाति या राधिकाया

मुखकमलमधूलीपानलुब्धोपरिष्टात।

नयनहरिण युग्मारोधनायाघशत्रोर्

मदनमृगयुनासौ लम्भिता वागुरात्वम् ॥१११७॥

राधाअम्नोवृत्तिलताङ्कुरागताः

कृष्णस्य ये भावनया तदात्मताम् ।

सूक्ष्मायताः प्रेमसुधाभिषेकतस्

ते निःसृता केशमिषाद्बहिर्ध्रुवम् ॥१११८॥

गोविन्दलीलामृतं ११.११५११८—

रत्नावलीकान्तिसरस्वतीयुता

मुक्ता–प्रसूनावलिगङ्गयान्विता ।

निजश्रियासौ यमुनायिता स्वयं

वेणी त्रिवेणीव बभौ नतभ्रुवः ॥१११९॥

विलासविस्रस्तमवेक्ष्य राधिका

श्रीकेशपाशं निजपुच्छपिञ्छयोः ।

न्यक्कारमाशङ्क्य ह्रियेव भेजिरे

गिरिं चमर्यो विपिनं शिखण्डिनः ॥११२०॥

राधायाः कुङ्कुमानां परिमलविततिर्निर्जिहीतेऽखिलाङ्गान्

नभिभ्रूकेशनेत्रादगुरुमृगमदालिप्तनीलोत्पलानाम् ।

वक्षःश्रोत्रास्यनासाकरपदयुगलादिन्दुलिप्ताम्बुजानां

कक्षश्रेणीनखेभ्यो मलयजरससंसिक्तसत्केतकीनाम् ॥११२१॥

कृष्णेन्द्रियाह्लादिगुणैरुदारा

श्रीराधिका राजति राधिकेव ।

सर्वोपमानावलिमर्दिशीलान्य्

अङ्गानि च भान्त्यमुष्याः ॥११२२॥

गोविन्दलीलामृतं ११.१२११२२—

पातिव्रत्यं क्व नु परवधूत्वापवादः क्व चास्याः

प्रेमोद्रेकः क्व च परवशत्वादिविघ्नः क्व चायं

क्वैषोत्कण्ठा क्व नु बकरिपोर्नित्यसङ्गाद्यलब्धिः

मूलं कृष्ट्वा कषति हृदयं कापि शल्यत्रयी नः ॥११२३॥

का कृष्णस्य प्रणयजनिभू राधिकैका न चान्या

कास्य प्रेयस्यनुपमगुणा राधिकैका परा न ।

का चक्रे तं स्ववशमनिशं राधिका नेतरा तद्

वाञ्छापूर्तौ प्रभवति हि का राधिका नापरेह ॥११२४॥

गोविन्दलीलामृतं ११.१२४—

न दीक्षास्याः शिक्षाश्रवणपठने वा गुरुमुखात्

तथापीयं राधा त्रिजगदबलाविस्मयभुवाम् ।

कलाम्भोधेः शौरेरपि परमसन्तोषणकृतां

कलानामाचार्या व्रजमृगदृशामप्यजनि सा ॥११२५॥

गोविन्दलीलामृतं ११.१२६१२७—

प्रजागरस्वप्नसुषुप्तिषु

श्रीगान्धर्विकायां सततं हि नान्या ।

मनोवपुर्वागखिलेन्द्रियाणां

कृष्णैकतानत्वं ऋतेऽस्ति वृत्तिः ॥११२६॥

शफरमृगचकोरीखञ्जनाम्भोजभृङ्गी

निकरमदनवाणश्रेणी नीलोत्पलानि ।

हरिधृतिधनचौरै राधिकायाः प्रवीणैः

सहजनयनलीलानर्तनैर्निर्जितानि ॥११२७॥

गोविन्दलीलामृतं ११.१३०१३१—

गीर्भूर्लीला युवतिषु वरैः सद्गुणैः सारभूतास्

ताभ्यः सा श्रीस्तत इह महाप्रेमगोपाङ्गनास्ताः ।

ताभ्यश्चन्द्रावलिमुखलसद्यूथनाथा अमूभ्यः

श्रीराधास्यां बत हि नितरां सोऽपि कृष्णः सतृष्णः ॥११२८॥

चन्द्रावलीप्रणयरूपगुणैः प्रयत्न

व्यक्तीकृतैर्व्यरचयत्स्ववशं बकारिम् ।

श्रीराधिका तु सहजप्रकटैर्निजैस्तैर्

व्यस्मारयत्तमिह तामपि हा कुतोऽन्याः ॥११२९॥

गोविन्दलीलामृतं ११.१३४१३७—

विनाप्याकल्पैः श्रीवृषरविसुता कृष्णसविधे

मुदोत्फुल्ला भावाभरणवलितालीः सुखयति ।

विना कृष्णं तृष्णाकुलितहृदयालङ्कृतिचयैर्

युताप्येषा म्लाना मलिनयति तासां तनुमनः ॥११३०॥

कृष्णः पुरः स्फुरति पार्श्वयुगे च पश्चाच्

चित्तस्य वृत्तिषु दृशोर्विषये च शश्वत्

श्रीगण्डयोश्च कुचयोस्तरले यतोऽस्याः

श्रीराधिका तदिह कृष्णमयीति सत्यम् ॥११३१॥

कृष्णस्य सौन्दर्यभरैर्विनिर्जितः

कामोऽस्य किञ्चित्प्रतिकर्तुमक्षमः ।

राधामिह प्रीतिमतीं विनिर्णयंस्

तां बाधतेऽद्धा तदगोचरेऽबलात॥११३२॥

स्पृशति यदि मुकुन्दो राधिकां तत्सखीनां

भवति वपुषि कम्पस्वेदरोमाञ्चबाष्पम् ।

अधरमधु मुदास्याश्चेत्पिबत्येष यत्नाद्

भवति बत तदासामत्तता चित्रमेतत॥११३३॥

गोविन्दलीलामृतं ११.१३९—

इयं कृष्णादङ्कस्रजमुरुमुपादाय रुचिरां

वदान्यास्मै राधा सपदि मणिमालामिह ददौ ।

निपीयास्याः कृष्णस्त्वधरमधु दन्तक्षतमधाद्

गृहीत्वाभ्यामान्यो दर तदवलोकं तनुमदुः ॥११३४॥

गोविन्दलीलामृतं ११.१४३—

दृष्ट्वा राधां निपुणविधिना सुष्ठु केनापि सृष्टां

धाता ह्रीलः सदृशमनया यौवतं निर्मिमत्सुः ।

सारं चिन्वनसृजदिह तत्स्वस्य सृष्टेः समास्या

नैकाप्यासीदपि तु समभूत्पूर्वसृष्टिर्निरर्था ॥११३५॥

गोविन्दलीलामृतं ११.१४५१४६—

राधागुणानां गणनातिगानां

वाणीवचःसम्पदगोचराणाम् ।

न वर्णनीयो महिमेति यूयं

जानीथ तत्तत्कथनिरलं नः ॥११३६॥

इत्थं सालङ्कार काव्यैः सहासं

कृष्णः कान्तां वर्णिताङ्गीं सखीभिः ।

पश्यन्फुल्लत्सङ्कुचद्भुग्न नेत्रां

नेत्र श्रुत्योस्तृप्तिमुच्चैरवाप ॥११३७॥

आनन्दवृन्दावनचम्पू ८.२३—

क्षितौ शोणेऽम्बुजे तदुपरि नवौ हेमकदली

तरू नीचीनाग्राविह कनकसिंहासनमिदम् ।

ततः शून्यं तस्योपरि सुमिलितं कोकमिथुनं

ततश्चन्द्रस्तस्मात्तम इति विधेः का नु घटना ॥११३८॥

राधारससुधानिधि १२६१२७—

राकानेकविचित्रचन्द्र उदितः प्रेमामृतज्योतिषां

वीचीभिः परिपूरयेदगणितब्रह्माण्डकोटिं यदि ।

वृन्दारण्यनिकुञ्जसीमनि तदाभासः परं लक्ष्यसे

भावेनैव यदा तदैव तुलये राधे तव श्रीमुखम् ॥११३९॥

कालिन्दीकूलकल्पद्रुमतलनिलयप्रोल्लसत्केलिकन्दा

वृन्दाटव्यां सदैव प्रकटतररहोवल्लवीभावभव्या ।

भक्तानां हृत्सरोजे मधुररससुधास्यन्दिपादारविन्दा

सान्द्रानन्दाकृतिर्नः स्फुरतु नवनवप्रेमलक्ष्मीरमन्दा ॥११४०॥

राधारससुधानिधि ३९—

वेणुः करान्निपतितः स्खलितं शिखण्डं

भ्रष्टं च पीतवसनं व्रजराजसूनोः ।

यस्याः कटाक्षशरघातविमूर्च्छितस्य

तां राधिकां परिचरामि कदा रसेन ॥११४१॥

राधारससुधानिधि ४५—

श्रीराधिके तव नवोद्गमचारुवृत्त

वक्षोजमेव मुकुलद्वयलोभनीयम् ।

श्रोणीं दधद्रसगुणैरुपचीयमानं

कैशोरकं जयति मोहनचित्तचौरम् ॥११४२॥

राधारससुधानिधि ७५—

गौराङ्गे म्रदिमा स्मिते मधुरिमा नेत्राञ्चले द्राघिमा

वक्षोजे गरिमा तथैव तनिमा मध्ये गतौ मन्दिमा ।

श्रोण्यां च प्रथिमा भुवोः कुटिलिमा बिम्बाधरे शोणिमा

श्रीराधे हृदि ते रसेन जडिमा ध्यानेऽस्तु मे गोचरः ॥११४३॥

राधारससुधानिधि ९९—

गात्रे कोटितडिच्छवि प्रविततानन्दच्छवि श्रीमुखे

बिम्बौष्ठे नवविद्रुमच्छवि करे सत्पल्लवैकच्छवि ।

हेमाम्भोरुहकुड्मलच्छवि कुचद्वन्द्वेऽरविन्देक्षणं

वन्दे तन्नवकुञ्जकेलिमधुरं राधाभिधानं महः ॥११४४॥

राधारससुधानिधि ११७—

चन्द्रास्ये हरिणाक्षि देवि सुनसे शोणाधरे सुस्मिते

चिल्लक्ष्मीभुजवल्लि कम्बुरुचिरग्रीवे गिरीन्द्रस्तनि ।

भज्यन्मध्यबृहन्नितम्बकदलीखण्डोरुपादाम्बुज

प्रोन्मीलन्नखचन्द्रमण्डलि कदा राधे मयाराध्यसे ॥११४५॥

राधारससुधानिधि १२०—

भ्रमद्भ्रूकुटिसुन्दरं स्फुरितचारुबिम्बाधरं

ग्रहे मधुरहुङ्कृतं प्रणयकेलिकोपाकुलम् ।

महारसिकमौलिना सभयकौतुकं वीक्षितं

स्मरामि तव राधिके रतिकलासुखं श्रीमुखम् ॥११४६॥

राधारससुधानिधि १८६—

चलत्कुटिलकुन्तलं तिलकशोभिभालस्थलं

तिलप्रसवनासिकापुटविराजिमुक्ताफलम् ।

कलङ्करहितामृतच्छविसमुज्ज्वलं राधिके

तवातिरतिपेशलं वदनमण्डलं भावये ॥११४७॥

राधारससुधानिधि १८५—

लसद्दशनमौक्तिकप्रवरकान्तिपूरस्फुरन्

मनोज्ञनवपल्लवाधरमणिच्छटासुन्दरम् ।

चरन्मकरकुण्डलं चकितचारुनेत्राञ्चलं

स्मरामि तव राधिके वदनमण्डलं निर्मलम् ॥११४८॥

राधारससुधानिधि १२१—

उन्मीलन्मुकुटच्छटापरिलसद्दिक्चक्रवालं स्फुरत्

केयूराङ्गदहारकङ्कणघटानिर्धूतरत्नच्छवि ।

श्रोणीमण्डलकिङ्किणीकलरवं मञ्जीरमञ्जुध्वनि

श्रीमत्पादसरोरुहं भज मनो राधाभिधानं महः ॥११४९॥

राधारससुधानिधि १३०—

मल्लीदामनिबद्धचारुकवरं सिन्दूररेखोल्लसत्

सीमन्तं नवरत्नचित्रतिलकं गण्डोल्लसत्कुण्डलम् ।

निष्कग्रीवमुदारहारमरुणं बिभ्रद्दुकूलं नवं

विद्युत्कोटिनिभं स्मरोत्सवमयं राधाख्यमीक्षे महः ॥११५०॥

राधारससुधानिधि २४५—

शुद्धप्रेमविलासवैभवनिधिः कैशोरशोभानिधिः

वैदग्धीमधुराङ्गभङ्गिमनिधिर्लावण्यसम्पन्निधिः ।

श्रीराधा जयतान्महारसनिधिः कन्दर्पलीलानिधिः

सौन्दर्यैकसुधानिधिर्मधुपतेः सर्वस्वभूतो निधिः ॥११५१॥

राधारससुधानिधि १८९—

श्रीगोपेन्द्रकुमारमोहनमहाविद्ये स्फुरन्माधुरी

सारस्फाररसाम्बुराशिसहजप्रस्यन्दिनेत्राञ्चले ।

कारुण्यार्द्रकटाक्षभङ्गिमधुरस्मेराननाम्भोरुहे

हा हा स्वामिनि राधिके मयि कृपादृष्टिं मनाङ्निक्षिप ॥११५२॥

सखीनां वर्णनमाह, वृन्दावनमहिमामृत ३.४०—

काञ्चीमञ्जीरकेयूरकवलयघटारत्नताटङ्करम्याः

श्रीमन्नासाग्रलोलन्मणिकनकलसन्मौक्तिकाश्चित्रशाटीः ।

सुश्रोणीश्चारुमध्या रुचिरकुचतटीः कञ्चुकोद्भासिहारा

लोलद्वेण्यग्रगुच्छाः स्मर कनकरुचीर्दासिका राधिकायाः ॥११५३॥

साधनामृतचन्द्रिक २.२३ —

गोरोचनारुचिमनोहरकान्तिदेहां

मायूरपुच्छतुलितच्छविचारुचेलाम् ।

राधे तव प्रियसखीं च गुरुं सखीनां

ताम्बूलभक्तिललितां ललितां नमामि ॥११५४॥

सौदामिनीनिचयचारुरुचिप्रतीकां

तारावलिललितकान्तिमनोज्ञचेलाम् ।

श्रीराधिके तव विचित्रगुणानुरूपां

सद्गन्धचन्दनरतां कलये विशाखाम् ॥११५५॥

सद्रत्नचामरकरां वरचम्पकाभां

चासाख्यपक्षरुचिरच्छविचारुचेलाम् ।

सर्वान्गुणान्तुलयितुं दधतीं विशाखां

राधेऽथ चम्पकलतां भवत्याः प्रपद्ये ॥११५६॥

काश्मीरकान्तिकमनीयकलेवराभां

सुस्निग्धकाचनिचयप्रभाचारुचेलाम् ।

श्रीराधिके तव मनोरथवस्त्रदाने

चित्रां विचित्रहृदयां सदयां प्रपद्ये ॥११५७॥

सच्चन्द्रमण्डलमनोरमकुङ्कुमाभां

पाण्डुच्छविप्रचुरकान्तिलसद्दुकूलाम् ।

सर्वत्र कोविदतया महितां समज्ञां

राधे भजे प्रियसखीं तव तुङ्गविद्याम् ॥११५८॥

नृत्योत्सवां हि हरितालसमुज्ज्वलाभां

सद्दाडिमकुसुमकान्तिमनोज्ञचेलाम् ।

वन्दे मुदा रुचिविनिर्जितचन्द्रलेखां

श्रीराधिके तव सखीमहमिन्दुलेखाम् ॥११५९॥

सत्पद्मकेशरमनोहरकान्तिदेहां

प्रोद्यज्जवाकुसुमदीधितिचारुचेलाम् ।

प्रायेण चम्पकलताधिगुणां सुशीलां

राधे भजे प्रियसखीं तव रङ्गदेवीम् ॥११६०॥

प्रोत्तप्तशुद्धकनकच्छविचारुदेहां

प्रोद्यत्प्रवालनिचयप्रभचारुचेलाम् ।

सर्वानुजीवनगुणोज्ज्वलभक्तिदक्षां

श्रीराधिके तव सखीं कलये सुदेवीम् ॥११६१॥

साधनामृतचन्द्रिका, २.२४—

वसन्तकालोद्भवकेतकीततिप्रभा

विडम्ब्युद्भटकान्तिडम्बराम् ।

विनिन्दितेन्दीवरभास्वराम्बराम्

अनङ्गपूर्वां प्रणमामि मञ्जरीम् ॥११६२॥

वृन्दावनमहिमामृत २.५८५९—

किशोरवयसः स्फुरत्पुरटरोचिषो मोहिनीः

सुचारुकृशमध्यमाः पृथुनितम्बवक्षोरुहाः ।

सुरत्नकनकाञ्चितस्फुरितनासिकमौक्तिकाः

सुवेणीः पटभूषणाः स्मरत राधिकाकिङ्करीः ॥११६३॥

सुरम्या दोर्वल्लीवलयगणकेयूररुचिराः

क्वणत्काञ्चीमञ्जीरकर्मणि सुताटङ्कललिताः ।

लसद्वेणीवक्षोरुहमुकुलहारावलिरुचः

सम्रानन्यस्निग्धाः कनकरुचिराधाङ्घ्र्यनुचरीः ॥११६४॥

११६५११७० सोउर्चे उन्क्नोwन्(सङ्ग्रहकर्तुः?)—

तडितप्रभाहराङ्गकान्तिका लसत्सुतारका

वलीवराम्बरा सुदक्षिणा च मार्दवान्विता ।

त्रयोदशाब्दमासषड्दिनत्रयाद्यसद्वया

लवङ्गमञ्जरी कदा मम प्रयाति दृक्पथम् ॥११६५॥

गोरोचनारुचिरभासिशिखिपिञ्छवस्त्रा

सार्धत्रयोदशशरद्वयसान्विता ।

श्रीरूपमञ्जरिरसौ वरवाम्यरम्या

मध्या ममाक्षियुगलं किमलङ्कृषीष्ट ॥११६६॥

तारावलीसुवसना तडिदाभदेहा

वर्षत्रयोदशकषष्ट्यहसद्वयस्था ।

सा दक्षिणा मृदुतया वलिता निजेश

सेवापरां विरचयेद्रतिमञ्जरी माम् ॥११६७॥

विद्युद्वराङ्गसुषमा सुजवाप्रसून

वस्त्रा धृतप्रखरता खलु दक्षिणा सा ।

यस्यास्त्रयोदशशरत्प्रमितं वयश्च

मासैकयुक्कृपयताद्गुणमञ्जरी माम् ॥११६८॥

फुल्लचम्पकरुचिः सुदक्षिणा

चासपक्षवसना समार्दवा ।

सा त्रयोदशशरद्वया मया

द्रक्ष्यते किमिह रागमञ्जरी सदा ॥११६९॥

स्वर्णकेतकीप्रसूनकान्तिनिन्दिगौरभा

वाम्यमार्दवान्विता च भृङ्गरोचिरंशुका ।

द्वादशाब्दरुद्रमासतिथ्याढ्यसद्वया

मय्यलं कृपाकुलास्तु सा विलासमञ्जरी ॥११७०॥

साधनामृतचन्द्रिका, २.२४—

प्रतप्तहेमाङ्गरुचिं मनोज्ञां

शोणाम्बरां चारुसुभूषणाढ्याम् ।

श्रीराधिकापादसरोजदासीं

तां मञ्जुलालीं निरतं भजामि ॥११७१॥

विशुद्धहेमाब्जकलेवराभां

काचद्युतिचारुमनोज्ञचेलाम् ।

श्रीराधिकाया निकटे वसन्तीं

भजाम्यहं कस्तूरी मञ्जरीं ताम् ॥११७२॥

कस्यचित्(सङ्ग्रहकर्तुः?)—

सुरम्यचपलावलीरुचिरभावृता वाससा

लसद्भ्रमररोचिषा वलितमार्दवा दक्षिणा ।

द्विमासयुक्तत्रयोदशशरद्वयस्था सदा

कदा कनकमञ्जरी किल कृपां विधत्ते मयि ॥११७३॥

गोरोचनासंयुतचन्दनश्री

विडम्बनीया निजदेहकान्त्या ।

रसादिवेला मम मञ्जरीक्षां

विन्देत्कदा जम्बुनिभांशुका सा ॥११७४॥

साधनामृतचन्द्रिका, २.२४—

गाङ्गेयचाम्पेयतडिद्विनिन्दि

रोचिःप्रवाहस्नपितात्मवृन्दे ।

बन्धूकवद्द्योतितदिव्यवासो

वृन्दे भजे त्वच्चरणारविन्दम् ॥११७५॥

गोविन्दलीलामृत १८.१४—

अथ प्रीतेश्वरी कीरमादाय वत्सला करे ।

अपाठयल्लालयन्ती तद्वत्कृष्णश्च शारिकाम् ॥११७६॥

स्तुहि कीराभीरवीरं नीरदाभशरीरभम् ।

गिरीन्द्रधारिणं धीरं सरस्तीरकुटीरगम् ॥११७७॥

वद शुक सद्गुणमणिनिकराकर

तरुणीमादकमधुमधुराधर ।

सुन्दरशेखर शुचिरससागर

व्रजकुलनन्दन जय वर नागर ॥११७८॥

अघबकशकटकदवभयहरण

नवदलकमलजमदहरचरण ।

चरणजलजनतजनचयशरण

पठ खग जय जय धरवरधरण ॥११७९॥

गोविन्दलीलामृत १८.८१०—

स्तुहि सारि मनोहारि वारिजालिजिदाननाम् ।

जगन्नारीगर्व्हारिगुणोदारां मम प्रियाम् ॥११८०॥

नागरि नगधरनागरहृदयमरालि असि राधिके धन्या ।

त्रिजगत्तरुणीश्रेणी कलासु शिष्यायते यत्ते ॥११८१॥

गुणमणिखनिरुद्यत्प्रेमसम्पत्सुधाब्धिस्

त्रिभुवनवरसाध्वीवृन्दवन्द्येहितश्रीः ।

भुवनमहितवृन्दारण्यराजाधिराज्ञी

विलसति किल सा श्रीराधिकेह स्वयं श्रीः ॥११८२॥

गोविन्दलीलामृत १८.२४२५—

द्राक्षादाडिमबीजानि वृन्दयोपहृतान्यथ ।

एतावादयतामीशौ स्वहस्तेनातिवत्सलौ ॥११८३॥

ततः सारीकिलपाली द्यूतकेलिच्छयेरितौ ।

ययतुस्तौ हरित्कुञ्जं सुदेवीसुखदाभिधम् ॥११८४॥

कृष्णभावनामृत १५.१६—

सीधुपानजलखेलन

दोलान्दोलनादिकुतुके बलवत्वात।

एष एव नलिनीरिव पद्मी

यद्विजित्वा सखि नः प्रजगल्भे ॥११८५॥

तद्बलोपधिकतः स्फुटमन्यद्

धीप्रधानमधुना ललिते त्वम् ।

खेलनं विमृश्य यत्प्रभविष्यत्य्

अस्य गर्वचुलुकीकरणे द्राक॥११८६॥

द्युतकेलिजयकैरवचान्द्र

ज्योतिरेव सखि राजसि राधे ।

किं दूनोतु परिभूतितमिस्रं

नित्यमेव धृतगर्वततीर्नः ॥११८७॥

इत्थमालिकृतमन्त्रणयोचे

राधया प्रियतम प्रभविष्णो ।

पाशकाजिचतुरिम्णि जिगीषा

नर्तकीं न किमुरीकुरुषे त्वम् ॥११८८॥

सत्यमालि हृदि नर्तयसे तां

किन्तु मत्करतलाम्बुजपट्टे ।

यर्हि वत्स्यति नृपो जयनामा

स ह्रियैष्यति तदा निलयं द्राक॥११८९॥

इत्यघारि गदितं मदिराक्षी

चिल्लिवल्लिदरवेल्लितभङ्ग्या ।

सावदीर्य सपरिच्छदसारीर्

आनिनाय तरसैव सुदेव्या ॥११९०॥

कृष्णाह्निककौमुदी ४.२३९२४४—

तत्र काचिदथ बिम्बफलौष्ठी

मण्डलस्य दयितस्य च गोष्ठी ।

अक्षखेलनविहारविदग्धा

चारुमन्मथविकारविमुग्धाः ॥११९१॥

गोपराजयुवराजसमाजः

सोऽभिरामरमणीमणिराजः ।

कुञ्जसीमनि मणीन्द्रशिलायां

शोभते स्म तरुमूलगतायाम् ॥११९२॥

वृन्दया निजगदे हरिरासां

इङ्गितं सममवेत्य सुभासा ।

दर्शयस्व निजकौशलमक्ष

क्रीडने सनिपुणं नलिनाक्ष ॥११९३॥

पश्य शारिफलकं कृतशिल्पं

पट्टकाञ्चनगुणैरविकल्पम् ।

शारयो मरकतैस्तपनीयैर्

निर्मिताः सुवलिताः कमनीयैः ॥११९४॥

दन्तिदन्तकृतशिल्पसुघट्टे

स्वङ्किते सुभगपाशकपट्टे ।

किं न खेल शतरङ्गमुताहो

शारिमेव परिघायतबाहो ॥११९५॥

तन्निशम्य रमणो लसद्धसः

शारिखेलनमुरीचकार सः ।

व्याजहार च तदुद्यमवत्यः

सन्तु रन्तुमुपयान्तु सुदत्यः ॥११९६॥

कृष्णभावनामृत १५.७१३—

नान्द्यभूद्वनपया सह साक्षिण्य्

अक्षिकेलिसभिकाऽजनि कौन्दी ।

इष्टदायमुपदेष्टुमुदञ्चद्

वागराजत बटुर्ललिता च ॥११९७॥

पाणिशोणजलजोदररङ्गे

झञ्झणद्वलयमुच्छलदङ्ग्याः ।

यर्हि पाशककुशीलवयुग्मं

लब्धनृत्यमधिभूमि चुकूर्दे ॥११९८॥

तर्हि कक्षकुचयोरुरुरोचि

वीचि मज्जितदृशोऽपि बकारेः ।

पाशकग्रहणचापल चातु

र्यापि नेषदपि भङ्गकलङ्कम् ॥११९९॥

कर्हिचिद्दश दशेति कदाचित्

सा विदुर्विदुरिति प्रसरद्गीः ।

पातयन्त्यलघु दायमभीष्टं

मूर्तिमत्यजनि किं न जयश्रीः ॥१२००॥

यत्प्रिये दश दशेति निकामं

प्रार्थनं तदुपहासकरं ते ।

वित्तिरेव पतिता स्मर तावद्

देवने तव कुतो जयवार्ता ॥१२०१॥

सारिका गमयितुं निजकोष्ठेष्व्

अप्रभुः स्वतनुशृङ्खलिताः स्वाः ।

घातयंश्चरविधिं विमृशंस्ताः

खेलति स्म हरिरात्त जिगीषः ॥१२०२॥

इष्टदायपतनेनसुधीः सा

राधिका यदि जिगाय तदा तम् ।

आलयो विहसितुं प्रखरत्वं

लेभिरेऽतिमृदवोऽपि नितान्तम् ॥१२०३॥

कृष्णभावनामृत १५.१७३०—

कौस्तुभं पणितमानय तस्याप्य्

आनये विनिमयेन विचित्राम् ।

कङ्कणालिमथवामुमनेक

क्षालनैः प्रियसखी हृदि धास्ये ॥१२०४॥

काननं न हि गवामिदमेतन्

मारणं न बकवत्सबकीनाम् ।

अक्षदेवनमिदं तु सभायां

स्याद्विदग्धजनबुद्धिपरीक्षा ॥१२०५॥

इत्थमालिखरधारसरस्वत्य्

आस्तपाटव तरुर्बटुरूचे ।

तस्य कर्णमनुसंसृणुषे तत्

कौस्तुभं मम समर्पये हस्ते ॥१२०६॥

चेत्स्वकृत्यमिषतोऽपसृते मय्या

क्रमं कमपि हन्त विधित्सेत।

एककेऽपि भवति व्रजरामा

संहतिर्व्रजपुरन्दरसूनो ॥१२०७॥

तन्निवेद्य निखिलं व्रजराज्ञीं

मङ्क्षु तद्विकटशासनपाशैः ।

ह्रीतमिस्रकुहरेऽद्य निवेद्यै

वाश्वमूर्न किमु पातयितास्मि ॥१२०८॥

धिग्धिया रहित किं त्वमभैषीर्

अस्मि जिष्णुरधुनैव विजिष्ये ।

मातिमौग्ध्यमयचेष्टितभङ्ग्या

ख्यापयाज्ञतम मत्परिभूतिम् ॥१२०९॥

किं हितप्रकथनेऽप्यतिकुप्यस्य्

अस्तु कौस्तुभहृतिस्तव हस्तात।

याम्यहं युवतिपाल्यपि रङ्की

कृत्य नृत्यमपि कारयतु त्वाम् ॥१२१०॥

चिल्लिकोणधुवनेन मुकुन्दः

स्वीयपक्षगमिता एव सभ्याः ।

प्राह पश्य मयैव जितानां

अप्यतिप्रखरतां चपलानाम् ॥१२११॥

यद्यजेष्यदबलाततिरेषा

किं व्यधास्यदिति बोद्धुमनीशः ।

विस्मितोऽस्म्यथ जगाद विशाखा

त्वद्भ्रुवे नम इति प्रहसन्ती ॥१२१२॥

वैरिणी भवति या कुलधर्म

ध्वंसिकापि सुहृदालिरिवाद्य ।

तद्वचोऽप्यनृतयन्त्युदगन्नो

धिन्वती सदसि कुञ्चितकोणा ॥१२१३॥

देहि कौस्तुभमिति स्फुट नान्दी

वाक्यतो मधुभिदि त्रपमाणे ।

कुन्दवल्ल्यमुमघान्तककण्ठाद्

राधिकोरसि दधौ स्मयमाना ॥१२१४॥

कृष्ण पश्य कुचमध्यगतं स्वं

बिम्बितं मणिवरे विलसन्तम् ।

हन्त यत्त्वमदधाः स इदानीं

त्वादधाति मणिराट्प्रणयेन ॥१२१५॥

धन्य धन्य सुषमामय कृष्णस्

त्वं तवास्मि महसां प्रतिबिम्ब ।

यत्र राजसि ममात्र तु वाञ्छै

वैतुमित्यगभृदुन्नदृगासीत॥१२१६॥

राधिकाप्यरमवाञ्छितवक्त्रा

वीक्ष्य भान्त्यमिमात्म कुचान्तः ।

कञ्चुकं ह्रियमपि द्विषती सा

नन्दजाड्यजलधौ निममज्ज ॥१२१७॥

कृष्णाह्निककौमुदी ४.२४७२५४—

स्ताद्द्वितीय इतरः पण एते

मामकी मुरलिका ललिता ते ।

आददानि जितकाशिनि जित्वा

निर्जितः परिददानि हसित्वा ॥१२१८॥

साह नाहमसमञ्जसं वृणे

वंशिकाललितयोः कृते पणे ।

काष्ठिकामणिशलाकयोः कथं

साम्यमत्र कुरु नो मनोरथम् ॥१२१९॥

कस्तृतीयपणतां गमिष्यती

त्याह तत्र कतमा कलावती ।

तामुवाच परिहस्य राधिका

त्वं ममास्य वरहारयष्ठिका ॥१२२०॥

आह काचिदथ वच्मि चतुर्थं

सत्पणं यमुपलभ्य कृतार्थम् ।

स्वं वपुः सफलमेव भवन्तौ

मङ्क्ष्यतः सुखनिधिं प्रविशन्तौ ॥१२२१॥

कृष्ण आह वद सापि जगाद

श्रूयतां सुमुखि मे प्रियवादः ।

चुम्बनानि तव विच्युतदम्भाः

प्रेयसोऽस्य शतशः परिरम्भाः ॥१२२२॥

तां जगाद कुपितेव तदा सा

भ्रूकुटीकुटिलयालिकभासा ।

खेल निस्त्रपमनेन पणेन

त्वं कलावति समं रमणेन ॥१२२३॥

भद्रमुक्तमनया पणकार्ये

कुप्य मा कुरु विचारणमार्ये ।

कल्पितस्तव पणोऽतिलघीयान्

वल्लभस्य तु पणोऽतिगरीयान॥१२२४॥

त्वं जितातिलघु दास्यसि जित्वा

लप्स्यसे प्रचुरमेव हसित्वा ।

ज्ञायतामुभयथैव भवत्या

लाभ एव परमः शुभवत्याः ॥१२२५॥

कृष्णाह्निककौमुदी ४.२५६२८१—

साथ शारिफलके यथास्थलं

कौत्कादभयसारिमण्डलम् ।

अङ्गुलीयकमणीन्द्ररञ्जितं

न्यास हाससुधया परिप्लुतम् ॥१२२६॥

सोपगृह्य वरपाशकपाट्या

द्वन्द्वमिन्दुवदना परिपाट्या ।

पातय प्रथममित्यनुदात्त

प्रौढि वल्लभकरे समधत्त ॥१२२७॥

पाशकोत्किरणजातविलासः

कृष्णबाहुव्लयः स चकाश ।

तं निरीक्ष्य सुदतीं हृदि मुग्धाम्

आह काचन सखी सुविदग्धा ॥१२२८॥

खेल खेल सुभगे जयशाली

मास्तु हारहरणे वनमाली ।

कौस्तुभं जय सुरञ्जय चाली

मण्डलं विजयकौशलपाली ॥१२२९॥

योऽपतत्प्रथमपाशकदायः

प्रेयसः स विजयव्यवसायः ।

सा तमन्यथायितुं समुदस्य

प्रापयत्करतलं पुनरस्य ॥१२३०॥

भूय एव रमणो न्यपीपतत्

पाशकं तदनुरूपमेव तत।

शारिसञ्चरणमप्यचीकरत्

दर्पमम्बुजदृशोऽप्यसीसरत॥१२३१॥

हृद्ययाक्षहृदयज्ञविद्यया

दीव्यतोर्निजनिजैकवेद्यया ।

नो जयो न च पराजयस्तयोर्

आस खेलनकलाविहस्तयोः ॥१२३२॥

बुद्धिपूर्वमथ सा पराजयं

स्वीचकार स च लब्धवान्जयम् ।

हारमाहरति जीवितेश्वरे

सा स्वयं व्यतरदग्रतः करे ॥१२३३॥

साक्षमाक्षिपदुदञ्चितकक्षं

प्राणनाथविजये कृतलक्षम् ।

तन्निरीक्ष्य हृदये नलिनाक्षः

क्लिद्यति स्म विगलज्जयपक्षः ॥१२३४॥

सा द्वितीयपणभावशंसिकां

तं विजित्य विचकर्ष वंशिकाम् ।

यच्छति स्म ललिताकराम्बुजे

सा च तां निजतयैव सस्वजे ॥१२३५॥

सोऽपि वारमपरं जयशाली

खेलनं व्यरचयद्वनमाली ।

या तृतीयपणतामगमत्तां

सञ्जिगाय गुणगौरवमत्ताम् ॥१२३६॥

तां हृतां समवलोक्य समस्ताः

सस्वनं जहसु रूढमुदस्ताः ।

साह मा हसत पाशकदेव्याश्

चातुरीमनुभविष्यथ भव्याः ॥१२३७॥

ताः समूचुरनयोचितमुक्तं

खेलने तव मनोऽनभियुक्तम् ।

एष पाशकविलाससुपूर्वा

व्युत्क्रमेण सखि जेष्यति सर्वाः ॥१२३८॥

वृन्दया निजगदे विजितायां

त्वद्विधेन मुरलीदयितायाम् ।

नानुशोचति सखि स्मितशाली

राजते भृशमसौ वनमाली ॥१२३९॥

त्वादृशः प्रकटयन्तु न तापं

स्वालिलम्भनमतीव दुरापम् ।

न्यायतो जितमुपेत्य गभीराः

शेवधिं विधुरयन्ति न धीराः ॥१२४०॥

वंशिकातिसुलभ्येयमटव्यां

नेदृशी गुणवती तु पृथिव्याम् ।

इत्युदीरयथ चेद्विजिहीमाम्

आग्रहः कथमवस्तुनि भूमा ॥१२४१॥

कृष्णपक्षपतिता त्वममन्दे

ज्ञायसे सततमेव हि वृन्दे ।

तेन पश्यसि न भद्रमभद्रं

वासरेऽपि फिहितेक्षणमुद्रम् ॥१२४२॥

हेलयानवहितैव सखी मे

हन्त खेलितवती परिणामे ।

तेन हारितवती वरहारं

प्रेयसीमपि सखीमनुवारम् ॥१२४३॥

इत्युवाच ललिता यदि विज्ञा

सापि पाशककलाहृदयज्ञा ।

अक्षयुग्मकमुदस्य कराग्रे

णाभ्युदास दयिता दयिताग्रे ॥१२४४॥ (विशेषकम्)

तत्र तत्प्रववृतेऽक्षखेलनं

प्रेयसोर्विरहितावहेलनम् ।

यत्र कोऽपि सभिको मनोभवस्

तत्र को रसकलापराभवः ॥१२४५॥

यच्चतुर्थपणतामुपनीतं

चुम्बनप्रमुखमत्यविगीतम् ।

तद्विजेतुमपि लम्भितलज्जा

सा तथापि विजयाय सुसज्जा ॥१२४६॥

यं यमिच्छति हृदा कुतुकाय

प्रेयसी समपतत्स स दायः ।

एवमेव रमणोऽपि सखेलस्

तेन तत्र स रराज सहेलः ॥१२४७॥

सा भुजावलयमुन्नमयन्ती

पाशकोत्किरणमारचयन्ती ।

आत्मनोऽभिमतदायमनल्प

प्रौढितो दश दशेति जजल्प ॥१२४८॥

मा ब्रवीर्दश दशेत्यलमुग्रे

कृष्णमाकलय भोगिनमग्रे ।

पूर्वमेव सखि येन सुदष्टं

त्वन्मनस्त्वदधरश्च सुकष्टम् ॥१२४९॥ (युग्मकम्)

यद्विषस्य विभवः परिसर्पी

सालिचिल्लिलतिकावरसर्पी ।

हन्त पूर्वमनया दलिताङ्गः

किं करिष्यति स कृष्णभुजङ्गः ॥१२५०॥

इत्युदारललितावचनान्ते

तत्प्रतिप्रसवभाषिणि कान्ते ।

आलयो विजहसुः सदभिख्या

जिह्राय नतमुख्यथ मुख्या ॥१२५१॥ (युग्मकम्)

कृष्णाह्निककौमुदी ४.२८३२८५—

सा तथाप्यसति ह्रीपरिरम्भे

खेलितुं प्रतिभया विजजृम्भे ।

पातयन्त्यभिमतानथ दायान्

जेतुमेव विदधे व्यवसायान॥१२५२॥

देवनैरकृतसन्धितसन्धं

तस्य पाशकगतिप्रतिबन्धम् ।

तत्परं विधुमुखी पणसिद्धिं

सस्वनं प्रविदधे द्विगुणर्द्धिम् ॥१२५३॥

व्यूहबन्धमथ भेत्तुमशक्तस्

तामथ भ्रमयितुं व्यतिशक्तः ।

स स्मितेन मृदुना वचसा च

क्षोभयन्मधुरमन्दमुवाच ॥१२५४॥

कृष्णाह्निककौमुदी ४.२८२—

यच्चतुर्थपणतामुपनीतं

चुम्बनप्रमुखमत्यवगीतम् ।

तन्न जेतुमुभयोरभियोगस्

तुल्य एव खलु तत्फलभोगः ॥१२५५॥

कृष्णाह्निककौमुदी ४.२८६२९७—

तावकस्य किमु मामकस्य वा

वृद्धिकर्मणि पणस्य सोत्सवा ।

त्वं बभूविथ विचार्य चेतसा

ब्रूहि सुन्दरि विधूतसाध्वसा ॥१२५६॥

सा ममर्ष मनसोभयथा मे

व्रीडहेतुरतुलः परिणामे ।

आलयोऽपि विहसन्ति मिथो माम्

अप्ययं हसितवान्गुणभूमा ॥१२५७॥

इत्यचिन्तितसमागतचिन्ता

सावहित्थमथ माधव कान्ता ।

तद्वचोऽश्रुतमिवाभिनयन्ती

खेलितुं प्रववृते विहसन्ती ॥१२५८॥

निक्वणत्कनककङ्कणभाजा

पाणिना विकसदास्यसरोजा ।

अक्षमाक्षिपदनाकलयन्ती

सा विदुर्विदुरिति प्रवदन्ती ॥१२५९॥

सख्य ऊचुरयि ते मनोरथं

चुम्बनादिपणवृद्धिसत्पथम् ।

के विदुर्हनि वयं तु मा तप

किं विदुर्विदुरिति त्वमालप ॥१२६०॥

सा सखीनिकरभाषितभङ्गीम्

आकलय्य चलरज्यदपाङ्गी ।

वक्रया प्रियगिरापि च विद्धा

खेलने समभवद्भ्रमबद्धा ॥१२६१॥

आत्मनैव कृतपाशबन्धं

सा स्वयं विरचिताननुसन्धम् ।

खेलनभ्रमहतक्रमरीत्या

निर्बिभेद नियतेरिव गत्या ॥१२६२॥

तद्विलोक्य दयितः सदुदारस्

तं पणं त्रिगुणितं स चकार ।

आलयस्तमवदन्जहि गर्वं

जेष्यति प्रियसखी मम सर्वम् ॥१२६३॥

सा पुनः प्रववृते जयकामा

खेलितुं स्मितमुखी वररामा ।

नाग्रहो जयफले खलु तादृक्

सुभ्रुवो विजय एव हि यादृक॥१२६४॥

सा न तं स च न तामथ जेतुं

सम्बभूव जगतीजयकेतुम् ।

चित्रमेतदति यद्विजितोऽभूद्

एक एव सभिकः स मनोभूः ॥१२६५॥

द्वौ कलारसकलापविदग्धौ

द्वौ पुरुप्रणयकौशलमुग्धौ ।

द्वौ सुमङ्गलगुणावलिनद्धौ

द्वौ परस्परमनोरथसिद्धौ ॥१२६६॥

बाधको व्यजनि कालविलम्बः

खेलनेऽस्ति नतरामवलम्बः ।

इत्युभावसति पर्यवसाने

खेलनं जहतुरव्यवधाने ॥१२६७॥

वंशिकामथ ददौ हरिणाक्षी

सोऽपि हारमखिलाशयसाक्षी ।

वीक्ष्य कालमथ ताः सहवृन्दाः

स्वालयं ययुरयोगसुमन्दाः ॥१२६८॥

कृष्णभावनामृत १५.५३५८—

तावदेत्य वनदेव्यथ काचित्

प्राह सूर्यसदने जटिलागात।

तास्ततो निखिलकेलिमुदस्य

त्रस्तनेत्रमगुरन्तिकमस्याः ॥१२६८॥

किं स्नुषे क्व नु विलम्बमकार्षीः

स्नातुमद्य यदगां सुरनद्याम् ।

किं नु कुन्दलतिकामिह वीक्षे

सा गता मम पुरोहितहेतोः ॥१२६९॥

नैति किं चिरमियं कलयाराद्

आगतां सह पुरोधसमेनाम् ।

विप्रवेशधरकृष्णसमेता

सा गताथ निजगाद च वृद्धाम् ॥१२७०॥

नाद्य कोऽपि चिरमार्गणतोऽपि

प्राप्यते द्विजसूतो निजगोष्ठे ।

किन्त्वयं मधुपुरी भव आगाद्

अत्र गर्गकलिताखिलविद्यः ॥१२७१॥

एनमेव बहुवर्णिनमत्र

स्तौति पण्डितततिर्मतिमन्तम् ।

तन्मयाग्रहशतैरिह नीतं

तं पुरोहिततया वृणु वध्वाः ॥१२७२॥

तं जरत्यवददद्य कृतर्थै

वाभवं भवदवेक्षणमात्रात।

विप्रवर्यपरिपूरितकामां

मद्वधूं कुरु समर्चय मित्रम् ॥१२७३॥

तदा राधा विशाखामाह, ललितमाधव २.१२—

सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः

किमयमितरथा मे विद्रवत्यन्तरात्मा ।

शशधरमणिवेदी स्वेदधारां प्रसूते

न किल कुमुदबन्धोः कौमुदीमन्तरेण ॥१२७४॥

राधाकर्णे विशाखाह, उज्ज्वलनीलमणि १.३०—

व्रध्नोपास्तिविधौ तव प्रणयितापूरेण वेशं गते

क्ष्मादेवस्य कथं गुणोऽप्यघरिपौ द्रागद्य संचक्रमे

बुद्धिः पश्य विवेककौशलवती दृष्टिः क्षमोद्गारिणी

वागेतस्य मृगाक्षि रूढविनया मूर्तिश्च धीरोज्ज्वला ॥१२७५॥

कृष्णभावनामृत १५.५९६०—

धीरतारनयनः सितवासा

दर्भसंवलितपुस्तकपाणिः ।

सामगानमधुरस्वरकण्ठो

मूर्तिमान्स इहैष तदोचे ॥१२७६॥

वर्णिनो यदपि नोचितमेव

स्त्रीविलोकनमथाप्यतिसाध्वीम् ।

कारये स्तृततनूमिह काम

प्रांशुमद्यजनमद्य तु वृद्धे ॥१२७७॥

गोविन्दलीलामृत १८.६५७०—

पूजारम्भेऽवदत्कृष्णो वध्वास्ते नाम किं वद ।

राधेति वृद्धयोक्तोऽसौ सचमत्कारमाह ताम् ॥१२७८॥

सेयं गुणवती यस्याः साध्वीत्वं श्रूयते पुरे ।

धन्या त्वं यत्स्नुषा सैयेत्युक्त्वा राधामथाब्रवीत॥१२७९॥

नावृतं कारयेत्कर्म तद्भास्वदतनुक्रतौ ।

वृणु मां स्त्री न मे स्पृश्या स्पृशन्ती मां कुशैः पठ ॥१२८०॥

जगन्मङ्गलकृद्गोत्रं शुचिवित्प्रवरं शुचिम् ।

भवन्तं विश्वशर्माणं पुरोहिततया वृणे ॥१२८१॥

श्रीभास्वतेंतनुतमःसण्हर्त्रेऽत्यनुरागिणे ।

पुरः सतेऽस्मै मित्राय पद्मिनीबन्धवे नमः ॥१२८२॥

मन्त्रेणानेन पाद्यादीन्मित्राय त्वं समर्पय ।

स्वं च गौरांशुकः स्यात्ते यथा कामप्रदो वशः ॥१२८३॥

ललितमाधव २.१४—

अर्चितार्चाधुना धन्ये त्वमर्घ्यं कुरु भावतः ।

अम्बरोद्भासिने गाढमुदा राजीवबन्धवे ॥१२८४॥

ललितमाधव २.१३—

निभृतमरतिपुञ्जभाजि राधे

त्वदधरवर्धितचापले चलाक्षि ।

चटुलय कुटिलां दृगन्तलक्ष्मीम्

अयि कृपणे क्सणमों नमः सवित्रे ॥१२८५॥

ललितमाधव २.१५—

सम्प्रति कन्याराशेरुपभोगं कुर्वते पुरःस्थाय ।

मित्राय चित्रमर्घ्यं कुरु सुस्मितपुण्डरीकेण ॥१२८६॥

राधिका दृगन्तेन हरिं पश्यति, ललितमाधव २.१६—

सवितुः समाप्तिमाप्तः, पूजाविधिरेष सुष्ठु कल्याणि ।

इष्टं नन्दय देवं, सरागसुमनोवराञ्जलिना ॥१२८७॥

राधिका बन्धूककुसुमाञ्जलिं क्षिपति, कृष्णभावनामृत १५.६४—

पत्युरस्तु कृपया तव भास्वद्

यागतोऽयुतगवाप्तिरमुष्याः ।

कल्पतानवरतं चिरमायुर्

वृद्धिरित्यमुमयाचत वृद्धा ॥१२८८॥

कृष्णभावनामृत १५.६५६६—

एवमस्त्विति वदत्यघशत्राव्

एत्य तत्र मधुमङ्गल ऊचे ।

सूर्यसूक्तमहमेव पठामीत्य्

अक्षिपद्दृशमशेषनिवेद्ये ॥१२८९॥

मूर्ख लम्पटसख त्वमिहागाः

किं बटुः प्रतिदिनं पुनरेषः ।

पूज्ययिष्यति वधूमतिसौम्यः

श्याम इत्यवदज्जरती तम् ॥१२९०॥

कृष्णः, कृष्णभावनामृत १५.६८—

साम्प्रतं शृणु सतीकुलवर्ये

भास्वते नम इतीह पठन्ती ।

उत्थिता कृतपरिक्रमणा त्वं

क्षौणिलग्नशिरसा प्रणमामूम् ॥१२९१॥

स तथा विन्दति, गोविन्दलीलामृत १८.७३९८—

नैवेद्ये दक्षिणात्वेन राधास्वर्णाङ्गुलीयके ।

न्यस्तेऽग्रे वृद्धया भक्त्या स्मेरस्तामाःअ माधवः ॥१२९२॥

नाद्मोऽन्यदेवताशेषं वयमेकान्तिवैष्णवाः ।

नान्यवर्णार्थमादद्यां शुक्लवृत्तिरहं बटुः ॥१२९३॥

सर्वज्ञो गर्गशिष्योऽस्मि ज्योतिःसामुद्रकादिवित।

गुर्वी मे दक्षिणा प्रीतिर्युष्माभिर्व्रजवासिभिः ॥१२९४॥

वृद्धायां कर्णलग्नायां कौन्द्याः सा हरिमब्रवीत।

वृद्धा त्वां याचते वध्वाः करं वीक्ष्य फलं वद ॥१२९५॥

हरिस्तामाह नास्माकं ललनाङ्गप्रदर्शनम् ।

कार्यं तथापि वः प्रीत्या वशः पश्यामि दूरतः ॥१२९६॥

त्वमेवास्याः करौ साध्व्याः प्रसारय पुरो मम ।

कौन्द्या तथा कृते सोऽभूत्कम्पाश्रुपुलकान्वितः ॥१२९७॥

आच्छाद्य विस्मयेनात्महर्षमाहाद्भुतं त्विदम् ।

यान्यस्याः शुभचिह्नानि तैरियं स्यात्स्वयं रमा ॥१२९८॥

अस्याः प्रसाददृष्टिश्चेद्वयं स्मः पूर्णसम्पदः ।

यत्रास्याः स्थितिरत्रैव ससम्पत्सर्वमङ्गलम् ॥१२९९॥

सूनोस्ते नाम किं ब्रूहीत्युक्तया वृद्धयोदिते ।

तन्नाम्नि गणयित्वाह हैर्स्तामतिविस्मितः ॥१३००॥

वर्तन्ते बहवो विघ्ना वृद्धे ते तनयायुषि ।

अस्याः साध्व्याः प्रभावेण प्रभवन्ति न तेक्वचित॥१३०१॥

तच्छ्रुत्वानन्दिता वृद्धा राधिकारत्नमुद्रिकाम् ।

अमूल्यां पुरतस्तस्य दधार पारितोषिकाम् ॥१३०२॥

तावदेत्याह सुबलो विश्वशर्मन्हरिर्युवाम् ।

पयःफेणफलादीनां भोजनाय प्रतीक्षते ॥१३०३॥

नाद्मि विप्रेतरान्नादि गार्ग्या चास्मि निमन्त्रितः ।

यामि शीघ्रं गृहाण त्वं नैवेद्यं मधुमङ्गल ॥१३०४॥

मधुः प्राह देहि वृद्धे स्वस्तिवाचनदक्षिणाम् ।

आकृष्य साप्यदात्तस्मै स्वाङ्गुलेः स्वर्णमुद्रिकाम् ॥१३०५॥

बटुस्तां प्राप्य हृष्टः सन्कफोणिं वादयन्मुहुः ।

नैवेद्यमञ्चले बद्द्वा तां प्रशंसन्ननर्त सः ॥१३०६॥

वृद्धया प्रार्थितः कृष्णं जगाद मधुमङ्गलः ।

अगृहीते दक्षिणार्थे त्वया न व्रतपूर्णता ॥१३०७॥

कृपया तद्गृहाणेमं स्वार्थश्चार्थेन ते न चेत।

विप्रेभ्यः कल्प्स्यते सोऽयं व्रतिन्या भविता शुभम् ॥१३०८॥

स्वीकृतस्ते मया दोषो नेत्युक्त्वा स्वाञ्चले हसन।

बबन्ध मुद्रिके ते द्वे निषिद्धोऽप्यमुना मुहुः ॥१३०९॥

जगाद कृष्णं जटिला बटो यदै

वायाति गोष्ठं मम भाग्यतो भवान।

तदा मयास्या रविपूजने गुरुर्

वृतोऽस्ति ते भूरि ददामि दक्षिणाम् ॥१३१०॥

इत्युक्त्वा जटिला हृष्टा नत्वादित्यं द्विजौ च तौ ।

कृतार्थं स्वं मन्यमाना ताभिः सा चलितालयम् ॥१३११॥

यान्ती विवर्त्य सहसा लपनच्छलेन

ग्रीवां मुहुर्ललितयानुगया मुरारेः ।

वक्त्राब्जसारघमपाङ्गतरङ्गभङ्ग्या

राधा पिबन्त्यपि न तृप्तिर्मवाप दीना ॥१३१२॥

हृदयदयितलीलास्निग्धदुग्धैः प्रपूर्णात्

तनुकनकघटीया सुभ्रूवोऽस्याः सखीनाम् ।

नयनमुदमतानीत्साशु वैरस्यमाप्ता

विरहविषविवर्णा नेत्रसन्तप्तयेऽभूत॥१३१३॥

कान्तासङ्गेन्दुसम्फुल्लः कृष्णो नीलोत्पलप्रभः ।

विच्छेदार्कोदये म्लायन्क्षणादन्य इवाभवत॥१३१४॥

सखिभ्यां सहितः सोऽथ विमनाः स्वसखीनगात।

तेऽहम्पूर्विकया हृष्टा आलिङ्गन्तस्तमब्रुवन॥१३१५॥

अस्मान्हित्वा तव गतवतस्त्वद्वियोगासहिष्णून्

काठिन्यं नः स्फुटमवगतं व्याकुलैर्दीनचित्तैः ।

अन्वेष्टुं त्वां प्रतिजिगमिषून्यत्तमागाः क्षणार्धात्

तेन ज्ञातं प्रियसख परं प्रेमकौमल्यमेव ॥१३१६॥

सोऽयं राधासहचरहरेः स्फीतमध्याह्नलीला

पीयूषाब्धिर्विलसति महान्दुर्विगाहोऽत्यपारः ।

भाग्यं तन्मे यदिह विलसच्छ्रीलरूपानुकम्पा

वात्यानीता तदनु कणिकाप्यस्पृशन्मां तटस्थम् ॥१३१७॥

इति श्रीश्रीभावनासारसङ्ग्रहे मध्याह्नलीलास्वादनं नाम

चतुर्थः सङ्ग्रहः ॥

॥४॥

श्रीश्रीभावनासारसङ्ग्रहः

• अपराह्नलीला – ११०

• सायाह्नलीला – ७७

• प्रदोषलीला – २१४

• नक्तलीला – २९८

• चोन्च्लुदिन्ग्मतेरिअल्– २५

७२४.

श्रीश्रीभावनासारसङ्ग्रहः

(५)

पञ्चमसङ्ग्रहः

अथ अपराह्नलीला

परावृत्तिं गोष्ठे व्रजनृपतिसूनोर्विपिनतो

महानन्दाम्भोधेः सपदि जनयित्रीं स्वहृदये ।

स्मरन्श्रीगौराङ्गो नटति वलते निःश्वसिति च

क्षणं मुह्यन्सर्वान्विवशयति यस्तं भज मनः ॥१॥

गोविन्दलीलामृतं १९.१—

श्रीराधां प्राप्तगेहां निजरमणकृते क्ÿप्तनानोपहारां

सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् ।

कृष्णं चैवापराह्णे व्रजमनु चलितं धेनुवृन्दैर्वयस्यैः

श्रीराधालोकतृप्तं पितृमुखमिलितं मातृमृष्टं स्मरामि ॥२॥

कृष्णभावनामृतं १६.१२—

अथ प्रेम्णः स्थेमन्यपि समजनि स्थैर्यरहिता

प्रिया प्रेयस्यक्ष्नोरमलकमलद्वन्द्वमहसोः ।

तटात्स्वस्यावासात्प्रवसति विदूरे दवथवो

बलादाक्रम्यास्या हृदयनगरीं भेत्तुमविशन॥३॥

सखीसङ्घाश्वासौषधमपि निरोजो विदधतीं

दधाना स्वप्राणप्रियविरहजां संज्वररुजम् ।

क्षणार्धं कल्पानां शतममनुतेयं गुरुगृहं

निरम्भस्कं कूपं ह्रियमशनिजं जालपटलम् ॥४॥

उज्ज्वलनीलमणि १४.७६—

अवितथमसौ किं द्राघीयान्गमिष्यति वासरः

सुमुखि स निशारम्भः किं वा समेष्यति मङ्गलः ।

स्मितमुखशशी गोधूलिभिः करम्बितकुन्तलः

क्षपयति दृशामार्तिं यत्र व्रजेश्वरनन्दनः ॥५॥

कृष्णभावनामृतं १६.३७—

तदालीनां पाल्या समुचितसपर्याकुलधियां

द्रवैः पौनःपुण्यान्मलयजभवैर्लिप्तवपुषः ।

स्तृतायाश्चाभीक्ष्णं विसकिसलयैः सैन्धवरसैः

समीपेऽस्याः प्रायात्प्रणयविकला चन्दनकला ॥६॥

कुतो वृन्दारन्यात्कथमिदमगा गोष्ठमहिषी

निदेशात्कस्मात्स त्वरितमशनीयोपहृतये ।

सुतस्यास्याः किं सम्प्रति स कुरुते कन्दुकतति

व्यतिक्षेपग्राहोत्तरविविधखेलां सवयसा ॥७॥

अरे किं श्रीदामन्वदसि मम दोरर्गलवलत्

तटी लोठिघट्टप्रघटननिपिष्टाखिलतनो ।

विरम्याजेर्नाम्नोऽप्यपसर मदाडम्बबलव

स्फुटत्कर्णोऽभ्यर्णाद्यदि सपदि शं वाञ्छसि भृशम् ॥८॥

जयश्रीः श्रीदाम्नि प्रथितमहसां धाम्नि सहसा

व्यराजीद्राजिष्यत्यवकलय राजत्यपि सदा ।

तवैवंसः साक्षी भवति तदपि त्वं भजसि किं

मुखाटोपी कोपी स्वमहिमविलोपी चपलताम् ॥९॥

बकीं मन्त्रैर्विप्रा निधनमनयन्यः पुनरघस्

तदन्तरस्त्वं सर्वे वयमपि न किं हन्त ययिम ।

बकः कैर्वा गण्यो गिरिरपि तदेष्टः स्वयमहो

वियत्यस्थादस्तौजसि भवति गर्वः कथमभूत॥१०॥

भक्तिरसामृतसिन्धु ४.३.१२—

पिण्डीशूरस्त्वमिह सुबलं कैतवेनाबलाङ्गं

जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि ।

माद्यन्नेष त्वदलघुभुजासर्पदर्पापहारी

मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी ॥११॥

भक्तिरसामृतसिन्धु ४.३.१६—

धृताटोपे गोपेश्वरजलधिचन्द्रे परिकरं

निबध्नत्युल्लासाद्भुजसमरचर्यासमुचितम् ।

सरोमाञ्चं क्ष्वेडानिविडमुखबिम्बस्य नटतः

सुदाम्नः सोत्कण्ठं जयति मुहुराहोपुरुषिका ॥१२॥

भक्तिरसामृतसिन्धु ४.३.२०—

शुकाकारं प्रेक्ष्य मे बाहुदण्डं

मा त्वं भैषीः क्षुद्र रे भद्रसेन ।

हेलारम्भेणाद्य निर्जित्य रामं

श्रीदामाहं कृष्णमेवाह्वयेय ॥१३॥

कृष्णभावनामृतं १६.८—

स इत्थं तत्प्राणार्बुदनियुतनिर्मञ्छ्यकिरणौ

रणोत्साहं साहङ्कृतिभणितपीयूषपृषतैः ।

समं मित्रैर्द्वित्रैरुपसरिदमन्दं विपुलयन्

क्षणं निन्ये मूर्तप्रणयरस एव प्रणयिभिः ॥१४॥

कृष्णाह्निककौमुदी ५.८२०—

समजनि समयो व्रजाय गन्तुं

विरमत सम्प्रति काननेऽभिरन्तुम् ।

रमयत सुरभीगणावहारं

ध्वनयत वेणुविषाणमत्युदारम् ॥१५॥

अथ कतिचन रौहिणेयमुख्याः

सहजपरस्परनिर्व्यलीकसख्याः ।

ध्वनितदलाविषाणवेणुनादा

व्रजगमनाय बभूवुरप्रमादाः ॥१६॥

अयि शवलि पिशङ्गि कालि नीले

हरिणि विलोहिनि धूमले सुशीले ।

इत इत इत याम धाम दूराद्

विरमत काननचारकामचारात॥१७॥

इति कलमृदुना रवेण वेणोर्

विधुतवधूवलमानमानरेणोः ।

उपययुरनुक्ÿप्तचारुहम्बा

रवमथ धेनुगणा वनावलम्बाः ॥१८॥

मदकलरविकुम्भपीवरोधो

वरभरनिर्भरमन्थरस्य साधोः ।

क्षुरखरखुरखेदतोऽपि भिन्ना

सुरभिगणस्य बभूव भूः प्रपन्ना ॥१९॥

सुलभतर तृणाङ्कुरोपभोगाद्

अतिशयपूरितचारुकुक्षिभागाः ।

अशकलकलसोधसोतिकायाश्

चलनमकुर्वत नैचिकीनिकायाः ॥२०॥

सह सहचरमण्डलैः किशोरौ

करिकलभाविव चारुनीलगौरौ ।

वनपरिसरतः प्रयातवन्तौ

बभतुरमू सहजौ त्रिलोककान्तौ ॥२१॥

अलिततिरघवैरिणोनुकूले

कमलधिया निपपात पादमूले ।

विरहविधुरितात्मनोऽत्युदारा

ञ्जनमलिनेव वनश्रियोऽश्रुधारा ॥२२॥

कलमधुरतरैः स्वरैः शकुन्ताः

प्रियविरहज्वरवेगजातचिन्ताः ।

चपलकरनिभैर्गरुद्भिरन्तर्

व्यथमरुदन्निव वर्ष्म ताडयन्तः ॥२३॥

अनिमिषमसकृद्विलोकयन्त्यः

पुनरवलोकनमर्थमर्थयन्त्यः ।

प्रियविरहरुजेव कातराङ्ग्यश्

चलनयना व्यवतस्थिरे कुरङ्ग्यः ॥२४॥

प्रियतममनुगच्छतामुदारा

भुवि लुलुठुः शिखिनां कलापभाराः ।

नवविरहरुजेव जातमोक्षा

बत विपिनश्रिय एव केशपक्षाः ॥२५॥

सरसि सरसि सारसादि पाथश्

चरपतगप्रकरैरसेवि नाथः ।

पथि पथि परितः प्रयाणभाग्भिः

सकरुणबाष्पभरेण रुद्धवाग्भिः ॥२६॥

हरिहलधरपालिताग्रमूला

सुरभिततिश्चलिता व्रजानुकूला ।

मरकतरजतद्विवर्णधारां

व्यजयत रूप्यमयीं तरीमुदाराम् ॥२७॥

कृष्णाह्निककौमुदी ५.२३२७—

तदपि तदितराङ्गसङ्गमार्थं

स्वयमिव रेणुमयं वपुः कृतार्थम् ।

क्षितिरधृत पुरुस्पृहा विपश्चित्

क्व नु सुखसम्पदि तृप्तिमेति कश्चित॥२८॥

उपचितमतिमन्दवातधूतैर्

अलककुलं कमलेक्षणस्य पूतैः ।

अलिततिमिव कौसुमैः परागैर्

व्यजयत गोखुररेणुभिः सुरागैः ॥२९॥

सितसिचयसुचारुमौलिबन्धः

सुरभिरजःकणजालसुप्रबन्धः ।

बहिरुपसरदन्तरस्थकेश

द्युतिरुदभाद्दलचुम्बितैकदेशः ॥३०॥

उरसि च शुशुभेऽस्य वैजयन्ती

सुरभिरजःकणसञ्चयैर्जयन्ती ।

कुसुमसुषमयेव संहर्सन्ती

निजमिव चारुपरागमुत्किरन्ती ॥३१॥

अपि सुरभिरजःकणाभिभूतः

पुरु शुशुभेऽस्य स कौस्तुभोऽतिपूतः ।

तरुणकिरणकन्दलीं स्वकीयां

पुनरपि निर्मलयन्निवाद्वितीयाम् ॥३२॥

कृष्णभावनामृतं १६.९—

इति प्रेष्ठोदन्तामृतसरिति तत्प्राणशफरी

ररक्षेयं क्षिप्त्वा प्रथममुपकण्ठे विलुठतीः ।

सुतस्नेहक्लिन्नव्रजपतिगृहिण्या अभिमते

प्रवृत्तां चक्रे तामथ धृतमुदं मोदकविधौ ॥३३॥

गोविन्दलीलामृतं १९.५०६०—

कदलकुसुममासक्षोदसत्सीरिशस्यैर्

मरिचसुघनदुग्धैः सच्चतुर्जातचन्द्रैः ।

कृत इह घृतपक्वो यः पतेत्खण्डपाके

बटकममृतकेलिं सा व्यधात्तं प्रियेष्टम् ॥३४॥

सामिक्षैः शालिचूर्णैर्दधिमरिचसितानारिकेलार्धसस्यैर्

जात्येलासल्लवङ्गामृतदलफलैः फेनितैः पिष्टमुद्गैः ।

सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्धपूरे प्रगाढे

सेन्दौ कर्पूरकेलिं तमिह सुबटकं सा व्यधात्स्वप्रियेष्टम् ॥३५॥

ग्रन्थिवद्बटिकालिस्तैर्द्रव्यैः सृष्टा तु या पतेत।

पञ्चामृते व्यधात्तां सा पीयूषग्रन्थिपालिकाम् ॥३६॥

सक्षीरसारशशितण्डुलनारिकेलजाती

लवङ्गमरिचैः ससितैः सुपिष्टैः ।

रम्भैलया च घृतभावनया भवेद्या

सा तामनङ्गगुटिकां विदधे प्रियेष्टाम् ॥३७॥

कदलमरिचदुग्धैः खण्डगोधूम

पक्वप्रकटितबटकोऽयं भूरिजातीफलाढ्यः ।

नवविधुमधुमध्ये यो विलासं विधत्ते

रचित इह तयासौ सीधुपूर्वो विलासः ॥३८॥

उपायनानामिति पञ्चकं सत्

श्रीराधया स्वीयधिया कृतं यत।

कृष्णस्तदेतत्प्रणयी सतृष्णः

सुधां विनिन्दन्परमत्ति नन्दन॥३९॥

तेषु व्रजप्रसिद्धानि त्रीण्यन्तिमयुगं च यत।

रहो भोग्यं निशायां तन्मधुपाने विदंशवत॥४०॥

लवङ्गैलेन्दुमरिचैः संयुतैः शर्कराचयैः ।

चक्रे गङ्गाजलाख्यानि लड्डुकान्यपराणि च ॥४१॥

तैस्तैर्युतैः क्षीरसारैस्तथा लाङ्गलिशस्यकैः ।

अन्यान्यप्याज्यभृष्टैः सा सरैश्च सरपूपिकाः ॥४२॥ (युग्मकम्)

साथ स्नातानुलिप्तारुणरुचिसिचया बद्धवेणीसुचित्रा

श्रीसिन्दूरेन्दूभाला मृगमदचिबुका मालिनी साब्जहस्ता ।

नासाग्रान्दोलमुक्ताञ्जनयुतनयनोत्तंसिनी बद्धनीवी

राधा ताम्बूलवक्त्रा सुकुसुमचिकुरा भाति यावोज्ज्वलाङ्घ्रिः ॥४३॥

चूडा रत्नललाटिके सुवलयांश्चक्रीशलाकायुगं

काञ्ची कुण्डलकङ्कणाङ्घ्रिकटकान्पदाङ्गुलीयान्यपि ।

ग्रैवेयं पदकाङ्गदादि विविधान्हारांस्तथा मुद्रिका

मञ्जीराविति रत्नभूषणचयं राधा बभौ विभ्रती ॥४४॥

कृष्णभावनामृतं १६.१२—

अयं यामो यामो भवति दिवसान्तः कथमिमं

नयामो योऽशाम्यन्नहि युगसहस्रैरपि गतैः ।

विधात्रा किं सृष्टौ मम हृदयकुल्माषदलन

प्रवृत्तेनैवासौ कठिनतर लोठः शठ धिया ॥४५॥

भागवतं १०.३५.२—

वामबाहुकृतवामकपोल

वल्गितभ्रूरधरार्पितवेनुम् ।

कोमलाङ्गुलीभिराश्रितमार्गं

गोप्य ईरयति यत्र मुकुन्दः ॥४६॥

गोपालपूर्वचम्पू १७.४६४७—

हरेर्वक्त्रं वेणुध्वनिमिषतया वर्षति सुधां

पिबत्येतां गव्या यदनु रसनाकर्णयुगलम् ।

अहासीत्प्रस्तब्धा निजविषयमन्या तु रसना

किमेतत्किं नैतद्भवति किमिवैतत्किमिति वा ॥४७॥

गवामस्माकं च श्रवणमनु वेणोः समदशा

यदप्येषा जाता तदपि किल भेदो विलसति ।

अमूस्तद्वक्तेन्दुं सपदि कलयन्ति प्रतिपदं

वयं नैतद्विद्मः क्व भवति युगे तस्य कलनम् ॥४८॥

गोपालपूर्वचम्पू १७.५१५२—

आश्चर्यं सखि कृष्णसारदयितावृन्दं मिलद्भर्तृकं

जात्या मूढमपि व्यतीत्य भवतीरप्येवमीहां दधे ।

श्रुत्वा वेणुकलं हरिं प्रति गतिस्तद्रूपतश्चित्रता

तस्याप्यर्चनमुल्लसत्प्रणयतस्तत्रापि नेत्राञ्चलैः ॥४९॥

वयं जात्या नार्यः पुरुगुणवतामादृततमास्

तथा भर्तारस्तत्प्रणयनयसिद्धव्रजभुवः ।

हरिण्यो नेदृश्यस्तदपि पतिभिस्तं ययुरहो

धिगस्मान्दुष्पुण्या दधिम नहि तासामपि तुलाम् ॥५०॥

गोपालपूर्वचम्पू १७.५७६०—

द्वीपिन्यः श्रवणेन वेणुरणितेः स्तम्भं गताः सभ्रमाः

फुल्लत्पूरतया स्फुरद्घनरसा हंसादिगीःशिञ्जिताः ।

उन्मर्याददशामिता मुररिपुं दूरेऽभिसृत्यागता

भङ्गालोलभुजैः सरोजवलयस्तस्याङ्घ्रियुग्मं दधुः ॥५१॥

नद्यः सिन्धुपतिव्रता हरि हरि प्रत्यक्तमर्यादिकास्

तं विद्रुत्य मिलन्ति चेदहह का दीनास्तदानीं वयम्? ।

किन्तु स्वैरममूरुदूढसुकृता नास्मासु तत्तुल्यता

स्वल्पापीति निवृत्तिरेव सुखतो युक्ताथवा दुःखतः ॥५२॥

मुरारेरम्भोदः सुहृदिति न वा केवलरुचा

स्वसादृश्यात्किन्तु व्यतिकृतहितत्वादपि सदा ।

असौ मल्लारेण प्रबलयति तं वेणुजनुषा

स चायं छायाभिः प्रशमयति तापं तदुपरि ॥५३॥

हंहो पश्य जडोऽपि वारिदचयः सर्वोपरि स्थाय्यपि

च्छायाभिः स्वरसैश्च तं परिचरत्यन्तश्चरप्रेमतः ।

कष्टं सुष्ठु वयं तदेकशरणप्राणस्थितिंमन्यता

गण्यास्तस्य विना तु सेवनममूर्जीवाम धिग्जीवितम् ॥५४॥

गोपालपूर्वचम्पू १७.६४६६—

वेणोः पुण्यमतीव हन्त यदसावस्त्री च तस्याधरं

गोपीनां स्वमपि ह्रियं परिहरन्शश्वत्पिबन्नर्दति ।

तृप्त्या छर्दिनिभादमुष्य रणितान्नद्योऽपि फुल्लन्त्यमूर्

यद्वंश्या नगजातयोऽपि मधुभिर्बाष्पं मदाद्बिभ्रति ॥५५॥

याचेऽहं वंशदेहं न तु कुलजवधूदेहमाद्ये हि कृष्णस्

तृष्णग्भावेन सज्जन्बहुरुचि विहरन्दुर्लभः स्यात्परत्र ।

वंशीभावे चिदंशप्रशमनवशताविस्मृतात्मा यदि स्यात्

तेन ज्ञायेय सेयं मम विरहदुता दारुतामागतेति ॥५६॥

गण्डं चुम्बसि कुण्डलस्थमकरि त्वं तस्य वंसि त्वमप्य्

आस्यं प्रेक्षि तथाङ्गमङ्गमसकृन्माले त्वमालिङ्गसि ।

तद्युक्तं यदतीतसर्वविधिका यूयं, वयं तु स्फुटं

हा तत्तद्विधिभाग्विचारहतकेनाभीप्सिताद्वञ्चिताः ॥५७॥

कृष्णभावनामृत १६.१३१७—

इति क्लिद्यन्नेत्रां विधुरवदनां मङ्क्षुललिता

समारोह्य क्षौमं न्यगददगदङ्कारचरिता ।

त्वमुत्तीर्णा राधे कटुतरमभूः खेदजलधिं

दिशं पश्य प्राचीं विशति सखि गोधूलिरधुना ॥५८॥

न गोधूलिर्भद्रे अनुभव भवतीदं विधुरजो

दृशं तृप्तां दूराद्विशति किमवादीः सखि दिशम् ।

यदेतत्कण्ठान्मे शमित दवथु प्राणपतगान्

हृदानिन्ये मन्ये तदयि मृतसञ्जिवनमिदम् ॥५९॥

मदर्थं त्वत्प्रेयोवदननलिनस्वेदकणिका

हरन्शैत्यामोदी विपुलकरुणः प्राच्यपवनः ।

अहो भाग्यं स्पृष्ट्वा सपदि ललिते जीवयति मां

जगत्प्राणो नाम्ना भवति गुणतोऽप्येष नितराम् ॥६०॥

स्मरन्मां दीनां व्रजतिलकसूनुः किमधुना

पुरोगाः कृत्वा गा द्रुततरमुपैति प्रणयवान।

कथं वास्य द्रौत्यं भवतु समदोक्षालसगतेः

कथं वा स्फारत्वं त्यजतु स दवीयान्वनपथः ॥६१॥

मुखाब्जं बिभ्राणो विमलतिलकं वेल्लदलकं

रणद्भृङ्गस्तोमस्तुततुलसीकास्रक्परिमलः ।

श्रितप्रेङ्खत्पिञ्छारुणदरनतोष्णीषसुषमो

धुवन्बाधां राधे त्वरितमधुनैवैष्यति स ते ॥६२॥

गोविन्दलीलामृत १९.८६—

मुरलीनदनादुत्थितमदना

गद्गदगदना व्रजविधुवदनाः ।

सुशिखररदना श्लथितच्छदना

ययुरपकदानाः सदनात्सदनात॥६३॥

बृहद्भागवतामृतं २.६.५०५२—

किञ्चिच्च काश्चित्त्वनपेक्षमानाः

सम्भ्रान्तिविघ्नाकलिताः स्खलन्त्यः ।

धावन्ति तस्यां दिशि यत्र धेनु

हम्बारव वेणुनिनादमिश्राः ॥६४॥

काश्चिद्विपर्यग्धृतभूषणा ययुः

काश्चिच्च नीविकचबन्धनाकुलाः ।

अन्या गृहान्तस्तरुभावमिश्रिताः

काश्चिच्च भूमौ न्यपतन्विमोहिताः ॥६५॥

मोहं गताः कश्चन नीयमाना

धृत्वाश्रुलालार्द्रमुखाः सखीभिः ।

यान्तीतराः प्रेमभराकुलास्तं

पश्यैतमित्यलीभिरुच्यमानाः ॥६६॥

बृहद्भागवतामृतं २.६.४६—

गवां हांवारावैः सुललिततरं मोहमुरली

कलं लीलागीतस्वरमधुररागेण कलितम् ।

जगद्वैलक्षण्याचितविविधभङ्गिविलसितं

व्रजस्थानां तेषां सपदि परमाकर्षवलितम् ॥६७॥

कृष्णभावनामृत १६.१९२२—

इतो वंशीध्वानात्कलय सखि राधे कलकलं

व्रजे रामाराजेरुदितवितनोर्निर्जिगमिषोः ।

तदग्रे स्वारामे कुसुममिषतो यामो जरतीं

प्रतार्येत्युत्कण्ठाचुलुकितधृतिः सा द्रुतमगात॥६८॥

त्वया दत्तेनालं श्रवणमनु पुष्पेण यदिह

स्वयं दूराद्वंशीनिरसवतंसोऽलगदयम् ।

पतामि त्वत्पादे सखि बकुलमाले जहिहि माम्

इतो गत्वा कृष्णाम्बुदघनरसैः स्यां शिशिरता ॥६९॥

प्रियस्निग्धश्यामाञ्जनरस इतोऽग्रे विपिनतः

समेत्येतं धास्य निजनयनयोः संज्वरहरम् ।

किमानैषीर्भष्मत्वमिदमहहानज्मि न दृशा

वनेनेति श्यामा त्वरितमुपराधं वनमगात॥७०॥

विलम्बं नो भद्रे कुरु जहिहि चन्द्रावलि रुजं

न धन्ये मान्थर्यः कलय कमले याव सदनात।

कथं पालि क्लाम्यस्युपसर हरेरङ्गसुषमाम्

ऋते जीवेत्यालो व्रजमृगदृशां सम्भ्रममधुः ॥७१॥

आनन्दवृन्दावनचम्पू ११.२३—

धूलिभरो गवां खरखुरक्षुण्णः क्षमायास्ततो

हम्बेत्युच्चगभीरचारुनिनदस्तासामथो मण्डलम् ।

तस्यान्ते मुरलीरवस्तदनु च प्रेङ्खोलि नीलं महः

पश्चात्कृष्ण इति क्रमाद्व्रजपुरीपत्योरभूद्गोचरः ॥७२॥

धेनूनामथ वत्सवत्सलतया जातत्वरामूधसाम्

आहारस्य च गौरवाल्लघुतरामाबिभ्रतीनां गतिम् ।

श्रीकृष्णस्य विलासवेणुनिनदैरामोदघूर्णद्दृशां

हम्बेति श्रुतिरम्यगद्गदगिरां श्रेणी व्रजं प्राविशत॥७३॥

आनन्दवृन्दावनचम्पू ११.१—

मुक्ते नन्दिनि चन्दिनीन्दुतिलके कस्तूरि कर्पूरिके

पिङ्गे रङ्गिणि धूमले धवलिके किञ्जल्किके रङ्गिणि ।

श्यामे केतकि चन्द्रिके शवलिके काश्मीरिके चम्पिके

हीहीहीति ततान तानमधुरं गानं मुरल्या हरिः ॥७४॥

ललितमाधव १.२९—

गत्वा पुरस्त्रिचतुराणि जवात्पदानि

पश्चाद्विलोकयति हन्त तिरःशिरोधि ।

वत्सोत्करादपि बकीमथने गरिष्ठ

प्रेमानुबन्धविधुरं पथि धेनुवृन्दम् ॥७५॥

गोविन्दलीलामृतं १९.७७७८—

तत्र स्फारे सरसि मुरली निस्वनैः स्तम्भयन्गा

यूथान्यूथान्पृथगरचयत्पाययित्वाथ पाथः ।

नानारङ्गैः स्वहृदि मणिभिर्यान्ति माला तयाऽसौ

नानावर्णानगणयदपि स्वान्श्रीहरिर्धेनुयूथान॥७६॥

सण्ख्यापूर्तौ भवति मुदितः स्वस्य किं वा सखीनां

सङ्ख्यान्यूने सपदि स गवां वेणुसङ्केतनादैः ।

तत्तन्नाम्ना स्वगणवियुताः शीघ्रमाहूया गास्तास्

तत्तद्यूथे चलति घटयंश्चालयंस्तान्व्रजाय ॥७७॥

आनन्दवृन्दावनचम्पू १३.२६२८—

गोधूलिधूम्रकम्रालकसदलिकास्तिर्यगुष्णीषबन्ध

प्रेङ्खोलत्कैङ्किरातस्तवकनवकलं बर्हिबर्हं दधानः ।

आवल्गत्कुण्डलश्रीदिनकरकिरणक्लान्तकर्णोत्पलान्तर्

निर्यत्किञ्जल्कलेशच्छुरितलघुतरस्विन्नगण्डान्तलक्ष्मीः ॥७८॥

मन्दप्रस्थानलीलामदमधुररणन्मञ्जुमञ्जीरनाद

श्रेणीसंवाद्यमानश्रुतिमृदुमुरलीस्वाननिष्णातकर्णः ।

अग्रे कृत्वाग्रजातं सहचरनिकरं पृष्ठतः पार्श्वतश्च

प्रेमानन्दस्तनूमानिव नयनवतां स व्रजं प्राविवेश ॥७९॥

श्रीकृष्णागमनोत्सवस्य कथनं सायाह्न एवाग्रतः

सन्धत्ते तदनन्तरं बहुतरीकुर्वन्ति गोधूलयः ।

सत्यं सत्यमितीव तद्दृढतरीकुर्वन्ति धेनुस्वनास्

तत्रैवावसरे मनो मृगदृशां मुष्णाति वेणुस्वनः ॥८०॥

अलङ्कारकौस्तुभः ९.३—

वल्गद्वल्गुवतंसमांसविगलन्मन्दारमालमिलद्

रोलम्बद्रुतिलम्बमानसुमनोधूलीभिराधूसरः ।

लीलाबन्धुरकन्धराञ्चलचलच्छ्रीकौस्तुभं भ्राजते

धावन्धृतधरो धराधरधरो धाराधरश्यामलः ॥८१॥

भागवतं १०.१५.४३—

तं गोरजश्छुरितकुन्तलबद्धबर्ह

वन्यप्रसूनरुचिरेक्षणचारुहासम् ।

वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं

गोप्यो दिदृक्षितदृशोऽभ्यगमन्समेताः ॥८२॥

कृष्णभावनामृत १६.२३—

इतो हम्बा हम्बाध्वनिभिरुपगोष्ठं निजसुतान्

आह्वयन्ति धावन्तिरखिलसुरभीर्वीक्ष्य सहसा ।

बलः श्रीदामाख्यैः सह सहचरैः सत्वरगतिर्

विषादाब्धेरम्बाः प्रथममुदहार्षीत्पुरि विशम् ॥८३॥

कृष्णाह्निककौमुदी ५.३६४०—

अथ मणिवलभातलस्थितानां

शुचिरससूत्सुकचेतसां वधूनाम् ।

नयनमधुकरावली ललम्बे

प्रियवदनाम्बुरुहे श्रियोऽवलम्बे ॥८४॥

प्रियतममुखपद्मबद्धलक्ष्म्याः

कमलदृशां सरसत्रपाः कटाक्षाः ।

कुवलयदलवर्षवत्प्रतीताः

सममनुपेतुरुपर्युपर्युपेताः ॥८५॥

तदपि तदवघातजातशातः

सुमधुरिमास्य मुखाद्य उत्पपात ।

कमपि तमयमेव वेद ताश्च

प्रविदुरसौ प्रविवेद मन्मथश्च ॥८६॥

मदमदिरदृशां कटाक्षपाताः

सितविशिखा इव दुःसहावघाताः ।

प्रतिनयननिपातमध्यभग्ना

अपि विभिदुः प्रियमग्रभागलग्नाः ॥८७॥

अयमयमितरेतरावलोकः

प्रणयसुधामधुरिम्णि सातिरेकः ।

इतरजनधिया क्षणं व्यनंशीत्

स्फुरदनुरागरसो न तु व्यरंसीत॥८८॥

कृष्णभावनामृत १६.२४३२—

इतः प्रेङ्खत्प्रान्तप्रमदमदभारान्तसदृशा

कृशाङ्गीरानङ्गीष्वतिरभसघूर्णासु विकिरन।

चलद्दामारामानुपमसुमनःकन्दुकपरि

ग्रहोद्वेपक्षेपप्रचितनवलावण्यजलधिः ॥८९॥

रुचाध्वानं नीलोत्पलवनमयीकृत्यदृगलि

व्रजानां कान्तालेर्मधुररससत्रं विरचयन।

व्रजन्मन्दं मन्दं मुखररसनानूपुरमलं

चकार श्रीकृष्णः प्रियसखवृतो गोकुलभुवम् ॥९०॥

अलं ह्रीदम्भेन प्रकटय चलद्भृङ्गविकसद्

दृगब्जं देवाग्रे पशुपतिरसावेति वरदः ।

अनेनैतत्पूजां वितनु वितनु द्रोहपटल

प्रशान्त्यै विद्धीमं क्षणमुशति राधेति शुभदम् ॥९१॥

त्वमेवामुं श्यामे त्वरितमुपधाव प्रकटित

द्युतिं हृद्याम्भोजस्तवकमुपनीयार्हणकृते ।

मुहूर्तेऽस्मिन्कामं सुमुखि यदि सम्पादयति ते

महेशोऽयं मज्जाम्यमृतजलधौ तत्स्वयमहम् ॥९२॥

मृषा मा त्वं वादीः कलय ललिते वल्लिपटलीः

समुत्फुल्लास्त्यक्त्वा मधुकरयुवा घूर्णति कुतः ।

सखि श्यामे सत्यं न्यपतदतुलामोद सरितो

भ्रमौ यन्मालत्यास्तदयमित ईष्टे न चलितुम् ॥९३॥

यदेत्थं संलापः प्रणयसरसीधोरणिरिव

श्रुती कृष्णस्यारादशिशिरयदानन्दपृषतैः ।

तदा श्रीराधास्यं मदिरधृतलास्यं दरदृशोर्

अवाप्याग्रं तस्य द्रुतमधिलतं निह्नुतिमगात॥९४॥

पिपासार्तौ हा मे दृगनघचकोराविह सुधाम्

उपेत्यमालक्ष्योन्नतविवृतचञ्चू अभवताम् ।

अरे धातर्धिक्त्वां वलदघ यदाभ्यां सपदि तां

प्रदायैवाहाषीरिति हृदि तदोचे गिरिधरः ॥९५॥

विमुञ्च त्वं लज्जे क्षणमपि दृशः कोणमपि मे

यथा ते नैवास्यं सकृदपि विलिह्यामघरिपोः ।

प्रसीदानन्दाभ्र त्वमपि नहि रुन्धी मम तनो

नमस्ते मां मा कम्पय चरणयोस्तेऽस्मि पतिता ॥९६॥

इति प्रेम्णा प्रोच्य स्वगतमतिधाऋष्ट्यं पुनरिदं

कथं कुर्यामित्थं व्यमृशदपि यावद्वरतनुः ।

विकृष्याल्यस्तावत्पटिमभरतो वल्लिकुहराद्

उपानीय प्रेष्ठाननचकितदृष्टिं व्यधुरिमाम् ॥९७॥

तां दृष्ट्वा सुबलस्तं प्रत्याह, उज्ज्वलनीलमणि ४.९१०—

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी

सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।

ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा

राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥९८॥

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि

निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।

हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्ÿप्तास्

तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥९९॥।

पद्यावली २५९—

भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित

ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।

गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने

सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥१००॥

कृष्णभावनामृतं १६.३३—

अपाङ्गाभ्यां यूनोर्नभसि यमुना धातृतनया

रसैरेकीभूता सुरसरिदुता चित्रमुदगात।

निमग्नौ यत्रैतद्धृदयकरिणौ द्रागुभयतः

प्रवाहायामास्तां विकचकमलालीक्षणततौ ॥१०१॥

गोविन्दलीलामृतं १९.९२९३—

श्रीराधिकापाङ्गविलोकनेषुणा

संस्पृष्टमर्मा स यथाकुलोऽभवत।

नान्याङ्गनाश्रेणिकटाक्षपत्रिभिः

सम्भिन्नसर्वावयवोऽप्यसौ तथा ॥१०२॥

यद्वत्सुनिर्वृतिमवाप स राधिकाया

वक्त्रेन्दुमन्दहसितामृतलेशसेकात।

तद्वन्न गोपसुदृशां वदनेन्दुवृन्द

प्रोद्यत्स्मितामृतझरप्रकरावगाहात॥१०३॥

कृष्णभावनामृतं १६.३४४०—

अपाङ्गाभ्यां यूनोर्नभसि यमुना धातृतनया

रसैरेकीभूता सुरसरिदुता चित्रमुदगात।

निमग्नौ यत्रैतद्धृदयकरिणौ द्रागुभयतः

प्रवाहायामास्तां विकचकमलालीक्षणततौ ॥१०३॥

ततो निष्पन्दाङ्गं रसिकमिथुनं तत्प्रियसुहृद्

गणो वर्त्मप्रान्तादितरजनशङ्काकुलमनाः ।

विकृष्यारात्तत्तत्पुरसरणिमानीय रभसात्

प्रबुद्धः प्रत्याशासित हृदमकर्षीत्पटिमभिः ॥१०४॥

जनन्या वात्सल्यं तनुमदिव पित्रोः किमसवो

बहिष्टाः श्रीकृष्णः स्वसदनमियायेति विदुषी ।

विशाखा प्राहैषीत्सपदि तुलसीमञ्जरिमथ

व्रजेश्वर्यै दातुं तदभिमतपीयूषबटिकाः ॥१०५॥

बलात्पाणिं नीव्यामहह मम धित्सत्ययमयं

विशाखे त्वं वीथ्यां कलयसि किमेतत्कुतुकिनी ।

यदुच्चैः क्रोशन्तीमपि न हि जहात्येष बत मां

सतीनां मूर्धन्यां तदिह कथयार्यां द्रुतमितः ॥१०६॥

प्रलप्यैवं राधा दरविकसिताक्षी समुदित

क्लमा प्रास्विन्नाङ्गी विततदवथुर्वेपथुमती ।

तनूं वीक्ष्य स्वीयां कुसुमशयनन्यस्तसुषमां

विलक्षालीराह स्मरपरिभवाद्गद्गदगिरा ॥१०७॥

क्व मे प्रेयान्वीथ्यां चकर किमहं निष्कुटभवं

किमेतद्वेश्माहो सखि गुरुपुरस्थं भवति किम् ।

इयं सन्ध्या प्रातः किमजनि किमहो स्विदभवन्

निशीथः किं निद्राम्यहह किमु जगर्मि वद तत॥१०८॥

त्वमारामाद्धामाम्बुजमुखि समायाः प्रियतमो

रहःकुञ्जे स त्वामरमयदथागात्स्वभवनम् ।

चिरात्खेदं पित्रोर्भृशमुपशमय्यैष्यति पुनर्

विधुः स त्वन्नेत्रोत्पलयुगविकाशार्थमधुना ॥१०९॥

यत्प्रागासीद्व्रजपुरसरोजीवनाद्विच्युतं द्राग्

उग्रैस्तापैर्विरहरविणोत्पादितान्तर्विदारम् ।

कृष्णाम्भोधे मिलति रभसादेतदानन्दधारा

सारैः पूर्णं त्वरितमभवत्फुल्लपङ्केरुहासाम् ॥११०॥

इति श्रीश्रीभावनासारसङ्ग्रहे अपराह्नलीलास्वादनं नाम

पञ्चमः सङ्ग्रहः ॥

॥५॥

(६)

षष्ठसङ्ग्रहः

अथ सायाह्नलीला

सायन्तनीं कृष्णमनोज्ञलीलां

स्नानाशनाद्यां हि मुहुर्विचिन्त्य ।

स्वभक्तमध्येऽनुकरोति नित्यं

तां यो मनस्तं भज गौरचन्द्रम् ॥१॥

गोविन्दलीलामृतं २०.१—

सायं राधा स्वसख्या निजरमणकृते प्रेषितानेकभोज्यां

सख्यानीतेशशेषाशनमुदितहृदं तां च तं च व्रजेन्दुम् ।

सुस्नातं रम्यवेशं गृहमनु जननी लालितं प्राप्तगोष्ठं

निर्व्यूढोस्रालिदोहं स्वगृहमनु पुनर्भुक्तवन्तं स्मरामि ॥२॥

कृष्णभावनामृतं १७.१२१—

द्वौ भवन्तौ विधुरतुलयत्पद्मिनीनित्यबन्धू

कृष्णस्तत्रावनिमयमयात्पाण्डुरं खं लघिष्टः ।

धातैवाप प्रथितमधिकं किन्तु मौढ्यं स एकः

को वा हैमं गणयति सुधीः सर्षपार्धेन सार्धम् ॥३॥

उद्यन्नक्तं दिवमपि जगल्लोचनानन्दधारा

निर्माणार्थं स्थिरचरततेः प्रेमधर्मप्रकाशी ।

माधुर्याब्धिर्मृदुलकिरणो गोपरार्धप्रचारी

हारो लोकान्तरसुतमसमानभ्रविभ्रजितश्रीः ॥४॥

कष्टाम्भोधेः परमतरणिभीरुहृच्चक्रवाक

द्वन्द्वस्यारात्करवितरणेनावनेर्भाग्यराशिः ।

मित्रश्चित्रातुलगुणखनिः किं गवाधीश्वराशा

पूर्त्यै गच्छन्हतभगदृशो हि जिहासत्ययं नः ॥५॥

इत्थं स्वःस्त्रीजनकलकलैर्लाघवं स्वं विवस्वान्

मेने श्रोत्रामृतमिव कृती यत्तदाशानुगामी ।

मूढाऽमंस्तात्मनि वरुणदिङ्नागरीसौभगं यन्

मन्ये तेनाप्रकटयदिदं हन्त मिथ्यानुरागम् ॥६॥

कृष्णोऽगच्छद्यदनु विशिखहर्म्यगत्रीजनेऽश्रुस्

तिम्यत्पुष्पाञ्जलिकिरि दरोदञ्चयन्लोचनान्तम् ।

स्वःसुन्दर्यः पुलकितनवोऽमंसत स्वस्वभाग्यं

तेन स्थाने क्वचन सुदृशां मुग्धता दोग्धि मुदम् ॥७॥

याते पितोर्नयनपदवीं तत्पुरान्तःप्रविष्टे

तद्वात्सल्यामृतजलनिधौ मज्जति श्रीमुकुन्दे ।

तं ज्ञात्वाक्ष्नोरविषयमभूद्भानुरङ्गारतुल्यस्

तत्प्राप्त्यर्थं किमनु लवणाम्बोधिमासीन्मिमङ्क्षुः ॥८॥

तद्विश्लेषज्वरशमलवेऽप्यक्षमा यर्ह्यभूवन्

गान्धर्वाया विसकिसलयोशीरचन्द्राम्बुजाद्याः ।

काप्यागत्य व्यधितललितादेशतस्तर्हि तस्यास्

तद्वृत्तान्तामृतरसपृशत्सेचनं कर्णरन्ध्रे ॥९॥

संज्ञां लब्ध्वा हरिणनयना सम्भ्रमादुत्थितोचे

तप्ताश्रान्तं श्रवनमरुभूरालि धन्या ममाभूत।

अस्यां स्वप्नेऽन्वभवमधुनापूर्वपीयूषवृष्टिं

धिन्वत्येषा तदिह सखि मां शीतलीवो भवीति ॥१०॥

आयातेयं सुमुखि तुलसीमञ्जरी गोष्ठराज्ञ्या

गेहात्सख्युस्तव यदवदद्वृत्तमस्मादजागः ।

इत्युक्त्वाल्या वद पुनरपीत्यम्बुजाक्ष्यादिदेश

प्रेयःसायन्तनगुणकथां प्राह मध्ये सभं सा ॥११॥

तातस्याक्ष्नोः पदमुपययावादितो गोपुराग्रे

कृष्णो दोर्भ्यां पुलकिततनोरुद्गृहीतोऽथ सद्यः ।

निष्पन्दस्योरसि चिरमयं भ्राजते स्म स्थिराङ्गः

कैलासान्तःसरसि विकशन्नीलपद्मं यथैकम् ॥१२॥

उष्णीषाग्रं दर विघटयन्नश्रुभिः सिच्यमानं

शीर्षं जिघ्रन्पिहितमकरोदास्यमस्य व्रजेशः ।

मन्ये चन्द्रं विमलशरदम्भोद आवृत्य तस्य

ज्योत्स्नजालैः स्वमलमकरोदात्मतापापनुत्यै ॥१३॥

यान्ती गेहादजिरमजिराद्गेहमायान्त्यथ या

शुष्यद्वक्त्रानयदतिरुजैवान्तिमं याममह्नः ।

सा गोष्ठेशा तरणितनये नेत्रयुग्मात्कुचाभ्यां

जह्नोः कन्ये असृजदिव तं प्रेक्ष्य सूनुं समीपे ॥१४॥

नाङ्के कर्तुं वलितजडिमा सन्नकण्ठी न वार्तां

प्रष्टुं नापीक्षितुमपि यदि प्राभवत्साश्रुपूर्णा ।

दीपावल्या कलितललितारात्रिकं राममातै

वास्याः क्रोढे करधृतमुपवेशयत्तर्हि कृष्णम् ॥१५॥

किं वात्सल्यामृतजलनिधिं जन्मभूमिं विधुस्ताम्

अध्यास्ताहो किमु निजखनिं प्रेममाणिक्यराजः ।

किं कस्तूरीद्रवचिततनोः स्नेहपीयूषपुत्र्याः

कुक्षेर्भूषा हरिमणिरभादर्पितः साधु धात्रा ॥१६॥

यावन्मामाकलय जननीत्यक्षिधारां स्वहस्ते

नोन्मृज्यास्याः स मुदमतनोन्नीतिहंसीतडागः ।

गोधूलीनां तातमधि तनुक्षालयद्भिः पयोभिः

स्तन्यैरेव व्यरचि रुचिरं लालनं तस्य तावत॥१७॥

आनन्दोर्मिष्वनुपरमणीष्वप्यमुं चेतयन्ती

कृत्ये प्रवर्तयदभिमते यर्हि वात्सल्यलक्ष्मीः ।

तर्ह्येवासौ स्वतनयतनुं पाणिनामृज्य दासीर्

अस्याभ्यङ्गस्वपनलपनोन्मार्जनादौ न्ययुङ्क्त ॥१८॥

वत्स स्वच्छप्रणय सदने वर्तते या निषण्णा

मन्ये नास्यां तव दरदयाप्युद्भवेदाकुलायाम् ।

यातस्तात स्वकुलकमल त्वं वनं यत्स्मृतेरप्य्

एनां सङ्गे न हतजननीमानयस्येकदापि ॥१९॥

अह्नि प्राप्तेऽप्युपरममिहात्यन्तदैर्घ्येऽपि जातं

त्वं नायासि स्वगृहमदराम्रेडितोऽपि स्वपित्रा ।

क्षामो व्यामोहयसि यदमून्क्षुत्पिपासासहः स्व

द्रष्ट्èन्बन्धूंस्तदलमसुभिर्मातुरेतैः कठोरैः ॥२०॥

अम्बावेहि त्वमति चटुलं प्लावितं खेलनाब्धौ

बालालीभिर्मम सवयसं स्वं च न स्मर्तुमीशम् ।

शिष्टोऽस्म्येको न यदिममितोऽवारयिष्यं तदायं

नैष्यत्सम्प्रत्यपि गृहमिति प्राह राज्ञीं बटुः सः ॥२१॥

तथ्यं ब्रूषे कथमपि न मे मन्यमाना निषेधं

बाला एव प्रखरनखराः प्रत्यहं बाहुयुद्धे ।

नीलाम्भोजादपि मृदु बलादङ्कयन्त्यस्य गात्रं

तत्किं कुर्वे चपलतनये नात्र कोऽप्यस्त्युपायः ॥२२॥

इत्थं तत्संलपितमपि तत्राहमाकर्णयन्ती

कृत्यं तत्कालिकमकरवं यत्तदादिष्टमिष्टम् ।

रोहिण्यागादथ रसवतीं पौर्णमासीकिलिम्बा

धात्रीगार्ग्यादिभिरपि सहालालयं सा स्वसूनुम् ॥२३॥

कृष्णाह्निककौमुदी ५.४८५१—

क्षणमजिरतले विलम्बमाना

व्रजपतिपत्न्यतियत्नसावधाना ।

सुतपरिचरणाय बालभृत्यान्

समुपदिदेश निसर्गचारुकृत्यान॥२४॥

अहरत कतमः प्रकृष्टतुष्टी

रसिकवरस्य विषाणवेणुयष्टीः ।

उदहृत वनमालिकामथान्यः

समकृषदाभरणानि कोऽपि धन्यः ॥२५॥

उदहरदवतार्य मौलिबन्धं

मृदुतरकञ्चुकमञ्चितप्रबन्धम् ।

अवयववलयादतीवसारः

सुरभिरजांस्यपसारयाञ्चकार ॥२६॥

वसनमितर आशु लम्भयित्वा

मुखपदपद्ममधावयन्मुदित्वा ।

कचभरमथ कङ्कतीमुखेन

प्रचुरमशूशुधदुद्यता सुखेन ॥२७॥

श्रीगोविन्दरतिमञ्जरी ५.५२—

कृतिभिरवयवोऽस्य चारुशीलैः

सुरभुसुरागसुपक्वदिव्यतैलैः

प्रणयपटुभिरभ्यमर्दि दासैर्

मृदुतरमानखमूर्धमन्दहासैः ॥२८॥

कृष्णाह्निककौमुदी ५.५३६४—

मसृणघुसृणगन्धसारचूर्णैर्

घनघनसाररजोभरेण पूर्णैः ।

अकृत तनुविरुक्षणं च कश्चित्

प्रणयविलासकलावशो विपश्चित॥२९॥

अकृत कचविशोधने प्रकर्षं

सुरभितरामलकीकषायघर्षम् ।

घनतरघनसारसारगन्धैर्

अपघनसेकमकल्पयत्कबन्धैः ॥३०॥

मृदुसितसिचयाञ्चलावलिभिर्

ममृजू रथाङ्गकमङ्गमार्जनीभिः ।

कचभरमपि निर्जलीचकार

स्तिमितपटेन निपीड्य कोऽप्युदारः ॥३१॥

स्तिमितवसनमाशु हापयित्वा

पटमपरं मृदु पीतमापयित्वा ।

अतिमृदुलमतीव दर्शनीयं

व्यधित महोरसि पीतमुत्तरीयम् ॥३२॥

अकृत कचकलापमम्बुरिक्तं

पुनरपि कङ्कतिकामुखोपरक्तम् ।

शिरसि च मृदुसूक्ष्मचारु शुभ्रां

कचभरवेष्टनिकां चकार दभ्राम् ॥३३॥

अलिखदलिकमध्यमत्युदारं

तिलकमनिन्दितगन्धगन्धसारम् ।

अलिपत घनसारसारिताङ्कैर्

वपुरघनैर्हरिचन्दनस्य पङ्कैः ॥३४॥

अथ मणिमयमण्डनानि गात्रे

न्यधित यथासमयानि चारुचित्रे ।

चरणयुगमकल्पयत्सुधौतं

मणिमयकाञ्चनपट्टिकोपनीतम् ॥३५॥

लघु ललितमहो विशन्स सद्म

प्रियसखपाण्यवलम्बिपाणिपद्मः ।

परिहृतमणिपादुको विनम्रः

पितरमवन्दत भक्तिभावकम्रः ॥३६॥

दृढतरमौप्गृह्य तेन हर्षे

प्रसरणमीयुषि शिङ्घितः स शीर्षे ।

अभजत वरमासनं स तेनाप्य्

उपविशतानुमतः शनैरनेनाः ॥३७॥

चिरमुपचरितः स चैवमेव

स्वपरिजनैर्विरराज रामदेवः ।

पितरमवननाम सोऽप्यमन्द

प्रणयवशादुपगूह्य चाननन्द ॥३८॥

व्रजपतितनयद्वयद्वितीया

शनसमयोचितपाकपालनीया ।

अघरिपुजननीं पुरोगमा ताम्

अजनि पचेति जगाद राममाता ॥३९॥

व्रजपतिगृहिणीङ्गितप्रणुन्ना

नवनवदासकदासिकाः प्रसन्नाः ।

व्यधिषत मणिपीठपात्रभृङ्गा

रकमुचितस्थलसङ्गि जातरङ्गाः ॥४०॥

कृष्णभावनामृतं १७.२३२५—

सार्धं मित्रैः सपदि विहितस्नानभूषानुलेपं

रामं कृष्णं बटुमपि सुखेनोपवेश्य व्रजेशा ।

आदाविष्टं सुरभिशिशिरं पानकं पाययित्वा

नानाभेदं त्रिविधमथ सा भोजयामास भक्ष्यम् ॥४१॥

एतद्वोऽतिप्रियमिति यदा सीधुकेल्यादि तेभ्यो

युष्मद्पक्वं बटकपटलं पञ्चभेदं ददौ सा ।

सस्नौ पञ्चेन्द्रियमपि तदैवासु तेषां प्रमोदैस्

तत्सौरभ्यम्रदिमसुरसाख्यानरूपामृताब्धौ ॥४२॥

एतद्गन्धोऽप्यनुभवपथं यस्य भाग्योदयासीत्

तस्मै स्वर्गो जननि किमितो रोचते वापवर्गः ।

धिग्धातरं यदयमुदरं नैव चक्रे विभुं मे

ये मा देहीत्यभिदधति तान्सागसोऽत्र ब्रवीमि ॥४३॥

गोविन्दलीलामृतं २०.१५—

हसन्तो हासयन्तस्ते मधुमङ्गलनर्मभिः ।

भुक्त्वा पीत्वा मुदाचम्य क्षणं तल्पे विशश्रमुः ॥४४॥

कृष्णाह्निककौमुदी ५.७२७४—

प्रथमविधृतवेशभूषणानां

कृतपरिवर्तनमन्यथाकृतानाम् ।

समयसमपरिग्रहं विधाय

प्रयततिरेऽङ्घ्रिसरोजधावनाय ॥४५॥

अथ सुखमुखवासवासितास्यः

स्फुरदमृतद्रवमुग्धमन्दहास्यः ।

सुविहितपितृमातृवन्दनान्तः

स बहिरभूदघमर्दनोऽङ्गनान्तः ॥४६॥

अमृतकरकदम्बकापवाद

क्षममधुराननमण्डलप्रसादः ।

सहचरकृतसद्गुणानुवादः

प्रियमणिपादुकयोपगूढपादः ॥४७॥

गोविन्दलीलामृतं २०.२३—

दासा भृङ्गारताम्बूलपात्रव्यजनपाणयः ।

निर्योगपाशवेत्रादिधारिणस्ते तमन्वययुः ॥४८॥

कृष्णाह्निककौमुदी ५.७५—

विदधदनुचरांससीम्नि वामं

भुजमपरेण करेण चाभिरामम् ।

प्रियसहचरदत्तनागवल्ली

च्छदनमदन्प्रविवेश घोषपल्लीः ॥४९॥

कृष्णभावनामृतं १७.२७३५—

इत्येतस्या मुखविधुवरादञ्चलग्रन्थितश्च

प्राप्तै राधा सहसवयसा प्रेयसस्तैरभीष्टैः ।

लीलाफेलामृतरसभरैः श्रावणीरासनीभ्यां

मुद्भ्यां सिक्तानकृत शिशिरान्निम्नगाभ्यामिवासून॥५०॥

निःसृत्यासावथ गुरुपुरादेत्य कासारतीरं

तत्रोद्यानान्तरगतवरक्षौममारुह्य सालिः ।

वक्त्रज्योत्स्नामधयदपराऽलक्षिता यन्मुरारेस्

तेनाविन्दन्मुदमुदयिनीं चक्षुषीमप्यपाराम् ॥५१॥

आस्योदञ्चत्कुटिलचिकुराच्छादकोष्णीषराजे

मुक्तामुक्ता दर चलति किं कानकी सूत्रपङ्क्तिः ।

किं वा चन्द्रोपरि घनतमोग्रासकोद्यद्द्युरत्न

द्योते विद्युल्लसति चपला भावलिप्रोतमूला ॥५२॥

धर्मध्वान्तं व्रजकुलभुवां भिन्दती स्वैर्मयूखैर्

एते गण्डद्वयमनुचले कुण्डले नाघशत्रोः ।

अग्रे स्थातुं तरणियुगलं नेशमेवाननेन्दोः

पार्श्वद्वन्द्वं भजति नटनैः प्रीणनार्थं यदस्य ॥५३॥

कन्दर्पो यत्स्वमकरयुगं कर्णबन्धं व्याधान्नो

विध्यन्नस्येक्षणशितशरैर्बाढमेकाग्रचित्तः ।

तत्रोत्तंसस्तुवदलिघटाझङ्कृतित्रस्तमेतद्

यत्नान्मौग्ध्यादपसृतिकृते हन्त किं वा विधत्ते ॥५४॥

स्वच्छं स्निग्धं नयनयुगलं प्राप ये हन्त कान्ते

ते तारे सम्भृतमदभरे चञ्चले द्रागभूताम् ।

ताभ्यां ये वाजनिषत सुतास्ते जनान्तःपुरेभ्यः

कृष्ट्वा कृष्ट्वा धृतिकुलवधूर्दूषयन्ते कटाक्षाः ॥५५॥

सर्वाशोद्यत्तरसि दृशि यद्दस्यवोऽनङ्गनद्यां

हर्षोत्सुक्या धृतिमदमुखाः सन्ति सञ्चारिणोऽमी ।

तारानाम्नीं हरिमणिमयीं नावमाश्रित्य लोलां

तद्रामाणां नयनवणिजां लुण्ठनायेति विद्मः ॥५६॥

नैतन्मन्दस्मितमुदयते शोणबिम्बाधरौष्ठात्

बन्धूकाभ्यां जगदलिकृते च्योतिते नो मरन्दः ।

लक्ष्यीभूते मम सखि दृशौ वैद्रुमस्मारयन्त्रोन्

मुक्तं पश्य प्रविशति बलात्किन्तु कार्पूरनीलम् ॥५७॥

निर्वर्ण्यैवं प्रियमुखविधुं तं ह्रियेवोर्मिमध्ये

हर्षाम्भोधेः सपदि विशतीं चेतयन्ती विशाखा ।

प्रोचे पश्य प्रिय सखी हरेर्दोहलीलां यदर्थं

सायं श्वश्रुगिरमतिकटुं वेत्सि पीयूषकल्पम् ॥५८॥

कृष्णाह्निककौमुदी ५.७६८४—

विकसितकुमुदेक्षणा त्वरा या

विगलितभास्करनिष्कशुष्ककाया ।

तमभजदथ सौभगादसूक्ष्मी

भवदनुरागरसा प्रदोषलक्ष्मीः ॥५९॥

परितः उपपतत्सु पक्षिलक्षेष्व्

अपरिमिते स्वकुलायकेलिवृक्षे ।

अनुभवनतलं ज्वलत्सु दीपेष्व्

अकिरणधूसरिते दिशां समीपे ॥६०॥

दिशि विदिशि रुवत्सु तर्णकेषु

प्रतिरुवतीषु च वत्सलासु गोषु ।

प्रसरति च गवां द्वितीयदोहे

सति सति गोपकुले निरस्तमोहे ॥६१॥

तमुपनतमभीक्ष्य दिव्यरूपैः

सुरभिरुतश्चलमङ्गलप्रदीपैः ।

सुरभिगृहरुचो भवन्नुलूला

रवरसनाचलनादिवानुकूलाः ॥६२॥

अथ हरिहरिदङ्गनाभिरामं

हरिमवलोकितुमुत्सुकेव कामम् ।

लघुतरमुदनीनमत्सरागं

हिमकिरणाननमुन्महःपरागम् ॥६३॥

विघटयदिव सर्वतो विसारां

तिमिरपटीमवगुण्ठनप्रकाराम् ।

मुखमिह हरिदिग्विलासवत्या

विधुरुदियाय चिराभिलाषवत्याः ॥६४॥

शशधरधवलासु तासु गोषु

स्फटिकघटाचटुलासु कौमुदीषु ।

असितखुरविषाणकान्तिभेदाद्

उदयति गोधनधीर्विधूतखेदा ॥६५॥

तुलितरजतशैलगण्डशैलः

सुखमकरोच्छयनं स्वतन्त्रलीलः ।

वृषवृषभगणस्तु तत्र सायं

गृहमुनिवत्स यतस्ततोऽनपायम् ॥६६॥

ललितमखिलगोगृहाङ्गनेषु

स्फटिकमहापृथुदण्डमण्डितेषु ।

पदकृतमणिपादुकः स गोष्ठ

श्रियमभिवीक्ष्य मुमोद मुद्वरिष्ठः ॥६७॥

कृष्णभावनामृतं १७.३६४०—

उत्कर्णानां धवलिशवलीत्येवमाहूयते या सा

गौर्हम्बेत्युदितविदितोल्लङ्घ्य सर्वाः समीपम् ।

आयाताश्रुस्तिमितनयनपाणिना मृष्टपृष्टा

कण्डूयाभिर्दरगिरिभृता प्रीणितादौ बभूव ॥६८॥

उद्यत्पाऋष्णिः प्रकटयुगलालम्बितष्मोधिजानु

न्यस्तेऽमत्रे सखि मणिमये बिम्बित श्रीमुखेन्दुः ।

गोतुन्दस्पृग्दरशिथिलितोष्णीषनिर्यन्मदालि

श्रेणिजिष्णुद्युतिमदलकस्त्यक्तलास्येक्षनाब्जः ॥६९॥

इष्ट्वा क्षौणीं प्रथमपयसो धारया ताभिरेव

द्वित्राभिः स्वाङ्गुलिकुलमथोधोन्चलीं चोन्दयित्वा ।

तां तेनैवान्न मदवनमत्पाणिपद्मं दधानो

दोहन्त्यन्तः शनशनशनद्घस्मघस्मेति घोषैः ॥७०॥

उद्यत्कर्णाः शशिमुखि परास्तत्र सोत्कण्ठयन्गाः

सद्यः प्रोद्यत्तदमलकणैश्चित्रतस्वोरुजङ्घः ।

ग्रीवभङ्गोदितरुचिगवा तर्णकेनापि सश्रैर्नेत्रैः

पीतद्युतिनवसुधो दोग्धिं दुग्ध प्रियस्ते ॥७१॥

मुष्णोपेहि त्वरय नय मे देहि याहीति गावो

नानावर्णाः परमविषदा दुह्यमानाश्च गावः ।

तत्रत्या या गिरिधरतनोः श्यामला याश्च गावस्

ता दुष्पार इह परिमिताः किं कवेर्मान्ति गावः ॥७२॥

गोविन्दलीलामृत २०.३२३५—

वत्सा निपीयोदरपूरमुच्चकैस्

तृप्तिं गता गोपगणा यथेप्सितम् ।

दुग्ध्वा निवृत्ताश्च गवां तथाप्यहो

नोधःपयःपूर्तिरवाप हीनताम् ॥७३॥

कृष्णाननाब्जार्पितनेत्रचेतसां

गवां स्वयं संस्रवदौधसं पयः ।

गोपाः स्तनाधो धृतकुम्भसञ्चयैः

सम्भृत्य निन्युः पुरतो व्रजेशितुः ॥७४॥

प्रवेश्य गोपैर्निजमातृलालितान्

वत्सालयं वत्सगणान्बलान्वितः ।

गास्ता यथास्थानमसौ निवेश्य च

व्रजाधिपस्यागमदन्तिकं हरिः ॥७५॥

प्रस्थाप्य दुग्धानि गृहं स भाविकैर्

गवालयद्वार्षु नियुज्य किङ्करान।

समं सुताभ्यां सुहृदां च सञ्चयै

राजा व्रजस्याव्रजदात्ममन्दिरम् ॥७६॥

कृष्णभावनामृतं १७.४१—

दुग्ध्वा कृष्णः प्रियसखदृशा सूच्यमानां कदाचित्

राधां याति प्रणयभरतः कर्हिचित्स्वालयाय ।

ग्रीष्मे सायं सरसि रसिकास्तापशान्त्यै कदापीत्य्

एवं लीलामृतजलनिधौ तस्य मज्जन्ति धन्याः ॥७७॥

इति श्रीश्रीभावनासारसङ्ग्रहे सायन्तनलीलास्वादनं नाम

षष्ठः सङ्ग्रहः ॥

॥६॥

ओ)०(ओ

(७)

सप्तमसङ्ग्रहः

अथ प्रदोषलीला

समुत्कण्ठासन्नाकलितहरिवार्ता बत यथा

भिसृत्यासौ राधा हरिमपि निकुञ्जे गतवती ।

तथात्मानं मत्वा कटिनिहितपाणिर्विशति च

स्खलन्गच्छन्गौरो नटति धृतकम्पाश्रुपुलकः ॥१॥

गोविन्दलीलामृतं २१.१—

राधां सालीगणान्तामसितसितनिशायोग्यवेशां प्रदोषे

दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्पागकुञ्जाम् ।

कृष्णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा

यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि ॥२॥

कृष्णभावनामृतं १८.६१०—

अपि गुरुपुरमध्ये दृक्कबाटावरुद्ध

स्वतनुकनकवेश्माभ्यन्तरस्वान्ततल्पे ।

प्रियतममधिवेश्यारीरमद्या तदा तां

सुखयितुमथ राधामागतेन्दुप्रभोचे ॥३॥

विधुररुचिरसि त्वं यं विना हन्त राधे

विधुररुचिरभूत्स त्वं ऋतेऽन्यस्तथापि ।

भवति हृदयहारी स त्रिलोक्यास्तबाहो

भवति हृदयहारी भूततां लब्धमुत्कः ॥४॥

रचय सखि तदस्योदन्तपीयूषवृष्टिर्

इति रहसि विशाखा प्रार्थ्यमाना तदा सा ।

यदवददिदमालीसंहते रंहसारात्

पपुरजरतृषस्ताः कर्णपालीचकोर्यः ॥५॥

गिरिधरबलदेवालङ्कृतात्मद्विपार्श्वो

व्रजधरणीवरेण्यो भोजनायोपविष्टः ।

धनपतिरिव शोभामाप नन्दीश्वरान्तः

पुरसदसि निधिभ्यां पद्मशङ्खाभिधाभ्याम् ॥६॥

प्रतिरजनि निमन्त्र्यानीयमानैः सपुत्रैर्

हरिवदनचकोरैः सादरैरावृतोऽसौ ।

परित उपविशद्भिः प्रेमभूभृद्भिरुच्चैस्

तुहिनगिरिरिवाभान्मूर्त आनन्दपुञ्जः ॥७॥

गोविन्दलीलामृतं २०.४५५३—

तुङ्गी सुभद्रजननी जननीतिविज्ञा

विज्ञापिता व्रजपया परिवेशनाय ।

भोज्यं क्रमात्परिविवेश सरोहिणीका

विप्रात्मजस्वधरदेवरपुत्रकेभ्यः ॥८॥

सत्सौरभैः कनकवर्णघृताभिषिक्तैः

स्तूपीकृतैर्विविधतेमनपात्रयुक्तैः ।

स्थालीर्भूताः सुमृदुलैर्विशदोदनैः सा

सन्दानिकोपरि पुरो निदधे स्म तेषाम् ॥९॥

जेमत्सु तेषु परिवेशयति क्रमात्सा

शेषाणि भूरिविधषड्रसतेमनानि ।

संयावपायसलसद्बटकानपूपान्

सद्भाजनान्तरधृता मृदुरोटिकाश्च ॥१०॥

यस्य यस्य प्रियं यद्यत्तज्ज्ञात्वाथ रोहिणी ।

इङ्गितेन व्रजेश्वर्यास्तस्मै तत्तदसौ मुहुः ॥११॥

दुग्धं घनं शिखरिणीं मथितं रसालां

सत्षाडवं दधि घनं बहुसन्धितानि ।

पक्वाम्रसद्रसमपि व्रजराजराज्ञी

तेभ्यः क्रमेण परिवेशयति स्म शश्वत॥१२॥

सर्वं भोजयितुं समुत्सुकमनोवाग्दृक्प्रकाशीकृतैर्

गूढैर्मातृततेः स्फुटैः पितृततेः स्नेहद्रवच्चेतसः ।

बाष्पक्लिन्नतनोस्तदाग्रहशतैः कृष्णादयः प्रेरिताः

संतृप्ता अपि ते मुहुर्बुभुजिरे नान्तं मुदां चाययुः ॥१३॥

द्वयं व्यस्तमभूत्प्रातराशात्सायन्तनाशने ।

गाम्भीर्यनर्मणि बटोर्गूढता मातुराग्रहे ॥१४॥

अस्वाच्छन्द्यं यदपि लपितान्योन्यहासक्रियादौ

कृष्णादीनामभवदशने लालने चापि मातुः ।

प्रातर्भुक्तेस्तदपि शतधा सग्धितस्तातमुख्यैस्

तेषां सौख्यं तदवकलनात्कोटिधासीच्च तस्याः ॥१५॥

वक्त्रेन्दोः स्मितसम्पदा व्रजविधोस्तद्वाक्सुधाबिन्धुभिस्

तत्सौरभ्यविमिश्रदूपविसरैस्तत्तालवृन्तानिलैः ।

तच्छ्रीसन्ध्यामृताभिषिक्तमधुरैर्भोज्यैश्च संलेभिरे

ते पञ्चेन्द्रियतृप्तिजामतितमां सम्भोजनीयां मुदम् ॥१६॥

कृष्णाह्निककौमुदी ५.७१—

पृथगथ परिचारकोपनीतैर्

मणिकनकालुकया भृतैः सुशीतैः ।

अतिसुरभितैर्जलैः सरामः

सहजनकः ससखः स चाचचाम ॥१७॥

कृष्णाह्निककौमुदी ५.८९९७—

पितृपुरसविधे पुरं यदीयं

बहुमणिकाञ्चनमञ्जुरञ्जनीयम् ।

उपवनमभितश्च यत्र दिव्यं

शयनगृहादि च यत्र नव्यभव्यम् ॥१८॥

नवनवतरुवीर्धावलीकं

कुसुमितकुञ्जकुटीरनिर्व्यलीकम् ।

मणितटसरसीविहारिहंसं

यदुपवनं कलकोकिलावतंसम् ॥१९॥

कुसुमदलकूलावतंसमुक्ता

मयवलया दिवि भूसणोपरक्ताः ।

मलयजघनसारपङ्कदिग्धाः

सितसिचयाः करिदन्तपत्रमुग्धाः ॥२०॥

स्मितभवदशनांशुपुष्टदोषा

करकिरणाः प्रियसङ्गभावितोषाः ।

रजनिषु घनचन्द्रिकाभिरामास्व्

अभिसरणं रचयन्ति यत्र रामाः ॥२१॥

शयनसमयसेवनावलम्बैर्

नवनवसेवकसेविकाकदम्बैः ।

निरवधि परिमृष्टसिक्तकृष्णा

गुरुगुरुधूपसुधूपिताप्यनुष्णा ॥२२॥

सुरभिकुसुममालिकाकृताभिर्

नवनवमण्डनिकाभिरुत्तमाभिः ।

मणिकलसशिखालसत्पताका

वलिभिरपि प्रियकान्तिकन्दलीका ॥२३॥

विरजसगजदन्तशिल्पभाजा

मणिगणकाञ्चनखट्टयात्तपूजा ।

उपचितवपुषेव दुग्धफेनैर्

मृदुकशिपूत्तमसुन्दरोपधानैः ॥२४॥

शशधरमणिदण्डरुग्गवाक्षा

गतशशिरश्मिसिताभ्रधूलिलक्षा ।

प्रतिविलसति यत्र तल्पशाला

मणिमयपञ्जरमञ्जुकीरमाला ॥२५॥

शिशयियुरथ तद्विलोभनीयं

वरपुररत्नमयत्वशोभनीयम् ।

न्यविशत सुकुमारदासदासी

गणसहितोऽघनिहा महाविलासी ॥२६॥

कृष्णभावनामृतं १८.१५२४—

अधि वलभिवलक्षे सक्षणं पुष्पतल्पे

रहसि स हसितास्यैरावृतः स्वैर्वयस्यैः ।

यदवददवसादप्रस्तुतौ ते स्तुवानो

मधुरिमगरिमाणं श्रुयतां तच्च राधे ॥२७॥

सरसमनुगवीनस्यापराह्ने भवद्भिः

सममसममहिम्नोऽप्यञ्जसा गच्छतो याः ।

मम धृतिततिमद्यन्नद्य गोष्ठप्रदेशे

कथय सुबल ता मां मोहयित्र्यो रुचः काः ॥२८॥

अहह मधुरिमाब्धेः किं सुधामथ्यमानात्

किमिति ललितविद्युद्वीचयो वस्त्रपूताः ।

किमु परिमलनीवृन्मूर्तिसाम्राज्यलक्ष्म्यः

किमतनुविशिखानां राशयश्चम्पकानाम् ॥२९॥

तदुपरि घुसृणाक्तां किं सरोजं प्रफुल्लं

शुचिजलधिजनिर्वा क्षोभनः कश्चनेन्दुः ।

मणिमयमदिराभ्यां तस्य चाङ्के नटद्भ्यां

मम दृगुपसरन्त्येवादिता पुच्छघातैः ॥३०॥

किमिदमहह वस्त्वित्यूढसम्भ्रान्तिमूढे

तदनुभवलवस्यापंशमारब्धकामे ।

मयि घनजलदाल्येवावृतं सद्य एव

व्रततिततिषु लीनं प्रभावं तन्न लेढुम् ॥३१॥

सपदि नयनयुग्मोद्दिष्टवर्त्मा तदागान्

मम हृदयभटन्तन्मार्गणार्थं समर्थः ।

न पुनरयमिदानीं यत्परावर्तते तद्

वनभुवि कुसुमेषो बन्धमापेति बुध्ये ॥३२॥

अघहर भवता यालोक्यत श्लाघ्यरूपा

तदवधि धुतधैर्या सापि राधाधिधारा ।

विविधदवथुपात्री स्वाः सखी रोदयित्री

विलुठति गलदक्ष्नोर्धारया धौतगात्री ॥३३॥

अयमयमयते त्वां तन्वि धिन्वन्मुकुन्दो

रसनिधिरथ स क्व क्वेति संलापशेषे ।

प्रथमरजनिजातं ध्वान्तमालक्षयन्ती

शमयति रुजमस्या व्रीडयाथावृताङ्ग्याः ॥३४॥

इति सुबलवचोभिः कृष्णनेत्राम्बुजाभ्यां

प्रणयिणि पृषता द्रागानुपूर्व्या निपेतुः ।

हिमकरकरराजिभ्रान्तितो भूक्तपूर्वां

ववमतुरिव मुक्तां मञ्जुचञ्चू चकोरौ ॥३५॥

परिचरणपरां मां तस्थूषीं तत्र दृष्ट्वा

न्यदिशदयममन्दोत्कण्ठया कुण्ठितास्यः ।

उप सुरतरु राधा भानुपुत्र्यास्तटे माम्

अभिसरतु रसेनेत्याशु तां ब्रूहि गत्वा ॥३६॥

गोविन्दलीलामृतं २०.५७६१—

अथ व्रजेशा तुलसीं सहालिकां

कृताग्रहा भोजयितुं धनिष्ठया ।

अभाणि सेयं प्रथमं न राधिकां

विनात्ति भोज्यं न जलं पिबत्यपि ॥३७॥

सा श्रुत्वा स्नेहरीतिं तां प्रीताहान्नं सतेमनम् ।

ससखीवृन्दराधार्थमाभ्यां प्रस्थापय द्रुतम् ॥३८॥

ततो धनिष्ठा हरिभुक्तशेषं

सतेमनान्नं निभृतं निधाय ।

ददौ तुलस्यैततसम्पुटेऽन्यद्

बलाम्बया दत्तमपि स्फुटं सा ॥३९॥

व्रजेशा भोजयित्वादौ दासीर्दासान्सगोपकान।

सस्नुषाभिः सपुत्रीभिर्यातृभिः सग्धिमाचरत॥४०॥

अन्नमादाय यातायां तुलस्यां सुबलाय सा ।

धनिष्ठाख्यत्केलिकुञ्जं ददौ च वीटिका रहः ॥४१॥

गोविन्दलीलामृतं २१.२२०—

अथाययौ हरेः पिता बहिःसभां व्रजेशिता

निजाग्रजानुजैर्युतः सुमुत्समुद्रसम्प्लुतः ।

सहाखिलव्रजप्रजास्तमागमन्गुणिव्रजा

हरेर्विलोकनाशया समृद्धया सिताशयः ॥४२॥

श्रेणिमुख्यलोकविप्रगोपवृन्दसङ्गिनः

स्वस्वविद्ययाऽघवैरितोषणातिरङ्गिणः ।

आययुः स्वगीतवाद्यहास्यलास्यनन्दिनः

सूतवंशशंसिनृत्यगानकर्तृवन्दिनः ॥४३॥

ते गोपराज्ञा मिलिता यथायथं

सगौरवं सप्रणयानुकम्पितम् ।

सम्मानितास्तेन मुदान्विताः स्थिताः

कृष्णेक्षणोत्कण्ठितनेत्रचेतसः ॥४४॥

शेते सुतः श्रमभराद्विहिताशनोऽसौ

लोकास्तदीक्षणतृषो बत किं विधेयम् ।

इत्थं विचिन्तयति गोपपतावकस्मात्

कृष्णः स्वयं सखिकुलैः सहितः समायात॥४५॥

स्वान्ताम्बुधिं नेत्रचकोरवृन्दं

रोमौषधिश्च स्मितकैरवालीम् ।

सम्फुल्लयन्घोषकृतालयानम्

सभोदयाद्रावुदितो हरीन्दुः ॥४६॥

विप्रान्गुरून्स्वाञ्जलिबन्धवन्दनैः

समान्सखींश्च स्मितमिश्रितेक्षणैः ।

पाल्यांस्तथान्यान्सदयावलोकनैः

सम्भाष्य तान्सोऽपि विवेश सङ्गिभिः ॥४७॥

वेदध्वानैर्जयजयरवैः पूर्ववंश्यानुवादैस्

तत्तल्लीलाविरुदपठनैर्वादितैर्भूरिवाद्यैः ।

हर्षोद्घोषैः स्तुतिकलकलैः सङ्गतानां जनानां

घोषः कृष्णे व्यतनुततरां स्वस्य नाम्नो निरुक्तिम् ॥४८॥

व्रजेन्द्रेणेरितः क्षत्ता लोकानुत्करचालनैः ।

कोलाहलान्निवार्यैतान्यथास्थानं न्यवेशयेत॥४९॥

तेषूपविष्टेषु नृपेङ्गितेन ते

विचक्षणाः स्वस्वकलाः पृथक्पृथक।

प्रदर्शयन्तः क्रमशः कलाविदः

सलालसान्सभ्यजनानतोषयन॥५०॥

छालिक्यादिनृत्यमेकेऽन्ये लास्यं ताण्डवं परे ।

नृसिंहरामचरितरूपकाभिनये परे ॥५१॥

विद्यां वंशनटीमन्ये सूत्रसञ्चारिकां परे ।

नानेन्द्रजालान्यपरे निपुणाः समदर्शयन॥५२॥

श्रावयामासुरितरे पुण्याः पौराणिकीः कथाः ।

गीतानि विविधान्येके केचित्वंशानुवर्णनम् ॥५३॥

चतुर्विधानां विद्यानां भेदानन्ये श्रुतिप्रियान।

केचित्कृष्णस्य जन्मादिलीलाढ्यां विरुदावलीम् ॥५४॥

तेभ्यो व्रजेशादिसभासदो ददुर्

वासोधनालङ्करणान्यनेकधा ।

ते तानि कृष्णेक्षणपूर्णमानसाः

स्वीचक्रुराचारतया न तृष्णया ॥५५॥

कृष्णाननेन्दोः स्मितकौमुदीं

भृशं निपीय सभ्याऽक्षिचकोरसन्ततिः ।

वसन्त्यपि स्वाश्रुमिषादतृप्तिभाक्

पिबत्यहो प्रेमगतिः सुदुर्गमा ॥५६॥

तावद्व्रजेशाप्रहितः स रक्तकः

सभां समेत्याह नमन्व्रजेश्वरम् ।

व्रजावनीशोत्कमना व्रजेश्वरी

दिदृक्षते श्रीयुतभर्तृदारकम् ॥५७॥

ततो व्रजेन्द्रेन कृताग्रहोत्करः

सभ्यान्निजालोकवियोगकातरान।

सिन्चन्सहार्द्रस्मित वीक्ष्यणामृतैः

कृष्णः प्रपेद निजमातृमन्दिरम् ॥५८ ॥

तावागतौ समधुमङ्गलमित्रवृन्दौ

माता सुतावथ निवेश्य सुमृष्टवेद्याम् ।

दुग्धं घनं सशशिशर्करमीषदुष्णं

स्तन्याश्रुसिक्तसिचयालमपाययत्तौ ॥५९॥

ततो गते मित्रगणे निजालयं

सरोहिणीका जननी सुवत्सला ।

आनीय शय्यानिलये निजे निजे

बटुं बलं कृष्णमशीशयत्पृथक॥६०॥

कृष्णभावनामृतं १८.२६—

अतुलचतुरिमाणं तं जनालक्ष्यमाणं

गतमिव निजकान्तं विद्धि सौर्यास्तटान्तम् ।

त्वमपि कियदशित्वा स्वान्गुरून्वञ्चयित्वा

द्रुतमभिसर रागादित्युदित्वैव सागात॥६१॥

गोविन्दलीलामृतं २०.६२७६—

अथागतासौ तुलसी तदन्नं

सख्यै समस्तं समदर्शयत्सा ।

तद्गन्धवर्णानुभवेन चादौ

नासादृशोस्तृप्तिरभूदमूषाम् ॥६२॥

तद्रूपमञ्जरी नीत्वा तुलस्या भोजनालयम् ।

ससखीवृन्दराधायै पृथक्पात्रेष्वकल्पयत॥६३॥

अथाहूयाह जटिला विशाखां मत्सुतो गतः ।

गोशालां शयितुं भुक्त्वा भोक्तुमाह्वय मे स्नुषाम् ॥६४॥

साह सास्ते गृहे सुप्ता श्रान्तारण्यपरिक्रमात।

तत्रैवात्स्यति देह्यन्नं सा ददेऽन्नं सतेमनम् ॥६५॥

सापि हृष्टा तदानीय चाधाय भोजनालये ।

श्रीराधामेत्य तस्यै तद्वार्तामावेदयन्मुदा ॥६६॥

ततः समेतेत्योपविवेश भोक्तुं

भृङ्गारपीठालिविराजिवेद्याम् ।

सहालिपालिः प्रियभुक्तशेषं

राधा मरालीव सुधां समुत्का ॥६७॥

असव्ये ललिता सव्ये विशाखास्या उपाविशत।

पुरतः पार्श्वतश्चान्या यथास्थानं सखीततिः ॥६८॥

ताभ्यः परिविवेशान्नं तुलस्या रूपमञ्जरी ।

स्नेहेन मोहिनी यद्वद्देवताभ्योऽमृतं क्रमात॥६९॥

प्रणयिजनविसृष्टं श्रीहरेर्भुक्तशिष्टं

तदधरमधुमिष्टं तत्करेणाभिमृष्टम् ।

निजनिखिलगणेष्टं राधया नेत्रदृष्टं

मितमपि च तदासीदक्षयं बण्टनेऽन्नम् ॥७०॥

रमणकवलशिष्टं सन्मृणालं मराल्यः

किशलयकुलमेण्यः श्रीमरन्दं भ्रमर्यः ।

अमृतमिव चक्रोयश्चैन्दवं राधिकाद्याः

मुमुदुरधिकमन्नं प्रास्य कृष्णावशिष्टम् ॥७१॥

आचम्यास्वादयन्त्यस्ताः कृष्णताम्बूलचर्वितम् ।

दासीभिः सेवितास्तृप्ता पल्यङ्कासौ विशश्रमुः ॥७२॥

तुलसीरूपमञ्जर्यौ तत्तच्शेषान्नतेमनम् ।

वृन्दायै मालतीद्वारा प्रेसयामासतुर्मुदा ॥७३॥

ततस्ते भोजयित्वान्या वयस्या दासिका अपि ।

सगणैः सह संहृष्टैः स्वेशाशेषान्नमादतुः ॥७४॥

तत्रेष्टव्यञ्जनादीनामन्योन्यपरिवेशने ।

भोजनादौ तयोरासीद्व्यतिदानकलिः क्षणम् ॥७५॥

भुक्त्वाचम्य तदायाते राधायाश्चरणान्तिकम् ।

ताम्बूलचर्वितं तस्या अश्नन्त्यौ तामसेवताम् ॥७६॥

गोविन्दलीलामृतं २१.१०२१०६—

अथात्र घोषेशसुतः सवित्र्यां

स्वं शाययित्वा स्वगृहं गतायाम् ।

क्षणं स विश्रम्य बहिःस्वदासान्

प्रस्थाप्य गेहाच्छयनादुदस्थाम् ॥७७॥

कीलयित्वा पुरोद्वारं दासान्प्रस्थाप्य तद्बहिः ।

गन्तुमुत्कमनाः कुञ्जं पक्षद्वारेण निर्ययौ ॥७८॥

अनाच्छन्नं हित्वा शशिकरचितं घोषवसतेः

पुरद्वारं सम्भावितविविधलोकागमगमम् ।

सुखं पश्चात्सृत्या विटपिवृतया यामि विपिनं

विचार्येत्थं गन्तुं पदयुगमधाद्यर्हि स पुरः ॥७९॥

तदैव सा स्वे व्रजभूरतर्कितं

निधाय यन्त्रार्पितयानसन्निभे ।

मनोजवे हृत्कमले निनाय तं

कुञ्जालयं तन्मनसा सह द्रुतम् ॥८०॥ (युग्मकम्)

ज्योत्स्नापूर्णं तूर्णमुल्लङ्घ्य यत्नाच्

छायाच्छन्नं वर्त्म गृह्णंस्तरूणाम् ।

आयातोऽहं प्रेयसी सागता मे

किं वा नेत्थं कृष्ण आसीत्तदोत्कः ॥८१॥

गोविन्दलीलामृतं २.५९—

उत्थायाथ वराङ्गी दास्या स्थापितमग्रे ।

अध्यास्तासनवर्यं सा नानामणिचित्रम् ॥८२॥

अनुरागविहस्तचित्ता सा स्वसखीमाह, ललितमाधव १.४९—

महेन्द्रमणिमण्डली मदविडम्बिदेहद्युतिर्

व्रजेन्द्रकुलचन्द्रमाः स्फुरति को ऽपि नव्यो युवा

सखि स्थिरकुलाङ्गना निकरनीविबन्धार्गल

च्छिदाकरणकौतुकी जयति यस्य वंशीध्वनिः ॥८३॥

विदग्धमाधव २.४५—

यस्योरस्तटमण्डलं धृतिनदिरोधक्रियापण्डितं

वक्त्रेण्दुः कुलधर्मपङ्कजवनिसङ्कोचदीक्षाव्रति ।

दोर्युपौ नितरामुदञ्चितचिरव्रिडाभिदाराध्वरौ

हा कष्टं निखिलङ्गिला सखि दृशोर्भङ्गीभुजङ्गि तु सा ॥८४॥

कृष्णाह्निककौमुदी ४.३३२—

इन्द्रनीलमणिदर्पणदर्प

द्रोहदोहनमहःपरिसर्पः ।

कोटिचन्द्रमधुरो रविकोटि

ज्योतिरङ्गजितमन्मथकोटिः ॥८५॥

मेदुरो मृदुतरः सतरङ्गः

श्यामलः सततसौरभसङ्गः ।

आयतः शमितलोचनतापस्

तस्य विस्फुरति केशकलापः ॥८६॥

हेलया जितसुधाकरबिम्बं

लीलया कृतसरोरुहडिम्बम् ।

आस्यमस्य सुषमाकृतदास्यं

राजते लवणिमामृदुलास्यम् ॥८७॥

चञ्चलालककुलाकुलसीमा

चारुचित्रतिलकेन सुषीमा ।

तस्य सौभगसुधारसवाटी

भाति भालमहसः परिपाटी ॥८८॥

चारुचापलरुचामुपकर्त्री

कामकार्मुकमहः परिहर्त्री ।

वक्त्रपद्ममधुपावलिरूपा

भ्रूलतास्य वलतेऽप्रतिरूपा ॥८९॥

कारणेऽप्यसति कूणितकोणे

फुल्लकोकनदसोदरशोणे ।

निर्व्यलीककरुणारसपूर्णे

पूर्णया मदमुदा घनघूर्णे ॥९०॥

द्राघिमाणमनघं प्रथिमानं

बिभ्रती सुषमया वलमानम् ।

पक्ष्मभिर्घनतरैः प्रतिभाते

लोचने अघरिपोः शुशुभाते ॥९१॥

नसिकास्य तिलपुष्पसुशोभा

सौभगेन विहिताधिकलोभा ।

भात्यधोमुखमनोजनिसङ्गा

कीरसारपरिवारविभङ्गा ॥९२॥

कर्णयोर्मकरकुण्डलहेला

ताण्डववाहितकपोलसुखेला ।

वक्त्रतामरसनव्यदलाभा

सा द्वयी जयति तस्य सुशोभा ॥९३॥

लोलकुण्डलमणिप्रतिबिम्बं

प्रेयसीगणपणीकृतचुम्बम् ।

भाति मन्दहसितोन्नतिकान्तं

गण्डमण्डलममुष्य नितान्तम् ॥९४॥

सृक्कणेर्मधुरिमामृतकूपं

लेखया वहलयाप्रतिरूपम् ।

बन्धुजीवजयगर्वगरिष्ठं

तस्य राजतितरामधरौष्ठम् ॥९५॥

भाति पक्वयमजाम्बवशोभा

भावुकस्य चिवुकस्य सुशोभा ।

निम्नमध्यमधुरातिगभीरा

प्रेयसो लवणिमामृतधारा ॥९६॥

ज्योतिषा पुरुपराहतमुक्ताः

कुन्दकुट्मलपराभवशक्ताः ।

अन्तरन्तरपि शोणसुरेखा

निन्द्यमानशिखरौघमयूखाः ॥९७॥

चारुपाकिमसुदाडिमबीजाद्

अभ्रविभ्रमसमाहितपूजाः ।

चिद्विलासमहसामिव सारा

भान्ति तस्य दशनाः स्मितपूराः ॥९८॥

आननोदरमहो मधुरिम्णां

काचिदुद्द्युदिव दिव्यगरिम्णाम् ।

पद्मगर्भभवनव्यदलाभा

भाति तस्य रसनारुणशोभा ॥९९॥

अग्रतः क्रमसुशोभनपुष्टः

सुत्रिरेखसुषमाधिकमिष्टः ।

निन्दितेन्द्रमणिकम्बुरकण्ठः

शोभतेऽस्य दयितस्य स कण्ठः ॥१००॥

श्रीवधूवसतिवास्तुवरः श्री

वत्सकौस्तुभमहःप्रथितश्रीः ।

वक्षसः परिसरोऽस्य विशालः

शोभते मणिकवाटकरालः ॥१०१॥

कन्धरामधुरिमश्रुतिहेतोर्

निम्नमध्यमतिसद्गुणसेतोः ।

बाहुमूलपरिपुष्टिगरिष्ठं

चारु पार्श्वरुचि राजति पृष्ठम् ॥१०२॥

भाति तस्य तदलं गजशुण्डा

दण्डयोर्भवति यस्य वितण्डा ।

जानुबिम्बपरिचुम्बनशीलं

दोर्युगं मणियुगोत्तमलीलम् ॥१०३॥

सप्रपञ्चनखमण्डलधाम्ना

पञ्चशाखयुगलेन सुभूम्ना ।

पञ्चपञ्चमणिमण्डलचञ्चत्

पञ्चशीर्षभुजगाकृतिमञ्चत॥१०४॥

पिप्पलच्छदपरिच्छदविन्दे

बन्धुरत्रिवलिशालिनि तुन्दे ।

तस्य नाभिसरसीसरसान्ते

कस्य मुह्यति न धी रतिकान्ते ॥१०५॥

नाभिकूपविवरात्समुदीर्णा

चारुलोमलतिका रसपूर्णा ।

सा बलिक्रमपराक्रमभुग्ना

तस्य चेतसि न कस्य निमग्ना ॥१०६॥

इष्टमिष्टरुचि मुष्टिविलग्नं

तस्य तद्विजयतामवलग्नम् ।

यद्विलोक्य विहितव्यपसर्पः

शाम्भवस्य डमरोरपि दर्पः ॥१०७॥

उन्नतिअस्फिचि सवीचिमरीचि

स्तोमकोमलिमकेलिसमीचि ।

यन्नितम्बफलके सुवपञ्ची

स्वानजिज्जयति काञ्चनकाञ्ची ॥१०८॥

श्यामरामकदलीवरकाण्डे

पीनवृत्तघनताभिरखण्डे ।

कोऽभजत्तुलनयैव जुगुप्सां

कस्तदूरुमभि नेच्छति लिप्साम् ॥१०९॥

पिण्डितो मधुरिमेव न चोच्चैर्

मांसलं सुवलितं न च नीचैः ।

सम्पुटं रतिपतेरिव धाम्नाम्

अस्य जानु जयतान्मधुरिम्ना ॥११०॥

जानुतः क्षरदधोमुखधारा

माधुरीव परितः कृतचारा ।

तस्य भाति मनसोऽप्यसुलङ्घा

मूलतः क्रमकृशवरजङ्घा ॥१११॥

राजतोऽस्य घूतिके गुणसिन्धोर्

बुद्बुदाविव महो रससिन्धोः ।

कामकेलिगुलिके इव दिव्ये

रम्यनीपकलिके इव नव्ये ॥११२॥

माधुरीसरिदधोमुखधारा

चारुवारिरुहकान्त्यनुकारा ।

कौरविन्दमणिमण्डलभाभिर्

भूषिता नखमयूखलताभिः ॥११३॥

अङ्कुशध्वजसरोजयवाद्यैर्

लक्ष्मभिः परमलक्ष्मभिराद्यैः ।

रञ्जिता जयति तस्य सुषीमा

सा द्वयी चरणयोः सुखसीमा ॥११४॥

आनन्दवृन्दावनचम्पू ८.५७—

ईदृशा पुरुषभूषणेन या

भूषयन्ति हृदयं न सुभ्रुवः ।

धिक्तदीयकुलशीलयौवनं

धिक्तदीयगुणरूपसम्पदः ॥११५॥

जीवितं सखि पणीकृतं मया

किं गुरोश्च सुहृदश्च मे भयम् ।

लभ्यते स यदि कस्य वा भयं

लभ्यते न यदि कस्य वा भयम् ॥११६॥

मां धवो यदि निहन्ति हन्यतां

बान्धवो यदि जहाति हीयताम् ।

साधवो यदि हसन्ति हस्यतां

माधवः स्वयमुरीकृतो मया ॥११७॥

व्रीडां विलोडयति लुञ्चति धरियमार्य

भीतिं भिनत्ति परिलुम्पति चित्तवृत्तिम् ।

नामैव यस्य कलितं श्रवणोपकण्ठे

दृष्टः स किं न कुरुतां सखि मद्विधानाम् ॥११८॥

अलङ्कारकौस्तुभः ३.२१ (?)—

विलासचेष्टाः सखि केशिनाशिनो

हलाहलाभ्यः प्रदहन्ति मे मनः ।

कृन्तन्ति मर्माणि घूर्णा इव

प्रेमा विकारी हृदि हृद्व्रणो यथा ॥११९॥

पद्यावली १७६—

स्वामी कुप्यति कुप्यतां परिजना निन्दन्ति निन्दन्तु माम्,

अन्यत्किं प्रथतामयं च जगति प्रौढो ममोपद्रवः ।

आशास्यं पुनरेतदेव यदिदं चक्षुश्चिरं वर्धतां

येनेदं परिपीयते मुररिपोः सौन्दर्यसारं वपुः ॥१२०॥

पद्यावली १६५—

अद्य सुन्दरि कलिन्दनन्दिनी

तीरकुञ्जभुवि केलिलम्पटः ।

वादयन्मुरलिकां मुहुर्मुहुर्

माधवो हरति मामकं मनः ॥१२१॥

विदग्धमाधव १.३७—

एष स्थैर्यभुजङ्गसङ्घदमनासङ्गे विहङ्गेश्वरो

व्रिडाव्याधिधुराविधूननविधौ तन्वङ्गि धन्वन्तरिः ।

साध्वीगर्वभराम्बुराशिचुलुकारम्भे तु कुम्भोद्भवः

कालिन्दीतटमण्डलीषु मुरलीतुण्डाद्ध्वनिर्धावति ॥१२२॥

सङ्ग्रहकर्तुः (?)—

शृणु सखि गुरवोऽन्तः शेरते साम्प्रतं ते

सदनमनुगवां सोऽप्यस्ते दूरेऽभिमन्युः ।

स्मृतिमतिधृतिलज्जाः शाययित्वा स्वतल्पे

तदभिसर रसेन स्वप्रियं केलिकुञ्जे ॥१२३॥

अनुपदवनमालप्रेमसन्दर्शिताध्वा

कुसुमशरभटेनैवाभितः पाल्यमाना ।

हृदि पुनरुपगूढोत्कण्ठयान्वाचलन्ती

श्रमलवमपि राधे नाध्वनो ज्ञास्यसि त्वं ॥१२४॥

उज्ज्वलनीलमणि १५.७४—

इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां

सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिमुद्वीक्षते ।

त्वं चन्द्राञ्चितचन्दनेन खचिता क्षौमेण चालङ्कृता

किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥१२५॥

गोविन्दलीलामृतं २१.२३—

श्रीराधिकाप्यशकलेन्दुकरोज्ज्वलायां

रात्राविहात्मरमणाप्तिसमुत्सुकासौ ।

सङ्केतकुञ्जगमनत्वरिता सखीभिः

शुक्लाभिसाररचनां चतुरा चकार ॥१२६॥

गोविन्दलीलामृतं २१.२५—

कदाचित्तामस्यामसितवसना सा मृगमदैर्

विलिप्ताङ्गी कालागुरुतिलकचित्रोत्पलकुलैः ।

कृतोत्तंसा नानासितमणिकृतालङ्कृतियुता

निराबाधा राधा प्रियमभिसरत्यालिसहिता ॥१२७॥

कृष्णाह्निककौमुदी ६.१४१९—

मुक्ताजालैर्वलयरसनादामहाराद्यनागः

क्षौमं ज्योत्स्नापटलधवलं चन्दनेनाङ्गरागः ।

मल्लीमालाश्चिकुरनिकरे सौरभेणातिकान्ताः

श्रीताडङ्काः श्रुतिकिशलयप्रान्तयोः कान्तदान्ताः ॥१२८॥

हंसश्येना प्रपदवसनप्रान्तभागैरकुण्ठैर्

आच्छन्नभ्रूनयनमहसां क्ÿप्तदीर्घावगुण्ठैः ।

कर्पूराणां पथि पथि रजोवर्षणेनैव नासां

चक्रुश्छायाविसदृशतया चित्रमेतत्तदासाम् ॥१२९॥

अत्यौत्सुख्यात्त्वरितगतयः श्रोणिभारप्रथिम्ना

मन्दं मन्दं रचितचरणक्षेपमायासभूम्ना ।

ज्योत्स्नाजालं रजतलतिकावाटिकेति प्रतीत्या

हस्तालम्बं क्वचन विदधुः श्रान्तिश्रान्त्यै सुरीत्या ॥१३०॥

ऊरुस्तम्भो गमनविरहं वेपथुर्गात्रलौल्यं

हर्षाश्रं च क्षितिपरिचयाभावतः प्रातिकूल्यम् ।

चक्रुस्तासां मलयजरसोल्लासनं रोमहर्षा

रेजुर्ज्योत्स्नाभिसरणविधौ केवलं हासवर्षाः ॥१३१॥

ज्योत्स्नाजाले निजनिजतनुज्योत्स्नयोल्लासयन्त्यः

कृत्स्ना ज्योत्स्नान्तरमिव निजप्राणनाथं प्रयान्त्यः ।

प्रत्यादिष्टाभिसरणपथाः स्वानुरक्त्येव दूत्या

नैव ज्ञाता अपि शशभृति स्वांशुजालप्रतीत्या ॥१३२॥

श्रोणीभारप्रथिमनि समालम्बमानं विलम्बं

राधा प्राणप्रियतमसखीर्दत्तहस्तावलम्बम् ।

मन्दं यान्ती प्रियगृहपथं दीर्घदीर्घं मृशन्ती

खेदस्वेदक्षुभिततनुका हन्त जग्लौ सुदन्ती ॥१३३॥

पद्यावली २११—

द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्लीस्रजं

कण्ठान्मौक्तिकमालिकां तदनु च त्यक्त्वा पदैः पञ्चमैः ।

कृष्णप्रेमविघूर्णितान्तरतया दूराभिसारातुरा

तन्वङ्गी निरुपायमध्वनि परं श्रेणीभरं निन्दति ॥१३४॥

गोविन्दलीलामृतं २१.२६—

वृक्षच्छाये पथि पथि भिया वञ्चयन्ती स्वगम्यं

स्थानं वंशीवटविटपिनः शाखया लक्षयन्ती ।

न्यस्य स्वीये हृदयकमले सोह्यमाना निगूढं

यन्त्राकारे व्रजवनभुवा प्राप कृष्णासमीपम् ॥१३५॥

गोविन्दलीलामृतं २१.२८—

श्रीगोविन्दस्थलाख्यं तटमिदममलं कृष्णसंयोगपीठं

वृन्दारण्योत्तमाङ्गं क्रमनतमभितः कूर्मपीठस्थलाभम् ।

कुञ्जश्रेणीदलाढ्यं मणिमयगृहसत्कर्णिकं स्वर्णरम्भा

श्रेणीकिञ्जल्कमेषा दशशतदलराजीवतुल्यं ददर्श ॥१३६॥

गोविन्दलीलामृतं २१.३३३४—

कल्पद्रुमैर्वाञ्छितदानकल्पैर्

अपारिजातैरपि पारिजातैः ।

मन्दारवृक्षैरपि राङ्क्यदारैः

सन्तानकैः सम्मदतानकैश्च ॥१३५॥

शश्वद्धरेश्चित्तशरीरचन्दनैर्

यच्चन्दनैः श्रीहरिचन्दनैरपि ।

महावदान्यैरितरैश्च भूरुहैर्

व्याप्तं लताराजिविराजिताङ्गकैः ॥१३६॥

गोविन्दलीलामृतं २१.३७—

वल्ल्यः सर्वा यत्र ताः कल्पवल्ल्यो

वृक्षाः सर्वे कल्पवृक्षा बकारेः ।

गोपीनां चाभीष्टपूर्तौ समर्था

जात्या या ये तादृशः किन्तु तास्ते ॥१३७॥

गोविन्दलीलामृतं २१.४६—

शाला भान्ति चरास्तोये यत्र शाला स्थिरा स्थले ।

रोहितोऽप्सु चरस्तीरे रोहितौ च चरस्थिरौ ॥१३८॥

गोविन्दलीलामृतं २१.५५५९—

यत्कर्णहारिहारीतभरद्वाजशुकोक्तिभिः ।

वत्सगालवशाण्डिल्यान्वितं मुनिसदो यथा ॥१३९॥

श्रुतिऋतुवसुकोणैर्मण्डलाङ्गैश्च कैश्चिद्

विविधमणिविचित्रैर्दिक्षु सोपानयुक्तैः ।

गलहृदुदरनाभिश्रोणिजानूरुदघ्नैर्

वलितललितमूलाकुट्टिमैः सालबालैः ॥१४०॥

नीलरक्तमणिबद्धकुट्टिमाः

केचिदिन्दुमणिजालवालकाः ।

नीलरक्तमणिजालवालकाः

केऽपि चन्द्रमणिबद्धकुट्टिमाः ॥१४१॥

वृक्षा हैमा हरिमणिमयैः काञ्चनैरैन्द्रनीला

वैदुर्याभाः स्फटिकमणिजैः स्फाटिकाः पद्मरागैः ।

ग्लौकान्ताङ्गा मरकतमयैस्तैश्च तेऽन्ये तथान्यैर्

दीव्यन्त्यस्मिन्व्रततिवलयैः श्लिष्टशाखाः प्रफुल्लाः ॥१४२॥

हरिमणिभुवि हैमा वैद्रुमा वैद्रुमाश्च

स्फटिकमणिधरायां स्फाटिकाः स्वर्णभूमौ ।

अरुणमणिधरायां शाक्रनीलाश्च यस्मिन्

मरकतमणिधात्र्यां पद्मरागा विभान्ति ॥१४३॥

गोविन्दलीलामृतं २१.६२६४—

स्वभावमालाकृतिपुष्पभाजां

फलानि तासां रुरुचुर्लतानाम् ।

कुष्माण्डतुम्बीसदृशानि यत्र

श्रीकृष्णलीलोचितवस्तुभाञ्जि ॥१४४॥

कुसुमरचितशय्योल्लोचभूषोपधानैः

समधुचषकताम्बूलाम्बुगन्धादिपात्रैः ।

व्यजनमुकुरसिन्दूराञ्जनामत्र कैश्चा

न्वितमणिनिचितान्तर्भूमयो भूरिचित्राः ॥१४५॥

कुसुमितबहुवल्लीमण्डलैर्भित्तिकल्पैर्

उपरि च पटलाभैः श्लिष्टशाखासमूहैः ।

निविडदलफलानां छादिताः पादपानां

मणिमयगृहतूल्या यत्र कुञ्जा विभान्ति ॥१४६॥

गोविन्दलीलामृतं २१.६६८१—

कपोतपारावतकोकिलानां

हारीतकापिञ्जलटैट्टिभानाम् ।

मायूरचाकोरकचातकानां

चाषालिलावावलिवर्तकानाम् ॥१४७॥

यच्छौकशारीततिचाटकानां

कालिङ्गपादायुधतैत्तिरीणाम् ।

व्याघ्राटभाषावलिकौक्कुभानां

स्वनैर्विलासैः श्रुतिनेत्रहारि ॥१४८॥ (युग्मकम्)

विस्तीर्णा रत्नचित्रान्ता तदन्तःकनकस्थली ।

निकुञ्जमण्डलैः कल्पद्रुमानामस्ति वेष्टिता ॥१४९॥

मध्ये विचित्रमणिमन्दिरमस्ति तस्याः

कल्पद्रुमाङ्कमनु कुट्टिमशोभिदिक्षु ।

सोपानपालिललितं वलितं विदिक्षु

सन्तानकाद्यपरवृक्षचतुष्टयेन ॥१५०॥

स्वकान्तिजालायतलोलपक्षैर्

ऊर्ध्वक्रमात्कुञ्चितपूर्वपादैः ।

पश्चादधो न्यस्तदरायतान्य

स्वीयाङ्घ्रियुग्मार्पितदेहभारैः ॥१५१॥

माणिक्या नेत्रै रविकान्तगात्रैर्

उत्पुच्छकर्णैः कपिशोच्छटौघैः ।

उड्डीयमानैरिव रत्नसिंहैर्

यदुह्यमानं वियतीव दिक्षु ॥१५२॥

सुचेलतूलीषुतहेमकर्णिकं

खट्टायमानं मणिकान्तिकेशरम् ।

यस्यान्तरष्टच्छदपद्मसन्निभं

कृष्णस्य सिंहासनमस्ति काञ्चनम् ॥१५३॥ (सन्दानितकम्)

लघुरत्नालयस्वाङ्कैः कुञ्जैः कल्पलतावृतैः ।

अष्टभिः कल्पवृक्षाणां बहिर्यद्दिक्षु शोभितम् ॥१५४॥

वल्लीयुक्कल्पवृक्षाणि कुञ्जानां तद्बहिर्बहिः क्रमाद।

द्विगुणसङ्ख्यानां बहुभिर्मण्डलैर्वृतम् ॥१५५॥

भास्वता मृगपक्ष्यादिमिथुनै रत्नचित्रितैः ।

शून्यहेमस्थलीप्रान्तभागेन तद्बहिर्वृतम् ॥१५६॥

तद्बहिः कदलीषण्डैः सफलैः शीतलच्छदैः ।

वृतं नानाजातिभेदैः कर्पूराकरवल्कलैः ॥१५७॥

तद्बहिर्वेष्टितं पुष्पोद्यानेनातिप्रथीयसा ।

पृथक्तत्तत्पुष्पबाटीवलितेन समन्ततः ॥१५८॥

तद्बहिर्भूरिभेदानां नम्राणां फलभारतः ।

आराममण्डलैस्तैस्तैर्वेष्टितं फलभूरुहाम् ॥१५९॥

तयोर्मध्येऽरण्यदेवीकुञ्जदासीशतान्वितैः ।

सेवोपकरणागारनिकरैः परितो वृतम् ॥१६०॥

बहिर्बहिः क्रमात्तस्माद्वृतं तत्तल्लतायुतैः ।

स्वान्तरालैः पृथक्तैस्तैः श्रेणीभूतैर्द्रुमण्डलैः ॥१६१॥

करलभ्यहरित्पीतारुणाच्छफलगुच्छकैः ।

तद्बहिर्वृतकण्ठानां पूगानां मण्डलैर्वृतम् ॥१६२॥

गोविन्दलीलामृतं २१.८५—

स्वपार्श्वयोः श्रीबकुलावलिभ्यां

सञ्च्छादितान्यत्र चितानि रत्नैः ।

आमन्दिराद्यामुनतीर्थगानि

चत्वारि वर्त्मानि विभान्ति दिक्षु ॥१६३॥

गोविन्दलीलामृतं २१.९४९५—

कल्पद्रुमाधःस्थितरत्नमन्दिरं

गोपालसिंहासनयोगपीठकम् ।

यमागमज्ञाः प्रवदन्ति यं हरेः

प्रियागणः केलिनिकुञ्जमाह च ॥१६४॥

एवंविधं तं स्थलराजतल्लजं

कन्दर्पलीलासुखसत्रमन्दिरम् ।

गोविन्दसंस्मारकमात्मनो गुणैर्

वीक्ष्यापराधा ससखीततिर्मुदम् ॥१६५॥

कृष्णाह्निककौमुदी ६.२५२७—

तस्मिन्कुञ्जप्रवरसविधे रत्नवेयां प्रकृष्ट

ज्योत्स्नास्नानस्तिमितवपुषि स्वान्तरे सूपविष्टः ।

आगच्छन्तीं पुरपरिसरे प्रेयसीं सालिवृन्दां

प्रत्युद्गम्याभ्युपगमयितुं प्रेरयामास वृन्दाम् ॥१६६॥

निर्गच्छन्त्या द्रुतमथ तयालोकि पूर्द्वार एव

ज्योत्स्नामूर्तिर्विबुधलतिकावाटिका जङ्गमेव ।

तां प्रापय्योपवनलतिकां राधिकां सप्रहर्षं

चक्रेऽन्योन्यद्युतिवितरणेऽन्योन्यमेव प्रकर्षम् ॥१६७॥

चेतोमध्याद्बहिरिव गतं वीक्ष्य सा वीतबाधा

कृष्णं बालाग्रहमथ पुनर्लब्धबोधेव राधा ।

क्वाहं कस्मात्कथमहमहो केन वात्रोपनीता

पन्थाः को वा मम समजनीत्याममर्श प्रतीताः ॥१६८॥

कृष्णाह्निककौमुदी ६.२९३१—

सा तं दृष्ट्वा तदुपविपिनं तां निशां चन्द्रिकाभिः

कान्तां तां तामपि गृहततिं चारुक्ÿप्तां लताभिः ।

यैरानीतो गुरुगृहगुहां हापयित्वा स्वदेहस्

तानस्तौषीन्मनसि मुदिता विस्मृताशेषदाहः ॥१६९॥

अध्वश्रान्ताः सुमृदुलतनूर्माधवीमण्डपानां

द्वारि द्वारि प्रतिजनममूः स्थापयित्वा समानाम् ।

वृन्दा प्रत्यादिशदनुलतं पल्लवैर्वीजनार्थं

ताः कुर्वत्यस्तदथ मुदिता मेनिरे स्वं कृतार्थम् ॥१७०॥

यावच्छ्रान्तिं व्यपनयति सा श्रेणिरेणीक्षणानां

तावत्कृष्णो न खलु गतवानेव पारं क्षणानाम् ।

प्रत्यासन्नो ललितमुरलीपाणिरानन्दसिन्धुः

स्वीयं वासो व्यजनमकरोत्तास्त्रपामबबन्धुः ॥१७१॥

उज्ज्वलनीलमणि ११.३३—

अध्यासीनममुं कदम्बनिकटे क्रीडाकुटीरस्थलीम्

आभीरेन्द्रकुमारमत्र रभसादालोकयन्त्याः पुरः ।

दिग्धा दुग्धसमुद्रमुग्धलहरीलावण्यनिस्यन्दिभिः

कालिन्दी तव दृक्तरङ्गितभरैस्तन्वङ्गि गङ्गायते ॥१७४॥

उज्ज्वलनीलमणि १२.३१—

जङ्घे स्थावरतां गते परिहृतस्पन्दा द्वयी नेत्रयोः

कण्ठ कुण्ठितनिस्वनो विघटितश्वासा च नासापुटी ।

राधायाः परमप्रमोदसुधया धौतं पुरो माधवे

साक्षात्कारमिते मनोऽपि मुनिवन्मन्ये समाधिं दधे ॥१७५॥

आनन्दवृन्दावनचम्पू १९.५५७२—

अनिशमनिमिषाभ्यां लोचनाभ्यामथैका

मुखकमलमधूलीमापिबत्प्राणबन्धोः ।

अलभत न पिपासापारमेषा तदासीत्

इयमपि च नितान्तं पीयमानापि पूर्णा ॥१७६॥

तं कापि लोचनपथेन निवेश्य चित्ते

तेनैव निर्गमनशङ्कनतो नताक्षी ।

तत्कालमेव विनिमीलितलोचनैव

रोमाञ्चिता विधुमुखी चिरमालिलिङ्ग ॥१७७॥

काचित्काञ्चनमञ्जरीव विनमद्गात्री मनोरागजैर्

आवेगैः पृथुवेपथुर्विरुरुचे कृष्णं विलोक्याग्रतः ।

सङ्ग्रामोत्सवकौतुकोत्सुकतया सद्यः प्रसूनायुधो

गर्वेणैव चकार चम्पकधनुःकम्पस्य सम्पादकम् ॥१७८॥

अभ्युन्नीय परस्पराङ्गुलिदलव्यासङ्गि पाणिद्वयं

लीलालस्यविलुप्तये तनुलतामुल्लासयन्ती तिरः ।

मूर्ध्नः सीमनि मण्डलीकृतमतिस्मेरस्य हर्षोदयात्

वक्त्रेन्दोः परिधीचकार भुजयोर्युग्मं चकोरेक्षणा ॥१७९॥

वामा वामकराङ्गुलीदलयुगेनातन्वती छोटिकां

निर्याहीति ह्रियोऽपसारणविधेः सङ्केतमुद्रामिव ।

ईषन्निःसरतेव दन्तमहसा सार्धं बहिर्निःसृतौ

तस्या एव हि वर्त्मकल्पनकृतारम्भेव जृम्भां व्यधात॥१८०॥

आनीय काप्युरसि पाणिदलेन वेणीम्

एणीदृगुन्नतपयोधरयोर्निवेश्य ।

दोर्भ्यां निपीड्य निविडं विनिमीलिताक्षी

रोमाञ्चकञ्चुकतनूश्चिरमालिलिङ्ग ॥१८१॥

आघ्राय धूनितशिरः सरसं च वीक्ष्य

व्याधुन्वती मधुकरीं पुरतः पतन्तीम् ।

स्विद्यत्कपोलफलका पुलकाङ्कुरेण

लीलारविन्दमरविन्दमुखी चुचुम्ब ॥१८२॥

काचिच्चकोरनयना नयनाञ्चलेन

लीलाऽऽलसेन दयिताननमीक्षमाणा ।

आलीजनांसतटवेल्लितबाहुवल्लिर्

मूर्तेव सौभगमहाधनमत्तताभूत॥१८३॥

दोर्भ्यां लसत्कनककङ्कणझङ्कृताभ्यां

आमोच्य कापि कवरीं पुनराबबन्ध ।

ध्वान्तभ्रमादिह निलीय किमस्ति मानो

नो वेति तं निरसितुं तमिवान्वियेष ॥१८४॥

भुजाया वामायाः कलमधुरझङ्कारिवलयं

सलीलं धूतायाः करदलकनीयोऽङ्गुलिकया ।

वितन्वाना वामश्रुतिकुहरकण्डूमथ परा

व्यधात्कामक्रीडासमरजयघण्टाध्वनिमिव ॥१८५॥

करेणासव्येन प्रचलवलयालिध्वनिभूता

व्यधूनात्तन्वङ्गी ललितमथ लीलासरसिजम् ।

तदासीदेतस्याः कुसुमशरसङ्ग्रामविजयी

महानेवावर्तो नभसि नवलावण्यसरितः ॥१८६॥

मुदितमदनमोदामर्षघर्माम्बुसिक्तं

निजवपुरथ काचित्स्वोत्तरीयाञ्चलेन ।

व्यजयत कृतहेलं लीलया वीजयन्ती

स्मरसमरपताका मारुतेनाधुतेव ॥१८७॥

अन्तःप्रफुल्लदभिलाषलताततीनां

औत्सुक्यमारुतजवेन बहिर्विधूतैः ।

पुष्पैरिव स्मितभरैर्विदधे विदग्धा

कृष्णवलोकनमहोत्सवपुष्पवर्षम् ॥१८८॥

आनन्दजैर्नवकुरङ्गविलोचनाया

बाष्पाम्बुभिर्नयनयुग्मकमापुपूरे ।

कृष्णं विलोकयसि धन्यमसीति गाढं

प्रेम्णा द्रुतेन मनसेव तदालिलिङ्गे ॥१८९॥

एकां च काञ्चनमयप्रतिमायमानां

स्तम्भः प्रियेक्षणकृतः सहसा व्यधत्त ।

तामेव किं त्रिजगतीललनाललाम

सौभाग्यभारगरिमैव पराबभूव ॥१९०॥

आमूलतो मुकुलितेव कदम्बशाखा

काचिद्बभूव विपुलैः पुलकैः किमस्याः ।

बाणान्स्मरस्य विरहे हृदि सम्प्रविष्टान्

श्रीकृष्णचुम्बकमणिर्बहिराचकर्ष ॥१९१॥

अम्भःकणाकुलितकाञ्चनपद्मिनीव

सिष्वेद काचन चिराय चमूरुनेत्रा ।

प्राणाधिनाथमुखचन्द्रविलोकनेऽस्या

यत्स्यन्दते स्म बत मानसचन्द्रकान्तः ॥१९२॥

कृष्णं विलोक्य चलचारुचकोरनेत्रा

सञ्चारिचम्पकलतेव चिरं चकम्पे ।

अस्याः प्रविश्य वपुषि स्मरसिन्धुरेन्द्रो

हृद्भूमिकम्पमिव मत्ततया व्यधत्त ॥१९३॥

आनन्दवृन्दावनचम्पू १९.७४७५—

वेणीं विमुच्य कुटिलां निजबाहुमूले

काचित्कुरङ्गनयना भुजगीभ्रमेण ।

वित्रासविक्षुभितनेत्रमरालितभ्रूः

क्षिप्त्वोत्तरीयसहितामपसर्पमीये ॥१९४॥

अभिमुखमवलोक्य कापि भृङ्गं

करकमलेन सलीलमुद्धुनाना ।

सललितमवगुण्ठनाञ्चलेन

व्यधित वधूरधरौष्ठसम्पिधानं ॥१९५॥

भाववशीभूता पूर्वमागतमपि अनागच्छन्तमिव मन्यमानाह, सङ्ग्रहकर्तुः (?)—

अत्रैवावसरे व्यजिज्ञपदितस्तं रूपमञ्जर्यमूः

पूर्वस्याः ककुभो विधुं वनतटाद्द्रागजिहानं पुरः ।

सम्भ्रान्ता वृषभानुजाह सुषमापूर्णः स एवैति नः

शङ्के मोहयितैव मन्त्रबलभागाल्यः करोम्यत्र किम् ॥१९६॥

इत्युक्त्वैव शनैः ससम्भ्रमपदन्यासैः स्वमञ्जीरगीः

सातङ्कैव कदम्बषण्डविटपैः स्वं निह्नुवानैव सा ।

तिर्यग्गृइवमपाङ्गमार्गणगणं पश्चान्नुदन्त्यात्मनो

रक्षाव्यग्रधियेव कुब्जिततनुः सद्माविशद्वाञ्जुलम् ॥१९७॥

गोविन्दलीलामृतं २१.११११२०—

कृष्णोऽपि तासामवलोकजाता

नन्दोत्थभावालिविभूषिताङ्गः ।

कान्तावलोकोत्तरलाक्षिचेताः

कान्तामपश्यन्नवदत्तदालीः ॥१९८॥

वयस्या वः सख्यः क्व नु निजगृहे तद्विरहिताः

कथं यूयं प्राप्ताः कुसुममवचेतुं रविकृते ।

कुतस्तत्सौरभ्यं प्रसरति तदङ्गेन मिलिताच्

छरिरादस्माकं वितत्थमिदमस्त्वेव वितथम् ॥१९९॥

तां विना न वने युष्मद्गतिः सम्भाव्यते क्वचित।

चन्द्रमूर्तिं विनाकाशे नेक्ष्यन्ते तन्मरीचयः ॥२००॥

नेयं चन्द्रतनूः किन्तु श्रीरियं वृषभानुजा ।

यैकदेशे स्थिता व्याप्नोत्यमूं त्वां च स्वदीप्तिभिः ॥२०१॥

एवं नर्मालिभिस्तन्वन्वृन्दयासौ दृशेरितः ।

कान्ता सन्दर्शनोत्कण्ठः प्राविशत्स्वर्णमन्दिरम् ॥२०२॥

राधाकान्त्युच्छलत्स्वर्णगेहकान्त्याखिले कृते ।

पीताद्वैतेऽन्तरेऽपश्यत्सर्वं हेममयं हरिः ॥२०३॥

तावत्स्वकान्तिमिलनात्प्रोच्छलन्त्या च तत्त्विषा ।

व्याप्तं सापश्यदत्रत्यं सर्वं मरकतप्रभम् ॥२०४॥

पञ्चालिकान्तरेऽन्विष्य पश्यन्नपि मुहुः प्रियाम् ।

स्तब्धां स्वालोकमुद्भीभ्यां मेने पञ्चालिकां प्रियः ॥२०५॥

तां लालसा दयितसङ्गतये पुरस्ताद्

द्रग्वामतापसृतये च चकर्ष पश्चात।

तावन्मुदुत्थजडतैत्य निवार्य तां तां

वामा सखीव निरुरोध हरेः पुरस्तात॥२०६॥

तां स्प्रष्टुमुत्सुकतयेरितमन्तिकाप्तं

तं स्तब्धताध्वनि रुरोध बलान्मुदुत्था ।

तां लालसेत्य विनिवार्य हठात्प्रियां तं

प्रापय्य तत्करमधारयदाशु सोग्रा ॥२०७॥

गोविन्दलीलामृतं २२.५—

तत्काननं तां रजनीं प्रियास्ताः

कृष्णां च तां तत्पुलिनानि तानि ।

समीक्ष्य कृष्णो हृदि जातयाभवत्

स प्रेरितो रासविलासवाञ्छया ॥२०८॥

गोविन्दलीलामृतं २१.१२२१२७—

स्मेरारुणान्तकुटिलाश्रुकलाञ्चिपक्ष्म

हेलोल्लसच्चपललोचनमुत्स्मितार्द्रम् ।

कण्ठाध्वखञ्जितसहुङ्कृतिभर्त्सनोक्ति

प्रेक्स्यामितां मुदमवाप हरिः प्रियास्यम् ॥२०९॥

नासारसज्ञाश्रुतिनेत्रवर्ष्मभिर्

लुब्धैः स्वतत्तद्विषये प्रियौ मिथः ।

तौ लुण्ठयामासतुरङ्गनीवृतं प्रिया

छलाच्छन्नमयं बलात्स्फुटम् ॥२१०॥

गूढौ पुनः स्वर्णघटौ विमोषितुं

सरीसृपन्तं निजकञ्चुकान्तरे ।

कामाङ्कुशास्त्रं करतस्करं हरेः

करेण सारुद्ध परं न वाञ्छितम् ॥२११॥

इति सुमधुरलीलानन्दसिन्धौ निमग्ने

शिथिलिततनुचित्ते प्रेयसि प्रेयसी सा ।

प्रियसहनिजलीलालोकनायागताली

वलितमुदितवाम्या कुट्टिमं प्राप गेहात॥२१२॥

हरिरपि रसभङ्गैः प्रापितस्तत्समीपं

तदवकलनभीत्या सा निलिल्ये सखीषु ।

स पुनरिह विचिन्वन्तासु तां तच्छलात्ताः

प्रणयकुटिलदृष्टिः संस्पृशन्मोदमाप ॥२१३॥

यदपि हृदि विवृद्धां काञ्चिदाशान्तयोस्तां

न्यरुणदतिबलिष्ठा वामतैत्य प्रियायाः ।

तदपि सुखसमृद्धिं प्रापतुस्तावुदग्रां

प्रथयति हि सुखाब्धीन्वामताप्यङ्गनानाम् ॥२१४॥

इति श्रीश्रीभावनासारसङ्ग्रहे प्रदोषलीलास्वादनं नाम

सप्तमः सङ्ग्रहः ॥

॥७॥

ओ)०(ओ

(८)

अष्टमसङ्ग्रहः

अथ नक्तलीला

श्रीश्रीवासगृहे मुदा परिवृतो भक्तैः स्वनामावलीं

गायद्भिर्गलदश्रुकम्पपुलको गौरो नटित्वा प्रभुः ।

पुष्पारामगते सुरत्नशयने ज्योत्स्नायुतायां निशि

विश्रान्तः स शचीसुतः कृतकलाहारो निषेव्यो मम ॥१॥

गोविन्दलीलामृत २२.१११—

तावुत्कौ लब्धसङ्घौ बहुपरिचरणैर्वृन्दयाराध्यमानौ

प्रेष्ठालीभिर्लसन्तौ विपिनविहरणैर्गानरासादिलास्यैः ।

नानालीलानितान्तौ प्रणयिसहचरीवृन्दसंसेव्यमानौ

राधाकृष्णौ निशायां सुकुसुमशयने प्राप्तनिद्रौ स्मरामि ॥२॥

वृन्दा सवृन्दाथ सहालिवृन्दौ

वृन्दावनेशावनुनाथ्य नाथौ ।

तदालयालिन्दमनिन्दशोभं

पूर्णेन्दुकान्त्युज्ज्वलितं निनाय ॥३॥

सा तत्र तौ पुष्पचितान्तरायां

सुचीनवस्त्रास्तरणान्वितायाम् ।

कलिन्दकन्यानिलशीतलायां

न्यवीविशत्काञ्चनवेदिकायाम् ॥४॥

आवेशनादालिगणोपनीतैर्

विचित्रपुष्पाभरणैश्च नाल्यैः ।

ताम्बूलगन्धव्यजनैः सुतोयैः

सा तौ निजेशौ सगणौ सिषेवे ॥५॥

तत्काननं तां रजनीं प्रियास्ताः

कृष्णां च तां तत्पुलिनानि तानि ।

समीक्ष्य कृष्णो हृदि जातयाभवत्

स प्रेरितो रासविलासवाञ्छया ॥६॥

सगणोऽरण्यविहृतिश्चक्रभ्रमणनर्तनम् ।

हल्लीसकं युग्मनृत्यं ताण्डवं लास्यमेककम् ॥७॥

तत्तत्प्रबन्धगानं च सनृत्यरतिनर्मणी ।

जलखेलेत्यमून्येष रासाङ्गानि व्यधात्क्रमात॥८॥ (युग्मकम्)

ज्योत्स्नोज्ज्वलं मन्दसमीरवेल्लितं

स्वसङ्गमोद्दीप्तवसन्तजृम्भितम् ।

नृत्यन्मयूरं पिकभृङ्गनादितं

वनं समीक्ष्यात्र विहर्तुमैच्छत॥९॥

वंशीगानेन तास्वेष ज्ञापयामास वाञ्छितम् ।

तन्नाम्नैवानुगानेन स ताभिश्चानुमोदितः ॥१०॥

कानने सुधांशुकान्तिशुभ्रमञ्जुविग्रहे ।

पुष्पिते समस्त्वयाद्य मे प्रियालिवर्ग हे ।

रन्तुमत्र वाञ्छितानि चित्तवृत्तिरुद्वहेद्

एवमस्तु कृष्ण कृष्ण कृष्ण कृष्ण कान्त हे ॥११॥

उत्थितः स्वरमणीगणसङ्गी

वृन्दयाप्यनुगतो मृदु गायन।

प्रत्यगं प्रतिलतं प्रतिकुञ्जं

स प्रदक्षिणतया भ्रमति स्म ॥१२॥

आनन्दवृन्दावनचम्पू १७.१३—

हरिति हरिति हारी पूर्णयन्कर्णमोदं

मदकलकलकण्ठीकण्ठनादो जजृम्भे ।

सुमधुरमधुराजन्माधवीगन्धबन्धुर्

गतिमतनुत मन्दश्चान्दनो गन्धवाहः ॥१३॥

कुसुमकुलमफुल्लं मल्लिकावल्लिकानां

मदमधुपयुवानोऽलङ्कृतो झङ्कृतेन ।

उपरि परिपिबन्तो वादयन्ते स्म शङ्खान्

इव निविडनिदाघश्रीविहारोत्सवस्य ॥१४॥

सरसि सरसि सारं सारमामोदमीयुर्

मदकलकलहंसाः सालसाः सारसाश्च ।

विकचकुमुदिनीनां मण्डले गन्धलुब्धा

व्यधिषत रतिकेलिं चञ्चलाश्चञ्चरीकाः ॥१५॥

आनन्दवृन्दावनचम्पू १७.६५७८—

आनन्देन समन्ततो जयजयेत्युत्कीर्तितं पत्रिभिर्

वल्लीभिः परितः स्मितं क्षितिरुहै रोमाञ्चितं सर्वतः ।

अन्योन्यं प्रियसङ्कथाकुलतया संयुक्तमेणीगणैः

पुष्पाणां मकरन्दबिन्दुनिवहैः स्विन्नं धरण्यापि च ॥१६॥

समेताभिस्ताभिः सह स हरिरानन्दलहरी

हरिद्वृन्दाप्लावी स्मितमधुरमुग्धास्यविधुभिः ।

अकम्पाभिः शम्पाततिभिरिव सम्पालिततनुर्

धराधारो धाराधर इव नवीनो व्यहरत ॥१७॥

सोत्कण्ठैरुपगीयमानचरितः प्रेम्णा सुकण्ठीगणैः

कण्ठेनापि च वेणुनापि च कलं गायन्क्रमेणैव सः ।

मालामालुलितामलीन्द्रगरुतां वातैः पदालम्बिनीं

बिभ्राणः प्रतिभूरुहं प्रतिलतं बभ्राम दामोदरः ॥१८॥

चित्रैः पत्रैर्नखविदलितैः कल्पयन्पत्रलेखां

नानापुष्पैः स्वकरविचितैः कञ्चुलीं निर्मिमाणः ।

वल्लीखण्डैः स्तवकचटुलैः साधयन्नङ्गदादीन्य्

आसां तेनेऽलकललिततां धूलिभिः कौसुमीभिः ॥१९॥

हारं मल्लीकुसुमनिकरैः पत्रपाश्यां कदम्बैर्

उत्तंसं च स्थलसरसिजैर्गण्डशोभां च लोध्रैः ।

कुन्दैः कण्ठाभरणरचनां केशरैः काञ्चिमासां

कुर्वन्स्वीयां युगपदनघां दर्शयामास शिक्षाम् ॥२०॥

काचित्केशरकुट्मलं श्रवणयोः काचित्कचे केतकीं

काचिद्वक्षसि तस्य मल्लिकुसुमैराकल्प्य हारोत्तमम् ।

उष्णीषेऽकृत किङ्किरातमपरा यूथीस्रजः खण्डकैः

काचित्कङ्कणमङ्गदं च बकुलैः काचिच्च काञ्चीगुणम् ॥२१॥

तेषु चारब्धे वनविलासे निराविलासे निराकरणरणन्मदकलकलकण्ठरोलम्बलम्बमानकलझङ्कारमाधुरीधुरीणासु दिङ्मण्डलीषु मदनमदनमद्धियो धियोढकृष्णरतयो यूथश एव—

पुन्नागेभ्यः कनकरुचिभिश्चीयमानैः परागैर्

भृङ्गासङ्गादपि सुविशदां चन्द्रिकां म्लापयद्भिः ।

तत्राकालस्मररण इवोद्धूतधूलिप्रपूरैर्

झञ्झङ्कारक्षुभितवलयैरप्यधुः प्राणनाथम् ॥२२॥

नानापुष्पैः स्वयमवचितैः कन्दुकान्कल्पयित्वा

तैस्तैर्निघ्नन्युगपदभितो हन्यमानश्च ताभिः ।

अक्षोभेण व्यजयत वधूयूथपानां स यूथं

तत्पक्षीयैर्जय जय जयेत्याजगे पक्षिसङ्घैः ॥२३॥

दर्पोत्सेकात्सहपरिजनां राधिकां जेतुकामे

कृष्णे पूर्वं जितवति समं कन्दुकैरालिवृन्दम् ।

तस्याः कोपभ्रुकुटिकुटिलर्निर्जितेऽस्मिन्कटाक्षै

रेणुर्ही ही जितमिति मुहुस्तद्गणाः पक्षिसङ्घाः ॥२४॥

आचिन्वानां सुरभिसुरसं केशरं भृङ्गबाधा

वित्रस्ताक्षीं चकितचकितां पाणिपद्मं धुनानाम् ।

पुन्नागं यद्धरसि तदहो योग्यमेतत्तवेति

स्मायं स्मायं नमितवदनां स्मापयामास राधाम् ॥२५॥

पादाग्रेण क्षितितलमवष्टभ्य दोर्वल्लिमुच्चैर्

उन्नीयैकं कुसुममतुलं दूरतो हर्तुमिच्छुः ।

नीवीस्रंसे चकितचकिता पृष्ठमागत्य धृत्वा

दोर्भ्यामुत्थापयति दयिते तत्रपे तत्र राधा ॥२६॥

काचित्कैतवतो रजः कुसुमजं लग्नं ममाक्ष्णोरिति

त्रस्ता पाणिसरोरुहेण वलयक्वाणेन हाहाकृता ।

मार्जन्ती त्वरितं समेत्य दयितेनालोकयामीत्यलं

निर्भाष्याननपद्ममारुतमिषादक्ष्णोश्चिरं चुम्बिता ॥२७॥

हस्ताप्राप्ये कुसुमनिकरे पाणिमुल्लास्य हर्तुं

यां यामेषा स्फुटविटपिनां हन्त नासीत्समर्था ।

तस्याः सातिप्रणयभरतो हस्तशाखैव तेषाम्

आलीभावादिव विनमिता पाणिलग्ना बभूव ॥२८॥

कृष्णाह्निककौमुदी ३.४३५७—

मन्दारैर्हरिचन्दनैरगुरुभिः सन्तानकैश्चम्पकैः

पुन्नागैर्बकुलैर्बकैः कुरुवकैः कङ्केल्लिभिः केतकैः ।

यूथीजात्यतिमुक्तपाटलिजपाशेफालिकावल्लिभिर्

मल्लीभिर्मुचुकुन्दकुन्दकरुणैः सत्स्वर्णयूथ्यादिभिः ॥२९॥

पूगैर्दाडिमनारिकेलपनसै रम्भाभिराम्रातकैर्

नारङ्गै रुचकैर्मधुकशमिकाकक्कोलकुद्दालकैः ।

भव्यैरामलकीलवङ्गलवलीसत्कर्मरङ्गादिभिर्

जबीरावलिसल्लकीकरुणकैरम्लानकुब्जादिभिः ॥३०॥

वानस्पत्यवनस्पतिव्यतिकरैरप्राकृतैः प्राकृतैः

सर्वै रत्नमयालवालवलयैर्नानालतालिङ्गितैः ।

पुण्यारण्यवरेण्यमौलिमणिभिर्धन्यैरथान्यैर्द्रुमैर्

जुष्टं तद्वनमाविवेश स समं रामेण सख्युत्तमैः ॥३१॥

काण्डं मारकतं प्रभूतविटपाः शाखाः सुवर्णात्मिकाः

पत्राली कुरुविन्दकन्दलमयी प्रावालिकाः कोरकाः ।

पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल

श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ॥३२॥

येषां रत्नमयालवालवलयक्रीडाद्रिनिर्यत्पयः

पूरेषु प्रतिबिम्बतो ह्युभयतो विस्तारवच्छ्रेणयः ।

ये वै चित्रपवित्रपत्रिनिकरे सर्वत्र मैत्रीजुषः

कामं कामदुघोऽखिलाः क्षितिरुहस्त्रैलोक्यलक्ष्मीयुषः ॥३३॥

नानामञ्जुलकुञ्जमण्डपकुलैर्नानामणिमन्दिरैर्

नानारत्नमयैर्भुवः परिसरैर्निर्यत्नरत्नाङ्कुरैः ।

क्वापि क्वापि वनस्थली सुललिता कृष्णाभमृत्स्नामयी

वैचित्री नहि तत्र धातृविहिता नित्यैव सा चिन्मयी ॥३४॥

बद्धा कापि वनस्थली मरकतैर्यस्यां चरन्ति ध्रुवा

बाष्पच्छेद्यतृणाङ्कुरभ्रमवशादेण्यो वर्ण्योत्सवाः ।

सिद्धान्या कुरुविन्दकन्दलकुलैर्यस्यां हिमस्यागमे

बालार्कद्युतितर्कतश्चमरिकाः क्रीडन्ति कालक्रमे ॥३५॥

विस्फारस्फटिकेन्द्रसान्द्रसरसा काचिन्निदाघातुराः

सेवन्ते घनचन्द्रिकाचयधिया यां संवराणां वराः ।

काचिन्नीलमणीन्द्रवृन्दघटिता ध्वान्तभ्रमे सङ्गते

यामाश्रित्य निदाघदीधितिभिया घूकाः सुखं शेरते ॥३६॥

वासन्ती कलिकालिमौक्तिकलता मल्लीप्रसूनाञ्चिता

कादम्बस्तवकस्तनाम्बुजमुखी लोध्रावतंसान्विता ।

दाम्ना दामनकेन बन्धमधुपश्रेणी सुवेणीप्रिया

लक्ष्मीस्तस्य वनस्य कृष्णमभजत्षाण्णां ऋतूनां प्रिया ॥३७॥

प्रालयैर्यवसाङ्कुरैर्मधुरसैर्गन्धैः प्रसूनोत्तमैः

श्रेण्योर्ध्वं गतयालिनां सुमुकुकैश्च्योतैः फलैः पक्त्रिमैः ।

पाद्यार्घ्याचमनीयगन्धसुमनोधूपप्रदीपावली

नैवेद्यानि ततान सा वनरुहां कृष्णार्चने मण्डली ॥३८॥

चञ्चद्वातगुरूपदिष्टनटना भृङ्गावलीगायनी

गीतार्थाभिनयोल्लसद्दलकरा दिव्याङ्गिकोल्लासिनी ।

आपीनस्तवकस्तनप्रकटनव्रीडातिकम्रानतिः

प्रोन्मीलत्कुसुमस्मिता हरिपुरोऽनृत्यल्लतानां ततिः ॥३९॥

तत्रैका कुसुमस्मितं दलकरेणाच्छादयद्व्रीडिता

हर्षास्रं मकरन्दबिन्दुभिरुदस्राक्षीत्परानन्दिता ।

आरौत्सीदपरापरागपटलीचीनेन पीनस्तन

श्रीभाजस्तवकान्विकीर्य मधुपानङ्गात्स्थिताः काश्चन ॥४०॥

चञ्चत्कोकिलकूजितेन मरुता लोलैर्दलैः पाणिभिस्

तोकोल्लासिविकासिपुष्पहसिताव्यक्ताभिराहूतिभिः ।

एह्येहीति मनोरथोज्ज्वलमना निःसाध्वसैवोत्सुका

वीक्ष्यैवाह्वयतीव कृष्णमसकृत्काचिल्लताश्रेणिका ॥४१॥

दार्वाघाटविरावशुष्करुदितो भृङ्गावलीभ्रूभृत

भ्राम्यद्भ्रूकुटिवीक्षिते सति हरौ पुष्पैः सरोषस्मितः ।

लोलैः पल्लवपानिभिर्नननेत्याक्षेपकारीद्विज

स्वानैः कल्पितभर्त्सनो विरुरुचे कश्चित्स वल्लीव्रजः ॥४२॥

इत्थंभावितभावभावुकवतीर्वल्लीततीर्मानयन्

भक्त्या पुष्पफलोपचारचतुरान्नूर्वीरुहान्नन्दयन।

प्रोन्मीलन्नवशाद्वलां तत इतः श्रीरत्नभूमण्डलीं

पद्भ्यां मेदुरयंश्चचार रसिको वृन्दावनान्तःस्थलीम् ॥४३॥

भागवतं १०.२९.४३४४—

ताभिः समेताभिरुदारचेष्टितः

प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।

उदारहासद्विजकुन्ददीधितिर्

व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥४४॥

उपगीयमान उद्गायन्वनिताशतयूथपः ।

मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन्वनम् ॥४५॥

गोविन्दलीलामृतं २२.२८—

सुकण्ठीभिः कण्ठीरवमधुरमध्याभिर्

अभितः कलं गायन्तीभिः सरसमनुगीतामलगुणैः ।

स्पृशन्नङ्गान्यासां स्तवककुसुमाद्यर्पणमिषाद्

अकुण्ठामुत्कण्ठां निभृतरतयेऽवर्धयदयम् ॥४६॥

गोविन्दलीलामृतं २२.३१—

यद्यज्जगौ चन्द्रलतादिकं हरिस्

तेनैव पश्चात्प्रियया युतं हरिम् ।

वर्णार्थयोः क्वापि विपर्ययेण ताः

कृष्णस्य नाम्नाऽनुजगुः क्व चालयः ॥४७॥

गोविन्दलीलामृतं २२.४५५०—

स सुदृशां सुदृशां रुचिकृद्

रुचिर्विरहिता रहिता निजतारकाः ।

सुविदधद्विदधत्कुमुदावनम्

वर मुदे स मुदेति विधुर्हि नः ॥४८॥

इत्थं गायन्मधुरविपिनश्रीभरालोकतृप्तः

कान्तावल्लीरपि विरचयन्स्वाभिमर्दने फुल्लाः ।

भ्रामं भ्रामं भ्रमरनिकरैः स्वानुगैर्वेष्टितोऽसौ

ताभिर्वंशीवटविटपिनः कुट्टिमं प्राप कृष्णः ॥४९॥

तत्रोपविष्टः स ददर्श कृष्णां

स्वदर्शनानन्दविवृद्धतृष्णाम् ।

फेनालिहासां खगनादगानां

स्वसङ्गमायोत्कहृषीकवर्गाम् ॥५०॥

स्पर्शोत्सवयोच्छलदूर्मिहस्तां

लोलाब्जरक्तोत्पलफुल्लनेत्राम् ।

समुच्छलन्नक्रमुखोच्चनासां

आवर्तगर्तोत्सुककर्णपालीम् ॥५१॥

पुलिनानि समीक्ष्यासौ तत्र रन्तुमना हरिः ।

कृष्णापारं गन्तुकामः समुत्तस्थौ प्रियागणैः ॥५२॥

अथागतानां स्वजलान्तिकं सा

तेषां पदाब्जेषु तरङ्गहस्तैः ।

समर्प्य पद्मान्यथ तानि कृष्णा

तैस्तैः स्पृशन्तीव मुहुर्ववन्दे ॥५३॥

भागवतं १०.२९.४५—

नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।

जुष्टं तत्तरलानन्दिकुमुदामोदवायुना ॥५४॥

आनन्दवृन्दावनचम्पू १७.७८—

कह्लारोत्पलसौरभप्रणयिना वातेन सम्मार्जितं

कालिन्द्यैव समन्ततः स्वलहरीहस्तेन सष्कारितम् ।

लिप्तं पूर्णसुधाकरस्य किरणैः कर्पूरधूलिप्रभं

प्रेयः प्राप्य ससौरभं तत इतो बभ्राम दामोदरः ॥५५॥

भागवतं १०.३२.२—

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥५६॥

भागवतं १०.२९.४६—

बाहुप्रसारपरिरम्भकरालकोरु

नीवीस्तनालभननर्मनखाग्रपातैः ।

क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां

उत्तम्भयन्रतिपतिं रमयाञ्चकार ॥५७॥

आनन्दवृन्दावनचम्पू २०.४—

वल्गद्वल्गुवतंसमंसविलसन्मन्दारमालं नदत्

काञ्चीकिङ्किणिकङ्कणादि विगलत्संव्यानकं भ्राम्यति ।

विष्वद्रीचिमरीचिवीचिनिचये जीमूतचक्राकृतौ

सर्वाः पुप्लुविरे स्थिरा नवतडिन्माला इवैणीदृशः ॥५८॥

आनन्दवृन्दावनचम्पू २०.१—

एकस्या दक्षिणांसे वरभुजवलयं वाममन्यं परस्या

वामांसे न्यस्य गाढं युगपदभिमुखे द्वे समाश्लिष्य कान्ते ।

ताभ्यां दत्तप्रवेशस्त्वरितमनुगतः पृष्ठमेकां विमुञ्चन्

अन्यां गृह्णन्पुरस्तात्स पुनरुपसरत्येवमेव क्रमेण ॥५९॥

आनन्दवृन्दावनचम्पू २०.३—

तस्यैव भ्रमतो जवेन सुदृशां द्वे द्वे समालिङ्गतो

मध्यं मध्यमनुप्रविश्य वपुषा तेनैव सा मण्डली ।

किं ज्योत्स्नातिमिरैः किमु स्थिरतडिन्मेधैरथो चम्पक

श्यामाब्जैरुत काञ्चनेन्द्रमणिभिः क्ÿप्तामजैषीत्स्रजम् ॥६०॥

आनन्दवृन्दावनचम्पू २०.५—

ह्रस्वावर्ते सरति सरसं राधिकामन्तरस्थां

दीर्घावर्ते निकटमयते मण्डलीस्थप्रियाणाम् ।

नुन्नो वेगान्मरकतमयः सूत्रबन्धप्रमुक्तो

लीलाचक्रीपुत इव हरिर्बिभ्रमी बम्भ्रमीति ॥६१॥

भागवतं १०.३३.५, ७—

ततो दुन्दुभयो नेदुर्निपेतुः पुण्यवृष्टयः ।

जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥६२॥

तत्रातिशुशुभे ताभिर्भगवान्देवकीसुतः ।

मध्ये मणीनां हैमानां महामरकतो यथा ॥६३॥

आनन्दवृन्दावनचम्पू २०.७१२—

मूर्ताः सङ्गीतशास्त्रोपनिषद इव ताश्चित्रमेवाविरासन्

आसन्ने रासलीलारहसि सहसितश्रीमुखाम्भोजकोशाः ।

वैणिक्यो वैणिक्यः सरसमुदभवन्मौरजिक्या समेता

गायन्यस्तालधारिण्यपि करकलितोपाङ्गमौपाङ्गिकी च ॥६४॥

वाग्गेयकारकगुणैरुपलक्षितानां

सङ्गीततन्त्रारहसामपि पारगाणाम् ।

शुद्धाङ्गशुद्धतरकर्कशमार्गलास्य

नेत्री व्यरोचत ततीर्वरनर्तकीनां ॥६५॥

गीतं द्वेधा मार्गदेशीयभेदात्

त्रिंशच्चत्वारश्च मार्गप्रभेदाः ।

तेषां तालाः पञ्च चच्चत्पुटाद्याश्

चत्वारिंशद्द्वौ च देश्यां प्रसिद्धाः ॥६६॥

थैया तथतथथैया

तथतथथैया तथतितथथैया ।

थैया तथतथथैया

थगथगगतत्तिथदिगणथैः ॥६७॥

ततश्चैनं शब्दं गृहीत्वा—

स्वरं लघुगुरुप्लुतद्रुतविराममात्रविधौ

सशब्दकमशब्दकं कलितकांस्यतालोत्तमम् ।

कराब्जमपसव्यसव्यत उपर्यधो निक्षिपन्त्य्

अथाष्टममुपारटत्किमपि तालधारिण्यसौ ॥६८॥

आनन्दवृन्दावनचम्पू २०.१९५०—

थै थै थै थै तिगडतिगथै थेति पाठानुकृत्या

विन्यस्यन्त्यो भुवि पदतलं दोर्लतामन्तरिक्षे ।

वामावर्ते सकृदथ सकृद्दक्षिणावर्त एवं

नृत्यन्त्यस्ता सरसमधुरं मण्डलस्था विरेजुः ॥६९॥

वक्त्रे गानं तदभिनयनं पाणिपद्मे पदाब्जे

तालो ग्रीवाभुवि विधुवनं दोलनं नेत्रयुग्मे ।

वामावामस्खलनवलना तारकायाः दृगन्तः

कृष्णे प्रेमा मनसि युगपत्तुल्यमासामथासीत॥७०॥

जानूत्क्षेपभुजावधूननपदन्यासैः सगर्भभ्रमैर्

अत्युल्लासवशाद्द्रुतेऽपि नटने सा सुभ्रुवां मण्डली ।

अन्तर्वर्तिमुकुन्दकान्तिलहरीसूत्रेष्विवागुम्फिता

नो भुग्ना न च चक्रतामुपगता सव्यापसव्यक्रमैः ॥७१॥

पादन्यासैः सशब्दैर्मृदुमुखरमणीनूपुरध्वानरम्यैर्

धीधीधीधीतधीधीत्यनुपममधुरैर्स्तालपाठैश्च मिश्रैः ।

सव्यासव्याङ्गदोलैः स्खलितकुचपटं मध्यभङ्गापशङ्कं

धुन्वाना बाहुवल्लीं ननृतुरतिमुदावर्तयोरेव तुल्यं ॥७२॥

वैणिक्यो वैणविक्यो मृदु मृदु ननृतुः पादविन्यासमात्रैर्

गायन्यस्तालधारिण्यपि किमपि तथा गीततालानुकृत्या ।

शब्दानुद्घाटयन्त्यो विदधुरथ तथा मौरजिक्योऽपि नृत्यं

देहं किं त्वेकसूत्रग्रथितमिव दधुस्ताः समं नर्तकीभिः ॥७३॥

वामावर्तेन कृष्णो भ्रमति यदि तदा दक्षिणावर्तरीत्या

तन्वङ्ग्यो मण्डलस्था विदधति नटनं सम्मुखीनाः क्रमेण ।

इत्थं ताः सोऽपि शश्वत्सरससकुतुकं प्रातिलोम्यानुलोम्य

स्वीकारेणैव नैव भ्रमिनटनकलाकेलिपारं स्म गाते ॥७४॥

दीपालोके प्रसरति यथा वामभागे पुरस्ताद्

ध्वान्तस्तोमः सरति सहसा दक्षिणेनैव पश्चात।

इत्यन्योन्यं प्रकटमुभयोर्व्यत्यये व्यत्ययः स्यात्

तासां तस्यापि च तनुमहःपूरयोस्तद्वदासीत॥७५॥

वाद्यादि मण्डलविलासै विलासिनीनां

नृत्यानुगं च हरिनृत्यसहायमासीत।

गानं तु भिन्नमभवत्सुदृशो जगुस्तं

चन्द्रादिकं स तु जगौ ललितानि चासां ॥७६॥

तासां तालविमोक्षनिर्भरहतिक्षोभेण निःसारिणा

पादाम्भोरुहशीधुनेव पुलिनं तत्सिक्तमासीदिव ।

यत्तादृश्यतिमात्रचित्रनटनावेगेऽपि नैकं रजो

धूतं किं नु रजांसि तान्यपि तदानन्देन जाड्यं ययुः ॥७७॥

प्रत्येकं सुदृशां कपोलफलके बिम्बोद्गतं नृत्यतः

श्रीकृष्णस्य वपुः सनृत्यमपि तद्ब्रूते स्म तं किञ्चन ।

तासामानन्दपद्मधूननविधिव्याधूतमासां यथा

ना ना ना सुरसा तथात्र भवतो नृत्यस्य लक्ष्मीरिति ॥७८॥

नृत्यन्त्यः कतिचित्सरोरुहदृशः प्रारभ्दनृत्यान्तरे

कृष्णालिङ्गनमङ्गलोत्सर्वनवप्रोद्भूतरोमोद्गमाः ।

जातोत्कण्ठमकुण्ठकण्ठकुहरं प्रोन्नीय रागान्तरं

गायन्ति स्म निशम्य यत्प्रमुमुहुः सङ्गीतदेव्योऽपि च ॥७९॥

असङ्कीर्णान्जातिश्रुतिगमकवर्गेण सरसान्

सगान्धारग्रामान्विशकलितभेदान्स्वरगणान।

समुन्निन्ये काचित्सममघभिदा तेन च मुहुः

पुपूजे सा साध्वित्यनुपममुदा मोदितहृदा ॥८०॥

सगरिमपधानिषु सकलालङ्कृतिमणिभिः सुमञ्जुलश्रुतिषु ।

स्वरसमुदयेषु तासां धामसु च प्रीतिमाययौ कृष्णः ॥८१॥

ता धिक्ता धिगिति ननाद यन्मृदङ्गस्

तच्छ्रुत्वा सुरपुरनर्तकीसमाजः ।

आश्वासं समलभत स्वकीयनिन्दा

वादोऽपि श्रवणरसायनः स तासाम् ॥८२॥

वैदग्ध्यैवास्य देव्या स्वयमिव रचितां सर्वखेदापनुत्त्यै

सौहित्योपायसिद्धौषधिमिव सरसां प्रेमपीयूषवर्षैः ।

दोर्भ्यामालिङ्ग्य राधां सतडिदिव घनो हेमवल्ल्येव रुद्धः

तापिञ्छः पिञ्छमौलिः सह नटनकलाकौतुकेनाननर्त ॥८३॥

भग्नावस्थितमन्मथेषु कलिकाकृष्टेर्मणिश्चुम्बको

राधा तेन समं ननर्त यदिदं तद्वीक्ष्य ताः सुभ्रुवः ।

तस्या लास्यकलानुकूल्यकलने जातस्पृहा अप्यमूः

गातुं वादयितुं तथानुनटितुं नैश्वर्यमापेदिरे ॥८४॥

राधाकृष्णौ स्वरौघं गरिमनिविगमं धैवतांशग्रहाभ्यां

आरोहेणावरोहेण च गमकमयं रम्यमुल्लासयन्तौ ।

तेनातेनेति नानारसमथ नटनं गानमप्यूढरागौ

तेनाते नेतिलोकं सरभसकुतुकोल्लासमन्योन्यजिष्णू ॥८५॥

तालावसानसमये करपद्मकोष

न्यासं हरिः प्रियतमोरसि संविधत्ते ।

वामेन पाणिसरसीरुहकोरकेण

सापि प्रियस्य विनिरस्यति बाहुदण्डम् ॥८६॥

पूर्वं गानाद्यकृत यदहो हन्त तस्यातिरिक्तं

रागं वंश्या स्वयमथ जगौ दुर्गमं गीतविद्भिः ।

ग्रामं गान्धारकमुपनयन्नेष तस्यानुगाने

गायन्यस्ताः पुनरनु ययुर्मौरजिक्यादियुक्ताः ॥८७॥

तन्त्रीकण्ठादिसर्वस्वरमिलनविधौ चारु सम्पन्नमात्रे

पङ्क्तीभूय स्थितानां कनकदलरुचां गायनीनां पुरस्तात।

स्थित्वा तालावसाने झटिति झणझणत्कारि सङ्गीतविद्योद्

गीर्णं धामेव काचिन्नटनरसकलाचार्यवर्याविरासीत॥८८॥

आकुञ्चज्जानु कृत्वा पृथुनि कटितटे वाममर्धेन्दुमन्यद्

व्याकोशं पद्मकोशं मृदुललितमथोन्नीय कुञ्चत्कफोणि ।

क्षीणक्षीणावलग्नं ह्रसितवलि समुच्छूनवक्षोजभारं

तस्थौ सव्यापसव्यस्खलदलसलसत्तारकैर्दृष्टिपातैः ॥८९॥

अङ्गैः प्रस्वेदमेद्यज्जतुभिरिव नवैरङ्गमङ्गं स्पृशद्भिः

दुःसाधां नृत्यकृद्भिर्विषमगतिभिदां हेलयोल्लासयन्ती ।

लीलोत्सर्पापसर्पक्रमविधुतभुजा सारणाकुञ्चनाभ्यां

हस्तैर्हंसास्यमुख्यैरभिनयकुशला मन्दमन्दं ननर्त ॥९०॥

क्षीणक्षीणोदरमतिशयस्फारवक्षोजभारं

पार्ष्णिद्वन्द्वोपरि परिलुठद्वेणि शाम्यद्वलीकम् ।

पृष्ठे भुग्ना व्यजयत करौ धुन्वती तालमोक्षे

स्मारं सज्जीकृतमिव धनुश्चाम्पकं व्युत्क्रमेण ॥९१॥

सा जानुभ्यां क्षितितलमवष्टभ्य विस्फार्य बाहू

वक्त्रामोदभ्रमदलिकुलं लोलहारावतंसम् ।

राजत्तेजः परिधि झणितालङ्कृति व्याजुघूर्णे

वेगक्षिप्ता कुसुमधनुषः काञ्चनी चक्रिकेव ॥९२॥

पादाङ्गुल्यावलम्ब्य क्षिततलमलघुस्फारवक्षोजजानुः

पार्ष्णिद्वन्द्वोपविष्टा ह्रसितवलि नमन्नीवि विस्तीर्णवक्षाः ।

अङ्गुष्ठौ बद्धमुष्ट्योः कुचभुवि करयोर्न्यस्य तालानुकृत्याऽ

लङ्कारात्कूजयन्ती गदति तथतथै थैतथै थैतथेति ॥९३॥

युक्तानां कण्ठतन्त्रीचयशुषिरघनानद्धवाद्यैकतायां

पश्चात्सख्यं सराजद्भुजलतमदती चारु ताम्बूलवीटीम् ।

भ्रश्यन्मञ्जीरबन्धे प्रणयिपरिजनोपान्तपादा समन्ताद्

अञ्चल्या वीज्यमाना श्वसितचलकुचा सा विशश्राम रामा ॥९४॥

तिर्यक्कृत्योन्नमितनमितस्फारवक्षोरुहस्फिक्

झञ्कुर्वद्भिः कनकवलयैर्धुन्वती पाणिपद्मे ।

तत्ता तत्थै तिकिडतिकिथै तालमुत्थापयन्ती

पर्यायेणोत्क्षिपति सुदती जानुनी दोर्लते च ॥९५॥

ऊर्ध्वोर्ध्वभ्रमिभिरुपर्युपर्युदीर्णैर्

गारिम्णां परिधिभिरुल्ललास गौरी ।

गायन्यादिकनलिनीवनादिवोच्चैर्

वात्याभिः किमपि धुता परागराजी ॥९६॥

तेजोवल्लीमिव तनुलतामन्तरिक्षे धुनाना

सेयं नानागतिमतितरां दुष्करां व्याततान ।

नेदं शिक्षाप्रकटनमहो किन्तु लावण्यदेव्याः

पादावस्या भुवि न पततः केवलं हेलयैव ॥९७॥

विद्युद्वल्ली यदि चिरतरस्थेयसीं निष्पयोदा

हस्तप्राप्या मृदुलमरुता तादृशं धूयमाना ।

तालोल्लासध्वननमुखरा जायते दैवयोगात्

तर्ह्येवासौ नटनविदुषी सोपमत्वं बिभर्ति ॥९८॥

नर्तित्वैवं लघुलघुपदं दोलयन्ती नितान्तं

तालोपान्ते कुचभरधुरा दुर्वहं पूर्वकायम् ।

वात्यावर्तैरिव कमलिनी हन्त हा हन्त मध्ये

भुग्ना मा भूदिति परिजनैः सव्यथं सा शशङ्के ॥९९॥

सहनर्तनगानतत्परा

श्रमजालस्य सुरस्य विग्रहा ।

श्लथमानकुचांशुका हरेः

पृथमंसं भुजया समग्रहीत॥१००॥

भागवतं १०.३३.११—

काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥१०१॥

आनन्दवृन्दावनचम्पू २०.५१५३—

तमालस्य स्कन्धे श्लथपतितशाखेव पवन

क्लमात्खिन्नो हैमी व्रततिरिव साशोभत भृशम् ।

वपुष्मत्या रत्या लसदलसभावोपहतया

परिष्वक्तो मात्रः समघटत शृङ्गार इव सः ॥१०२॥

काचित्कूजितकाञ्चिकिङ्किणिरणन्मञ्जीरमान्दोलता

हारेण श्रवणोत्पलेन ललिता चीनाञ्चलेनापि च ।

कृष्णांसे कृतवामबाहुवलया लीलाविलासालसं

गायन्ती नटति स्म तामनुनटन्कृष्णस्तदेवाजगौ ॥१०३॥

कृष्णस्य पीतवसनाञ्चलमम्बुजाक्षी

वामेन पद्मललितेन करेण धृत्वा ।

शश्वत्प्रसर्पमपसर्पमईहमाना

नृत्यन्त्यहो तमपि नर्तयति स्म काचित॥१०४॥

भागवतं १०.३३.१०—

काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात॥१०५॥

आनन्दवृन्दावनचम्पू २०.५४५९—

कृष्णप्रणीतमुरलीकलगानरीत्या

हेलावशेन लयतालसमं नटन्ती ।

लीलाकृतं स्खलनमस्य दृशाक्षिपन्ती

स्वं तालभङ्गमथ संवरयाम्बभूव ॥१०६॥

काञ्चिद्वीणां मधुरमृदुलं वादयन्तीं सलीलं

गायं गायं हरिमतिमुदा सस्मयं नर्तयन्तीम् ।

नान्यैर्गम्यां गतिमथ चलत्कौतुकादेव वाद्य

भ्रंशे सम्भालनबहुतरव्यग्रचित्तां चकार ॥१०७॥

श्लिष्यति काञ्चन चुम्बति, काञ्चन कस्याश्चनाधरं पिबति ।

नृत्यन्नेव हि कृष्णो, रमयाञ्चक्रे वधूरखिलाः ॥१०८॥

आसीन्न सा तत्र ननर्त नो या

नृत्यं च तन्नो यदकृष्णदृष्टम् ।

कृष्णस्य दृष्टिश्च न सा न यस्याम्

एकैकशः श्लेषणचुम्बनादि ॥१०९॥

मुक्तावलीमिव जुगुम्फ ललाटमूले

घर्माङ्कुरान्सहचरीव समस्तमङ्गम् ।

माद्वीकपीतिरिव सालसयाञ्चकार

श्रान्तिः कुरङ्गदृशां श्रियमापुपोष ॥११०॥

दधाना दोर्युग्मं भुजशिरसि पार्श्वे विलसतो

हरेर्लीलालस्यादकृत तनुवल्लीविवलनाम् ।

ध्रुवं सौभाग्यानां भरमसहमानेव कतमा

क्षणं विश्रामाय व्यधित दयितस्योपरि वधूः ॥१११॥

सङ्ग्रहकर्तुः—

कपोलयोः कुण्डलपद्मराग

मयूखबिम्बं व्रजराजसूनोः ।

स्वचुम्बलग्नाधररागबुद्ध्या

स्ववाससा लुम्पति कापि मुग्धा ॥११२॥

उज्ज्वलनीलमणि ११.२०—

असव्यं बिभ्राणा पदमधूतलाक्षारसमसौ

प्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।

अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्

अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥११३॥

उज्ज्वलनीलमणि १३.२०—

शिथिलगतिविलासास्तत्र हल्लीशरङ्गे

हरिभुजपरिघाग्रन्यस्तहस्तारविन्दाः ।

श्रमलुलितललाटश्लिष्टलीलालकान्ताः

प्रतिपदमनवद्याः सिष्विदुर्वेदिमध्याः ॥११४॥

आनन्दवृन्दावनचम्पू २०.६१—

एवं तासां श्रमजलकणक्लिन्नकर्णोत्पलानां

मान्द्यं याते कुवलयदृशां नृत्यवेगे क्रमेण ।

तूष्णीकत्वं ययुरथ मणीकिङ्किणीनूपुराद्या

मन्ये तेषामपि समजनि श्रेयसी श्रान्तिबाधा ॥११५॥

उज्ज्वलनीलमणि १४.१६०—

उन्मीलत्कलहंसगद्गदरवा कम्पातिविक्षोभतः

सङ्कीर्णा पृथुरोमहर्षगतिर्बाष्पच्छटोद्गारिणी ।

जाड्योत्सेकपरिप्लुता कुवलयोल्लासं मुहुर्बिभ्रती

गोपीनामनुरागितासरिदियं रासे वितेने रसम् ॥११६॥

आनन्दवृन्दावनचम्पू २०.६३—

कृष्णाङ्गसङ्गसुखमग्नधियस्तदिच्छा

स्रोतोनिवेशिततनूलतिका मृगाक्ष्यः ।

नैवाम्बराणि कुचकञ्चुलिकाश्च केश

पाशांश्च हन्त विविदुः स्खलितानि तानि ॥११७॥

आनन्दवृन्दावनचम्पू २०.६५६७—

श्रान्तानां रमणकलाभिरङ्गनानां

स्वेदाम्भः स्मितसुभगान्मुखेन्दुबिम्बात।

प्रेमार्द्रः करकमलेन कोमलेन

प्रत्येकं हरिरपसारयाञ्चकार ॥११८॥

स्पर्शेन पाणिकमलस्य पुनः प्रकामं

स्विद्यत्सु वक्त्रकमलेषु मृगेक्षणानाम् ।

स्वेदापनोदकुशलो यदि नैष आसीत्

ता एव चेलशकलैर्ममृजुर्मुखानि ॥११९॥

लावण्यसारसरसानि विलासलास्य

वैदग्ध्यमुग्धमधुराणि तदीहितानि ।

कारुण्यमात्रपिशुनानि जगुः सुगीत

बन्धेन ता निजनिजप्रतिभाकृतेन ॥१२०॥

कृष्णभावनामृत १९.८०—

काचित्तदा वीजयति स्म भूष

व्यत्यासमस्यत्यपरा लिलेप ।

श्रीखण्डकर्पूररसैस्तदङ्गान्य्

एकास्ययोरर्पयति स्म वीटिम् ॥१२१॥

अथान्यपुलिनान्तरे रासविलासविशेषमाह, गोविन्दलीलामृत २२.५७६०—

वितस्तिमात्रोच्चनिखातशङ्कुग

त्रिनेमिचक्रोपरि राधया सह ।

स्थितः स मध्येऽन्यसखीगणैः क्रमाद्

बहिश्चकाराथ सुमण्डलत्रयीम् ॥१२२॥

आवृत्य पूर्णं रसधारया हरिं

राधोपगूढं किल मण्डलत्रयी ।

सुवर्णवल्ल्यञ्चितमालशाखिनं

स्वर्णालबालालिरिवाबभावसौ ॥१२३॥

आदिश्य हल्लीशककेलिरङ्गे

राधामुकुन्दौ ललितादिकालीः ।

तत्रांसविन्यस्तभुजौ मिथस्ताव्

अनृत्यतां लास्यविदां वरिष्ठौ ॥१२४॥

नृत्यन्नितम्बिनीनां तद्वैदग्ध्यपदचालनैः ।

कुलालचक्रवच्चक्रं भ्रमदासीत्तयोरपि ॥१२५॥

गोविन्दलीलामृत २२.६२—

लघुभ्रमच्चक्रगतेः समा तासां गतिः क्वचित।

क्वचिन्मन्दा क्वचिच्छीघ्रा विविधासीत्प्रिया हरेः ॥१२६॥

गोविन्दलीलामृत २२.६१—

विधाय राधां ललिताविशाखयोर्

मध्ये तदंसार्पितबाहुरच्युतः ।

गायन्स गायद्भिरलं कदाप्यसौ

बभ्राम नृत्यन्सह नर्तकीगणैः ॥१२७॥

गोविन्दलीलामृत २२.६३—

तासां मध्ये द्वयोर्द्वयोर्मध्ये

तदंसन्यस्तदोः स्फुरन।

सचलत्स्वर्णवल्लीनां

नृत्यत्तापिञ्छवद्बभौ ॥१२८॥

अद्भुतं मत्वा काचित्काञ्चित्प्रत्याह, उज्ज्वलनीलमणि १५.२३२—

हरिर्नवघनाकृतिः प्रतिवधूद्वयं मध्यतस्

तदंसविलसद्भुजो भ्रमति चित्रमेकोऽप्यसौ ।

वधूश्च तडिदुज्ज्वला प्रतिहरिद्वयं मध्यतः

सखीधृतकराम्बुजा नटति पश्य रासोत्सवे ॥१२९॥

गोविन्दलीलामृत २२.६४—

सोऽलातचक्रवत्क्वापि लघुगत्याभ्रमत्तथा ।

हित्वा मां क्वाप्यसौ नागादिति ता मेनिरे यथा ॥१३०॥

गोविन्दलीलामृत २२.६८६९—

विलस्येत्थं हरिस्ताभिश्चक्रभ्रमणनर्तनैः ।

रासलीलाविशेषाय चक्रादवरुरोह सः ॥१३१॥

स्वलहरिमृदुहस्तैः संस्कृतं कृष्ण आल्या

कुमुदसुरभिवातैर्मार्जितं स्फारमग्र्यम् ।

शशिकिरणसुधाभिः सिक्तलिप्तं स ताभिः

पुलिनवरमनङ्गोल्लासरङ्गाख्यमायात॥१३२॥

गोविन्दलीलामृत २२.७१७२—

परिभ्रमत्तल्ललनालिमण्डलं

बभौ यथा कामकुलालभूपतेः ।

रासादिलीलाख्यघटादिनिर्मितौ

सुवर्णचक्रं हरिदण्डचालितम् ॥१३३॥

तन्मण्डलं भाति विलाससागरे

रोद्धुं मनोमीनमिहैव किं हरेः ।

कन्दर्पकैवर्तवरप्रसारितं

हैमं महाजालमुरोजतुम्बिकम् ॥१३४॥

गोविन्दलीलामृत २२.७५७६—

भुजशिरसि विराजद्दोर्युगं स्वप्रियाल्याः

प्रचलदजयदेतन्मण्डलं कृष्णमूर्तेः ।

जलदशकलजालं मध्यमध्यातिराजत्

स्थिरतडिदुपगूढं सम्भ्रमच्चक्रवातैः ॥१३५॥

हरिहरिदयितानां वंशिकाकण्ठगानैर्

मिलितवलयकाञ्चीनूपुरालिस्वनौघैः ।

नटनगतिविराजत्पादतालानुगामी

निजवरमधुरिम्णा व्यानशेऽसौ जगन्ति ॥१३६॥

गोविन्दलीलामृत २२.१०१—

रतिलीलं त्रिभङ्गीं च चच्चरत्वारविक्रमम् ।

इत्यादीन्नर्तने तालान्दधुः कृष्णोऽस्य च प्रियाः ॥१३७॥

गोविन्दलीलामृत २३.१११—

अथ प्रबन्धगानं स नानातालैः पृथग्विधम् ।

कर्तुमारभतैताभिर्विदग्धाभिः सनर्तनम् ॥१३८॥

श्रीराधया नृत्यति कृष्णचन्द्रे

गायन्त्य आसन्ललितादयस्तदा ।

चित्रादयोऽन्याः किल तालधारिका

वृन्दादयः सभ्यतया व्यवस्थिताः ॥१३९॥

कृष्णे नृत्यत्येकले राधिकाद्या

गायन्ति स्माश्चर्यतालैर्दुरूहैः ।

तस्मिन्सभ्ये राधिकाद्याः क्रमेणाश्चर्यं

नृत्यं साङ्गहारं व्यधुस्ताः ॥१४०॥

रङ्गे क्रमाच्छ्रेणि तयास्थितानाम्

अन्तः पटत्वं नटतां गतानाम् ।

वीणादि वाद्यावलि धारिकाणां नाना

प्रबन्धादिक गायिकानाम् ॥१४१॥

तत घन शुषिराढ्यानद्ध कण्ठ स्वरौघे

मृदु विविध गतित्वेऽप्यैक्यमाप्तेऽङ्गनानाम् ।

तदनुग पदतालैर्भ्रुकराङ्गाक्षिचालै ननृतुर्

इह सकृष्णास्ताः प्रविश्य क्रमेण ॥१४२॥

कृष्णः श्रीमान्मुहुरिह समागत्य तासां समध्यान्

नानाताल क्रमवशतया चालयन्श्रीपदाब्जे ।

धुन्वन्प्राणी नटति निगदन्नित्थमानन्दयंस्

तास्तत्ता तत्थे दृगिति दृगि थै दृक्तथै दृक्तथै था ॥१४३॥

थोदिक्दां दां किट किट कणझें थोक्कु थो दिक्कु आरे

झें द्रां झें द्रां किटि किटि किटिधां झेङ्कुझें झेङ्कुझें झेम् ।

थोदिक्दां दां दृमि दृमि दृमि धां काङ्कुझें काङ्कुझें द्राम्

आगत्यैवं नटति स हरिश्चारु पाठ प्रबन्धम् ॥१४४॥

कूजत्काञ्ची कटकविरणन्नूपुर ध्वान रम्यं

पाणि द्वन्द्वं मुहुरिह नदत्कङ्कणं चालयन्ती ।

राधा कृष्ण द्युति घनचये चञ्चलेव स्फुरन्ती

नृत्यन्तीत्थं गदति तथथै थैतथै थैतथैथा ॥१४५॥

धां धां दृक्दृक्चङ्चङ्निनाङ्णङ्निनां णं निङां नां

तुत्तुक्तुङ्तुङ्गुडु गुडु गुडु धां द्रां गुडु द्रां गुडु द्राम् ।

धेक्धेक्धो धो किरिटि किरिटि द्रां द्रिमि द्रां द्रिमि द्राम्

आगत्यैवं मुहुरिह मुदा श्रीमदीशा ननर्त ॥१४६॥

झं झं कुर्वत्कनक बलये धुन्वती पाणिपद्मे

तासां मध्यात्सपदि ललिताऽप्यागता कृष्ण कान्त्या ।

श्यामे रङ्गे तडिदिव घने नृत्यतीत्थं वदन्ती

थै थै थोथो तिगड तिगथै थो तथै थो तथैता ॥१४७॥

दृमि दृमि दृमि धो धो मृदङ्गादि नादैः

कण कण कण वीणा शब्द मिश्रैर्विशाखा ।

नटति झणण झं झत्कार्यलङ्कार जाला

दृगिति द्र्गिति दृक्थै थो तथो थो ब्रुवाणा ॥१४८॥

गोविन्दलीलामृत २३.१५—

आ आ ई आति आ आति आइ अति ऽ आतिआ आति आआ आ आ

ज्योत्स्नोज्ज्वलाङ्गं नटदिव पुलिनं राधिके पश्य आरे ।

आआआ आति आ आ नटति च विपिनं मन्द वातेरितमा आ आ आ एति

कृष्णः पुनरिह निगदन्सालसाङ्गं ननर्त ॥१४९॥

गोविन्दलीलामृत २३.१९—

आविष्टानां गान नृत्येऽङ्गनानां

तत्तद्गत्याऽत्युच्छ सद्गाढ बन्धम् ।

नीवी वेणी कुञ्चुकादि स्वयं तत्

कृष्णः क्षिप्रं नृत्यमध्ये बबन्ध ॥१५०॥

गोविन्दलीलामृत २३.२४—

आस्ये गीतिस्तदभिनयनं श्रीकरे श्रीपदाब्जे

तालो ग्रीवा कटिषु धुवनं नेत्रयोर्दोलनं च ।

सव्यासव्यागमनगमनं तारकायां कटाक्षः

कृष्णस्याब्जे मनसिजसुखं बल्लवीनां तदासीत॥१५१॥

अत्यद्भुतं दृष्ट्वा काचित्काञ्चित्प्रत्याह, सङ्गीतमाधवः १८—

प्रथममुरलीरन्ध्रे रञ्जिताकुञ्चितबिम्बा

धरमिह सखि राधां भाति गायन्मुरारिः ।

इतरविवरचञ्चच्चारुमृद्वङ्गुलीनां

नखमणिरुचिवीचिर्मुद्रिकालिच्छटाभिः ॥१५२॥

उज्ज्वलनीलमणि १०.३४—

मग्ना शुभ्रे दशनकिरणे स्फाटिकीव स्फुरन्ती

लग्ना शोणे करसरसिजे पद्मारगीव गौरि ।

गण्डोपान्ते कुवलयरुचा वैन्द्रनीलीव जाता

सूते रत्नत्रयधियमसौ पश्य कृष्णस्य वंशी ॥१५३॥

गोविन्दलीलामृत २३.३०३३—

तालावसाने हरिरात्मपाणि

न्यासं प्रियावक्षसि संविधत्ते ।

प्रियापि सव्येन करेण तुष्टा

निरस्यतीशस्य करं रुषेव ॥१५४॥

जानुभ्यां क्षितिमालम्ब्य प्रसार्यैका ततौ भुजौ ।

जुघूऋने काञ्चनी वेगक्षिप्तेव स्मरचक्रिका ॥१५५॥

लीलोत्सर्पापसर्पाभ्यां दोःप्रसारनिकुञ्चनैः ।

अङ्गान्यङ्गैः स्पृशन्त्यन्या नृतिं चक्रेऽन्यदुष्कराम् ॥१५६॥

स्पृष्ट्वा करैकेन भुवं क्वचित्परा

देहं परावृत्त्य मुहुर्मुहुर्दिवि ।

पतन्त्यनृत्यद्भुवि सा कदाप्यसौ

विना तदालम्बनमम्बरे परम् ॥१५७॥

गोविन्दलीलामृत २३.४१—

शिथिलवसनकेशाः श्वासवेल्लत्कुचाग्राः

श्रमजलयुतभालाः सालसाङ्ग्यः क्रियासु ।

क्लमजनितरुचापि प्रेष्ठनेत्रातितुष्टिं

पुपूषुरधिकमेता रासनृत्यावसाने ॥१५८॥

गोविन्दलीलामृत २३.४८४९—

इत्थं समाप्य विविधाङ्गमनन्यसिद्धं

ताभिः समं सरसरासविलासनृत्यम् ।

प्रोद्यत्स्मरं पुनरमुं रतिकेलिनृत्यं

कर्तुं समुत्कमनसं हि विविद्य वृन्दा ॥१५९॥

हिमबालुकबालुकेऽमले पुलिने सह राधयाच्युतम् ।

विनिवेश्य तयोः पुरः सखीनिचयं सगणा न्यवीविशत॥१६०॥

आनन्दवृन्दावनचम्पू २०.८७—

कर्पूराभे किरणसुधया प्रोक्षिते शीतधाम्नः

प्रत्यमृष्टे कमलकुमुदामोदिना मारुतेन ।

प्रादुर्भूतः स खलु शुशुभे सैकते भानुपुत्र्याः

प्रत्यासन्ने सुरतसमरे वीरपानप्रमोदः ॥१६१॥

कृष्णाह्निककौमुदी ६.३८४८—

तस्मिन्न्नानामधुरिमधुराधुर्यवैदूर्यवेद्यां

कृत्वा चीनाम्बरविरचनां चन्द्रिकावृन्दहृद्याम् ।

तस्यां न्यस्य स्फटिकचषकस्तोममस्तोकमूल्यं

कर्तुं वृन्दारभत रभसात्पानलीलानुकूल्यम् ॥१६२॥

तत्रानिन्ये स्फटिकघाटितं मेध्यमाध्वीककुम्भं

गन्धेनान्धीकृतमधुकरं सोपदंशोपलम्भम् ।

कामक्रीडानिधिघटमिवापीनचीनेन गूढं

ग्रीवादेशे सुरभिकुसुमोद्दामदामोपगूढम् ॥१६३॥

तत्रागत्य प्रमुदितवधूमण्डलीमध्यवर्ती

दृष्ट्वा वृन्दाकृतविरचनाः कल्पितरचनाः कल्पितस्वान्तपूर्तीः ।

श्रीराधायाः करसरसिजं पाणिनाधृत्य धृत्या

मध्येऽवात्सीत्सह मणिशिलामूर्ध्नि तत्रैकमत्या ॥१६४॥

पर्यन्ते चोपविशति वधूमण्डले तस्य वाचा

पङ्क्तीभूय प्रसृमरतरेणाङ्गभासा समीचा ।

मूर्तिभूता इव वलयिताश्चन्द्रिकाश्चन्द्रिकानां

मध्ये मेध्या अथ विललसुर्मूर्तयः सुन्दरीणाम् ॥१६५॥

उद्यद्विद्युल्लतिक इव स स्निग्धधाराधरेन्द्रश्

चन्द्रज्योत्स्नावलयवलितोऽभ्राजतानन्दसान्द्रः ।

राधासङ्गी प्रियसहचरीमण्डलान्तःप्रसङ्गी

पानक्रीडोत्सवनवनवोत्साहनिर्वाहरङ्गी ॥१६६॥

व्रीडौत्सुक्यस्मृतिमतिधृतिक्षान्तिहर्षाभ्यसूया

शङ्कात्रासश्रममदमुखाः प्राभवन्नानुमेयाः ।

एकैकस्याः परिजनधुरां धारयन्तोऽस्वभावा

लब्ध्वा लब्ध्वा समयमुचितं सेवितुं सर्वभावाः ॥१६७॥

पानास्थानीमनु सहचरीषूपविष्टासु तासु

श्रीमच्चैकासनमनुसतोः प्रेयसोरग्रगासु ।

नानापुष्पैः स्वयमनुपमैर्गुम्फिता भृङ्गलोला

वृन्दा नन्दादनुजनमनुग्रीवमाधत्त मालाः ॥१६८॥

लोलाः कालागुरुजनिजुषो धूपधूमस्य धाराः

सारादारादरचयदनुक्षुण्णकर्पूरपुराः ।

तन्निर्दिष्टाः कुसुममकिरन्क्ष्मारुहः पावनस्य

प्रारम्भेऽस्मिन्स्फुरति मधुनः पानलीलोत्सवस्य ॥१६९॥

मल्लीपुष्पेष्वनुसृणिमुखैश्चञ्चलैश्चञ्चरीकैः

शङ्खाभं भं भं भमिति निनदा दध्मिरे निर्व्यलीकैः ।

लास्यं तेने पवनगुरुणा शैशवं शिक्षिताभिः

स्थाने स्थाने कुसुमलतिकामण्डलीनर्तकीभिः ॥१७०॥

माध्वीकेन स्फटिकचषकश्रेणिमापूरयन्त्या

ज्योत्स्नाजाले मिलितवपुषं तामथालक्षयन्त्याः ।

वृन्दादेव्याः किमिह चषकान्किं नु शून्यान्पिपर्मीत्य्

आसीत्तस्याः क्षणमिव तदा चित्तवृत्तौ महोर्मी ॥१७१॥

दिव्ये नव्ये स्फटिकपुटिके मेध्यमाध्वीकपूर्णे

चारु न्यस्योत्पलमुपरितः प्रस्फुरद्भृङ्गघूर्णे ।

वामेन शक्तरजलरुहा धुन्वती भृङ्गमन्ये

नाग्रे राधाव्रजपसुतयोरग्रतः सोपनिन्ये ॥१७२॥

आनन्दवृन्दावनचम्पू २०.८८९१—

प्रतिचषकं प्रतिबिम्बित

शशिबिम्बं विलसदुत्पलामोदम् ।

उपरिभ्रमदलिललितं

पुरतस्तासां रराज माध्वीकम् ॥१७३॥

आदौ पाने नयनयुगयोः शोणिमानं द्वितीये

वाग्वैवश्यं व्यधिकरणतां हासभीत्योस्तृतीये ।

द्रष्टुं पश्चाद्विहसितुमपि प्राणनाथं तथान्या

पानक्रीडापरिषदि दधे पातुमिच्छां न काचित॥१७४॥

आतन्वाने अमृतमधुनोर्व्यत्ययेनैव मैत्रीं

चन्द्राम्भोजे इव वदनयोर्मण्डले कारयन्तौ ।

अन्योन्यश्रीवदनचषकोपात्तमन्योन्यदत्तं

राधाकृष्णौ सममपिबतां साधरोष्ठोपदंशम् ॥१७५॥

आलीन्दुर्मे पिबति मधुकिं पीयतामालि सार्धं

स्तेनोऽयं यत्तव मुखरुचां कण्ठलग्नेन भाव्यम् ।

दन्तच्छेद्योऽमृतमयतया सत्यमस्यावशिष्टं

नो पास्यामीत्यर्थ मधुमती पाणिना मध्वपास्थत॥१७६॥

कृष्णाह्निककौमुदी ६.४९६९—

दीव्यत्तेजःपरिधि परिवेवेष्टि यावत्सखीनां

प्रत्येकं सा मधु सुमधुरं पानलीलोन्मुखीनाम् ।

तावत्तावप्युभयमधुनोऽन्योन्यमुत्सारयन्तौ

भृङ्गानास्तामुपरिपतितांस्तां प्रतीक्षावहन्तौ ॥१७७॥

निष्पण्णेऽस्मिन्मधुविभजने भाजनैस्तैरमन्दे

श्रीकृष्णः स्वं समधुचषकं राधिकास्यारविन्दे ।

पीत्वा देहि त्वमिति निगदन्सूपनिन्येऽप्रवेशात्

साप्याघ्राय नतमुखमुदात्कामतन्त्रोपदेशात॥१७८॥

तन्माध्वीकं कमलवदनावक्त्रगन्धोपलम्भाद्

आत्मामोदादपि सुमधुरं वल्लभो विप्रलम्भात।

पीत्वा पीत्वानुभवति चिरेणानुभूयानुभूय

स्मित्वा स्मित्वा पिबति महता कौतुकेनैव भूयः ॥१७९॥

सा सव्रीडस्मितमवनताधीतसत्प्रेमतन्त्रा

कान्तोच्छिष्टं मधु सुमधुरं पातुकामा स्वतन्त्रा ।

नैच्छत्पातुं स्वमधु यदि सा तद्विदित्वाघहन्ता

स्मित्वा प्रादादथ पिब पिबेत्यादरेणानुमन्ता ॥१८०॥

तत्पीत्वा स स्वमथ मधुनः पात्रमादाय पाणि

श्रीपर्णेनापिबदथ समाकृष्य तद्वेणुपाणिः ।

स्मित्वा स्मित्वा कलयति सखीमण्डले तत्र पिप्ये

नैतच्चित्रं भवति सुहृदां सौहृदस्याभिरूप्ये ॥१८१॥

भूयो वृन्दा चषकमपरं सीधुना पूरयित्वा

श्रीदम्पत्योर्न्यधित पुरतः स्वं मनो मोदयित्वा ।

आपीयान्यदथ ददतुस्तौ सखीभ्योऽल्पमल्पं

तास्तत्पीत्वा स्वमपि च पपुः सीधु पीयूषकल्पम् ॥१८२॥

एवं वृत्ते कुवलयदृशां प्रेयसश्चादिपाने

काचित्काचिद्विकृतिरुदगादन्तरे स्निह्यमाने ।

सा मर्यादाविघटनपटुर्नासहन्तानुमेया

शोणीभावं व्रजति नयने दृश्यमानाभ्युपाया ॥१८३॥

काचित्तत्र प्रथमचषकेणैव निर्व्यूढकामा

नैच्छत्पातुं पुनरविरतं प्रार्थ्यमानापि वामा ।

द्रष्टुं ताषां मदविलसितं वल्लभस्यापि विज्ञा

लोभाच्छोभातिशयविषयासन्दिदृक्षामनोज्ञा ॥१८४॥

अस्थाने ह्रीरुदितमपदं हेतुहीनो विवादस्

त्रासो निष्कारण उपगतो निर्निदानो विषादः ।

व्याहारोऽप्यन्वयविरहितो दृष्टिरुद्देशशून्या

तासामासीद्विसरकविधौ रीतिरेषैव धन्या ॥१८५॥

वाचां वर्णस्खलनबलेन चेतसामस्थिरत्वं

मन्दाक्षाणां समयसरणं वर्ष्मणां कम्पवत्त्वम् ।

बुद्धीनां च भ्रमणमसकृद्धासरोषप्रतोष

जाड्यं मौनं विसरकविधौ रेजिरेऽमी विशेषाः ॥१८६॥

ज्योत्स्नालीनं स्फटिकचषकं कायनालोकयन्ती

किं मे दत्तं न मधु पुरतो वृन्दयेत्यामनन्ती ।

जातक्रोधस्मयविहसिता स्थैर्यनिर्वेदशङ्कं

तस्थौ काचिन्न पिबति मधु प्रोल्लसन्मानपङ्कम् ॥१८७॥

आल्यः पेयं मधु कथमिदं चन्द्रमाः सम्प्रविष्टः

कण्ठे लग्नोऽप्यहह भविता चर्यते चेत्स दुष्टः ।

किञ् चोदञ्चन्मलपरिमलां प्रस्तुतात्तत्कलङ्का

सङ्गादस्मिन्मम सुमहती जायते दोषशङ्का ॥१८८॥

माध्वीकानामुपरि परितो विभ्रमद्भृङ्गमाला

च्छायां कल्कावलिमिव घनां वीक्ष्य काश्चिद्विलासाः ।

अङ्गुल्यग्रैर्ललितलुलितैर्लोडयित्वा पटान्ते

पूतं कृत्वा पुनरथ पपुः पानमोदे नितान्ते ॥१८९॥

हा कष्टं द्यौः पपपतति घूघूर्णते भूमिमीमिः

सख्यो मामाधधरत भो हन्त पप्पापतामि ।

इत्थं पानातिशयवशतः काचिदालिङ्ग्य काञ्चित्

स्थित्वा मन्दं न्यगददगदा जीवितास्मीति किञ्चित॥१९०॥

विच्छेदे प्रागभवदुभयोर्यत्तु तादात्म्यमेकं

तत्संस्कारे मधुमदविधावुत्थिते सातिरेकम् ।

कृष्णो राधायित इव भवन्हन्त कृष्णायितासौ

स्यातां नाम्नोर्विनिमयमयामन्त्रणे मन्दहासौ ॥१९१॥

राधे कृष्ण त्वमयि मम किं किङ्करी नैव नैव

प्राणास्त्वं मे न भवति वपुस्त्वां विना स्थातुमेव ।

इत्थं प्राक्संस्कृतिमतिरतेर्वैपरीत्ये स्वनाम

व्यत्यासेनोभयरसकथा मञ्जुलत्वं जगाम ॥१९२॥

कर्णे कर्णे वचनरचनैः कोमलैरर्थशून्यैर्

गात्रे गात्रे स्खलनलुठनैर्गाढहासेन धन्यैः ।

गण्डे गण्डे सरसमधुरैश्चुम्बनैश्चाभिरामाः

श्रीदम्पत्योर्न खलु समयास्ते भवन्यातयामाः ॥१९३॥

पृष्ठालम्बिन्यनयनपथे कौस्तुभे सा दयातः

कृष्णं राधा चकितमवदत्कौस्तुभस्ते क्व यातः ।

तां स प्राह त्वमिममहरः साह नाहं विशाखा

सोचे नाहं सुमुखि ललिता साह नाहं सुलेखा ॥१९४॥

इत्यन्योन्यं मधुमदमुदा कुर्वतीनां विवादं

मध्ये कृष्णं न्यगददपरा प्रोल्लसत्साधुवादम् ।

प्रत्यक्षं ते तमहरदियं धूर्त धूर्ता विलोला

स्वातन्त्र्येणोरसि विलसितुं वैजयन्त्येव माला ॥१९५॥

आं जानीमस्त्वमहर इमं कौस्तुभं हन्त माले

दण्ड्यासि त्वं तमुपहर मे चौरि वेगादराले ।

इत्याक्षिप्तस्रगुपहतितः पृष्ठतोऽसौ ललम्बे

कण्ठे दृष्ट्वा तमथ जहसुस्तां समेत्याविलम्बे ॥१९६॥

गम्भीरेऽस्मिन्मधुमदधुरा माधुरीणां प्रवाहे

तीव्रं स्रोतो यदि मृगदृशां मण्डली सा जगाहे ।

कश्चिन्मन्दं जगुरथ पराश्चाभिनिन्युस्तदर्थं

सर्वा एव प्रतिविदधिरे पुष्पबाणं कृतार्थम् ॥१९७॥

गोविन्दलीलामृत २३.५२५३—

कन्दर्पमाध्वीकमदाकुलाङ्गीं

कन्दर्पमाध्वीकमदानुशिष्टे ।

राधां समादाय हरौ प्रविष्टे

विन्यस्ततल्पं पुलिनान्तकुञ्जम् ॥१९८॥

कन्दर्पमदवैक्लव्याद्घूर्णपूर्णेक्षणाः सखीः ।

वृन्दाप्यादाय कुञ्जेषु पृथक्पृथगशाययत॥१९९॥

अलङ्कारकौस्तुभ ५.१५—

मृदुस्पन्दं लीलाकरकिशलयोत्कम्पमुदयत्

प्रसूनेषुक्रीडाविवशमुदितालिव्रजसुखम् ।

अमन्दीकुर्वाणङ्किमपि कलकण्ठध्वनिकलां

सिषेवे राधाङ्गं हरिरथ वसन्तानिलमिव ॥२००॥

अलङ्कारकौस्तुभ ५.७१—

आकृष्टे व्रजराजजेन वसने निर्मोचितैरायतैः

केशोघैर्निरवाहयं सखि तनोः सांमुख्यसङ्गोपनम् ।

जिह्रेमि स्मरणेऽपि तस्य यदियं कृष्णाष्टमीयामिनी

वासीत्सुन्दरि सम्मुखार्धतिमिरा पश्चार्धचन्द्रप्रभा ॥२०१॥

उज्ज्वलनीलमणि १५.२५४—

बलेन परिरम्भणे नखशिखाभिरुल्लेखनं

हठादधरखण्डने भुजयुगेन बन्धक्रियाम् ।

दुकूलदलने हतिः कुवलयेन कुर्वाणया

रतादपि सुखं हरेरधिकमादधे राधया ॥२०२॥

श्रीगोविन्दरतिमञ्जरी ५.९२९३—

राधायाः स्तनमण्डले हरिपरिरम्भोपलम्भे ध्रुवं

व्याप्य स्वर्णधराधरं जलधरारम्भोऽद्य भूयानभूत।

स्वस्थानं परिहृत्य कौस्तुभमणिव्याजेन निर्वाणदं

स्थातुं सम्प्रति नूनमम्बरमणिस्तत्सन्धिमभ्याविशत॥२०३॥

चञ्चद्बर्हकचग्रहादिसुरतावेशात्प्रियाः चुम्बतः

कृष्णस्याजनि दोर्लतावलयिनी वेणीविचूडामणिः ।

भीतासौ भुजगी भुगङ्गमभुजः पक्षोल्लसद्वायुना

मन्ये त्यक्तफणामणिः फनिधिया पाणिं समावेष्टयत॥२०४॥

अलङ्कारकौस्तुभ ५.७५—

श्लिष्टा श्लिष्यति गोकुलेन्द्रतनयेनाचुम्बिता चुम्बति

स्वच्छन्दं लिखिता नखैर्नखपदैराभूषयत्यङ्गकम् ।

शिक्षित्वा तत एव पुष्पधनुषः सङ्ग्रामविद्यामिमां

तस्य क्षोभकरी यदैष्ट तदियं विद्या गुरुक्षोभिका ॥२०५॥

अलङ्कारकौस्तुभ ४.२—

शयनसहचरीणां लोचनैरर्च्यमानान्य्

अथिरतिजयलक्ष्मीलक्ष्मभिः पक्ष्मलाणि ।

रहसि सबहुमानञ्जुम्बामानानि दृग्भ्यां

स्वजन इव मृगाक्षी स्वाङ्गकैः स्वाङ्गकानि ॥२०६॥

उज्ज्वलनीलमणि ११.१८—

निमीलन्नेत्रश्रीरचटुलपटीराचलमरुन्

निपीतस्वेदाम्बुस्त्रुटदमलहारोज्ज्वलकुचा ।

निकुञ्जे क्षिप्ताङ्गी शशिकिरणकिर्मीरिततटे

किशोरी सा तेने हरिमनसि राधा मनसिजम् ॥२०७॥

विशेषविहारमुक्त्वाथ सामान्यमाह, आनन्दवृन्दावनचम्पू १७.७९८७—

प्रेमातिशुद्धमपि केवलमेष तासाम्

आरञ्जयन्मदनरागरसैरशेषम् ।

सम्प्रार्थितानि निविडस्तनपीडनानि

लब्धुं सदन्तनखलेखनकौशलानि ॥२०८॥

मानसेऽतिसुमहानभिलाषो

ना न नेति वचसि प्रतिषेधः ।

सुभ्रुवां रतिविधिप्रतिषेधौ

नात्मबुद्धिविषयौ ववृताते ॥२०९॥

ह्रीप्रबोधनकरः कररोधः

कोपकल्पनमशोणकटाक्षम् ।

रोदनं च विगताश्रु वधूनां

तत्परं प्रियममन्यत कृष्णः ॥२१०॥

भर्त्सनं स्मितसुधाप्लुतवर्णं

पाणिधूननमलक्ष्यनिषेधम् ।

भ्रूलतासु भृकुटिः कृतकोपा

सर्वमन्तरनुरागमवादीत॥२११॥

चुम्बने विमुखताधरपाने

पाणिनाधरदलस्य पिधानम् ।

श्लेषणेऽपसृतिरित्यबलानां

वामतैव दयितस्य मतासीत॥२१२॥

द्राघीयसा सुवलितेन सुकोमलेन

प्रत्येकमेव तरसा भुजमण्डलेन ।

अन्तः प्रवेशयितुकाम इव क्रमेण

लीलानिधिः स रमणीगणमालिलिङ्ग ॥२१३॥

वामेन पाणिकमलेन विधृत्य वेणीम्

अभ्युन्नमय्य चिबुकाग्रमथापरेण ।

आलोकयन्मुकुलितेक्षणमास्यमासां

माध्वीकमुग्धमधुरं धयति स्म कृष्णः ॥२१४॥

वक्षोरुहाम्बुरुहकोरकयुग्ममासाम्

आसादयन्स नखलेखनलक्ष्मलक्ष्मीम् ।

अन्तःसमुद्यदनुरागविकारकण्डूं

कण्डूयनादिव पुनः प्रथयाञ्चकार ॥२१५॥

आताम्रकम्रमहसा नखलेखलक्ष्मी

लक्ष्मश्रिया शुशुभिरे सुदृशामुरांसि ।

अन्तर्गतैरिव चिरादनुरागबीजैर्

आसादिताङ्कुरदशैर्बहिरावृतानि ॥२१६॥

गोविन्दलीलामृत २३.५६६३—

निर्गतः कुञ्जनिकरात्कृष्णस्ताभिरलक्षितः ।

एकः सन्राधिकामागात्स्वदर्शनमृदुस्मिताम् ॥२१७॥

तत्रागता कुञ्जततेर्निवीता

दृष्ट्वा निजालीं पुरतो हसन्तीम् ।

यत्नावृतस्वाङ्गचयालिपालिर्

नम्रानना लोलदृगेतयोचे ॥२१८॥

यो नायकः सोऽत्र स वृन्दया मया

रङ्गे स्थितः क्वापि गतो न हि क्षणम् ।

नानर्तयद्वो रतिनर्तनेऽसकौ

दशेदृशी वो वपुषः कुतोऽभवत॥२१९॥

हरिरसन्नाह निकुञ्जरङ्गे

नट्यस्त्विमा मूर्तिमतोज्ज्वलेन ।

रत्याख्यनृत्ये रसनायकेन

संनर्त्तिता यत्स्फुटतत्तदङ्काः ॥२२०॥

कृष्णे स्वसख्यां प्रणयोद्गतेर्ष्यास्

ता उचुरस्मिन्रतिनृत्य एषा ।

त्वां नर्तयन्ती सततं गुरुस्ते

कर्तुं त्वया वाञ्छति नः प्रशिष्याः ॥२२१॥

निजेच्छया यात्र गुरूपसत्तिः

स्याच्छिष्यता शास्त्रमता तयैव ।

बलां कृता नैव ततो न शिष्या वयं

गुरूस्त्वं विफलः श्रमो वाम् ॥२२२॥

जानासि नो नो नकुलाङ्गनानां

वृत्तिं विशुद्धां सखि भोगिनि त्वम् ।

तथापि सम्पादयितुं स्वसाम्यं

किं खिद्यसे प्रेर्ष्य वृथा भुजङ्गम् ॥२२३॥

इत्थं विधाय पुरुनर्मविहारनृत्यं

ताभिः समं मदकरीव करेणुभिः सः ।

तत्तच्छ्रमापनयनाय कलिन्दपुत्र्यां

कर्तुं समारभत वारिविहारनृत्यम् ॥२२४॥

आनन्दवृन्दावनचम्पू २०.६८७६—

वक्त्रैरम्भोरुहवरवनं दोर्लताभिर्मृणाली

श्रेणिर्वक्षोरुहकलशकैश्चक्रनाम्नां समाजः ।

गत्या हंसीततिरतितरां हन्त जिग्ये वधूभिर्

भास्वत्कन्यासलिलमलसं लम्बमानाभिराभिः ॥२२५॥

वक्त्रैः स्वर्णसरोजमण्डलमयं नीरोपरिष्टान्नभो

वक्षोजैर्मदचक्रवाकमिथुनश्रेणीजुषो वीचयः ।

दोर्भिश्चारुमृणालवल्लिवलिता आपस्तदासन्वधू

वृन्दे गच्छति चित्रभानुदुहितुस्तत्कुक्षिदघ्नं पयः ॥२२६॥

लब्ध्वा तासां तनुपरिमलान्पद्मिनीः प्रोज्झ्य भृङ्गैर्

अभुद्यातैस्तरणितनयैवादरादुज्जगाम ।

हंसैस्तुल्योड्डयनचपलैश्चामरत्वं प्रयातैः

श्रान्ताः सर्वाः प्रणयरभसाद्वीजयामास सैव ॥२२७॥

भृङ्गैस्तासामुपरि परितो मण्डलिभूय सद्भिस्

तत्पर्यन्तेष्वपि विविषदां पुष्पवर्षैः पतद्भिः ।

नीलं वातावधुतमभितः सारिमुक्तावलीकं

शोभाहेतोरतनुत किमु व्योमलक्ष्मीर्वितानम् ॥२२८॥

अन्योन्यात्तैः करसरसिजैस्ताडयन्तीषु तोयं

मध्ये कृत्वा दयितमभितो मण्डलत्वं गतासु ।

तासूद्भूतास्तरणिदुहितु रोमहर्षा इव श्री

कृष्णस्योरःपरिसरमयुस्तोकातुङ्गास्तरङ्गाः ॥२२९॥

अन्योन्यग्रथिताङ्गुलीकलिकयोः कृत्वाम्बुपाण्योः समा

पीड्योच्चैर्जलयन्त्रवत्करभयोः प्रान्तेन निक्षिप्यता ।

धाराभिर्मुहुरायताभिरबलावृन्देन सिक्तो हरिर्

मन्ये ममथवारुणास्त्रमहसा मूर्तेन विद्धो बभौ ॥२३०॥

निःसंहारं तदिदमतनोर्वारुणास्त्रं विदित्वा

शक्तोऽप्यस्य प्रतिकृतिविधौ लीलया वारिमग्नः ।

नीविदाम्नां हरणकुतुकी तद्धृतिव्यग्रहस्तं

भग्नाः सर्वाः पुनरतितरामेक एवासिषेच ॥२३१॥

प्रत्येकं ताः सपदि पयसो द्वन्द्वयुद्धेन जित्वा

कृष्णेनास्मिन्पणितमखिलं हारमाकृष्य नीतम् ।

पृष्ठं याता लघुलघुतरां पीडयित्वास्य बाहू

राधा सर्वं यदि हृतवती तामधावत्तदासौ ॥२३२॥

आचिन्वानां कमलममलं क्वापि गाधेऽपि नीरे

गम्भीरत्वाभिनयचकितां शङ्कया पङ्किलाक्षीम् ।

दोर्भ्यां वक्षोभुवि सुनिविडापीडमुत्थाप्यमानां

कान्तेनैनां सरसकुतुकं ताः समीक्षम्बभूवुः ॥२३३॥

आनन्दवृन्दावनचम्पू २०.७८, ८०—

पद्मैः पद्मैः स्वयमवचितैस्तन्मृणालैर्मृणालैर्

लीलायुद्धं यदजनि मिथस्तत्र योषिन्मणीनाम् ।

तासां तस्मिन्नजनि कुतुकं पश्यतस्तत्प्रमोदात्

कृष्णस्यैव प्रहरणवशेनेव रुग्णं मनोऽभूत॥२३४॥

अलङ्कारकौस्तुभ ५.३०—

कृष्णे कर्षति कोकयुग्मकमियं दोर्भ्यां व्यधात्स्वस्तिकं

कण्ठे चारुमृणालमर्पयति सा बाहू दधे कुञ्चितौ ।

पद्मं जिघ्रति पाणिनास्यमवृणोदित्थं जले खेलतोर्

अस्पर्शा सुरतिस्तयोः प्रियसखीवृन्दस्य रस्याभवत॥२३६॥

अलङ्कारकौस्तुभ ५.१०५—

जलावगाहे च्युतमेखलायाः

शैवालवल्ल्येव बभौ नितम्बः ।

अकैतवं रूपमहेतुहार्दं

सर्वास्ववस्थासु सदैकरूपम् ॥२३७॥

काचित्सख्यधिकस्नेहा तत्खेदं दृष्ट्या तां प्रत्याह, अलङ्कारकौस्तुभ ८.१४९—

अलमलमभिलाषेणामुना वारिखेला

कुतुकिनि कमलानामाहृतेः कौतुकस्य ।

कलय कलितमङ्गं कण्टकैर्नाललग्नैः

शिव शिव परिदष्टं षट्पदेनाधरौष्ठम् ॥२३८॥

उज्ज्वलनीलमणि १५.२३४—

व्यात्युक्षीयुधि राधया घनरसैः पर्युक्ष्यमाणस्य ते

माल्यं भङ्गमवाप वीर तिलको यातः किलादृश्यताम् ।

वक्त्रेन्दौ प्रतिमाच्छलेन शरणं लब्धः सखीं कौस्तुभस्

तन्मा भूश्चकितो विमुक्तचिकुरं नार्दत्यसौ त्वद्विधम् ॥२३९॥

आनन्दवृन्दावनचम्पू २०.८१८३—

पद्मैः केशाभरणममलैरुत्पलैः कर्णभूषां

हारं कृत्वा बिसलतिकया मेखलां शैवलेन ।

क्रीडोपान्ते मणिमयशिरोभूषणादीनि तानि

प्रेम्णा नार्यो दिनमणिभुवे प्रीतिदेयानि चक्रुः ॥२४०॥

उल्लास्य वामकरवारिरुहेण वारि

झङ्कारिकङ्कणकलेन च दक्षिणेन ।

सन्ताड्य चारु जलमड्डुकवाद्यलीलाम्

आतेनुरुत्सवसमाप्तिफलामिवैताः ॥२४१॥

स्नानोत्तीर्णाः कनकनलिनईस्पर्धिभासो नितम्बं

क्रान्त्वा स्रस्तैरविरतपयोबिन्दुनिष्यन्दभाग्भिः ।

रेजुः केशैरथ हठहृतैराच्रु मुञ्चद्भिरुच्चैर्

ध्वान्तैः पृष्ठानुसरणपरैरंशुमाला इवेन्दोः ॥२४२॥

गोविन्दलीलामृतं २३.७२९०—

आलेपनालङ्करणैरमूषाम्

अनावृता वारिविहारधौता ।

क्लिन्नाम्बररोद्यत्सहजाङ्गशोभा

लोभाय कृष्णस्य दृशोस्तदासीत॥२४३॥

तासां वक्षश्चन्दनैः श्वेततोया

कृष्णा साम्यं गङ्गयासौ गतापि ।

शौरेस्तत्तत्केलिसौभाग्यलाभात्

ताभिः शश्वत्सुष्ठु सा तामजैषीत॥२४४॥

इत्थं विधायाम्बुविहारनृत्यं

कान्तः सकान्ताभिरवाप्ततीरः ।

सखीकुलैर्मार्जितकेशवर्ष्मा

दधार प्रत्युद्गमनीयवस्त्रम् ॥२४५॥

वृन्दा ताभिः समं कृष्णमानीय स्वर्णमण्डपम् ।

तत्पूर्वकुट्टिमे पुष्पास्तरणे तं न्यवीविशत॥२४६॥

ततः सवृन्दोपनिनाय वृन्दा

कल्पागवल्लिफलसम्पुटांस्तान।

पूर्णान्विचित्राम्बरभूषणानु

लेपाञ्जनैर्नागजवर्णकैश्च ॥२४७॥

तत्तन्नामाङ्कितानालीततिरादाय पेटिकान।

कृष्णं राधां सखीश्चामूः पृथक्पृथगभूषयत॥२४८॥

हरिरुज्ज्वलरसमूर्तिरतिपरिणतमूर्तयो हि राधाद्याः ।

विधुरयमस्य कलास्ता एकात्मनोऽपि तत्पृथग्देहाः ॥२४९॥

मिथःस्नेहाभ्यङ्गरम्यः सख्योद्वर्तनसुप्रभाः ।

तारुण्यामृतसुस्नाता लावण्यरसनोज्ज्वलाः ॥२५०॥

मिथःसौभाग्यतिलकाः सौन्दर्यस्थासकाञ्चिताः ।

अष्टाभिश्चित्रिताङ्ग्यश्च स्तम्भाद्यैर्भाववर्णकैः ॥२५१॥

किलकिञ्चितविव्वोकाद्युन्मादोत्सुकतादिभिः ।

नानाभावैरलङ्कारैः सुष्ठ्वलङ्कृतमूर्तयः ॥२५२॥

सुप्रियास्ताः प्रिया यद्यप्यन्तरित्थं विभूषिताः ।

प्रियालिभिर्बहिरपि भूषिता भूषणैर्बभूः ॥२५३॥

अनङ्गगुटिकां सीधुविलासं दुग्धलड्डुकम् ।

आनीतं रूपमञ्जर्या यद्यानि वृन्दया वनात॥२५४॥

फलानि रसरूपाणि मधुतुल्यरसानि च ।

तान्यत्त्वाचम्य ताभिः स विवेश केलिमन्दिरम् ॥२५५॥

तस्मिन्मुक्तचतुर्द्वारि यमुनानिलशीतले ।

कोटिसूर्यांशुसद्रत्नचयांशुपरमोज्ज्वले ॥२५६॥

मनोजकेलिनिलयेऽगुरुधूपातिसौरभे ।

विन्यस्तरत्नपर्यङ्के हंसतुलिकयान्विते ॥२५७॥

सूक्ष्माम्बरावृतावृन्तसत्पुष्पास्तरणोपरि ।

नानोपधानचित्रास्ते कृष्णः सुष्वाप कान्तया ॥२५८॥

पर्यङ्कपार्श्वस्थितखट्टिकायुगे

सुखं निविष्टे ललिताविशाखिके ।

कृष्णास्यताम्बूलसुचर्वितानने

ताम्बूलमास्वादयतां निजेश्वरौ ॥२५९॥

श्रीरूपरतिमञ्जर्यौ पादसंवाहनं तयोः ।

चक्रतुश्चापरा धन्या व्यजनैस्ताववीजयन॥२६०॥

क्षणं तौ परिचर्येत्थं निर्गताः केलिमन्दिरात।

सख्यस्ताः सुषुपुः स्वे स्वे कल्पवृक्षलतालये ॥२६१॥

कृष्णभावनामृतं २०.११२३—

स्वबाहुसन्दानितकण्ठया तया

संविश्य पर्यङ्कवरे हरौ स्थिते ।

तत्पादसंवाहनशर्मकर्मणां

तत्किङ्करीणां समपूरि वाञ्छिताम् ॥२६२॥

ऊर्वोः स्वयोः कनकपीठयोः क्रमान्

निधाय पदाम्बुरुहे निजेशयोः ।

द्वे दासिके तच्छयनान्तसङ्गते

दृग्बिन्दुभिः पाद्यमिवोपजह्रतुः ॥२६३॥

उद्भिन्नरोमाङ्कुरपालिरेव

प्रापार्घ्यतां किन्तु तयापि शङ्काम् ।

तन्मार्दवालोचनया दधत्यौ

पाण्यम्बुजैरार्चयतामिवैते ॥२६४॥

गन्धं तु कस्तूर्यमृतसुपङ्कैर्

वक्सःस्थलस्थैरुपकल्प्य सद्यः ।

निःश्वासधूपैर्नखरत्नदीपैर्

आलोक माल्यैर्धिनुतः स्म नीत्या ॥२६५॥

नैवेद्यतायां करकावुरोजौ

संस्पर्शनेनाभिमतौ विधाय ।

प्राणप्रदीपैः स्मितचन्द्रमिश्रः

निर्मञ्छनं प्रेमभरद्व्यधत्ताम् ॥२६६॥

हिरण्यरम्भोपरिवर्तिपल्लवेष्व्

आसज्य रक्तोत्पलकोरकोत्तमाः ।

भृङ्गालिझङ्कारभृतोऽनटन्नहो

तत्पादसंवाहनदम्भतोऽसकृद॥२६७॥

तौ वीजयन्त्यो वलयानि झङ्कृति

स्तुतैः प्रसूनव्यजनैः परा बभुः ।

मूर्तैर्यशोभिः कविवृन्दवर्णितैः

किं स्वैरधिन्वन्नधिपौ नटीकृतैः ॥२६८॥

सुवर्णवर्णाः क्रमुकेन्दुजाती

लवङ्गचूर्नाद्युचितांशभाजः ।

ताम्बूलवीटीरपरे न्यधत्तां

तदास्ययोः पार्श्वगते कराभ्याम् ॥२६९॥

यौ पूर्णचन्द्रावुदितौ निरङ्कौ

तदंशुपीयूषरसाभिषिक्ते ।

स्वपल्लवाभ्यां कलिके गृहीत्वा

गाङ्गेयवल्ल्यौ मुहुरीजतुः किम् ॥२७०॥

कन्ते दिशैताः शयनाय गन्तुं

घूर्णद्दृशः सम्प्रति स्विन्नगात्रीः ।

श्रान्तिह्पदोस्ते न शमं ययौ चेत्

तदर्थमेतावहमेव धास्ये ॥२७१॥

इत्युक्तिमात्रेण समीहितस्यै

वार्थस्य सिद्धिं किल ता विदुष्यः ।

सम्पूज्य देवाविव पूजयित्र्यस्

तन्मन्दिराल्लब्धवरा निरीयुः ॥२७२॥

निष्णात एवातनुतीर्थसरे

रोमाञ्चपूर्णः स्फुरितोज्ज्वलाङ्गः ।

स्मृत्युद्भवाशेषविशेषधर्मा

नुष्ठानदक्षो रभसं स भेजे ॥२७३॥

प्रारम्भ एवाघभिदस्तदास्या

ऽमृतं त्रिराचम्य त एव यासीत।

श्रद्धा तयैवाशु विधिर्बभूवा

ऽनङ्गोऽपि साङ्गो निरपायमिष्टः ॥२७४॥

नानोपचारान्कलयन्मुदाशा

बन्धं वितन्वन्नपसार्य विघ्नान।

स शातकुम्भातनुरत्नकुम्भे

कृत्वा करन्यासमुपात्तकान्तौ ॥२७५॥

कृष्णभावनामृतं २०.४५५१—

विद्युद्घनार्चिक्रमिषां यदोपरि

स्माराद्दधान ववलेऽवलेपतः ।

तदा तु जालानि सखीदृशां बलाज्

जालावलीं हर्षजलैः प्लुतां व्यधुः ॥२७५॥

बहिस्तु यन्त्रव्यजननेन दास्यस्

तौ वीजयाञ्चक्रुरजस्रमस्रैः ।

प्लुतेक्षाणाश्चुक्रुधुरप्रमेय

प्रेम्णे तदात्वानवलोकदीनाः ॥२७६॥

प्रफुल्लनीलाम्बुजसीधुचन्द्रः

कामं पपावित्यसहिष्णु सद्यः ।

तत्रत्यमिन्दिन्दिरयोर्युगं

किं बलात्तदीयामृतमप्यधासीत॥२७७॥

अभ्रान्तरुद्यच्चलसूर्यमण्डले

ननर्त मुक्तावलिरात्तसम्मदा ।

हंसावधूताः कनकावलीं श्रिता

वाद्यं विचित्रं रभसादवीवदन॥२७८॥

तत्रागत श्रीमधुसूदनोद्यद्

गानं श्रुतिप्रेष्ठमभूदपूर्वम् ।

येनैव सभ्या रसिकाङ्गवल्ली

द्रौत्यं दधे स्वेदमिषात्सवेपम् ॥२७९॥

बालास्तु कौटिल्यभृतोऽति लौल्याद्

इतस्ततः संसरणभजन्तः ।

श्रुतिप्रसक्ताः प्रतिकर्मभातास्

तस्थुर्मदादैन्दवमण्डलान्तः ॥२८०॥

अवार्यमानामृतपानदृप्तयो

विखण्डितस्थासकनव्यवर्मणोः ।

प्रयुक्तचञ्चद्भुजनागपाशयो

यूनोर्जिगीषा समवर्धत र्द्धिभिः ॥२८१॥

गोविन्दलीलामृतं १५.२६—

ताभ्यां तु सन्धौ विहिते तदा तयोः

प्रेम्णा प्रियायाः स्वकराम्बुजन्मना ।

उत्थाय चक्रे श्रमतोयमार्जनं

कैश्यालकाल्यम्बरसंवृतिं च सः ॥२८२॥

उज्ज्वलनीलमणि ११.४३—

त्वं गोविन्द मयासि किं नु कवरीबन्धार्थमभ्यर्थितः

क्लेशेनालमबद्ध एव चिकुरस्तोमो मुदं दोग्धि मे ।

वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते

नैवोत्तंसय मालतीर्मम शिरः खेदं भरेणाप्स्यति ॥२८३॥

सङ्ग्रहकर्तुः—

इति तद्वाक्सुधां पीत्वात्याग्रहं स हरिर्यदा ।

कृतवांस्तु तदा राधा वेशायानुमतिं ददौ ॥२८४॥

गीतगोविन्द १२.२५—

रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयोर्

घटय जघने काञ्चीं मुग्धस्रजा कवरीभरम् ।

कलय वलयश्रेणीं पाणौ पदे मणिनूपुराव्

इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत॥२८५॥

उज्ज्वलनीलमणि १४.१०६—

चित्रं चिरस्पर्शसुखाय चुचुके

कुर्वन्तमक्षिप्रमियं चलेक्षणा ।

स्विन्नाङ्गुलीकं पुलकाञ्चितश्रिया

सव्येन चिक्षेप कुचेन केशवम् ॥२८६॥

उज्ज्वलनीलमणि ५.९२—

मुदा कुर्वन्पत्राङ्कुरमनुपमं पीनकुचयोः

श्रुतिद्वन्द्वे गन्धाहृतमधुपमिन्दीवरयुग्मम् ।

सखेलं धम्मिल्लोपरि च कमलं कोमलमसौ

निराबाधां राधां रमयति चिरं केशिदमनः ॥२८७॥

विदग्धमाधव ७.४८—

नीतं ते पुनरुक्ततां भ्रमरकैः कस्तूरिकापत्रकं

नेत्राभ्यां विफलीकृतं कुवलयद्वन्द्वं च कर्णापितम् ।

हारश्च स्मितकान्तिभङ्गिभिरलं पिष्टानुपेषीकृतः

किं राधे तव मण्डनेन नितरामङ्गैरसि द्योतिता ॥२८८॥

सङ्ग्रहकर्तुः (?)—

सदा न त्याज्यं चेदलिकतिलकं च गर्भकमुत

स्खलन्नो निअरस्यान्मलयजविलेपः सशशिकः ।

स्थिरः कण्ठे हारः कृपणजनराश्च स्थिरतरः

न वा तीरे त्याजा मदनतटिनी नौरपि न वा ॥२८९॥

चकोरं चन्द्रो न त्यजतु यदि मेघो न करका

शनीः प्राणाघातौ किरतु बत चेच्चातकमुखे ।

तदैतान्ब्रूयास्ते विधुमुखि तुलायां समतया

हरिः श्लाघित्वेत्थं वृषरविस्तुआं तां रमयति ॥२९०॥

गोविन्दलीलामृतं २३.५४५६—

स्वाधीनभर्तृकावस्थां प्रापय्य राधिकां तया ।

सहाययौ बहिः कृष्णः स्मयन्पूर्णमनोरथः ॥२९१॥

तयेरितः स कुञ्जेषु प्रविश्य युगपत्पृथक।

स्वाधीनभर्तृकावस्थां प्रापयामास ताः सखी ॥२९२॥

निर्गतः कुञ्जनिकरात्कृष्णस्ताभिरलक्षितः ।

एकः सन्राधिकामागात्स्वदर्शनमृदुस्मिताम् ॥२९३॥

कृष्णभावनामृत २०.१०—

स्वबाहुसन्दानितकण्ठया तया

संविश्य पर्यङ्कवरे हरौ स्थिते ।

तत्पादसंवाहनशर्मकर्मणां

तत्किङ्करीणां समपूरि वाञ्छिताम् ॥२९४॥

अलङ्कारकौस्तुभः ५.२०—

पाययति पिबति चास्यं प्रेयसि ललिते क्व त्वमसीति ।

सान्द्रानन्दविनिद्रितराधा स्वप्नायितं जयति ॥२९५॥

अलङ्कारकौस्तुभः ५.२१—

अर्धाकुद्मलितानिमेषनयनं निस्पन्दतारं कियद्

दीर्घश्वासमलक्ष्यकण्ठनिनदं सानन्दतन्द्रायिता ।

कृष्णे पाययति स्वकीयमधरं प्रागे एव पीताधरे

किञ्चित्त्वं ललिते पिबेति किमपि स्वप्नायते राधिका ॥२९६॥

गोविन्दलीलामृतं २३.९१—

श्रीरूपमञ्जरीमुख्याः सेवापरसखीजनाः ।

तल्लीलामन्दिरबहिः कुट्टिमे शिश्यिरे सुखम् ॥२९७॥

ललितमाधव ६.४१—

अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर्

वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुराम् ।

त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां

कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥२९८॥

इति श्रीश्रीभावनासारसङ्ग्रहे नक्तलीलास्वादनं नाम

अष्टमः सङ्ग्रहः ॥

॥८॥

ओ)०(ओ

उपसंहारः

नित्यानन्दसनातनामलनवद्वीपाभिराम प्रभो

भक्तोद्दामविशालकीर्तनपराद्वैतामितानन्दद ।

राधाभावविभावितान्तरतनो श्रीरूपचिन्तामणे

लक्ष्मीप्राण गदाधरप्रिय हरे विश्वम्भर पाहि माम् ॥१॥

यत्पादपङ्कजरजः शिरसा प्रणम्य

धन्या भवन्ति नितरां बहवो जगत्याम् ।

श्रीमत्सनातनतनुः सदयार्द्रचित्तो

मन्दस्य मेऽप्यनुदिनं शरणं स एव ॥२॥

श्रीरूपस्याङ्घ्रिपद्मं प्रणतमतिरहं नौमि भूमौ निपत्य

श्रीराधाकृष्णलीलामृतसलिलनिधौ मज्जिता येन लोकाः ।

श्रीमच्चैतन्यचन्द्रोऽप्यतिशयकृपया यत्र शक्तिं प्रकाश्य

श्रीमद्वृन्दावन्नीयं मधुररतिरसं दर्शयामास सर्वान॥३॥

श्रीचैतन्यकृपासुधाब्धिलहरीसिक्तं गभीरं गुणैः

श्रीरूपप्रणयप्रमोदसरसीभृङ्गादृतस्वान्तकम् ।

श्रीवृन्दाविपिनेश्वरीगिरिभृतोर्लीलामृतास्वादकं

तं श्रीमद्रघुनाथभट्टमनिशं वन्दे प्रमोदान्वितम् ॥४॥

श्रीमद्गोपालभट्टः प्रभुवरकरुणासागरो दीनबन्धुस्

तस्य श्रीपादपद्मं नतजनशरणं सर्वदाहं नमामि ।

श्रीमच्चैतन्यदेवः परमसदयधीः सान्द्रकारुण्ययुक्तः

श्रीराधाकृष्णपादाम्बुजपरिचरणं शिक्षयामास यस्मै ॥५॥

श्रीचैतन्यकृपासुधामयनदीवीचीभिरासिञ्चितः

श्रीमद्रूपसनातनप्रियतमः श्रीजीववात्सल्यवान।

श्रीराधासरसीतटे विनिवसन्नामामृतानन्दितो

यस्तं श्रीरघुनाथदासमनिशं वन्दे कृपासागरम् ॥६॥

श्रीमज्जीवं सदयहृदयो लोकदुर्गम्यभावो

भक्तेस्तत्त्वं परममतुलं सर्वशास्त्रे निगूढम् ।

कृष्णस्यापि प्रचुरचरितं यश्चकार प्रकाशं

तस्य श्रीमच्चरणयुगलं नौमि नित्यं प्रपन्नः ॥७॥

यः कृष्णचैतन्यकृपैकवित्तस्

तत्प्रेमहेमाभरणाढ्यचित्तः ।

निपत्य भूमौ सततं नमामस्

तं लोकनाथं प्रभुमाश्रयामः ॥८॥

यः श्रीमत्कृष्णदासः कविनृपतिवरः स्निग्धमुग्धस्वरूपः

श्रीमच्चैतन्यचन्द्रस्य चरितरचनाभूरिकीर्तिर्जगत्याम् ।

श्रीमद्वृन्दावने श्रीवृषरवितनयाकृष्णभावाब्धिमग्नो

वन्दे तत्पादयुग्मं सकलकुशलदं नित्यमानन्दयुक्तम् ॥९॥

आचार्यः श्रीनिवासः प्रभुरतिरुचिरस्तप्तकार्तस्वराभः

श्रीरामकृष्णनामामृतमयजलधेरूर्मिणाकृष्णजिह्वः ।

यः श्रीवृन्दावनीयं मधुररतिरसं दर्शयामास लोकांस्

तस्य श्रीमत्पदाब्जं मम कृपणमतेर्जीवनं तच्च नौमि ॥१०॥

श्रीकृष्णनामामृतवर्षिवक्त्र

चन्द्रप्रभाध्वन्ततमोभराय ।

गौराङ्गदेवानुचराय तस्मै

नमो नमः श्रीलनरोत्तमाय ॥११॥

श्यामानन्दमहं वन्दे प्रेमानन्दपरिप्लुतम् ।

यस्मै श्रीराधिका स्वीयां तुलाकोटिं ददौ मुदा ॥१२॥

चैतन्यचन्द्रस्य पदारविन्द

माध्वीकमत्तान्खलु सर्वभक्तान।

निपत्य भूमौ तु सकाकू नित्यं

नमामि दन्तैस्तृणमाददानः ॥१३॥

संसारदावानललीढलोक

त्राणाय कारुण्यघनाघनत्वम् ।

प्राप्तस्य कल्याणगुणार्णवस्य

वन्दे गुरोः श्रीचरणारविन्दम् ॥१४॥

(स्तवामृतलहरी १.१)

तस्य श्रीगुरुपादपद्ममधुनः केन स्तवे प्राभवं

यत्पीतं सहसैव हन्त मलिनं मच्चित्तमत्तालिनम् ।

संसारोग्रमतङ्गाङ्गमदिरा विस्मार्य वृन्दावने

राधामाधवकेलिकल्पलतिकावासे सदावीवसत॥१५॥

(कृष्णभावनामृत उपसंहारे २)

श्रीगोविन्दपदारविन्दमधुपानन्याभिलाषोज्झितान्

पूर्णप्रेमरसोत्सवोज्ज्वलमनोवृत्तिप्रसन्नाननान।

शश्वत्कृष्णकथामहामृतपयोराशौ मुदा खेलतो

वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥१६॥

दशमो गीतगोविन्दो रस्मामृतोज्ज्वलौ तथा ।

वृन्दाविपिनगोपालचम्प्वौ राधासुधानिधिः ॥१७॥

विदग्धललिताद्यौ च माधवौ क्रमदीपिका ।

पद्यावली च सङ्गीतमाधवः स्तवमालिका ॥१८॥

चैतन्यचरितं काव्यं श्रीचन्द्रोदयनाटकम् ।

चन्द्रामृतं च गोविन्दलीलामृतं स्तवावली ॥१९॥

दानकेलिकौमुदी च श्रीकृष्णाह्निककौमुदी ।

अलङ्कारकौस्तुभश्च बृहद्भागवतामृतम् ॥२०॥

नातकास्तु जगन्नाथवल्लभं भावनामृतम् ।

कृष्णकर्णामृतं वृन्दानिष्कुटशतकं तथा ॥२१॥

स्तवामृतलहर्याख्यं श्रीरसामृतशेषकम् ।

मधुकेलिवल्लरी च गोविन्दरतिमञ्जरी ॥२२॥

दानचिन्तामणिश्चैषां पद्यानि तु स्वतुष्टये ।

सङ्गृहीतानि चारूणि विज्ञेयाणि मनीषिभिः ॥२३॥

रचितः कृष्णदासेन श्रीगोवर्धनवासिना ।

केनचिदतिमुग्धेन भावनासारसङ्ग्रहः ॥२४॥

वसुऋषिसिन्धुरेन्दुसङ्ख्ये गोवर्धनान्तरे ।

फाल्गुने सितपञ्चम्यां ग्रन्थोऽयं पूर्णतां गतः ॥२५॥

इति श्रीपरमकरुणार्णवश्रीलनरोत्तमदासनामधेयठक्कुरमहाशय

भृत्यभृत्यानुभृत्यकृष्णदासेन श्रीगोवर्धनवासिना

रचितः श्रीश्रीभावनासारसङ्ग्रहः समाप्तः

]