तडिच्-चम्पक-स्वर्ण-काश्मीर-भासःस्व-कान्त्या भृशं दण्डयित्र्या विलासः ।स्वरूपस्य तस्यास् तु वर्ण्यःसुबोध-द्रवो नाम-वर्णोऽपि कर्ण्यः ॥१॥
प्रफुल्ल-कुसुम-प्रभा-द्योतितानां
लसच्-चन्द्रिका-प्रोत-मेघोपमानाम् ।
कचानां स-चातुर्य-बन्धेयम् एणी-
दृशः सच्-चमर्याग्रिमा भाति वेणी ॥२॥
महान् अर्घ्य-चूडामणी-काम-लेखा-
प्लुता राजते चारु-सीमन्त-रेखा ।
उडु-द्योति-मुक्तैक-पङ्क्तिं वहन्ती
किम् आस्येन्दु-सौधैक-धारोच्चलन्ती ॥३॥
नवेन्दूपमे पत्रपाश्या-प्रभाले
सुलीलालकाली-वृते चारु-भाले ।
मदेनान्तरा चित्रितं चित्रकं तत्
विभात्य् अच्युतातृप्त-नेत्रैक-सम्पत् ॥४॥
अतिश्यामला विज्य-कन्दर्प-चाप-
प्रभाजिष्णुतां भ्रू-द्वयी कुञ्चिताप ।
मुखाम्भोज-माध्वीक-पानाद् अभीष्टाद्
अचेष्टालि-पङ्क्तिः किम् एषा निविष्टा ॥५॥
सफर्याव् इव प्रेष्ठ-लावण्य-वन्ये-
प्सिते राजतस् ते दृशौ हन्त धन्ये ।
लसत्-कज्जलाक्ते तयोः श्याम-पक्ष्म
क्वचिद् विन्दते कान्त-ताम्बूल-लक्ष्म ॥६॥
तडित्-कन्दली मूर्ध्नि नक्षत्र-युक्ता
स्थिराधः-सुधा-बुद्बुद-द्वन्द्व-सक्ता ।
यदि स्यात् सरोजान्तरे तां च भासा
मृगाक्ष्यास् तिरस्कुर्वती भाति नासा ॥७॥
कपोलाक्षि-बिम्बाधर-श्री-विषक्तं
बह्वेन् मौक्तिकं पीत-नीलातिरक्तम् ।
स्मितोद्यत्-पुटोदीर्ण-माधुर्य-वृष्टिर्
लसत्य् अच्युत-स्वान्त-तर्षैक-सृष्टिः ॥८॥
लसत्-कुण्डले कुण्डली-भूय मन्ये
स्थिते काम-पाशायुधे हन्त धन्ये ।
श्रुती रत्न-चक्री-शलाकाञ्चिताग्रे
दृशौ कर्षतः श्री-हरये समग्रे ॥९॥
अतिस्वच्छम् अन्तःस्थ-ताम्बूल-राग-
च्छटोद्गारि शोभाम्बुधौ किं ललाग ।
कपोल-द्वयं लोल-ताटङ्क-रत्न-
द्युमच्-चुम्बितं प्रेयसो यत्र यत्नः ॥१०॥
स्फुटद्-बन्धुजीव-प्रभा-हारिद्-अन्त-
च्छद-द्वन्द्वम् आभाति तस्या यद्-अन्तः ।
स्मित-ज्योत्स्नया क्षालितं या स-तृष्णं
चकोरी-करोत्य् अत्यन्वहं हन्त कृष्णम् ॥११॥
न सा विन्दते पाकिम् आरुण्य-भाजि-
च्छविर् यत् तुलां दाडिमी-बीज-राजिः ।
कथं वर्ण्यतां या त्व् इयं दन्त-पङ्क्तिर्
मुकुन्दाधरे पौरुषं या व्यनक्ति ॥१२॥
मुखाम्भोज-माधुर्य-धारा वहन्ती
यद्-अन्तः कियन् निम्नतां प्रापयन्ती ।
किम् एषा कस्तूरिका-बिन्दु-भृत् तं
हरिं किं दधानं विभात्य् आसावृत्तम् ॥१३॥
स कण्ठस् तडित्-कम्बु-सौभाग्य-हारी
त्रि-रेखः पिक-स्तव्य-सौस्वर्य-धारी ।
स्रजं मालिकां मालिकां मौक्तिकानां
दधत्य् एव यः प्रेयसा गुम्फितानाम् ॥१४॥
उरोज-द्वयं तुङ्गता-पीनताभ्यां
समं सख्य-युक् कृष्ण-पाण्य्-अम्बुजाभ्याम् ।
नखेन्दुर् यदोदेतुम् इच्छां विधत्ते
तदा कञ्चुकी कालिका नापि धत्ते ॥१५॥
म्रदिम्णा शिरीषस्य सौभाग्य-सारं
क्षिपन्त्या वहन्त्या भुजाभोग-भारम् ।
तुला-शून्य-सौन्दर्य-सीमां दधत्या
निज-प्रेयसेऽजस्र-सौख्यं ददत्याः ॥१६॥
श्रितायाः स्व-कान्त-स्वतां कम्र-गात्र्याः
श्रियाः श्री-विलासान् भृशं खर्वयन्त्याः ।
गतांस-द्वयी सौभगैकान्त-कान्तं
यदा पाणिनोत्क्रामयेत्**1 सालकान्तम् ॥१७॥**
तडिद्-धाम-भृत्-कङ्कणानद्ध-सीमा
घन-द्योत-चूडावली सास्त्र-सीमा ।
चकास्ति प्रकोष्ठ-द्वये या स्वनन्ती
स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥१८॥
तद् भाति रक्तोत्पल-द्वन्द्व-शोचिस्-
तिरस्कारि-पाणि-द्वयं यत्र रोचिः ।
शुभाङ्कावलेः सौभगं यद् व्यनक्ति
प्रियान्तर्-हृदि स्थापने यस्य शक्तिः ॥१९॥
(चतुर्भिः कुलकम्)
नख-ज्योतिषा भान्ति ताः पाणि-शाखाः
करोत्य् ऊर्मिकालङ्कृता या विशाखा ।
समासज्य कृष्णाङ्गुलीभिर् विलासस्
तद् आसां यदा राजते हन्त रासः ॥२०॥
जनित्वैव नाभि-सरस्य् उद्गता सा
मृणालीव रोमावलिर् भाति भासा ।
स्तन-च्छद्मनैवाम्बुजाते यद्-अग्रे
मुखेन्दु-प्रभा-मुद्रिते ते समग्रे ॥२१॥
कृशं किं नु शोकेन मुष्ति-प्रमेयं
न लेभे मणि-भूषणं यत् पिधेयम् ।
निबद्धं वलीभिश् च मध्यं तथापि
स्फुटं तेन सुस्तव्य-सौन्दार्यम् अपि ॥२२॥
क्वनत्-किङ्किणी-मण्डितं श्रोणी-रोधः
परिस्फारि यद्-वर्णने क्वास्ति बोधः ।
कियान् वा कवेर् हन्त यत्रैव नित्यं
मुकुन्दस्य दृक्-खञ्जनोऽवाप नृत्यम् ॥२३॥
प्रियानङ्ग-केलि-भरैकान्त-वाटी-
पटीव स्फुरत्य् अञ्चिता पट्ट-शाटी ।
विचित्रान्तरीयोपरि श्रि-भरेण
क्षिपन्ती नवेन्दीवराभाम्बरेण ॥२४॥
कदल्याव् इवानङ्ग-माङ्गल्य-सिद्धौ
समारोपिते श्रीमद्-ऊरू समृद्धौ ।
विभातः परं वृत्तता-पीनताभ्यां
विलासैर् हरेः चेतनाहारि याभ्याम् ॥२५॥
विराजत्य् अहो जानु-युग्मं पटान्तः
समाकर्षति द्राग् अथाप्य् अच्युतान्तः ।
यदालक्ष्यते तत्र लावण्य-सम्पत्
सुव्रित्तं लसत्-कानकं सम्पुटं तत् ॥२६॥
तनुत्वं क्रमान् मूलतश् चारु-जङ्घे
प्रयातः परिप्राप्त-सौभाग्य-सङ्घे ।
पदाम्भोजयोर् नालता धारयन्त्यौ
स्वभाम् अन्तरीयान्तरे गोपयन्त्यौ ॥२७॥
जयत्य् अङ्घ्रि-पङ्केरुह-द्वन्द्वम् इष्टं
दलाग्रे नखेन्दु-व्रजेनापि हृष्टम् ।
क्वनन्-नूपुरं हंसकाराव-भक्तम्
हरिं रञ्जयत्य् एव लाक्षा-रसाक्तम् ॥२८॥
दराम्भोज-ताटङ्क-वल्ली-रथद्यैर्
महा-लक्षनैर् भव्य-वृन्दाभिवाद्यैः ।
युतं यत् तलं मार्दवारुण्य-शालि
स्मृतं यद् भवेद् अच्युताभीष्ट-पालि ॥२९॥
प्रिये श्यामलो लेढु-भृङ्गो नलिन्या
मरन्दं परं दन्दशीति क्षुदन्या ।
यद् एतं बतेत्य् अच्युतोक्त्याञ्चलान्तर्
मुखाब्जे सितेन्दुं दधे सालकान्तः ॥३०॥
तम् आलम्ब्य लब्धौजसो माधवस्य
स्फुटं पाणि-चापल्यम् अल्पं निरस्य ।
तया स्वाधरः साधु कर्पूर-लिप्तः
कृतो नेति नेत्य् अक्षरोद्गार-दीप्तः ॥३१॥
स जागर्ति तस्याः परिवार-चेतस्-
तटेऽनुक्षणं रम्य-लीला-समेतः ।
अथाप्य् अष्ट-यामिक्य् अमुष्याः सपर्या
यथा-कालम् आचर्यते तेन वर्या ॥३२॥
इति श्री-विश्वनाथ-चक्रवर्ति- ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-राधिका-ध्यानामृत-स्तोत्रं सम्पूर्णम् ।
॥।
-
-ओत्कामयेत् इति पाठान्तरः। ↩︎