कृष्ण-प्रसादेन समस्त-शैल-
साम्राज्यम् आप्नोति च वैरिणोऽपि ।
शक्रस्य यः प्राप बलिं स साक्षाद्
गोवर्धनो मे दिशताम् अभीष्टम् ॥१॥
स्व-प्रेष्ठ-हस्ताम्बुज-सौकुमार्य-
सुखानुभूतेर् अति-भूमि वृत्तेः ।
महेन्द्र-वज्राहतिम् अप्य् अजानन्
गोवर्धनो मे दिषताम् अभीष्टम् ॥२॥
यत्रैव कृष्णो वृषभानु-पुत्र्या
दानं गृहीतुं कलहं वितेने ।
श्रुतेः स्पृहा यत्र महत्य् अतः श्री-
गोवर्धनो मे दिषताम् अभिष्टम् ॥३॥
स्नात्वा सरः स्वशु समीर हस्ती
यत्रैव नीपादि-पराग धूलिः ।
आलोलयन् खेलति चारु स श्री-
गोवर्धनो मे दिषताम् अभीष्टम् ॥४॥
कस्तूरिकाभिः शयितं किम् अत्रेत्य्
ऊहं प्रभोः स्वस्य मुहुर् वितन्वन् ।
नैसर्गिक-स्वीय-शिला-सुगन्धैर्
गोवर्धनो मे दिषताम् अभीष्टम् ॥५॥
वंश-प्रतिध्वन्य्-अनुसार-वर्त्म
दिदृक्षवो यत्र हरिं हरिण्याः ।
यान्त्यो लभन्ते न हि विस्मिताः स
गोवर्धनो मे दिषताम् अभीष्टम् ॥६॥
यत्रैव गङ्गाम् अनु नावि राधाम्
आरोह्य मध्ये तु निमग्न-नौकः ।
कृष्णो हि राधानुगलो बभौ स
गोवर्धनो मे दिषताम् अभीष्टम् ॥७॥
विना भवेत् किं हरि-दास-वर्य-
पदाश्रयं भक्तिर् अतः श्रयामि ।
यम् एव सप्रेम निजेशयोः श्री-
गोवर्धनो मे दिषताम् अभीष्टम् ॥८॥
एतत् पठेद् यो हरि-दास-वर्य-
महानुभावाष्टकम् आर्द्र-चेताः ।
श्री-राधिका-माधवयोः पदाब्ज-
दास्यं स विन्देद् अचिरेण साक्षात् ॥९॥
॥।