न योग-सिद्धिर् न ममास्तु मोक्षो
वैकुण्ठ-लोके ऽपि न पार्षदत्वम् ।
प्रेमापि न स्याद् इति चेत् तरां तु
ममास्तु वृन्दावन एव वासः ॥१॥
तार्णं जनुर् यत्र विधिर् ययाचे
सद्-भक्त-चूडामणिर् उद्धवोऽपि ।
वीक्ष्यैव माधुर्य-धूरां तद् अस्मिन्
ममास्तु वृन्दावन एव वासः ॥२॥
किं ते कृतं हन्त तपः क्षितीति
गोप्योऽपि भूमेः स्तुवते स्म कीर्तिम्
येनैव कृष्णाङ्घ्रि-पदाङ्किते ऽस्मिन्
ममास्तु वृन्दावन एव वासः ॥३॥
गोपाङ्गना-लम्पट-तैव यत्र
यस्यां रसः पूर्णतमत्वम् आप ।
यतो रसो वै स इति श्रुतिस् तन्
ममास्तु वृन्दावन एव वासः ॥४॥
भान्डीर-गोवर्धन-रास-पीठैस्
त्री-सीमके योजन-पञ्चकेन ।
मिते विभुत्वाद् अमिते ऽपि चास्मिन्
ममास्तु वृन्दावन एव वासः ॥५॥
यत्राधिपत्यं वृषभानु-पुत्र्या
येनोदयेत् प्रेम-सुखं जनानाम् ।
यस्मिन् ममाशा बलवत्यतोऽस्मिन्
ममास्तु वृन्दावन एव वासः ॥६॥
यस्मिन् महा-रास-विलास-लीला
न प्राप यां श्रीरपि सा तपोभिः ।
तत्रोल्लसन्-मञ्जु-निकुञ्ज-पुञ्जे
ममास्तु वृन्दावन एव वासः ॥७॥
सदा रुरु-न्यङ्कु-मुखा विशङ्कं
खेलन्ति कूजन्ति पिकालि-कीराः ।
शिखण्डिनो यत्र नटन्ति तस्मिन्
ममास्तु वृन्दावन एव वासः ॥८॥
वृन्दावनस्याष्टकम् एतद्-उच्चैः
पठन्ति ये निश्चल-बुद्धयस् ते ।
वृन्दावनेशाङ्घ्रि-सरोज-सेवां
साक्षाल् लभन्ते जनुषोऽन्त एव ॥९॥
॥।