१६ श्री-श्री-स्वयंभगवत्त्वाष्टकम्

स्व-जन्मन्य् ऐश्वर्यं बलम् इह वधे दैत्य-विततेर्

यशः पार्थ-त्राणे यदु-पुरि महा-सम्पदम् अधात् ।

परं ज्ञानं जिष्णौ मुषलम् अनु वैराग्यम् अनु यो

भगैः षड्भिः पूर्णः स भवतु मुदे नन्द-तनयः ॥१॥

चतुर्बाहुत्वं यः स्व-जनि समये यो मृद्-अशने

जगत्-कोटीं कुक्ष्य्-अन्तर-परिमितत्वं स्व-वपुषः ।

दधि-स्फोटे ब्रह्मण्य् अतनुत परानन्त-तनुतां

महैश्वर्यः पूर्णः स भवतु मुदे नन्द-तनयः ॥२॥

बलं बक्यां दन्त-च्छदन-वरयोः केशिनि नृगे

निऋपे बाह्वोर् अङ्घ्रेः फणिनि वपुषः कंस-मरुतोः ।

गिरित्रे दैत्येष्व् अप्य् अतनुत निजास्त्रस्य यद् अतो

महौजोभिः पूर्णः स भवतु मुदे नन्द-तनयः ॥३॥

असङ्ख्यातो गोप्यो व्रज-भुवि महिष्यो यदु-पुरे

सुताः प्रद्युम्नाद्याः सुर-तरु-सुधर्मादि च धनम् ।

बहिर् द्वारि ब्रह्माद्यापि बलिवहं स्तौति यद् अतः

श्रियां पूरैः पूर्णः स भवतु मुदे नन्द-तनयः ॥४॥

यतो दत्ते मुक्तिं रिपु-विततये यन् नर-जनिर्

विजेता रुद्रादेर् अपि नत-जनाधीन इति यत् ।

सभायां द्रौपद्या वरकृद् अतिपूज्यो नृप-मखे

यशोभिस् तत् पूर्णः स भवतु मुदे नन्द-तनयः ॥५॥

न्यधाद् गीता-रत्नं त्रिजगद् अतुलं यत् प्रिय-सखे

परं तत्त्वं प्रेम्णोद्धव-परम-भक्ते च निगमम् ।

निज-प्राण-प्रेस्ठास्व् अपि रस-भृतं गोप-कुलजास्व्

अतो ज्ञानैः पूर्णः स भवतु मुदे नन्द-तनयः ॥६॥

कृतागस्कं व्याधं सतनुम् अपि वैकुण्ठम् अनयन्

ममत्वस्यैकाग्रान् अपि परिजनान् हन्त विजहौ ।

यद्यप्य् एते श्रुत्या धुवतनुतयोक्तास् तद् अपि हा

स्व-वैराग्यैः पूर्णः स भवतु मुदे नन्द-तनयः ॥७॥

अजत्वं जन्मित्वं रतिर् अरतितेहारहितता

सलीलत्वं व्याप्तिः परिमितिर् अहंता-ममतयोः ।

पदे त्यागात्यागाव् उभयम् अपि नित्यं सद् उररी-

करोतीशः पूर्णः स भवतु मुदे नन्द-तनयः ॥८॥

समुद्यत्-सन्देह-ज्वर-शत-हरं भेषज-वरं

जनो यः सेवेत प्रथित-भगवत्त्वाष्टकम् इदम् ।

तद्-ऐश्वर्य-स्वादैः स्व-धियम् अतिवेलं सरसयन्

लभेतासौ तस्य प्रिय-परिजनानुग्य-पदवीम् ॥९॥

इति श्री-विश्वनाथ-चक्रवर्ति- ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-श्री-स्वयं-भगवत्त्वाष्टकं सम्पूर्णम् ।