देहार्बुदानि भगवान्! युगपत् प्रयच्छ
वक्त्रार्बुदानि च पुनः प्रतिदेहम् एव ।
जिह्वार्बुदानि कृपया प्रतिवक्त्रम् एव
नृत्यन्तु तेषु तव नाथ! गुणार्बुदानि ॥१॥
किम् आत्मना? यत्र न देह-कोट्यो
देहेन किं? यत्र न वक्त्र-कोट्यः ।
वक्त्रेण किं? यत्र न कोटि-जिह्वाः
किं जिह्वया? यत्र न नाम-कोट्यः ॥२॥
आत्मास्तु नित्यं शत-देह-वर्ती
देहस्तु नाथास्तु सहस्र-वक्त्रः ।
वक्त्रं सदा राजतु लक्ष-जिह्वं
गृह्णातु जिह्वा तव नाम-कोटिम् ॥३॥
यदा यदा माधव! यत्र यत्र
गायन्ति ये ये तव नाम-लीलाः ।
तत्रैव कर्णायुत-धार्यमाणा-
स्तास्ते सुधा नित्यम् अहं धयानि ॥४॥
कर्णायुतस्यैव भवन्तु लक्ष-
कोट्यो रसज्ञा भगवंस् तदैव ।
येनैव लीलाः शृणवानि नित्यं
तेनैव गायानि ततः सुखं मे ॥५॥
कर्णायुतस्येक्षट-कोटिरस्या
हृत्-कोटिरस्या रसनार्बुदं स्तात् ।
श्रुत्वैव दृष्ट्वा तव रूप-सिन्धु-
मालिङ्ग्य माधुर्यम् अहो! धयानि ॥६॥
नेत्रार्बुदस्यैव भवन्तु कर्ण-
नासा-रसज्ञा हृदयार्बुदं वा ।
सौन्दर्य-सौस्वर्य-सुगन्ध-पूर-
माधुर्य-संश्लेष-रसानुभूत्यै ॥७॥
त्वत्-पार्श्व-गत्यै पद-कोटिर् अस्तु
सेवां विधातुं मम हस्त-कोटिः ।
तां शिक्षितुं स्ताद् अपि बुद्धि-कोटि-
रेतान् वरान् मे भगवन्! प्रयच्छ ॥८॥
…