प्रिये ! स्वप्ने दृष्टा सरिदिन-सुतेवात्र पुलिनंयथा वृन्दारण्ये नटन-पटवस् तत्र बहवः ।मृदङ्गाद्यं वाद्यं विविधम् इह कश्चिद् द्विजमणिःस विद्युद्-गौराङ्गः क्षिपति जगतीं प्रेम-जलधौ ॥१॥
कदाचित् कृष्णेति प्रलपति रुदन् कर्हिचिद् असौक्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम् ।नटत्य् उल्लासेन क्वचिद् अपि गणैः स्वैः प्रणयिभिस्तृणादि-ब्रह्मान्तं जगद् अतितरां रोदयति सः ॥२॥
ततो बुद्धिर् भ्रान्ता मम समजनि प्रेक्ष्य किम् अहोभवेत् सोऽयं कान्तः किम् अयम् अहम् एवास्मि न परः ।अहं चेत् क्व प्रेयान् मम स किल चेत् क्वाहम् इति मेभ्रमो भूयो भूयान् अभवद् अथ निद्रां गतवती ॥३॥
प्रिये ! दृष्ट्वा तास् ताः कुतुकिनि मया दर्शित-चरीरमेशाद्या मूर्तीर् न खलु भवती विस्मयम् अगात् ।कथं विप्रो विस्मापयितुम् अशकत् त्वां तव कथंतथा भ्रान्तिं धत्ते स हि भवति को हन्त किम् इदम् ॥४॥
इति प्रोच्य प्रेष्ठां क्षणम् अथ परामृष्य रमणोहसन्न् आकूतज्ञं व्यनुदद् अथ तं कौस्तुभ-मणिम् ।तथा दीप्तं तेने सपदि स यथा दृष्टम् इव तद्विलासानां लक्ष्मं स्थिर-चर-गणैः सर्वम् अभवत् ॥५॥
विभाव्याथ प्रोचे प्रियतम मया ज्ञातम् अखिलंतवाकूतं यत् त्वं स्मितम् अतनुथास् तत् त्वम् असि सः ।स्फुटं यन् नावदीर् यद् अभिमतिर् अत्राप्य् अहम् इतिस्फुरन्ती मे तस्माद् अहम् अपि स एवेत्य् अनुमिमे ॥६॥
यद् अप्य् अस्माकीनं रति-पदम् इदं कौस्तुभ-मणिंप्रदीप्यात्रैवादीदृशद् अखिल-जीवान् अपि भवान् ।स्व-शक्त्याविर्भूय स्वम् अखिल-विलासं प्रतिजनंनिगद्य प्रेमाब्धौ पुनर् अपि तद् आधास्यसि जगत् ॥७॥
यद् उक्तं गर्गेण व्रज-पति-समक्षं श्रुति-विदाभवेत् पीतो वर्णः क्वचिद् अपि तवैतन् न हि मृषा ।अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिर् अभवत्त्वम् एवासौ साक्षाद् इह यद् अनुभूतोऽसि तद् ऋतम् ॥८॥
पिबेद् यस्य स्वप्नामृतम् इदम् अहो चित्त-मधुपःस सन्देह-स्वप्नात् त्वरितम् इह जागर्ति सुमतिः ।अवाप्तश् चैतन्यं प्रणय-जलधौ खेलति यतोभृशं धत्ते तस्मिन्न् अतुल-करुणां कुञ्ज-नृपतिः ॥९॥
इति श्री-विश्वनाथ-चक्रवर्ति- ठक्कुर-विरचित-स्तवामृत-लहर्यां श्री-स्वप्न-विलासामृताष्टकं सम्पूर्णम् ।
॥।