१७ श्री-जगन्-मोहनाष्टकम्

गुञ्जावली-वेष्टित-चित्र-पुष्प-चूडा-वलन्-मञ्जुल-नव्य-पिञ्छम् ।गोरोचना-चारु-तमाल-पत्रंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥१॥

भ्रू-वल्गनोन्मादित-गोप-नारी-कटाक्ष-बाणावलि-विद्ध-नेत्रम् ।नासाग्र-राजन्-मणि-चारु-मुक्तंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥२॥

आलोल-वक्रालक-कान्ति-चुम्बि-गण्ड-स्थल-प्रोन्नत-चारु-हास्यम् ।वाम-प्रगण्डोच्चल-कुण्डलान्तंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥३॥

बन्धूक-बिम्ब-द्युति-निन्दि-कुञ्चत्-प्रान्ताधर्-भ्राजित-वेणु-वक्त्रम् ।किञ्चित् तिरश्चीन-शिरोऽधिभातंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥४॥

अकुण्ठ-रेखा-त्रय-राजि-कण्ठ-खेलत्-स्वरालि-श्रुति-राग-राजिम् ।वक्षः-स्फुरत्-कौस्तुभम् उन्नतांसंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥५॥

आजानुराजद्-वलयाङ्गदाञ्चि-स्मरार्गलाकार-सुवृत्त-बाहुम् ।अनर्घ-मुक्ता-मणि-पुष्प-मालंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥६॥

श्वासैजद्-अश्वत्थ-दलाभ-तुन्द-मध्यस्थ-रोमावलि-रम्य-रेखम् ।पीताम्बरं मञ्जुल-किञ्किणीकंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥७॥

व्यत्यस्त-पादं मणि-नूपुराढ्यंश्यामं त्रिभङ्गं सुर-शाखि-मूले ।श्री-राधया सार्धम् उदार-लीलंवन्दे जगन्-मोहनम् इष्ट-देवम् ॥८॥

श्रीमज्-जगन्-मोहन-देवम् एतत्पद्याष्टकेन स्मरतो जनस्य ।प्रेमा भवेद् येन तद्-अङ्घ्रि-साक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥९॥

इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-जगन्-मोहनाष्टकंसम्पूर्णम्