गाङ्गेय-चाम्पेय-तडिद्-विनिन्दि-
रोचिः-प्रवाह-स्नपितात्म-वृन्दे! ।
बन्धूक-बन्धु-द्युति-दिव्य-वासो
वृन्दे! नुमस् ते चरणारविन्दम् ॥१॥
बिम्बाधरोदित्वर-मन्द-हास्य-
नासाग्र-मुक्ता-द्युति-दीपितास्ये ।
विचित्र-रत्नाभरणा-श्रियाढ्ये!
वृन्दे! नुमस् ते चरणारविन्दम् ॥२॥
समस्त-वैकुण्ठ-शिरोमणौ श्री-
कृष्णस्य वृन्दावन-धन्य-धाम्नि ।
दत्ताधिकारे वृषभानु-पुत्र्या
वृन्दे! नुमस् ते चरणारविन्दम् ॥३॥
त्वद् आज्ञया पल्लव-पुष्प-भृङ्ग
मृगादिभिर् माधव-केलि-कुञ्जाः ।
मध्वादिभिर् भान्ति विभूष्यमाणा
वृन्दे! नुमस् ते चरणारविन्दम् ॥४॥
त्वदीय-दूत्येन निकुञ्ज-युनोर्
अत्युत्कयोः केलि-विलास-सिद्धिः ।
त्वत्-सौभगं केन निरुच्यतां तद्
वृन्दे! नुमस् ते चरणारविन्दम् ॥५॥
रासाभिलाषो वसतिश् च वृन्दा-
वने त्वद्-ईशाङ्घ्रि-सरोज-सेवा ।
लभ्या च पुंसां कृपया तवैव
वृन्दे! नुमस् ते चरणारविन्दम् ॥६॥
त्वं कीर्त्यसे सात्वत-तन्त्रा-विद्भिर्
लीलाभिधाना किल कृष्ण-शक्तिः ।
तवैव मूर्तिस् तुलसी नृ-लोके
वृन्दे! नुमस् ते चरणारविन्दम् ॥७॥
भक्त्या विहीना अपराध-लक्षैः
क्षिप्ताश् च कामादि-तरङ्ग-मध्ये ।
कृपामयि! त्वां शरणं प्रपन्ना
वृन्दे! नुमस् ते चरणारविन्दम् ॥८॥
वृन्दाष्टकं यः शृणुयात् पठेद् वा
वृन्दावनाधीश-पदाब्ज-भृङ्गः ।
स प्राप्य वृन्दावन-नित्य-वासं
तत्-प्रेम-सेवां लभते कृतार्थः ॥९॥
॥।