कोटि-कन्दर्प-सन्दर्प-विध्वंसन-स्वीय-रूपामृताप्लावित-क्ष्मा-तल ।भक्त-लोकेक्षणं सक्षणं तर्षयन्गोकुलानन्द गोविन्द तुभ्यं नामः ॥१॥
यस्य सौरभ्य-सौलभ्य-भाग् गोपिका-भाग्य-लेशाय लक्ष्म्यापि तप्तं तपः ।निन्दितेन्दीवर-श्रीक तस्मै मुहुर् गोकुलानन्द गोविन्द तुभ्यं नामः ॥२॥
वंशिका-कण्ठयोर् यः स्वरस् ते स चेत्ताल-रागादिमान् श्रुत्य्-अनुभ्राजितः ।का सुधा ब्रह्म किं का नु वैकुण्ठ-मुद्गोकुलानन्द गोविन्द तुभ्यं नामः ॥३॥
यत् पद-स्पर्श-माधुर्य-मज्जत्-कुचाधन्यतां यान्ति गोप्यो रमातोऽप्य् अलम् ।यद् यशो दुन्दुभेर् घोषणा सर्व-जिद्गोकुलानन्द गोविन्द तुभ्यं नामः ॥४॥
यस्य फेलालवास्वादने पात्रतांब्रह्म-रुद्रादयो यान्ति नैवान्यके ।आधरं शीधुम् एतेऽपि विन्दन्ति नोगोकुलानन्द गोविन्द तुभ्यं नामः ॥५॥
यस्य लीलामृतं सवथाकर्षकंब्रह्म-सौख्याद् अपि स्वादु सर्वे जगुः ।तत्-प्रमाणं स्वयं व्यास-सूनुः शुकोगोकुलानन्द गोविन्द तुभ्यं नामः ॥६॥
यत् षड्-ऐश्वर्यम् अप्य् आर्य-भक्तात्मनिध्यातम् उद्यच्-चमत्कारम् आनन्दयेत् ।नाथ तस्मै रसाम्भोधये कोटिशोगोकुलानन्द गोविन्द तुभ्यं नामः ॥७॥
गोकुलानन्द-गोविन्द-देवाष्टकंयः पठेन् नित्यम् उत्कण्ठितस् त्वत्-पदोः ।प्रेम-सेवाप्तये सोऽचिरान् माधुरी-सिन्धु-मज्-जन्मना वाञ्छितं विन्दताम् ॥८॥
इति श्री-विश्वनाथ-चक्रवर्ति-ठक्कुर-विरचित-स्तवामृत-लहर्यांश्री-गोकुलनन्द-गोविन्द-देवाष्टकं सम्पूर्णम्
॥।