सङ्कल्प-कल्प-द्रुमः - कृष्णदेव-टीका

विस्तारः (द्रष्टुं नोद्यम्)

Śrī-saṅkalpa-kalpa-drumaḥ (with commentary by Śrī Kṛṣṇadeva Sārvabhauma), Śrī Haridāsa Śāstrī. Śrī Gadādhara-gaurahari Press (ed.), Vṛndāvana, 1978.

https://archive.org/details/sankalpa_kalpadruma/">https://archive.org/details/sankalpa_kalpadruma/

श्री-सङ्कल्प-कल्प-द्रुमः

श्री-श्री-राधा-मदन-गोपालो विजयते

वृन्दावनेश्वरि वयो-गुण-रूप-लीला-

सौभाग्य-केलि-करुणा-जलधेऽवधेहि ।

दासी भवानि सुखयानि सदा सकान्तां

त्वाम् आलीभिः परिवृताम् इदम् एव याचे ॥१॥

कृष्णदेवः : श्री-श्री-हरिः । राधिकायाश् चरण-तलम् आरभ्य मस्तक-पर्यन्तं वर्णयित्वा तस्या निकटे प्रार्थनां करोति चतुर्-अधिक-शत-श्लोकैः ।

हे वृन्दावनेश्वरि ! यौवन-गुण-रूपादिनां जलधि-स्वरूपे ! त्वं अवधेहि, अवधानं कुरु । अहं तव दासी भवानि दासीभूत्वा सदा कान्त-सहितां एवं आलीभिः सखीभिः परिवृतांत्वां सुखयानि इदम् एवाहं याचे ॥१॥

शृङ्गारयाणि भवतीम् अभिसारयाणि

वीक्ष्यैव कान्त-वदनं परिवृत्य यान्तीम् ।

धृत्वाञ्चलेन हरि-सन्निधिम् आनयानि

सम्प्राप्य तर्जन-सुधां हृषिता भवानि ॥२॥

कृष्णदेव: भवतीं अहं शृङ्गारयानि, तद्-अनन्तरं त्वां अभिसारयानि अभिसारानन्तरं कान्त-वदनं वीक्ष्य लज्जया परिवृत्य यान्तीं त्वां अञ्चलेन धृत्वा हरि-सन्निधिं आनयानि । पश्चात् सम्प्रति या तव तर्जन-स्वरूपा सुधा, तां सम्प्राप्य हर्ष-युक्ताहं भवानि ॥२॥

पादे निपत्य शिरसानुनयानि रुष्टां

त्वां प्रत्यपाङ्ग-कलिकाम् अपि चालयानि ।

तद्-दोर्-द्वयेन सहसा परिरम्भयानि

रोमाञ्च-कञ्चुकवतीम् अवलोकयानि ॥३॥

कृष्णदेव: तद्-अनन्तरं रुष्टां त्वां शिरसा पादे निपत्य अनुनयं करवानि । एवं तदैव कृष्णं प्रति त्वया सह अङ्ग-सङ्गार्थं स्वकीय-नयनस्य अपाङ्ग-कलिकाम् अपि चालयानि । तद्-अनन्तरं तत् तस्य कृष्णस्य दोर्-द्वयेन बाहु-द्वयेन परिरम्भयानि आलिङ्गनवतीं करवानि । आलिङ्गनानन्तरं रोमाञ्च-स्वरूपेन कञ्चुकेन विशिष्टां तां अवलोकयानि ॥३॥

प्राण-प्रिये कुसुम-तल्पम् अलङ्कुरु त्वम्

इत्य् अच्युतोक्ति-मकरन्द-रसं धयानि ।

मां मुञ्च माधव सतीम् इति गद्गदार्ध-

वाचस् तवैत्य निकटं हरिम् आक्षिपानि ॥४॥

कृष्णदेव: “हे प्राण-प्रिये ! कुसुम-तल्पं त्वं अलङ्कुरु” इति त्वां प्रति अच्युतस्य उक्ति-स्वरूपं मकरन्द-रसं धयानि पिबानि । हे माधव ! सतीं मां मुञ्च इति गद्गदार्ध-वाक्य-युक्तायास् तव निकटम् एत्य हरिं प्रति आक्षेपं करवाणि ॥४॥

वामाम् उदस्य निज-वक्षसि तेन रुद्धाम्

आनन्द-बाष्प-तिमितां मुहुर् उच्छलन्तीम् ।

व्यस्तालकां स्खलित-वेणीम् अबद्ध-नीवीं

त्वां वीक्ष्य साधु जनुर् एव कृतार्थयानि ॥५॥

कृष्णदेव: तेन कृष्णेन निज-वक्षसि उदस्य उत्क्षिप्य रुद्धां वामां आनन्द-बाष्प-तिमितां मुहुर् वारं वारं उच्छलन्तीं व्यस्तालकां स्खलित-वेणीं अबद्ध-नीवीं त्वां वीक्ष्य साधु जन्म एव कृतार्थयानि ॥५॥

तल्पे मयैव रचिते बहु-शिल्प-भाजि

पौष्पे निवेश्य भवतीं न न नेति वाचम् ।

कृष्णं सुखेन रमयन्तम् अनन्त-लीलं

वातायनात् तनयनैव निभालयानि ॥६॥

कृष्णदेव: न न नेति वाक्ययुक्तां भवतीं सुखेन रमयन्तं अनन्त-लोलं कृष्णं मया रचिते अथ च बहु-शिल्प-युक्ते पुष्प-निर्मित-तल्पे निवेश्य गवाक्ष-रन्ध्रे दत्त-नयना केवलं अवलोकयानि ॥६॥

स्थित्वा बहिर् व्यजन-यन्त्र-निबद्ध-डोरी-

पाणिर् विकर्षण-वशान् मृदु वीजयानि ।

उत्तुङ्ग-केलि-कलित-श्रम-बिन्दु-जालम्

आलोपयानि मणितैः स्मितम् उद्गीराणि ॥७॥

कृष्णदेव: तदनन्तरं युवयोः सम्भोग समये बहिः स्थित्वा व्यजन-यन्त्रे निबद्वा या डोरी सा पानौ यस्या एवम्भूताहं डोर्याम् आवर्षाणवशात् मृदु यथास्या देवं वीजयानि उत्कृष्टं केलि-जनित-श्रमेण धर्म-बिन्दु-समूहम् आलोपयानिमणितानि रति-कूजितानि तैः स्मितं उद्गिराणि ॥७॥

श्री-रूप-मञ्जरि-मुख-प्रिय-किङ्करीणाम्

आदेशम् एव सततं शिरसा वहानि ।

तेनैव हन्त तुलसी परमानुकम्पा-

पात्री भवानि करवाणि सुखेन सेवाम् ॥८॥

कृष्णदेव: “डोरीं विहाय पुष्प-चयन-चन्दन-घर्षणादि परिचर्यायां त्वं याहि” इति रूप-मञ्जरि-मुख-प्रिय-किङ्करीणां आदेशं निरन्तरं अहं शिरसा वहानि । न तु तदानीं दर्शन-सुख-त्याग-जन्यं असन्तोषं करवाणि तेनैव तादृशाज्ञा-पालनेनैव तुलस्याः परमानुकम्पा-पात्री भवानि सुखेन सेवां अहं करवाणि ॥८॥

माल्यानि हारकटादि-मृजा विचित्र-

वर्तिः शितांशु-घुसृणागुरु-चन्दनादि ।

वीटीर् लवङ्ग-खपुरादि-युताः सखीभिः

सार्धं मुदा विरचयानि कलां प्रकाश्य ॥९॥

कृष्णदेव: रूप-मञ्जर्य्-आदिनां आज्ञां प्राप्य माल्याणि एव हार-वलयादिनां मार्जनं एवं मकरि-भङ्ग्यादि निर्माणार्थं तुलीति प्रसिद्धा चित्रवर्ति एवं कर्पूर-कुङ्कुमागुरु-चन्दनादि-लवङ्ग-खपुरादि-युताः वीटीश् च सखीभिः सह कलां वैदग्धीं प्रकाश्य रचयानि ॥९॥

त्वां स्रस्त-वेष-वसनाभरणां सकान्तां

वीक्ष्य प्रसाधन-विधौ द्रुतम् उद्यताभिः ।

श्री-रूप-रङ्ग-तुलसी-रति-मञ्जरीभिर्

दृष्टानयानि तव संमुखम् एव तानि ॥१०॥

कृष्णदेव: कन्दर्प यूद्धेन कान्त-सहितां स्रस्त-वेष-वसनाभरणां त्वां वीक्षय प्रसाधन-विधौ द्रुतम् उद्यताभिः श्री-रूप-मञ्जर्य्-आदिभिः दृष्टाहं तानि माल्य हारादि द्रव्यानि तव सम्मुखं आनयानि तत्-समये तासां मयि दृष्टि मात्रेनैव आनयानि न तु कथनाद्य्-अपेक्षा इति स्वस्य चातुर्य-ध्वनितं ॥१०॥

त्वाम् आशिखा-चरण-मूढ-विचित्र-वेषां

स्प्रष्टुं पुनश् च धृत-तृष्णम् अवेक्ष्य कृष्णम् ।

आयान्तम् एव विकट-भ्रू-कुटी-विभङ्ग-

हुङ्कृत्य्-उदञ्चित-मुखी विनिवर्तयानि ॥११॥

कृष्णदेव: शिखाम् आरभ्यं चरण-पर्यन्तं प्राप्त-विचित्र-वेषां त्वां स्प्रष्टुं पुनर् धृत-तृष्णं कृष्णं तन्-निकटे आयान्तं अवेक्ष्य अहं निवर्तयानि । अहं कीदृशीः मिथ्या रोषेण विकटाभ्यां भ्रु-कुटी-विभङ्ग-हुङ्कृतिभ्यां सह उदञ्चितं ऊर्द्वक्षिप्तं मुखं यस्याः सा ॥११॥

तत्रेत्य विस्मयवतीं ललितां प्रतीह

साध्वीत्व-कण्टक-विनिष्क्रमनार्थम् अस्याः ।

प्राप्तं न्यसिद्धद् अयि माम् इयम् एव धूर्तेत्य्

उक्तिं हरेः स्व-हृदयं रसयानि नित्यम् ॥१२॥

कृष्णदेव: परस्पर विहारेण स्रस्त-वेष-भूषणौ युवां परिहसितुम् आगता ललिता पुर्ववद् वेषादिकं वीक्ष्य युवयोर् अङ्ग-सङ्गाभाव-शङ्कया विस्मयं प्राप्तां एवञ्च तादृशां विस्मयवतीं ललितां प्रति कृष्ण आह । हे ललिते ! अस्या राधायाः साध्वीत्व-कण्टक-निष्क्रमनार्थं प्राप्तं मां इयं धूर्ता तव किङ्करी न्यसिद्धत्इयम् एव धूर्ता न तु राधिका यतस् तस्याः साध्वोत्वस्य कण्टक-रूपत्वात् तथा च राधिकायाः सम्मति रस्त्येवेतिं (सम्मतिर् अस्ति एव इति?) परिहासोध्वनितः इति हरेर् उक्तिं मम हृदयं स्वरूपं भ्रमरं अहं रसयानि हृदयस्य उक्तिं कर्तृकरसवत्ते ‘हं प्रयोजिका भवानि रस आस्वादने चुरादेर् निजन्तोत्तर पुनर् निच् ॥१२॥

निष्क्रम्य कुञ्ज-भवनाद् विपिने विहर्तुं

कान्तैक-बाहु-परिरब्ध-तनुं प्रयान्तीम् ।

त्वाम् आलीभिः सह कथोपकथा-प्रफुल्ल-

वक्त्राम् अहं व्यजन-पाणिर् अनुप्रयाणि ॥१३॥

कृष्णदेव: कुञ्ज-भवनाद् विनिष्क्रम्य विपिने विहर्तुं प्रयान्तीं त्वां अनुपश्चात् अहम् अपि व्यजन-पानिः सती प्रयानि । त्वां कीदृशीं कान्तस्य एक बाहुना

आलिङ्गित-तनुं पुनश् च सखीभिः सह कथनोपकथने प्रफुल्ल-वक्त्रां ॥१३॥

गायानि ते गुण-गणांस् तव वर्त्म गम्यं

पुष्पास्तरैर् मृदुलयानि सुगन्धयानि ।

साली-ततिः प्रतिपदं सुमनोऽतिवृष्टिं

स्वामिन्य् अहं प्रतिदिशं तनवानि बाढम् ॥१४॥

कृष्णदेव: मयैव रचितान् तव गुण-गणान् अहं गायानि । एवं तव गम्यं वर्त्म पुष्पास्तरैः करणैः कोमलं करवाणि, तैः पुष्पैः सुगन्धयानि च हे स्वामिनि ! प्रतिपदं सुमनोभिः पुष्पैः करणैः वृष्टिं बाढं अतिशयं यथास्या देवं आलीतत्या सहाहं प्रतिदिशं तनवानि ॥१४॥

प्रेष्ठ-स्वपाणि-कृत-कौसुम-हार-काञ्ची-

केयूर-कुण्डल-किरीट-विराजिताङ्गीम् ।

त्वां भूषयाणि पुनर् आत्म-कवित्व-पुष्पैर्

आस्वादयानि रसिकालि-ततीर् इमानि ॥१५॥

कृष्णदेव: प्रेष्ठेन श्रीकृष्णेन स्वपाणिनाकृतैः कुसुम-निर्मित-हारादिभिर् भूषिताङ्गीं त्वां पुनर् अहं स्वकृत-कवित्वरूप-पुष्पैः भूषयानि एवं इमानि कवित्वानि रसिक आलीगणान्, आस्वादयानि ॥१५॥

चन्द्रांशु-रूप्य-सलिलैर् अवसिक्त-रोध-

स्यञ्चत्-कदम्ब-सुरभाव् अलि-गीत-कीर्ति ।

आरब्ध-रास-रभसां हरिणा सह त्वां

तत्-पाठितैव विदुषी कलयानि वीणाम् ॥१६॥

कृष्णदेव: चन्द्रस्यांशु-स्वरूपैः रूप्य-जलैः सिक्तोऽञ्चत् गच्छत् कदम्बस्य सौरभ्य यत्र एवम्भुते एवं सौरभ-लोभेन आगतेन भ्रमरेण गीता कृष्णस्य कीर्तिर् यत्र एवम्भुते च रोधसि पुलिने हरिणा सह आरब्ध-रास-रभसां त्वां विदुषी अहं तत् पठिता सती वीणां वादयाणि रभसो हर्षः ॥१६॥

रासं समाप्य दयितेन समं सखीभिर्

विश्रान्ति-भाजि नव-मालतिका-निकुञ्जे ।

त्वय्य् आनयानि रसवत् करकाम्र-रम्भाद्

राक्षादिकानि सरसं परिवेषयाणि ॥१७॥

कृष्णदेव: रासं समाप्य नव-मालतिका-निकुञ्जे दयितेन सखीभिश् च सह

विश्रान्ति-भाजि त्वयि सत्यां रस-युक्ता दाडिमी फलादिकं आनयानि एवम् अनन्तरं सरसं यथास्यात् तथा परिवेषयानि ॥१७॥

तल्पे सरोज-दल-कॢप्तम् अनङ्ग-केलि-

पर्याप्तम् आप्त-कलया रचितं तुलस्या ।

त्वां प्रेयसा सह रसाद् अधिशाययानि

ताम्बूलम् आशायितुम् उल्बनम् उल्लसानि ॥१८॥

कृष्णदेव: कन्दर्प-केलेः पर्याप्तिर् यत्र एवम्भूतं अथ च सरोज-दलेन कॢप्तं आप्त-कलया तुलस्या रचितं तल्पं श्री-कृष्णेन सह त्वां रसात् रसं प्राप्य अधिशाययानि । एवं ताम्बूलं भोजयितुं उल्बनं यथा स्यात् तथा उल्लास-करवाणि ॥१८॥

संवाहयानि चरणाव् अलकैः स्पृशानि

जिघ्राणि सौरभ-समूढ-चमत्क्रियाब्धिः ।

अक्ष्णोर् दधान्य् उरसिजौ परिरम्भयानि

चुम्बान्य् अलक्षितम् अवेक्षित-सौकुमार्याः ॥१९॥

कृष्णदेव: शयनानन्तरं चरणौ सम्वाहयानि पुनस् तौ स्व-अलकैः करणैः स्पृशानि ! एवं चरण-द्वयस्य सौरभेन प्राप्तश् चमत्कार-समुद्रो यया एवम्भूताहं तौ जिघ्रानि । पुर्नवक्षोज-द्वये तौ दधानि । एवं मम स्तन-द्वयस्य चरण-कर्मकालिङ्गन-कर्तृत्वे ऽहं प्रयोजिका भवानि । एवं चरण-द्वयस्य अवेक्षित-सौकुमार्याहं अन्यासां अलक्षितं यथास्या देव-चरणौ चुम्बानि ॥१९॥ (निशान्त-लीला)

अन्ते निशस् तनुतर-प्रसृतालकाल्या

ताडङ्क-हार-तति-गन्धवहाग्र-मुक्ताः ।

प्रेष्ठस्य ते तव च संग्रथिता निभाल्य

तत्रानयानि परमाप्त-सखीः प्रबोध्य ॥२०॥

कृष्णदेव: निशः निशाया अन्ते ते तव प्रेष्ठस्य तव च सूक्ष्मतर प्रसरण-युक्तालकश्रेण्या सह ताटङ्काद्या ग्रथिता निभाल्य सर्वासां अग्रे उत्थिताहं परमाप्त-सखीः प्रबोध्य तत्र आनयानि । अत्रालक शब्देन केश सामस्त ग्रहणं ताटङ्कं कुण्डलं नासाया अग्रेस्थिता (वेशर नत) इत्याद्य् अलङ्काराः कवि-प्रसिद्धाः ॥२०॥

ता दर्शयानि सुख-सिन्धुषु मज्जयानि

ताभ्यः प्रसादम् अतुलं सहसाप्नुवानि ।

तन्-नूपुरादि-रणितैर् गत-सान्द्र-निद्रां

शय्योत्थितां स-चकितां भवतीं भजानि ॥२१॥

कृष्णदेव: सखीगणान् तत्र आनीय ता।ह् केशेन सह सवव्याताटङ्काद्या दर्शयानि । दर्शनानन्तरं सुखसिन्धुषु मज्जयानि । तद्-अनन्तरं ताभ्यः सकाशादतुलं प्रसाद सहसा, प्राप्नुवाणि ततः स्तासां सखीनां नूपुरादि शब्दैर्गता निविडा निद्रा यस्या एवम्भूतां शय्योत्थितां तथाच लज्वया सचकितां भवतीं अह भजानि ॥२१॥

हे स्वामिनि प्रिय-सखी-त्रपयाकुलाया

कान्ताङ्गतस् तव वियोक्तुम् अपारयन्त्याः ।

उद्ग्रन्थयान्य् अलक-कुण्डल-माल्य-मुक्ता-

ग्रन्थिं विचक्षणतयाङ्गुलि-कौशलेन ॥२२॥

कृष्णदेव: भजनमेवाह । हे स्वामिनि ! प्रियसखी दर्शन जन्य लज्वया आकुलायाः कान्तस्य अङ्गतः वियोत्तुं अपारयन्त्याः तव अलकेन सह कुण्डलादेर्ग्रन्थिं विचक्षणतया अङ्गुलिकौशलेन उद्ग्रन्थयानि ॥२२॥

नाशाग्रतः श्रुति-युगाच् च वियोजयानि

तद्-भूषणं मणि-सरांस् तु विसूत्रयाणि ।

प्राणार्बुदाद् अधिकम् एव सदा तवैकं

रोमापि देवि कलयानि कृतावधाना ॥२३॥

कृष्णदेव: उद्ग्रन्थने स्वस्य कौशलमेवाह । नासाग्रतः कर्णद्वयाच्च सकाशात् वेशरकुण्डल स्वरूपभूषणं वियोजयानि । नाशातस्तद्भुषणस्य वियोगेनैव केशस्य ग्रन्थिं स्वयमेव यास्यति । एवं मणिसरान् विसूत्रयानि त्रोटयानि । ननु लाघवात् केश त्रोटनो नैव निर्वाहः । किमर्थमेतादृश प्रयासेन तत्राह । हे देवि, तव एकं रोमापि प्राणार्बुदाधिकं अहं कृतावधाना अवलोकयानि ॥२३॥

त्वां सालिम् आत्म-सदनं निभृतं व्रजन्तीं

त्यक्त्वा हरेर् अनुपथं तद् अलक्षितैत्य ।

तं खण्डिताम् अनुनयन्तम् अवेक्ष्य चन्द्रां

तद्-वृत्तम् आलि-तति-संसदि वर्णयानि ॥२४॥

कृष्णदेव: कुञ्जादात्मसदनं आलीगणसहितां निभृतं व्रजन्तीं त्वां त्यक्त्वा

अहं हरिणालक्षिता सती तस्य अनुपथं गत्वा चन्द्रावलीं अनुनयन्तं श्री कृष्णं चीक्ष्य तद्वृत्तान्तं आलिसमूहस्य सभायां वर्णयाणि ॥२४॥

प्रक्षालयानि वदनं सलिलैः सुगन्धैर्

दन्तान् रसालज-दलैस् तव धावयानि ।

निर्णेजयानि रसनां तनु-हेम-पत्र्या

सन्दर्शयानि मुकुरं निपुणं प्रमृज्य ॥२५॥

कृष्णदेव: दन्तान् आम्रदलैः शोधयानि रसनां सूक्ष्म स्वर्ण पत्राणिर्नैजयानि निपुणं यथास्या देवं प्रमृज्य दर्पणं दर्शयानि । प्रक्षायया निरदनं सलिलैः सुगन्धैः ॥२५॥

स्नानाय सूक्ष्म-वसनं परिधापयानि

हाराङ्गदाद्य् अप्य् अङ्गाद् अवतारयाणि ।

अभ्यञ्जयाण्य् अरुण-सौरभ-हृद्य-तैलैर्

वर्तयानि नव-कुङ्कुम-चन्द्र-चूर्णैः ॥२६॥

कृष्णदेव: स्नानाय सूक्ष्म वसनं परिधापयानि हाराद्यलङ्कारं अप्यङ्गात् शरीरात् अवतारयाणि अरुण सौरभ ह्।र्द्यतैलैः अभ्यञ्जयानि अभ्यञ्जयनान्तरं नवकुङ्कुम कर्पूर चूर्णैरुद्वर्त्तयानि ॥२६॥

नीरैर् महासुअरभिभिः स्नपयानि गात्राद्

अम्भांसि सूक्ष्म-वसनैर् अपसारयाणि ।

केशान् जवाद् अगुरु-धूम-कुलेन यत्नाद्

आशोषयाणि रभसेन सुगन्धयानि ॥२७॥

कृष्णदेव: महासूरभिभिः नीरैः स्नपयानि । गात्राज्जलानि सूक्ष्म वसनैः दूरीकरवानि । जवात् शिघ्रं अगुरुधूम समूहेन केशान् शोषयानि तेनैव अगुरुधुमेन सुगन्धयानि ॥२७॥

वासो मनोभिरुचितं परिधापयानि

सौवर्ण-कङ्कतिकया चिकुरान् विशोध्य ।

गुम्फानि वेणीम् अमलैः कुसुमैर् विचित्राम्

अग्रे लसच्-चमरिका-मणि-जात-भाताम् ॥२८॥

कृष्णदेव: अमलैः कुङ्कुमै विचित्रां वेणीं किदृशीं अग्रेलसन्ती जात इति प्रसिद्धाचमरीका तत्रस्थित मणिसमूहेन भातां ॥२८॥

चूडामणिं शिरसि मौक्तिक-पत्रपास्यां

भाले विचित्र-तिलकं च मुदारचय्य ।

अङ्क्त्वाक्षिणी श्रुति-युगं मणि-कुण्डलाढ्यं

नासाम् अलङ्कृतवतीं करवाणि देवि ॥२९॥

कृष्णदेव: शिरसि शिषकुल इति प्रसिद्धा चूडामणिं मुक्ता निम्मितां ललाटीकां पत्रपास्यां आरचय्य ललाटीका इत्यमरः । नेत्रद्वयं अङ्क्त्वा अञ्जनयुक्तं कृत्वा कर्णद्वयं मणिकुण्डलयुक्तं करवानि ॥२९॥

गण्ड-द्वये मकरिके चिबुके विलिख्य

कस्तुरिकेष्ट-पृषतं कुचयोश् च चित्रम् ।

बाह्वोस् तवाङ्गद-युगं मणि-बन्ध-युग्मे

चूडा मसार-कलिताः कलयानि यत्नात् ॥३०॥

कृष्णदेव: चिबुके कस्तूरिका इष्टं पृषतं बिन्दुं मसार इन्द्र नीलमणि स्तेन कलितानिर्मिता चूडी मणिबन्ध युग्मे कलयानि ॥३०॥

पाण्य्-अङ्गुलीः कनक-रत्न-मयोर्मिकाभिर्

अभ्यर्चयानि हृदयं पदकोत्तमेन ।

मुक्तोत-कञ्चुलिकयोरसिजौ विचित्र-

माल्येन हार-निचयेन च कण्ठ-देशम् ॥३१॥

कृष्णदेव: पाण्यङ्गुलीः रत्नमयाङ्गुरीभिः रभ्यर्चयानि । मुक्तायाग्रथिता कञ्चूलिका तया स्तनौ अर्चयानि ॥३१॥

काञ्च्या नितम्बम् अर्थ-हंसक-नूपुराभ्यां

पादाम्बुजे दल-ततिं क्वणद्-अङ्गुरीयैः ।

लाक्षा-रसैर् अरुणम् अप्य् अनुरञ्जयानि

हे देवि तत्-तल-युगं कृत-पुण्य-पुञ्जा ॥३२॥

कृष्णदेव: दलततिं अङ्गुलीश्रेणीं शब्दायमानाङ्गुरीभिः । तयोः पादयोस्तलयुगं साहजिक अरुणमपि कृतपुण्यपूञ्जाहं लाक्षारसैरनुरञ्जयानि ॥३२॥

अङ्गानि साहजिक-सौरभयन्त्य् अथानि

देव्य् अर्चयानि नव-कुङ्कुम-चर्चयैव ।

लीलाम्बुजं कर-तले तव धारयाणि

त्वां दर्शयानि मणि-दर्पणम् अर्पयित्वा ॥३३॥

सौन्दर्यम् अद्भुतम् अवेक्ष्य निजं स्व-कान्त-

नेत्रालि-लोभनम् अवेत्य विलोल-गात्रीम् ।

प्राणार्बुदेन विधु-वर्तिक-दीपकैश् च

निर्मञ्छयानि नयनाम्बु-निमज्जिताङ्गी ॥३४॥

कृष्णदेव: स्वकान्तस्य नेत्ररूप भ्रमरस्य लोभनं निजं अद्भुतं सौन्दर्य अवेत्य चञ्चल गात्रीं त्वां प्राणार्बुदेन कर्पूरवर्तिकया निर्मित दीपकैः करणैश्च अहं आनन्दाश्रुभिः निमज्जिताङ्गी सती निर्माञ्छयानि निर्मञ्छनं करवानि ॥३४॥

गोष्ठेश्वरी-प्रहितया सह कुन्द-वल्ल्या

प्राभातिक-प्रियतमाशन-साधनाय ।

यान्तीं समं प्रिय-सखीभिर् अनुप्रयाणि

ताम्बूल-सम्पुट-मणि-व्यजनादि-पाणिः ॥३५॥

कृष्णदेव: प्रियतमस्य श्रीकृष्णस्य प्रातःकालीनभोजन साधनाय यशोदया प्रहितया कुन्दवल्ल्या सह एवं प्रिय सखीभिः समं यान्तीं त्वां अनुपश्चादहमपि ताम्बूल सम्पुटादि पाणिः सती गच्छानि ॥३५॥

गोष्ठेश्वरी-सदनम् एत्य पदे प्रणम्य

तस्यास् तद्-आप्त-भविकां त्रपयावृटाङ्गीम् ।

घ्रात्ं तया शिरसि तन्-नयनाम्बु-सिक्तां

त्वां वीक्ष्य ताम् अहम् अपि प्रणमामि भक्त्या ॥३६॥

कृष्णदेव: तस्या यशोदायाः पदे प्रणम्य तदा आप्तभविकां प्राप्त कुशलां अथच लज्जया समावृताङ्गीं त्वां वीक्ष्य अहमपि तां गोष्ठेश्वरीं भक्त्या प्रणमामि । त्वां पुन कीदृशीं तया यशोदया शिरसि घ्रातां पुनश्च तस्या नयनजलेन सिक्तां ॥३६॥

मूर्तं तपोऽसि वृषभानु-कुलस्य भाग्यं

गेहस्य मेऽसि तनयस्य च मे वराङ्गि ।

नैरुज्यदास्य् अमृत-पाणिर् अभूर् वरेण

दुर्वाससो यद् इति तद्-वचसा हसानि ॥३७॥

स्नातानुलिप्त-वपुषो दयितस्य तस्य

तात्-कालिके मधुरिमन्य् अतिलोलिताक्षीम् ।

स्वामिन्य् अवेत्य भवतीं क्वचन प्रदेशे

तत्रैव केन च मिषेण समानयानि ॥३८॥

कृष्णदेव: यशोदा आह । हे वराङ्गि ! हे राधे ! त्वं वृषभानु कुलस्य मूर्तं यत्तपस्तत् स्वरूपासि एवं मम गेहस्य मूर्तयद्भाग्यं तत्स्वरूपासि एवं ममतनयस्य नैरुज्यदा आरोग्यदा त्वं असि । यस्माद्दुर्वाससोवरेण अमृतपाणिरभूदिति तस्या यशोदाया वचनेन अहं निरुज्य पदेन श्लिष्टार्थ स्मरणात् हसानि ॥३७-३८॥

प्रक्षालयानि चरणौ भवद्-अङ्गतः स्रङ्-

माल्यादि पाक-रचनानुपयोगि यत् तत् ।

उत्तारयाणि तद् इदं तु तवास्त्व् इति त्वद्-

वाचोल्लसानि विकसन्-मधु-माधवीव ॥३९॥

कृष्णदेव: चरणौ प्रक्षाल्य पाकरचनोपयोगियत् स्रङ्माल्यादि अलङ्करणं तत् भवदङ्गतः तवाङ्गात् अहं उत्तारयानि तदैवपूर्वकृतमत् चातुर्य वशेन

श्रीकृष्ण माधुर्य दर्शनाज्जातानन्दाया स्तव रे किङ्करि ! इदं भूषणादिकं तवास्तु इति वचसा अलं उल्लसानि तत्र दृष्टान्तः वसन्तकालीन विकास-युक्त माधवी इव ॥३९॥

पक्त्वास्थितां मधुर-पायस-शाक-सूप-

भाजि-प्रभृत्य्-अमृत-निन्दि-चतुर्विधान्नम् ।

त्वां लोकयानि नननेति मुहुर् वदन्तीं

गोष्ठेशयापि परिवेषयितुं निदिष्टाम् ॥४०॥

तृप्त्य्-उत्थितां प्रियतमाङ्ग-रुचिं धयन्त्या

वातायन्तार्पित-दृशः सहसोल्लसन्त्याः ।

आनन्द-ज-द्युति-तरङ्ग-भरे मनोज-

मञ्जु-कृते तव मनो मम मज्जयानि ॥४१॥

कृष्णदेव: मधुरपायसादि चतुर्विधान्नः पक्त्वास्थितां अथच गोष्ठे शया परिवेशयितुं निदिष्टां पश्चात् नननेति मुहुर्बदन्तीं त्वां अवलोकयानि प्रियतमस्य श्रीकृष्णस्य भोजन जन्य तृप्त्युत्थितां अङ्गकान्तिं पिबन्त्या स्तव श्रीकृष्ण दर्शनोत्थानन्द जन्य कान्ति तरङ्गातिशये मम मनो मज्जयानि । तव किदृश्याः श्रीकृष्णस्य दर्शनार्थं वातायने गवाक्षेऽर्पिते दृशौ यस्याः तवद्युति तरङ्गे किदृशे मनोजेन कन्दर्पेण मनोज्ञीकृते ॥४१॥

राधे तवैव गृहम् एतद् अहं च जाते

सूनोः शुभे किम् अपरां भवतीम् अवैमि ।

तद् भुङ्क्ष्व सम्मुखम् इति व्रजपा-गिरा त्वद्-

वक्त्रे स्मितं स्व-हृदयं रसयानि नित्यम् ॥४२॥

कृष्णदेव: हे जाते ! हे पुत्रि ! हे राधे! हे शुभे ! एतदगृहं अहं च तवैव सूनोः श्रीकृष्णात् सकासात् त्वां अपरां भिन्नां किं अवैमि जानामि ? तत्तस्मात् मम सन्मुखमेव त्वं भुङ्ख इति यशोदाया गिरा ज्ञातं यत् तववक्त्रस्मितं तेन मम हृदयं नित्यं अहं रसयानि । अत्र सूनोरिति श्लिष्टार्थ स्मरणात् स्मितं जातं यद्यथा सूनोः किं अपरां भवतीं अवैम नहि जानामि किन्तु तदीयामेव जानामि ॥४२॥

यान्तं वनाय सखीभिः समम् आत्म-कान्तं

पित्रादिभिः स-रुदितैर् अनुगम्यमानम् ।

वीक्ष्याप्त-गौरव-गेहां दिन-नाथ-पूजा-

व्याजेन लब्ध-गहनां भवतीं भजानि ॥४३॥

कृष्णदेव: सूवलादि सखिभिः समं वनाय यान्तं एवं रोदन युक्तैः पित्रादिभिरनूगम्यमानं आत्मकान्तं श्रीकृष्णं वीक्ष्य प्राप्त गुरुजन सम्बन्धि गेहं यया एवम्भूतां अथच गृह गमनानन्तरं सूर्य पूजाच्छलेन लब्धवतां भवतीं भजानि ॥४३॥

कान्तं विलोक्य कुसुमावचये प्रवृत्ताम्

आदाय पत्र-पुटीकाम् अनुयान्य् अहं त्वाम् ।

का तस्करीयम् इति तद्-वचसा न कापीत्य्

उक्त्या सहार्पित-दृशं भवतीं स्मराणि ॥४४॥

कृष्णदेव: वनेगत्वा श्रीकृष्णं विलोक्य कुशुमावचयने प्रवृतां त्वां पुष्पस्याधारभूतां पत्रनिर्मित पुटिकां आदाय अहं अनुयानि । तद्-अनन्तरं का तस्करी मम पुष्पं चिनोति इति तस्य श्रीकृष्णस्य वचसा करणेन हर्षजाता न कापीति तव उक्तिं स्तयासह श्रीकृष्णे अर्पित दृशं भवतीं भजानि ॥४४॥

पुष्पाणि दर्शय कियन्ति हृतानि चौरीत्य्

उक्त्यैव पुष्प-पुटिकाम् अपि गोपयानि ।

तद् वीक्ष्य हन्त मम कक्ष-तले क्षिपन्तं

पाणिं बलात् तम् अभिमृश्य भवानि दूना ॥४५॥

कृष्णदेव: हे चौरि ! राधे ! मम कियन्ति पुष्पाणित्वया हृतानि तद्दर्शय इति कृष्णस्य उक्त्यैव अहं पुष्प पुटीकां गोपयानि । तदेगोपनं वीक्ष्य गृहीतुं मम कक्षतले हन्त बलात् पाणिं क्षिपन्तं त्वं कृष्णं अभिमृष्य ज्ञात्वा अहं दुःखिता भवानि ॥४५॥

रक्षाद्य देवि कृपया निज-दासिकां माम्

इत्य् उच्च-कातर-गिरा शरणं व्रजानि ।

किं धूर्त दुःखयसि मज्-जनम् इत्य् अमुष्य

बाहुं करेण तुदतीं भवतीं श्रयाणि ॥४६॥

कृष्णदेव: इति उच्चैःकातरवाक्येन शरणं व्रजानि । तद्-अनन्तरं राधिकाह हे धूर्त ! कृष्ण ! कथं मज्जनं दुःखयसि इत्युक्त्वा अमुस्य श्रीकृष्णस्य बाहुं स्वकरेण तुदतीं अहं आश्रयाणि तुद व्यथने धातु ॥४६॥

त्यक्त्वैव मां भवद्-उरः-कवचं विखण्ड्य

प्राप्तां श्रजं तव गलात् स्व-गले निधाय ।

पुष्पाणि चौरि मम किं तव कण्ठ-हेतोस्

तत्-कण्ठम् एव सुभृशं परिपीडयानि ॥४७॥

कृष्णदेव: तद्-अनन्तरं श्रीकृष्णः मां त्यक्त्वा तव उरः कवच कञ्चूलिकां विखण्ड्य प्राप्तां मालां तवगलात् स्वगले निधाय आह हे चौरि ! मम पुष्पाणि किं तव कण्ठस्य माल्य हेतुः भवति तत्तस्मात् तवकण्ठमेवाहं अतिशयेन परिपीडयानि ॥४७॥

राजास्ति कन्दर-तले चल तत्र धूर्ते

तस्याज्ञयैव सहसा च विवस्त्रयिष्ये ।

तां वीक्ष्य हृष्यति स चेन् निज-दिव्य-मुक्ता-

मालां प्रदास्यति ललाट-तटे मदीये ॥४८॥

कृष्णदेव: हे धुर्ते! हे राधे ! कन्दर्पः महाराजा कन्दरे अस्ति तत्र चल । तस्य राजाज्ञयैव त्वां सहसा विवस्त्रयिष्ये । तदनन्तरं विवस्त्रां त्वां वीक्ष्य सराजा यदि हृष्यति तदा स्वकीय दिव्यमुक्तामालां मदीये ललाट तटे दास्यति । एतेन कन्दरतले गते सति इति ध्वनितं तत्र राधया सर कन्दर्पयुद्धेन जात श्रम विन्दुरेव मुक्ता माला स्वरूपो भविष्यतीति परिहासो ध्वनितं ॥४८॥

दोषो न ते व्रज-पतेस् तनयोऽसि तस्य

दुष्टस्य यन् नरपतेः खलु सेवकोऽभूः ।

तद् बुद्धिर् ईदृग् अभवन् मम चात्र साध्व्या

भाले किम् एतद् अभवल् लिखितं विधात्रा ॥४९॥

कृष्णदेव: व्रजपते स्तनयोऽपि भूत्वा दृष्टस्य नरपतेः कन्दर्पस्ययतस्त्वं सेवकोऽभूः । अतएव तादृश विरुद्धभावस्य तत्रदोषो नास्ति किन्तु दुष्ट सङ्गस्यैव दोषः । तस्मात् दुष्टसङ्गात् एव तव बुद्धिः ईदृक् भवति साध्व्याः ममच कपाले किं विधात्रा एतल्लिखितं अभवत् ॥४९॥

इत्य्-आदि-वाङ्-मय-सुधाम् अहह श्रुतिभ्यां

स्वाभ्यां धयान्य् उदर-पूरम् अथेक्षणाभ्याम् ।

रूपामृतं तव स-कान्ततया विलास-

सीधुं च देवि वितराण्य् अथ मादयानि ॥५०॥

कृष्णदेव: इत्यादि युवयोर्वाक्यमय सुधां अहमदीय कर्णाभ्यां उदरपुरं यथास्यात्तथा धयानि । अथ ईक्षणाभ्यां नेत्राभ्यां युवयोरूपामृतं कान्त सहितेन तव विलासरूप मधु च हे देवि ! अहं वितराणि ददानि । अथ मधुपान द्वारा नेत्र द्वयं मादयानि हर्षाणि ॥५०॥

प्रेष्ठे सरस्य् अभिनवां कुसुमैर् विचित्रां

हिन्दोलिकां प्रियतमेन सहाधिरूढाम् ।

त्वां दोलयान्य् अथ किराणि पराग-राजिर्

गायानि चारु-महतीम् अपि वादयानि ॥५१॥

वृन्दावने सुर-मही-रुह-योग-पीठे

सिंहासने स्व-रमणेन विराजमानाम् ।

पाद्यार्घ्य-धूप-विधु-दीप-चतुर्विधान्न-

स्रग्-भूषणादिभिर् अहं परिपूजयानि ॥५२॥

कृष्णदेव: प्रियसरसि राधाकुण्ड अभिनवां अथच कुसुमैर्विचित्रां हिन्दोलिकां प्रियतमेन सह अधिरूढां त्वां अहं दोलयानि । अथ पराग श्रेणीरपि तदानीं विकिराणि । एवं तव गुणान्यपि अहं गायानि । एवं चारु महतीं वीणां वादयानि ॥५१-५२॥

गोवर्धने मधुवनेषु मधूत्सवेन

विद्रावितात्रप-सखी-शतवाहिनीकाम् ।

पिष्टात युद्धम् अनु कान्त-जयाय यान्तीं

त्वां ग्राहयाणि नव-जातुष-कूपिकालीः ॥५३॥

कृष्णदेव: गोवर्द्धने वसन्तयुक्त वनेषु आविर गुलाल इति प्रसिद्धस्य पिष्टा तस्य युद्धे कान्तं जेतुं गच्छतीं त्वां पिष्टात पूर्णं नव जातुष कपिकाश्रेणीर्युद्ध्व समये अहं ग्राहयाणि कीदृशी मधूत्सवेन होलिकोत्सवेन विद्राविता लज्जा यासां एवम्भूत सखीगणरूप सेनानी सहितां ॥५३॥

अग्रे स्थितोऽस्मि तव निश्चय एव वक्ष

उद्घाट्य कन्दुक-चयं क्षिप चेद् बलिष्ठा ।

उद्घाट्य कञ्चुकम् उरः किल दर्शयन्ती

त्वं चापि तिष्ठ यदि ते हृदि वीरतास्ति ॥५४॥

कृष्णदेव: पिष्टात युद्ध समये श्रीकृष्ण आह । स्व वक्षषः पीताम्बरं उद्घाट्य निश्चलः सन् तव अग्रेऽहं स्थितोऽस्मि तस्मात्त्वं बलिष्ठाचेत् पुष्पनिर्मितकन्दुकसमूहं मयि क्षिप, अथ हे राधे तव हृदि यदि वीरतास्ति तदा स्ववक्षषः कञ्चुकं उद्घाट्य उरः दर्शयन्ती सती त्वमपि ममाग्रे किल तिष्ठ ॥५४॥

यत् कथ्यसे तद् अयम् एव तव स्वभावो

यत् पूर्व-जन्मनि भवान् अजितः किलासीत् ।

मिथ्यैव तत् यद् इह भोः कतिशो जितोऽभूर्

मत्-किङ्करीभिर् अपि तद्-विगत-त्रपोऽसि ॥५५॥

कृष्णदेव: श्रीराधिका प्रत्युत्तरमाह । हे कृष्ण यत्त्वं कथ्यसे आत्मश्लाघां कुरुषे तत्तव अयं स्वभावः किन्तु पोर्णमासी मुखात् मयाश्रुतं यत्पूर्व जन्मनि भवान् अजित नामा आसीत तत्तुकिल मिथ्यैव यद्यस्मात् इहैव मत् किङ्करीभिः कतिवारान् भवान् जितो अभूत् तत्तस्मात् त्वं विगत लज्जोऽसि ॥५५॥

इत्य् एवम् उत्पुलकिनी कलयानि वाचः

सिञ्जान-कङ्कण-झनत्-कृत-दुन्दुभीकम् ।

युद्धं मुखामुखि रदारदि चारु-बाहु-

बाहव्य-मन्द-नखरानखरि स्तुवानि ॥५६॥

कृष्णदेव: युवयोरित्येवं वाच अहं उत्पुलकिनी सतो कलयानि शृणवानि एवं अव्यक्त शब्दं कुर्वतः कङ्कणस्य झनत्कार शब्द एवं दुन्दभिवाद्य यत्र एवम्भूत युवयोयुद्धं अहं स्तवानि । युद्धं कीदृशं मुखेन मुखेन प्रहृत्य इदं युद्धं प्रवृत्त मित्यर्थे मुखामुखि एवं रदारदीत्यपिवोध्यं ॥५६॥

कस्याञ्चिद् अद्रि-नृप-दीव्यद्-उपत्यकायां

स प्रेयसि त्वयि सखी-शत-वेष्टितायाम् ।

विश्रान्ति-भाजि वन-देवतयोपनीता-

नीष्टानि सीधु-चषकाणि पुरा दधानि ॥५७॥

कृष्णदेव: अद्रि नृपस्य गोवर्द्धनस्य दिव्यन्ती या उपत्यका निकट वर्तिनी भूमि तस्यां कस्याञ्चित् कुट्टिमायां सप्रेयसि श्रीकृष्ण सहितायां सखी शत वेष्टितायां त्वयि वनदेवताया उपनीतानि इष्ठानि सिधु चषकानि मधुयुक्त पात्रानि तव अग्रे दधानि ॥५७॥

हा किं किं किं ध-धरणी घु-घु-घूर्णतीयं

धा-धा-ध-धावति भयाद् वि-वि-वृक्ष-पुञ्जः ।

भी-भी-भि-भीरुर् अहम् अत्र कथं जि-जीवाम्य्

एवं लगिष्यसि सदा दयितस्य कण्ठे ॥५८॥

कृष्णदेव: मधुपानाज्जातं श्रीराधिकाया वाक्यस्खलनादिकं माह । हाकिं धरणी घूर्णति इति वक्तव्ये मधुपान जन्य मत्ततयाकिं किमित्यादि निरर्थक शब्द प्रयोगो बोध्यः । एवं धावति भयावृक्ष पुञ्ज इति वक्तव्ये धाधा इत्यादि । एवं आकाशो मम शिरसि पतत्यतोऽहं कथं जीवामीत्युक्त्वा श्रीकृष्णस्य कण्ठे यदात्वं लगिष्यसि तदैव निष्क्रम्येति परेणान्वयः ॥५८॥

त्वत्-स्वामिनी प्रलपतीयम् इमां गदेन

हीनां करोमि कलयात्र निरेहि नेतः ।

इत्य् उक्ति-सीधु-रस-तर्पित-हृत् तदैव

निष्क्रम्य जाल विततौ विदधानि नेत्रे ॥५९॥

कृष्णदेव: श्रीकृष्ण आह । हे किङ्करि इयं त्वत् स्वामिनी राधिका रोग जन्य प्रलापं करोति अत एनां गदेन रोगेन हीनां करोमि तस्मात् त्वं अत्र स्थित्वैव कलय-पश्य किन्तु इतः सकाशान्न निरेहि न गच्छ । इति श्रीकृष्णस्योक्तिरूप मधुरसेन तर्पित हृदयाहं तदेव तस्मात् लताजाल विततौ नेत्रे दधानि ॥५९॥

घ्राणाक्षि-कर्ण-वदने जल-सेक-तत्या

कृष्णस् त्वया जित इतः सहसा निमज्ज्य ।

ग्राहो भवन् स खलु यत् कुरुते स्म तत् तु

वेदान्य् अहं तव मुखाम्बुजम् एव वीक्ष्य ॥६०॥

कृष्णदेव: ततः जल विहार मेवाह । नासाक्षिकर्ण वदनेषु जलसेक समुहेन करणेन त्वया पराजितः श्रीकृष्णः सरसा जलमध्ये निमज्य कुम्भीरो भवन् सन् तव अङ्गे यत्कुरुतेस्म तत्तुतव मुखाम्बुजं वीक्ष्याहं वेदानि ॥६०॥

अभ्यञ्जयानि स-सखी-दयितां सहालिस्

त्वां स्नापयानि वसनाभरणैर् विचित्रम् ।

शृङ्गारयाणि मणि-मन्दिर पुष्प-तल्पे

सम्भोजयानि करकाद्य् अथ शाययानि ॥६१॥

कृष्णदेव: सखीश्रीकृष्णाभ्यां सहितां त्वां तैलादिना सहालिरहं अभ्यञ्जनं करवानि तद्-अनन्तरं स्नापयानिच । एवं वस्राभरणेन विचित्रं यथास्या देवं शङ्गारयाणि । तद्-अनन्तरं मणिमन्दिर मध्ये पुष्प शय्यायां स्थापयित्वा डारिमीफलादिकं संभोजयानि अथ शाययानि ॥६१॥

वाणीर-कुञ्ज इह तिष्ठति देवी निह्नुत्य

मृग्यसि कथं तद् इतः परत्र ।

सत्याम् इमां मम गिरं तम् अविश्वसन्तं

यान्तं मयि प्रदर्श्य भवती हर्षयाणि ॥६२॥

कृष्णदेव: तत्रादौ शयनादुत्थाप्य कौतुक वशात् वाणीरकुञ्जे निह्नत्य स्थितां राधां अन्वेषयन्तं श्रीकृष्णं किङ्करी परिहसति । हे कृष्ण ! पाणिछिटाकीति प्रसिद्धस्य वाणीर वृक्षस्य कुञ्जे निह्नता देवी तिष्टति तस्मात् त्वं इतः परत्र कथं मृग्यसि इति सत्यामपि मम इमां गिरं मयि राधिकापक्षत्व ज्ञानादविश्वसन्तं श्रीकृष्णं अन्य कुञ्जे यान्तं प्रदर्श्य भवतीं हर्षयुक्तां करवानि ॥६२॥

स्वामिन्य् अमूत्र-हरिर् अस्ति कदम्ब-कुञ्जे

निह्नुत्य मृग्यसि कथं तद् इतः परत्र ।

सत्याम् इमां मम गिरं खलु विश्वसत्याः

पाणौ जयं तव नयानि तम् आप्नुवत्याः ॥६३॥

कृष्णदेव: हे स्वामिनि ! अमुक कदम्ब कुञ्जे हरि निह्नुत्य अस्ति तस्मादन्यत्र कथं मृग्यसि इति सत्यां ममगिरं स्वपक्षत्वात् विश्वसत्या अपि तत् एव तं श्रीकृष्णं प्राप्तवत्याः तव पाणौजयं प्रापयानि ॥६३॥

राधे जिता च जयिनी च पणं न दातुम्

आदातुम् अप्य् अहह चुम्बनम् ईशिषे त्वम् ।

नाश्लेष-चुम्ब-मधुराधर-पानतोऽन्यं

द्यूते ग्लहं रस-विदः प्रवरं वदन्ति ॥६४॥

कृष्णदेव: द्युतकृतपणं श्रीकृष्ण आह । हे राधे मया पराजिता चेच्चुम्बन रूपं पनं दातुं एवं कदाचित् त्वं जयिनी चेन् मत्तः सकाशान् चुम्बन रूपं पनं गृहितुं त्वं न इशिषे न समर्थासि ननु चुम्बनादिकं विना अन्य देवपणमस्त्तुतत्राह । आलिङ्गनचुम्बनाधरपानादन्यं द्युत क्रीडायां पनंरसविदो जनाः प्रवरं श्रेष्ठं न वदन्ति ॥६४॥

गोवर्धनेऽत्र मम कापि सखी पुलिन्द-

कन्यास्ति भृङ्ग्य् अतितरां निपुणेदृशेऽर्थे ।

मद्-ग्राह्य-देय-पण-वस्तुनि मन्-नियुक्ता

सा ते गृहीष्यति च दास्यति चोपगूहम् ॥६५॥

कृष्णदेव: श्रीराधिका प्रत्पुत्तरमाह । गोवर्द्धने मम कापि सखी भृङ्गी नाम्नी पुलिन्दकन्यास्ति सातु ईदृश चुम्बनादान प्रदानति निपुणा तस्मात् सैव ममग्राह्य वस्तुनि देयवस्तुनिच मन्नियुक्ता सती ते तव उपगुहं आलिङ्गनादिकं गृहिष्यति दास्यतिच ॥६५॥

उक्त्वेत्थम् आत्म-दयितं प्रति वक्ष्यसे मां

याहीत्य् अथोत्पुलकिनी द्रुत-पाद-पाता ।
ताम् आनयान्य् उप मुकुन्दम् अथासयानि

*तं लज्जयानि सुमुखीर् अति हासयानि ॥६६॥ *

कृष्णदेव: इत्थं अनेन प्रकारेण आत्मदयितं श्रीकृष्णं उक्त्वा त्वं माम्प्रति याहीति वक्ष्यसे । तत्श्रुत्वा उत्पुलकिनी अहं द्रुतगमनासती तां पुलिन्दकन्यां आनयानि । एवं मुकुन्द समीपे त्वां आसयानि । आम उपवेशने धातुः । तद्-अनन्तरं श्रीकृष्णं लज्जयानि तेनैव हेतुना सुमुखीः हासयानि ॥६६॥

स्वीया किल व्रज-पुरे मुरली तवैका

प्राभून् न ताम् अपि भवान् अवितुं स्व-भार्याम् ।

सा लम्पटापि भवतोऽधर-सीधु-सिक्ताप्य्

*अन्यं पुमांसम् इह मृग्यति चित्रम् एतत् ॥६७॥ *

कृष्णदेव: स्वसमीपे पुलिन्द कन्या दर्शनात् जातया तया लज्जया पणीकृते चुम्बनादिकं विहाय मुरली पणी कर्तुमवचेतस्य कृष्णस्य मुरल्य प्राप्ति जन्य विषादं वीक्ष्य सख्यः परिहसन्ति-व्रजपुरे तव एका मुरली स्वीया तामपि स्वभार्यां अवितुं रक्षितुं भवान् न प्राभूत् लस्पटा सा मुरली भवतोऽधर सम्बन्धि मधुपानासक्तापि अन्यं पुरुषं मृग्यति एतदेव चित्रं ॥६७॥

वंशीं सतीं गुणवतीं सुभगां द्विषन्त्योऽ

साध्व्यो भवत्य इह तत् समताम् अलब्धाः ।

तां क्वापि बन्धम् अनयंस् तद् अहं भुजाभ्यां

बद्ध्वैव वः शिखरि-गह्वरगाः करोमि ॥६८॥

कृष्णदेव: श्रीकृष्ण आह । सुभगां वंशीं द्विषन्त्यो भवत्य वंश्या समतां अलब्धाः तां वंशीं कुत्रापि स्थले बन्धनं अनयन् तस्मात् अहमपि युस्मान् भुजाभ्यां बद्ध्वा पर्वत गह्वर गताः करोमि ॥६८॥

इत्य् आगतं हरिम् अवेक्ष्य रहस् तदीय-

कक्षाद् अहं मुरलिकां सहसा गृहीत्वा ।

तां गोपयानि तद्-अलक्षितम् आत्त-चित्र-

पुष्पेषु सङ्गर-रसां कलयानि च त्वाम् ॥६९॥

कृष्णदेव: इति तव निकटे आगतं हरिंवीक्ष्य अहं रह एकान्ते तव कक्षात्

मुरलीं सहसागृहीत्वा तां श्रीकृष्णालक्षितं यथास्यादेवं गोपयानि । तद्-अनन्तरं मुरलीकान्वेषणछलेन स्तनादिषु ग्रहणाद्धेतोराप्तः पुष्पेषोः कन्दर्पस्य युद्धरसो यया तां पश्यामि चित्रमिति रस विशेषणं ॥६९॥

ब्रह्मन्न् इमाम् अनुगृहाण भवन्तम् एव

भास्वन्तम् अर्चयितुम् इच्छति मे स्नुषेयम् ।

इत्य् आर्यया प्रणमितां धृत-विप्र-वेशे

कृष्णेऽर्पितां च भवतीं स्मित-भाग् भजानि ॥७०॥

कृष्णदेव: सुर्यपूजां कारयितुं आगतं ब्राह्मणवेश विशिष्टं श्रीकृष्णं प्रति जटिलाह । हे ब्रह्मन् ! इमां वधुं अनुगृहाण इयं मे स्नुषा वधूर्भवन्तमेव भास्वन्तं सूर्यं अर्चयितुं इच्छति अनेन प्रकारेण आर्यया जटिलया प्रणमितां एवं धृत विप्रवेशे श्रीकृष्णे अर्पितां च भवतीं स्मित विशिष्टाहं भजानि ॥७०॥

यान्तीं गृहं स्व-गुरु-निघ्नतयातिलौल्यात्

कान्तावलोकन-कृते मिषम् आमृशन्तीम् ।

दूरेऽनुयानि यद् अतोऽनुविवर्तितास्याम्

एहीति वक्ष्यसि तद्-आस्य-रुचो धयन्ती ॥७१॥

कृष्णदेव: स्वगुरोर्निघ्नतया आयत्ततया गृहं यान्तीं अथच लोल्यात् सतृष्णात् कान्तस्य अवलोकननिमित्ते मिषंपरामृशन्तीं त्वां अनुपश्चात् अति दूरेऽहं गच्छानि यद्-यस्मात् अनुपश्चात् विवर्तितास्यं यथास्यात्तथा तस्य श्रीकृष्णस्य आस्यकान्तीः पिबन्ती त्वं हे किङ्करि । अत्रागच्छेति वक्ष्यसि ॥७१॥

गेहागतां विरहिणीं नव-पुष्प-तल्पे

त्वां शाययानि परतः किल मुर्मुराभात् ।

तस्मात् परत्र शयनं विस-पुञ्ज-कॢप्तम्

अध्याशयानि विधु-चन्दन-पङ्क-लिप्ताम् ॥७२॥

आकर्ण्य चन्दनकला-कथितं व्रजेशा-

सन्देशम् उत्सुक-मतेः सरसा सहाल्याः ।

सायन्तनाशन-कृते दयितस्य नव्य-

कर्पूर-केलि-बटकादि-विनिर्मितौ ते ॥७३॥

कृष्णदेव: मूर्मुरस्त्तुषाग्निस्तत्तुल्यात् तस्मात् तल्पात् परत्र विसपुञ्जेन मृणाल समूहेन क्लप्तं शयनं तल्पं कर्पूर चन्दन लिप्तां त्वां अधिशयानि चन्दन कलया कथितं यशोदाया सन्देशं “हे राधे श्रीकृष्णस्य सायङ्कालीन तत्रैव पक्वान्नं निर्माय अत्र प्रेषणीयं इति वाक्यं आकर्ण्य दयितस्य सायन्तन भोजन निमित्तं अत्युत्सुकमते-आलिसहि ताया स्तव निकटे कर्पूरकेलि वटक श्रेण्या निर्मितौ निर्माणनिमित्तं अहं आदौ चुल्लिं लिम्पानि इति पर श्लोकेनान्वयः ॥७३॥

लिम्पानि चुल्लिम् अथ तत्र कटाहम् अच्छ-

मारोहयाणि दहनं रचयानि दीप्तम् ।

निराज्य-खण्ड-कदली-मरिचेन्दुसीरि-

गो-धूम-चूर्ण-मुख-वस्तु समानयानि ॥७४॥

अत्यद्भुतं मलयज-द्रव-सेक-तत्या

वृद्धिं जगाम यद् इदं विरहानलौजः ।

कर्पूर केली-बटकावलि-साधनाग्नि-

ज्वालेन शान्तिम् अनयत् तद् इति ब्रुवाणि ॥७५॥

कृष्णदेव: तद्-अनन्तरं चूल्ल्युपरि अच्छं निर्मलं कटाह मारोहयानि । दीप्त मग्निञ्च रचयानि । एव वटक निर्माणार्थं जल घृत खण्ड कदली मरिच कर्पूर नारिकेल गोधूम चुर्णादि वस्त्र अहं समानयानि । चन्दन द्रवसेक समूहेन करणेन यत् विरहानलस्य ओजः प्राबल्यं वृद्धिं जगाम प्राप्ततदेव विरहानलौज वटकावलि साधनाग्नि ज्वालेन करणेन शान्तिं अनयत् इदमत्यद्भूतं इति परिहासवाक्यं अहं ध्रुवानि ॥७५॥

धूलिर् गवां दिशम् अरुद्ध हरेः स-हाम्बा-

रावेत्य् उदन्तम् अतुलं मधु पाययानि ।

तत्-पान-संमद-निरस्त-समस्त-कृत्यां

त्वाम् उत्थितां सह-गणाम् अभिसारयाणि ॥७६॥

कृष्णदेव: हरेर्गवां हाम्बाराव सहिता धूलिर्दिशं अरुद्ध्व आवृतं चकार इति अतुलं उदन्तस्वरूपं मधु त्वां पाययानि । तत् जन्य सम्मदेन आनन्देन निरस्तं समस्त पाकादि कृत्यं यस्याः एवम्भूतां उत्थितां गण सहितां त्वां श्रीकृष्ण निकटेऽभिसारयाणि ॥७६॥

तत्-कृष्ण-वर्त्म-निकट-स्थलम् आनयानि

निर्वापयाणि विरहानलम् उन्नतं ते ।

आयात एष इति वल्लि-निगूढ-गात्रीम्

आकृष्य मह्यम् अहहेश्वरि कोपयानि ॥७७॥

कृष्णदेव: कृष्णस्यागमन वर्त्मनस्तत् रहस्यं निकट स्थलं त्वां आनयानि तेनैव ते तव उन्नतं विरहानलं निर्वापयाणि एष कृष्ण आयात इति हेतु वल्लि निगूढ गात्रीं त्वां आकृष्य मह्यं कोपयानि मां प्रति कोप विशिष्टां करवाणि आकृष्येत्यनेन स्वस्मिन्कृष्णस्य दौत्यं सूचितं ॥७७॥

श्री-कृष्ण-दृङ्-मधुलिहौ भवद्-आस्य-पद्मम्

आघ्रापयाण्य् अतितृषन् तव दृक्-चकोरीम् ।

तद्-वक्त्र-चन्द्र-विकसत्-स्मित-धारयैव

संजीवयानि मधुरिम्णि निमज्जयानि ॥७८॥

वैवश्यम् अस्य तव चाद्भुतम् ईक्षयाणि

त्वाम् आनयानि सदनं ललिता-निदेशात् ।

कर्पूर-केल्य्-अमृत-केलि-ततिं प्रदातुं

गोष्ठेश्वरीम् अनु सराणि समं सखीभिः ॥७९॥

कृष्णदेव: तद्-अनन्तरं श्रीकृष्णस्य दृष्टिरूप भ्रमरेण तव मुख-पद्मं आघ्रा पयाणि । एवं तस्य श्रीकृष्णस्य मुखचन्द्रस्य विकासयुक्त स्मित धारया करणेन अत्यन्त तृष्णायुक्तां तव दृष्टिरूप चकोरीं संजीवयानि तस्य श्रीकृष्णस्य तवच तदद्भुतं वैवश्यं सखीः वीक्षयाणि ॥७९॥

गत्वा प्रणम्य तव शं कथयानि देवि

पृष्टा तयाथ बटकावलिं भोक्षयित्वा ।

तां हर्षयाणि भवद्-अद्भुत-सद्-गुणालीस्

तत्-कीर्तिताः सवयसे शृणवानि हृष्टा ॥८०॥

कृष्णदेव: तया यशोदया स्पृष्टाहं तव शं कल्याणं कथयानि । वटकावलीं दृष्ट्वाहर्ष युक्तयातया यशोदया स्ववयसे स्वसख्ये कीर्तिताः तव सद्गुणालिरहं हृष्टासती शृणवानि ॥८०॥

वीक्ष्यागतं तनयम् उन्नत-सम्भ्रमोर्मि-

मग्नां स्तनाक्षि-पयसाम् अभिषिच्य पूरैः ।

अभ्यञ्जनादि-कृतये निज-दासिकास् ता

मां चापि तां निदिशतीं मनसा स्तवानि ॥८१॥

कृष्णदेव: तां यशोदां मनसाहं स्तवानि स्तुतौ कारण सहितां तां विशिनष्टि तद्वीक्षेति । गोष्टादागतं तनयं श्रीकृष्णं वीक्ष्य स्वयं संभ्रमस्योर्मिर्भिर्मग्नां ततः स्वस्तन पयसां पुरैः तनयं अभिषिच्य पुनरपि तनयस्य स्नानादि कृतये ता निजदासिकाः माञ्चाप्यनुलेपादि निर्माणार्थं निदिसतीं निदेश कर्त्री ॥८१॥

स्नानानुलेप-वसनाभरणैर् विचित्र-

शोभस्य मित्र-सहितस्य तया जनन्या ।

स्नेहेन साधु बहु-भोजित-पायितस्य

तस्यावशेषितम् अलक्षितम् आददानि ॥८२॥

कृष्णदेव: स्नानादिभिर्मित्रसहितस्य विचित्रशोभायुक्तस्य ततस्तयैव जनन्या भोजित पायितस्य श्रीकृष्णस्यावशेषं अन्यैरलक्षितं अहं गृहाणि ॥८२॥

तेनैव कान्त-विरह-ज्वर-भेषजेन

तात्कालिकेन तद्-उदन्त-रसेन चापि ।

आगत्य साधु शिशिरीकरवाणि शीघ्रं

त्वन्-नेत्र-कर्ण-रसना-हृदयाणि देवि ॥८३॥

कृष्णदेव: कान्त विरहरूप ज्वरस्य भेषजरूपेण तेनावशेषितेन तत्काल भवेन तस्य श्रीकृष्णस्य स्नानानुलेपनादि तदुदन्तरसेनच त्वन्नेत्रादिनि साधु शिशिरी करवाणि ॥८३॥

स्नानाय पावन-तडाग-जले निमग्नां

तीर्थान्तरे तु निज-बन्धु-वृतो जलस्थः ।

संमज्ज्य तत्र जल-मध्यत एत्य स त्वाम्

आलिङ्ग्य तत्र गत एव समुत्थितः स्यात् ॥८४॥

कृष्णदेव: ग्रीष्मादि काल सन्ध्यायाः प्राक् समये पावन सरोवरस्य तीर्थान्तरे घाटे इत्याख्ये पश्चिमादि विभागे निजबन्धुभिर्वृतो जलस्थः श्रीकृष्ण तत्र बन्धु मध्ये निमज्य जल मध्ये तव निकटे एत्य तस्य तडागस्य जले स्नानाय निमग्नां त्वामालिङ्ग्ययतः स्थानात् आगतः तत्र जले मग्नःस श्रीकृष्णः समुत्थितः स्यात् ॥८४॥

तन् नो विदुर् निकटगा अपि ते ननन्दृ-

स्वस्रादयो न किल तस्य सहोदराद्याः ।

ज्ञात्वाहम् उत्पुलकितैव सहालिर् एतच्-

चातुर्यम् एत्य ललितां प्रति वर्णयामि ॥८५॥

कृष्णदेव: श्रीकृष्णस्य तच्चातुर्यं श्रीराधायाः निकटस्था ननन्द्रादय स्तथातस्य श्रीकृष्णस्य सहोदराद्या रामादयो नोविदुः । आलिभिः सहाहं ज्ञात्वा उत्पुलकिता सती आगत्य ललितां प्रति एतच्चातुर्यं वर्णयानि ॥८५॥

उद्यान-मध्य-वलभीम् अधिरुह्य तत्र

वातायनार्पित-दृशं भवतीं विधाय ।

सन्दर्श्य तत् प्रियतमं सुरभीर् दुहानम्

आनन्द-वारिधि-महोर्मिषु मज्जयानि ॥८६॥

कृष्णदेव: तत्र पावन सरोवरस्य पूर्वस्यान्दिशि यत् उद्यानं पुष्पवनं तन्मध्ये या वलभी चन्द्रशालिका तस्या उपरिवर्ति गृहम् तत्र तां अधिरुह्य आरोरणं कारयित्वा तदीय वातायने अर्पिता दृक् यस्या स्तथा भूतां भवतीं कृत्वा सुरभीदोर्हन कर्तारं तं प्रियतमं श्रीकृष्णं सन्दर्श्य आनन्द समुद्रे त्वां निमज्जयानि ॥८६॥

गत्वा मुकुन्दम् अथ भोजित-पायितं तं

गोष्ठेशया तव दशां निभृतं निवेद्य ।

सङ्केत-कुञ्जम् अधिगत्य पुनः समेत्य

त्वां ज्ञापयान्य् अयि तद्-उत्कलिकाकुलानि ॥८७॥

कृष्णदेव: अथ गोदोहनाद्यनन्तरं गोष्ठेशया भोजित पायितमिति पाठः शायितञ्च श्रीकृष्णं प्रति गत्वा तव दशां तस्य मिलनार्थ उत्कण्ठया व्याकुलादि रूपां निभृतमेकान्तं निवेद्य ततः सङ्केत कुञ्जमभिगम्यज्ञात्वा पुनस्तव निकटे समेत्य अयि ! राधे! तत्तस्य श्रीकृष्णस्य उत्कण्ठा व्याकुलतादिनि ज्ञापयानि ॥८७॥

त्वां शुक्ल-कृष्ण-रजनी-सरसाभिसार-

योग्यैर् विचित्र-वसनाभरणैर् विभूष्य ।

प्रापय्य कल्प-तरु-कुञ्जम् अनङ्ग-सिन्धौ

कान्तेन तेन सह ते कलयानि केलीः ॥८८॥

कृष्णदेव: शुक्लपक्ष कृष्णपक्ष रजन्युपयोगिभिर्विचित्र भूषणा भरणैः शुक्लवर्ण कृष्णवर्ण वस्त्रालङ्कारादिभिस्तां विभूष्य ततः कल्पवृक्ष कुञ्जं प्रापय ते तव तेनकान्तेन सहानङ्गसिन्धौ केलीः कलयानि ॥८८॥

हे श्री-तुलस्य् उरु-कृपाद्य् उत तरङ्गिणी त्वं

यन्-मूर्ध्नि मे चरण-पङ्कजम् आदधाः स्वम् ।

यच् चाहम् अप्य् अपिबम् अम्बु मनाक् तदीयं

तन् मे मनस्य् उदयम् एति मनोरथोऽयम् ॥८९॥

कृष्णदेव: संकल्प कल्पद्रुमे श्रीराधाकृष्ण परिचर्यादि विषयक मद्भूतमनोरथं स्वयं विलिख्य एतन्मनोरथं मयि कथमभूत् तत्रचमत्कारं वितर्कयन् “हे तुलस्यादिना” श्रीगुरुप्रसादलभ्य एव नान्यज इत्याह हे तुलसीति । तद्गुरोः सिद्धदेह गतनाम्ना सम्बोधनं उरुकृपैव द्युततरङ्गिणी गङ्गा यस्या हे तादृशि यत् नम मूर्ध्नि त्व स्वीयं चरण पङ्कजं आदधाः यद्यस्मात् तदीयं चरण पङ्कजीयं अम्बूजलं अहमपि मनाक् अपिवं तत्तस्मात् मे मनसि अयं मनोरथ उदयमेति ॥८९॥

क्वाहं पर-शत-निकृत्य्-अनुबिद्ध-चेताः

संकल्प एष सहसा क्व सुदुर्लभार्थे ।

एका कृपैव तव माम् अजहत्य्-उपाधि-

शून्यैव मन्तुम् अदधत्य् अगतेर् गतिर् मे ॥९०॥

कृष्णदेव: परशशतौ निकृत शतादधिके शाठ्येऽनुविद्धं चेतोयस्य तथाभूतोऽहं क्व सूदुर्लभेऽर्थे सहसा एषः संकल्पः क्व, अत्यन्त सम्भावनायामत्र क्वद्वयं तव एका कृपैव मामजहती सती अगतेर्मे गतिः । कीदृशी कृपात्र हेतुगर्भ विशेषणमाह उपाधि शून्या अत्र हेतुमाह । मन्तुमपराधमदधती कुशृति निकृति शाठ्यमित्यमरः ॥९०॥

हे रङ्ग-मञ्जरि कुरुष्व मयि प्रसादं

हे प्रेम-मञ्जरि किरात्र कृपा-दृशं स्वाम् ।

माम् आनय स्व-पदम् एव विलास-मञ्जर्य्-

आली-जनैः समम् उरीकुरु दास्य-दाने ॥९१॥

कृष्णदेव: हे रङ्गमञ्जरीति । तस्य परम गुरोराख्या हे प्रेमेत्यादितद्गुरोः विलास मञ्जरीति तद्गुरोः श्रीनरोत्तम ठकुर महाशयस्य ॥९१॥

हे मञ्जुलालि निज-नाथ-पदाब्ज-सेवां

सातत्य-सम्पद-तुलासि मयि प्रसीद ।

तुभ्यं नमोऽस्तु गुण-मञ्जरि मां दयस्व

माम् उद्धरस्व रसिके रस-मञ्जरि त्वम् ॥९२॥

कृष्णदेव: हे मञ्जुलालीति तद्गुरोः श्रीलोकनाथ गोस्वामिनः सेवया सातत्यं सार्वकालिकत्वं तदेव सम्पत्तिभिरतुलासि हे गुणमञ्जरीति श्रीगोपाल भट्ट गोस्वामिनः, हे रसिके रसमञ्जरीति रघुनाथ भट्टगोस्वामिनः ॥९२॥

हे भानुमत्य् अनुपम-प्रणयाब्धि-मग्ना

स्व-स्वामिनोस् त्वम् असि मां पदवीं नय स्वाम् ।

प्रेम-प्रवाह-पतितासि लवङ्ग-मञ्जर्य्

आत्मीयतामृत-मयीं मयि धेयि दृष्टिम् ॥९३॥

कृष्णदेव: हे भानुमतीति श्रीजीव गोस्वामिनः आत्मीयता एवामृतं तन्मयी दृष्टिं मयि धेहि ॥९३॥

हे रूप-मञ्जरि सदासि निकुञ्ज-यूनोः

केलि-कला-रस-विचित्रित-चित्त-वृत्तिः ।

त्वद्-दत्त-दृष्टिर् अपि यत् समकल्पयं तत्-

सिद्धौ तवैव करुणा प्रभुताम् उपैतु ॥९४॥

कृष्णदेव: श्रीरूपमञ्जरिति । श्रीरूप गोस्वामिनः राधाकृष्णयोः केलि कला रसेन विचित्रता नाना विधत्वं प्राप्ता चित्तस्य वृत्तिर्यस्यास्तथा भूता त्वं सदासि सदा भवसि । तद्दत्त दृष्टिः त्वयादत्ता दृष्टिर्यत्र तथाभुतोऽहं यत्समकल्पयं सम्यक कल्पनमकरवं तसिद्धौ एतत्ग्रन्थ उक्त स्वमनोरथसिद्धौतव करुणा एव प्रभूतां उपैतु । तत् करुणैव बलात्कारेण मे मनोरथसिद्धिं करोतु । तव कृपैव लभ्येयं मनोरथ सिद्धिरिति भावः । अनेन श्रीरूप गोस्वामिनोऽवतारत्वेनास्य प्रथाप्यायाति ॥९४॥

राधाङ्ग शश्वद्-उपगूहनतस् तदाप्त-

धर्म-द्वयेन तनु-चित्त-धृतेन देव ।

गौरो दया-निधिर् अभूर् अपि नन्द-सूनो

तन् मे मनोरथ-लतां सफलीकुरु त्वम् ॥९५॥

कृष्णदेव: श्रीकृष्णचैतन्यदेव कृपैकलभ्यं इदं सर्वं इति तमेव श्रीकृष्ण स्वरूपकं स्वहेतुकं निरूपयन् प्रार्थयते । हे नन्दशूनो ! हे देव ! राधाङ्गस्य ! शश्वदालिङ्गनात् प्राप्तेन तनु धर्मेन गौरेण गौरस्त्वमभूः चित्त धर्मेन दयानिधिरूपित्वं अभूस्तत्तस्मात् स्वमनोरथ लतां त्वं सफलीकुरु ॥९५॥

श्री-राधिका-गिरिभृतौ ललिता-प्रसाद-

लभ्याव् इति व्रजवने महतीं प्रसिद्धिम् ।

श्रुत्वाश्रयाणि ललिते तव पाद-पद्मं

कारुण्य-रञ्जित-दृशं मयि हा निधेहि ॥९६॥

कृष्णदेव: कारुण्य युक्तां दृशं मयिनिधेहि हा इति दैन्ये ॥९६॥

त्वं नाम-रूप-गुण-शील-वयोभिर् ऐक्याद्

राधेव भासि सुदृशां सदसि प्रसिद्धा ।

आगः-शतान् न गणयन्त्य् उररीकुरुष्व

तन् मां वराङ्गि निरुपाधि-कृपे विशाखे ॥९७॥

कृष्णदेव: हे विशाखे ! त्वं नाम रूपादिभिः श्रीराधयासह ऐक्यात् एकी भावात् सुदृशां सदसि सभायां प्रसिद्धा राधा इवभासि यदि सुन्दरी सभासु तव प्रस्तावो जायते तदाभिरुच्यते अस्या का कथा साक्षात् राधेरेयं । एक पर्याय प्राप्तत्वात् राधा विशाखयोर्नम्ना ऐक्यं । गुणरूपादिनां ऐक्यन्तुतासामनुभावेन सिद्धि तत्तस्मात् आगोऽपराध स्तस्य शतानि अगणयन्ती सती मां स्वीकुरुस्व ॥९७॥

हे प्रेम-सम्पद-तुला व्रज-नव्य-यूनोः

प्राणाधिकाः प्रिय-सखाः प्रिय-नर्म-सख्यः ।

युष्माकम् एव चरणाब्ज-रजोऽभिषेकं

साक्षाद् अवाप्य सफलोऽस्तु ममैव मूर्धा ॥९८॥

कृष्णदेव: हे प्रियसखाः हे प्रियसख्यः । कीदृशाः यूयं प्रेम सम्पद्भिरतुलाः । व्रजणव्येत्यादि प्राणाधिकाश्च युष्माकं सहायेन तयोः प्राणाः सुखाब्धौ मज्जन्ति तदभावे दुःखाब्धौ मज्जन्ति इत्यतः प्राणाधिकाः युष्माकं चरणधूलिं प्राप्यैव मे मूर्द्धा सफलोऽस्तु ॥९८॥

वृन्दावनीय-मुकुट व्रज-लोक-सेव्य

गोवर्धनाचल-गुरो हरि-दास-वर्य ।

तत्-सन्निधि-स्थिति-युषो मम हृत्-शिलास्वप्य्

एता मनोरथ-लताः सहसोद्भवन्तु ॥९९॥

कृष्णदेव: हे वृन्दावनीयमुकुट ! हे व्रजलोकसेव्य ! हे अचलगुरो । तत्तव सन्निधौ श्रीराधाकुण्डे स्थितस्य ममहृदयरूपशिलासूक्त प्रकारा एता मनोरथरूप लताः सहसोद्भवन्तु । शीलासु लतोद्गममेतत् तव सन्निधौ स्थितिरेव कारणं ॥९९॥

श्री-राधया समं तदीय-सरोवर त्वत्-

तीरे वसानि समये च भजानि संस्थाम् ।

त्वन्-नीर-पान-जनिता मम तर्ष-वल्ल्यः

पाल्यास् त्वया कुसुमिताः फलिताश् च कार्याः ॥१००॥

कृष्णदेव: त्वदीय सरोवर श्रीराधाकुण्डे ! हे राधया ! समञ्चतीरे वसानि समये संस्थां मृत्युं भजानि नीरपान जनिता मे तर्षवल्ल्यस्ततस्त्वयापाल्या इत्यादि ॥१००॥

वृन्दावनीय-सुर-पादप योग-पीठ

स्वस्मिन् बलाद् इह निवासयसि स्वयं यत् ।

तन् मे त्वदीय-तल-स्तस्थुष एव सर्व-

सङ्कल्प-सिद्धिम् अपि साधु कुरुष्व शीघ्रम् ॥१०१॥

कृष्णदेव: हे सुरपादप योगपीठ ! स्वस्मिन् कल्पद्रुमतले योगपीठोपरि यद्यस्मात् स्वयं बलात्मां निवासयसि तत्तस्मात् त्वदीय तले स्थितस्य मे सर्वं सङ्कल्प सिद्धिं साधु यथास्यात्तथा शीघ्रं कुरुष्व । सन्यासी रूप धारि महाप्रभो राज्ञया तस्य माथुरशिष्यो योगपीठोपरि मुल्यं दत्त्वा कुञ्जं तस्मै बलात्कारेण दत्तं तस्माद्वलादिति पदं दत्तं दैन्येन वा ॥१०१॥

वृन्दावन-स्थिर-चरान् परिपालयित्रि

वृन्दे तयो रसिकयोर् अतिसौभगेन ।

आढ्यासि तत् कुरु-कृपां गणना यथैव

श्री-राधिका-परिजनेषु ममापि सिद्धेत् ॥१०२॥

कृष्णदेव: हे वृन्दे ! हे वृन्दावनेत्यादि ! तयोरति सोभाग्येनाढ्यासि तत्तस्मात् सोभाग्याद्यद्वातत्तयामयि कृपाङ्कुरुयथा श्रीराधिका परिजनेषु ममापि गणनासिद्धेत् ॥१०२॥

वृन्दावनावनि-पते जय सोम सोम-

मौले सनन्दन-सनातन-नारदेड्य ।

गोपीश्वर व्रज-विलासि युगाङ्घ्रि-पद्मे

प्रीतिं प्रयच्छ निरुपाधि नमो नमस् ते ॥१०३॥

कृष्णदेव: हे गोपीश्वर ! व्रजविलासियुगयोरङ्घ्रिपद्मे निरुपाधि प्रेम प्रयच्छ हे वृन्दावनावनिपते ! हे सोम ! उमा पार्वति तया सह वर्तमान ! हे सोम मौले सोम चन्द्रमौले मस्तके यस्य हे सनन्दनादिभिरीड्य स्तुत्यत्वं जय ॥१०३॥

हित्वान्याः किल वासना भजत रे वृन्दावनं प्रेमदं

राधा-कृष्ण-विलास-वारिधि-रसास्वादं चेत् विन्दथ ।

त्यक्तुं शक्नुथ न स्पृहाम् अपि पुनस् तत्रैव हृद्-वृत्तयो

विश्रद्धाः श्रयत ममैव सततं सङ्कल्प-कल्प-द्रुमम् ॥१०४॥

कृष्णदेव: हे मम हृद्वृत्तयो युयं वृन्दावनं भजत । तत्र वृन्दावने चेद्यदि तं प्रसिद्धं राधाकृष्ण विलास वारिधेः रसास्वादं नविन्दथ पुनः तत्र विलास रसास्वादे स्पृहामपि त्यक्त्युं नशक्नुथ तदा विश्रद्धां विशिष्ट श्रद्धा युताः श्रद्धारहितावा हृद्वृत्तयो इमं संकल्पद्रुमं एव सततं श्रयत । अस्य पाठादेव सम्यक् रसास्वादोऽन्येषामपि भविष्यतीति ॥

इति श्रीकृष्णदेव सार्वभौम भट्टाचार्य कृता
सङ्कल्पकल्पद्रुमस्य टीका समाप्ता ।
इति श्री-विश्वनाथ-चक्रवर्ती-ठक्कुर-विरचितः
श्री-सङ्कल्प-कल्प-द्रुमः सम्पूर्णः ।