(आर्य-शतकम्)
**[**मूल-ग्रन्थस्य केन्द्रीय-श्लोकः—
कदाहं सेविष्ये व्रतति-चमरी-चामर-मरुद्-
विनोदेन क्रीडा कुसुम-शयने न्यस्त-वपुषौ ।
दरोन्मीलन्-नेत्रौ श्रम-जल-कण-क्लिद्यद्-अलकौ
ब्रुवाणाव् अन्योन्यं व्रज-नव-युवानाव् इह युवाम् ॥
उत्कलिका-वल्लरी ५२**]**
श्री-कृष्ण उवाच—
चित्रम् इदं नहि यद् अहो वितरस्य् अधर-सुधां निकामं मे ।
अति कृपणोऽपि कदाचिद् वदान्यतमतां जनः प्रिये धत्ते ॥१॥
लयम् अपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते ।
अधर-सुधोत्तम-विद्यां विबुध-वरायाद्य मे देहि ॥२॥
स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्य् अतिस्निग्धे ।
मयि किम् अपूर्वां नादास् त्वम् इमां च यस्माद् विदुष्य् अहो तत्र ॥३॥
श्री-राधाह—
कुल-रमणी-तति-लज्जा-निर्मूलन-तन्त्र-कौशलोद्गारैः ।
प्रथयसि किम् उ निज-गर्वं ज्ञातं पाण्डित्यम् अस्ति ते तत्र ॥४॥
दैवाद् विपक्षताम् अपि मयि यान्त्या बत ममैव सहचर्या ।
न्यस्ताहं तव हस्ते कथम् अत्र गर्वो भवेन् न ते ॥५॥
अयम् अपि परमो धर्मः श्लाघा महती तवेयम् एवेष्टा ।
यौवन-फलम् अपि चेदं कुला-बला-पीडनं यद् अहो ॥६॥
श्री-कृष्ण आह—
स्मर-नरपति-वर-राज्ये धर्मः शर्म-प्रदोऽयम् आदिष्टः ।
वत्स्यायन-मुनि-निर्मित-पद्धत्य्-उक्तानुसारेण हि ॥७॥
अपि च—
अत्र प्रमाणम् इष्टं चेन् मद्-उक्तेऽपि न मन्यते किञ्चित् ।
भरत-मुनेः किल शास्त्रं शास्त्रान्तरम् अत्र को गणयेत् ॥८॥
विद्युति विद्युति-दायी श्लाघां मनुते पयोधरः स्वीयाम् ।
विद्युद् अपि स्वां सुषमां पयोधरे श्लाघयत्य् अधिकाम् ॥९॥
श्री-राधाह—
गोवर्धन-गिरि-कन्दर-वासी हरिर् असीति श्रुतं कतिधा ।
कुल-बाला-हरिणी-ततिर् अथापि गच्छत्य् अतो न ते दोषः ॥१०॥
किं कुर्मः स्वाचरितो धर्मस् त्यक्तुं कथं पुनः शक्यः ।
दिनकर-पूजन-विधिर् इह कुसुमावचये प्रवर्त्यते ॥११॥
श्री-कृष्ण आह—
वृन्दारण्य-पुरन्दरम् अपि मां न गिरापि कर्हिचिन् मनुषे ।
सूर्याराधन-गर्वस् तद् अयं राधे न ते भवेत् खर्वः ॥१२॥
गोवर्धन-गिरि-धारण-कारणम् ओजो न तेऽधिकं मनुते ।
तव सवयस्-ततिर् अपि स तवैक-कुच-शैल-गर्वेण ॥१३॥
श्री-राधाह—
न किल कुचौ मम शैलौ पश्याम्बुज-कोरकौ नवोत्पन्नौ ।
न तयोर् दलनं मरकत-शिलानिभेनोरसाऽद्य ते योग्यम् ॥१४॥
कौस्तुभ-मणिर् अतितरलः सरल-मतिः पुनर् अहं कुल प्रमदा ।
तद् अलम् अनेन धिनोतु त्वां निज-सदृशं भृशं हृदि-स्थस् ते ॥१५॥
श्री-कृष्ण आह—
सत्यम् अयं भय-तरलः कण्ठ-तटान्तं मम प्रिये श्रयते ।
दयते तव कुच-द्वयम् अधिकं सम्मर्दयत्य् अहो सद्यः ॥१६॥
श्री-राधाह—
तव खर-नखर-विदारण-सहनं कुचयोर् इयं वरा शक्तिः ।
किम् अत्र सम्भवति स्फुटम् अनयोः स्व-बल-प्रकाशनाटोपः ॥१७॥
श्री-कृष्ण आह—
मम खर-नखर-महाङ्कुश-घाताद् अपि शत-गुणं बलं लब्ध्वा ।
कोलाद् इव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥१८॥
श्री-राधाह—
कुच-पद्म-कुट्मल-युगं मर्दयति त्वां निजाति-दौरात्म्यात् ।
वृन्दावन-वर-सिन्धुर ननु दयसे त्वं निसर्ग-कारुण्यात् ॥१९॥
श्री-कृष्ण आह—
तन्वाते मुदम् उच्चैस् तावक-कुच-कोरकौ यद् इमौ ।
नख-चन्द्रोदयम् अधि किं स्व-योग्यम् अतुलं न शोभते प्रिये ॥२०॥
श्री-राधाह—
नखरानाम् अतिखरता-रताय ते तावकेन किल विधिना ।
व्रज-वनितानाम् अरुच्य रुषेव निरमायि किं नूनम् ॥२१॥
श्री-कृष्ण आह—
कुसुमाद् अपि मृदुलाङ्ग्याः कुचयोर् एवास्ति हन्त काठिन्यम् ।
इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥२२॥
श्री-राधाह—
हन्त कृतं बत किम् इदं सुरत-रसोन्मद-कुल-स्त्रियाः कदनम् ।
हारास् त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥२३॥
श्री-कृष्ण आह—
हारा बलाद् उरु-भाराः कृशम् अपि मध्यं च नह्यते काञ्ची ।
चिकुर-कदर्थन-भूता वेणी तद् इमा रक्षितुं न योग्याः ॥२४॥
श्री-राधाह—
ऊधो येन गिरीन्द्रस् तम् अपि न वहतो ममोरसो भारः ।
हारैर् भूषण-भूतैर् अभूद् इयं स्नेह-मुद्रा किम् ॥२५॥
कुच-गिरि-वहन-पटुत्वं कृशम् अपि मध्यं यतो बलाद् धत्ते ।
मणिमय-काञ्ची-बन्धाद् एव तम् ऋते दृढताऽस्य केन स्यात् ॥२६॥
उत्कर्षणाव् आकर्षण-पर्यायोदित-परस्परासक्त्या ।
प्रीतिर् इयं किल वेणी-चिकुराणां न च कदर्थनं वाच्यम् ॥२७॥
श्री-कृष्ण आह—
सत्यम् अहं गिरिधारी कर-नलिनाभ्यां गिरि-द्वयं धास्ये ।
मध्यस्यात्र पटुत्वैर् अलं बलं किल ममैवास्ताम् ॥२८॥
चिकुराणाम् अपि वेण्याः परस्परासक्तिः सूचिता ।
प्रीत्या किं फलम् इह यदि परिचरणं ते न कुर्वन्ति ॥२९॥
वेणी-बन्ध-विमुक्तश् चिकुर कलापोऽत्र वेल्लितो मरुता ।
चामरताम् उपयातः स्विन्नाङ्गीं वीजयत्य् अहो भवतीम् ॥३०॥
श्री-राधाह—
आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् ।
चित्रकम् अलिक-तटे तत्-क्षणेन विध्वंसितं भवता ॥३१॥
श्री-कृष्ण आह—
स्मित-मुखि रुचार्ध-विधुना सुचारु-भालेन मे मिलन्त्य् एषा ।
त्वद्-अलिक-विधु-रेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥३२॥
श्री-राधाह—
गण्ड-तटे मम मकरी श्यामा सरलाति-चित्रिताप्य् अबलाम् ।
मकर-द्वय-ताटङ्कश् चपलो धृष्टः कदर्थयत्य् एनाम् ॥३३॥
श्री-कृष्ण आह—
रमणि मम श्रुति-युगलं त्वद् उदित-सौध-द्रवैः प्लुतं तद् अपि ।
द्वि-गुणित-तृष्णं जातं लोलुपतायाः स्वरूपम् एवैतत् ॥३४॥
श्री-राधाह—
लोलुप-चूडामणिर् असि तवाङ्ग-वृन्दं च लोलुपं यद् अयम् ।
मन्-नयनाक्त-मसीम् अप्य् अधरो रागी स्व मण्डनं कुरुते ॥३५॥
श्री-कृष्ण आह—
बन्धूकान्तर-वर्तिनम् अलिनम् इवायं मसी-द्रवं धृत्वा ।
अक्ष्णोर् एव मुदं ते तनुते तद् इमं किम् आक्षिपसि ॥३६॥
श्री-राधाह—
वन्दे तव परिहसितं कं देवं परिचरस्य् अहो निभिऋतम् ।
यत् प्रसादाद् अधीता सौरत-विद्याति-चातुरी-धारा ॥३७॥
श्री-कृष्ण आह—
तव जघनोत्तम-सदनं सरसं देवं समुपचराम्य् अतुलम् ।
निभृत-निकुञ्ज-गृहस्थः प्रति दिनम् उचिताधिकार एवाहम् ॥३८॥
श्री-राधाह—
सत्यम् अतः स्वारूप्यं लब्ध्वा दृप्तः कुलाबला-नलिनीः ।
मलिनीः कुरुषे का तव नयने पतिता स्वकं पतिं भजताम् ॥३९॥
श्री-कृष्ण आह—
सखि तव निरावृतान्य् अतिरुचिरान्य् अङ्गान्य् अतीव सङ्कुचन्ति ।
सम्प्रति मन्-नयनान्तर् विशन्ति मन्दाक्ष-मग्नानि ॥४०॥
श्री-राधाह—
धृष्टतमे तव नयने यन् मित्रं कौस्तुभो द्युतिं तनुते ।
तद् इह मद्-अङ्गान्य् अधुना शरणं यान्तु त्वद्-अङ्गानाम् ॥४१॥
श्री-कृष्ण आह—
हित्वा सतृष-दृशौ मम वैराद् इव कौस्तुभं पराभूय ।
विशति तव स्तन-युगलं मद्-धृदयान्तः स्व-विक्रमं बिभ्रत् ॥४२॥
श्री-राधाह—
कठिनतमं तव हृदयं कुच-युगम् अपि मे प्रतीयते कठिनम् ।
तद् उचितम् अनयोर् मिलनं योग्यं योग्येन युज्यते यस्मात् ॥४३॥
श्री-कृष्ण आह—
मद्-उरः पक्ष-गता त्वं मम यद्य् अक्ष्नोर् विपक्षतां कुरुषे ।
तद् अपि तयोस् त्वद्-वदनं प्रकाम-सुभगं मुदं तनुते ॥४४॥
श्री-राधाह—
स्वच्छन्दं यदि रमसे रमस्व तत्राबलास्मि किं कुर्याम् ।
क्षिपसि दृशं यद् अलज्जं मद्-अपघने तत् कथं सहे कुलजा ॥४५॥
श्री-कृष्ण आह—
यदि मम दृष्ति-चकोर्या विधु-मुखि नैवोपलभ्यसे दैवात् ।
हृदय-गृहे खेलस्य् अपि तथापि हा ज्वलयसि प्रसभम् ॥४६॥
श्री-राधाह—
तव भुज-युग-दृढ-बन्धं वामापीहेऽन्यथा भवन्-नयने ।
निस्त्रप-शिरोमणे मां त्रपाम्बुधौ पातयिष्यतः प्रकटम् ॥४७॥
श्री-कृष्ण आह—
त्वन्-नयने च मद्-अक्ष्णोर् अन्तेवासित्वम् इच्छतः किन्तु ।
गर्वाद् इव न च पठतः प्रकटं प्रौढिः कियतो अहो यद् इयम् ॥४८॥
श्री-राधाह—
चेतः स्फुटति स्वयं च तथापि नयने न तादृशे भवतः ।
साध्वीनाम् इयम् उचिता एव निसर्ग-त्रपाकुलता ॥४९॥
श्री-कृष्ण आह—
सम्प्रति सत्यं ब्रूषे त्रपावतीनां शिरोमणिस् त्वम् असि ।
वत्स्यायन-तन्त्रोक्तः साध्वीनाम् अयम् एव धर्मः ॥५०॥
श्री-राधाह—
यद्य् अप्य् अरुन्धती सा साध्वी-गण-गण्य-गौरवा जगति ।
धर्मम् इमं पाठयितुं ताम् अपि शक्नोति ते नयनम् ॥५१॥
श्री-कृष्ण आह—
राढे द्विगुणित-शोभं मद्-आस्य-पङ्केरुहं ध्रुवं पिबतु ।
सम्प्रत्य् अपि निज-लोचन-मधुकर-युगं किं न सर्वथा दिशसि ॥५२॥
श्री-राधाह—
लावण्याद्भुत-वन्याम् अयं त्वद्-अङ्गं न शीलयत्य् अधिकम् ।
लोचन-शफर-युगं मम दृग्-अन्त-जालं यदा नु तत् क्षिपसि ॥५३॥
श्री-कृष्ण आह—
नूपुर-मङ्गल-वाद्य-ज्ञापित-मनसिज-नृपोत्सवामोदः ।
त्वरितम् उपयाति अलि-वन्दी कीर्तिं च तव प्रथयन् विराजते ॥५४॥
श्री-राधाह—
दयित नृपोऽस्य् अनुभूतः सत्यं मनसिज-परः-शतानां त्वम् ।
दिशि दिशि सतीषु विक्रम-विजयं शंसति तवैवायम् ॥५५॥
श्री-कृष्ण आह—
सुरत-महा-मख-भेरी त्रि-जगति गर्जंस् तवैष नूपुरः ।
तर्जति गर्ववतीस् ताः प्रकामम् अमराङ्गना अपि प्रसभम् ॥५६॥
श्री-राधाह—
रमण-महोदित-मद-भर-मत्ताहं किं ब्रवीमि ते चरितम् ।
स्तौषि मुहुर् नूपुरम् अपि नूपुर-मात्रावशिष्ट-भूषायाः ॥५७॥
श्री-कृष्ण आह—
किं कथ्यसे स्वयं बत रमण-महे त्वं समुद्धता सत्यम् ।
मद-भर-मत्त यन् निज-परिहित-वासोऽपि कुरुषे स्मरसात् ॥५८॥
श्री-राधाह—
स किल तवेष्टा देवता मदनः श्रद्धावतीर् अतो युवतीः ।
उपदिष्यैतन् मन्त्रं शिष्याः कुरुषे वितीर्ण-सर्वस्वाः ॥५९॥
श्री-कृष्ण आह—
त्वयि पुनर् असौ रसज्ञः स्मरोऽपि रोपित-मुदा वसति ।
यद् इदं कुच-हाटक सम्पुट-युगम् अस्य सर्वस्वम् ॥६०॥
श्री-राधाह—
एवं चेत् कथम् अनयोः कञ्चुकम् अथ मौक्तिकं लसद्-धारम् ।
मृगमद-चर्चां दलयसि कलयसि च कठिन-कराघातम् ॥६१॥
श्री-कृष्ण आह—
स्व-धन-व्यवहृति-समये हाटक-मय-सम्पुतस्य यद् दृष्टः ।
मङ्गल-भूषण-वसनोद्घाटो मुख-दार्ढ्यतः नखाघातः ॥६२॥
श्री-राधाह—
तद् व्यवहर्ता पुनर् अथ कृत्वा द्वि-गुणित-सुसम्भारम् ।
आवृत्यातिरहः-स्थं कुरुते सम्पुटम् इदं च भो दृष्टम् ॥६३॥
श्री-कृष्ण आह—
स्मर-मणि-सम्पुट-कुच-युगम् अधुनाप्य् उत्तानम् अस्ति तत्-कान्ते ।
हृदय-गृहं मम पूरय कृत्वाऽधो मुखम् इदं महा-रत्नैः ॥६४॥
श्री-राधाह—
विधिना विमृश्य निहितं यासाम् अबलेति नाम युक्तार्थम् ।
तासां कुच-सम्पुटयोर् अधो मुखी कृति-विधौ क्व वा शक्तिः ॥६५॥
श्री-कृष्ण आह—
कति न करग्रह-विधिना कुच-सम्पुटकान्तराहृत राधे ।
मोद-मणीनां ततयस् तद् अपि न मे पूर्यते हृदयम् ॥६६॥
श्री-राधाह—
व्रज-वनिताः शत-कोट्यस् तवैव ताः पण्डिताश् च रति-तन्त्रे ।
हृदयं तद् अपि रतौ बत रङ्कतमत्वं न ते त्यजति ॥६७॥
श्री-कृष्ण आह—
स्मर-शिखि-तप्ते मम हृदि सुकुमार्यस् ताः विशन्तु किं मुग्धाः ।
त्वम् अतिसमर्था प्रसभं प्रविश्य राजसि सदैवैका ॥६८॥
श्री-राधाह—
तद् अये स्व-रङ्ग-दाने स्वर्-अङ्गनास् ताः समानय क्षिप्रम् ।
तत्-तन्-नाम गृहीत्वा मुरली-गाने तवात्र को यत्नः ॥६९॥
श्री-कृष्ण आह—
नन्दन-वन-कुसुमाञ्चित-शिरोऽपि धर्तुं निजात्ययोग्यतया ।
तव पद-नख-तल-सविधे लज्जं ते सुर-वराङ्गना अपि ताः ॥७०॥
श्री-राधाह—
नाभी-विवर-वरान् मे समुद्गतेयं न कान्त-रोमाली ।
किन्तु प्रकुपित-भुजगी तद्-उन्मुखं किम् उ चिकीर्षसि स्व-करम् ॥७१॥
श्री-कृष्ण आह—
तव रोमाली-भुजगीं खेलयितुं मत्-करश् चलत्य् अभितः ।
भवद्-अखिलाङ्ग-गतान्य् अपि रोमान्य् उद्यान्ति किं रोद्धुम् ॥७२॥
श्री-राधाह—
मद्-अखिल-गात्र-भटा अपि यतः पराभवम् अवाप्य मुह्यन्ति ।
स्मर-रण-मत्ते त्वयि किं बत रोम्नां युज्यते युद्धम् ॥७३॥
श्री-कृष्ण आह—
वयम् अतिकृशाश् च तद् अपि प्रभवामोद्गम-विधाव् इति प्रकटम् ।
भवतीम् उद्गम-चर्यां रोम-भटाः स्मरयन्त्य् अहो चतुराः ॥७४॥
श्री-राधाह—
रति-रस-परवश ! सहते तेऽतथ्यं किं मे तनोर् अन्वयः ।
रमयस्व अतिवामाम् अपि तां न च दयसे कान्त्या वेदयसे ॥७५॥
श्री-कृष्ण आह—
स्मर-शर-राधे राधे समरे समरेखयाञ्चिते द्वितये ।
इह भवद्-अङ्ग-मद्-अङ्गे प्रतिभटम् अधुना धुनानेस् ताम् ॥७६॥
श्री-राधाह—
प्रस्वेदाम्बु वमन्ती घन-रस-सिक्तेव गात्र-वल्ली मे ।
दलितो ललिताकल्पस् तल्पश् च खण्डितो नो वा कतिधा ॥७७॥
श्री-कृष्ण आह—
मदन-घनाघन एष स्वेद-मिषाद् वर्षतीह तनु-वल्लीम् ।
घन-रस-भरैः प्रतिपदम् उदित-लसत्-कोरकां कान्ते ॥७८॥
श्री-राधाह—
प्रिय तव तरुणिम-जलधेर् अवधेर् अन्वेषणं कथं कुरुताम् ।
महिला-मति-मकरी तद् विरम्यतां रम्यतां रतं यातु ॥७९॥
श्री-कृष्ण आह—
अतिनिःश्वसित-समीरण-वेगाद् द्वि-गुणीभवन्-महा-वीचिम् ।
केलि-सुधा-सरितं नौ मानस-करिणौ मुहुर् मुहुर् भजताम् ॥८०॥
श्री-राधाह—
खेलति मनः-करी ते सत्यं प्रकटं स लक्ष्यते किन्तु ।
तत्रैक्यं मम मनसो ब्रूषे कोऽत्राभिप्रायस् ते ॥८१॥
श्री-कृष्ण आह—
श्रीमन्-मदन-सुरोत्तम-सेवा सम्सिद्धये तु नौ मनसी ।
ऐक्यम् अवाप्य त्वरया तत्र च सायुज्यम् ईहेते ॥८२॥
श्री-राधाह—
स्वस्मिन्न् एव तनोर् मम मनसश् चाप्य् एकदैव सायुज्यम् ।
प्रसभं कुरुषे देव त्वम् एव साक्षान् महा-मदनः ॥८३॥
श्री-कृष्ण आह—
सर्वस्वात्म-समर्पण-कारिण्यै ते मुदा मारः ।
स्वीयां मौक्तिक-मालाम् अलिके स्वेद-कण-व्याजाद् दत्ते ॥८४॥
श्री-राधाह—
त्वद्-अलक-निकरस् ताम् अपि नीत्वा स्तिम्यति हठाद् अयं चपलः ।
मदन-प्रसाद इत्य् अतिभाग्यं संश्लाघते स्वीयम् ॥८५॥
श्री-कृष्ण आह—
ताम्बूलामृत-रस-लव-लाभेनैवात्र गर्विते भवन्-नयने ।
अन्तर्-बहिर् अपि तद्-रस-मुदिते गण्डे कथं नु मे हसतः ॥८६॥
श्री-राधाह—
यत् सूचयसि रस-प्रिय तद् इदं स्वेनैव पाठितं तन्त्रम् ।
स्वयम् एव व्याचष्टे स भवान् इति किल नमस् तुभ्यम् ॥८७॥
श्री-कृष्ण आह—
मन्-मुख-पङ्केरुहम् अपि चित्रम् इदं यद् विकाशयस्य् अधिकम् ।
गुणवत्य् अतिसुरभितेन स्व-वदन-सुधाकर-सुधा-द्रवेण हि ॥८८॥
श्री-राधाह—
नील-निधेर् बत पोतो बिन्दु-व्याजेन रक्षितश् चिबुके ।
तम् अपि च भवद्-अधरोऽयं हृतवान् इति कति मृषाम्य् अनयम् ॥८९॥
श्री-कृष्ण आह—
अनुरागिणम् अपि सागसम् अधरं मे दण्डयस्य् अतः कोपात् ।
रदनास्त्रेण तद् अप्य् अभिमनुते लब्ध-प्रसादम् एवायम् ॥९०॥
श्री-राधाह—
अधि रदन-च्छन्दनं मे स्व-रदन-कीर्तिं न किं विचारयसि ।
युवती-सभासु चित्रं त्रपाकुलतमतेयं नु मयि सृष्टा ॥९१॥
श्री-कृष्ण आह—
विषमाशुग-रण-रङ्गे स्वाङ्गेनातुल पराक्रमा क्रमसे ।
दर्शय भुज-बलम् अयि भो मयि ते दयिते गुणावली फलतु ॥९२॥
श्री-राधाह—
तन्वीम् अपि तनुम् एतां मुहुर् अतिदार्ढ्येन वेष्टयते ।
त्वद्-भुज-भुजाङ्ग-पाशः श्वासो मे केवलं वलते ॥९३॥
श्री-कृष्ण आह—
सम्प्रति साक्षात्कारो मदनस्य स्याद् इतीव जानीमः ।
यन् नश् चेतस् त्वरते निरुपमम् अत्रैक-भावाय ॥९४॥
श्री-राधाह—
ताण्डव-पण्डित नितराम् अलम् अध्यापन-श्रमेण ते ।
मद्-अपघनाः स्वयम् एते चारण-चर्यासु यान्ति नैपुण्यम् ॥९५॥
श्री-कृष्ण आह—
मदन-महा-घन-घूर्णाघ्रातान्य् अङ्गानि नौ प्रिये युगपत् ।
श्वासोदित-जय-चतुरिम-भरम् अन्योन्यं दिशन्ति सोन्मादम् ॥९६॥
(श्री ग्रन्थ-कर्ताह—)
लोचन-मीन-चतुष्टयम् अधुना निष्पन्दताम् उरीकुरुते ।
रस-भर-विस्मय-मत्ते नैसर्गिक-चेष्टित-स्मृतिः किं स्यात् ॥९७॥
चन्दन-नलद-सुधांशु-द्रव-मय-जल-यन्त्र-वेश्म-मध्य-स्थे ।
स्थल-जलरुह-दल-कल्पित-तल्पेऽसुप्तां रत-श्रान्तौ ॥९८॥
क्रम-वलितैर् निःश्वसितैः सुरभयतोः स्वामिनोर् अथान्योन्यम् ।
निद्रा-वृद्धिम् अवेत्य प्रमोद-सिन्धाव् अयं जनः प्लवताम् ॥९९॥
सुरत-कथामृतम् आर्य-शतकं नत-कन्धरो जनो जुषताम् ।
रत-सुख-धाम-गवाक्ष-श्रित-नयनः स्वामिनोर् अहो कृपया ॥१००॥
प्रविशतु शनैः शनैर् अथ मूकित-नूपुरं जनस् तत्र ।
गात्रे निभाल्य यूनोः स्व-वलय-राजीं पिधाय बध्नातु ॥१०१॥
कम्पन-चकितैर् अलिभिस् त्यक्तुम् अशक्येन ताल-वृन्तेन ।
वीजयतु श्रम-सलिलं प्रत्यङ्गं शोषितं निरूपयतु ॥१०२॥
राधा-कुण्ड-तट-वास-महा-सम्पदं मदः सोऽयम् ।
किम् उ वाञ्छितम् अतिदुर्लभ-वस्तुनि तम् ऋते ममास्तु सम्भाव्यम् ॥१०३॥
अष्टमक् अधिक-रहस्य-व्यञ्जकं मथ्नन् निबध्यतेऽत्र शतके ।
तादृश-भाव-विभावित-हृदयेनैवास्तु तत् सेव्यम् ॥१०४॥
ख-वियद्-ऋतु-क्षमा-गणिते शाके वृष-संस्थिते दिवाधीशे ।
सुरत-कथामृतम् उदगद् उदयतां च भक्त-हृन्-नभसि ॥१०५॥
इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितः
सुरत-कथामृतं समाप्तम् ॥
…