२१ श्री-रूप-चिन्तामणिः

छत्रं शक्ति-यवाङ्कुशं पवि-चतुर्-जम्बू-फलं कुण्डलंवेदी-दण्ड-गदा-रथाम्बुज-चतुः-स्वस्तिं च कोणाष्टकम् ।शुद्धं पर्वतं ऊर्ध्व-रेखामलोऽङ्गष्ठात् कनिष्ठावधेर्बिभ्रद्-दक्षिण-पाद-पद्मम् अमलं शच्य्-आत्मज-श्री-हरेः ॥१॥

शङ्खाकाश-कमण्डलुं ध्वज-लता-पुष्प-स्रग्-अर्धेन्दुकंचक्रं निर्ज्य-धनुस्-त्रिकोण-वलया-पुष्पं चतुस्कुम्भकम् ।मीनं गोष्पद-कूर्मम् आसुहृदयाङुष्ठात् कनिष्ठावधेर्बिभ्रद्-सव्य-पदाम्बुजं भगवतो विश्वम्भरस्य स्मर ॥२॥

यवम् अङ्गुष्ठ-मूले च तत्-तले चातपत्रकम् ।अङ्गुष्ठ-तर्जनी-सन्धि-भाग-स्थां ऊर्ध्व-रेखिकाम् ॥३॥

सुकुञ्जिकां सूक्ष्म-रूपां स्मर रे मे मनः सदा ।तर्जन्यास् तु तले दण्डं वारिजं मध्यमा-तले ॥४॥

तत्-तले पर्वताकारं तत्-तले च रथं स्मर ।रथस्य दक्षिणे पार्श्वे गदां वामे च शक्तिकाम् ॥५॥

कनिष्ठायास् तलेऽङ्कुशं तत्-तले कुलिशं स्मर ।वेदिकां तत्-तले व्याप्तां तत्-तले कुण्डलं ततः ॥६॥

एषां चिह्न-तले दीप्तं स्वस्तिकानां चतुष्टयम् ।अष्ट-कोण-समायुक्तं सन्धौ जम्बू-चतुष्टयम् ॥७॥

असव्याङ्घ्रौ महा-लक्ष्म स्मर गौर-हरेर् मनः ।अथ वाम-पदाङ्गुष्ठ-मूले शङ्खं तले पविम् ॥८॥

मध्यमा-तलयाकाशं तद्-द्वयाधो धनुः स्मर ।गुणेन रहितं चापं वलयां मणि-मूलके ॥९॥

कनिष्ठायास् तले चैकं सुशोभन-कमण्डलुम् ।तस्य तले गोष्पदाख्यं सत्-पताकां ध्वजां पुनः ॥१०॥

चिन्तय तत्-तले पुष्पं वल्लीं तस्य तले स्मर ।गोष्पदस्य तलेऽप्य् एकं त्रिकोणाकृति-मण्डलम् ॥११॥

चिन्तय तत्-तले कुम्भान् चतुरः समनोरमान् ।तेषां मध्ये चार्ध-चन्द्रं तले कूर्मं सुशोभनम् ॥१२॥

शफरीं तत्-तले रम्यां तस्यापि दक्षिणे पुनः ।कूर्मस्य तुल्य-भागे तु निम्ने घट-तलेऽपि च ॥१३॥

मनोरमां पुष्प-मालां स्मर वामाङ्घ्रि-पङ्कजे ।इति द्वात्रिंशच्-चिह्नानि गौराङ्गस्य पदाब्जयोः ॥१४॥

इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यांश्री-रूप-चिन्तामणिः सम्पूर्णः

॥।