२४ श्री-नन्दीश्वराष्टकम्

साक्षान् महत्तम-महा-घन-चिद्-विलास-पुञ्जः स्वयं शिखरि-शेखरताम् उपेतः ।यत्रेश्वरः स खलु नन्दति येन वेतिनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥१॥

ब्रह्माण्ड-वप्र-गत-लोक-निकाय-शस्य-सन्तर्पि कृष्ण-चरितामृत-निर्झराढ्यः ।पर्जन्य-सन्तति-सुखास्पद-पूर्वको योनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥२॥

यत्-सौभगं भगवता धरणी-भृतापिन प्राप्यते सुर-गिरिः स हि को वराकः ।नन्दः स्वयं वसति यत्र स-पुत्र-दारोनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥३॥

यत्र व्रजाधिप-पुरा-प्रतिम-प्रकाश-प्रासाद-मूर्ध-कलशोपरि-नृत्य-रङ्गी ।बर्हीक्ष्यते भुवि जयध्वज-केतु-भूतोनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥४॥

यच् छृङ्ग-सङ्गत-सुगन्ध-शिलाधिरूढःकृष्णः सतृष्ण-नयनः परितो व्रजाब्जम् ।आलोक्यते द्वि-षड्-उदार-दालाटवीस् ता नन्दीश्वरः स मद-मन्द-मुदं दधातु ॥५॥

जिग्ये यदीय-तट-राजि-सरोज-राजि-सौरभ्य-मञ्जुल-सरो-जल-शीकरेण ।त्रैलोक्य-वर्ति-वर-तीर्थ-यशो रसौघैर्नन्दीश्वरः स मद-मन्द-मुदं दधातु ॥६॥

यत्-तीर-सङ्गि-पवनैर् अभिमृश्यमानाःस्युः पावना अपि जनाः स्व-दशां परेषाम् ।सा पावनाख्य-सरसी यदु-पत्य-कायांनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥७॥

कृष्णाख्यम् अस्ति महद्-उज्ज्वल-नील-रत्नंसूते तद् एव वसु तत् स्वभुवैव दृष्टम् ।तल् लभ्यते सुकृतिनैव यदीय-सानौनन्दीश्वरः स मद-मन्द-मुदं दधातु ॥८॥

दुर्वासना-शत-वृतोऽपि भवत्-प्रयत्नःपद्याष्टकं पठति यः शिखरीश तुभ्यम् ।कृष्णाङ्घ्रि-पद्य-रस एव सदा स-तृष्णमेतं जनं कुरु गुरु-प्रणयं दधानम् ॥९॥

इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचिताश्री-नन्दीश्वराष्टकं समाप्तम्

॥।